Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
  • West Bengal Day, 20 June: History of the Formation of West Bengal in 1947
  • Noble Bengali Families of Kolkata (1760–1860): Rise of Abhijat Bhadralok in Colonial Bengal
  • Bishop’s College Kolkata: India’s Oldest Anglican Theological Institution (1820–2026)
  • Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?
  • Good Life (3-Volume): An encyclopedia of everything humanity seeks when it speaks of “a better life”
  • Smallest Library for the Largest Understanding: 10 Books that give the Highest Intellectual Return per page read
  • Life After Death (Part-III)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Sarvarthapedia Vedic Dictionary » यज्ञ -Yagna
  • Sarvarthapedia Vedic Dictionary

यज्ञ -Yagna

advtanmoy 14/08/2019 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram

यज्ञं व्याख्यास्यामः १

स त्रयाणां वर्णानां ब्राह्मणराजन्ययोर्वैश्यस्य च २

स त्रिभिर्वेदैर्विधीयते ३

ऋग्वेदयजुर्वेदसामवेदैः ४

ऋग्वेदयजुर्वेदाभ्यां दर्शपूर्णमासौ ५

यजुर्वेदेनाग्निहोत्रम् ६

सर्वैरग्निष्टोमः ७
उच्चैरृग्वेदसामवेदाभ्यां क्रियते ८
उपांशु यजुर्वेदेन ९
अन्यत्राश्रुतप्रत्याश्रुतप्रवरसंवादसंप्रैषैश्च १०
अन्तरा सामिधेनीष्वनूच्यम् ११
मन्द्रेण प्रागाज्यभागाभ्यां प्रातःसवने च १२
मध्यमेन प्राक् स्विष्टकृतो माध्यंदिने च १३
क्रुष्टेन शेषे तृतीयसवने च १४
वाक्संद्रवश्च तद्वत् १५

ऋग्वेदेन होता करोति १६

सामवेदेनोद्गाता १७

यजुर्वेदेनाध्वर्युः १८

सर्वैर्ब्रह्मा १९
वचनाद्विप्रतिषेधाद्वान्यः कुर्यात् २०
ब्राह्मणानामार्त्विज्यम् २१
सर्वक्रतूनामग्नयः सकृदाहिताः २२
जुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयाम् २३
अध्वर्युतं कर्तारम् २४

जुहूं पात्रम् २५
व्यापृतायां स्रुवेण २६
आहवनीये प्रदानम् २७
आधानप्रभृति यावज्जीवं पात्राणि धार्यन्ते २८
तेषां प्रतितन्त्रं संस्कारः २९
मन्त्रब्राह्मणे यज्ञस्य प्रमाणम् ३०
मन्त्रब्राह्मणयोर्वेदनामधेयम् ३१
कर्मचोदना ब्राह्मणानि ३२
ब्राह्मणशेषोऽर्थवादो निन्दा प्रशंसा परकृतिः पुराकल्पश्च ३३
अतोऽन्ये मन्त्राः ३४
अनाम्नातास्त्वमन्त्रा यथा प्रवरोहनामधेयग्रहणानीति ३५
रथशब्दो दुन्दुभिशब्दश्च ३६
स्वाध्यायेऽनध्यायो मन्त्राणां न कर्मण्यर्थान्तरत्वात् ३७
एकमन्त्राणि कर्माणि ३८
अपि संख्यायुक्तचेष्टापृथक्त्वनिर्वर्तीनि ३९
कण्डूयनस्वप्ननदीतराववर्षणामेध्यप्रतिमन्त्रणेषु च तद्वत्कालाव्यवेतेषु ४०
प्रयाणे त्वार्थनिर्वृत्तेः ४१
असंनि पातिकर्मसु च तद्वत् ४२
हविष्कृदध्रिगुपुरोऽनुवाक्यामनोतस्यावृत्तिर्भिन्नकालेषु ४३
वचनादेकं कर्म बहुमन्त्रम् ४४
इति प्रथमा कण्डिका


मन्त्रान्तेः कर्मादीन्संनिपातयेत् १
आघारे धारायां चादिसंयोगः २
आदिप्रदिष्टा मन्त्राः ३
उत्तरस्यादिना पूर्वस्यावसानं विद्यात् ४
होत्रायाजमानेषु समुच्चयः ५
विकल्पो याज्यानुवाक्यासु ६
संख्यासु च तद्वत् ७
क्रयपरिक्रयसंस्कारेषु द्रव्यसमुच्चयः ८
रौद्रराक्षसनैरृतपैतृकच्छेदनभेदन
निरसनात्माभिमर्शनानि च कृत्वाप उपस्पृशेत् ९
उत्तरतौपचारो विहारः १०
नाग्नेरपपर्यावर्तेत ११
न विहारात् १२
अन्तराणि यज्ञाङ्गानि । बाह्याः कर्तारः १३
न मन्त्रवता यज्ञाङ्गेनात्मानमभिपरिहरेत् १४
प्रागपवर्गाण्युदगपवर्गाणि वा यज्ञोपवीती प्रदक्षिणं दैवानि कर्माणि करोति १५
प्राचीनावीती प्रसव्यं दक्षिणापवर्गाणि पित्र्याणि १६
यानि शुल्बानि समासं गच्छन्ति प्रसव्यं तान्यावेष्ट्य प्रदक्षिणं समस्येत् १७
अथ यानि न समस्यन्ते प्रदक्षिणं तानि १८
अमावास्यायाममावास्यया यजेत १९
पौणमास्यां पौर्णमास्या २०
यदहः पुरस्ताच्चन्द्रमाः पूर्ण उत्सर्पेत्तां पौर्णमासीमुपवसेत् २१
श्वः पूरितेति वा २२
खर्विकां तृतीयां वाजसनेयिनः समामनन्ति २३
यदहर्न दृश्यते तदहरमावास्या २४
श्वो न द्रष्टार इति वा २५
एक प्रकरणे चोद्यमानानि प्रधानानि समानविधानानि २६
प्रकरणेन विधयो बध्यन्ते २७
अनिर्देशात्साधारणानि २८
निर्देशाद्व्यवतिष्ठन्ते २९
आग्नेयोऽष्टाकपालोऽग्नीषोमीय एकादशकपाल उपांशुयाजश्च पौर्णमास्यां प्रधानानि ३०
तदङ्गमितरे होमाः ३१
आग्नेयोऽष्टाकपाल ऐन्द्राग्न एकादशकपालो द्वादशकपालो वा मावास्यायामसोमयाजिनः ३२
सांनाय्यं द्वितीयं सोमयाजिनः ३३
नासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यते ३४
नैन्द्राग्नः संनयतो वर्णाविशेषेण ३५
पितृयज्ञः स्वकालविधानादनङ्गं स्यात् ३६
तुल्यवच्च प्रसंख्यानात् ३७
प्रतिषिद्धे च दर्शनात् ३८
सहाङ्गं प्रधा नम् ३९
इति द्वितीया कण्डिका


देशे काले कर्तरीति निर्दिश्यते स्वशब्दं यत् १
अपूर्वो दर्विहोमः २
जुहोति चोदनः ३
स्वाहाकारप्रदानः ४
सकृद्गृहीत्वा ५
आहुतिगणे प्रत्याहुति गृहीत्वा ६
न वा समवद्येत् ७
समिदभावश्चाग्निहोत्रवर्जम् ८
अपरेणाग्निं दक्षिणं जान्वाच्यानाच्य वासीनो दर्विहोमाञ्जुहोति ९
वचनादन्यथा १०
अपरेणाहवनीयं दक्षिणातिक्रम्योदगावृत्तः सर्वा आहुतीर्जुहोति ११
वचनादन्यथा १२
आश्रुतप्रत्याश्रुते याज्यानुवाक्ये अवदानेषु चोपस्तरणाभिघारणे चतुर्गृहीतं वषट्कारश्चादर्विहोमानाम् १३
वषट्कृते वषट्कारेण वाहुतिषु संनिपातयेत् १४
उपयामेन ग्रहेषु १५
तयादेवतेनेष्टकासु १६
पुरोडाशगणे यथाभागं व्यावर्तध्वमित्येकैकमपच्छिन्द्यात् १७
उत्तमौ यथाभागं व्यावर्तेथामिति १८
तयोरेव देवतोपदेशनं करोति १९
चरुपुरोडाशगणे चरुपुरोडाशीयान्प्रागधिवपनाद्विभजति २०
यथादेवतमुपलक्षयति २१
इदंशब्दस्तन्त्रं स्यात् २२
व्यतिषक्तेष्वपि २३
कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण चरुमुपदधाति २४
ध्रुवोऽसीति मन्त्रं संनमति २५
पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति २६
अधिश्रयणकालेऽधिश्रयणमन्त्रेण तण्डुलानावपति २७
अनुद्धृत्य चरुमासादयति २८
पञ्चदश सामिधेन्यो दर्शपूर्नमासयोः २९
सप्तदशेष्टिपशुबन्धानां यत्र श्रूयन्ते ३०
उपांशु काम्या इष्टयः क्रियन्त इति तत्र यावत्प्रधानमुपांशु ३१
दर्शपूर्णमासाविष्टीनां प्रकृतिः ३२
अग्नीषोमीयस्य च पशोः ३३
स सवनीयस्य ३४
सवनीय ऐकादशिनानाम् ३५
ऐकादशिनाः पशुगणानाम् ३६
वैश्वदेवं वरुणप्रघाससाकमेधशुनासीरीयाणाम् ३७
वैश्वदेविक एककपाल एककपालानाम् ३८
वैश्वदेव्यामिक्षामिक्षाणाम् ३९
तत्र सामान्याद्विकारो गम्येत ४०
एव देवता आग्नेयविकाराः ४१
द्विदेवता अग्नीषोमीयविकाराः ४२
बहुदेवताश्च ४३
ऐन्द्राग्नविकारा वा ४४
अन्यत्र प्रकृतिदेवताभ्यो
यथैन्द्रः पुरोडाशः सौम्यश्चरुरिति ४५
हविर्देवतासामान्ये हविर्बलीयः ४६
द्रव्यसंस्कारविरोधे द्रव्यं बलीयः ४७
अर्थद्रव्यविरोधेऽर्थो बलीयान् ४८
न प्रकृतावूहो विद्यते ४९
विकृतौ यथार्थमूहोऽर्थवादवर्जम् ५०
परवाक्यश्रवणादर्थवादः ५१
शिष्टाभावे सामान्यात्प्रतिनिधिः ५२
तद्धर्मा च
स्यात् ५३
मात्रापचारे तच्छेषेण समाप्नुयात् ५४
इति तृतीया कण्डिका


स्वामिनोऽग्नेर्देवतायाः शब्दात्कर्मणः प्रतिषेधाच्च प्रतिनिधिर्निवृत्तः १
त्रिभिः कारणैः प्रकृतिर्निवर्तते प्रत्याम्नानात्प्रतिषेधादर्थलोपाच्च २
अग्निष्टोम एकाहानां प्रकृतिः ३
द्वादशाहोऽहर्गणानाम् ४
गवामयनं सांवत्सरिकाणाम् ५
निकायिनां तु प्रथमः ६
अग्निष्टोम उत्तरवेदिः ७
उत्तरेषु क्रतुष्वग्निः ८
अन्यत्र साद्यस्क्रेभ्यो वाजपेयात्षोडशिनः सारस्वताच्च सत्त्रात् ९
क्रत्वादौ क्रतुकामं कामयेत १०
यज्ञाङ्गादौ यज्ञाङ्गकामम् ११
अल्पीयांसो मन्त्रा भूयांसि कर्माणि तत्र समशः प्रतिविभज्य पूर्वैः पूर्वाणि कारयेदुत्तरैरुत्तराणि १२
अल्पीयांसि कर्माणि भूयांसो मन्त्रास्तत्र प्रतिमन्त्रं कुर्यात् । अवशिष्टा विकल्पार्था यथा यूपद्रव्याणीति १३
अन्ताल्लोपो विवृद्धिर्वा १४
प्रकृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यात् १५
कुम्भीशूलवपाश्रपणीप्रभुत्वात्तन्त्रं स्यात् १६
जातिभेदे तु भिद्येत पक्तिवैषम्यात् १७
स्विष्टकृद्विकारे वनस्पतौ याज्यायां देवतानिगमाः स्युः प्रकृत्युपबन्धात् १८
अन्वारम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात् । कृता हि तदर्थेन १९
स्याद्वा कालस्याशेषभूतत्वात् २०
आरम्भविभागाच्च २१
अर्थायार्थायाग्निं प्रणयति । अपवृत्ते कर्मणि लौकिकः संपद्यते यथा समारूढे २२
इति चतुर्थी कण्डिका


प्रवरान्व्याख्यास्यामः १
आर्षेयं वृणीते । बन्धोरेव नैत्यथो संतत्या इति विज्ञायते २
न देवैर्न मनुष्यैरार्षेयं वृणीते । ऋषिभिरेवार्षेयं वृणीत इति
विज्ञायते ३
आर्षेयमन्वाचष्टे । ऋषिणा हि देवाः पुरुषमनुबुध्यन्त इति विज्ञायते ४
यो वा अन्यः सन्नथान्यस्यार्षेयेण प्रवृणीते स वा अस्य तदृषिरिष्टं वीतं वृङ्क्त इति विज्ञायते ५
त्रीन्वृणीते । मन्त्रकृतो वृणीते । यथर्षि मन्त्रकृतो वृणीत इति विज्ञायते ६
अथैकेषाम् । एकं वृणीते । द्वौ वृणीते । त्रीन्वृणीते । न चतुरो वृणीते । न पञ्चातिवृणीत इति विज्ञायते ७
अत ऊर्ध्वानध्वर्युर्वृणीतेऽमुतोऽर्वाचो होतेति विज्ञायते ८
पुरोहितस्य प्रवरेण राजा प्रवृणीत इति विज्ञायते ९
पुरोहितस्य प्रवरेण राजा प्रवृणीत इति विज्ञायते ९
भृगूणामेवाग्रे व्याख्यास्यामः १०
जामदग्न्या वत्साः ११
तेषां पञ्चार्षेयुः प्रवरः । भार्गव च्यावनाप्र्नवानौर्व जामदग्न्येति । जमदग्निवदूर्ववदप्नवानवच्च्यवनवद्भृगुवदिति १२
आर्षेयमु हैके । भार्गवौर्व जामदग्न्येति । जमदग्निवदूर्ववद्भृगुवदिति १३
एष एवाविकृतः सावर्णिजीवन्तिजाबाल्यैतिशायनवैरोहित्यावटमण्डुप्राचीनयोग्यानाम् १४
अथार्ष्टिषेणानां पञ्चार्षेयः । भार्गव च्यावनाप्नवानार्ष्टिषेणानूपेति । अनूपवदृष्टिषेणवदप्नवानवच्च्यवनवद्भृगुवदिति १५
त्र्यार्षेयमु हैके । भार्गवार्ष्टिषेणानूपेति । अनूपवदृष्टिषेणवद्भृगुवदिति १६
इति पञ्चमी कण्डिका


अथ वीतहव्या यास्कवाधूलमौनमौकाः १
तेषां त्र्यार्षेयः । भार्गव वैतहव्य सावेदसेति । सवेदोवद्वीतहव्यवद्भगुवदिति २
अथ गार्त्समदाः शनकाः ३
तेषामेकार्षेयः । गार्त्समदेति होता । गृत्समदवदित्यध्वर्युः ४
अथ वाध्र्यश्वा मित्रायुवः ५
तेषामेकार्षेयः । वाध्र्यश्वेति होता । वध्र्यश्ववदित्यध्वर्युः ६
अथ वैन्याः पार्थाः ७
तेषां त्र्यार्षेयः । भार्गव वैन्य पार्थेति । पृथु वद्वेन वद्भृगुवदिति ८
इमे भृगवो व्याख्याताः ९
अथातोऽङ्गिरसामायास्या गौतमाः १०
तेषां त्र्यार्षेयः । आङ्गिरसायास्य
गौतमेति । गोतमवदयास्यवदङ्गिरोवदिति ११
अथौचथ्या गौतमाः १२
तेषां त्र्यार्षेयः । आङ्गिरसौचथ्य गौतमेति । गोतमवदुचथ्यवदङ्गिरोवदिति १३
अथौशिजा गौतमाः १४
तेषां त्र्यार्षेयः । आङ्गिरसौशिज काक्षीवतेति । कक्षीवद्वदुशिजवदङ्गिरोवदिति १५
अथ वामदेवा गौतमाः १६
तेषां त्र्यार्षेयः । आङ्गिरस वामदेव बार्हदुक्थ्येति । बृहदुक्थ्यवद्वामदेववदङ्गिरोवदिति १७
अथ भरद्वाजानां त्र्यार्षेयः । आङ्गिरस बार्हस्पत्य भारद्वाजेति । भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति १८
एष एवाविकृतः १९
इति षष्ठी कण्डिका


कुक्काग्निवेश्योर्जायनानां सर्वेषां च स्तम्बस्तम्बशब्दानाम् १
अथ द्व्यामुष्यायणानां कुलानां यथा शुङ्गशैशिरयः २
भरद्वाजाः शुङ्गाः । कताः शैशिरयः ३
तेषां पञ्चार्षेयः । आङ्गिरस बार्हस्पत्य भारद्वाज कात्यात्कीलेति । अत्कीलवत्कतवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति ४
त्र्यार्षेयमु हैके । आङ्गिरस कात्यात्कीलेति । अत्कीलवत्कतवदङ्गिरोवदिति ५
अथर्क्षाणां पञ्चार्षेयः । आङ्गिरस बार्हस्पत्य भारद्वाज वान्दन माववचसेति । मतवचोवद्वन्दनवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति ६
त्र्यार्षेयमु हैके । आङ्गिरस वान्दन मा वचसेति । मतवचोवद्वन्दनवदङ्गिरोवदिति ७
अथ कपीनां त्र्यार्षेयः । आङ्गिरसामहीयौरुक्षयेति । उरुक्षयवदमहीयवदङ्गिरोवदिति ८
अथ गर्गाणां त्र्यार्षेयः । आङ्गिरस गार्ग्य शैन्येति । शिनि वद्गर्गवदङ्गिरोवदिति ९
भरद्वाजमु हैकेऽङ्गिरसः स्थाने । भारद्वाज गार्ग्य शैन्येति । शिनिवद्गर्गवद्भरद्वाजवदिति १०
अथ हरितानां त्र्यार्षेयः ।
आङ्गिरसाम्बरीष यौवनाश्वेति । युवनाश्ववदम्बरीषवदङ्गिरोवदिति ११
मान्धातारमु हैकेऽङ्गिरसः स्थाने । मान्धात्राम्बरीष यौवनाश्वेति । युवनाश्ववदम्बरीषवन्मान्धातृवदिति १२
इति सप्तमी कण्डिका


अथ कुत्सानां त्र्यार्षेयः । आङ्गिरस मान्धात्र कौत्सेति । कुत्सवन्मान्धातृवदङ्गिरोवदिति १
अथाजमीढाः कण्वाः २
तेषां त्र्यार्षेयः । आङ्गिरसाजमीढ काण्वेति । कण्ववदजमीढवदङ्गिरोवदिति ३
अथ विरूपा रथीतराः ४
तेषाम् त्र्यार्षेयः । आङ्गिरस वैरूप पार्षदश्वेति । पृषदश्ववद्विरूपवदङ्गिरोवदिति ५
अष्ट्रादंष्ट्रमु हैकेऽङ्गिरसः स्थाने । आष्ट्रादंष्ट्र वैरूप पार्षदश्वेति । पृषदश्ववद्विरूपवदष्ट्रादंष्ट्रवदिति ६
अथ मुद्गलानां त्र्यार्षेयः । आङ्गिरस भार्ग्यश्च मौद्गल्येति । मुद्गलवद्भृम्यश्ववदङ्गिरोवदिति ७
तृक्षुमु हैकेऽङ्गिरसः स्थाने । तार्क्ष्य भार्म्यश्व मौद्गल्येति । मुद्गलवद्भृम्यश्ववत्तृक्षुवदिति ८
अथ विष्णुवृद्धानां त्र्यार्षेयः । आङ्गिरस पौरुकुत्स
त्रासदस्यवेति । त्रसदस्युवत्पुरुकुत्सवदङ्गिरोवदिति ९
एष एवाविकृतः शठमर्षणभद्रणमद्रणबादरायणौपमिन्यौपगविसात्यकिसात्यं काम्यारुणिनितुण्डीनाम् १०
अथात्रीणां त्र्यार्षेयः । आत्रेयार्चनानस श्यावाश्वेति । श्यावाश्ववदर्चनानसवदत्रिवदिति ११
अथ गविष्ठिराणां त्र्यार्षेयः । आत्रेयार्चनानस गाविष्ठिरेति । गविष्ठिरवदर्चनानस वदत्रिवदिति १२
अथातिथीनां त्र्यार्षेयः । आत्रेयार्चनानसातिथ्येति । अतिथिवदर्चनानस वदत्रिवदिति १३
एष एवाविकृतो वामरथ्यसुमङ्गलबै जवापीनाम् १४
इत्यष्टमी कण्डिका


अथ विश्वामित्राणां देवराताश्चिकितमनुतन्त्वौलकिवालुकियज्ञवल्कोलूकबृहदग्निबभ्रुगालविशालावतशालङ्कायनकालबवाः १
तेषां त्र्यार्षेयः । वैश्वामित्र दैवरातौदलेति । उदलवद्देवरातवद्विश्वामित्रवदिति २
अथ श्रौमतकामकायनानां त्र्यार्षेयः । वैश्वामित्र दैवश्रवस दैवतरसेति । देवतरसवद्देवश्रवोवद्विश्वामित्रवदिति ३
अथाज्यानां त्र्यार्षेयः । वैश्वामित्र माधुच्छन्दसाज्येति । अजवन्मधुच्छन्दोवद्विश्वामित्रवदिति ४
अथ माधुच्छन्दसा एव धनंजयाः ५
तेषां त्र्यार्षेयः । वैश्वामित्र माधुच्छन्दस धानंजय्येति । धनंजयवन्मधुच्छन्दोवद्विश्वामित्रवदिति ६
अथाष्टका लोहिताः ७
तेषां द्व्यार्षेयः । वैश्वामित्राष्टकेति । अष्टकवद्विश्वामित्रवदिति ८
अथ पूरणा वारिधापयन्ताः ९
तेषां द्व्यार्षेयः । वैश्वामित्र पौरणेति । पूरणवद्विश्वामित्रवदिति १०
अथ कतानां त्र्यार्षेयः । वैश्वामित्र कात्यात्कीलेति । अत्कीलवत्कतवद्विश्वामित्रवदिति ११
अथाघमर्षणाः कुशिकाः १२
तेषां त्र्यार्षेयः । वैश्वामित्राघमर्षण कौशिकेति । कुशिकवदघमर्षणवद्विश्वामित्रवदिति १३
अथ कश्यपानां त्र्यार्षेयः । काश्यपावत्सार नैध्रुवेति । निध्रुववदवत्सारवत्कश्यपवदिति १४
अथ रेभाणां त्र्यार्षेयः । काश्यपावत्सार रभेति । रेभवदवत्सारवत्कश्यपवदिति १५
इति नवमी कण्डिका


अथ शण्डिलानां द्व्यार्षेयः । दैवलासितेति । असितवद्देवलवदिति १
त्र्यार्षेयमु हैके । काश्यप दैवलासितेति । असितवद्देवलवत्कश्यपवदिति २
द्व्यार्षेयास्त्वेवंन्यायेन ३
एकार्षेया वासिष्ठा अन्यत्र पराशरेभ्यः । वासिष्ठेति होता । वसिष्ठवदित्यध्वर्युः ४
त्र्यार्षेयमु हैके । वासिष्ठैन्द्रप्रमदाभरद्वसो इति । आभरद्वसुवदिन्द्रप्रमदवद्वसिष्ठवदिति ५
अथ पराशराणां त्र्यार्षेयः । वासिष्ठ शाक्त्य पाराशर्येति । पराशरवच्छक्तिवद्वसिष्ठवदिति ६
अथ कुण्डिनानां त्र्यार्षेयः । वासिष्ठ मैत्रावरुण कौण्डिन्येति । कुण्डिनवन्मित्रावरुणवद्वसिष्ठवदिति ७
अथ संकृमिपूतिमाषाणां त्र्यार्षेयः । शाक्त्य सांकृत्य गौरिवीतेति । गौरिवीतिवत्संकृतिवच्छक्तिवदिति ८
अथागस्तीनामेकार्षेयः । आगस्त्येति होता । अगस्तिवदित्यध्वर्युः ९
त्र्यार्षेयमु हैके । आगस्त्य दार्ढच्युतैध्मवाहेति । इध्मवाहवद्दृढच्युतवदगस्तिवदिति १०
अथ क्षत्रियाणाम् ११
यद्यत्र सार्ष्टिं प्रवृणीरन्नेक एवैषां प्रवरः । मानवैड पौरूरवसेति । पुरूरवोवदिडावन्मनुवदिति १२
अथ येषामु ह मन्त्रकृतो न स्युः सपुरोहितप्रवरास्ते प्रवृणीरन् १३
अथ येषां स्युरपुरोहितप्रवरास्ते १४
सपुरोहितप्रवरास्त्वेवंन्यायेन १५
एकार्षेया विशः । वात्सप्रेति होता । वत्सप्रवदित्यध्वर्युः १६
अथासंप्रज्ञातबन्धुराचार्यामुष्यायणमनुप्रब्रवीताचार्यप्रवरं प्रवृणीत १७
अथाह ताण्डिन एकार्षेयं सार्ववर्णिकं समामनन्ति । मानवेति होता मनुवदित्यध्वर्युः । मानव्यो हि प्रजा इति हि ब्राह्मणमिति हि ब्राह्मणम् १८
इति दशमी कण्डिका


पुरस्तात्सामिधेनीनां होता हृदयदेश ऊर्ध्वं प्रादेशं धारयमाणो जपति मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इति १
अन्तराहवनीयमुत्करं च प्रतीचीनं गच्छञ्जपति कं प्रपद्ये तं प्रपद्ये । यत्ते प्रजापते शरणं छन्दस्तत्प्रपद्ये । यावत्ते विष्णो वेद तावत्ते करिष्यामि । नमो अग्नय उपद्रष्ट्रे नमो वायव उपश्रोत्रे नम आदित्यायानुख्यात्रे । जुष्टामद्य देवेभ्यो वाचमुद्यासं स्वधावतीं पितृभ्यः शुश्रूषेण्यां मनुष्येभ्यः । प्रशास्त आत्मना प्रजया पशुभिः प्रजापतिं प्रपद्ये । अभयं मे अस्तु । प्राजापत्यमनुवक्ष्यामि । वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु । वाचं प्रपद्ये भूर्भुवः सुवरिति । सत्यं प्रपद्य इति वा २
विष्णो स्थाने तिष्ठामीत्यवतिष्ठते ३
अन्तर्वेदि दक्षिणः पादो भवति । बहिर्वेदि सव्यः ४
अथोर्ध्वस्तिष्ठन्ब्रह्मन्सामिधेनीरनुवक्ष्यामीति ब्रह्माणमामन्त्र्य दशहोतारं व्याख्याय व्याहृतीश्च जपित्वा त्रिर्हिङ्कृत्योत्तमेन हिङ्कारेणार्धर्चमुपसंदधाति ५
त्रिः प्रथमामन्वाह त्रिरुत्तमाम् ६
यं कामयेत सर्वमायुरियादिति तस्य त्रिरनवानं प्रथमोत्तमे अनुब्रूयात् ७
एकैकामेव संतन्वन्ननवानमनुब्रूयादित्येके ८
तृतीयां सामिधेनीं त्रिविगृह्णाति । संततमन्वाहेति सामिधेनीनामविशेषात् ९
विज्ञायते च । ऋषेरृषेर्वा एता निर्मिता यत्सामिधेन्यः । ता यदसंयुक्ताः स्युः प्रजया पशुभिर्यजमानस्य वितिष्ठेरन् । अर्धर्चौ संदधाति संयुनक्त्येवैना इति ते मन्यामहे १०
पूर्वस्याश्चोत्तरमुत्तरस्याश्च पूर्वं तौ संदध्यात् ११
संततमन्वाहेति सामिधेनीनामनुच्छ्वासवादो विज्ञायते च १२
नान्तरर्चौ व्यन्यात् । यद्यन्तरर्चौ व्यन्यादपाने प्राणं दध्यात् । अतिहाय पूर्वस्या अर्धर्चमुत्तरस्या अर्धर्चे व्यनिति १३
त्रिरनुवचनेनार्धर्चसंतानो विद्यत एकर्षित्वात् १४
त्वं वरुण इति वसिष्ठराजन्यानां परिधानीया । जुहोतेतीतरेषां गोत्राणाम् १५
नराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम् । तनूनपादितरेषां गोत्राणाम् १६
सामिधेनीरनूच्य प्रवरमुक्त्वा निविदोऽन्वाह १७
तासां सप्त पदान्युक्त्वापानिति १८
इत्येकादशी कण्डिका


अथ चत्वार्यथ चत्वारि १
ता अनूच्य देवता आवाहयति या यक्ष्यमाणो भवति २
स वै खलु वाजिनो नावाहयेद्देविका देवसुवो यच्च किं चैतादृक्ते
मन्यामहे ३
परप्रधानानां परतन्त्रव्यवेतानां च प्रतिषेधः स्यात्तल्लिङ्गत्वाच्छब्दस्य ४
एकदेवतानां नानादेवताव्यवेतानां तन्त्रमावाहनं विभवात् ५
अथोर्द्वज्ञुः प्रादेशेन भूमिमभिनिधाय जपतीदमहं त्रिवृता स्तोमेन रथंतरेण साम्ना वषट्कारेण वज्रेणास्यै पृथिव्या अस्यै प्रतिष्ठाया अस्मादायतनाद्यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तं हन्मि । यदद्य होतृवर्ये जिह्मं चक्षुः परापतत् । अग्निष्टत्पुनराभरज्जातवेदा विचर्षणिः । वसूनां रातौ स्याम रुद्राणामूर्म्यायां स्वादित्या अदितयेऽनहसः । चारुमद्य देवेभ्यो वाचमुद्यासं चारुं ब्रह्मभ्यश्चारुं मनुष्येभ्यश्चारुं नराशंसायानुमतां पितृभिः । ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा । तेभ्यो न इन्द्रः सवितोत
विष्णुर्विश्वे देवा मुञ्चन्तु मरुतः स्वस्त्येति ६
अथ यदेनमाहासौ मानुष इति तदुपोत्थाय दक्षिणेन पाणिना दक्षिणमध्वर्योरंसमन्वारभ्य जपति । सव्ये
नाग्नीध्रस्य दक्षिणम् । षष्टिश्चाध्वर्यो नवतिश्च पाशा होतारमग्निमन्तरा विचृत्ताः । सिनन्ति पाकमति धीर एत्यृतस्य पन्थामन्वेति होता । अग्निमन्वारभामहे होतृवर्ये पुरोहितम् । येनायन्नुत्तमं स्वर्देवा अङ्गिरसो दिवमिति ७
मयि प्राणापानाविति पाणी प्रत्याहृत्योरोदेशं स्पृशते ८
आ पृणोषि संपृण प्रजया मा पशुभिरापृणेतीध्मसंनहनानि मुखं प्रति विधूनुते ९
अथाप उपस्पृश्याग्ने नय सुपथा राये अस्मान् । एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः । अवतां मा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवानित्येते ऋचौ जपन्होतृषदनाय प्रव्रजति १०
जघनेन होतृषदनं प्राङ्मुख उपविश्याथ होतृषदनमभिमृशत्यहे दैधिषव्येति ११
अथास्मात्तृणं निरस्यति १२
इति द्वादशी कण्डिका


शुष्कं प्रच्छिन्नाग्रं वा निरस्तः पराग्वसुः सह पाप्मनेति १
अथ होतृषदन उपविशति पातं मा द्यावापृथिवी उपस्थ इति दक्षिणपूर्विणं सव्योत्तरिणं वोपस्थं कृत्वा २
अथ जपति सीद होतर्नि होता होतृषदन इति द्वे । पिप्रीहि देवाँ उशतो यविष्ठेत्येषा । वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा । स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्यग्नि
रर्हन् । आ देवानाम् । त्वमग्ने व्रतपा असि । यद्वो वयं प्रमिनाम । यत्पाकत्रा मनसा । विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । स आ यजस्व नृवतीरनु क्षाः स्पार्हा इषः क्षुमतीर्विश्वजन्याः । यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहीत्येतस्य सूक्तस्य षट् सर्वं वा । विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि । यमिच्छामि मनसा सो ऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् । स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मन्निषद्य । तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम । ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ।
नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवा इति ३
एतज्जपित्वा स्रुचावादापयति ४
सर्वत्र पुरस्ताद्याज्याया येयजामहमुक्त्वा व्याहृतीर्दधाति ५
नानूयाजेषु येयजामहं करोति ६
अनवानमनूयाजान्यजति । अमत्सतेति वापानिति ७
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या । उपरिष्टाल्लक्ष्मा याज्या । एतद्वा विपरीतम् ८
उभयतोलक्ष्मा पुरोऽनुवाक्या तथा याज्येत्येके ९
तिष्ठन्पुरोऽनुवाक्यामन्वाह । आसीनो याज्याम् । उभे तिष्ठन्नासीनो वा १०
सा ह त्वै समृद्धा पुरोऽनुवाक्या यामभिव्याहरन्देवतामेवाग्रेऽभिव्याहरति । सा ह त्वै समृद्धा याज्या यस्यै देवताया अधि वषट्करोति ११
ऋचि प्रणवं दधाति याज्यावर्जम् १२
ओमित्यृचोऽधि प्रणौति १३
इति त्रयोदशी कण्डिका


उत्तमस्याक्षरस्य विकारमेक आहुः १
अधिकः स्यादित्यपरम् २
विज्ञायते च । ऋचमुक्त्वा प्रणौत्यपरामुक्त्वा प्रणौत्यधिके पुनरेतदुपपद्यते संततमृचा वषट्करोतीति च तद्वद्याज्याया अधि वषट्करोति ३
अपगूर्य वषट्करोतीत्युच्चैर्वादः शब्दस्य ४
यं कामयेत प्रमायुकः स्यादिति तस्योच्चैरपगूर्य निखिदन्निव वषट्कुर्यात् । यं कामयेत पापीयान्स्यादिति नीचैस्तरां तस्य याज्याया वषट्कुर्यात् । यं कामयेत वसीयान्स्यादित्युच्चैस्तरां तस्य याज्याया वषट्कुर्यात् । न वसीयान्न पापीयानिति समं तस्य याज्याया वषट्कुर्यात् । उच्चैः क्रौञ्चमिव वषट्कुर्यात्स्वर्गकामस्येति विज्ञायते ५
बलीय ऋचो वषट्करोतीति तद्वत् ६
यां देवतां यजेत्तां मनसा ध्यायेत्पुरा वषट्कारात्स्वर्गकामस्येति विज्ञायते ७
वषट्कृत्य प्राण्यापान्य निमिषेत् ८
अपानेनैव प्राणं धारयेन्निमिषेण चक्षुरिति विज्ञायते ९
यं द्विष्यात्तस्यौषडिति वषट्कुर्यात् । ओषत्येवेति विज्ञायते १०
वाषडित्येके समामनन्ति । वौषडित्येके । वौषाडित्येके । वाक्षडित्येके । वौक्षडित्येके । वौक्षाडित्येके ११
वषट्कार मा मे प्र वाङ्मो अहं त्वां बृहता मन उपह्वये । न मां न मे वाचं हिनसात् । हव्यं देवेभ्योऽभिवहाम्योजः सहः सह ओजः । वाग्वषट्कार नमस्ते अस्तु मा मा हिंसीरित्येतद्वषट्कृते जपति । वाग्वषट्कार नमस्ते अस्तु मा मा हिंसीरिति वा १२
अङ्गुली मुक्त्वा मिषे प्राणायेति मुखदेशमूर्ध्वमुत्कृष्योर्जेऽपानायेत्यवाचीनं नियच्छति १३
अवानरेडामवत्तामङ्गुलीभिर्निगृह्य न मुष्टिं करोति १४
मुखमिव प्रत्युपह्वयते १५
यं कामयेतापशुः स्यादिति पराचीं तस्येत्युक्तम् १६
पदाभ्यासप्रतिषेधस्तु १७
विज्ञायते चेडोपहूतेति तत्पराची । उपहूतेति तत्प्रतीची १८
आध्वर्यव एवातोऽन्यानि कर्माणि होतुराम्नातानि भवन्ति । उपदेशादितराणीतराणि १९
इति चतुर्दशी कण्डिका


Source : चतुर्विंशः प्रश्नः -आपस्तम्ब श्रौतसूत्रम्

Tags: Hindu Religion

Post navigation

Previous: तपः – Tapaha
Next: उच्चारण स्थानं – Uccharana Sthanam

Related Stories

Sarvarthapedia
  • Sarvarthapedia Vedic Dictionary

Epistemology (3-Volume): What justifies belief, the difference between opinion and truth

advtanmoy 24/05/2026
Philosophy & Religion of Rigveda
  • Sarvarthapedia Vedic Dictionary

Rigveda (ऋग्वेदः, ऋक्, ऋच्): Meaning, Structure and Vedic Interpretation

advtanmoy 28/04/2026
Encyclopedia of Sanatan Dharma
  • Sarvarthapedia Vedic Dictionary

Isa (ईशा): Universal Controller, Karma-Phala-Data, and Inner Self

advtanmoy 19/04/2025
Islamic Pakistan

Fundamental Rights under Constitution of Pakistan 1973

Communism

Manifesto of the Communist Party 1848: History, Context, and Core Concepts

Iranian Foreign Minister Abbas Araghchi
Geo-Political

Islamabad MOU between Iran and the United States (17th June 2026): Framework agreement to end war with Iran

24/06/2026
On June 17, 2026, the U.S. and Iran signed a Memorandum of Understanding, mediated by Pakistan, to end military operations and negotiate a final deal within 60 days. Key points include terminating sanctions, ensuring safe…
USA

US and Sweden Technology Prosperity Deal (2026): Overview and Strategic Significance

Putin’s May 2026 Visit to China

Putin’s May 2026 Visit to China: Multipolar World Declaration in Beijing

China

China’s African Tariff Policy 2026: Zero Tariffs and the New Africa–China Trade Era

American-President-Donald-Trump

Trump’s 2026 Cuba Sanctions Order: History, Law, and Geopolitical Impact

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta

Encyclopedia of Physical Measurement (3-Volume)

West Bengal Day, 20 June: History of the Formation of West Bengal in 1947

Noble Bengali Families of Kolkata (1760–1860): Rise of Abhijat Bhadralok in Colonial Bengal

Bishop’s College Kolkata: India’s Oldest Anglican Theological Institution (1820–2026)

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.