उच्चारण स्थानं – Uccharana Sthanam
अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ऎ ए ऐ ऒ ओ औ अं अः क ख ग घ ङ च छ ज झ ञ
ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ऱ ल ळ ऴ व श ष स ह क्ष त्र ज्ञ।।
स्थानकरणप्रयत्नेभ्यो वर्णास्त्रिषष्टिः।।
तत्र स्थानं तावत् । १ ।
Read Next
अकुहविसर्जनीयाः कण्ठ्याः । २ ।
हविसर्जनीयावुरस्यावेकेषाम् । ३ ।
जिह्वामूलीयो जिह्व्यः । ४ ।
कवर्गावर्णानुस्वारजिह्वामूलीया जिह्व्या एकेषाम् । ५ ।
Read Next
सर्वमुखस्थानमवर्णमेके । ६ ।
इचुयशास्तालव्याः । ७ ।
ऋटुरषा मूर्धन्याः । ८ ।
Read Next
रो दन्तमूलस्थानमेकेषाम् । ९ ।
ऌतुलसा दन्त्याः । १० ।
वकारो दन्तोष्ठ्यः । ११ ।
सृक्वस्थानमेके । १२ ।
उपूपध्मानीया ओष्ठ्याः । १३ ।
अनुस्वारयमा नासिक्याः । १४ ।
कण्ठनासिक्यमनुस्वारमेके । १५ ।
यमाश्च नासिक्यजिह्वामूलीया एकेषाम् । १६ ।
एदैतौ कण्ठतालव्यौ । १७ ।
ओदौतौ कण्ठोष्ठ्यौ । १८ ।
ञमङणना स्वस्थाना नासिकस्थानाश्च । १९ ।
द्विवर्णाणि सन्ध्यक्षराणि । २० ।
सरेफ ऋवर्णः । २१ ।
एवमेतानि स्थानानि । २२ ।
आपिशलशिक्षा