Forum Database Glossary
Library Home » ऐतरेय ब्राह्मणम्-Aitareya Brahmana

ऐतरेय ब्राह्मणम्-Aitareya Brahmana

Print Friendly, PDF & Email

ऐतरेय ब्राह्मणम्

Shakala Shakha- Rigveda

अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता आग्नावैष्णवम्पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरायं निर्वपन्त्यग्निर्वै सर्वा देवता विष्णुः सर्वा देवता एते वै यज्ञस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च तद्यदाग्नावैष्णवम्पुरोळाशं निर्वपन्त्यन्तत एव तद्देवानृध्नुवन्ति तदाहुर्यदेकादशकपालः पुरोळाशो द्वावग्नाविष्णू कैनयोस्तत्र क्ळ्प्तिः का विभक्तिरित्यष्टाकपाल आग्नेयोऽष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दस्त्रिकपालो वैष्णवस्त्रिर्हीदं विष्णुर्व्यक्रमत सैनयोस्तत्र क्लृप्तिः सा विभक्तिर्घृते चरुं निर्वपेत योऽप्रतिष्ठितो मन्येतास्यां वाव स न प्रतितिष्ठति यो न प्रतितिष्ठति तद्यद्घृतं तत्स्त्रियै पयो ये तण्डुलास्ते पुंसस्तन्मिथुनम्मि-थुनेनैवैनं तत्प्रजया पशुभिः प्रजनयति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदारब्धयज्ञो वा एष आरब्धदेवतो यो दर्शपूर्णमासाभ्यां यजत आमावास्येन वा हविषेष्ट्वा पौर्णमासेन वा तस्मिन्नेव हविषि तस्मिन्बर्हिषि दीक्षेतैषो एका दीक्षा सप्तदश सामिधेनीरनुब्रूयात्सप्तदशो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवो हेमन्तशिशिरयोः समासेन तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवा ऽऽभी राध्नोति य एवं वेद॥1.1॥

यज्ञो वै देवेभ्य उदक्रामत्तमिष्टिभिः प्रैषमैच्छन्यदिष्टिभिः प्रैषमैच्छंस्तदिष्टीनामिष््टित्वं तमन्वविन्दन्। अनुवित्तयज्ञो राध्नोति य एवं वेद। आहूतयो वै नामैता यदाहुतय एताभिर्वै देवान्यजमानो ह्वयति तदाहुतीनामाहूतित्वम्। ऊतयः खलु वै ता ना याभिर्देवा यजमानस्य हवमायान्ति ये वै पन्थानो याः स्रुतयस्ता वा ऊतयस्त उ एवैतत्स्वर्गयाणा यजमानस्य भवन्ति। तदाहुर्यदन्यो जुहोत्यथ यो॓ऽनु चा ऽऽह यजति च कस्मात्तं होतेत्याचक्षत इति। यद्वाव स तत्र यथाभाजनं देवता अमुमावहामुमावहेत्यावाहयति तदेव होतुर्होतृत्वं होता भवति। होतेत्येनमाचक्षते य एवं वेद॥1.2॥

पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति यं दीक्षयन्ति। अद्भिरभिषिञ्चन्ति। रेतो वा आपः सरेतसमेवैनं तत्कृत्वा दीक्षयन्ति। नवनीतेनाभ्यञ्जन्ति। आज्यं वै देवानां सुरभि घृतं मनुष्याणामायुतं पितॄणां नवनीतं गर्भाणां तद्यन्नवनीतेनाभ्यञ्जन्ति स्वेनैवैनं तद्भागधेयेन समर्धयन्ति। आञ्जन्त्येनम्। तेजो वा एतदक्ष्योर्यदाञ्जनं सतेजसमेवैनं तत्कृत्वा दीक्षयन्ति। एकविंशत्या दर्भपिञ्चूलैः पावयन्ति। शुद्धमेवैनं तत्पूतं दीक्षयन्ति। दीक्षितविमितं प्रपादयन्ति। योनिर्वा एषा दीक्षितस्य यद्दीक्षितविमितं योनिमेवैनं तत्स्वां प्रपादयन्ति। तस्माद्ध्रुवाद्योनेरास्ते च चरति च। तस्माद्धरुवाद्योनेर्गर्भा धीयन्ते च प्र च जायन्ते। तस्माद्दीक्षितं नान्यत्र दीक्षितविमादादित्यो ऽभ्युदियाद्वा ऽभ्यस्तमियाद्वा ऽपि वा ऽभ्याश्रावयेयुः। वाससा प्रोर्णुवन्ति। उल्बं वा एतद्दीक्षितस्य यद्वास उल्बेनैवैनं तत्प्रोर्णुन्ति। कृष्णाजिनमुत्तरं भवति। मुष्टी कुरुते। मुष्टी वै कृत्वा गर्भो ऽन्तः शेते मुष्टी कृत्वा कुमारो जायते तद्यन्मुष्टी कुरुते यज्ञं चैव तत्सर्वाश्च देवता मुष्ट्योः कुरुते। तदाहुर्न पूर्वदीक्षिणः संसवो ऽस्ति परिगृहीतो वा एतस्य यज्ञः परिगृहीता देवता नैतस्या ऽऽर्तिरस्त्यपरदीक्षिण एव यथा तथेति। उन्मुच्य कृष्णाजिनमवभृथमभ्यवैति तस्मान्मुक्ता गर्भा जरायोर्जायन्ते। सहैव वाससा ऽभ्यवैति तस्मात्सहैवोल्बेन कुमारो जायते। ॥1.3॥

त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इत्याज्यभागयोः पुरोनुवाक्ये अनुब्रूयाद्यः पूर्वमनीजानः स्यात्तस्मै। त्वया यज्ञं वितन्वत इति यज्ञमेवास्मा एतद्वितनोति। अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वा वयमिति यः पूर्वमीजानः स्यात्तस्मै। प्रत्नमिति पूर्वं कर्माभिवदति। तत्तन्ना ऽऽदृत्यम्। अग्निर्वृत्राणि जङ्घन त्वं सोमासि सत्पतिरिति वार्त्रघ्नावेव कुर्यात्। वृत्रं वा एष हन्ति यं यज्ञ उपनमति तस्माद्वार्त्रघ्नावेव कर्तव्यौ। अग्निर्मुखं प्रथमो देवतानामग्निश्च विष्णो तप उत्तमं मह इत्याग्नावैष्णवस्य हविषो याज्यानुवाक्ये भवतः। आग्नावैष्णव्यौ रूपसमृद्धे यतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति। अग्निश्च ह वै विष्णुश्च देवानां दीक्षापालौ तौ दीक्षाया ईशाते तद्यदाग्नावैष्णवं हविर्भवति यौ दीक्षाया ईशाते तौ प्रीतौ दीक्षां प्रयच्छतां यौ दीक्षयितारौ तौ दीक्षयेतामिति। त्रिष्टुभौ भवतः सेन्द्रियत्वाय ॥1.4॥

गायत्र्यौ स्विष्टकृतः संयाज्ये कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं गायत्री तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्गायत्र्यौ कुरुत उष्णिहावायुष्कामः कुर्वीतायुर्वा उष्णिक् सर्वमायुरेति य एवं विद्वानुष्णिहौ कुरुतेऽनुष्टुभौ स्वर्गकामः कुर्वीत द्वयोर्वा अनुष्टुभोश्चतुःषष्टिरक्षराणि त्रय इम ऊर्ध्वा एकविंशा लोका एकविंशत्यैकविंशत्यैवेमाँ ल्लोकान्रोहति स्वर्ग एव लोके चतुःषष्टितमेन प्रतितिष्ठति प्रतितिष्ठति य एवं विद्वाननुष्टुभौ कुरुते बृहत्यौ श्रीकामो यशस्कामः कुर्वीत श्रीर्वै यशश्छन्दसाम्बृहती श्रियमेव यश आ-त्मन्धत्ते य एवं विद्वान्बृहत्यौ कुरुते पङ्क्ती यज्ञकामः कुर्वीत पाङ्क्तो वै यज्ञ उपैनं यज्ञो नमति य एवं विद्वान्पङ्क्ती कुरुते त्रिष्टुभौ वीर्यकामः कुर्वीतौजो वा इन्द्रि यं वीर्यं त्रिष्टुबोजस्वीन्द्रि यवान्वीर्यवान्भवति य एवं विद्वांस्त्रिष्टुभौ कुरुते जगत्यौ पशुकामः कुर्वीत जागता वै पशवः पशुमान्भवति य एवं विद्वाञ्जगत्यौ कुरुते विराजावन्नाद्यकामः कुर्वीतान्नं वै विराट् तस्माद्यस्यैवेह भूयिष्ठमन्नम्भवति स एव भूयिष्ठं लोके विराजति तद्विराजो विराट्त्वं वि स्वेषु राजति श्रेष्ठः स्वानां भवति य एवं वेद॥1.5॥

अथो पञ्चवीर्यं वा एतच्छन्दो यद्विराड् यत्त्रिपदा तेनोष्णिहागाय त्र्?यौ यदस्या एकादशाक्षराणि पदानि तेन त्रिष्टुब्यत्त्रयस्त्रिंशदक्षरा तेनानुष्टुम्न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यां यद्विराट्तत्पञ्चमं सर्वेषां छन्दसां वीर्यमवरुन्द्धे सर्वेषां छन्दसां वीर्यमश्नुते सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकतामश्नु-तेऽन्नादोऽन्नपतिर्भवत्यश्नुते प्रजयान्नाद्यं य एवं विद्वान्विराजौ कुरुते तस्मा-द्विराजावेव कर्तव्ये प्रेद्धो अग्न इमो अग्न इत्येते ऋतं वाव दीक्षा सत्यं दीक्षा तस्माद्दीक्षितेन सत्यमेव वदितव्यमथो खल्वाहुः कोऽर्हति मनुष्यः सर्वं सत्यं वदितुं सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति विचक्षणवतीं वाचं वदेच् चक्षुर्वै विचक्षणं वि ह्येनेन पश्यतीत्येतद्ध वै मनुष्येषु सत्यं निहितं यच्चक्षुस्तस्मादाचक्षाणमाहुरद्र ?ागिति स यद्यदर्शमित्याहाथास्य श्रद्दधति यद्यु वै स्वयम्पश्यति न बहूनां चनान्येषां श्रद्दधाति तस्माद्विचक्षणवतीमेव वाचं वदेत्सत्योत्तरा हैवास्य वागुदिता भवति भवति॥1.6॥

स्वर्गं वा एतेन लोकमुप प्रयन्ति यत्प्रायणीयस्तत्प्रायणीयस्य प्रायणीयत्वम्प्राणो वै प्रायणीय उदान उदयनीयः समानो होता भवति समानौ हि प्राणोदानौ प्राणानां क्लृप्त्यै प्राणानाम्प्रतिप्रज्ञात्यै यज्ञो वै देवेभ्य उदक्रामत्ते देवा न किं चनाशक्नुवन्कर्तुं न प्राजानंस्तेऽब्रुवन्नदितिं त्वयेमं यज्ञम्प्रजानामेति सा तथेत्य-ब्रवीत्सा वै वो वरं वृणा इति वृणीष्वेति सैतमेव वरमवृणीत मत्प्रायणा यज्ञाः सन्तु मदुदयना इति तथेति तस्मादादित्यश्चरुः प्रायणीयो भवत्यादित्य उद-यनीयो वरवृतो ह्यस्या अथो एतं वरमवृणीत मयैव प्राचीं दिशम्प्रजानाथाग्निना दक्षिणां सोमेन प्रतीचीं सवित्रोदीचीमिति पथ्यां यजति यत्पथ्यां यजति तस्मादसौ पुर उदेति पश्चास्तमेति पथ्यां ह्येषोऽनुसंचरत्यग्निं यजति यदग्निं यजति तस्माद्दक्षिणतोऽग्र ओषधयः पच्यमाना आयन्त्याग्नेय्यो ह्योषधयः सोमं यजति यत्सोमं यजति तस्मात्प्रतीच्योऽप्यापो बह्व्यः स्यन्दन्ते सौम्या ह्यापः  सवितारम्यजति यत्सवितारं यजति तस्मादुत्तरतः पश्चादयम्भूयिष्ठम्पवमानः पवते सवितृप्रसूतो ह्येष एतत्पवत उत्तमामदितिं यजति यदुत्तमामदितिं यजति तस्मादसाविमां वृष्ट्याभ्युनत्त्यभिजिघ्रति पञ्च देवता यजति पाङ्क्तो यज्ञः सर्वा दिशः कल्पन्ते कल्पते यज्ञोऽपि तस्यै जनतायै कल्पते यत्रैवं विद्वान्होता भवति॥1.7॥

यस्तेजो ब्रह्मवर्चमिच्छेत्प्रयाजाहुतिभिः प्राङ् स इयात्तेजोवै ब्रह्मवर्चसं प्राची दिक्। तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्प्राङेति। यो ऽन्नाद्यमिच्छेत्प्रयाजाहुतिभिर्दक्षिणा स इयादन्नादो वा एषो ऽन्नपतिर्यदग्निः। अन्नादो ऽन्नपतिर्भवत्यश्नुते प्रजया ऽन्नाद्यं य एवं विद्वान्दक्षिणैति। यः पशूनिच्छेत्प्रयाजाहुतिभिः प्रत्यङ् स इयात्पशवो वा एते यदापः। पशुमान्भवति य एवं विद्वान्प्रत्यङ्ङेति। यः सोमपीथमिच्छेत्प्रयाजाहुतिभिरुदङ् स इयादुत्तरा ह वै सोमो राजा। प्र सोमपीथमाप्नोति य एवं विद्वानुदङ्ङेति। स्वर्ग्यैवोर्ध्वा दिक्सर्वासु दिक्सर्वासु दिक्षु राध्नोति। सम्यञ्चो वा इमे लोकाः सम्यञ्चो ऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद। पथ्यां यजति यत्पथ्यां यजति वाचमेव तद्यज्ञमुखे संभरति। प्राणापानावग्नीषोमौ प्रसवाय सविता प्रतिष्ठित्या अदितिः। पथ्यामेव यजति यत्पथ्यामेव यजति वाचैव तद्यज्ञं पन्थामपि नयति। चक्षुषी एवाग्नीषोमौ प्रसवाय सविता प्रतिष्ठित्या अदितिः। चक्षुषा वै देवा यज्ञं प्राजानंश्चक्षुषा वा एतत्प्रज्ञायते यदप्रज्ञेयं तस्मादपि मुग्धश्चरित्वा यदैवानुष्ठ्या चक्षुषा प्रजानात्यथ प्रजानाति। यद्वै तद्देवा यज्ञं प्राजानन्नस्या वाव तत्प्राजानन्नस्यां समभरन्नस्यै वै यज्ञस्तायते ऽस्यै क्रियते ऽस्यै संभ्रियत इयं ह्यदितिस्यतदुत्तमामदितिं यजति यदुत्तमामदितिं यजति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुक्यात्यै॥1.8॥

देवविशः कल्पयितव्या इत्याहुस्ताः कल्पमाना अनु मनुष्यविशः कल्पन्त इति सर्वा विशः कल्पन्ते कल्पते यज्ञोऽपि तस्यै जनतायै कल्पते यत्रैवं विद्वान्होता भवति स्वस्ति नः पथ्यासु धन्वस्वित्यन्वाह स्वस्त्यप्सु वृजने स्वर्वति स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातनेति मरुतो वै देवानां विशस्ता एवैतद्यज्ञमुखेऽचीक्लृपत्सर्वैश्छन्दोभिर्यजेदित्याहुः सर्वैर्वै छन्दोभिरिष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानः सर्वैश्छन्दोभिरिष्ट्वा स्वर्गं लोकं जयति स्वस्ति नः पथ्यासु धन्वसु स्वस्तिरिद्धि प्रपथे श्रेष्ठेति पथ्यायाः स्वस्तेस्त्रि-ष्टुभावग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्मेत्यग्नेस्त्रिष्टुभौ त्वं सोम प्र चिकितो मनीषा या ते धामानि दिवि या पृथिव्यामिति सोमस्य त्रिष्ट-?ुभावा विश्वदेवं सत्पतिं य इमा विश्वा जातानीति सवितुर्गाय त्र्?यौ सुत्रामा-णम्पृथिवीं द्यामनेहसम्महीमू षु मातरं सुव्रतानामित्यदितेर्जगत्यावेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्ते। एतैर्ह वा अस्य च्छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद॥1.9॥।

ता वा एताः प्रवत्यो नेतृमत्यः पथिमत्यः स्वस्तिमत्य एतस्य हविषो या-ज्यानुवाक्या एताभिर्वा इष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमान एता-भिरिष्ट्वा स्वर्गं लोकं जयति। तासु पदमस्ति स्वस्ति राये मरुतो दधातनेति मरुतो ह वै देवविशोऽन्तरिक्षभाजनास्तेभ्यो ह योऽनिवेद्य स्वर्गं लोकमेतीश्वरा हैनं नि व रोद्धोर्वि वा मथितोः स अदाह स्वस्ति राये मरुतो दधातनेति तम्मरुद्भ्यो देवविड्भ्यो यजमानं निवेदयति न ह वा एनम्मरुतो देवविशः स्वर्गं लोकं यन्तं निरुन्धते न विमथ्नते स्वस्ति हैनमत्यर्जन्ति स्वर्गं लोकमभि य एवं वेद विराजावेतस्य हविषः स्विष्टकृतः संयाज्ये स्यातां ये त्रयस्त्रिंशदक्षरे सेदग्निरग्नीँ रत्यस्त्वन्यान्सेदग्निर्यो वनुष्यतो निपातीत्येते विराड्भ्यां वा इष्ट्वा देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानो विराड्भ्यामिष्ट्वा स्वर्गं लोकं जयति ते त्रयस्त्रिंशदक्षरे भवतस्त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्र ?ा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च तत्प्रथमे यज्ञमुखे देवता अक्षरभाजः करोत्यक्षरेणाक्षरेणैव तद्देवतां प्रीणाति देवपात्रेणैव तदेवतास्तर्पयति॥1.10॥

प्रयाजवदननुयाजं कर्तव्यं प्रायणीयमित्याहुर्हीनमिव वा एतदीङ्खितमिव यत्प्रायणीयस्यानुयाजा इति। तत्तन्नाऽऽदृत्यं प्रयाजवदेवानुयाजवत्कर्तव्यम्। प्राणा वै प्रयाजाः प्रजाऽनुयाजा यत्प्रयाजानन्तरियात् प्राणांस्तद्यजमानस्यान्तरियाद् यदनुयाजानन्तरियात्प्रजां तद्यजमानस्यान्तरियात्। तस्मात्प्रयाजवदेवानुयाजवत्त्कर्तव्यम्। पत्नीर्न संयाजयेत्संस्थितयजुर्न जुहुयात्। तावतैव यज्ञोऽसंस्थितः। प्रायणीयस्य निष्कासं निदध्यात्तमुदयनीयेनाभिनिर्वपेद्यज्ञस्य संतत्यै यज्ञस्याव्यवच्छेदाय। अथो खलु यस्यामेव स्थाल्यां प्रायणीयं निर्वपेत्तस्यामुदयनीयं निर्वपेत्तावतैव यज्ञः संततोऽव्यवच्छिन्नो भवति। अमुष्मिन्वा एतेन लोके राध्नुवन्ति नास्मिन्नित्याहुर् यत्प्रायणीयमिति प्रायणीयमिति निर्वपन्ति प्रायणीयमिति चरन्ति प्रयन्त्येवास्माल्लोकाद्यजमाना । अविद्ययैव तदाहुर्व्यतिषजेद् याज्यानुवाक्याः। या प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य याज्याः कुर्याद्या उदयनीयस्य पुरोनुवाक्यास्ताः प्रायणीयस्य याज्याः कुर्यात् तद्व्यतिषजत्युभयोर्लोकयोर् ऋद्ध्या उभयोर्लोकयोः प्रतिष्ठित्या उभयोर्लोकयोर् ऋध्नोत्युभयोर्लोकयोः प्रतितिष्ठति। प्रतितिष्ठति य एवं वेद। आदित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयो यज्ञस्य धृत्यै यज्ञस्य बर्सनद्ध्यै यज्ञस्याप्रस्रंसाय। तद्यथैवाद इति स्माऽऽह तेजन्या उभयतो ऽन्तयोरप्रस्रंसाय बर्सौ नह्यत्येवमेवैतद् यज्ञस्योभयतो ऽन्तयोरप्रस्रंसाय बर्सौ नह्यति यदादित्यश्चरुः प्रायणीयो भवत्यादित्य उदयनीयः। पथ्ययैवेतः स्वस्त्या प्रयन्ति पथ्यां स्वस्तिमभ्युद्यन्ति स्वस्तेयेवेतः प्रयन्ति स्वस्त्युद्यन्ति स्वस्त्युद्यन्ति॥॥1.11॥

प्राच्यां वै दिशि देवाः सोमं राजानमक्रीणंस्तस्मात्प्राच्यां दिशि क्रीयते। तं त्रयोदशान्मासादक्रीणंस् तस्मात्त्रयोदशो मासो नानुविद्यते न वै सोमविक्रय्यनुविद्यते पापो हि सोमविक्रयी। तस्य क्रीतस्य मनुष्यानभ्युपावर्तमानस्य दिशो वीर्याणीन्द्रियाणि व्युदसीदंस्तान्येकयर्चा ऽवारुरुत्सन्त तानि नाशक्नुवंस्तानि द्वाभ्यां तानि तिसृभिस्तानि चतसृभिस्तानि पञ्चभिस्तानि षड्भिस्तानि सप्तभिर्नैवावारुन्धत तान्यष्टाभिरवारुन्धताष्टाभिराश्नुवत यदष्टाभिरवारुन्धताष्टाभिराश्नुत तदष्टानामष्टत्वम्। अश्नुते यद्यत्कामयते य एवं वेद। तस्मादेतेषु कर्मस्वष्टावनूच्यन्त इन्द्रियाणां वीर्याणामवरुद्ध्यै॥1.12॥

सोमाय क्रीताय प्रोह्यमाणायानुब्रूहीत्याहाध्वर्युर्भद्र ?ादभि श्रेयः प्रेहीत्यन्वाहायं वाव लोको भद्र स्तस्मादसावेव लोकः श्रेयान्स्वर्गमेव तल्लोकं यजमानं गमयति बृहस्पतिः पुरएता ते अस्त्विति ब्रह्म वै बृहस्पतिर्ब्रह्मैवास्मा एतत्पुरोगवमकः न वै ब्रह्मण्वद्रि ष्यत्यथेमव स्य वर आ पृथिव्या इति देवयजनं वै वरम्पृथिव्यै देवयजन एवैनं तदवसाययत्यारे शत्रून्कृणुहि सर्ववीर इति द्विषन्तमेवास्मै तत्पाप्मानम्भ्रातृव्यमपबाधतेऽधरम्पादयति सोम यास्ते मयोभुव इति तृचं सौम्यं गायत्रमन्वाह सोमे राजनि प्रोह्यमाणे स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति सर्वे नन्दन्ति यशसागतेनेत्यन्वाह यशो वै सोमो राजा सर्वो ह वा एतेन क्रीयमाणेन नन्दति यश्च यज्ञे लप्स्यमानो भवति यश्च न सभासाहेन सख्या सखाय इत्येष वै ब्राह्मणानां सभासाहः सखा यत्सोमो राजा किल्बिषस्पृदित्येष उ एव किल्बिषस्पृद्यो वै भवति यः श्रेष्ठतामश्नुते स किल्बिषम्भवति तस्मादाहुर्मानुवोचो मा प्रचारीः किल्बिषं नु मा यातयन्निति पितुषणिरित्यन्नं वै पितु दक्षिणा वै पितु तामेनेन सनोत्यन्नसनिमेवैनं तत्करोत्यरं हितो भवति वाजिनायेतीन्द्रि यं वै वीर्यं वाजिनमाजरसं हास्मै वाजिनं नापछिद्यते य एवं वेदागन्देव इत्यन्वाहागतो हि स तर्हि भवत्यृतुभिर्वर्धतु क्षयमित्यृतवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य तैरेवैनं तत्सहागमयति दधातु नः सविता सुप्रजामिषमित्याशिषमाशास्ते स नः क्षपाभिरहभिश्च जिन्वत्वित्यहानि वा अहानि रात्रयः क्षपा अहोरात्रैरेवास्मा एतामाशिषमाशास्ते प्रजावन्तं रयिमस्मे समिन्वत्वित्याशिषमेवाशास्ते या ते धामानि हविषा यजन्तीत्यन्वाह ता ते विश्वा परिभूरस्तु यज्ञं गयस्फानः प्रतरणः सुवीर इति गवां नः स्फावयिता प्रतारयितैधीत्येव तदाहावीरहा प्र चरा सोम दुर्यानिति गृहा वै दुर्या बिभ्यति वै सोमाद्र ?ाज्ञ आयतो यजमानस्य गृहाः स यदेतामन्वाह शान्त्यैवैनं तच्छमयति सोऽस्य शान्तो न प्रजां न पशून्हिनस्तीमां धियं शिक्षमाणस्य देवेति वारुण्य परिदधाति वरुणदेवत्यो वा एष तावद्यावदुपनद्धो यावत्परिश्रितानि प्रपद्यते स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति शिक्षमाणस्य देवेति शिक्षते वा एष यो यजते क्रतुं दक्षं वरुण संशिशाधीति वीर्यम्प्रज्ञानं वरुण सं शिशाधीत्येव तदाह ययाति विश्वा दुरितातरेम सुतर्माणमधि नावं रुहेमेति यज्ञो वै सुतर्मा नौः कृष्णाजिनं वै सुतर्मा नौर्वाग्वै सुतर्मा नौर्वाचमेव तदारुह्य तया स्वर्गं लोकमभि संतरति ता एता अष्टावन्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता द्वादश सम्पद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥1.13॥

अन्यतरतोऽनड्वान्युक्तः स्यादन्यतरो विमुक्तोऽथ राजानमुपावहरेयुः। यदुभयोर्विमुक्तयोरुपावहरेयुः पितृदेवत्यं राजानं कुर्युः। यदद्युक्तयोरयोगक्षेमः प्रजा विन्देत्ताः प्रजाः परिप्लवेरन्। योऽनड्वान्विमुक्तः तच्छालासदां प्रजानां रूपं यो युक्तस्तच्च क्रियाणां ते ये युक्तेऽन्ये विमुक्तेऽन्य उपावहरन्त्युभावेव ते क्षेमयोगौ कल्पयन्ति। देवासुरा वा एषु लोकेषु समयतन्त त एतस्यां प्राच्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्ते दक्षिणस्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्ते प्रतीच्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्त उदीच्यां प्राच्यां दिश्ययतन्त ते ततो न पराजयन्त। सैषा दिगपराजिता। तस्मादेतस्यां दिशि यतेत वा यातयेद्वेश्वरो हानृणाकर्तोः। ते देवा अब्रुवन्नराजतया वै नो जयन्ति। राजानं करवामहा इति। तथेति। ते सोमं राजानमकुर्वंस्ते सोमेन राज्ञा सर्वा दिशोऽजयन्नेष वै सोमराजा यो यजते। प्राचि तिष्ठत्यादधति तेन प्राचीं दिशं जयति। तं दक्षिणा परिवहन्ति तेन दक्षिणां दिशं जयति। तं दक्षिणा परिवहन्ति देन दक्षिणां दिशं जयति। तं प्रत्यञ्चमावर्तयन्ति तेन प्रतीचीं दिशं जयति। तमुदीचस्तिष्ठत उपावहरन्ति तेनोदीचीं दिशं जयति सोमेन राज्ञा। सर्वा दिशो जयति य एवं वेद ॥1.14॥

हविरातिथ्यं निरुप्यते सोमे राजन्यागते सोमो वै राजा यजमानस्य गृहानागछति तस्मा एतद्धविरातिथ्यं निरुप्यते तदातिथ्यस्यातिथ्यत्वं नवकपालो भवति नव वै प्राणाः प्राणानां क्लृप्त्यै प्राणानाम्प्रतिप्रज्ञात्यै वैष्णवो भवति विष्णुर्वै यज्ञः स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति सर्वाणि वाव छन्दांसि च पृष्ठानि च सोमं राजानं क्रीतमन्वायन्ति यावन्तः खलु वै राजानमनुयन्ति तेभ्यः सर्वेभ्य आतिथ्यं क्रियतेऽग्निम्मन्थन्ति सोमे राजन्यागते तद्यथैवादो मनुष्यराज आगतेऽन्यस्मिन्वार्हत्युक्षाणं वा वेहतं वा क्षदन्त एवमेवास्मा एतत्क्षदन्ते यदग्निं मन्थन्त्यग्निर्हि देवानां पशुः॥1.15॥

अग्नये मथ्यमानायानुब्रूहीत्याहाध्वर्युरभि त्वा देवा सवितरिति सावित्रीमन्वाह तदाहुर्यदग्नये मथ्यमानायानु वाचाहाथ कस्मात्सावित्रीमन्वाहेति सविता वै प्रसवानामीशे सवितृप्रसूता एवैनं तन्मन्थन्ति तस्मात्सावित्रीमन्वाह मही द्यौः पृथिवी च न इति द्यावापृथिवीयामन्वाह तदाहुर्यदग्नये मथ्यमानायानु वा-चाहाथ कस्माद्द्यावापृथिवीयामन्वाहेति द्यावापृथिवीभ्यां वा एतं जातं देवाः पर्यगृह्णंस्ताभ्यामेवाद्यापि परिगृहीतस्तस्माद्द्यावापृथिवीयामन्वाह त्वामग्ने पुष्करादधीति तृचमाग्नेयं गायत्रमन्वाहाग्नौ मथ्यमाने स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयत्यथर्वा निरमन्थतेति रूपसमृद्धं एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति स यदि न जायेत यदि चिरं जायेत राक्षोघ्न्यो गाय त्र्?योऽनूच्या अग्ने हंसि न्यत्रिणमित्येता रक्षसामपहत्यै रक्षांसि वा एनं तर्ह्यालभन्ते यर्हि न जायते यर्हि चिरं जायते स यद्येकस्यामेवानूक्तायां जायेत यदि द्वयोरथो त ब्रुवन्तु जन्तव इति जाताय जातवतीमभिरूपा-मनुब्रूयाद्यद्यज्ञेऽभिरूपं तत्समृद्ध आ यं हस्ते न खादिनमिति हस्ताभ्यां ह्येन मन्थन्ति शिशुं जातमिति शिशुरिव वा एष प्रथमजातो यदग्निर्न बिभ्रति विशामग्निं स्वध्वरमिति यद्वै देवानां नेति तदेषामोमिति प्र देवं देववीतये भरता वसुवित्तममिति प्रह्रियमाणायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धमास्वे योनौ नि षीदत्वित्येष ह वा अस्य स्वो योनिर्यदग्निरग्नेरा जातं जातवेदसीति जात इतरो जातवेदा इतरः प्रियं शिशीतातिथिमित्येष ह वा अस्य प्रियो-ऽतिथिर्यदग्निरग्नेः स्योन आ गृहप्तिमिति शान्त्यामेवैनं तद्दधात्यग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा हव्यवाद्जुह्वास्य इत्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धं त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सतेति विप्र इतरो विप्र?ः सनु इतरः सन्नितरः सखा सख्या समिध्यस इत्येष ह वा अस्य स्वः सखा यदग्निरग्नेस्तम्मर्जयन्त सुक्रतुम्पुरोयावानमाजिषु स्वेषु क्षयेषु वाजिनमिति एष ह वा अस्य स्वः क्षयो यदग्निरग्नेर्यज्ञेन यज्ञमयजन्त देवा इत्युत्तमया परिदधाति यज्ञेन वै तद्देवा यज्ञमयजन्त यदग्निनाग्निमयजन्त ते स्वर्गं लोकमायंस्तानि धर्माणि प्रथमान्यासन्ते ह नाकम्महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा इति छन्दांसि वै साध्या देवास्तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्नादि-त्याश्चैवेहासन्नङ्गिरसश्च तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्सैषा स्व-र्ग्याहुतिर्यदग्न्याहुतिर्यदि ह व अप्यब्राह्मणोक्तो यदि दुरुक्तोक्तो यजतेऽथ हैषाहुतिर्गछत्येव देवान्न पाप्मना संसृज्यते गछत्यस्याहुतिर्देवान्नास्याहुतिः पाप्मना संसृज्यते य एवं वेद ता एतास्त्रयोदशान्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ताः सप्तदश सम्पद्यन्ते सप्तदशो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवस्तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥1.16॥

समिधाग्निं दुवस्यता प्यायस्व समेतु त इत्याज्यभागयोः पुरोनुवाक्ये भवत आतिथ्यवत्यौ रूपसमृद्धे एतद्वै यज्ञस्य समृधं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति सैषाग्नेय्यतिथिमती न सौम्यातिथिमत्यस्ति यत्सौम्यातिथिमती स्याच्छश्वत्सा स्यादेतत्त्वेवैषातिथिमति यदापीनवती यदा वा अतिथिम्परिवेविषत्यापीन इव वै स तर्हि भवति तयोर्जुषाणेनैव यजतीदं विष्णुर्वि चक्रमे तदस्य प्रियमभि पाथो अश्यामिति वैष्णव्यौ त्रिपदामनूच्य चतुष्पदया यजति सप्त पदानि भवन्ति शिरो व एतद्यज्ञस्य यदातिथ्यं सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधाति होतारं चित्ररथमध्वरस्य प्रप्राय-मग्निर्भरतस्य शृण्व इति स्विष्टकृतः संयाज्ये भवत आतिथ्यवत्यौ रूपसमृद्धे एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति त्रिष्टुभौ भवतः सेन्द्रि यत्वाये ळान्तम्भवतीळान्तेन वा एतेन देवा अराध्नुवन्यदातिथ्यं तस्मा-दिळान्तमेव कर्तव्यम्प्रयाजानेवात्र यजन्ति नानुयाजान्प्राणा वै प्रयाजानु-याजास्ते य इमे शीर्षन्प्राणास्ते प्रयाजा येऽवाञ्चस्तेऽनुयाजाः स योऽत्रानुया-जान्यजेद्यथेमान्प्राणानालुप्य शीर्षन्धित्सेत्तादृक्तदतिरिक्तं तत्समु वा इमे प्राणा विद्रे ये चेमे ये चेमे तद्यदेवात्र प्रयाजान्यजन्ति नानुयाजांस्तत्र स काम उपाप्तो योऽनुयाजेषु॥1.17॥

यज्ञो वै देवेभ्य उदक्रामन्न वोऽहमन्नं भविष्यामीति नेति देवा अब्रुवन्नन्नमेव नो भविष्यसीति तं देवा विमेथिरे सहैभ्यो विहृतो न प्रबभूव ते होचुर्देवा न वै न इत्थं विहृतोऽलं भविष्यति हन्तेमं यज्ञं संभरामेति तथेति तं संजभ्रुः। तं संभृत्योचुरश्निनाविमं भिषज्यतमित्यश्विनौ वै देवानां भिषजावश्विनावध्वर्यू तस्मादध्वर्यू घर्मं संभरतः। तं संभृत्याऽऽहतुर्ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामो होतरभिष्टुहीति॥1.18॥

ब्रह्म जज्ञानं प्रथमं पुरस्तादिति प्रतिपद्यते ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनं तद्भिषज्यति। इयं पित्रे राष्ट्र्येत्यग्र इति वाग्वै राष्ट्री वाचमेवास्मिंस्तद्दधाति। महान्मही अस्तभायद्विजात इति ब्राह्मणस्पत्या ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनं तद्भिषज्यति। अभि त्यं देवं सवितारमोण्योरिति सावित्री प्राणो वै सविता प्राणमेवास्मिंस्तद्दधाति। संसीदस्व महाँ असीत्येवैनं समसादयन्। अञ्जन्ति यं प्रथयन्तो न विप्रा इत्यज्यमानायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्। पतङ्गमक्तमसुरस्य मायया यो नः सनुत्यो अभिदासदग्ने भवा नो अग्ने सुमना उपेताविति द्वे द्वे अभिरूपे यद्यज्ञेऽभिरूपं तत्समृद्धम्। कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पञ्च राक्षोघ्न्यो रक्षसामपहत्यै। परि त्वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थ्यं वचः शुक्रं ते अन्यद्यजतं ते अन्यदपश्यं गोपामनिपद्यमानमिति चतस्र एकपातिन्यः। ता एकविंशतिर्भवन्ति। एकविंशोऽयं पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्तमिममात्मानमेकविंशं संस्कुरुते॥1.19॥

स्रक्वे द्रप्सस्य धमतः समस्वरन्निति नव पावमान्यो नव वै प्राणाः प्राणानेवास्मिंस्तद्दधाति। अयं वेनश्चोदयत्पृश्निगर्भा। वेनोऽस्माद्वा ऊर्ध्वा अन्ये प्राणा वेनन्त्यवाञ्चोऽन्ये तस्माद्वेनः प्राणो वा अयं सन्नाभेरिति तस्मान्नाभिस्तन्नाभेर्नाभित्वं प्राणमेवास्मिंस्तद्दधाति। पवित्रं ते विततं ब्रह्मणस्पते तपोष्पवित्रं विततं दिवस्पदे वियत्पवित्रं धिषणा अतन्वतेति पूतवन्तः प्राणास्त इमेऽवाञ्चो रेतस्यो मूत्र्यः पुरीष्या इत्येतानेवास्मिंस्तद्दधाति ॥1.20॥

गणानां त्वा गणपतिं हवामह इति ब्राह्मणस्पत्यम्ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनम्तद्भिषज्यति प्रथश्च यस्य सप्रथश्च नामेति घर्मतन्वः सतनुमेवैनं तत्सरूपं करोति रथंतरमाजभारा वसिष्ठः भरद्वाजो बृहदा चक्रे अग्नेरिति बृहद्र थंतरवन्तमेवैनं तत्करोत्यपश्यं त्वा मनसा चेकितानमिति प्रजावान्प्राजापत्यः प्रजामेवास्मिंस्तद्दधाति का राधद्धोत्राश्विना वामिति नव विछन्दसस्तदेतद्यज्ञस्यान्तस्त्यं विक्षुद्र मिव व अन्तस्त्यमणीय इव च स्थवीय इव च तस्मादेता विछन्दसो भवन्त्येताभिर्हाश्विनोः कक्षीवान्प्रियं धामो-पागछत्स परमं लोकमजयदुपाश्विनोः प्रियं धाम गछति जयति परमं लोकं य एवं वेदाभात्यग्निरुषसामनीकमिति सूक्तम्पीपिवांसमश्विना घर्ममछेत्यभिरूपं यद्यज्ञेऽभिरूपं तत्समृद्धं तदु त्रैष्टुभं वीर्यं वै त्रिष्टुब्वीर्यमेवास्मिंस्तद्दधाति ग्रावाणेव तदिदर्थं जरेथे इति सूक्तमक्षी इव कर्णाविव नासेवेत्यङ्ग-समाख्यायमेवास्मिंस्तदिन्द्रि याणि दधाति तदु त्रैष्टुभं वीर्यं वै त्रिष्टुब्वीर्य-मेवास्मिंस्तद्दधातीळे द्यावापृथिवी पूर्वचित्तय इति सूक्तमग्निं घर्मं सुरुचं यामन्निष्टय इत्यभिरूपं यद्यज्ञेऽभिरूपं तत्समृद्धं तदु जागतं जागता वै पशवः पशूनेवास्मिंस्तद्दधाति याभिरमुमावतं याभिरमुमावतमित्येतावतो हात्राश्वि-उऔ कामान्ददृशतुस्तानेवास्मिंस्तद्दधाति तैरेवैनं तत्समर्धयत्यरूरुचदुषसः पृश्निरग्रिय इति रुचितवती रुचमेवास्मिंस्तद्दधाति द्युभिरक्तुभिः परि पातम-स्मानित्युत्तमया परिदधात्यरिष्टेभिरश्विना सौभगेभिः तन्नो मित्रो वरुणो मामह-न्तामदितिः सिन्धुः पृथिवी उत द्यौरित्येतैरेवैनं तत्कामैः समर्धयतीति नु पूर्वं पटलम्॥1.21॥

अथोत्तरमुप ह्वये सुदुघां धेनुमेतां हिङ्कृण्वती वसुपत्नी वसूनामभि त्वा देव सवितः समी वत्सं न मातृभिः सं वत्स इव मातृभिर्यस्ते स्तनः शशयो यो मयोभूर्गौरमीमेदनु वत्सम्मिषन्तं नमसेदुप सीदत संजानाना उप सीदन्नभिज्ञ्वा दशभिर्विवस्वतो दुहन्ति सप्तैकां समिद्धो अग्निरश्विना समिद्धो अग्नि-र्वृषणारतिर्दिवस्तदु प्रयक्षतममस्य कर्म त्मन्वन्नभो दुह्यते घृतम्पय उत्तिष्ठ ब्रह्मणस्पतेऽधुक्षत्पिप्युषीमिषमुप द्र व पयसा गोधुगोषमा सुते सिञ्चत श्रियमा नूनमश्विनोरृषिः समु त्ये महतीरप इत्येकविंशतिरभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धमुदु ष्य देवः सविता हिरण्ययेत्यनूथिष्ठति प्रैतु ब्रह्मणस्पतिरित्यनुप्रैति गन्धर्व इत्था पदमस्य रक्षतीति खरमवेक्षते नाके सुपर्णमुप यत्पतन्तमि-त्युपविशति तप्तो वां घर्मो नक्षति स्वहोतो भा पिबतमश्विनेति पूर्वाह्णे यजत्यग्ने वीहीत्यनुवषट्करोति स्विष्टकृद्भाजनं यदुस्रियास्वाहुतं घृतम्पयो स्य पिबतमश्विनेत्यपराह्णे यजत्यग्ने वीहीत्यनुवषट्करोति स्विष्टकृद्भाजनं त्रयाणां ह वै हविषां स्विष्टकृते न समवद्यन्ति सोमस्य घर्मस्य वाजिनस्येति स यदनु-वषट्करोत्यग्नेरेव स्विष्टकृतोऽनन्तरित्यै विश्वा आशा दक्षिणसादिति ब्रह्मा जपति स्वाहाकृतः शुचिर्देवेषु घर्मः समुद्र ?ादूर्मिमुदियर्ति वेनो द्र प्सः समुद्र मभि यज्जिगाति सखे सखायमभ्या वव्रित्स्वो र्ध्व ऊ षु ण ऊतय ऊर्ध्वो नः पाह्यंहगस्तं घेमित्था नमस्विन इत्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्पावक-शोचे तव हि क्षयम्परीति भक्षमाकाङ्क्षते हुतं हविर्मधु हविरिन्द्र तमेऽग्नावश्याम ते देव घर्म मधुमतः पितुमतो वाजवतोऽङ्गिरस्वतो नमस्ते अस्तु मा मा हिंसीरिति घर्मस्य भक्षयति श्येनो न योनिं सदनं धिया कृतमा यस्मिन्सप्त वासवा इति संसाद्यमानायान्वाह हविर्हविष्मो महि सद्म दैव्यमिति यदह-रुत्सादयिष्यन्तो भवन्ति सूयवसाद्भगवती हि भूया इत्युत्तमया परिदधाति तदेतद्देवमिथुनं यद्घर्मः स यो घर्मस्तच्छिश्नं यौ शफौ तौ शफौ योपयमनी ते श्रोणिकपाले यत्पयस्तद्रे तस्तदिदमग्नौ देवयोन्याम्प्रजनने रेतः सिच्यतेऽग्निर्वै देवयोनिः सोऽग्नेर्देवयोन्या आहुतिभ्यः सम्भवत्यृङ्मयो यजुर्मयः साममयो वेदमयो ब्रह्ममयोऽमृतमयः सम्भूय देवता अप्येति य एवं वेद यश्चैवं विद्वानेतेन यज्ञक्रतुना यजते॥1.22॥

देवासुरा वा एषु लोकेषु समयतन्त ते वा असुरा इमानेव लोकान्पुरोऽकुर्वत यथौजीयांसो बलीयांस एवं ते वा अयस्मयीमेवेमामकुर्वत रजतामन्तरिक्षं हरिणीं दिवं ते तथेमाँल्लोकान्पुरोऽकुर्वत ते देवा अब्रुवन्पुरो वा इमेऽसुरा इमाँल्लोकानक्रत पुर इमाँल्लोकान्प्रतिकरवामहा इति तथेति ते सद एवास्याः प्रत्यकुर्वताऽऽग्नीध्रमन्तरिक्षाद्धविर्धाने दिवस्ते तथेमाँल्लोकान्पुरः प्रत्यकुर्वत। ते देवा अब्रुवन्नुपसद उपायामोपसदा वै महापुरं जयन्तीति तथेति ते यामेव प्रथमामुपसदमुपायंस्तयैवैनानस्माँल्लोकादनुदन्त यां द्वितीयां तयाऽन्तरिक्षाद्यां तृतीयां तया दिवस्तांस्तथैभ्यो लोकेभ्योऽनुदन्त। ते वा एभ्यो लोकेभ्यो नुत्ता असुरा ऋतूनश्रयन्त ते देवा अब्रुवन्नुपसद एवोपायामेति तथेति त इमास्तिस्रः सतीरुपसदो द्विर्द्विरेकैकामुपायंस्ताः षट् समपद्यन्त षड् वा ऋतवस्तान्वा ऋतवस्तान्वा ऋतुभ्योऽनुदन्त। ते वा ऋतुभ्यो नुत्ता असुरा मासानश्रयन्त ते देवा अब्रुवन्नुपसद एवोपायामेति तथेति त इमाः षट् सतीरुपसदो द्विर्द्विरेकैकामुपायंस्ता द्वादश समपद्यन्त द्वादश वै मासास्तान्वै मासेभ्योऽनुदन्त। ते वै मासेभ्यो नुत्ता असुरा अर्धमासानश्रयन्त ते देवा अब्रुवन्नुपसद एवोपायामेति तथेति त इमा द्वादश सतीरुपसदो द्विर्द्विरेकैकामुपायंस्ताश्चतुर्विंशतिः समपद्यन्त चतुर्विंशतिर्वा अर्धमासास्तान्वा अर्धमासेभ्योऽनुदन्त। ते वा अर्धमासेभ्यो नुत्ता असुरा अहोरात्रे अश्रयन्त ते देवा अब्रुवन्नुपसदावेवोपायामेति तथेति ते यामेव पूर्वाह्ण उपसदमुपायंस्तयैवैनानह्नोऽनुदन्त यामपराह्णे तया रात्रेस्तांस्तथोभाभ्यामहोरात्राभ्यामन्तरायन्। तस्मात्सुपूर्वाह्ण एव पूर्वयोपसदा प्रचरितव्यं स्वपराह्णेऽपरया तावन्तमेव तद्द्विषते लोकं परिशिनष्टि॥1.23॥ (4.6)

जितयो वै नामैता यदुपसदोऽसपत्नां वा एताभिर्देवा विजितिं व्यजयन्तासपत्नां विजितिं विजयते य एवं वेद यां देवा एषु लोकेषु यामृतुषु याम्मासेषु यामर्धमासेषु यामहोरात्रयोर्विजितिं व्यजयन्त तां विजितिं विजयते य एवं वेद ते देवा अबिभयुरस्माकं विप्रेमाणमन्विदमसुरा आभविष्यन्तीति ते व्युत्क्र-म्यामन्त्रयन्ताग्निर्वसुभिरुदक्रामदीन्द्रो रुद्रै र्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस्ते तथा व्युत्क्रम्यामन्त्रयन्त तेऽब्रुवन्हन्त या एव न इमाः प्रियतमास्तन्वस्ता अस्य वरुणस्य राज्ञो गृहे संनिदधामहै ताभिरेव नः स न संगछातै यो न एतद-तिक्रामाद्य आलुलोभयिषादिति तथेति ते वरुणस्य राज्ञो गृहे तनूः संन्यदधत ते यद्वरुणस्य राज्ञो गृहे तनूः संन्यदधत तत्तानूनप्त्रमभवत्तत्तानूनप्त्रस्य तानूनप्त्रत्वं तस्मादाहुर्न सतानूनप्त्रिणे द्र ?ोग्धव्यमिति तस्माद्विदमसुरा नान्वाभवन्ति॥1.24॥

शिरो वा एतद्यज्ञस्य यदातिथ्यं ग्रीवा उपसदः समानहर्हिषी भवतः समानं हि शिरोग्रीवमिषुं वा एतां देवाः समस्कुर्वत यदुपसदस्तस्या अग्निरनीक-मासीत्सोमः शल्यो विष्णुस्तेजनं वरुनः पर्नानि तामाज्यधन्वानो व्यसृजंस्तया पुरो भिन्दन्त आयंस्तस्मादेता आज्यहविषो भवन्ति चतुरोऽग्रे स्तनान्व्रत-मुपैत्युपसत्सु चतुःसंधिर्हीषुरनीकं शल्यस्तेजनम्पर्णानि त्रीन्स्तनान्व्रतमुपै-त्युपसत्सु त्रिषंधिर्हीषुरनीकं शल्यस्तेजनं द्वौ स्तनौ व्रतमुपैत्युपसत्सु द्वि-षंधिर्हीषुः शल्यश्च ह्येव तेजनं चैकं स्तनं व्रतमुपैत्युपसत्स्वेका ह्येवेषु-रित्याख्यायत एकया वीर्यम्क्रियते परो वरीयांसो वा इमे लोका अर्वागंहीयंसः परस्तादर्वाचीरुपसद उपैत्येषामेव लोकानामभिजित्या उपसद्याय मीळ्हुष इमाम्मे अग्ने समिधमिमामुपसदं वनेरिति तिस्रस्तिस्रः सामिधेन्यो रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति जघ्नि-वतीर्याज्यानुवाक्याः कुर्यादग्निर्वृत्राणि जङ्घनद्य उग्र इव शर्यहा त्वं सोमासि सत्पतिर्गयस्फानो अमीवहे दं विष्णुर्वि चक्रमे त्रीणि पदा वि चक्रम इत्येता विपर्यस्ताभिरपराह्णे यजति घ्नन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन्यदुपसदः सछन्दसः कर्तव्या न विछन्दसो यद्विछन्दसः कुर्याद्ग्रीवासु तद्गण्डं दध्यादीश्वरो ग्लावो जनितोस्तस्मात्सछन्दस एव कर्तव्या न विछन्दसस्तदु ह स्माहो-पाविर्जानश्रुतेय उपसदां किल वै तद्ब्राह्मणे यस्मादप्यश्लीलस्य श्रोत्रियस्य मुखं व्येव ज्ञायते तृप्तमिव रेभतीवेत्याज्यहविषो ह्युपसदो ग्रीवासु मुखमध्याहितं तस्माद्ध स्म तदाह॥1.25॥

देववर्म वा एतद्यत्प्रयाजाश्चानुयाजाश्चाप्रयाजमननुयाजम्भवतीष्वै संशित्या अप्रतिशराय सकृदतिक्रम्याश्रावयति यज्ञस्याभिक्रान्त्या अनपक्रमाय तदाहुः क्रूरमिव वा एतत्सोमस्य राज्ञोऽन्ते चरन्ति यदस्य घृतेनान्ते चरन्ति घृतेन हि वज्रेणेन्द्रो वृत्रमहंस्तद्यदंशुरंशुष्टे देव सोमाप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वा प्याययास्मान्सखीन्सन्या मेधया स्वस्ति ते देव सोम सुत्यामुदृचमशीयेति राजानमाप्याययन्ति यदेवास्य तत्क्रूरमिवान्ते चरन्ति तदेवास्यैतेनाप्यययन्त्यथो एनं वर्धयन्त्येव द्यावा-पृथिव्योर्वा एष गर्भो यत्सोमो राजा तददेष्टा राय एष्टा वामानि प्रेषे भगाय ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति प्रस्तरे निह्नवते द्यावापृथिवीभ्यामेव तं नस्कुर्वन्त्यथो एने वर्धयन्त्येव वर्धयन्त्येव॥1.26॥

सोमो वै राजा गन्धर्वेष्वासीत्तं देवाश्च ऋषयश्चाभ्यध्यायन्कथमयमस्मान्सोमो राजाऽऽगच्छेदिति सा वागब्रवीत्स्त्रीकामा वै गन्धर्वा मयैव स्त्रिया भूतया पणध्वमिति नेति देवा अब्रुवन्कथं वयं त्वदृते स्यामेति साऽब्रवीत्क्रीणीतैव यर्हि वाव वो मयाऽर्थो भविता तर्ह्येव वोऽहं पुनरागन्ताऽस्मीति तथेति तया महानग्न्या भूतया सोमं राजानमक्रीणन्। तामनुकृतिमस्कन्नां वत्सतरीमाजन्ति सोमक्रयणीं तया सोमं राजानं क्रीणन्ति। तां पुनर्निष्क्रीणीयात्पुनर्हि सा तानागच्छत्। तस्मादुपांशु वाचा चरितव्यं सोमे राजनि क्रीते गन्धर्वेषु हि तर्हि वाग्भवति साऽग्नावेव प्रणीयमाने पुनरागच्छति॥1.27॥ (5.1)

अग्नये प्रणीयमानायानुब्रूहीत्याहाध्वर्युः प्र देवं देव्या धिया भरता जातवेदसम्हव्य नो वक्षदानुषगिति गायात्रीम्ब्राह्मणस्यानुब्रूयाद्गायत्रो वै ब्राह्मणस्तेजो वै ब्रह्मवर्चसं गायत्री तेजसैवैनं तद्ब्रह्मवर्चसेन समर्धयतीमम्महे विदथ्याय शूषमिति त्रिष्टुभं राजन्यस्यानुब्रूयात्त्रैष्टुभो वै राजन्य ओजो वा इन्द्रि यं वीर्यं त्रिष्टुबोजसैवैनं तदिन्द्रि येण वीर्येण समर्धयति शश्वत्कृत्व ईड्याय प्र जभ्रुरिति स्वानामेवैनं तच्छ्रैष्ठ्यं गमायति शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्र इत्याजरसं हास्मिन्नजस्रो दीदाय य एवं वेदायमिह प्रथमो धायि धातृभिरिति जगतीं वैश्यस्यानुब्रूयाज् जागतो वै वैश्यो जागताः पशवः पशुभिरेवैनं तत्समर्धयाति वनेषु चित्रं विभ्वं विशेविश इत्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धमयमु ष्य प्र देवयुरित्यनुष्टुब्बि वाचं विसृजते वाग्वा अनुष्टुब्वाच्येव तद्वाचं विसृजतेऽयमु ष्य इति यदाहायमु स्यागमं या पुरा गन्धर्वेष्ववात्समित्येव तद्वाक्प्रब्रूतेऽयमग्निरुरुष्यतीत्ययं वा अग्निरुरुष्यत्यमृ-तादिव जन्मन इत्यमृतत्वमेवास्मिंस्तद्दधाति सहसश्चित्सहीयान्देवो जीवातवे कृत इति देवो ह्येष एतज्जीवातवे कृतो यदग्निरिळायास्त्वा पदे वयं नाभा पृथिव्या अधीत्येतद्वा इळायास्पदं यदुत्तरवेदीनाभिर्जातवेदो नि धीमहीति निधास्यन्तो ह्येनम्भवन्त्यग्ने हव्याय वोळ्हव इति हव्यं हि वक्ष्यौ भवत्यग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तम्प्रथमः सीद योनिमिति विश्वाइरेवैनं तद्देवैः सहासादयति कुलायिनं घृतवन्तां सवित्र इति कुलायमिव ह्येतद्यज्ञे क्रियते यत्पैतुदारवाः परिधयो गुल्गुलूर्णास्तुकाः सुगन्धितेजनानीति यज्नां नय यजमानाय साध्विति यज्ञमेव तदृजुधा प्रतिष्ठापयति सीद होतः स्व उ लोके चिकित्वानित्यग्निर्वै देवानां होता तस्यैष स्वो लोको यदुत्तरवेदीनाभिः सादया यज्ञं सुकृतस्य योनाविति यजमानो वै यज्ञो यजमानायैवैतामाशिषमाशास्ते देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धा इति प्राणो वै वयः प्राणमेव तद्यजमाने दधाति नि होता होतृषदने विदान इत्यग्निर्वै देवानां होता तस्यैतद्धोतृषदनं यदुत्तरवेदीनाभिस्त्वेषो दीदिवाँ असदत्सुदक्ष इत्यासन्नो हि स तर्हि भवत्यदब्धव्रतप्रमतिर्वसिष्ठ इत्यग्निर्वै देवानां वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निरित्येषा ह वा अस्य सहस्रम्भरता यदेनमेकं सन्तम्बहुधा विहरन्ति प्र ह वै साहस्रम्पोषमाप्नोति य एवं वेद त्वं दूतस्त्वमु नः परस्पा इत्युत्तमया परिदधाति त्वं वस्य आ वृषभ प्रणेता अग्ने तोकस्य नस्तने तनूनामप्रयुछन्दीद्यद्बोधि गोपा इत्यग्निर्वै देवानां गोपा अग्निमेव तत्सर्वतो गोप्तारम्परिदत्त आत्मने च यजमानाय च यत्रैवं विद्वानेतया परिदधात्यथो संवत्सरीणामेवैतां स्वस्तिं कुरुते ता एता अष्टावन्वाह रूपसमृधा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता द्वादश सम्पद्यन्ते द्वादस वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्य तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥1.28॥

हविर्धानाभ्याम्प्रोह्यमाणाभ्यामनुब्रूहीत्याहाध्वर्युर्युजे वाम्ब्रह्म पूर्व्यं नमोभि-रित्यन्वाह ब्रह्मणा वा एते देवा अयुञ्जत यद्धविर्धाने ब्रह्मणैवैने एतद्युङ्क्ते न वै ब्रह्मण्वद्रि ष्यति प्रेतां यज्ञस्य शम्भुवेति तृचं द्यावापृथिवीयमन्वाह तदाहु-र्यद्धविर्धानाभ्याम्प्रोह्यमाणाभ्यामनु वाचाहाथ कस्मात्तृचं द्यावापृथिवीयम-न्वाहेति द्यावापृथिवी वै देवानां हविर्धाने आस्तां ते उ एवाद्यापि हविर्धाने ते हीदमन्तरेण सर्वं हविर्यदिदं किंच तस्मात्तृचं द्यावापृथिवीयमन्वाह यमे इव यतमाने यदैतमिति यमे इव ह्येते यतमाने प्रबाहुगितः प्र वाम्भरन्मानुषा देवयन्त इति देवयन्तो ह्येने मानुषाः प्रभरन्त्या सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे न इति सोमो वै राजेन्दुः सोमायैवैने एतद्र ?ाज्ञ आसदे-ऽचीक्लृपदधि द्वयोरदधा उक्थ्यं वच इति द्वयोर्ह्येतत्तृतीयं छदिरधिनिधीयत उक्थ्यं वच इति यदाह यज्ञियं वै कर्मोक्थ्यं वचो यज्ञमेवैतेन समर्धयति यतस्रुचा मिथुउआ या सपर्यतः असंयत्तो व्रते ते क्षेति पुष्यतीति यदेवादः पूर्वं यत्तवत्पदमाह तदेवैतेन शान्त्या शमयति भद्र ?ा शक्तिर्यजमानाय सुन्वत इत्याशिषमाशास्ते विश्वा रूपाणि प्रति मुञ्चते कविरिति विश्वरूपामन्वाह स रराट्यामीक्षमाणोऽनुब्रूयाद्विश्वमिव हि रूपं रराट्याः शुक्लमिव च कृष्णमिव च विश्वं रूपमवरुन्द्ध आत्मने च यजमानाय च यत्रैवं विद्वानेतां ररा-ट्यामीक्षमाणोऽन्वाह परि त्वा गिर्वणो गिर इत्युत्तमया परिदधाति स यदैव हविर्धाने सम्परिश्रिते मन्येताथ परिदध्यादनग्नम्भावुका ह होतुश्च यजमानस्य च भार्या भवन्ति यत्रैवं विद्वानेतया हविर्धानयोः सम्परिश्रितयोः परिदधाति यजुषा वा एते परिश्रीयेते यद्धविर्धाने यजुषैवैने एतत्परिश्रयन्ति तौ यदैवाध्वर्युश्च प्रतिप्रस्थाता चोभयतो मेथ्यौ निहन्यातामथ परिदध्यादत्र हि ते सम्परिश्रिते भवतस्ता एता अष्टावन्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता द्वादश सम्पद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥1.29॥

यज्ञेन वै देवा ऊर्ध्वाः स्वर्गं लोकमायंस्तेऽबिभयुरिमं नो दृष्ट्वा मनुष्याश्च ऋषयश्चानुप्रज्ञास्यन्तीति तं वै यूपेनैवायोपयंस्तं यद्यूपेनैवायोपयंस्तद्यूपस्य यूपत्वं तमवाचीनाग्रं निमित्योर्ध्वा उदायंस्ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्वभ्यायन्यज्ञस्य किंचिदेषिष्यामः प्रज्ञात्या इति ते वै यूपमेवाविन्दन्नवाचीनाग्रं निमितं ते विदुरनेन वै देवा यज्ञमयूयुपन्निति तमुत्खायोर्ध्वं न्यमिन्वंस्ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकम्। तद्यद्यूप ऊर्ध्वो निमीयते यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै। वज्रो वा एष यद्यूपः सोऽष्टाश्रि कर्तव्योऽष्टाश्रिर्वै वज्रस्तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै। वज्रो वै यूपः स एष द्विषतो वध उद्यतस्तिष्ठति तस्माद्धाप्येतर्हि यो द्वेष्टि तस्याप्रियं भवत्यमुष्यायं यूपोऽमुष्यायं यूप इति दृष्ट्वा। खादिरं यूपं कुर्वीत स्वर्गकामः खादिरेण वै यूपेन देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानः खादिरेण यूपेन स्वर्गं लोकं जयति। बैल्वं यूपं कुर्वीतान्नाद्यकामः पुष्टिकामः समां समां वै बिल्वो गृभीतस्तदन्नाद्यस्य रूपमामूलाच्छाखाभिरनुचितस्तत्पुष्टेः। पुष्यति प्रजां च पशूंश्च य एवं विद्वान्बैल्वं यूपं कुरुते। यदेव बैल्वां3 बिल्वं ज्योतिरिति वा आचक्षते। ज्योतिः स्वेषु भवति श्रेष्ठः स्वानां भवति य एवं वेद। पालाशं यूपं कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं वनस्पतीनां पलाशः। तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्पालाशं यूपं कुरुते। यदेव पालाशां 3 सर्वेषां वा एष वनस्पतीनां योनिर्यत्पलाशस्तस्मात्पलाशस्यैव पलाशेनाऽऽचक्षतेऽमुष्य पलाशममुष्य पलाशमिति। सर्वेषां हास्य वनस्पतीनां काम उपाप्तो भवति य एवं वेद॥2.1॥ (6.1)

अञ्ज्मो यूपमनुब्रूहीत्याहाध्वर्युरञ्जन्ति त्वामध्वरे देवयन्त इत्यौवाहाध्वरे ह्येनं देवयन्तोऽञ्जन्ति वनस्पते मधुना दैव्येनेत्येतद्वै मधु दैव्यं यदाज्यं यदूर्ध्वस्तिष्ठा द्र विणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थ इति यदि च तिष्ठासि यदि च शयासै द्र विणमेवास्मासु धत्तादित्येव तदाहोच्छ्रयस्व वनस्पत इत्युच्छ्रीयमाणा-याभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धं वर्ष्मन्पृथिव्या अधीत्येतद्वै वर्ष्म पृथिव्यै यत्र यूपमुन्मिन्वन्ति सुमिती मीयमानो वर्चो धा यज्ञवाहस इत्याशिषमाशास्ते समिद्धस्य श्रयमाणः पुरस्तादीति समिद्धस्य ह्येष एतत्पुरस्ताच्छ्रयते ब्रह्म वन्वानो अजरं सुवीरमीत्याशिषमेवाशास्त आरे अस्मदमतिम्बाधमान इत्यशनाया वई पाप्मामतिस्तामेव तदारान्नुदते यज्ञाच्च यजमानाच्चोच् छ्रयस्व महते सौभगायेत्याशिषमेवाशास्त ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सवितेति यद्वै देवानां नेति तदेषामोमिति तिष्ठ देव इव सवितेत्येव तदाहोर्ध्वो वाजस्य सनितेति वाजसनिमेवैनं तद्धनसां सनोति यदञ्जिभिर्वाघद्भिर्विह्वयामह इति छन्दांसि वा अञ्जयो वाघतस्तैरेतद्देवान्यजमाना विह्वयन्ते मम यज्ञमागछत मम यज्ञमिति यदि ह वा अपि बहव इव यजन्तेऽथ हास्य देवा यज्ञमैव गछन्ति यत्रैवं विद्वानेतामन्वाहोर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दहेति रक्षांसि वै पाप्मात्रिणो रक्षांसि पाप्मानं दहेत्येव तदाह कृधी न ऊर्ध्वाञ्चरथाय जीवस इति यदाह कृधी न ऊर्ध्वाञ्चरणाय जीवस इत्येव तदाह यदि ह वा अपि नीत इव यजमानो भवति परि हैवैनं तत्संवत्सराय ददाति विदा देवेषु नो दुव इत्याशिषमेवाशास्ते जातो जायते सुदिनत्वे अह्नामिति जातो ह्येष एताज्जायते समर्य आ विदथे वर्धमान इति वर्धयन्त्येवैनं तत्पुनन्ति धीरा अपसो मनीषेति पुनन्त्येवैनं तत्देवया विप्र अदियर्ति वाचमिति देवेभ्य एवैनं तन्निवेदयति युवा सुवासाः परिवीत आगादित्युत्तमया परिदधाति प्राणो वै युवा सुवा-साः सोऽयं शरीरैः परिवृतः स उ श्रेयान्भवति जायमान इति श्रेयाञ्छ्रेयान्ह्येष एतद्भवति जायमानस्तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति ये वा अनूचानास्ते कवयस्त एवैनं तदुन्नयन्ति ता एताः सप्तान्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसंऋद्धं यत्कर्म क्रिय-माणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता एकादश सम्पद्यन्त एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुबीन्द्र स्य वज्र इन्द्रायतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय॥2.2॥

तिष्ठेद्यूपाः अनुप्रहरेतित्याहुस्तिष्ठेत्पशुकामस्य देवेभ्यो वै पशवोऽन्नाद्यायाल-म्भाय नातिष्ठन्त तेऽपक्रम्य प्रतिवावदतोऽतिष्ठन्नास्मानालप्स्यध्वे नास्मानिति ततो वै देवा एतं यूपम्वज्रमपश्यंस्तमेभ्य उदश्रयंस्तस्माद्बिभ्यत उपावर्तन्त तमेवाद्याप्युपावृइत्तास्ततो वै देवेभ्यः पशवोऽन्नाद्यायालम्भायतिष्ठन्त तिष्ठ-न्तेऽस्मै पशावोऽन्नद्यायालम्भाय य एवं वेद यस्य चैवं विदुषो यूपस्ति-ष्ठत्यनुप्रहरेत्स्वर्गकानस्य तमु ह स्मैतम्पूर्वेऽन्वेव प्रहरन्ति यजमानो वै यूपो यजमानः प्रस्तरोऽग्निर्वै देवयोनिः सोऽग्नेर्देवयोन्या आहुतिभ्यः सम्भूय हिरण्य-शरीर ऊर्ध्वः स्वर्गं लोकमेष्यतीत्यथ ये तेभ्योऽवर आसंस्त एतं स्वरु-मपश्यन्यूपशकलं तं तस्मिन्कालेऽनुप्रहरेत्तत्र स काम उपाप्तो योऽनुप्रहरणे तत्र स काम उपाप्तो यः स्थाने सर्वाभ्यो वा एष देवताभ्य आत्मानमालभते यो दीक्षतेऽग्निः सर्वा देवताः सोमः सर्वा देवताः स यदग्नीषोमीयम्पशुमालभते सर्वाभ्य एव तद्देवताभ्यो यजमान आत्मानं निष्क्रीणीते तदाहुर्द्विरूपो-ऽग्नीषोमीयः कर्तव्यो द्विदेवत्यो हीति तत्तन्नादृत्यम्पीव इव कर्तव्यः पीवोरूपा वै पशवः कृशित इव खलु वै यजमानो भवति तद्यत्पीवा पशुर्भवति यजमानमेव तत्स्वेन मेधेन समर्धयति तदाहुर्नाग्नीषोमीयस्य पाशोरश्नी-यात्पुरुषस्य वा एषोऽश्नाति योऽग्नीषोमीयस्य पाशोरश्नाति यजमानो ह्येते-नात्मानं निष्क्रीणीत इति तत्तन्नादृत्यं वार्त्रघ्नं वा एतद्धविर्यदग्नीषोमीयो-ऽग्नीषोमाभ्यां वा ईन्द्रो वृत्रमहंस्तावेनमब्रूतामावाभ्यां वै वृत्रमवधीर्वरं ते वृणावाह ईति वृणाथामिति तावेतमेव वरमवृणातां श्वःसुत्यायाम्पशुं स एनयोरेषो च्युतो वरवृतो ह्येनयोस्तस्मात्तस्याशितव्यं चैव लीप्सितव्यं च॥2.3॥

आप्रीभिराप्रीणति तेजो वै ब्रह्मवर्चसमाप्रियस्तेजसैवैनं तधि ब्रह्मवर्चसेन समर्धयति समिधो यजति प्राणा वै समिधः प्राणा हीदं सर्वं समिन्धते यदिदं किंच प्राणानेव तत्प्रीणाति प्राणान्यजमाने दधाति तनूनपातं यजति प्राणो वै तनूनपात्स हि तन्वः पाति प्राणमेव तत्प्रीणाति प्राणं यजमाने दधाति नराशंसं यजति प्रजा वै नरो वाक्शंसः प्रजां चैव तद्वाचं च प्रीणाति प्रजां च वाचं च यजमाने दधातीळो यजत्यन्नं वा इळोऽन्नमेव तत्प्रीणात्यन्नं यजमाने दधाति बर्हिर्यजति पशवो वै बर्हिः पशूनेव तत्प्रीणाति पशून्यजमाने दधाति दुरो यजति वृष्टिर्वै दुरो वृष्टिमेव तत्प्रीणति वृष्टिमन्नाद्यं यजमाने दधात्युषासानक्ता यजत्यहोरात्रे वा उषासानक्ताहोरात्रे एव तत्प्रीणात्यहोरात्रयोर्यजमानं दधाति दैव्या होतारा यजति प्राणापानौ वै दैव्या होतारा प्राणापानावेव तत्प्रीणाति प्राणापानौ यजमाने दधाति तिस्रो देवीर्यजति प्राणो वा अपानो व्यानस्तिस्रो देव्यस्ता एव तत्प्रीणाति ता यजमाने दधाति त्वष्टारं यजति वाग्वै त्वष्टा वाग्घीदं सर्वं ताष्टीव वाचनेव तत्प्रीणाति वाचं यजमाने दधाति वनस्पतिं यजति प्राणो वै वनस्पतिः प्राणमेव तत्प्रीणाति प्राणं यजमाने दधाति स्वाहाकृतीर्यजति प्रतिष्ठा वै स्वाहाकृतयः प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयति ताभिर्यथऋष्याप्रीणीयाद्यद्यथऋष्याप्रीणाति यजमनमेव तद्बन्धुताया नोत्सृजति॥2.4॥

पर्यग्नये क्रियमाणायानुब्रूहीत्याहाध्वर्युः। अग्निर्होता नो अध्वर इति तृचमाग्नेयं गायत्रमन्वाह पर्यग्निक्रियमाणे स्वयैवैनं तद्देवतया स्वेन च्छन्दसा समर्धयति। वाजी सन्परिणीयत इति वाजिनमिव ह्येनं सन्तं परिणयन्ति। परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिवेत्येष हि रथीरिवाध्वरं परियाति। परि वाजपतिः कविरित्येष हि वाजानां पतिः। अत उपप्रेष्य होतर्हव्या देवेभ्य इत्याहाध्वर्युः। अजैदग्निरसनद्वाजमिति मैत्रावरुण उपप्रेषं प्रतिपद्यते। तदाहुर्यदध्वर्युर्होतारमुपप्रेष्यत्यथ कस्मान्मैत्रावरुण उपप्रैषं प्रतिपद्यत इति। मनो वै यज्ञस्य मैत्रावरुणो वाग्यज्ञस्य होता मनसा वा इषिता वाग्वदति यां ह्यन्यमना वाचं वदत्यसुर्या वै सा वागदेवजुष्टा तद्यन्मैत्रावरुण उपप्रैषं प्रतिपद्यते मनसैव तद्वाचमीरयति तन्मनसेरितया वाचा देवेभ्यो हव्यं संपादयति॥2.5॥ (6.5) (35)

दैव्या शमितार आरभध्वमुत मनुष्या इत्याह। ये चैव देवानां शमितारो ये च मनुष्याणां तानेव तत्संशास्ति। उपनयत मेध्या दुर आशासाना मेधपतिभ्यां मेधमिति। पशुर्वै मेधो यजमानो मेधपतिर्यजमानमेव तत्स्वेन मेधेन समर्धयति। अथो खल्वाहुर्यस्यै वाव कस्यै च देवतायै पशुरालभ्यते सैव मेधपतिरिति। स यद्येकदेवत्यः पशुः स्यान्मेधपतय इति ब्रूयाद्यदि द्विदेवत्यो मेधपतिभ्यामिति यदि बहुदेवत्यो मेधपतिभ्य इत्येतदेव स्थितम्। प्रास्मा अग्निं भरतेति। पशुर्वै नीयमानः स मृत्युं प्रापश्यत्स देवान्नान्वकामयतैतुं तं देवा अब्रुवन्नेहि स्वर्गं वै त्वा लोकं गमयिष्याम इति स तथेत्यब्रवीत्तस्य वै मे युष्माकमेकः पुरस्तादैत्विति तथेति तस्याग्निः पुरस्तादैत्सोऽग्निमनु प्राच्यवत। तस्मादाहुराग्नेयो वाव सर्वः पशुरग्निं हि सोऽनु प्राच्यवतेति। तस्माद्वस्याग्निं पुरस्ताद्धरन्ति। स्तृणीत बर्हिरित्योषध्यात्मा वै पशुः पशुमेव तत्सर्वात्मानं करोति। अन्वेनं माता मन्यतामनु पिताऽनु भ्राता सगर्भ्योऽनु सखा सयूथ्य इति जनित्रैरेवैनं तत्समनुमतमालभन्ते। उदीचीनाँ अस्य पदो निधत्तात्सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीरमित्येष्वेवैनं तल्लोकेष्वादधाति। एकधाऽस्य त्वचमाच्छ्यतात्पुरा नाभ्या अपि शसो वपामुत्खिदतादन्तरेवोष्माणं वारयध्वादिति पशुष्वेव तत्प्राणान्दधाति। श्येनमस्य वक्षः कृणुतात्प्रशसा बाहू शलादोषणी कश्यपेवांसाऽच्छिद्रे श्रोणी कवषोरूस्रेकपर्णाऽष्ठीवन्ता षड्विंशतिरस्य वङ्क्रयस्ता अनुष्ठ्योच्च्यावयताद्गात्रं गात्रमस्यानूनं कृणुतादित्यङ्गान्येवास्य तद्गात्राणि प्रीणाति। ऊवध्यगोहं पार्थिवं खनतादित्याहौषधं वा ऊवध्यमियं वा ओषधीनां प्रतिष्ठा तदेनत्स्वायामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयति॥2.6॥ (6.5) (36)

अस्ना रक्षः संसृजतादित्याह तुषैर्वै फलीकरणैर्देवा हविर्यज्ञेभ्यो रक्षांसि निरभजन्नस्ना महायज्ञात्स यदस्ना रक्षः संसृजतादित्याह रक्षांस्येव तत्स्वेन भागधेयेन यज्ञान्निरवदयते। तदाहुर्न यज्ञे रक्षसां कीर्तयेत्कानि रक्षांस्यृतेरक्षा वै यज्ञ इति। तदु वा आहुः कीर्तयेदेव। यो वै भागिनं भागान्नुदते चयते वैनं स यदि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयते त्वेवैनमिति। स यदि कीर्तयेदुपांशु कीर्तयेत्तिर इव वा एतद्वाचो यदुपांशु तिर इवैतद्यद्राक्षांसि। अथ यदुच्चैः कीर्तयेदीश्वरो हास्य वाचो रक्षोभाषो जनितोः। योऽयं राक्षसीं वाचं वदति सः। यां वै दृप्तो वदति यामुन्मत्तः सा वै राक्षसी वाक्। नाऽऽत्मना दृप्यति नास्य प्रजायां दृप्त आजायते य एवं वेद। वनिष्ठुमस्य मा राविष्टोरूकं मन्यमाना नेद्वस्तोके तनये रविता रवच्छमितार इति ये चैव देवानां शमितारो ये च मनुष्याणां तेभ्य एवैनं तत्परिददाति। अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा3 उ इति त्रिर्ब्रूयादपापेति चाध्रिगुर्वै देवानां शमिताऽपापो निग्रभीता शमितृभ्यश्चैवैनं तन्निग्रभीतृभ्यश्च संप्रयच्छति। शमितारो यदत्र सुकृतं कृणवथास्मासु तद्यद्दुष्कृतमन्यत्र तदित्याहाग्निर्वै देवानां होताऽऽसीत्स एनं वाचा व्यशाद्वाचा वा एनं होता विशास्ति तद्यदर्वाग्यत्परः कृन्तन्ति यदुल्बणं यद्विथुरं क्रियते शमितृभ्यश्चैवैनत्तन्निग्रभीतृभ्यश्च समनुदिशति स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥2.7॥ (6.7) (37)

पुरुषं वै देवाः पशुमालभन्त तस्मादालब्धान्मेध उदक्रामत्सोऽश्वम्प्राविशत्त-स्मादश्वो मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स किम्पुरुषोऽभवत्तेऽश्वमा-लभन्त सोऽश्वादालब्धादुदक्रामत्स गाम्प्राविशत्तस्माद्गौर्मेध्योऽभवदथैनमु-त्क्रान्तमेधमत्यार्जन्त स गौरमृगोऽभवत्ते गामालभन्त स गोरालब्धादुदक्राम-त्सोऽविम्प्राविशत्तस्मादविर्मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स गवयो-ऽभवत्तेऽविमालभन्त सोऽवेरालब्धादुदक्रामत्सोऽजम्प्राविशत्तस्मादजो मेध्यो-ऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स उष्ट्रोऽभवत्सोऽजे ज्योक्तमामिवारमत तस्मादेष एतेषाम्पशूनाम्प्रयुक्ततमो यदजस्तेऽजमालभौत सोऽजादालब्धा-दुदक्रामत् स इमाम्प्राविशत्तस्मादियम्मेध्याभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स शरभोऽभवत्त एत उत्क्रान्तमेधा अमेध्याः पशवस्तस्मादेतेषां नाश्नीयात्तम-स्यामन्वगछन्सोऽनुगतो व्रीहिरभवत्तद्यत्पशौ पुरोळाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति समेधेन हास्य पशुनेष्टम्भवति
य एवं वेद॥2.8॥

स वा एष पशुरेवालभ्यते यत्पुरोळाशस्तस्य यानि किंशारूणि तानि रोमाणि ये तुषाः सा त्वग् ये फलीकरणास्तदसृग्यत्पिष्टं किक्नसास्तन्मांसं यत्किं चित्कंसारं तदस्थि सर्वेषां वा एष पशूनाम्मेधेन यजते यः पुरोळाशेन यजते तस्मादाहुः पुरोळाशसत्रं लोक्यमिति युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम्युवं सिन्धूँ रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतानिति वपायै यजति सर्वाभिर्वा एष देवताभिरालब्धो भवति यो दीक्षितो भवति तस्मादाहुर्न दीक्षितस्याश्नीयादिति स यदग्नीषोमावमुञ्चतं गृभीतानिति वपायै यजति सर्वाभ्य एव तद्देवताभ्यो यजमानम्प्रमुञ्चति तस्मादाहुरशितव्यं वपायां हुतायां यजमानो हि स तर्हि भवतीत्यान्यं दिवो मातरिश्वा जभारेति पुरोळाशस्य यजत्यमथ्नादन्यम्परि श्येनो अद्रे रितीत इव च ह्येष इत इव च मेधः समाहृतो भवति स्वदस्व हव्या समिषो दिदीहीति पुरोळशस्विष्टकृतो यजति हविरेवास्मा एतत्स्वदयतीषमूर्जमात्मन्धत्त इळामुपह्वयते पशवो वा इळा पशूनेव तदुपह्वयते पशून्यजमाने दधाति॥2.9॥

मनोतायै हविषोऽवदीयमानस्यानुब्रूहीत्याहाध्वर्युस्त्वं ह्यग्ने प्रथमो मनोतेति सूक्तमन्वाह तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्मादाग्नेयीरेव मनोतायै हविषोऽवदीयमानस्यान्वाहेति तिस्रो वै देवानाम्मनोतास्तासु ही तेषाम्म-नांस्योतानि वाग्वै देवानाम्मनोता तस्यां हि तेषाम्मनांस्योतानि गौर्वै देवानाम्मनोता तस्यां हि तेषाम्मनांस्योतान्यग्निर्वै देवानाम्मनोता तस्मिन्हि तेषाम्मनांस्योतान्यग्निः सर्वा मनोता अग्नौ मनोताः संगछन्ते तस्मादाग्नेयीरेव मनोतायै हविषोऽवदीयमानस्यान्वाहाग्नीषोमा हविषः प्रस्थितस्येति हविषो यजति हविष इति रूपसमृद्ध प्रस्थितस्येति रूपसमृद्धा सर्वाभिर्हास्य समृद्धिभिः समृद्धं हव्यं देवानप्येति य एवं वेद वनस्पतिं यजति प्राणो वै वनस्पतिर्जीवं हास्य हव्यं देवानप्येति यत्रैवं विद्वान्वनस्पतिं यजति स्विष्टकृतं यजति प्रतिष्ठा वै स्विष्टकृत्प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयतीळामुपह्वयते पशवो वा इळा पशूनेव तदुपह्वयते पशून्यजमाने दधाति दधाति॥2.10॥

देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति तानाप्रीते पशौ पुर इव पर्यग्नेर्यूपम्प्रति पुरस्तादुपायंश्ते देवाः प्रतिबुध्याग्निमयीः पुरस्त्रिपुरम्पर्यास्यन्त यज्ञस्य चात्मनश्च गुप्त्यै ता एषामिमा अग्निमय्यः पुरो दीप्यमाना भ्राजमाना अतिष्ठंस्ता असुरा अनपधृष्यैवापाद्र वंस्तेऽगिनिनैव पुरस्तादसुररक्षांस्यपाघ्नताग्निना पश्चात्तथैवैतद्यजमाना यत्पर्यग्नि कुर्वन्त्यग्निम-यीरेव तत्पुरस्त्रिपुरम्पर्यस्यन्ते यज्ञस्य चात्मनश्च गुप्त्यै तस्मात्पर्यग्नि कुर्वन्ति तस्मात्पर्यग्नयेऽन्वाह तं वा एतम्पशुमाप्रीतं सन्तम्पर्यग्निकृतमुदञ्चं नयन्ति तस्योल्मुकम्पुरस्ताद्धरन्ति यजमानो वा एष निदानेन यत्पशुरनेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेष्यतीति तेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेति तं यत्र निहनिष्यन्तो भवन्ति तदध्वर्युर्बर्हिरधस्तादुपास्यति यदेवैनमद आप्रीतं सन्तम्पर्यग्निकृतम्बहिर्वेदि नयन्ति बर्हिषदमेवैनं तत्कुर्वन्ति तस्योवध्यगोहं खनन्त्यौषधं वा ऊवध्यमियं वा ओषधीनाम्प्रतिष्ठा तदेनत्स्वा-यामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयन्ति तदाहुर्यदेष हविरेव यत्पशुरथास्य ब-ह्वपैति लोमानि त्वगसृक्कुष्ठिकाः शफा विषाणे स्कन्दति पिशितं केनास्य तदापूर्यत इति यदेवैतत्पशौ पुरोळाशमनुनिर्वपन्ति तेनैवास्य तदापूर्यते पशुभ्यो वै मेधा उदक्रामंस्तौ व्रीहिश्चैव यवश्च भूतावजायेतां तद्यत्पशौ पुरोळाश-मनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति समेधेन हास्य पशुनेष्टं भवति केवलेन हास्य पशुनेष्टं भवति य एवं वेद॥2.11॥

तस्य वपामुत्खिद्याऽऽहरन्ति तामध्वर्युः स्रुवेणाभिघारयन्नाह स्तोकेभ्योऽनुब्रूहीति। तद्यत्स्तोका श्चोतन्ति सर्वदेवत्या वै स्तोका नेन्म इमेऽनभिप्रीता देवान्गच्छानिति। जुषस्व सप्रथस्तममित्यन्वाह। वचो देवप्सरस्तमम्। हव्या जुह्वान आसनीति। अग्नैरेवैनांस्तदास्ये जुहोति। इमं नो यज्ञममृतेषु धेहीति सूक्तमन्वाह। इमा हव्या जातवेदो जुषस्वेति हव्यजुष्टिमाशास्ते। स्तोकानामग्ने मेदसो घृतस्येति मेदसश्च हि घृतस्य च भवन्ति। होतः प्राशान प्रथमो निषद्येत्यग्निर्वै देवानां होताऽग्ने प्राशान प्रथमो निषद्येत्येव तदाह। घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदस इति मेदसश्च ह्येव हि घृतस्य च भवन्ति। स्वधर्मं देववीतये श्रेष्ठं नो धेहि वार्यमित्याशिषमाशास्ते। तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्येति घृतश्चुतो हि भवन्ति। ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भवेति यज्ञसमृद्धिमाशास्ते। तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्येति मेदसश्च ह्येव हि घृतस्य च भवन्ति। कविशस्तो बृहता भानुनाऽऽगा हव्या जुषस्व मेधिरेति हव्यजुष्टिमेवाऽऽशास्ते। ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे। श्चोतन्ति ते वसो स्तोका अधित्वचि प्रति तान्देवशो विहीति। अभ्येवैनांस्तद्वषट्करोति यथा सोमस्याग्ने वीहीति। तद्यत्स्तोका श्चोतन्ति सर्वदेवत्या वै स्तोकास्तस्मादियं स्तोकशो वृष्टिर्विभक्तोपाचरति॥2.12॥

तदाहुः काः स्वाहाकृतीनां पुरोनुवाक्याः कः प्रैषः का याज्येति। या एवैता अन्वाहैताः पुरोनुवाक्या यः प्रैषः स प्रैषो या याज्या सा याज्या। तदाहुः का देवताः स्वाहाकृतय इति। विश्वे देवा इति ब्रूयात्। तस्मात्स्वाहाकृतं हविरदन्तु देवा इति यजन्तीति। देवा वै यज्ञेन श्रमेण तपसाऽऽहुतिभिः स्वर्गं लोकमजयंस्तेषां वपायामेव हुतायां स्वर्गो लोकः प्राख्यायत ते वपामेव हुत्वाऽनादृत्येतराणि कर्माण्यूर्ध्वाः स्वर्गं लोकमायंस्ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्भ्यायन्यज्ञस्य किंचिदेषिष्यामः प्रज्ञात्या इति तेऽभितः परिचरन्त ऐत्पशुमेव निरान्त्रं शयानं ते विदुरियान्वा किल पशुर्यावती वपेति। स एतावानेव पशुर्यावती वपा। अथ यदेनं तृतीयसवने श्रपयित्वा जुह्वति भूयसीभिर्न आहुतिभिरिष्टमसत्केवलेन नः पशुनेष्टमसदिति। भूयसीभिर्हास्याऽऽहुतिभिरिष्टं भवति केवलेन हास्य पशुनेष्टं भवति य एवं वेद॥2.13॥

स वा एषाऽमृताहुतिरेव यद्वपाहुतिरमृताहुतिरग्न्याहुतिरमृताहुतिराज्याहुतिरमृताहुतिः सोमाहुतिरेता वा अशरीरा आहुतयो या वै काश्चाशरीरा आहुतयोऽमृतत्वमेव ताभिर्यजमानो जयति। सा वा एषा रेत एव यद्वपा प्रेव वै रेतो लीयते प्रेव वपा लीयते शुक्लं वै रेतः शुक्ला वपाऽशरीरं वै रेतोऽशरीरा वपा यद्वै लोहितं यन्मांसं तच्छरीरं तस्माद् ब्रूयाद्यावदलोहितं तावत्परिवासयेति। सा पञ्चावत्ता भवति यद्यपि चतुरवत्ती यजमानः स्यादथ पञ्चावत्तैव वपा। आज्यस्योपस्तृणाति हिरण्यशल्को वपा हिरण्यशल्क आज्यस्योपरिष्टादभिघारयति। तदाहुर्यद्धिरण्यं न विद्येत कथं स्यादिति द्विराज्यस्योपस्तीर्य वपामवदाय द्विरुपरिष्टादभिघारयति। अमृतं वा आज्यममृतं हिरण्यं तत्र स काम उपाप्तो य आज्ये तत्र स काम उपाप्तो यो हिरण्ये तत्पञ्च संपद्यन्ते। पाङ्क्तोऽयं पुरुषः पञ्चधा विहितो लोमानि त्वङ्मांसमस्थि मज्जा स यावानेव पुरुषस्तावन्तं यजमानं संस्कृत्याग्नौ देवयोन्यां जुहोत्यग्निर्वै देवयोनिः सोऽग्नेर्देवयोन्या आहुतिभ्यः संभूय हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमेति॥2.14॥ (7.4) (44)

देवेभ्यः प्रातर्यावभ्यो होतरनुब्रूहीत्याहाध्वर्युरेते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ त एते सप्तभिःसप्तभिश्छन्दोभिरागछन्त्यास्य देवाः प्रातर्यावाणो हवं गछन्ति य एवं वेद प्रजापतौ वै स्वयं होतरि प्रातरनुवाकमनुवक्ष्यत्युभये देवासुरा यज्ञमुपावसन्नस्मभ्यमनुवक्ष्यत्यस्म-भ्यमिति स वै देवेभ्य एवान्वब्रवीत्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद प्रातर्वै स तं देवे-भ्योऽन्वब्रवीद्यत्प्रातरन्वब्रवीत्तत्प्रातरनुवाकस्य प्रातरनुवाकत्वम्महति रा त्र्?या अनूच्यः सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै यो वै भवति यः श्रेष्ठतामश्नुते तस्य वाचम्प्रोदितामनुप्रवदन्ति तस्मान्महति रा त्र्?या अनूच्यः पुरा वाचः प्रवदितोरनूच्यो यद्वाचि प्रोदितायामनुब्रूयादन्यस्यैवैनमुदितानुवादिनं कुर्यात्तस्मान्महति रा त्र्?या अनूच्यः पुरा शकुनिवादादनुब्रुयन्निरृतेर्वा एतन्मुखं यद्वयंसि यच्छकुनयस्तद्यत्पुरा शकुनिवादादनुब्रूयान्मायज्ञियां वाचम्प्रोदिता-मनुप्रवदिष्मेति तस्मान्महति रा त्र्?या अनूच्योऽथो खलु यदैवाध्वर्युरुपा-कुर्यादथानुब्रूयाद्यदा वा अध्वर्युरुपाकरोति वाचैवोपाकरोति वाचा होतान्वाह वाग्घि ब्रह्म तत्र स काम उपाप्तो यो वाचि च ब्रह्मणि च॥2.15॥

प्रजापतौ वै स्वयम्होतरि प्रातरनुवाकमनुवक्ष्यति सर्वा देवता आशंसन्तमामभि प्रति-पत्स्यति मामभीति स प्रजापतिरैक्षत यद्येकां देवतामादिष्टामभि प्रतिप-त्स्यामीतरा मे केन देवता उपाप्ता भविष्यन्तीति स एतामृचमपश्यदापो रेवतीरित्यापो वै सर्वा देवता रेवत्यः सर्वा देवताः स एतयर्चा प्रातर-नुवाकम्प्रत्यपद्यत ताः सर्वा देवताः प्रामोदन्त मामभि प्रत्यपादि मामभीति सर्वा हास्मिन्देवताः प्रातरनुवाकमनुब्रुवति प्रमोदन्ते सर्वाभिर्हास्य देवताभिः प्रा-तरनुवाकः प्रतिपन्नो भवति य एवं वेद ते देवा अबिभयुरादातारो वै न इमम्प्रातर्यज्ञमसुरा यथौजीयांसो बलीयांस एवमिति तानब्रवीदीन्द्रो मा बिभीत त्रिषमृद्धमेभ्योऽहम्प्रातर्वज्रम्प्रहर्तास्मीत्येतां वाव तदृचमब्रवीद्वज्रस्तेन यदपो-नप्त्रीया वज्रस्तेन यत्त्रिष्टुब्वज्रस्तेन यद्वाक् तमेभ्यः प्राहरत्तेनैनानहंश्ततो वै देवा अभवन्परा असुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद तदाहुः स वई होता स्याद्य एतस्यामृचि सर्वाणि छन्दांसि प्रजनयेदित्येषा वाव त्रिरनूक्ता सर्वाणि च्छन्दांसि भवत्येषा छन्दसां प्रजातिः॥2.16॥

शतमनूच्यमायुष्कामस्य शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रि य आयुष्येवैनं तद्वीर्य इन्द्रि ये दधाति त्रीणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजा-पतिर्यज्ञ उपैनं यज्ञो नमति यस्यैवं विद्वांस्त्रीणि च शतानि षष्टिं चान्वाह सप्त च शतानि विंशतिश्चानूच्यानि प्रजापशुकामस्य सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्रास्तावान्संवत्सरः संवत्सरः प्रजापतिर्यम्प्रजायमानं विश्वं रूपमिदं अनुप्रजायते प्रजापतिमेव तत्प्रजायमानम्प्रजया पशुभिरनुप्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदाष्टौ शतान्यनूच्यान्यब्राह्मणोक्तस्य यो वा दुरुक्तोक्तः शमलगृहीतो यजेताष्टाक्षरा वै गायत्री गाय त्र्?या वै देवाः पाप्मानं शमलमपाघ्नत गाय त्र्?यैवास्य तत्पाप्मानं शमलमपहन्त्यप पाप्मानं हते य एवं वेद सहस्रमनूच्यं स्वर्गकामस्य सहस्राश्वीने वा इतः स्वर्गो लोकः स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या अपरिमितमनूच्यमपरिमितो वै प्रजापतिः प्रजापतेर्वा एतदुक्थं यत्प्रातरनुवाकस्तस्मिन्सर्वे कामा अवरुध्यन्ते स यद-परिमितमन्वाह सर्वेषां कामानामवरुद्ध्यै सर्वान्कामानवरुन्द्धे य एवं वेद तस्मादपरिमितमेवानूच्यं सप्ताग्नेयानि छन्दांस्यन्वाह सप्त वै देवलोकाः सर्वेषु देवलोकेषु राध्नोति य एवं वेद सप्तोषस्यानि छन्दांस्यन्वाह सप्त वै ग्राम्याः पशवोऽव ग्राम्यान्पशून्रुन्द्धे य एवं वेद सप्ताश्विनानि छन्दांस्यन्वाह सप्तधा वै वागवदत्तावद्वै वागवदत्सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै तिस्रो देवता अन्वाह त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै॥2.17॥

तदाहुः कथमनूच्यः प्रातरनुवाक इति यथाछन्दसमनूच्यः प्रातरनुवकाः प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांस्येष उ एव प्रजापतिर्यो यजते तद्यजमानाय हितम्पच्छोऽनूच्यः प्रातरनुवाकश्चतुष्पादा वै पशवः पशूनामवरुद्ध्या अर्धर्चश एवानूच्यो यथैवैनमेतदन्वाह प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशावो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति तस्मादर्धर्चश एवानूच्यस्तदाहुर्यद्व्यूळ्हः प्रातरनुवकः कथमव्यूळ्हो भवतीति यदेवास्य बृहती मध्यान्नैतीति ब्रूयात्तेनेत्याहुतिभागा वा अन्या देवता अन्याः स्तोमभागा-श्छन्दोभागास्ता या अग्नावाहुतयो हूयन्ते ताभिराहुतिभागाः प्रीणात्यथ यत्स्तुवन्ति च शंसन्ति च तेन स्तोमभागाश्छन्दोभागा उभय्यो हास्यैता देवताः प्रीता अभीष्टा भवन्ति य एवं वेद त्रयस्त्रिंशद्वै देवाः सोमपास्त्रयस्त्रिंशदसोमपा अष्टौ वसव एकादश रुन्द्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्चैते देवा सोमपा एकादश प्रयाजा एकादशानुयाजा एकादशोपयाजा एतेऽसोमपाः पशुभाजनाः सोमेन सोमपान्प्रीणाति पशुनासोमपानुभय्यो हास्यैता देवताः प्रीताः अभीष्टा भवन्ति य एवं वेदाभूदुषा रुशत्पशुरित्युत्तमया परिदधाति तदाहुर्यत्त्रीन्क्रतूनन्वाहाग्नेयमुषस्यमाश्विनं कथमस्यैकयर्चा परिदधतः सर्वे त्रयः क्रतवः परिहिता भवन्तीत्यभूदुषा रुशत्पशुरित्युषसो रूपमाग्निरधाय्यृ-त्विय इत्यग्नेरयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवमि-त्यश्विनोरेवमु हास्यैकयर्चा परिदधतः सर्वे त्रयः क्रतवः परिहिता भवन्ति भवन्ति ॥2.18॥

ऋषयो वै सरस्वत्यां सत्रमासत ते कवषमैलूषं सोमादनयन्दास्याः पुत्रः कितवोऽब्राह्मणः कथं नो मध्येऽदीक्षिष्टेति तम्बहिर्धन्वोदवहन्न् अत्रैनम्पिपासा हन्तु सरस्वत्या उदकम्मा पादीति स बहिर्धन्वोदूळ्हः पिपासया वित्त एतदपोनप्त्रीयमपश्यत्प्र देवत्रा ब्रह्मणे गातुरेत्विति तेनापाम्प्रियं धामो-पागछत्तमापोऽनूदायंस्तं सरस्वती समन्तम्पर्यधावत्तस्माद्धाप्येतर्हि परिसार-कमित्याचक्षते यदेनं सरस्वती समन्तम्परिससार ते वा ऋषयोऽब्रुवन् विदुर्वा इमां देव उपेमं ह्वयामहा इति तथेति तमुपह्वयन्त तमुपहूयैतदपोनप्त्रीयमकुर्वत प्र देवत्रा ब्रह्मणे गातुरेत्विति तेनापाम्प्रियं धामोपागछन्नुप देवानामुपापाम्प्रियं धाम गछत्युप देवानां जयति परमं लोकं य एवम्वेद यश्चैवं विद्वानेतदपोनप्त्रीयं कुरुते तत्संततमनुब्रूयात्संततवर्षी ह प्रजाभ्यः पर्जन्यो भवति यत्रैवं विद्वाइनेतत्संततमन्वाह यदवग्राहमनुब्रूयाज्जीमूतवर्षी ह प्रजाभ्यः पर्जन्यः स्यात्तस्मात्तत्संततमेवानूच्यं तस्य त्रिः प्रथमां संततमन्वाह तेनैव तत्सर्वं संततमनूक्तं भवति॥2.19॥

ता एता नवानन्तरायमन्वाह हिनोता नो अध्वरं देवयज्येति दशमी-मावर्वृततीरध नु द्विधारा इत्यवृत्तास्वेकधनासु प्रति यदापो अदृश्रमायतीरिति प्रतिदृश्यमानास्वा धेनवः पयसा तूर्ण्यर्था इत्युपायतीषु समन्या यन्त्युप य-न्त्यन्या इति समायतीष्वापो वा अस्पर्धन्त वयम्पूर्वं यज्ञं वक्ष्यामो वयमिति याश्चेमाः पूर्वेद्युर्वसतीवर्यो गृह्यन्ते याश्च प्रातरेकधनास्ता भृगुरपश्यदापो वै स्पर्धन्त इति ता एतयर्चा समज्ञपयत्समन्या यन्त्युप यन्त्यन्या इति ताः समजानत संजानाना हास्यापो यज्ञं वहन्ति य एवं वेदापो न देवीरुप यन्ति होत्रियमिति होतृचमसे समवनीयमानास्वन्वाह वसतीवरीष्वेकधनासु चा-वेरपोऽध्वर्या उ इति होताध्वर्युम्पृछत्यापो वै यज्ञोऽविदो यज्नामित्येव तदाहोतेमनन्नमुरित्यध्वर्युः प्रत्याहोतेमाः पश्येत्येव तदाह तास्वध्वर्यो ईन्द्राय सोमं सोता मधुमन्तम्वृष्टिवनिं तीव्रान्तम्बहुरमध्यं वसुमते रुद्र वत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावते यस्येन्द्रः पीत्वा वृत्राणि जाङ्घनत्प्र स जन्यानि तारिषोमिति प्रत्युत्तिष्ठति प्रत्युत्थेया वा आपः प्रति वै श्रेयांसामायन्तमुत्तिष्ठन्ति तस्मात्प्रत्युत्थेया अनुपर्यावृत्या आनु वै श्रेयां-सम्पर्यावर्तन्ते तस्नादनुपर्यावृत्या अनुब्रुवतैवानुप्रपत्तव्यमीश्वरो ह यद्यप्यन्यो यजेताथ होतारं यशोऽर्तोस्तस्मादनुब्रुवतैवानुप्रपत्तव्यमम्बयो यन्त्यध्वभिरि-त्येतामनुब्रुवन्ननुप्रपद्येत जामयो अध्वरीयताम्पृञ्चतीर्मधुना पय इति योऽमधव्यो यशोऽर्तोर्बुभूषेदमूर्या उप सूर्ये याभिर्वा सूर्यः सहेति तेजस्कामो ब्रह्मवर्चसका-मोऽपो देवीरुप ह्वये यत्र गावः पिबन्ति न इति पशुकामस्ता एताः सर्वा एवानुब्रुवन्ननुप्रपद्येतैतेषां कामानामवरुद्ध्या एतान्कामानवरुन्द्धे य एवं वेदैमा अग्मन्रेवतीर्जीवधन्या इति साद्यमानास्वन्वाह वसतीवरीष्वेकधनासु चाग्मन्नाप उशतीर्वर्हिरेदमिति सन्नासु स एतया परिदधाति॥2.20॥

शिरो वा एतद्यज्ञस्य यत्प्रातरनुवाकः प्राणापाना उपांश्वन्तर्यामौ वज्र एव वाङ्नाहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत। यदहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत वाचा वज्रेण यजमानस्य प्राणान्वीयाद्य एनं तत्र ब्रूयाद्वाचा वज्रेण यजमानस्य प्राणान्व्यगात्प्राण एनं हास्यतीति शश्वतत्तथा स्यात्तस्मान्नाहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत। प्राणं यच्छ स्वाहा त्वा सुहव सूर्यायेत्युपांशुमनुमन्त्रयेत तमभि प्राणेत्प्राण प्राणं मे यच्छेत्यपानं यच्छ स्वाहा त्वा सुहव सूर्यायेत्यन्तर्याममनुमन्त्रयेत तमभ्यपानेदपानापानं मे यच्छेति व्यानाय त्वेत्युपांशुसवनं ग्रावाणमभिमृश्य वाचं विसृजते। आत्मा वा उपांशुसवन आत्मन्येव तद्धोता प्राणान्प्रतिधायं वाचं विसृजते सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥2.21॥ (8.3) (51)

तदाहुः सर्पे३त्, न सर्पे३त्, इति सर्पेदिति हैक आहुरुभयेषां वा एष देवमनुष्याणां भक्षो यद्बहिष्पवमानस्तस्मादेनमभिसंगच्छन्त इति वदन्तः। तत्तन्नाऽऽदृत्यम्। यत्सर्पेदृचमेव तत्साम्नोऽनुवर्त्मानं कुर्याद्य एनं तत्र ब्रूयादनुवर्त्मा न्वा अयं होता सामगस्याभूदुद्गातरि यशोऽधाद्च्योष्टाऽऽयतनाच्च्योष्यत आयतनादिति शश्वत्तथा स्यात्। तस्मात्तत्रैवाऽऽसीनोऽनुमन्त्रयेत। यो देवानामिह सोमपीथो यज्ञे बर्हिषि वेद्या३म्। तस्यापि भक्षयामसीति। एवमु हास्याऽऽत्मा सोमपीथादनन्तरितो भवति। अथो ब्रूयान्मुखमास मुखं भूयासमिति। मुखं वा एतद्यज्ञस्य यद्बहिष्पवमानः। मुखं स्वेषु भवति श्रेष्ठः स्वानां भवति य एवं वेद। आसुरी वै दीर्घजिह्वी देवानां प्रातःसवनमवालेट् तद्व्यमाद्यते देवाः प्राजिज्ञासन्त ते मित्रावरुणावब्रुवन्युवमिदं निष्कुरुतमिति तौ तथेत्यब्रूतां तौ वै वो वरं वृणावहा इति वृणाथामिति तावेतमेव वरमवृणातां प्रातःसवने पयस्यां सैनयोरेषाऽच्युता वरवृता ह्येनयोस्तद्यस्यै विमत्तमिव तदस्यै समृद्धं विमत्तमिव हि तौ तया निरकुरुताम्॥2.22॥ (7.4) (52)

देवानां वै सवनानि नाध्रियन्त त एतान्पुरोळाशानपश्यंस्ताननुसवनं निरवप-न्सवनानां धृत्यै ततो वै तानि तेषामध्रियन्त तद्यदनुसवनम्पुरोळाशा निरुप्यन्ते सवनानामेव धृत्यै तथा हि तानि तेषामध्रियन्त पुरो वा एतान्देवा अक्रत यत्पु-रोळाशास्तत्पुरोळाशानाम्पुरोळाशत्वं तदाहुरनुसवनम्पुरोळाशान्निर्वपेदष्टा-कपालम्प्रातःसवन एकादशकपालम्माध्यंदिने सवने द्वादशकपालं तृती-यसवने तथा हि सवनानां रूपं तथा छन्दसामिति तत्तन्नादृत्यमैन्द्रा वा एते सर्वे निरुप्यन्ते यदनुसवनम्पुरोळासास्तस्मात्तानेकादशकपालानेव निर्वपेत्त-दाहुर्यतो घृतेनानक्तं स्यात्ततः पुरोळाशस्य प्राश्नीयात्सोमपीथस्य गुप्त्यै घृतेन हि वज्रेणेन्द्रो वृत्रमहन्निति तत्तन्नादृत्यं हविर्वा एतद्यदुत्पूतं सोमपीथो वा एष यदुत्पूतं तस्मात्तस्य यत एव कुतश्च प्राश्नीयात्सर्वतो वा एताः स्वधा यजमानमुपक्षरन्ति यदेतानि हवींष्याज्यं धानाःकरम्भः परिवापः पुरोळाशः पयस्येति। सर्वत एवैनं स्वधा उपक्षरन्ति य एवं वेद॥2.23॥

यो वै यज्ञं हविष्पङ्क्तिं वेद हविष्पङ्क्तिना यज्ञेन राध्नोति धानाः करम्भः परिवापः पुरोळाशः पयस्येत्येष वै यज्ञो हविष्पङ्क्तिर्हविष्पङ्क्तिना यज्ञेन राध्नोति य एवं वेद यो वै यज्ञमक्षरपङ्क्तिं वेदाक्षरपङ्क्तिना यज्ञेन राध्नोति सु मत्पद्वग्द इत्येष वै यज्ञोऽक्षरपङ्क्तिरक्षरपङ्क्तिना यज्ञेन राध्नोति य एवं वेद यो वै यज्ञं नराशंसपङ्क्तिं वेद नराशंसपङ्क्तिना यज्ञेन राध्नोति द्विनाराशंसम्प्रातःसवनं द्विनाराशंसा-म्माध्यंदिनं सवनं सकृन्नाराशंसं तृतीयसवनमेष वै यज्ञो नराशंसपङ्क्ति-र्नराशंसपङ्क्तिना यज्ञेन राध्नोति य एवं वेद यो वै यज्ञं सवनपङ्क्तिं वेद सवनपङ्क्तिना यज्ञेन राध्नोति पशुरुपवसथे त्रीणि सवनानि पशुरनूबन्ध्य इत्येष वै यज्ञः सवनपङ्क्तिः सवनपङ्क्तिना यज्ञेन राध्नोति य एवं वेद हरिवाँ इन्द्रो धाना अत्तु पूषण्वान्करम्भं सरस्वतीवान्भारतीवान्परिवाप इन्द्र स्यापूप इति हवि-ष्पंक्त्या यजत्यृक्सामे वा इन्द्र स्य हरी पशवः पूषान्नं करम्भः सरस्वतीवा-न्भारतीवानिति वागेव सरस्वती प्राणो भरतः परिवाप इन्द्र स्यापूप इत्यन्नमेव परिवाप इन्द्रि यमपूप एतासामेव तद्देवतानां यजमानं सायुज्यं सरूपतां सलोकतां गमयति गछति श्रेयसः सायुज्यं गछति श्रेष्ठतां य एवं वेद हविरग्ने वीहीत्यनुससवनम्पुरोळाशस्विष्टकृतो यजत्यवत्सारो वा एतेनाग्नेः प्रियं धा-मोपागछत्स परमं लोकमजयदुपाग्नेः प्रियं धाम गछति जयति परमं लोकं य एवं वेद यश्चैवं विद्वानेतया हविष्पङ्क्त्या यजते यजतीति च यजतीति च॥2.24॥

देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्नहम्प्रथमः पिबेयमहम्प्रथमः पिबेयमित्येवाकामयन्त ते सम्पादयन्तोऽब्रुवन् हन्ताजिमायाम स यो न उज्जेष्यति स प्रथमः सोमस्य पास्यतीति तथेति त आजिमायुस्तेषामाजिं यतामभिसृष्टानां वायुर्मुखम्प्रथमः प्रत्यपद्यताथेन्द्रोऽथ मित्रावरुणावथाश्विनाउ सोऽवेदिन्द्रो वायुमुद्वै जयतीति तमनुपरापतत्सह नावथोज्जयावेति स नेत्यब्रवीदहमेवोज्जेष्यामीति तृतीयम्मेऽथोज्जयावेति नेति हैवाब्रवीदहमेवो-ज्जेष्यामीति तुरीयम्मेऽथोज्जयावेति तथेति तं तुरीयेऽत्यार्जत तत्तुरीयभागि-न्द्रोऽभवत्त्रिभाग्वायुस्तौ सहैवेन्द्र वायू उदजयतां सह मित्रावरुणौ सहाश्विनौ त एषामेते यथोज्जितम्भक्षा इन्द्र वाय्वोः प्रथमोऽथ मित्रावरुणयोरथाश्विनोः स एष इन्द्र तुरीयो ग्रहो गृह्यते यदैन्द्र वायवस्तदेतदृषिः पश्यन्नभ्यनूवाच नियुत्वाँ इन्द्र सारथिरिति तस्माद्धाप्येतर्हि भरताः सत्वनां वित्तिम्प्रयन्ति तुरीये हैव संग्रहीतारो वदन्तेऽमुनैवानूकाशेन यदद इन्द्रः सारथिरिव भूत्वोदजयत्॥2.25॥

ते वा एते प्राणा एव यद्द्विदेवत्या वाक्च प्राणश्चैन्द्र वायवश्चक्षुश्च मनश्च मैत्रावरुणः श्रोत्रं चात्मा चाश्विनास्तस्य हैतस्यैन्द्र वायवस्याप्येकेऽनुष्टुभौ पुरोनुवाक्ये कुर्वन्ति गाय त्र्?यौ याज्ये वाक्च वा एष प्राणाश्च ग्रहो यदैन्द्र वायवस्तदपि छन्दोभ्यां यथायथं क्लप्स्येते इति तत्तन्नादृत्यं व्यृद्धं वा एतद्यज्ञे क्रियते यत्र पुरोनुवाक्या ज्यायसी याज्यायै यत्र वै याज्या ज्यायसि तत्समृद्धमथो यत्र सामे यस्यो तत्कामाय तथा कुर्यात्प्राणस्य च वाचश्चात्रैव तदुपाप्तं वायव्या पूर्वा पुरोनुवाक्यैन्द्र वायव्युत्तरैवं याज्ययोः सा या वायव्या तया प्राणं कल्पयति वायुर्हि प्राणोऽथ यैन्द्र वायवी तस्यै यदैन्द्र म्पदं तेन वाचं कल्पयति वाग्घ्यैन्द्र् युपो तं काममाप्नोति यः प्राणे च वाचि च न यज्ञे विषमं करोति॥2.26॥

प्राणा वै द्विदेवत्या एकपात्रा गृह्यन्ते तस्मात्प्राणा एकनामानो द्विपात्रा हूयन्ते तस्मात्प्राणा द्वंद्वम्। येनैवाध्वर्युर्यजुषा प्रयच्छति तेन होता प्रतिगृह्णाति। एष वसुः पुरुवसुरिह वसुः पुरुवसुर्मयि वसुः पुरूवसुर्वाक्या वाचं मे पाहीत्यैन्द्रवायव भक्षयतीति। उपहूता वाक्सह प्राणेनोप मां वाक्सह प्राणेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति। प्राणा वा ऋषयो देव्यासस्तनूपावानस्तन्वसत्पोजास्तानेव तदुपह्वयते। एष वसुर्विदद्वसुरिह वसुर्विदद्वसुर्मयि वसुर्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पाहीति मैत्रावरुणं भक्षयत्युपहूतं चक्षुः सह मनसोप मां चक्षुः सह मनसा ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्ता तनूपावानस्तन्वस्तपोजा इति प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजास्तानेव तदुपह्वयते। एष वसुः संयद्वसुरिह वसुः संयद्वसुर्मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रं मे पाहीत्याश्विनं भक्षयत्युपहूतं श्रोत्रं
सहाऽऽत्मना ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजास्तानेव तदुपह्वयते। पुरस्तात्प्रत्यञ्चमैन्द्रवायवं भक्षयति तस्मात्पुरस्तात्प्राणापानौ पुरस्तात्प्रत्यञ्चं मैत्रावरुणं भक्षयति तस्मात्पुरस्तातच्चक्षुषी सर्वतः परिहारमाश्विनं भक्षयति तस्मान्मनुष्याश्च पशवश्च सर्वतो वाचं वदन्तीं शृण्वन्ति॥2.27॥ (9.3) (57)

प्राणा वै द्विदेवत्या अनवानं द्विदेवत्यान्यजेत्प्राणानां संतत्यै प्राणानामव्यवच्छेदाय। प्राणा वै द्विदेवत्या न द्विदेवत्यानामनुवषट्कुर्यात्। यद्द्विदेवत्यानामनुवषट्कुर्यादसंस्थितान्प्राणान्संस्थापयेत्संस्था वा एषा यदनुवषट्कारो य एनं तत्र ब्रूयादसंस्थितान्प्राणान्समतिष्ठिपत्प्राण एनं हास्यतीति शश्वत्तथा स्यात्तस्मान्न द्विदेवत्यानामनुवषट्कुर्यात्। तदाहुर्द्विरागूर्य मैत्रावरुणो द्विः प्रेष्यति सकृदागू्र्य होता द्विर्वषट्करोति का होतुरागूरिति। प्राणा वै द्विदेवत्या आगूर्वज्रस्तद्यदत्र होताऽन्तरेणाऽऽगुरेताऽऽगुरा वज्रेण यजमानस्य प्राणान्वीयाद्य एनं तत्र ब्रूयादागुरा वज्रेण यजमानस्य प्राणान्व्यगात्प्राण एनं हास्यतीति शश्वत्तथा स्यात्तस्मात्तत्र होता ऽन्तरेण नाऽऽगुरेत। अथो मनो वै यज्ञस्य मैत्रावरुणो वाग्यज्ञस्य होता मनसा वा इषिता वाग्वदति यां ह्यन्यमना वाचं वदत्यसुर्या वै सा वागदेवजुष्टा तद्यदेवात्र मैत्रावरुणो द्विरागुरते सैव होतुरागूः॥2.28॥ (9.4) (58)

प्राणा वा ऋतुयाजास्तद्यदृतुयाजैश्चारन्ति प्राणानेव तद्यजमाने दधति षळ् ऋतुनेति यजन्ति प्राणमेव तद्यजमाने दधति चत्वार ऋतुभिरिति यजन्त्यपानमेव तद्यजमाने दधति द्विरृतुनेत्युपरिष्टाद्व्यानमेव तद्यजमाने दधति स वा अयम्प्राणस्त्रेधा विहितः प्राणोऽपानो व्यान इति तद्यदृतुन ऋतुभिरृतुनेति यजन्ति प्राणानां संतत्यै प्राणानामव्यवछेदाय प्राणा वा ऋतुयाजा नर्तुयाजानामनुवषट्कुर्यादसंस्थिता वा ऋतव एकैक एव यदृतुयाजा-नामनुवषट्कुर्यादसांस्थितानृतून्संस्थापयेत्संस्था वा एषा यदनुवषट्कारो य एनं तत्र ब्रूयादसंस्थितानृतून्समतिष्ठिपद्दुष्षमम्भविष्यतीति शश्वत्तथा स्यात्तस्मान्नर्तुयाजानामनु वषट्कुर्यात्॥2.29॥

प्राणा वै द्विदेवत्याः पशव इळा द्विदेवत्यान्भक्षयित्वेळामुपह्वयते पशवो वा इळा पशूनेव तदुपह्वयते पशून्यजमाने दधाति तदाहुरवान्तरेळाम्पूर्वाम्प्रा-श्नीयाद्धोतृचमसम्भक्षयेदिति अवान्तरेळामेव पूर्वाम्प्राश्नीयादथ होतृचम-सम्भक्षयेद्यद्वाव द्विदेवत्यान्पूर्वान्भक्षयति तेनास्य सोमपीथः पूर्वो भक्षितो भवति तस्मादवन्तरेळमेव पूर्वाम्प्राश्नीयादथ होतृचमसम्भक्षयेत्तदुभयतो-ऽन्नाद्यम्परिगृह्णाति सोमपीथाभ्यामन्नाद्यस्य परिगृहीत्यै प्राणा वै द्विदेवत्या आत्मा होतृचमसो द्विदेवत्यानां संस्रवान्होतृचमसे समवनयत्यात्मन्येव तद्धोता प्राणान्समवनयते सर्वायुः सर्वायुत्वाय॥2.30॥

देवा वै यदेव यज्ञेऽकुर्वंस्तदसुरा अकुर्वंस्ते समावद्वीर्या एवासन्न व्यावर्तन्त ततो वै देवा एतं तूष्णींशंसमपश्यंस्तमेषामसुरा नान्ववायंस्तूष्णींसारो वा एष यत्तूष्णींशंसो देवा वै यंयमेव वज्रमसुरेभ्य उदयछंस्तं-तमेषामसुराः प्रत्य-बुध्यन्त ततो वै देवा एतं तूष्णींशंसं वज्रमपश्यंस्तमेभ्य उदयछंस्तमेषामसुरा न प्रत्यबुध्यन्त तमेभ्यः प्राहरंस्तेनैनानप्रतिबुद्धेनाघ्नंस्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद ते वै देवा विजितिनो मन्यमाना यज्ञमतन्वत तमेषामसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति तान्समन्तमेवोदारान्परियत्तानुदपश्यंस्तेऽब्रुवन्संस्थापयामेमं यज्ञं यज्ञं नोऽसुरा मा वधिषुरिति तथेति तं तूष्णींशंसे संस्थापय-न्भूरग्निर्ज्योतिर्ज्योतिरग्निरित्याज्यप्रउगे संस्थापयन्निन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति निष्केवल्यमरुत्वतीये संस्थापयन्सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इति वैश्वदेवाग्निमारुते संस्थापयंस्तमेवं तूष्णींशंसे संस्थापयंस्तमेवं तूष्णींशंसे संस्थाप्य तेनारिष्टेनोदृचमाश्नुवत स तदा वाव यज्ञः संतिष्ठते यदा होता तूष्णींशंसं शंसति स य एनं शस्ते तूष्णींशंस उप वा वदेदनु वा व्याहरेत्तम्ब्रूयादेष एवैतामार्तिमारिष्यति प्रातर्वाव वयमद्येमं शस्ते तूष्णींशंसे संस्थापयामस्तं यथा गृहानितं कर्मणानुसमियादेवमेवैनमिदमनुसमिम इति सो ह वाव तामार्तिमृछति य एवं विद्वान्संशस्ते तूष्णींशंस उप वा वदत्यनु वा व्याहरति तस्मादेवं विद्वान्संशस्ते तूष्णींशंसे नोपवदेन्नानुव्याहरेत्॥2.31॥

चक्षूंषि वा एतानि सवनानां यत्तूष्णींशंसो भूरग्निर्ज्योतिर्ज्योतिरग्निरिति प्रातःसवनस्य चक्षुषी इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति माध्यंदिनस्य सवनस्य चक्षुषी सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इति तृतीयसवनस्य चक्षुषी चक्षुष्मद्भिः सवनै राध्नोति चक्षुष्मद्भिः सवनैः स्वर्गं लोकमेति य एवं वेद चक्षुर्वा एतद्यज्ञस्य यत्तूष्णींशंस एका सती व्याहृतिर्द्वेधोच्यते तस्मादेकं सच्चक्षुर्द्वेधा मूलं वा एतद्यज्ञस्य यत्तूष्णींशंसो यं कामयेतानायतनवान्स्यादिति नास्य यज्ञे तूष्णींशंसं शंसेदुन्मूलमेव तद्यज्ञम्पराभवन्तमनु पराभवति तदु वा आहुः शंसेदेवापि वै तदृत्विजेऽहितां यद्धोता तूष्णींशंसं न शंसत्यृत्विजि हि सर्वो यज्ञः प्रतिष्ठितो यज्ञे यजमानस्तस्माच्छंस्तव्यः शंस्तव्यः॥2.32॥

ब्रह्म वा आहावः क्षत्रं निविद्विट्सूक्तमाहिवयतेऽथ निविदं दधाति ब्रह्मण्येव तत्क्षत्रमनुनियुनक्ति निविदं शस्त्वा सूक्तं शंसति क्षत्रं वै निविद्विट्सूक्तं क्षत्र एव तद्विशमनुनियुनक्ति यं कामयेत क्षत्रेणैनं व्यर्धयानीति मध्य एतस्यै निविदः सूक्तं शंसेत्क्षत्रं वै निविद्विट्सूक्तं क्षत्रेणैवैनं तद्व्यर्धयति यं कामयेत विशैनं व्यर्धयानीति मध्य एतस्य सूक्तस्य निविदं शंसेत्क्षत्रं वै निविद्विट्सूक्तं विशैवैनं तद्व्यर्धयति यमु कामयेत सर्वमेवास्य यथापूर्वमृजु क्लृप्तं स्यादि-त्याह्वयेताथ निविदं दध्यादथ सूक्तं शंसेत्सो सर्वस्य क्ळ्प्तिः प्रजापतिर्वा इदमेक एवाग्र आस सोऽकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स वाचमयछत्स संवत्सरस्य परस्ताद्व्याहरद्द्वादशकृत्वो द्वादशपदा वा एषा निविदेतां वाव तां निविदं व्याहरत्ताम्सर्वाणि भूतान्यन्वसृज्यन्त तदेतदृषिः पश्यन्नभ्यनूवाच स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनामिति तद्यदेताम्पुरस्तात्सूक्तस्य निविदं दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद॥2.33॥

अग्निर्देवेद्ध इति शंसत्यसौ वा अग्निर्देवेद्ध एतं हि देवा इन्धत एतमेव तदेतस्मिँ ल्लोक आयातयत्यग्निर्मन्विद्ध इति शंसत्ययं वा अग्निर्मन्विद्ध इमं हि मनुष्या इन्धतेऽग्निमेव तदस्मिँ ल्लोक आयातयत्यग्निः सुषमिदिति शंसति वायुर्वा अग्निः सुषमिद्वायुर्हि स्वयमात्मानं समिन्द्धे स्वयमिदं सर्वं यदिदं किंच वायुमेव तदन्तरिक्षलोक आयातयति होता देववृत इति शंसत्यसौ वै होता देववृत एष हि सर्वतो देवैर्वृत एतमेव तदेतस्मिँ ल्लोक आयातयति होता मनुवृत इति शंसत्ययं वा अग्निर्होता मनुवृतोऽयं हि सर्वतो मनुष्यैर्वृतोऽग्निमेव तदस्मिँ ल्लोक आयातयति प्रणीर्यज्ञानामिति शंसति वायुर्वै प्रणीर्यज्ञानां यदा हि प्राणित्यथ यज्ञोऽथाग्निहोत्रं वायुमेव तदन्तरिक्षलोक आयातयति रथीरध्व-राणामिति शंसत्यसौ वै रथीरध्वराणामेष हि यथैतच्चरति रथीरिवैतमेव तदेतस्मिँ ल्लोक आयातयत्यतूर्तो होतेति शंसत्ययं वा अग्निरतूर्तो होतेमं ह न कश्चन तिर्यञ्चं तरत्यग्निमेव तदस्मिँ ल्लोक आयातयति तूर्णिर्हव्यवाळ् इति शंसति वायुर्वै तूर्णिर्हव्यवाड्वायुर्हीदं सर्वम्सद्यस्तरति यदिदं किंच वा-युर्देवेभ्यो हव्यं वहति वायुमेव तदौतरिक्षलोक आयातयत्या देवो देवा-न्वक्षदिति शंसत्यसौ वै देवो देवानावहत्येतमेव तदेतस्मिँ ल्लोक आयातयति यक्षदग्निर्देवो देवानिति शंसत्ययं वा अग्निर्देवो देवान्यजत्यग्निमेव तद-स्मिँ ल्लोक आयातयति सोऽध्वरा करति जातवेदा इति शंसति वायुर्वै जातवेदा वायुर्हीदं सार्वं करोति यदिदं किंच वायुमेव तदन्तरिक्षलोक आयातयति॥2.34॥

प्र वो देवायाग्नय इत्यनुष्टुभः। प्रथमे पदे विहरति तस्मात्स्त्र्यूरू विहरति। समस्यत्युत्तरेपदे तस्मात्पुमानूरू समस्यति तन्मिथुनं मिथुनमेव तदुक्थमुखे करोति प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद। प्र वो देवायाग्नय इत्येवानुष्टुभः प्रथमे पदे विहरति वज्रमेव तत्परोवरीयांसं करोति समस्यत्येवोत्तरे पदे आरम्भणतो वै वज्रस्याणिमाऽथो दण्डस्याथो परशोर्वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै॥2.35॥ (10.3) (65)

देवासुरा वा एषु लोकेषु समयतन्त ते वै देवाः सद एवायतनमकुर्वत तान्सदसोऽजयंस्त आग्नीध्रं सम्प्रापद्यन्त ते ततो न पराजयन्त तस्मादाग्नीध्र उपवसन्ति न सदस्याग्नीध्रे ह्यधारयन्त यदाग्नीध्रेऽधारयन्त तदाग्नीध्रस्याग्नीध्रत्वं तेषां वै देवानामसुराः सदस्यानग्नीन्निर्वापयां चक्रुस्ते देवा आग्नीध्रादेव सद-स्यानग्नीन्विहरन्त तैरसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना आग्नीध्रादेव सदस्या-नग्नीन्विहरन्त्यसुररक्षांस्येव तदपघ्नते ते वै प्रातराज्यैरेवाजयन्त आयन्यदा-ज्यैरेवाजयन्त आयंस्तदाज्यानामाज्यत्वं तासां वै होत्राणामायतीनामाजयन्ती-नामच्छावाकीयाहीयत तस्यामिन्द्राग्नी अध्यास्तामिन्द्राग्नी वै देवानामोजिष्ठौ बलिष्ठौ सहिष्ठौ सत्तमौ पारयिष्णुतमौ तस्मादैन्द्राग्नमच्छावाकः प्रातःसवने शंसतीन्द्र ग्नी हि तस्यामध्यास्तां तस्मादु पुरस्तादन्ये होत्रकाः सदः प्रसर्पन्ति पश्चाच्छावाकः पश्चेव हि हीनोऽनुसंजिगमिषति तस्माद्यो ब्राह्मणो बह्वृचो वीर्यवान्स्यात्सो ऽस्याच्छावाकीयां कुर्यात्तेनेव साऽहीना भवति॥2.36॥

देवरथो वा एष यद्यज्ञस्तस्यैतावन्तरौ रश्मी यदाज्यप्रउगे तद्यदाज्येन पवमानमनुशंसति प्रउगेणाज्यं देवरथस्यैव तदन्तरौ रश्मी विहरत्यलोभाय तामनुकृतिम्मनुष्यरथस्यैवान्तरौ रश्मी विहरन्त्यलोभाय नास्य देवरथो लुभ्यति न मनुष्यरथो य एवं वेद तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रम्पावमानीषु सामगाः स्तुवत आग्नेयं होताज्यं शंसति कथमस्य पावमान्योऽनुशस्ता भवन्तीति यो वा अग्निः स पवमानस्तदप्येतदृषिणोक्तम् अग्निरृषिः पवमान इत्येवमु हास्याग्नेयीभिरेव प्रतिपद्यमानस्य पावमान्योऽनुशस्ता भवन्ति तादाहुर्यथा वाव स्तोत्रमेवं शस्त्रं गायत्रीषु सामगाः स्तुवत आनुष्टुभं होताज्यं शंसति कथमस्य गाय त्र्?योऽनुशस्ता भवन्तीति सम्पदेति ब्रूयत्सप्तैता अनुन्ष्टुभस्तास्त्रिः प्रथमया त्रिरुत्तमयैकादश भवन्ति विराद्याज्या द्वादशी न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यां ताः षोळश गाय त्र्?यो भवन्त्येवमु हास्यानुष्टुब्भिरेव प्रति-पद्यमानस्य गाय त्र्?योऽनुशस्ता भवन्त्यग्न इन्द्र श्च दाशुषो दुरोण इत्याग्नेन्द्र् या यजति न वा एताविन्द्राग्नी सन्तौ व्यजयेतामाग्नेन्द्र ?ौ वा एतौ सन्तौ व्यजयेतां तद्यदाग्नेन्द्र् या यजति विजित्या एव सा विराट्त्रयस्त्रिंसदक्षर भवति त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्र ?ा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च तत्प्रथम उक्थमुखे देवता अक्षरभाजः करोत्यक्षरम्-अक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति तदाहुर्यथा वाव शस्त्रमेवं याज्याग्नेयं होताज्यं शंसत्यथ कस्मादाग्नेन्द्र् या यजतीति या वा आग्नेन्द्र् यैन्द्राग्नी वै सा सेन्द्राग्नमेतदुक्थं ग्रहेण च तूष्णींशंसेन चेन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यमस्य पातं धियेषितेत्यैन्द्राग्नमध्वर्युर्ग्राहं गृह्णाति भूरग्निर्ज्योतिर्ज्योति-रग्निरिन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रः सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इति होता तूष्णीशंसं शंसति तद्यथेव शस्त्रमेवं याज्या॥2.37॥

होतृजपं जपति रेतस्तत्सिञ्चत्युपांशु जपत्युपांश्विव वै रेतसः सिक्तिः पुराहावाज्जपति यद्वै किम्चोर्ध्वमाहावाच्छस्त्रस्यैव तत्पराञ्चं चतुष्पद्यासीनम-भ्याह्वयते तस्मात्पराञ्चो भूत्वा चतुष्पादो रेतः सिञ्चन्ति सम्यङ्द्विपाद्भवति तस्मात्सम्यञ्चो भूत्वा द्विपादो रेतः सिञ्चन्ति पिता मातरिश्वेत्याह प्राणो वै पिता प्राणो मातरिश्वा प्राणो रेतो रेतस्तत्सिञ्चत्यछिद्र ?ा पदा धा इति रेतो वा अछिद्र मातो ह्यछिद्र ?ः सम्भवत्यछिद्र ?ोक्था कवयः शंसन्निति ये वा अनूचानास्ते कवयस्त इदमछिद्रं रेतः प्रजनयन्नित्येव तदाह सोमो विश्वविन्नीथानि नेषद्बृहस्पति-रुक्थामदानि शंसिषदिति ब्रह्म वै बृहस्पतिः क्षत्रं सोमः स्तुतशस्त्राणि नीथानि चोक्थमदानि च दैवेन चैवैतद्ब्रह्मणा प्रसूतो दैवेन च क्षत्रेणोक्थानि शंसत्येतौ ह वा अस्य सर्वस्य प्रसवस्येशाते यदिदं किंच तद्यदेताभ्यामप्रसूतः करोत्यकृतं तदकृतमकरिति वै निन्दन्ति कृतमस्य कृतम्भवति नास्याकृतं कृतम्भवति य एवं वेद वागायुर्विश्वायुर्विश्वमायुरित्याह प्राणो वा आयुः प्राणो रेतो वाग्योनि-र्योनिं तदुपसंधाय रेतः सिञ्चति क इदं शंसिष्यति सैदं शंसिष्यतीत्याह प्रजापतिर्वै कः प्रजापतिः प्रजनयिष्यतीत्येव तदाह॥2.38॥

आहूय तूष्णींशंसं शंसति रेतस्तत्सिक्तम्विकरोति सिक्तिर्वा अग्रेऽथ विकृतिरुपांशु तूष्णींशंसं शंसत्युपांश्विव वै रेतसः सिक्तिस्तिर इव तूष्णींशंसं शंसति तिर इव वै रेतांसि विक्रियन्ते षट्पदं तूष्णींशंसं शंसति षड्विधो वै पुरुषः षळङ्ग आत्मानमेव तत्षड्विधं षळङ्गं विकरोति तुष्णींशंसं शस्त्वा पुरोरुचं शंसति रेतस्तद्विकृतम्प्रजनयति विकृतिर्वा अग्रेऽथ जातिरुच्चैः पुरोरुचं शंसत्युच्चैरेवैनं तत्प्रजनयति द्वादशपदाम्पुरोरुचां शंसति द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः सोऽस्य सर्वस्य प्रजनयिता स योऽस्य सर्वस्य प्रजनयिता स एवैनं तत्प्रजया पशुभिः प्रजनयति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद जातवेदस्याम्पुरोरुचं शंसति जातवेदोन्यङ्गां तदाहुर्य-त्तृतीयसवनमेव जातवेदस आयतनमथ कस्मात्प्रातःसवने जातवेदस्या-म्पुरोरुचं शंसतीति प्राणो वै जातवेदाः स हि जातानां वेद यावतां वै स जातानां वेद ते भवन्थि येषामु न वेद किमु ते स्युर्यो वा आज्य आत्मसंस्कृतिं वेद तत्सुविदितम्॥2.39॥

प्र वो देवायाग्नय इति शंसति प्राणो वै प्र प्राणं हीमानि सर्वाणि मृतान्यनु प्रयन्ति प्राणमेव तत्संभावयति प्राणं संस्कुरुते। दीदिवांसमपूर्व्यमिति शंसति मनो वै दीदाय मनसो हि न किंचन पूर्वमस्ति मन एव तत्संभावयति मनः संस्कुरुते। स नः शर्माणि वीतय इति शंसति वाग्वै शर्म तस्माद्वाचाऽनुवदन्तमाह शर्मवदास्मा आयांसीति वाचमेव तत्संभवयति वाचं संस्कुरुते। उत नो ब्रह्मन्नविष इति शंसति श्रोत्रं वै ब्रह्म श्रोत्रेण हि ब्रह्म शृणोति श्रोत्रे ब्रह्म प्रतिष्ठितं श्रोत्रमेव तत्संभावयति श्रोत्रं संस्कुरुते। स यन्ता विप्र एषामिति शंसत्यपानो वै यन्ताऽपानेन ह्ययं यतः प्राणो न पराङ्भवत्यपानमेव तत्संभावयत्यपानं संस्कुरुते। ऋतावा यस्य रोदसी इति शंसति चक्षुर्वा ऋतं तस्माद्यतरो विवदमानयोराहाहमनुष्ठ्या चक्षुषाऽदर्शमिति तस्य श्रद्दधति चक्षुरेव तत्संभावयति चक्षुः संस्कुरुते। नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वस्वित्युत्तमया परिदधात्यात्मा वै समस्तः सहस्रवांस्तोकवान्पुष्टिमानात्मानमेव तत्समस्तं संभावयत्यात्मानं समस्तं संस्कुरुते। याज्यया यजति प्रत्तिर्वै याज्या पुण्यैव लक्ष्मीः पुण्यामेव तल्लक्ष्मीं संभावयति पुण्यां लक्ष्मीं संस्कुरुते। स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद। यो वै तद्वेद यथा छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति तत्सुविदितम्। इत्यध्यात्ममथाधिदैवतम्॥2.40॥ (10.8) (70)

षट्पदं तूष्णींशंसं शंसति षड्वा ऋतव ऋतूनेव तत्कल्पयत्यृतूनप्येति। द्वादशपदां पुरोरुचं शंसति द्वादश वै मासा मासानेव तत्कल्पयति मासानप्येति। प्र वो देवायाग्नय इति शंसत्यन्तरिक्षं वै प्रान्तरिक्षं हीमानि सर्वाणि भूतान्यनुप्रयन्त्यन्तरिक्षमेव तत्कल्पयत्यन्तरिक्षमप्येति। दीदिवांसमपूर्व्यमिति शंसत्यसौ वै दीदाय योऽसौ तपत्येतस्माद्धि न किंचन पूर्वमस्त्येतमेव तत्कल्पयत्येतमप्येति। स नः शर्माणि वीतय इति शंसत्यग्निर्वै शर्माण्यन्नाद्यानि यच्छत्यग्निमेव तत्कल्पयत्यग्निमप्येति। उत नो ब्रह्मन्नविष इति शंसति चन्द्रमा वै ब्रह्म चन्द्रमसमेव तत्कल्पयति चन्द्रमसमप्येति। स यन्ता विप्र एषामिति शंसति वायुर्वै यन्ता वायुना हीदं यतमन्तरिक्षं न समृच्छति वायुमेव तत्कल्पयति वायुमप्येति। ऋतावा यस्य रोदसी इति शंसति द्यावापृथिवी वै रोदसी द्यावापृथिवी एव तत्कल्पयति द्यावापृथिवी अप्येति। नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वस्वित्युत्तमया परिदधाति संवत्सरो वै समस्तः सहस्रवांस्तोकवान्पुष्टिमान्संवत्सरमेव तत्समस्तं कल्पयति संवत्सरं समस्तमप्येति। याज्यया यजति वृष्टिर्वै याज्या विद्युदेव विद्युद्धीदं वृष्टिमन्नाद्यं संप्रयच्छति विद्युतमेव तत्कल्पयति विद्युतमप्येति। स एवं विद्वानेतन्मयो देवतामयो भवति भवति॥2.41॥ (10.9) (71)

ग्रहोक्थं वा एतद्यत्प्रउगं नव प्रातर्ग्रहा गृह्यन्ते नवभिर्बहिष्पवमाने स्तुवते स्तुते स्तोमे दशमं गृह्णाति हिंकार इतरासां दशमः सो सा सम्मा वायव्यं शंसति तेन वायव्य उक्थवानैन्द्र वायवं शंसति तेनैन्द्र वायव ?उक्थवान्मैत्रावरुणं शंसति तेन मैत्रावरुण उक्थवानाश्विनं शंसति तेनाश्विन उक्थवानैन्द्रं शंसाति तेन शुक्रामन्थिना उक्थवन्तौ वैश्वदेवं शंसति तेनाग्रयण उक्थवान्सारस्वतं शंसति न सारस्वतो ग्रहोऽस्ति वाक्तु सरस्वती ये तु केच वाचा ग्रहा गृह्यन्ते ते ऽस्य सर्वे शस्तोक्थाः उक्थिनो भवन्ति य एवं वेद॥3.1॥

अन्नाद्यं वा एतेनावरुन्द्धे यत्प्रउगामन्यान्या देवता प्रउगे शस्यतेऽन्यद्-अन्यदुक्थम्प्रउगे क्रियतेऽन्यदन्यदस्यान्नाद्यं ग्रहेषु ध्रियते य एवं वेदैतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत्प्रउगं तस्मादेनैनैतदुपेक्ष्यतममिवेत्याहुरेतेन ह्येनं होता संस्करोतीति वायव्यं शंसाति तस्मादाहुर्वायुः प्राणः प्राणो रेतो रेतः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यद्वायव्यं शंसति प्राणमेवास्य तत्संस्क-रोत्यैन्द्र वायवं शंसति यत्र वाव प्राणस्तदपानो यदैन्द्र वायवं शंसाति प्राणा-पानावेवास्य तत्संस्करोति मैत्रावरुणं शंसाति तस्मादाहुश्चक्षुः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यन्मैत्रावरुणं शंसति चक्षुरेवास्य तत्संस्करोत्याश्विनं शंसति तस्मात्कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति यदाश्विनं शंसति श्रोत्रामेवास्य तत्संस्करोत्यैन्द्रं शंसति तस्मात्कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति यदैन्द्रं शंसति वीर्यमेवास्य तत्संस्करोति वैश्वदेवं शंसति तस्मात्कुमारो जातः पश्चेव प्रचरति वैश्वदेवानि ह्यङ्गानि यद्वैश्वदेवं शंसत्यङ्गान्येवास्य तत्संस्करोति सारस्वतं शंसति तस्मात्कुमारं जातं जघन्या वागाविशति वाग्घि सरस्वती यत्सारस्वतं शंसति वाचमेवास्य तत्संस्करोत्येष वै जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः सर्वेभ्य उक्थेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः प्रउगेभ्यः सर्वेभ्यः सवनेभ्यो य एवं वेद यस्य चैवं विदुष एतच्छंसन्ति॥3.2॥

प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षौ प्राणाः शीर्षन्नेव तत्प्राणान्दधाति किं स यजमानस्य पापभद्र माद्रि येतेति ह स्माह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत प्राणेनैनं व्यर्धयानीति वायव्यमस्य लुब्धं शंसेदृचं वा पदं वातीयात्तेनैव तल्लुब्धम्प्रणेनैवैनं तद्व्य-र्धयति यम्कामयेत प्रानापानाभ्यामेनं व्यर्धयानीत्यैन्द्र वायवमस्य लुब्धं शंसेदृचं वा पदं वातीयात्तेनैव तल्लुब्धम्प्राणापानाभ्यामेवैनं तद्व्यर्धयति यं कामयेत चक्षुषैनं व्यर्धायनीति मैत्रावरुणमस्य लुब्धं शंसेदृचम्वा पदं वातीयात्तेनैव तल्लुब्धं चक्षुषैवैनम्तद्व्यर्धयति यं कामयेत श्रोत्रेणैनं व्यर्धयानीत्याश्विनमस्य लुब्धं शंसेदृचं वा पदं वतीयात्तेनैव तल्लुब्धं श्रोत्रेणैवैनं तद्व्यर्धयति यं कामयेत वीर्येणैनं व्यर्धयानीत्यैन्द्र मस्य लुब्धं शंसेदृचं वा पदं वातीयात्तेनैव तल्लुब्धं वीर्येनैवैनां तद्व्यर्धयति यं कामयेताङ्गैरेनं व्यर्धयानीति वैश्वदेवमस्य लुब्धं शंसेदृचं वा पदं वातीयात्तेनैव तल्लुब्ध-मङ्गैरेवैनं तद्व्यर्धयति यं कामयेत वाचैनं व्यर्धयानीति सारस्वतमस्य लुब्धं शंसेदृचं वा पदं वातीयात्तेनैव तल्लुब्धं वाचैवैनं तद्व्यर्धयति यमु कामयेत सर्वैरेनमङ्गैः सर्वेणात्मना समर्धयानीत्येतदेवास्य यथापूर्वमृजु क्लृप्तं शंसेत्स-र्वैरेवैनं तदङ्गैः सर्वेणात्मना समर्धयति सर्वैरङ्गैः सर्वेणात्मना समृध्यते य एवं वेद॥3.3॥

तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रमाग्नेयीषु सामगा स्तुवते वायव्यया होता प्रतिपद्यते कथमस्याऽऽग्नेय्योऽनुशस्ता भवन्तीति। अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः। स यदग्निः प्रवानिव दहति तदस्य वायव्यं रूपं तदस्य तेनानुशंसति। अथ यद्द्वैधमिव कृत्वा दहति द्वौ वा इन्द्रवायू तदस्यैन्द्रवायवं रूपं तदस्य तेनानुशंसति। अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपं तदस्य तेनानुशंसति। स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपं तं यद्घोरसंस्पर्शं सन्तं मित्रकृत्येवोपासते तदस्य मैत्रं रूपं तदस्य तेनानुशंसति। अथ यदेनं द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति द्वौ वा अश्विनौ तदस्याऽऽश्विनं रूपं तदस्य तेनानुशंसति। अथ यदुच्चैर्घोष स्तनयन्बबबा कुर्वन्निव दहति यस्माद्भूतानि विजन्ते तदस्यैन्द्रं रूपं तदस्य तेनानुशंसति। अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपं तदस्य तेनानुशंसति। अथ यत्स्फूर्जयन्वाचमिव वदन्दहति तदस्य सारस्वतं रूपं तदस्य तेनानुशंसति। एवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेन तृचेनैवैताभिर्देवताभिः स्तोत्रियोऽनुशस्तो भवति। विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना। पिबा मित्रस्य धामभिरिति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.4॥ (11.4) (75)

देवपात्रं वा एतद्यद्वषट्कारो वषट्करोति देवपात्रेणैव तद्देवतास्तर्पयति। अनुवषट्करोति तद्यथा ऽदो ऽश्वान्वा गा वा पुनरभ्याकारं तर्पयन्त्येवमेवैतद्देवताः पुनरभ्याकारं तर्पयन्ति यदनुवषट्करोति। इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यानथ कस्मात्पूर्वस्मिन्नेव जुह्वति पूर्वस्मिन्वषट्कुर्वन्तीति। यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेन धिष्ण्यान्प्रीणाति। असंस्थितान्सोमान्भक्षयन्तीत्याहुर्येषां नानुवषट्करोति को नु सोमस्य स्विष्टकृद्भाग इति। यद्वा सोमस्याग्ने वीहीत्यनुवषटकरोति तेनैव संस्थितान्सोमान्भक्षयन्ति स उ एव सोमस्य स्विष्टकृद्भागो वषट्करोति॥3.5॥ (11.5) (76)

वज्रो वा एष यद्वषट्कारो यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति षळ् इति वषट्करोति षड्वा ऋतव ऋतूनेव तत्क-ल्पयत्यृतून्प्रतिष्ठापयत्यृतून्वै प्रतितिष्ठत इदं सर्वमनुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद तदु ह स्माह हिरण्यदन्बैद एतानि वा एतेन षट्प्रतिष्ठापयति द्यौरन्तरिक्षे प्रतिष्ठितान्तरिक्षम्पृथिव्याम्पृथिव्यप्स्वापः सत्ये सत्यम्ब्रह्मणि ब्रह्म तपसीत्येता एव तत्प्रतिष्ठाः प्रतितिष्ठन्तीरिदं सर्वम-नुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद वौषळ् इति वषट्करोत्यसौ वाव वावृतवः षळ् एतमेव तदृतुष्वादधात्यृतुषु प्रतिष्ठापयति यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति॥3.6॥

त्रयो वै वषट्कारा वज्रो धामछद्रि क्तह् स यमेवोच्चैर्बलि वषट्करोति स वज्रस्तं-तम्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै तस्मात्स भ्रातृव्यवता वषट्कृत्योऽथ यः समः संततोऽनिर्हाणर्चः स धामछत्तंतम्प्रजाश्च पशवश्चानूपतिष्ठान्ते तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्योऽथ येनैव षळ् अवराध्नोति स रिक्तो रिणक्त्यात्मानं रिणक्ति यजमानम्पापीयान्वषट्कर्ता भवति पापीयान्यस्मै वषट्करोति तस्मात्तस्याशां नेयात्किं स यजमानस्य पापभद्र माद्रि येतेति ह स्माह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्य ऋच-म्ब्रूयात्तथैवास्य वषट्कुर्यात्सदृशमेवैनं तत्करोति यं कामयेत पापी-यान्स्यादित्युच्चैस्तरामस्य ऋचमुक्त्वा शनैस्तरां वषट्कुर्यात्पापीयांसमेवैनं तत्करोति यं कामयेत श्रेयान्स्यादिति शनैस्तरामस्य ऋचमुक्त्वोच्चैस्तरां वषट्कुर्याच् छ्रिय एवैनं तच्छ्रियामादधाति संततमृचा वषट्कृत्यं संतत्यै। संधीयते प्रजया पशुभिर्य एवं वेद॥3.7॥

यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्साक्षादेव तद्देवतां प्रीणाति प्रत्यक्षाद्देवतां यजति। वज्रो वै वषट्कारः स एष प्रहृतोऽशान्तो दीदाय तस्य हैतस्य न सर्व इव शान्तिं वेद न प्रतिष्ठां तस्माद्धाप्येतर्हि भूयानिव मृत्युस्तस्य हैषैव शान्तिरेषा प्रतिष्ठा वागित्येव तस्माद्वषट्कृत्य वषट्कृत्य वागित्यनुमन्त्रयेत स एनं शान्तो न हिनस्ति। वषट्कार मा मां प्रमृक्षो माऽहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठाऽसि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेति वषट्कारमनुमन्त्रयेत। तदु ह स्माऽऽह दीर्घमेतत्सदप्रभ्वोजः सह ओजः। इत्येव वषट्कारमनुमन्त्रयेत। ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ। प्रियेणैवैनं तद्धाम्ना समर्धयति। प्रियेण धाम्ना समृध्यते य एवं वेद। वाक्च वै प्राणापानौ च वषट्कारस्य एते वषट्कृते वषट्कृते व्युत्क्रामन्ति ताननुमन्त्रयेत वागोजः सह ओजो मयि प्राणापानावित्यात्मन्येव तद्धोता वाचं च प्राणापानौ च प्रतिष्ठापयति सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.8॥ (11.8) (79)

यज्ञो वै देवेभ्य उदक्रामत्तं प्रैषैः प्रैषमैच्छन्यत्प्रैषैः प्रैषमैच्छंस्तत्प्रैषाणां प्रैषत्वम्। तं पुरोरुग्भिः प्रारोचयन्यत्पुरोरुग्भिः प्रारोचयंस्तत्पुरोरुचां पुरोरुक्त्वम्। तं वेद्यामन्वविन्दन्यद्वेद्यामन्वविन्दंस्तद्वेदेर्वेदित्वम्। तं वित्तं ग्रहैर्व्यगृह्णत यद्वित्तं ग्रहैर्व्यगृह्णत तद् ग्रहाणां ग्रहत्वम्। तं वित्त्वा निविद्भिर्न्यवेदयन्यद्वित्त्वा निविद्भिर्न्यवेदयंस्तन्निविदां निवित्त्वम्। महद्वावनष्टैष्यभ्यल्पं वेच्छति यतरो वाव तयोर्ज्याय इवाभीच्छति स एव तयोः साधीय इच्छति। य उ एव प्रैषान्वर्षीयसो वर्षीयसो वेद स उ एव तान्साधीयो वेद नष्टैष्यंह्येतद्यत्प्रैषाः। तस्मात्प्रह्वस्तिष्ठन्प्रेष्यति॥3.9॥ (11.9) (80)

गर्भा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते तस्मात्पराञ्चो गर्भा धीयन्ते पराञ्चः संभवन्ति। यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्ये गर्भा धृताः। यदन्ततस्तृतीयसवने धीयन्ते तस्मादमुतोऽर्वाञ्चो गर्भाः प्रजायन्ते प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद। पेशा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते यथैव प्रवयणतः पेशः कुर्यातादृक्ततद्यन्मध्यतो मध्यंदिने धीयन्ते यथैव मध्यतः पेशः कुर्यात्तादृक्तद्यदन्ततस्तृतीयसवने धीयन्ते यथैवाव प्रज्जनतः पेशः कुर्यात्तादृक्तत्। सर्वतो यज्ञस्य पेशसा शोभते य एवं वेद॥3.10॥ (11.10) (81)

सौर्या वा एता देवता यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते मध्यतो मध्यंदिनेंततस्तृतीयसवन आदित्यस्यैव तद्व्रतमनु पर्यावर्तन्ते। पच्छो वै देवा यज्ञं समभरंस्तस्मात्पच्छो निविदः शस्यन्ते। यद्वै तद्देवाय यज्ञं समभरंस्तस्मादश्वः समभवत्तस्मादाहुरश्वं निविदां शंस्त्रे दद्यादिति तदु खलु वरमेव ददति। न निविदः पदमयतीयात्। यन्निविदः पदमतीयाद्यस्य तच्छिद्रं कुर्याद्यज्ञस्य वै छिद्रं स्रवद्यजमानोऽनु पापीयान्भवति तस्मान्न निविदः पदमतीयात्। न निविदः पदे विपरिहरेद्यन्निविदः पदे विपरिहरेन्मोहयेद्यज्ञं मुग्धो यजमानः स्यात्तस्मान्न निविदः पदे विपरिहरेत्। न निविदः पदे समस्येद्यन्निविदः पदेसमस्येद्यज्ञस्य तदायुः संहरेत्प्रमायुको यजमानः स्यात्तस्मान्न निविदः पदे समस्येत्। प्रेदं ब्रह्म प्रेदं क्षत्त्रमित्येते एव समस्येद् ब्रह्मक्षत्त्रयोः संश्रित्यै तस्माद्ब्रह्म च क्षत्त्रं च संश्रिते। न तृचं न चतुर्ऋचमतिमन्येत निविद्धानमेकैकं निविदः पदमृचं सूक्तं प्रति तस्मान्न तृचं न चतुर्ऋचमतिमन्येत निविद्धानं निविदा ह्येव स्तोत्रमतिशस्तं भवति। एकां परिशिष्य तृतीयसवने निविदं दध्यात्। यदहे परिशिष्य दध्यात्प्रजननंतदुपहन्याद्गर्भैस्तत्प्रजा व्यर्धयेत्तस्मादेकामेव परिशिष्य तृतीयसवने निविदं दध्यात्। न सूक्तेन निविदमतिपद्येत। येन सूक्तेन निविदमतिपद्येत न तत्पुनरुपनिवर्तेत वास्तुहमेव तत्। अन्यत्तद्दैवतं तच्छन्दसं सूक्तमाहृत्य तस्मिन्निविदं दध्यात्। मा प्रगाम पथो वयमिति पुरस्तात्सूक्तस्य शंसति। पथो वा एष प्रैति यो यज्ञे मुह्यति मा यज्ञादिन्द्र सोमिन इति यज्ञादेव तन्न प्रच्यवते। माऽन्तः स्थुर्नो अरातय इत्यरातीयत एव तदपहन्ति। यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः। तमाहुतं नशीमहीति। प्रजा वैतन्तुः प्रजामेवास्मा एतत्संतनोति। मनो न्वाहुवामहे नाराशंसेन सोमेनेति। मनसा वै यज्ञस्तायते मनसा क्रियते। सैव तत्र प्रायश्चित्तिः प्रायश्चित्तिः॥3.11॥ (11.11) (82)

देवविशः कल्पयितव्या इत्याहुश्छन्दश्छन्दसि प्रतिष्ठाप्यमिति शोंसा-वोमित्याह्वयते प्रातःसवने त्र्?यक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदष्टाक्षरं सम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तत्पुर-स्तात्प्रातःसवनेऽचीक्लृपतामुक्थं वाचीत्याह शस्त्वा चतुरक्षरमोमुक्थशा इ-त्यध्वर्युश्चतुरक्षरं तदष्ठाक्षरंसम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तदुभयतः प्रातःसवनेऽचीक्लृपतामध्वर्यो शोंसावोमित्याह्वयते मध्यंदिने षळक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदेकादशाक्षरं सम्पद्यत एका-दशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तत्पुरस्तान्मध्यंदिनेऽचीक्लृपतामुक्थं वाची-न्द्रायेत्याह शस्त्वा सप्ताक्षरमोमुक्थशा इत्यध्वर्युश्चतुरक्षरं तदेकादशाक्षरं सम्पद्यत एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तदुभयतो मध्यं-दिनेऽचीक्लृपतामध्वर्यो शोशोंसावोमित्याह्वयते तृतीयसवने सप्ताक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तद्द्वादशाक्षरं सम्पद्यते द्वादशाक्षार वै जगती जगतिमेव तत्पुरस्तात्तृतीयसवनेऽचीक्लृपतामुक्थं वाचीन्द्राय देवेभ्य इत्याह शस्त्वैकादशाक्षरमोमित्यध्वर्युरेकाक्षरं तद्द्वा-दशाक्षरं सम्पद्यते द्वादशाक्षर वै जगती जगतीमेव तदुभयतस्तृतीयसव-नेऽचीक्लृपतां तदेतदृषिः पश्यन्नभ्यनूवाच यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत यद्वा जगज्जगत्याहितम्पदं य इत्तद्विदुस्ते अमृतत्वमानशुरित्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति। कल्पयति देवविशो य एवं वेद॥3.12॥

प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो भागधेयानि व्यभजत्स गायत्रीमेवाग्नये वसुभ्यः प्रातःसवनेऽभजत्त्रिष्टुभमिन्द्राय रुद्रे भ्यो मध्यंदिने जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यस्तृतीयसवनेऽथास्य यत्स्वं छन्द आसीदनुष्टुप् तामुदन्त-मभ्युदौहदच्छावाकीयामभि सैनमब्रवीदनुष्टुप्त्वं न्वेव देवानाम्पापिष्ठोऽसि यस्य तेऽहं स्वं छन्दोऽस्मि याम्मोदन्तमभ्युदौहीरच्छावाकीयामभिति तदजानात्स स्वं सोममाहरत्स स्वे सोमेऽग्रम्मुखमभि पर्याहरदनुष्टुभं तस्माद्वनुष्टुबग्रिया मुख्या युज्यते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेद स्वे वै स तत्सोमेऽकल्पयत्तस्माद्यत्र क्व च यजमानवशो भवति कल्पत एव यज्ञो पि। तस्यै जनतायै कल्पते यत्रैवं विद्वान्यजमानो वशी यजते॥3.13॥

अग्निर्वै देवानां होतासीत्तम्मृत्युर्बहिष्पवमानेऽसीदत्सोऽनुष्टुभाज्यम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तमाज्येऽसीदत्स प्रउगेण प्रत्यपद्यत मृत्युमेव तत्प-र्यक्रामत्तम्माध्यंदिने पवमानेऽसीदत्सोऽनुष्टुभा मरुत्वतीयम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तम्माध्यंदिने बृहतीषु नाशक्नोत्सत्तुम्प्राणा वै बृहत्यः प्राणानेव तन्नाशक्नोद्व्यवैतुं तस्मान्माध्यंदिने होता बृहतीषु स्तोत्रियेणैव प्रतिपद्यते प्राणा वै बृहत्यः प्राणानेव तदभि प्रतिपद्यते तं तृतीयपवमानेऽसीदत्सोऽनुष्टुभा वैश्वदेवम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तं यज्ञायज्ञीयेऽसीदत्स वैश्वानरीये-णाग्निमारुतम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामद्वज्रो वै वैश्वानरीयम्प्रतिष्ठा यज्ञायज्ञीयं वज्रेणैव तत्प्रतिष्ठाया मृत्युं नुदते स सर्वान्पाशान्सर्वान्स्था-णून्मृत्योरतिमुच्य स्वस्त्येवोदमुच्यत स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.14॥

”इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगछत्स परमामेव परावतमगछदनुष्टुब्वै परमा परावद्वाग्वा अनुष्टुप् स वाचम्प्रविश्याशयत्तं सर्वाणि भूतानि विभज्यान्वैछंस्तम्पूर्वेद्युः पितरोऽविन्दन्नुत्तरमहर्देवास्तस्मा-त्पूर्वेद्युः पितृभ्यः क्रियत उत्तरमहर्देवान्यजन्ते तेऽब्रुवन्नभिषुणवामैव तथा वाव न आशिष्ठमागमिष्यतीति तथेति तेऽभ्यषुण्वंस्त आ त्वा रथां यथोतय इत्ये-वैनमावर्तयन्निदं वसो सुतमन्ध इत्येवैभ्यः सुतकीर्त्यामाविरभवदिन्द्र नेदीय एदिहीत्येवैनम्मध्यम्प्रापादयन्तागतेन्द्रे ण यज्ञेन यजते सेन्द्रे ण यज्ञेन राध्नोति य एवं वेद॥3.15॥

इन्द्रं वै वृत्रं जघ्निवांसं नास्तृतेति मन्यमानाः सर्वा देवता अजहुस्तं मरुत एव स्वापयो नाजहुः प्राणा वै मरुतः स्वापयः प्राणा हैवैनं तं नाजहुस्तस्मादेषोऽच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति। अपि ह यद्यैन्द्रमेवात ऊर्ध्वं छन्दः शस्यते तद्ध सर्वं मरुत्वतीयं भवत्येष चेदच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति॥3.16॥ (12.5) (87)

ब्राह्मणस्पत्यम्प्रगाथं शंसति बृहस्पतिपुरोहिता वै देवा अजयन्स्वर्गं लोकं व्यस्मिँ ल्लोकेऽजयन्त तथैवैतद्यजमानो बृहस्पतिपुरोहित एव जयति स्वर्गं लोकं व्यस्मिँ ल्लोके जयते तौ वा एतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तदाहुर्यन्न किं चनास्तुतं सत्पुनरादायं शस्यतेऽथ कस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते इति पवमानोक्थं वा एतद्यन्मरुत्वतीयं षट्सु वा अत्र गायत्रीषु स्तुवते षट्सु बृबतीषु तिसृषु त्रिष्टुप्सु स वा एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानस्तदाहुः कथं त एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानोऽनुशास्तो भवतीति ये एव गाय त्र्?या उत्तरे प्रतिपदो यो गाय-त्रोऽनुचरस्ताभिरेवास्य गायत्र्योऽनुशस्ता भवन्त्येताभ्यामेवास्य प्रगाथाभ्या-म्बृहत्योऽनुशस्ता भवन्ति तासु वा एतासु बृहतीषु सामगा रौरवयौ-धाजयाभ्याम्पुनरादायं स्तुवते तस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तच्छस्त्रेण स्तोत्रमन्वैति ये एव त्रिष्टुभौ धाय्ये यत्त्रैष्टुभं निवि-द्धानम्ताभिरेवास्य त्रिष्टुभोऽनुशस्ता भवन्त्येवमु हास्यैष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानो नुशस्तो भवति य एवं वेद॥3.17॥

धाय्याः शंसति धाय्याभिर्वै प्रजापतिरिमाँ ल्लोकानधयद्यं-यं काममकामयत तथैवैतद्यजमानो धाय्याभिरेवेमाँ ल्लोकान्धयति यं-यं कामां कामयते य एवं वेद यदेव धाय्याः यत्रयत्र वै देवा यज्ञस्य छिद्रं निरजानंस्तद्धाय्याभिर-पिदधुस्तद्धाय्यानां धाय्यात्वमछिद्रे ण हास्य यज्ञेनेष्टम्भवति य एवं वेद यद्वेव धाय्याः स्यूम हैतद्यज्ञस्य यद्धाय्यास्तद्यथा सूच्या वासः संदधदियादे-वमेवैताभिर्यज्ञस्य छिद्रं संदधदेति य एवं वेद यद्वेव धाय्याः तान्यु वा एतान्युपसदामेवोक्थानि यद्धाय्या अग्निर्नेतेत्याग्नेयी प्रथमोपसत्तस्या एतदुक्थं त्वं सोम क्रतुभिरिति सौम्या द्वितीयोपसत्तस्या एतदुक्थम्पिन्वन्त्यप इति वैष्णवी तृतीयोपसत्तस्या एतदुक्थं यावन्तं ह वै सौम्येनाध्वरेणेष्ट्वा लोकं जयति तमत एकैकयोपसदा जयति य एवं वेद यश्चैवं विद्वान्धाय्याः शंसति तद्धैक आहुस्तान्वो मह इति शंसेदेतां वाव वयम्भरतेषु शस्यमानामभिव्यजानीम इति वदन्तस्तत्तन्नादृत्यं यदेतां शंसेदीश्वरः पर्जन्योऽवर्ष्टोः पिन्वन्त्यप इत्येव शंसेद्वृष्टिवनि पदम्मरुत इति मारुतमत्यं न मिहे वि नयन्तीति विनी-तवद्यद्विनीतवत्तद्विक्रान्तवद्यद्विक्रान्तवत्तद्वैष्णवं वाजिनमितीन्द्रो वै वाजी तस्यां वा एतस्यां चत्वारि पदानि वृष्टिवनि मारुतं वैष्णवमैन्द्रं सा वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यते तस्माद्धेदम्भरतानाम्पशवः सायंगोष्ठाः सन्तो मध्यंदिने संगविनीमायन्ति सो जगती जागता हि पशव आत्मा यजमानस्य मध्यंदिनस्तद्यजमाने पशून्दधाति॥3.18॥

मरुत्वतीयं प्रगाथं शंसति पशवो वै मरुतः पशवः प्रगाथः पशूनामवरुद्ध्यै। जनिष्ठा उग्रः सहसे तुरायेति सूक्तं शंसति तद्वा एतद्यजमानजननमेव सूक्तं यजमानं ह वा एतेन यज्ञाद्देवयोन्यै प्रजनयति। तत्संजयं भवति सं च जयति वि च जयते। एतद्गौरिवीतं गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठं स्वर्गस्य लोकस्यागच्छत्स एतत्सूक्तमपश्यत्तेन स्वर्गं लोकमजयत्तथैवैतद्यजमान एतेन सूक्तेन स्वर्गं लोकं जयति। तस्यार्धाः शस्त्वाऽर्धाः परिशिष्य मध्ये निविदं दधाति। स्वर्गस्य हैष लोकस्य रोहो यन्निवित्। स्वर्गस्य हैतल्लोकस्याऽऽक्रमणं यन्निवित्तामाक्रममाण इव शंसेदुपैव यजमानं निगृह्णीत योऽस्य प्रियः स्यादिति नु स्वर्गकामस्य। अथाभिचरतो यः कामयेत क्षत्त्रेण विशं हन्यामिति त्रिस्तर्हि निविदा सूक्तं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं क्षत्त्रेणैव तद्विशं हन्ति। यः कामयेत विशा क्षत्त्रं हन्यामिति त्रिस्तर्हि सूक्तेन निविदं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं विशैव तत्क्षत्त्रं हन्ति। य उ कामयेतोभयत एनं विशः पर्यवच्छिनदानीत्युभयतस्तर्हि निविदं व्याह्वयीतोभयत एवैनं तद्विशः पर्यवच्छिनत्ति। इति न्वभिचरत इतरथा त्वेव स्वर्गकामस्य। वयः सुपर्णा उपसेदुरिन्द्रमित्युत्तमया परिदधाति। प्रियमेधा ऋषयो नाधमानाः। अप ध्वान्तमू्र्णुहीति येन तमसा प्रावृतो मन्येत तन्मनसा गच्छेदप हैवास्मात्तल्लुप्यते। पूर्धि चक्षुरिति चक्षुषी मरीमृज्येत। आजरसं ह चक्षुष्मान्भवति य एवं वेद। मुमुग्ध्यस्मान्निधयेव बद्धानिति पाशा वै निधा मुमुग्ध्यस्मान्पाशादिव बद्धानित्येव तदाह॥3.19॥ (12.8) (90)
”
इन्द्रो वै वृत्रं हनिष्यन्सर्वा देवता अब्रवीदनु मोपतिष्ठध्वमुप मा ह्वयध्वमिति तथेति तं हनिष्यन्त आद्र वन्सोऽवेन्मां वै हनिष्यन्त आद्र वन्ति हन्तेमान्भीषया इति तानभि प्राश्वसीत्तस्य श्वसथादीषमाणा विश्वे देवा अद्र वन्मरुतो हैनं नाजहुः प्रहर भगवो जहि वीरयस्वेत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त तदेतदृषिः पश्यन्नभ्यनूवाच वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा आजहुर्ये सखायः मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासीति सोऽवेदिमे वै किल मे सचिवा इमे माकामयन्त हन्तेमानस्मिन्नुक्थ आभजा इति तानेतस्मिन्नुक्थ आभजदथ हैते तर्ह्युभे एव निष्केवल्ये उक्थे आसतुर्मरुत्वतीयं ग्रहं गृह्णाति मरुत्वतीयम्प्रगाथं शंसति मरुत्वतीयं सूक्तं शंसति मरुत्वतीयाम्निविदं दधाति मरुतां सा भक्तिर्मरुत्वतीयमुक्थं शस्त्वा मरुत्वतीयया यजति यथाभागं तद्देवताः प्रीणाति ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिरिति यत्रयत्रैवैभिर्व्यजयत यत्र वीर्यमकरोत्तदेवैतत्समनुवेद्येन्द्रेणैनान्ससोमपीथान्करोति॥3.20॥
”
इन्द्रो वै वृत्रं हत्वा सर्वा विजितीर्विजित्याब्रवीत्प्रजापतिमहमेतदसानि यत्त्व-महम्महानसानीति स प्रजापतिरब्रवीदथ कोऽहमिति यदेवैतदवोच इत्य-ब्रवीत्ततो वै को नाम प्रजापतिरभवत्को वै नाम प्रजापतिर्यन्महा-निन्द्रोऽभवत्तन्महेन्द्र स्य महेन्द्र त्वं स महान्भूत्वा देवता अब्रवीदुद्धारम्म उद्धरतेति यथाप्येतर्हीछति यो वै भवति यः श्रेष्ठतामश्नुते स महान्भवति तं देवा अब्रुवन् स्वयमेव ब्रूष्व यत्ते भविष्यतीति स एतम्माहेन्द्रं ग्रहमब्रूत माध्यंदिनं सवनानां निष्केवल्यमुक्थानां त्रिष्टुभं छन्दसाम्पृष्ठं साम्नां तमस्मा उद्धारमुदहरनु उदस्मा उद्धारं हरन्ति य एवं वेद तां देवा अब्रुवन्सर्वं वा अवोचथा अपि नोऽत्रास्त्विति स नेत्यब्रवीत्कथं वोऽपिस्यादिति तमब्रुवन्नप्येव नो स्तु मघवन्निति तानीक्षतैव॥3..21॥

ते देवा अब्रुवन्नियं वा इन्द्र स्य प्रिया जावा वावाता प्रासहा नामास्यामेवेछामहा इति तथेति तस्यामैछन्त सैनानब्रवीत्प्रातर्वः प्रतिवक्तास्मीति तस्मात्स्त्रियः पत्याविछन्ते तस्मादु स्त्र्?यनुरात्रम्पत्याविछते ताम्प्रातरुपायन्सैतदेव प्रत्यपद्यत यद्वावान पुरुतमम्पुराषाळा वृत्रहेन्द्रो नामान्यप्राः अचेति प्रासहस्पति-स्तुविष्मानितीन्द्रो वै प्रासहस्पतिस्तुविष्मान्यदीमुश्मासि कर्तवे करत्तदिति यदेवैतदवोचामाकरत्तदित्येवैनांस्तदब्रवीत्ते देवा अब्रुवन्नप्यस्या इहास्तु या नोऽस्मिन्न वै कमविददिति तथेति तस्या अप्यत्राकुर्वंस्तस्मादेषात्रापि शस्यते यद्वावान पुरुतमम्पुराषाळ् इति सेना वा इन्द्र स्य प्रिया जाया वावाता प्रासहा नाम को नाम प्रजापतिः श्वशुरस्तद्यास्य कामे सेना जयेत्तस्या अर्धात्ति-ष्ठंस्तृणमुभयतः परिछिद्येतरां सेनामभ्यस्येत्प्रासहे कस्त्वा पश्यतीति तद्य-थैवादः स्नुषा श्वशुराळ् लज्जमाना निलीयमानैत्येवमेव सा सेना भज्यमाना निलीयमानैति यत्रैवं विद्वांस्तृणमुभयतः परिछिद्येतरां सेनं अभ्यस्यति प्रासहे कस्त्वा पश्यतीति तानिन्द्र उवाचापि वोऽत्रास्त्विति ते देवा अब्रुव-न्विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्र ?ा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च देवता अक्षरभाजः करोत्यक्षरम्-अक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेतानायतनवान्स्यादित्यविराजास्य यजेद्गाय त्र्?या वा तृष्टुभा वान्येन वा छन्दसा वषट्कुर्यादनायतनवन्तमेवैनं तत्करोति यं कामयेतायतनवान्स्यादिति विराजास्य यजेत्पिबा सोममिन्द्र मन्दतु त्वेत्येतयायतनवन्तमेवैनं तत्करोति॥3.22॥

ऋक्च वा इदमग्रे साम चाऽऽस्तां सैव नाम ऋगासीदमो नाम साम सा वा ऋक्सामोपावदन्मिथुनं संभवाव प्रजात्या इति नेत्यब्रवीत्साम ज्यायान्वा अतो मम महिमेति ते द्वे भूत्वोपावदतां तेन प्रतिचन समवदत तास्तिस्रो भूत्वोपावदंस्तत्तिसृभिः समभवद्यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृभिर्हि साम संमितं तस्मादेकस्य बह्व्यो जाया भवन्ति नैकस्यै बहवः सह पतयो यद्वै तत्सा चामश्च समभवतां तस्सामाभवत्तत्साम्नः सामत्वम्। सामन्भवति य एवं वेद। यो वै भवति यः श्रेष्ठतामश्नुते स सामन्भवत्यसामन्य् इति हि निन्दन्ति। ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतामाहावश्च हिंकारश्च प्रस्तावश्च प्रथमा च ऋगुद्गीथश्च मध्यमा च प्रतिहारश्चोत्तमा च निधनं च वषट्कारश्च। ते यत्पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः पाङ्क्ताः पशव इति। यदु विराजं दशिनीमभिसमपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इति। आत्मा वै स्तोत्रियः प्रजाऽनुरूपः पत्नी धाय्या पशवः प्रगाथो गृहाः सूक्तम्। स वा अस्मिंश्च लोकेऽमुष्मिंश्च प्रजया पशुभिश्च गृहेषु वसति य एवं वेद॥3.23॥ (12.12) (94)
स्तोत्रियं शंसत्यात्मा वै स्तोत्रियः। तं मध्यमया वाचा शंसत्यात्मानमेव तत्संस्कुरुते। अनुरूपं शंसति प्रजा वा अनुरूपः। स उच्चैस्तरामिवानुरूपः शंस्त्व्यः प्रजामेव तच्छ्रेयसीमात्मनः कुरुते। धाय्यां शंसति पत्नी वै धाय्या। सा नीचैस्तरामिव धाय्या शंस्तव्या। अप्रतिवादिनी हास्य गृहेषु पत्नी भवति यत्रैवं विद्वान्नीचैस्तरां धाय्यां शंसति। प्रगाथं शंसति। स स्वरवत्या वाचा शंस्तव्यः पशवो वै स्वरः पशवः प्रगाथः पशूनामवरुद्ध्यै। इन्द्रस्य नु वीर्याणि प्रवोचमिति सूक्तं शंसति। तद्वा एतत्प्रियमिन्द्रस्य सूक्तं निष्केवल्यं हैरण्यस्तूपमेतेन वै सूक्तेन हिरण्यस्तूप आङ्गिरस इन्द्रस्य प्रियं धामोपागच्छत्स परमं लोकमजयत्। उपेन्द्रस्य प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद। गृहा वै प्रतिष्ठा सूक्तं तत्प्रतिष्ठिततमया वाचा शंस्तव्यं तस्माद्यद्यपि दूर इव पशूँल्लभते गृहानेवैनानाजिगमिषति गृहा हि पशूनां प्रतिष्ठा प्रतिष्ठा॥3.24॥ (12.13) (95)

सोमो वै राजामुष्मिँल्लोक आसीत्तं देवाश्च ऋषयश्चाभ्याध्यायन्कथम-यमस्मान्सोमो राजागछेदिति तेऽब्रुवंश्छन्दांसि यूयं न इमं सोमं राजानमा-हरतेति तथेति ते सुपर्णा भूत्वोदपतंस्ते यत्सुपर्णा भूत्वोदपतंस्तदेतत्सौ-पर्णमित्याख्यानविद आचक्षते छन्दांसि वै तत्सोमं राजानमछाचरंस्तानि ह तर्हि चतुरक्षराणिचतुरक्षराण्येव छन्दांस्यासन्सा जगती चतुरक्षरा प्रथमो-दपतत्सा पतित्वार्धमध्वनो गत्वाश्राम्यत्सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत्तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति जागता हि पशवो जगती हि तानाहरदथ त्रिष्टुबुदपतत्सा पतित्वा भूयोऽर्धादध्वनो गत्वाश्राम्यत्सा परास्यैकमक्षरं त्र्?यक्षरा भूत्वा दक्षिना हरन्ती पुनरभ्यवापतत्तस्मान्मध्यंदिने दक्षिणा नीयन्ते त्रिष्टुभो लोके त्रिष्टुब्भि ता आहरत्॥3.25॥

ते देवा अब्रुन्गायत्रीं त्वं न इमं सोमं राजानमाहरेति सा तथेत्यब्रवीत्तां वै मा सर्वेण स्वस्त्ययनेनानुमन्त्रयध्वमिति तथेति सोदपतत्तां देवाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रेति चेति चेत्येतद्वै सर्वं स्वस्त्ययनं यत्प्रेति चेति तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रेति चेति चेति स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति। सा पतित्वासोमपालान्भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगभ्णाद्यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपसमगृभ्णात्। तस्या अनुविसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत्तच्छल्यकोऽभवत्तस्मात्स नखमिव यद्वशमस्रवत्सा वशाऽभवत्तस्मात्सा हविरिवाथ यः शल्यो यदनीकमासीत्स सर्पो निर्दंश्यभवत्सहसः स्वजो यानि पर्णानि ते मन्थावला यानि स्नावानि ते गण्डूपदा यत्तेजनं सोऽन्धाहिः सो सा तथेषुरभवत्॥3.26॥ (13.2) (97)

सा यद्दक्षिणेन पदा समगृभ्णात्तत्प्रातःसवनमभवत्तद्गायत्री स्वमायतनमकुरुत तस्मात्तत्समृद्धतमं मन्यन्ते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेदाथ यत्सव्येन पदा समगृ्भ्णात्तन्माध्यंदिनं सवनमभवत्तद्विस्रंसत तद्विस्रस्तं नान्वाप्नोत्पूर्वं सवनं ते देवाः प्राजिज्ञासन्त तस्मिंस्त्रिष्टुभं छन्दसामदधुरिन्द्रं देवतानां तेन तत्समावद्वीर्यमभवत्पूर्वेण सवनेनोभाभ्यां सवनाभ्यां समावद्वीर्याभ्यां समावज्जामीभ्यां राध्नोति य एवं वेदाथ यन्मुखेन समगृभ्णात्तत्तृतीयसवनमभवत्। तस्य पतन्ती रसमधयत्तद्धीतरसं नान्वाप्नोत्पूर्वे सवने ते देवाः प्राजिज्ञासन्त तत्पशुष्वपश्यंस्तद्यदाशिरममवनयन्त्याज्येन पशुना चरन्ति तेन तत्समावद्वीर्यमभवत्पूर्वाभ्यां सवनाभ्याम्। सर्वैः सवनैः समावद्वीर्यैः समावज्जामिभीराध्नोति य एवं वेद॥3.27॥ (13.3) (98)

ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेतां वित्तं नावक्षराण्यनुपर्यागुरिति नेत्यब्रवीद्गायत्री यथावित्तमेव न इति ते देवेषु प्रश्नमैतां ते देवा अब्रुवन् यथावित्तमेव व इति तस्माद्धाप्येतर्हि वित्त्यां व्याहुर्यथावित्तमेव न इति ततो वा अष्टाक्षरा गाय त्र्?यभव त्त्र्?यक्षरा त्रिष्टुबेकाक्षरा जगती साष्टाक्षरा गायत्री प्रातःसवनमुदयछन्नाशक्नोत्त्रिष्टुप्त्र्यक्षरा माध्यंदिनं सवनमुद्यन्तुं तां गाय- त्र्?यह्रवीदायान्यपि मेऽत्रास्त्विति सा तथेत्यब्रवीत्त्रिष्टुप् तां वै मैतैरष्टाभि-रक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै मध्यंदिने यन्मरुत्वती-यस्योत्तरे प्रतिपदो यश्चानुचरः सैकादशाक्षरा भूत्वा माध्यंदिनं सवनमुदय-छन्नाशक्नोज्जगत्येकाक्षरा तृतियसवनमुद्यन्तुं तां गाय त्र्?यब्रवीदायान्यपि मेऽत्रा-स्त्विति सा तथेत्यब्रवीज्जगति तां वै मैतैरेकादशभिरक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै तृतीयसवने यद्वैश्वदेवस्योत्तरे प्रतिपदो यश्चानुचरः सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयछत्ततो वा अष्टाक्षरा गाय त्र्?य-भवदेकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती सर्वैश्छन्दोभिः समावद्वीर्यैः समावज्जामिभी राध्नोति य एवं वेदैकं वै सत्तत्त्रेधाभवत्तस्मादाहुर्दातव्यमेवं विदुष इत्येकं हि सत्तत्त्रेधा भवत्॥3.28॥

ते देवा अब्रुवन्नादित्यान्युष्माभिरिदं सवनमुद्यछामेति तथेति तस्मादा-दित्यारम्भणं तृतीयसवनमादित्यग्रहः पुरस्तात्तस्य यजत्य् आदित्यासो अदितिर्मादयन्तामिति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानु-वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणा आदित्या नेत्प्राणान्संस्थापयानीति त आदित्या अब्रुवन्सवितारं त्वयेदं सह सवनमुद्यछामेति तथेति तस्मात्सावित्री प्रतिपद्भवति वैश्वदेवस्य सावित्रग्रहः पुरस्तात्तस्य यजति दमूना देवः सविता वरेण्य इति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानुन्वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणः सविता नेत्प्राणं संस्थापयानीत्युभे वा एष एते सवने विपिबति यत्सविता प्रातःसवनं च तृतीयसवनं च तद्य-त्पिबवत्सावि त्र्?यै निविदः पदम्पुरस्ताद्भवति मद्वदुपरिष्टादुभयोरेवैनं तत्सव-नयोराभजति प्रातःसवने च तृतीयसवने च बह्व्यः प्रातर्वायव्याः शस्यन्त एका तृतीयसवने तस्मादूर्ध्वाः पुरुषस्य भूयांसः प्राणा यच्चावाञ्चो द्यावापृथिवीयं शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीयं
शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति॥3.29॥

आर्भवं शंसत्यृभवो वै देवेषु तपसा सोमपीथमभ्यजयंस्तेभ्यः प्रातःसवने-ऽवाचिकल्पयिषंस्तानग्निर्वसुभिः प्रातःसवनादनुदत तेभ्यो माध्यंदिने सवने-ऽवाचिकल्पयिषंस्तानिन्द्रो रुद्रै र्माध्यंदिनात्सवनादनुदत तेभ्यस्तृतीयसवने-ऽवाचिकल्पयिषंस्तान्विश्वे देवा अनोनुद्यन्त नेह पास्यन्ति नेहेति स प्रजा-पतिरब्रवीत्सवितारं तव वा इमेऽन्तेवासास्त्वमेवैभिः सम्पिबस्वेति स तथेत्य-ब्रवीत्सविता तान्वै त्वमुभयतः परिपिबेति तान्प्रजापतिरुभयतः पर्यपिबत्ते एते धाय्ये अनिरुक्ते प्राजापत्ये शस्येते अभित आर्भवं सुरुपकृत्नुमूतयेऽयं वेन-श्चोदयत्पृश्निगर्भा इति प्रजापतिरेवैनांस्तदुभयतः परिपिबति तस्मादु श्रेष्ठी पात्रे रोचयत्येव यं कामयते तं तेभ्यो वै देवा अपैवाबीभत्सन्त मनुष्यगन्धात्त एते धाय्ये अन्तरदधत येभ्यो मातैवा पित्र इति॥3.30॥

वैश्वदेवं शंसति यथा वै प्राज एवं वैश्वदेवं तद्यथान्तरं जनता एवं सूक्तानि यथारण्यान्येवं धाय्यास्तदुभयतो धाय्याम्पर्याह्वयते तस्मात्तान्यरण्यानि सन्त्य-नरण्यानि मृगैश्च वयोभिश्चेति ह स्माह यथा वै पुरुष एवं वैश्वदेवं तस्य यथावन्तरमङ्गान्येवं सूक्तानि यथा पर्वाण्येवं धाय्यास्तदुभयतो धाय्या-म्पर्याह्वयते तस्मात्पुरुषस्य पर्वाणि शिथिराणि सन्ति दृळ्हानि ब्रह्मणा हि तानि धृतानि मूलं वा एतद्यज्ञस्य यद्धाय्याश्च याज्याश्च तद्यदन्यान्या धाय्याश्च याज्याश्च कुर्युरुन्मूलमेव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः पाञ्चजन्यं वा एतदुक्थं यद्वैश्वदेवं सर्वेषां वा एतत्पञ्चजनानामुक्थम्देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां चैतेषां वा एतत्पञ्चजञानामुक्थं सर्व एनम्पञ्चजना विदुरैनम्पञ्चिन्यै जनतायै हविनो गछन्ति य एवं वेद सर्वदेवत्यो वा एष होता यो वैश्वदेवं शंसति सर्वा दिशो ध्यायेच्छंसिष्यन्सर्वास्वेव तद्दिक्षु रसं दधाति यस्यामस्य दिशि द्वेष्यः स्यान्न तां ध्यायेदनुहायैवास्य तद्वीर्यमाद-त्तेऽदितिर्द्यौरदितिरन्तरिक्षमित्युत्तमया परिदधातीयं वा अदितिरियं द्यौरियं अन्तरिक्षमदितिर्माता स पिता स पुत्र इतीयं वै मातेयम्पितेयम्पुत्रो विश्वे देवा अदितिः पञ्च जना इत्यस्यां वै विश्वे देवा अस्याम्पञ्चजना अदितिर्जात-मदितिर्जनित्वमितीयं वै जातमियं जनित्वं द्विः पच्छः परिदधाति चतुष्पादा वै पशवः पशूनामवरुद्ध्यै सकृदर्धर्चशः प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति सदैव पञ्चजनीयया परिदध्यात्तदुपस्पृसन्भूमिम्परिदध्यत्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयति विश्वे देवाः शृणुतेमं हवम्म इति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.31॥

आग्नेयी प्रथमा घृतयाज्या सौमी सौम्ययाज्या वैष्णवी घृतयाज्या त्वं सोम पितृभिः संविदान इति सौम्यस्य पितृमत्या यजति। घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यः पितृभ्यो वा अनुस्तरणी तस्मात्सौम्यस्य पितृमत्या यजति। अवधिषुर्वा एतत्सोमं यदभ्यसुषवुस्तदेनं पुनः संभावयन्ति। पुनराप्याययन्त्युपसदां रूपेणोपसदां किल वै तद्रूपं यदेता देवता अग्निः सोमो विष्णुरिति। प्रतिगृह्य सौम्यं होता पूर्वश्छन्दोगेभ्योऽवेक्षेत। तं हैके पूर्वं छन्दोगेभ्यो हरन्ति तत्तथा न कुर्याद् वषट्कर्ता प्रथमः सर्वभक्षान्भक्षयतीति ह स्माऽऽह तेनैव रूपेण तस्माद् वषट्कर्तैव पूर्वोऽवेक्षेताथैनं छन्दोगेभ्यो हरन्ति॥3.32॥ (13.8) (103)

प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये तामृश्यो भूत्वा रोहितं भूतामभ्यैत्तं देवा अपश्यन्नकृतं वै प्रजापतिः करोतिति ते तमैच्छन्य एनमारिष्यत्येतमन्योन्यस्मिन्नाविन्दंस्तेषां या एव घोरतमास्तन्व आसंस्ता एकधा समभरंस्ताः संभूता एष देवोऽभवत्तदस्यैतद्भूतवन्नाम। भवति वै स योऽस्यैतदेवं नाम वेद। तं देवा अब्रुवन्नयं वै प्रजापतिरकृतमकरिमं विध्येति स तथेत्यब्रवीत्स वै वो वरं वृणा इति वृणीष्वेति स एतमेव वरमवृणीत पशूनामाधिपत्यं तदस्यैतत्पशुमन्नाम। पशुमान्भवति योऽस्यैतदेवं नाम वेद। तमभ्यायत्याविध्यत्स विद्ध ऊर्ध्व उदप्रपतत्तमेतं मृग इत्याचक्षते य उ एव मृगव्याधः स उ एव स या रोहित्सा रोहिणी यो एवेषुस्त्रिकाण्डा सो एवेषुस्त्रिकाण्डा। तद्वा इदं प्रजापते रेतः सिक्तमधावत्तत्सरोऽभवत्ते देवा अब्रुवन्मेदं प्रजापते रेतो दुषदिति यदब्रुवन्मेदं प्रजापते रेतोदुषदिति तन्मादुषमभवत्तन्मादुषस्य मादुषत्वं मादुषं ह वै नामैतद्यन्मानुषं सन्मानुषमित्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः॥3.33॥ (13.9) (104)

तदग्निना पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्न प्राच्यावयत्तदग्निना वैश्वानरेण पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्वैश्वानरः प्राच्यावयत्तस्य यद्रे तसः प्रथम-मुददीप्यत तदसावादित्योऽभवद्यद्द्वितीयमासीत्तद्भृगुरभवत्तं वरुणो न्यगृह्णीत तस्मात्स भृगुर्वारुणिरथ यत्तृतीयमदीदेदिव त आदित्या अभवन्येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्यदङ्गाराः पुनरवशान्ता उददीप्यन्त तद्बृहस्पतिरभव-द्यानि परिक्षाणान्यासंस्ते कृष्णा पसवोऽभवन्या लोहिनी मृत्तिका ते रोहिता अथ यद्भस्मासीत्तत्परुष्यं व्यसर्पद्गौरो गवय ऋश्य उष्ट्रो गर्दभ इति ये चैतेऽरुणाः पशवस्ते च तान्वा एष देवोऽभ्यवदत मम वा इदम्मम वै वास्तुहमिति तमेतयर्चा निरवादयन्त यैषा रौद्र ?ी शस्यत आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः त्वं नो वीरो अर्वति क्षमेथा इति ब्रूयान्नाभि न इत्यनभिमानुको हैष देवः प्रजा भवति प्र जायेमहि रुद्रि य प्रजाभिरिति ब्रूयान्न रुद्रे त्येतस्यैव नाम्नः परिहृत्यै तदु खलु शं नः करतीत्येव शंसेच् छमिति प्रतिपद्यते सर्वस्मा एव शान्त्यै नृभ्यो नारिभ्यो गव इति पुमांसो वै नरः स्त्रियो नार्यः सर्वस्मा एव शान्त्यै सोऽनिरुक्ता रौद्र ?ी शान्ता सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद। सो गायत्री ब्रह्म वै गायत्री ब्रह्मणैवैनं तं नमस्यति॥3.34॥

वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते वैश्वानरो वा एतद्रेतः सिक्तं प्राच्यावयत्तस्माद्वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते। अनवानं प्रथम ऋक्शंस्तव्याऽग्नीन्वा एषोऽर्चींष्यशान्तान्प्रसीदन्नेति य आग्निमारुतं शंसति प्राणेनैव तदग्नींस्तरति। अधीयन्नुपहन्यादन्यं विवक्तारमिच्छेत्तमेव तत्सेतुं कृत्वा तरति। तस्मादाग्निमारुते न व्युच्यमेष्टव्यो विवक्ता। मारुतं शंसति मरुतो ह वा एतद्रेतः सिक्तं धून्वन्तः प्राच्यावयंस्तस्मान्मारुतं शंसति। यज्ञा यज्ञा वो अग्नये देवो वो द्रविणोदा इति मध्ये योनिं चानुरूपं च शंसति तद्यन्मध्ये योनिं चानुरूपं च शंसति तस्मान्मध्ये योनिर्धृता। यदु द्वे सूक्ते शस्त्वा शंसति प्रतिष्ठयोरेव तदुपरिष्टात्प्रजननं दधाति प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद॥3.35॥ (13.11) (106)

जातवेदस्यं शंसति प्रजापतिः प्रजा आसृजत ताः सृष्टाः पराच्य एवायन्न व्यावर्तन्त त अग्निना पर्यगछत्ता अग्निमुपावर्तन्त तमेवाद्याप्युपावृत्ताः सोऽब्रवीज्जाता वै प्रजा अनेनाविदमिति यदब्रवीज्जाता वै प्रजा अनेनाविदमिति तज्जातवेदस्यमभवत्तज्जातवेदसो जातवेदस्त्वं ता अग्निना परिगता निरुद्धाः शोचन्त्यः दीध्यत्योऽतिष्ठंस्ता अद्भिरभ्यषिञ्चत्तस्मादुपरिष्टाज्जातवेदस्यस्यापो-हिष्ठीयम्शंसति तस्मात्तच्छमयतेव शंस्तव्यं ता अद्भिरभिषिच्य निजा-स्यैवामन्यत तासु वा अहिना बुध्न्येन परोक्षात्तेजोऽदधादेष ह वा अहिर्बुध्न्यो यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन परोक्षात्तेजो दधाति तस्मादाहुर्जुह्वदेवाजुह्वतो वसीयानिति॥3.36॥

देवानाम्पत्नीः शंसत्यनूचीरग्निं गृहपतिं तस्मादनूची पत्नी गार्हपत्यमास्ते तदाहू राकाम्पूर्वां शंसेज्जाम्यै वै पूर्वपेयमिति तत्तन्नादृत्यं देवानामेव पत्नीः पूर्वाः शंसेदेष ह वा एतत्पत्नीषु रेतो दधाति यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन पत्नीषु प्रत्यक्षाद्रे तो दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद तस्मात्समानोदर्या स्वसान्योदार्ययै जायाया अनुजीविनी जीवति राकां शंसति राका ह वा एताम्पुरुषस्य सेवनीं सीव्यति यैषा शिश्नेऽधि पुमांसोऽस्य पुत्रा जायन्ते य एवं वेद पावीरवीं शंसति वाग्वै सरस्वती पावीरवी वाच्येव तद्वाचम्दधाति तदाहुर्यामीम्पूर्वां शंसेत् पि त्र्?यामिति यामीमेव पूर्वां शंसेदिमं यम प्रस्तरमा हि सीदेति राज्ञो वै पूर्वपेयं तस्माद्यामीमेव पूर्वां शंसेन्मातली कव्यैर्यमो अङ्गिरोभिरिति काव्यानामनूचीं शंसत्यवरेणैव वै देवान्काव्याः परेणैव पितॄंस्तस्मात्काव्यानामनूचीं शंसत्युदीरतामवर उत्परास इति पि त्र्?याः शंसत्युन्मध्यमाः पितरः सोम्यास इति ये चैवावमा ये च परमा ये च मध्यमास्तान्सर्वाननन्तरायम्पॄणात्याहम्पितॄन्सुविदत्राँ अवित्सीति द्वितीयां शंसति बर्हिषदो ये स्वधया सुतस्येत्येतद्ध वा एषाम्प्रियं धाम यद्बर्हिषद इति प्रियेणैवैनांस्तद्धाम्ना समर्धयति प्रियेण धाम्ना समृध्यते य एवं वेदेदम्पितृभ्यो नमो अस्त्वद्येति नमस्कारवतीमन्ततः शंसति तस्मादन्ततः पितृभ्यो नमस्क्रियते तदाहुर्व्याहावम्पि त्र्?याः शंसेदव्याहावामिति व्याहावमेव शंसेदसंस्थितं वै पितृयज्ञस्य साध्वसंस्थितं वा एष पितृयज्ञं संस्थापयति योऽव्याहावं शंसति तस्माद्व्याहावमेव शंस्तव्यम्॥3.37॥

स्वादुष्किलायम्मधुमाँ उतायमितीन्द्र स्यैन्द्र ?ीरनुपानीयाः शंसत्येताभिर्वा इन्द्र -स्तृतीयसवनमन्वपिबत्तदनुपानीयानामनुपानीयात्वम्माद्यन्तीव वै तर्हि देवता यदेता होता शंसति तस्मादेतासु मद्वत्प्रतिगीर्यं ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणीमृचं शंसति विष्णुर्वै यज्ञस्य दुरिष्टम्पाति वरुणः स्विष्टं तयो-रुभयोरेव शान्त्यै विष्णोर्नु कं वीर्याणि प्र वोचमिति वैष्णवीं शन्सति यथा वै मत्यमेवं यज्ञस्य विष्णुस्तद्यथा दुष्कृष्टं दुर्मतीकृतं सुकृष्टं सुमतीकृतं कुर्वन्नियादेवमेवैतद्यज्ञस्य दुष्टुतं दुःशस्तं सुष्टुतं सुशस्तं कुर्वन्नेति यदेतां होता शंसति तन्तुं तन्वन्रजसो भानुमन्विहीति प्राजापत्यां शंसति प्रजा वै तौतुः प्रजामेवास्म एतत्संतनोति ज्योतिष्मतः पथो रक्ष धिया कृतानिति देवयाना वै ज्योतिष्मन्तः पन्थानस्तानेवास्मा एतद्वितनोत्यनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनमित्येवैनं तन्मनोः प्रजया संतनोति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवम्वेदैवा न इन्द्रो मघवा विरप्शीत्युत्तमया परिदधातीयं वा इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वेतीयं वै सत्या चर्षणीधृदनर्वा त्वं राजा जनुषां धेह्यस्मे इतीयं वै राजा जनुषामधि श्रवो माहिनं यज्जरित्र इतीयं वै माहिनं यज्ञः श्रवो यजमानो जरिता यजमानायैवैतामाशिषमाशास्ते तदुपस्पृशन्भूमिम्परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयत्यग्ने मरुद्भिः शुभयद्भिरृक्वभिरित्याग्निमारुतमुक्थं शस्त्वाग्निमारुत्या यजति यथाभागं तद्देवताः प्रीणाति प्रीणाति॥3.38॥

देवा वा असुरैर्युद्धमुपप्रायन्विजयाय तानग्निर्नान्वकामयतैतुं तं देवा अब्रुवन्न् अपि त्वमेह्यस्माकं वै त्वमेकोऽसीति स नास्तुतोऽन्वेष्यामीत्यब्रवीत्स्तुत नु मेति तं ते समुत्क्रम्योपनिवृत्यास्तुवंस्तान्स्तुतोऽनुप्रैत्स त्रिःश्रेणिर्भूत्वा त्र्?यनीकोऽसुरान्युद्धमुपप्रायद्विजयाय त्रिःश्रेणिरिति छन्दांस्येव श्रेणीरकुरुत त्र्?यनीक इति सवनान्येवानीकानि तानसम्भाव्यम्पराभावयत्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद सा वा एषा गाय त्र्?येव यदग्निष्टोमश्चतुर्विंशत्यक्षरा वै गायत्री चतु-र्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तद्वै यदिदमाहुः सुधायां ह वै वाजि सुहितो दधातीति गायत्री वै तन्न ह वै गायत्री क्षमा रमत ऊर्ध्वा ह वा एषा यजमानमादाय स्वारेतित्यग्निष्टोमो वै तन्न ह वा अग्निष्टोमः क्षमा रमत ऊर्ध्वो ह वा एष यजमानमादाय स्वरेति स वा एष संवत्सर एव यदग्निष्टोमश्चतुर्विंशत्यर्धमासो वै संवत्सरश्चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तं यथा समुद्रं श्रोत्या एवं सर्वे यज्ञक्रतवो पियन्ति॥3.39॥

दीक्षणीयेष्टिस्तायते तामेवानु याः काश्चेष्टयस्ताः सर्वा अग्निष्टोममपि-यन्तीळामुपह्वयत इळाविधा वै पाकयज्ञा इळामेवानु ये केच पाकयज्ञास्ते सर्वेऽग्निष्टोममपियन्ति सायम्प्रातरग्निहोत्रं जुह्वति सायम्प्रातर्व्रतम्प्रयछन्ति स्वाहाकारेणाग्निहोत्रं जुह्वति स्वाहाकारेण व्रतम्प्रयछन्ति स्वाहाकारमे-वान्वग्निहोत्रमग्निष्टोममप्येति पञ्चदश प्रायणीये सामिधेनीरन्वाह पञ्चदश दर्शपूर्णमासयोः प्रायणीयमेवानु दर्शपूर्णमासावग्निष्टोममपीतः सोमं राजानं क्रीणन्त्यौषधो वै सोमो राजाउषधिभिस्तम्भिषज्यन्ति यम्भिषज्यन्ति सोममेव राजानं क्रीयमाणमनु यानि कानिच भेषजानि तानि सर्वाण्यग्निष्टोमम-पियन्त्यग्निमातिथ्ये मन्थन्त्यग्निं चातुर्मास्येष्वातिथ्यमेवानु चातुर्मास्यान्यग्नि-ष्टोममपियन्ति पयसा प्रवर्ग्ये चरन्ति पयसा दाक्षायणयज्ञे प्रवर्ग्यमेवानु दाक्षायणयज्ञोऽग्निष्टोममप्येति पशुरुपवसथे भवति तमेवानु ये केच पशु-बन्धास्ते सर्वेऽग्निष्टोममपियन्तीळादधो नाम यज्ञक्रतुस्तं दध्ना चरन्ति दध्ना दधिघर्मे दधिघर्ममेवान्विळादधो ग्निष्टोममप्येति॥3.40॥

”इति नु पुरस्तादथोपरिष्टात्पञ्चदशोक्थ्यस्य स्तोत्राणि पञ्चदश शस्त्राणि स मासो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सर-मेवानूक्थ्योऽग्निष्टोममप्येत्युक्थ्यमपियन्तमनु वाजपेयोऽप्येत्युक्थ्यो हि स भवति द्वादश रात्रेः पर्यायाः सर्वे पञ्चदशास्ते द्वौ-द्वौ सम्पद्य त्रिंशदेकविंशं षोळशि साम त्रिवृत्संधिः सा त्रिंशत्स मासस्त्रिंशन्मासस्य रात्रयो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सरमेवान्वतिरा-त्रोऽग्निष्टोममप्येत्यतिरात्रमपियन्तमन्वप्तोर्यामोऽप्येत्यतिरात्रो हि स भवत्येतद्वै ये च पुरस्ताद्ये चोपरिष्टाद्यज्ञक्रतवस्ते सर्वेऽग्निष्टोममपियन्ति तस्य संस्तुतस्य नवतिशतं स्तोत्रियाः सा या नवतिस्ते दश त्रिवृतोऽथ या नवतिस्ते दशाथ या दश तासामेका स्तोत्रियोदेति त्रिवृत्परिशिष्यते सोऽसावेकविंसोऽध्या-हितस्तपति विषुवान्वा एष स्तोमानां दश वा एतस्मादर्वाञ्चास्त्रिवृतो दश पराञ्चो मध्य एष एकविंश उभयतोऽध्याहितस्तपति तद्यासौ स्तोत्रियोदेति सैतस्मिन्नध्यूळ्हा स यजमनस्तद्दैवं क्षत्रं सहो बलमश्नुते ह वै दैवं क्षत्रं सहो बलमेतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद॥3.41॥

देवा वा असुरैर्विजिग्याना ऊर्ध्वाः स्वर्गं लोकमायन्सोऽग्निर्दिविस्पृगूर्ध्व उदश्रयत स स्वर्गस्य लोकस्य द्वारमवृणोदग्निर्वै स्वर्गस्य लोकस्याधिपतिस्तं वसवः प्रथमा आगछंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते त्रिवृता स्तोमेना-स्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगछंस्तं रुद्र ?ा आगछंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते पञ्चदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगछंस्तमादित्या आगछंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते सप्तदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगछंस्तं विश्वे देवा आगछंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं त एकविंशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगछन्नेकैकेन वै तं देवाः स्तोमेनास्तुन्वंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगछन्नथ हैनमेष एतैः सर्वैः स्तोमैः स्तौति यो यजते यश्चैनमेवं वेदातित्तु तमर्जाता अति ह वा एनमर्जते स्वर्गं लोकमभि य एवं वेद॥3.42॥

स वा एषोऽग्निरेव यदग्निष्टोमस्तं यदस्तुवंस्तस्मादग्निस्तोमस्तमग्निस्तोमं सन्तमग्निष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। तं यच्चचतुष्टया देवाश्चतुर्भिः स्तोमैरस्तुवंस्तस्माच्चतुस्तोमस्तं चतुस्तोमं सन्तं चतुष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। अथ यदेनमूर्ध्वं सन्तं ज्योतिर्भूतमस्तुवंस्तस्माज्ज्योतिस्तोमस्तं ज्योतिस्तोमं सन्तं ज्योतिष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। स वा एषोऽपूर्वोऽनपरो यज्ञक्रतुर्यथा रथचक्रमनन्तमेवं यदग्निष्टोमस्तस्य यथैव प्रायणं तथोदयनम्। तदेषाऽभि यज्ञगाथा गीयते यदस्य पूर्वमपरं तदस्य यद्वस्यापरं तद्वस्य पूर्वम्। अहेरिव सर्पणं शाकलस्य न विजानन्ति यतरत्परस्तादिति। यथा ह्येवास्य प्रायणमेवमुदयनमसदिति। तदाहुर्यत्त्रिवृत्प्रायणमेकविंशमुदयनं केन ते समे इति। यो वा एकविंशस्त्रिवृद्वै सोऽथो यदुभौ तृचौ तृचिनाविति ब्रूयात्तेनेति॥3.43॥ (14.5) (114)

यो वा एष तपत्येषोऽग्निष्टोम एष साह्नस्तं सहैवाह्ना संस्थापयेयुः साह्नो वै नाम। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। यद्ध वा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टा अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति तस्माद्धेतं प्रत्यञ्चि दीर्घारण्यानि भवन्ति तथा ह यजमानः प्रमायुको भवति। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। स एतमेव शस्त्रेणानु पर्यावर्तेत यदा वा एष प्रातरुदेत्यथ मन्द्रं तपति तस्मान्मन्द्रया वाचा प्रातःसवने शंसेदथ यदाऽभ्येत्यथ बलीयस्तपति तस्माद्बलीयस्या वाचा मध्यंदिने शंसेदथ यदाऽभितरामेत्यथ बलिष्ठतमं तपति तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसेदेवं शंसेद्यदि वाच ईशीत वाग्घि शस्त्रं यया तु वाचोत्तरोत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येतैतत्सुशस्ततममिव भवति। स वा एष न कदाचनास्तमेति नोदेति। तं यदस्तमेतीति मन्यन्तेऽह्न एव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यते रात्रीमेवावस्तात्कुरुतेऽहः परस्तात्। अथ यदेनं प्रातरुदेतीति मन्यन्ते रात्रेरेव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यतेऽहरेवावस्तात्कुरुतेरात्रिं परस्तात्। स वा एष न कदाचन निम्रोचति। न ह वै कदाचन निम्रोचत्येतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद य एवं वेद॥3.44॥ (14.6) (115)

यज्ञो वै देवेभ्योऽन्नाद्यमुदक्रामत्ते देवा अब्रुवन्यज्ञो वै नोऽन्नाद्यमुदक्रमीदन्विमं यज्ञमन्न अन्विछामेति तेऽब्रुवन्कथमन्विछामेति ब्राह्मणेन च छन्दोभि-श्चेत्यब्रुवंस्ते ब्राह्मणं छन्दोभिरदीक्षयंस्तस्यान्तं यज्ञमतन्वतापि पत्नीः समयाज-यंस्तस्माद्धाप्येतर्हि दीक्षणीयाआमिष्टावान्तमेव यज्ञं तन्वतेऽपि पत्नीः संया-जयन्ति तमनु न्यायमन्ववायंस्ते प्रायणीयमतन्वत तम्प्रायणीयेन नेदीयोऽन्वा-गछंस्ते कर्मभिः समत्वरन्त तच्छंय्वन्तमकुर्वंस्तस्माद्धाप्येतर्हि प्रायणीयं शंय्वन्तमेव भवति तमनु न्यायमन्ववायंस्त आतिथ्यमतन्वत तमातिथ्येन नेदीयोऽन्वागछंस्ते कर्मभिः समत्वरन्त तदिळान्तमकुर्वंस्तस्माद्धाप्येतर्ह्या-तिथ्यमिळान्तमेव भवति तमनु न्यायमन्ववायंस्त उपसदोऽतन्वत तमुपस-द्भिर्नेदीयोऽन्वागछंस्ते कर्मभिः समत्वरन्त ते तिस्रः सामिधेनीरनूच्य तिस्रो देवता अयजंस्तस्माद्धाप्येतर्ह्युपसत्सु तिस्र एव सामिधेनीरनूच्य तिस्रो देवता यजन्ति तमनु न्यायमन्ववायंस्त उपवसथमतन्वत तमुपवसथ्येऽहन्याप्नुवंस्त-माप्त्वान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्ह्युपवसथ आन्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति तस्मादेतेषु पूर्वेषु कर्मसु शनैस्तरां-शनैस्तरामिवानुब्रूयादनूत्सरमिव हि ते तमायांस्तस्मादुपवसथे यावत्या वाचा कामयीत तावत्यानुब्रूयादाप्तो हि स तर्हि भवतीती तमाप्त्वाब्रुवंस्तिष्ठस्व नोऽन्नाद्यायेति स नेत्यब्रवीत्कथं वस्तिष्ठेयेति तानीक्षतैव तमब्रुवन्ब्राह्मणेन च नश्छन्दोभिश्च सयुग्भूत्वान्नाद्याय तिष्ठस्वेति तथेति तस्माद्धाप्येतर्हि यज्ञः सयुग्भूत्वा देवेभ्यो हव्यं वहति ब्राह्मणेन च च्छन्दोभिश्च॥3.45॥

त्रीणि ह वै यज्ञे क्रियन्ते जग्धं गीर्णं वान्तं तद्धैतदेव जग्धं यदाशंसम्ंनमार्त्विज्यं कारयत उत वा मे दद्यादुत वा मा वृणीतेति तद्ध तत्पराङेव यथा जग्धं न हैव तद्यजमानम्भुनक्त्यथ हैतदेव गीर्णं यद्बिभ्यदार्त्विज्यं कारयत उत वा मा न बाधेतोत वा मे न यज्ञवेशशां कुर्यादिति तद्ध तत्पराङेव यथा गीर्णं न हैव तद्यजमानम्भुनक्त्यथ हैतदेव वान्तं यदभिशस्यमानमार्त्विज्यं कारयते यथा ह वा इदं वान्तान्मनुष्या बीभत्सन्त एवम्तस्माद्देवास्तद्ध तत्पराङेव यथा वान्तं न हैव तद्यजमानम्भुनक्ति स एतेषां त्रयाणामाशाम्नेयात्तं यद्येतेषां त्रयाणा-मेकंचिदकाममभ्याभवेत्तस्यास्ति वामदेव्यस्य स्तोत्रे प्रायश्चित्तिरिदं वा इदं वामदेव्यं यजमानलोकोऽमृतलोकः स्वर्गो लोकस्तत्त्रिभिरक्षरैर्न्यूनं तस्य स्तोत्र उपसृप्य त्रेधात्मानं विगृह्णीयात् पुरुष इति स एतेषु लोकेष्वात्मानं दधात्यस्मिन्यजमानलोकेऽस्मिन्नमृतलोकेऽस्मिन्स्वर्गे लोके स सर्वां दुरिष्टिमत्येति। अपि यदि समृद्धा इव ऋत्विजः स्युरिति ह स्मा हाथ हैतज्जपेदेवेति॥3.46॥

छन्दांसि वै देवेभ्यो हव्यमूढ्वा श्रान्तानि जघनार्धे यज्ञस्य तिष्ठन्ति यथाश्वो वाश्वतरो वोहिवांस्तिष्ठेदेवं तेभ्य एतम्मैत्रावरुणम्पशुपुरोळाशमनु देविका-हवींषि निर्वपेद्धात्रे पुरोळाशं द्वादशकपालं यो धाता स वषट्कारोऽनुमत्यै चरुं यानुमतिः सा गायत्री राकायै चरुं या राका सा त्रिष्टुप् सिनीवाल्यै चरुं या सिनीवाली सा जगती कुह्वै चरुं या कुहूः सानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवाति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुर्धातारमेव सर्वासाम्पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यं समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां धातारम्पुरस्ताद्यजति तदासु सर्वासु मिथुनं दधाति। इति नु देविकानाम्॥3.47॥

अथ देवीनां सूर्याय पुरोळाशमेककपालं यः सूर्यः स धाता स उ एव वषट्कारो दिवे चरुं या द्यौः सानुमतिः सो एव गाय त्र्?युषसे चरुं योषाः सा राका सो एव त्रिष्टुब्गवे चरुं या गौः सा सिनीवाली सो एव जगती पृथिव्यै चरुं या पृथिवी सा कुहूः सो एवानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जाग-तमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुः सूर्यमेव सर्वासा-म्पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यां समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां सूर्यम्पुर-स्ताद्यजति तदासु सर्वासु मिथुनं दधाति ता या इमास्ता अमूर्या अमूस्ता इमा अन्यतराभिर्वाव तं काममाप्नोति य एतासूभयीषु ता उभयीर्गतश्रियः प्रजा-तिकामस्य संनिर्वपेन्न त्वेषिष्यमाणस्य यदेना एषिष्यमाणस्य संनिर्वपेदीश्वरो हास्य वित्ते देवा अरन्तोर्यद्वा अयमात्मनेऽलममंस्तेति ता ह शुचिवृक्षो गौपलायनो वृद्धद्युम्नस्याभिप्रतारिणस्योभयीर्यज्ञे संनिरुवाप तस्य ह रथगृत्सं गाहमानं दृष्ट्वोवाचेत्थमहमस्य राजन्यस्य देविकाश्च देवीश्चोभयीर्यज्ञे सममादयं यदस्येत्थं रथगृत्सो गाहत इति चतुःषष्टिः कवचिनः शश्वद्धास्य ते पुत्रनप्तार आसुः॥3.48॥

अग्निष्टोमं वै देवा अश्रयन्तोक्थान्यसुरास्ते समावद्वीर्या एवाऽऽसन्न व्यवर्तन्त तान्भरद्वाज ऋषीणामपश्यदिमे वा असुरा उक्थेषु श्रितास्तानेषां न कश्चन पश्यतीति सोऽग्निमुदह्वयत्। एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिर इति। असुर्या ह वा इतरा गिरः। सोऽग्निरुपोत्तिष्ठन्नब्रवीत्किंस्विदेव मह्यं कृशो दीर्घः पलितो वक्ष्यतीति। भरद्वाजो ह वै कृशो दीर्घः पलित आस। सोऽब्रवीदिमे वा असुरा उक्थेषु श्रितास्तान्वो न कश्चन पश्यतीति। तानग्निरश्वो भूत्वाऽभ्यत्यद्रवद्यदग्निरश्वो भूत्वाऽभ्यत्यद्रवत्तत्साकमश्वं सामाभवत्तत्साकमश्वस्य साकमश्वत्वम्। तदाहुः साकमश्वेनोक्थानि प्रणयेदप्रणीतानि वाव तान्युक्थानि यान्यन्यत्र साकमश्वादिति। प्रमंहिष्ठीयेन प्रणयेदित्याहुः प्रमंहिष्ठीयेन वै देवा असुरानुक्थेभ्यः प्राणुदन्त। तत्प्राहैव प्रमंहिष्ठीयेन नयेत्प्र साकमश्वेन॥3.49॥ (15.5) (120)

ते वा असुरा मैत्रावरुणस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानि-तोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्वरुणस्तस्मादैन्द्रावरुणम्मैत्रावरुणस्तृती-यसवने शंसतीन्द्र श्च हि तान्वरुणश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा ब्राह्म-नाच्छंसिन उक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्बृहस्पतिस्तस्मादैन्द्राबार्हस्पत्यम्ब्राह्मणाच्छंसी तृतीयसवने शंसतीन्द्र श्च हि तान्बृहस्पतिश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा अछा-वाकस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्विष्णुस्तस्मादैन्द्रावैष्णवमच्छावाकस्तृतीयसवने शंसतीन्द्र श्च हि ता-न्विष्णुश्च ततोऽनुदेतां द्वन्द्वमिन्द्रे ण देवताः शस्यन्ते द्वन्द्वं वै मिथुनं त-स्माद्द्वन्द्वान्मिथुनम्प्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदाथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार ऋतुयाजाः षळृचः सा विराड्दशिनी तद्विराजि यज्ञं दशिन्यां प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति॥3.50॥

देवा वै प्रथमेनाह्नेन्द्राय वज्रं समभरंस्तं द्वितीयेनाह्नासिञ्चंस्तं तृतीयेनाह्ना प्रायछंस्तं चतुर्थेऽहन्प्राहरत्तस्माच्चथुर्थेऽहन्षोळशिनं शंसति वज्रो वा एष यत्षोळाशी तद्यच्चतुर्थेऽहन्षोळशिनं शंसति वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै वज्रो वै षोळशी पशव उक्थानि तम्परस्तादुक्थानाम्पर्यस्य शंसति तं यत्परस्तादुक्थानाम्पर्यस्य शंसति वज्रेणैव तत्षोळशिना पशून्परिगछति तस्मात्पशवो वज्रेणैव षोळशिना परिगता मनुष्यानभ्युपावर्तन्ते तस्मादश्वो वा पुरुषो वा गौर्वा हस्ती वा परिगत एव स्वयमात्मनेत एव वाचाभिषिद्ध उपावर्तते वज्रमेव षोळशिनम्पश्यन्वज्रेणैव षोळशिना परिगतो वाग्घि वज्रो वाक्षोळशी तदाहुः किं षोळशिनः षोळशित्वमिति षोळशः स्तोत्राणां षोळशः शस्त्राणां षोळशभिरक्षरैरादत्ते षोळशिभिः प्रणौति षोळशपदां निविदं दधाति तत्षोळशिनः षोळशित्वं द्वे वा अक्षरे अतिरिच्येते षोळशिनोऽनुष्टुभमभिसम्पन्नस्य वाचो वाव तौ स्तनौ सत्यानृते वाव ते। अवत्येनं सत्यं नैनमनृतं हिनस्ति य एवं वेद॥4.1॥

गौरिवीतं षोळशि साम कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं गौरिवीतं तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्गौरिवीतं षोळशि सम कुरुते नानदं षोळशि साम कर्तव्यमित्याहुरिन्द्रो वै वृत्राय वज्रमुदयछत्तमस्मै प्राहरत्तमभ्यहनत्सोऽभिहतो व्यनदद्यद्व्यनदत्तन्नानदं सामाभवत्तन्नानदस्य नानदत्वमभ्रातृव्यं वा एतद्भ्रातृव्यहा साम यन्नानदमभ्रातृव्यो भ्रातृव्यहा भवति य एवं विद्वान्नानदं षोळशि साम कुरुते तद्यदि नानदं कुर्युरविहृतः षोळशी शंस्तव्यो ऽविहृतासु हि तासु स्तुवते यदि गौरिवीतं विहृतः षोळशी शंस्तव्यो विहृतासु हि तासु स्तुवते॥4.2॥

अथातश्छन्दांस्येव व्यतिषजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति गायत्रीश्च पङ्क्तीश्च व्यतिषजति गायत्रो वै पुरुषः पाङ्क्ताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वाज्ररूपान्नैति यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यतिषजत्यौष्णिहो वै पुरुषो बार्हताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदुष्णिक्च बृहती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैत्या धूर्षु अस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टुभं च व्यतिषजति द्विपाद्वै पुरुषो वीर्यं त्रिष्टुप्पुरुषमेव तद्वीर्येण व्यतिषजति वीर्ये प्रतिष्ठापयति तस्मात्पुरुषो वीर्ये प्रतिष्ठितः सर्वे-षाम्पशुनां वीर्यवत्तमो यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपन्नैत्येष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यतिषजति द्विपाद्वै पुरुषो जागताः पशवः पुरुषमेव तत्प-शुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति तस्मात्पुरुषः पशुषु प्रतिष्ठितोऽत्ति चै-नानधि च तिष्ठति वशे चास्य यदु द्विपदा च षोळशाक्षरा जगती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति त्रिकद्रुकेषु महिषो यवा-शिरम्प्रो ष्वस्मै पुरोरथमित्यतिछन्दसः शंसति छन्दसां वै यो रसोऽत्य-क्षरत्सोऽतिछन्दसमभ्यत्यक्षरत्तदतिछन्दसोऽतिछन्दस्त्वं सर्वेभ्यो वा एष छ-न्दोभ्यः संनिर्मितो यत्षोळशी तद्यदतिछन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद॥4.3॥

महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयासौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यः संनिर्मितो यत्षोलशी तद्यन्महानाम्नीनामुपसर्गानुपासृजति सर्वेभ्य एवैनं तल्लोकेभ्यः संनिर्मिमीते सर्वेभ्यो लोकेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद प्रप्र वस्त्रि-ष्टुभमिषमर्चत प्रार्चत यो व्यतीँ रफाणयदिति प्रज्ञाता अनुष्टुभः शंसति तद्यथेह चेह चापथेन चरित्वा पन्थानम्पर्यवेयात्तादृतद्यत्प्रज्ञाता अनुष्टुभः शंसति स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेन्नेच्छन्दसां कृछ्रादवपद्या इत्यथ यः पाप्मानमपजिघांसुः स्याद्विहृतं षोळसिनं शंसयेद्व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत्पाप्मानं शमलं हन्त्यप पाप्मानं हते य एवं वेदोद्यद्ब्रध्नस्य विष्टपमित्युत्तमया परिदधाति स्वर्गो वै लोको ब्रध्नस्य विष्टपम्स्वर्गमेव तल्लोकं यजमानं गमयत्यपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद्वै प्रातःसवनम्प्रातःसवनादेवैनं तत्संनिर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यंदिनं वै सवनं केवलम्माध्यंदिनादेवैनं तत्सवनात्संनिर्मिमीते ममद्धि सोमम्मधुमन्तमिन्द्रे ति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत्संनिर्मिमीते सत्रा वृषञ्जठर आ वृषस्वेति वृषण्वद्वै षोळशिनो रूपं सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्य एवैनं तत्सवनेभ्यः संनिर्मिमीते सर्वेभ्यः सवनेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत्षोळशी तद्यन्महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्ये-कादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद॥4.4॥

अहर्वै देवा अश्रयन्त रात्रीमसुरास्ते समावद्वीर्या एवासन्न व्यावर्तन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्रात्रीमन्ववेष्याव इति स देवेषु न प्रत्यविन्ददबिभयू रात्रेस्तमसो मृत्योस्तस्माद्धाप्येतर्हि नक्तं यावन्मत्रमि-वैवापक्रम्य बिभेति तम इव हि रात्रिर्मृत्युरिव तं वै छन्दांस्येवान्ववायंस्तं यच्छन्दांस्येवान्ववायंस्तस्मादिन्द्र श्चैव छन्दांसि च रात्रीं वहन्ति न निवि-च्छस्यते न पुरोरुङ्न धाय्या नान्या देवतेन्द्र श्च ह्येव छन्दांसि च रात्रीं वहन्ति तान्वै पर्यायैरेव पर्यायमनुदन्त यत्पर्यायैः पर्यायमनुदन्त तत्पर्यायाणाम्पर्यायत्वं तान्वै प्रथमेनैव पर्यायेणा पूर्वरात्रादनुदन्त मध्यमेन मध्यरात्रादुत्तमेनापर-रात्रादपि शर्वर्या अनुस्मसीत्यब्रुवन्नपिशर्वराणि खलु वा एतानि छन्दांसीति ह स्माहैतानि हीन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयंस्तदपिशर्वराणामपिशर्वरत्वम्॥4.5॥
पान्तमा वो अन्धस इत्यन्धस्वत्यानुष्टुभा रात्रीम्प्रतिपद्यल आनुष्टुभी वै रात्रिरेतद्र ?ात्रिरूपमन्धस्वत्यः पीतवत्यो मद्वत्यस्त्रिष्टुभो याज्या भवन्त्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्प्रथमेन पर्यायेण स्तुवते प्रथमान्येव पदानि पुनराददते यदेवैषामश्वा गाव आसंस्तदेवैषां तेनाददते मध्यमेन पर्यायेण स्तुवते मध्यमान्येव पदानि पुनराददते यदेवैषामनोरथा आसंस्तदेवैषां तेनाददत उत्तमेन पर्यायेण स्तुवत उत्तमान्येव पदानि पुनराददते यदेवैषां वासो हिरण्यम्मणिरध्यात्ममासीत्तदेवैषां तेनाददत आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद पवमानवदहरित्याहुर्न रात्रिः पवमानवती कथमुभे पवमानवती भवतः केन ते समावद्भाजौ भवत इति यदेवेन्द्राय मद्वने सुतमिदं वसो सुतमन्ध इदं ह्यन्वोजसा सुतमिति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती तेनोभे पवमानवती भवतस्तेन ते समावद्भाजौ भवतः पञ्चदशस्तोत्रमहरित्याहुर्न रात्रिः पञ्चदशस्तोत्रा कथमुभे पञ्चदशस्तोत्रे भवतः केन ते समावद्भाजौ भवत इति द्वादश स्तोत्राण्यपिशर्वराणि तिसृभिर्देवताभिः संधिना राथंतरेण स्तुवते तेन रात्रिः पञ्चदशस्तोत्रा तेनोभे पञ्चदशस्तोत्रे भवतस्तेन ते समावद्भाजौ भवतः परिमितं स्तुवन्त्यपरिमितमनुशंसति परिमितं वै भूतमपरिमितम्भव्यमपरिमितस्यावरुद्ध्या इत्यतिशंसति स्तोत्रमति वै प्रजात्मानमति पशवस्तद्यत्स्तोत्रमतिशंसति यदेवास्यात्यात्मानं तदेवास्यैतेनावरुन्धे वरुन्धे॥4.6॥

प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीं तस्यै सर्वे देवा वरा आगच्छंस्तस्या एतत्सहस्रं वहतुमन्वाकरोद्यदेतदाश्विनमित्याचक्षतेऽनाश्विनं हैव तद्यदर्वाक्सहस्रं तस्मात्तत्सहस्रं वैव शंसेद्भूयो वा। प्राश्य घृतं शंसेद्यथा ह वा इदमनो वा रथो वाऽक्तो वर्तत एवं हैवाक्तो वर्तते। शकुनिरिवोत्पतिष्यन्नाह्वयीत। तस्मिन्देवा न समजानत ममेदमस्तु ममेदमस्त्विति ते संजानाना अब्रुन्नाजिमस्याऽऽयामहै स यो न उज्जेष्यति तस्येदं भविष्यतीति ते ऽग्नेरेवाधि गृहपतेरादित्यं काष्ठामकुर्वत तस्मादाग्नेयी प्रतिपद्भवत्याश्विनस्याग्निहोता गृहपतिः स राजेति। तद्धैक आहुरग्निं मन्ये पितरमग्मिमापिमित्येतया प्रतिपद्येत। दिवि शुक्रं यजतं सूर्यस्येति प्रथमयैव ऋचा काष्ठामाप्नोतीति। तत्तन्नाऽऽदृत्यं य एनं तत्र ब्रूयादग्निमिति वै प्रत्यपाद्यग्निमापत्स्यतीति शश्वत्तथा स्यात्। तस्मादग्निर्होता गृहपतिः स राजेत्येतयैव प्रतिपद्येत गृहपतिवती प्रजातिमती शान्ता सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥4.7॥ (17.1) (128)

तासां वै देवतानामाजिं धावन्तीनामभिसृष्टानामग्निर्मुखं प्रथमः प्रत्यपद्यत तमश्विनावन्वागच्छतां तमब्रूतामपोदिह्यावां वा इदं जेष्याव इति स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादाग्नेयमाश्विने शस्यते। ता उषसमन्वागच्छतां तामब्रूतामपोदिह्यावां वा इदं जेष्याव इति सा तथेत्यब्रवीत्तस्यै वै ममेहाप्यस्त्विति तथेति तस्या अप्यत्राकुरुतां तस्मादुषस्यमाश्विने शस्यते। ताविन्द्रमन्वागच्छतां तमब्रूतामावां वा इदं मघवञ्जेष्याव इति न ह तं दधृषतुरपोदिहीति वक्तुं स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादैन्द्रमाश्विने शस्यते। तदश्विना उदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामश्विनावाश्नुवातां तस्मादेतदाश्विनमित्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद। तदाहुर्यच्छस्यत आग्नेयं शस्यत उषस्यं शस्यत ऐन्द्रमथ कस्मादेतदाश्विनमित्याचक्षत इत्यश्विनौ ह तदुदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामाश्विनावाश्नुवातां तस्मादेतदाश्विनमित्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद॥4.8॥ (17.2) (129)

अश्वतरीरथेनाग्निराजिमधावत्तासाम्प्राजमानो योनिमकूळयत्तस्मात्ता न विजा-यन्ते गोभिररुणैरुषा आजिमधावत्तस्मादुषस्यागतायामरुणमिवैव प्रभात्युषसो रूपमश्वरथेनेन्द्र आजिमधावत्तस्मात्स उच्चैर्घोष उपब्दिमान्क्षत्रस्य रूपमैन्द्रो हि स गर्दभरथेनाश्विना उदजयतामश्विनावाश्नुवातां यदश्विना उदजयता-मश्विनावाश्नुवातां तस्मात्स सृतजवो दुग्धदोहः सर्वेषामेतर्हि वाहना-नामनाशिष्ठो रेतसस्त्वस्य वीर्यं नाहरतां तस्मात्स द्विरेता वाजी तदाहुः सप्त सौर्याणि छन्दांसि शंसेद्यथैवाग्नेयं यथोषस्यं यथाश्विनं सप्त व देवलोकाः सर्वेषु देवलोकेषु राध्नोतीति तत्तन्नादृत्यं त्रीण्येव शंसेत्त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै तदाहुरुदु त्यं जातवेदसमिति सौर्याणि प्रति-पद्येतेति तत्तन्नादृत्यं यथैव गत्वा काष्ठामपराध्नुयात्तादृक्तत्सूर्यो नो दिव-स्पात्वित्येतेनैव प्रतिपद्येत यथैव गत्वा काष्ठामभिपद्येत तादृक्तदुदु त्यं जात-वेदसमिति द्वितीयं शंसति चित्रं देवानामुदगादनीकमिति त्रैष्टुभमसौ वाव चित्रं देवानामुदेति तस्मादेतच्छंसति नमो मित्रस्य वरुणस्य चक्षस इति जागतं तद्वाशीःपदमाशिषमेवैतेना शास्त आत्मने च यजमानाय च॥4.9॥

तदाहुः सूर्यो नातिशस्यो बृहती नातिसस्या यत्सूर्यमतिशंसेद्ब्रह्मवर्चस-मतिपद्येत यद्बृहतीमतिशंसेत्प्राणानतिपद्येतेतीन्द्र क्रतुं न आ भरेत्यैन्द्र म्प्रगाथं शंसति शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहीत्यसौ वाव ज्योतिस्तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसत्यभि त्वा शूर नोनुम इति राथंतरीं योनिं शंसति राथंतरेण वै संधिनाश्विनाय स्तुवते तद्यद्र ?ाथांतारीं योनिं शंसति रथंतरस्यैव सयोनित्वायेशानमस्य जगतः स्वर्दृशमित्यसौ वाव स्वर्दृक्तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसति बहवः सूरचक्षस इति मैत्रावरुणम्प्रगाथं शंसत्यहर्वै मित्रो रात्रिर्वरुण उभे वा एषोऽहोरात्रे आरभते योऽतिरात्रमुपैति तद्यन्मैत्रावरुणम्प्रगाथं शंसत्यहोरात्रयोरेवैनं तत्प्रतिष्ठापयति सूरचक्षस इति तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसति मही द्यौः पृथिवी च नस्ते हि द्यावापृथिवि विश्वशम्भुवेति द्यावापृथिवीये शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीये शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति देवो देवी धर्मणा सूर्यः शुचिरिति तेन सूर्यं नातिशंसति यदु गायत्री च जगती च ते द्वे बृहत्यौ तेन बृहतीं नातिशंसति विश्वस्य देवी मृचयस्य जन्मनो न या रोषाति न ग्रभदिति द्विपदाम्शंसति चितैधमुक्थमिति ह स्म वा एतदाचक्षते यदेतदाश्विनं निरृतिर्ह स्म पाशिन्युपास्ते यदैव होता परिधा-स्यत्यथ पाशान्प्रतिमोक्ष्यामीति ततो वा एताम्बृहस्पतिर्द्विपदामपश्यन्ना य रोषाति न ग्रभदिति तया निरृत्याः पाशिन्या अधराचः पाशानपास्यत्तद्यदेतं द्विपदां होता शंसति निरृत्या एव तत्पाशिन्या अधराचः पासानपास्यति स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद मृचयस्य जन्मन इत्यसौ वाव मर्चयतीव तेन सूर्यं नातिशंसति यदु द्विपदा पुरुषछन्दसं सा सर्वाणि च्छन्दांस्यभ्याप्ता तेन बृहतीं नाति शंसति॥4.10॥

ब्राह्मणस्पत्यया परिदधाति ब्रह्म वै बृहस्पतिर्ब्रह्मण्येवैनं तदन्ततः प्रतिष्ठा-पयत्येवा पित्रे विश्वदेवाय वृष्ण इत्येतया परिदध्यात्प्रजाकामः पशुकामो बृहस्पते सुप्रजा वीरवन्त इति प्रजया वै सुप्रजा वीरवान्वयं स्याम पतयो रयीणामिति प्रजावान्पशुमान्रयिमान्वीरवान्भवति यत्रैवं विद्वानेतया परिद-धाति बृहस्पते अति यदर्यो अर्हादित्येतया परिदध्यात्तेजस्कामो ब्रह्मवर्च-सकामोऽतीव वान्यान्ब्रह्मवर्चसमर्हति द्युमदिति द्युमदिव वै ब्रह्मवर्चसं विभातीति वीव वै ब्रह्मवर्चसम्भाति यद्दीदयच्छवस ऋतप्रजातेति दीदायेव वै ब्रह्मवर्चसं तदस्मासु द्र विणं धेहि चित्रमिति चित्रमिव वै ब्रह्म-वर्चसम्ब्रह्मवर्चसी ब्रह्मयशसी भवति यत्रैवं विद्वानेतया परिदधाति तस्मादेवं विद्वानेतयैव परिदध्याद्ब्राह्मणस्पत्या तेन सूर्यं नातिसंसति यदु त्रिष्टुभं त्रिः शंसति सा सर्वाणि छन्दांस्यभ्याप्ता तेन बृहतीं नातिशंसति गाय त्र्?या च त्रिष्टुभा च वषट्कुर्याद्ब्रह्म वै गायत्री वीर्यम्त्रिष्टुब्ब्रह्मणैव तद्वीर्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान्भवति यत्रैवं विद्वान्गाय त्र्?या च त्रिष्टुभा च वषट्करोत्यश्विना वायुना युवं सुदक्षो भा पिबतमश्विनेति गाय त्र्?या च विराजा च वषट्कुर्याद्ब्रह्म वै गाय त्र्?यन्नं विराद्ब्रह्मणैव तदन्नाद्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी भवति ब्रह्माद्यमन्नमत्ति यत्रैवं विद्वान्गाय त्र्?या च विराजा च वषट्करोति तस्मादेवं विद्वान्गाय त्र्?या चैव विराजा च वषट्कुर्यात्प्र वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेत्येताभ्याम्॥4.11॥

चतुर्विंशमेतदहरुपयन्त्यारम्भणीयम्। एतेन वै संवत्सरमारभन्त एतेन स्तोमांश्च च्छन्दांसि चैतेन सर्वा देवता अनारब्धं वै तच्छन्दोऽनारब्धा सा देवता यदेतस्मिन्नहनि नाऽऽरभन्ते तदारम्भणीयस्याऽऽरम्भणीयत्वम्। चतुर्विंशस्तोमो भवति तच्चतुर्विंशस्य चतुर्विंशत्वम्। चतुर्विंशतिर्वा अर्धमासा अर्धमासश एव तत्संवत्सरमारभन्ते। उक्थ्यो भवति पशवो वा उक्थानि पशूनामवरुद्ध्यै। तस्य पञ्चदश स्तोत्राणि भवन्ति पञ्चदश शस्त्राणि स मासो मासश एव तत्संवत्सरमारभन्ते। तस्य षष्टिश्च त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्यहःश एव तत्संवत्सरमारभन्ते। अग्निष्टोम एतदहः स्यादित्याहुरग्निष्टोमो वै संवत्सरो न वा एतदन्योऽग्निष्टोमादहर्दाधार न विव्याचेति। स यद्यग्निष्टोमः स्यादष्टाचत्वारिंशास्त्रयः पवमानाः स्युश्चतुर्विंशानीतराणि स्तोत्राणि तदु षष्टिश्चैव त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्यहःश एव तत्संवत्सरमारभन्ते। उक्थ्य एव स्यात्पशुसमृद्धो यज्ञः पशुसमृद्धं सत्रं सर्वाणि चतुर्विंशानि स्तोत्राणि प्रत्यक्षाद्ध्येततदहश्चतुर्विंशं तस्मादुक्थ्य एव स्यात्॥4.12॥ (17.6) (133)

बृहद्रथंतरे सामनी भवत एते वै यज्ञस्य नावौ संपारिण्यौ यद्बृहद्रथंतरे ताभ्यामेव तत्संवत्सरं तरन्ति। पादौ वै बृहद्रथंतरे शिर एतदहः पादाभ्यामेव तच्छ्रियं शिरोऽभ्यायन्ति। पक्षौ वै बृहद्रथंतरे शिर एतदहः पक्षाभ्यामेव तच्छ्रियं शिरोऽभ्यायुवते। ते उभे न समवसृज्ये य उभे समवसृजेयुर्यथैव च्छिन्ना नौर्बन्धनात्तीरं तीरमृच्छन्ती प्लवेतैवमेव ते सत्रिणस्तीरंतीरमृच्छन्तः प्लवेरन्य उभे समवसृजेयुः। तद्यदि रथंतरमवसृजेयुर्बृहतैवोभे अनवसृष्टे अथ यदि बृहदवसृजेयू रथंतरेणैवोभे अनवसृष्टे। यद्वै रथंतरं तद्वैरूप यद्बृहत्तद्वैराजं यद्रथंतरं तच्छाक्वरं यद्बृहत्तद्रैवतमेवमेते उभे अनवसृष्टे भवतः। ये वा एवं विद्वांस एतदहरुपयन्त्याप्त्वा वै तेऽहःशः संवत्सरमाप्त्वाऽर्धमासश आप्त्वा मासश आप्त्वा स्तोमांश्च च्छन्दांसि चाऽऽप्त्वा सर्वा देवतास्तप एव तप्यमानाः सोमपीथं भक्षयन्तः संवत्सरमभिषुण्वन्त आसते। ये वा अत ऊर्ध्वं संवत्सरमुपयन्ति गुरुं वै ते भारमभिनिदधते स वै गुरुर्भारः शृणात्यथ य एनं परस्तात्कर्मभिराप्त्वाऽवस्तादुपैति स वै स्वस्ति संवत्सरस्य पारमश्नुते॥4.१३॥ (17.7) (134)

यद्वै चतुर्विंशं तन्महाव्रतम्बृहद्दिवेनात्र होता रेतः सिञ्चति तददो महाव्रतीयेनाह्ना प्रजनयति संवत्सरेसंवत्सरे वै रेतः सिक्तं जायते तस्मात्समानम्बृहद्दिवो निष्केवल्यम्भवत्येष ह वा एनम्परस्तात्कर्मभिराप्त्वावस्तादुपैति य एवं विद्वानेतदहरुपैति स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्स-रस्यावारं च पारं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवारमुदयनीयः पारं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावरोधनं चोद्र ?ोधनं च वेद स वै स्वस्ति सम्वत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवरोधनमुदयनीय उद्र ?ोधनं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्य प्राणोदानौ वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयः प्राण उदान उदयनीयः। स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद य एवं वेद॥4.14॥

ज्योतिर्गौरायुरिति स्तोमेभिर्यन्त्ययं वै लोको ज्योतिरन्तरिक्षं गौरसौ लोक आयुः स एवैष उत्तर स्त्र्?यहो ज्योतिर्गौरायुरिति त्रीण्यहानि गौरायुर्ज्योतिरिति त्रीण्ययं वै लोको ज्योतिरसौ लोको ज्योतिस्ते एते ज्योतिषी उभयतः संलोकेते तेनैतेनोभयतोज्योतिषा षळहेन यन्ति तद्यदेतेनोभयतोज्योतिषा षळहेन यन्त्यनयोरेव तल्लोकयोरुभयतः प्रतितिष्ठन्तो यन्त्यस्मिंश्च लोकेऽमुष्मिंश्चोभयोः परियद्वा एतद्देवचक्रं यदभिप्लवः षळहस्तस्य यावभितोऽग्निष्टोमौ तौ प्रधी ये चत्वारो मध्य उक्थ्यास्तन्नभ्यं गछति वै वर्तमानेन यत्र कामयते तत्स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै तद्वेद यत्प्रथमः षळहः स वै स्वस्ति संवत्सरस्य पारमश्नुते यस्तद्वेद यद्द्वितीयो यस्तद्वेद यत्तृतीयो यस्तद्वेद यच्चतुर्थो यस्तद्वेद यत्पञ्चमः॥4.15॥

प्रथमं षळहमुपयन्ति षळ् अहानि भवन्ति षड्वा ऋतव ऋतुश एव तत्संवत्सरमाप्नुवन्त्यृतुशान्संवत्सरे प्रतितिष्ठन्तो यन्ति द्वितीयं षळहमुपयन्ति द्वादशाहानि भवन्ति द्वादश वै मासा मासश एव तत्संवत्सरमाप्नुवन्ति मासशः संवत्सरे प्रतितिष्ठन्तो यन्ति तृतीयं षळहमुपयन्त्यष्टादशाहानि भवन्ति तानि द्वेधा नवान्यानि नवान्यानि नव वै प्राणा नव स्वर्गा लोकाः प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति चतुर्थं षळहमुपयन्ति चतुर्विंशतिरहानि भवन्ति चतुर्विंशतिर्वा अर्धमासा अर्धमासश एव तत्संवत्सरमाप्नुवन्त्यर्धमाशशः संवत्सरे प्रतितिष्ठन्तो यन्ति पञ्चमं षळहमुपयन्ति त्रिंशदहानि भवन्ति त्रिंशदक्षरा वै विराड्विराळ् अन्नाद्यं विराजमेव तन्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्याकामाः खलु वै सात्रमा-सत तद्यद्विराजम्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्यमेव तन्मासिमास्यवरुन्धाना यन्त्यस्मै च लोकायामुष्मै चोभाभ्याम्॥4.16॥

गवामयनेन यन्ति गावो वा आदित्या आदित्यानामेव तदयनेन यन्ति गावो वै सत्रमासत शफाञ्छृङ्गाणि सिषासन्त्यस्तासां दशमे मासि शफाः शृङ्गाण्यजायन्त ता अब्रुवन्यस्मै कामायादीक्षामह्यापाम तमुत्तिष्ठामेति ता या उदतिष्ठंस्ता एताः शृङ्गिण्योऽथ याः समापयिष्यामः संवत्सरमित्यासत तासा-मश्रद्धया शृङ्गाणि प्रावर्तन्त ता एतास्तूपरा ऊर्जं त्वसुन्वंस्तस्मादु ताः सर्वा-नृतून्प्राप्त्वोत्तरमुत्तिष्ठन्त्यूर्जं ह्यसुन्वन्सर्वस्य वै गावः प्रेमाणं सर्वस्य चारुतां गताः सर्वस्य प्रेमाणं सर्वस्य चारुतां गछति य एवं वेदादित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयम्पूर्व एष्यामो वयमिति ते हादित्याः पूर्वे स्वर्गं लोकं जग्मुः पश्चेवाङ्गिरसः षष्ट्यां वा वर्षेषु यथा वा प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वेऽभिप्लवाः षळहा आक्ष्यन्त्यन्या-न्यहानि तदादित्यानामयनम्प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वे पृष्ठ्याः षळहा आक्ष्यन्त्यन्यान्यहानि तदङ्गिरसामयनं सा यथा स्रुतिरञ्जसाय-न्येवमभिप्लवः षळहः स्वर्गस्य लोकस्याथ यथा महापथः पर्याण एवम्पृष्ठ्यः षळहः स्वर्गस्य लोकस्य तद्यदुभाभ्यां यन्त्युभाभ्यां वै यन्न रिष्यत्युभयोः कामयोरुपाप्त्यै यश्चाभिप्लवे षळहे यश्च पृष्ठ्ये॥4.17॥

स्वरसाम्न उपयन्तीमे वै लोकाः स्वरसामान इमान्वै लोकान्स्वरसा-मभिरस्पृण्वंस्तत्स्वरसाम्नां स्वरसामत्वं तद्यत्स्वरसाम्न उपयन्त्येष्वेवैनं तल्लो-केष्वाभजन्ति तेषां वै देवाः सप्तदशानाम्प्रव्लयादबिभयुः समा इव वै स्तोमा अविगूळ्हा इवेमे ह न प्रव्लियेरन्निति तान्सर्वैः स्तोमैरवस्तात्पर्यार्षन्सर्वैः पृष्ठैः परस्तात्तद्यदभिजित्सर्वस्तोमोऽवस्ताद्भवति विश्वजित्सर्वपृष्ठः परस्तात्तत्सप्त-दशानुभयतः पर्यृषन्ति धृत्या अप्रव्लयाय तस्य वै देवा आदित्यस्य स्वर्गा-ल्लोकादवपातादबिभयुस्तम्पञ्चभी रश्मिभिरुदवयन्रश्मयो वै दिवाकीर्त्यानि महादिवाकिर्त्यम्पृष्ठम्भवति विकर्णम्ब्रह्मसाम भासमग्निष्टोमसामोभे बृहद्र थंतरे पवमानयोर्भवतस्तदादित्यम्पञ्चभी रश्मिभिरुद्वयन्ति धृत्या अनवपातायोदित आदित्ये प्रातरनुवाकमनुब्रूयात्सर्वं ह्येवैतदहर्दिवाकीर्त्यम्भवति सौर्यम्पशुम-न्यङश्वेतं सवनियस्योपालम्भ्यमालभेरन्सूर्यदेवत्यं ह्येतदहरेकविंशतिं सामि-धेनीरनुब्रूयात्प्रत्यक्षाद्ध्येतदहरेकविंशमेकपञ्चाशतं द्विपञ्चाशतं वा शस्त्वा मध्ये निविदं दधाति तावतीरुत्तराः शङ्सति शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय आयुष्येवैनं तद्वीर्य इन्द्रिये दधाति॥4.19॥

दूरोहणं रोहति स्वर्गो वै लोको दूरोहाणं स्वर्गमेव तल्लोकं रोहति य एवं वेद यदेव दूरोहणाम् असौ वै दूरोहो योऽसौ तापति कश्चिद्वा अत्र गछति स यद्दूरोहणं रोहत्येतमेव तद्र ?ोहति हंसवत्या रोहति हंसः शुचिषदित्येष वै हंसः शुचिषद्वसुरन्तरिक्षदित्येष वै वसुरन्तरिक्षसद्धोता वेदिषदित्येष वै होता वेदिषदतिथिर्दुरोणसदित्येष वा अतिथिर्दुरोणसन्नृषदित्येष वै नृषद्वरसदित्येष वै वरसद्वरं वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यृतसदित्येष वै सत्य-सद्व्योमसदित्येष वै व्योमसद्व्योम वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यब्जा इत्येष वा अब्जा अद्भ्यो वा एषा प्रातरुदेत्यपः सायम्प्रविशति गोला इत्येष वै गोजा ऋताजा इत्येष वै सत्यजा अद्रि जा इत्येष वा अद्रि जा ऋतमित्येष वै सत्यमेष एतानि सर्वाण्येषा ह वा अस्य छन्दस्सु प्रत्यक्षतमादिव रूपं तस्माद्यत्र क्व च दूरोहणं रोहेद्धंसवत्यैव रोहेत्तार्क्ष्ये स्वर्गकामस्य रोहेत्तार्क्ष्यो ह वा एतम्पूर्वोऽध्वानमैद्यत्रादो गायत्री सुपर्णो भूत्व सोमामाहरत्तद्यथा क्षेत्रज्ञमध्वनः पुरएतारं कुर्वीत तादृक्तद्यदेव तार्क्ष्येऽयं वै तार्क्ष्यो योऽयम्पवत एष स्वर्गस्य लोकस्याभिवोळ्हा त्यमू षु वाजिनं देवजूतमित्येष वै वाजी देवजूतः सहावानं तरुतारं रथानामित्येष वै सहावांस्तरुतैष हीमाँ ल्लोकान्सद्यस्तरत्यरिष्टनेमि-म्पृतनाजमाशुमित्येष व अरिष्टनेमिः पृतनाजिदाशुः स्वस्तय इति स्वस्तितामाशास्ते तार्क्ष्यमिहा हुवेमेति ह्वयत्येवैनमेतदिन्द्र स्येव रातिमाजो-हुवानाः स्वस्तय इति स्वस्तितामेवाशास्ते नावमिवा रुहेमेति समेवैनमेतद-धिरोहति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषामेतीमे एवैतदनुमन्त्रयत आचपराचमेष्य-न्सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततानेति प्रत्यक्षं सूर्य-मभिवदति सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्यामित्याशिषमेवैतेना शास्त आत्मने च यजमानेभ्यश्च॥4.20॥

आहूय दूरोहणं रोहति स्वर्गो वै लोको दूरोहणं वागाहावो ब्रह्म वै वाक्स यदाह्वयते तद्ब्रह्मणाऽऽहावेन स्वर्गं लोकं रोहति। स पच्छः प्रथमं रोहतीमं तं लोकमाप्नोत्यथार्धर्चशोऽन्तरिक्षं तदाप्नोत्यथ त्रिपद्याऽमुं तं लोकमाप्नोत्यथ केवल्या तदेतस्मिन्प्रतितिष्ठति य एष तपति। त्रिपद्या प्रत्यवरोहति तथा शाखां धारयमाणस्तदमुष्मिँल्लोके प्रतितिष्ठत्यर्धर्चशोऽन्तरिक्षे पच्छोऽस्मिँल्लोक आप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्ति। अथ य एककामाः स्युः स्वर्गकामाः परा़ञ्चमेव तेषां रोहेत्ते जयेयुर्हैव स्वर्गं लोकम्। नेत्त्वेवास्मिँल्लोके ज्योगिव वसेयुः। मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दांसि पशूनामवरुद्ध्यै॥4.21॥ (18.7) (142)

यथा वै पुरुष एवं विषुवांस्तस्य यथा दक्षिणोऽर्ध एवम्पूर्वोऽर्धो विषुवतो यथोत्तरोऽर्ध एवमुत्तरोऽर्धो विषुवतस्तस्मादुत्तर इत्याचक्षते प्रबाहुक्सतः शिर एव विषुवान्बिदलसंहित इव वै पुरुषस्तद्धापि स्यूमेव मध्ये शीर्ष्णो विज्ञायते तदाहुर्विषुवत्येवैतदहः शंसेद्विषुवान्वा एतदुक्थानामुक्थं विषुवान्विषुवानिति ह विषुवन्तो भवन्ति श्रेष्ठतामश्नुवत इति तत्तन्नादृत्यं संवत्सर एव शंसेद्रे तो वा एतत्संवत्सरं दधतो यन्ति यानि वै पुरा संवत्सराद्रे तांसि जायन्ते यानि पञ्चमास्यानि यानि षण्मास्यानि स्रीव्यन्ति वै तानि न वै तैर्भुञ्जतेऽथ यान्येव दशमास्यानि जायन्ते यानि सांवत्सरिकाणि तैर्भुञ्जते तस्मात्संवत्सर एवैतदहः शंसेत्संवत्सरो ह्येतदहराप्नोति संवत्सरं ह्येतदहराप्नुवन्त्येष ह वै संवत्सरेण पाप्मानमपहतैष विषुवताङ्गेभ्यो हैव मासैःपाप्मानमपहते शीर्ष्णो विषुवतप संवत्सरेण पाप्मानं हलेऽप विषुवत य एवं वेद वैश्वकर्मणमृषभं सवनीयस्योपालम्भ्यमालभेरन्द्विरूपमुभयत एतम्महाव्रतीयेऽहनीन्द्रो वै वृत्रं हत्व विश्वकर्माभवत्प्रजापतिः प्रजाः सृष्ट्वा विश्वकर्माभवत्संवत्सरो विश्व-कर्मेन्द्र मेव तदात्मानम्प्रजापतिं संवत्सरं विश्वकर्माणमाप्नुवन्तीन्द्र एव तदात्मनि प्रजापतौ संवत्सरे विश्वकर्मण्यन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद य एवं वेद॥4.22॥

प्रजापतिरकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमं द्वादशाहमप्श्यदात्मन एवाङ्गेषु च प्राणेषु च तमात्मन एवाङ्गेभ्यश्च प्राणेभ्यश्च द्वादशधा निरमिमीत तमाहरत्तेनायजत ततो वै सोऽभवदात्मना प्र प्रजया पशुभिरजायत भवत्यात्मना प्र प्रजया पशुभिर्जायते य एवं वेद सोऽकामयत कथं नु गाय त्र्?या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमृध्नुयामिति तं वै तेजसैव पुरस्तात्पर्यभवच्छन्दोभिर्मध्यतोऽक्षरैरुपरिष्टाद्गाय त्र्?या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमार्ध्नोत्सर्वामृद्धिमृध्नोति य एवं वेद यो वै गायत्रीं पक्षिणीं चक्षुष्मतीं ज्योतिष्मतीम्भास्वतीं वेद गाय त्र्?या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेत्येषा वै गायत्री पक्षिणी चक्षुष्मती ज्योतिष्मती भास्वती यद्द्वादशाहस्तस्य यावभितोऽतिरात्रौ तौ पक्षौ यावन्तराग्निष्टोमौ ते चक्षुषी येऽष्टौ मध्य उक्थ्याः स आत्मा गाय त्र्?या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेति य एवं वेद॥4.23॥

त्रयश्च वा एते त्र्?यहा आ दशममहरा द्वावतिरात्रौ यद्द्वादशाहो द्वादशाहानि दीक्षितो भवति यज्ञिय एव तैर्भवति द्वादश रात्रीरुपसद उपैति शरीरमेव ताभिर्धूनुते द्वादशाहम्प्रसुतो भूत्वा शरीरं धूत्वा शुद्धः पूतो देवता अप्येति य एवं वेद षट्त्रिंशदहो वा एष यद्द्वादशाहः षट्त्रिंशदक्षरा वै बृहती बृहत्या वा एतदयनं यद्द्वादशाहो बृहत्या वै देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षम्दशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठन्प्रतितिष्ठति य एवं वेद तदाहुर्यदन्यानि छन्दांसि वर्षीयांसि भूयोऽक्षरतराण्यथ कस्मादेताम्बृहतीत्याचक्षत इत्येतया हि देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षंशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठंस्तस्मादेतां बृहतीत्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद॥4.24॥

प्राजापतियज्ञो वा एष यद्द्वादशाहः प्रजापतिर्वा एतेनाग्रेऽयजत द्वादशाहेन सोऽब्रवीदृतूंश्च मासांश्च याजयत मा द्वादशाहेनेति तं दीक्षयित्वानपक्रमं गमयित्वाब्रुवन्देहि नु नोऽथ त्वा याजयिष्याम इति तेभ्य इषमूर्जम्प्राय-छत्सैषोर्गृतुषु च मासेषु च निहिता ददतं वै ते तमयाजयंस्तस्माद्ददद्याज्यः प्रतिगृह्णन्तो वै ते तमयाजयंस्तस्मात्प्रतिगृह्णता याज्यमुभये राध्नुवन्ति य एवं विद्वांसो यजन्ते च याजयन्ति च ते वा इम ऋतवश्च मासाश्च गुरव इवामन्यन्त द्वादशाहे प्रतिगृह्य तेऽब्रुवन्प्रजापतिं याजय नो द्वादशाहेनेति स तथेत्यब्रवीत्ते वै दीक्षध्वमिति ते पूर्वपक्षाः पूर्वे दीक्षन्त ते पाप्मानमपाहत तस्मात्ते दिवेव दिवेव ह्यपहतपाप्मानोऽपरपक्षा अपरेऽदीक्षन्त ते नतराम्पाप्मानमपाहत तस्मात्ते तम इव तम इव ह्यनपहतपाप्मानस्तस्मादेवं विद्वान्दीक्षमाणेषु पूर्वः-पूर्व एव दिदीक्षिषेता प पाप्मानं हते य एवं वेद स वा अयम्प्रजापतिः संवत्सर ऋतुषु च मासेषु च प्रत्यतिष्ठत्ते वा इम ऋतवश्च मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठंस्त एतेऽन्योन्यस्मिन्प्रतिष्ठिता एवं ह वाव स ऋत्विजि प्रतितिष्ठति यो द्वादशाहेन यजते तस्मादाहुर्न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठादिति ज्येष्वहयज्ञो वा एष यद्द्वादशाहः स वै देवानां ज्येष्ठो य एतेनाग्रेऽयजत श्रेष्ठयज्ञो वा एष यद्द्वादशाहः स वै देवानां श्रेष्ठो य एतेनाग्रेऽयजत ज्येष्ठः श्रेष्ठो यजेत कल्याणीह समा भवति न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठदितीन्द्राय वै देव ज्यैष्ठ्याय श्रैष्ठ्याय नातिष्ठन्त सोऽब्रवीद्बृहस्पतिं याजय मा द्वादशाहेनेति तमयाजयत्तलो वै तस्मै देवा ज्यैष्ठ्याय श्रैष्ठ्यायातिष्ठन्त तिष्ठन्तेऽस्मै स्वा ज्यैष्ठ्याय श्रैष्ठ्याय समस्मिन्स्वाः श्रेष्ठतायां जानते य एवं वेदोर्ध्वो वै प्रथम स्त्र्?यहस्तिर्यङ्मध्यमोऽर्वाङुत्तमः स यदूर्ध्वः प्रथम स्त्र्?यहस्तस्मादयमग्निरूर्ध्व उद्दीप्यत ऊर्ध्वा ह्येतस्य दिग् यत्तिर्यङ्मध्यमस्तस्मादयं वायुस्तिर्यङ्पवते तिरश्चीरापो वहन्ति तिरश्ची ह्येतस्य दिग् यदर्वाङुत्तमस्तस्मादसावर्वाङ्तपत्यर्वाङ्वर्षत्यर्वाञ्चि नक्षत्राण्यार्वाचि ह्येतस्य दिक् सम्यञ्चो वा इमे लोकाः सम्यञ्च एते त्र्?यहाः सम्यञ्चोऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद॥4.25॥

दीक्षा वै देवेभ्योऽपाक्रामत्तां वासन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां वासन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां ग्रैष्माभ्यां तां वार्षिकाभ्यां तां शारदाभ्यां तां हैमन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां हैमन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां शैशिराभ्याम्माआभ्यामन्वयुञ्जत तां शैशिराभ्याम्मासाभ्या-माप्नुवन्नाप्नोति यमीप्सति नैनं द्विषन्नाप्नोति य एवं वेद तस्माद्यं सत्रिया दीक्षोपनमेदेतयोरेव शैशिरयोर्मासयोरागतयोर्दीक्षेत साक्षादेव तद्दीक्षायामा-गतायाम्दीक्षते प्रत्यक्षाद्दीक्षाम्परिगृह्णाति तस्मादेतयोरेव शैशिरयोर्मासयो-रागतयोर्ये चैव ग्राम्याः पशवो ये चारण्या अणिमानमेव तत्परुषिमाणं नियन्ति दीक्षारूपमेव तदुपनिप्लवन्ते स पुरस्ताद्दीक्षायाः प्राजापत्यम्पशुमालभते तस्य सप्तदश सामिधेनीरनुब्रूयात्सप्तदशो वै प्रजापतिः प्रजापतेराप्त्यै तस्याप्रियो जामदग्न्यो भवन्ति तदाहुर्यदन्येषु पशुषु यथऋष्याप्रियो भवन्त्यथ कस्मादस्मिन्सर्वेषां जामदग्न्य एवेति सर्वरूपा वै जामदग्न्यः सर्वसमृद्धाः सर्वरूप एष पशुः सर्वसमृद्धस्तद्यज्जामदग्न्यो भवन्ति सर्वरूपतायै सर्वसमृद्ध्यै तस्य वायव्यः पशुपुरोळाशो भवति तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्माद्वायव्यः पशुपुरोळाशः क्रियत इति प्रजापतिर्वै यज्ञो यज्ञस्यायातया-मताया इति ब्रूयाद्यदु वायव्यस्तेन प्रजापतेर्नैति वायुर्ह्येव प्रजापति-स्तदुक्तमृषिणा पवमानः प्रजापतिरिति सत्रमु चेत्संन्युप्याग्नीन्यजेरन्सर्वे दीक्षेरन्सर्वे सुनुयुर्वसन्तमभ्युदवस्यत्यूर्ग्वै वसन्त इषमेव तदूर्जमभ्युदवस्यति॥4.26॥

छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन्गायत्री त्रिष्टुभश्च जगत्यै चायतनम-भ्यध्यायत्त्रिष्टुब्गाय त्र्?यै च जगत्यै च जगती गाय त्र्?यै च त्रिष्टुभश्च ततो वा एतम्प्रजापतिर्व्यूळ्हछन्दसं द्वादशाहमपश्यत्तमाहरत्तेनायजत तेन स सर्वा-न्कामांश्छन्दांस्यगमयत्सर्वान्कामान्गछति य एवं वेद छन्दांसि व्यूहत्ययात-यामतायै छन्दांस्येव व्यूहति तद्यथादोऽश्वैर्वानळुद्भिर्वान्यैरन्यैरश्रान्ततरैरश्रा-न्ततरैरुपविमोकं यान्त्येवमेवैतच्छन्दोभिरन्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकं स्वर्गं लोकम्यन्ति यच्छन्दांसि व्यूहतीमौ वै लोकौ सहास्तां तौ व्यैतां नावर्षन्न समतपत्ते पञ्चजना न समजानत तौ देवाः समनयंस्तौ संयन्तावेतं देवविवाहं व्यवहेतां रथंतरेणैवेयममूं जिन्वति बृहतासाविमां नौधसेनैवेयममूं जिन्वति श्यैतेनासाविमां धूमेनैवेयममूं जिन्वति वृष्ट्यासाविमां देवयजनमेवेयममुष्यामदधात्पशूनसावस्यामेतद्वा इयममुष्यां देवयजनमदधाद्यदेतच्चन्द्र मसि कृष्णमिव तस्मादापूर्यमाणपक्षेषु यजन्त एतदेवोपेप्सन्त ऊषानसावस्यां तद्धापि तुरःकावषेय उवाचोषः पोषो जनमेजयकेति तस्माद्धाप्येतर्हि गव्य-म्मीमांसमानाः पृछन्ति सन्ति तत्रोषाः इति ऊषो हि पोषोऽसौ वै लोक इमं लोकमभिपर्यावर्तत ततो वै द्यावापृथिवी अभवतां न द्यावा- न्तरिक्षान्नान्तरिक्षाद्भूमिः॥4.27॥

बृहच्च वा इदमग्रे रथंतरं चाऽऽस्तां वाक्च वै तन्मनश्चाऽऽस्तां वाग्वै रथंतरं मनो बृहत्तद्बृहत्पूर्वं ससृजानं रथंतरमत्यमन्यत तद्रथंतरं गर्भमधत्त तद्वैरूपमसृजत। ते द्वे भूत्वा रथंतरं च वैरूपं च बृहदत्यमन्येतां तद्बृहद्गर्भमधत्त तद्वैराजमसृजत। ते द्वे भूत्वा बृहच्च वैराजं च रथंतरं च वैरूपं चात्यमन्येतां तद्रथंतरं गर्भमधत्त तच्छाक्वरमसृजत। तानि त्रीणि भूत्वा रथंतरं च वैरूपं च शाक्वरं च बृहच् वैराजं चात्यमन्यन्त तद्बृहद्गर्भमधत्त तद्रैवतमसृजत। तानि त्रीण्यन्यानि त्रीण्यन्यानि षड्पृष्ठान्यासन्। तानि ह तर्हि त्रीणि च्छन्दांसि षट्पृष्ठानि नोदाप्नुवन्सा गायत्री गर्भमधत्त साऽनुष्टुभमसृजत त्रिष्टुब्गर्भमधत्त सा पङ्क्तिमसृजत जगती गर्भमधत्त साऽतिच्छन्दसमसृजत तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्छन्दांस्यासन्षट्पृष्ठानि तानि तथाऽकल्पन्त कल्पते यज्ञोऽपि। तस्यै जनतायै कल्पते यत्रैवमेतां छन्दसां च पृष्ठानां च कलृप्तिं विद्वान्दीक्षते दीक्षते॥4.28॥ (19.6)

अग्निर्वै देवता प्रथममहर्वहति त्रिवृत्स्तोमो रथंतरं साम गायत्री छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं यद्युक्तवद्यद्र थवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यद्र ?ाथंतरं यद्गायत्रं यत्करिष्यदेतानि वै प्रथमस्याह्नो रूपाण्युपप्रयन्तो अध्वरमिति प्रथमस्याह्न आज्यम्भवति प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं वायवा याहि दर्शतेति प्रउगमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ रथवच्च पिबवच्च प्रथमेऽहनि प्रथमस्याह्नो रूपमिन्द्र नेदीय एदिहीतीन्द्र निहवः प्रगाथः प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपम्प्रैतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः प्रथमेषु पदेषु देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपम्प्र वा इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा यात्विन्द्रोऽवस उप न इति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरम्पृष्ठम्भवति राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं यद्वावान पुरुतमम्पुराषाळ् इति धाय्या वृत्रहेन्द्रो नामान्यप्रा इत्येति प्रथमेऽहनि प्रथमस्याह्नो रूपम्पिबा सुतस्य रसिन इति सामप्रगाथः पिबवान्प्रथमेऽहनि प्रथमस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यम्पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद॥4.29॥

आ न इन्द्रो दूरादा न आसादिति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपं सम्पातौ भवतो निष्केवल्यमरुत्वतीययोर्निविद्धाने वामदेवो वा इमाँ ल्लोकान-पश्यत्तान्सम्पातैः समपतद्यत्सम्पातैः समपतत्तत्सम्पातानां सम्पातत्वं तद्य-त्सम्पातौ प्रथमेऽहनि शंसति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्यै तत्स-वितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं युञ्जते मन उत युञ्जते धिय इति सावित्रं युक्तवत्प्रथमेऽहनि प्रथमस्याह्नो रूपम्प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयम्प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमिहेह वो मनसा बन्धुता नर इत्यार्भवं यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं तद्यत्प्रेति सर्वमभ-विष्यत्प्रैष्यन्नेवास्माल्लोकाद्यजमाना इति तद्यदिहेह वो मनसा बन्धुता नर इत्यार्भवम्प्रथमेऽहनि शंसत्ययं वै लोक इहेहास्मिन्नेवैनांस्तल्लोके रमयति देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवम्प्रथमे पदे देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपम्महान्तं वा एतेऽध्वानमेष्यन्तो भवन्ति ये संवत्सरं वा द्वादशाहं वासते तद्यद्देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेव-म्प्रथमेऽहनि शंसति स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद येषां चैवं विद्वानेतद्धोता देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवम्प्रथमेऽहनि शंसति वैश्वानराय पृथुपाजसे विप इत्याग्निमारुतस्य प्रतिपत्प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपम्प्रत्वक्षसो प्रतवसो विरप्शिन इति मारुतम्प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याम्पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्याः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पार-मश्नुते य एवं वेद प्र तव्यसीं नव्यसीं धीतिमग्नय इति जातवेदस्यम्प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं समानमाग्निमारुतम्भवति यच्चाग्निष्टोमे यद्वै यज्ञे समानं क्रियते तत्प्रजा अनु समनन्ति तस्मात्सानमाग्निमारुतं भवति॥4.30॥

इन्द्रो वै देवता द्वितीयमहर्वहति पञ्चदशः स्तोमो बृहत्साम त्रिष्टुप्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्व-द्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्बार्हतं यत्त्रैष्टुभं यत्कुर्वदेतानि वै द्वितीयस्याह्नो रूपाण्यग्निं दूतं वृणीमह इति द्वितीयस्याह्न आज्यम्भवति कुर्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं वायो ये ते सहस्रिण इति प्रउगं सुतः सोम ऋतावृधेति वृधन्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ वृधन्वच्चान्तर्वच्च द्वितीयेऽहनि द्वितीयस्याह्नो रूपमिन्द्र नेदीय एदिहीत्यच्युतः प्रगाथ उत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्य ऊर्ध्ववान्द्वितीयेऽहनि द्वितीय-स्याह्नो रूपमग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्या अच्युता बृहदिन्द्राय गायतेति मरुत्वतीयः प्रगाथो येन ज्योतिरजनयन्नृतावृध इति वृधन्वान्द्वितीयेऽहनि द्वितीयस्याह्नो रूपमिन्द्र सोमं सोमपते पिबेममिति सूक्तम्सजोषा रुद्रै स्तृपदा वृषस्वेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठम्भवति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपं यद्वावानेति धाय्याच्युतोभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो च्युतः॥4.31॥

या त ऊतिरवमा या परमेति सूक्तं जहि वृष्ण्यानि कृणुही पराच इति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। विश्वो देवस्य नेतुस्तत्सवितु्र्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। उदु ष्य देवः सविता हिरण्ययेति सावित्रमूर्ध्ववद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। ते हि द्यावापृथिवी विश्वशंभुवेति द्यावापृथिवीयं सुजन्मनी धिषणे अन्तरीयत इत्यन्तर्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। तक्षन्रथं सुवृतं विद्मनापस इत्यार्भवं तक्षन्हरी इन्द्रवाहा वृषण्वसू इति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। यज्ञस्य वो रथ्यं विश्पतिं विशामिति वैश्वदेवं वृषाकेतुर्यजतो द्यामशायतेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। तदु शार्यातमङ्गिरसो वै स्वर्गाय लोकाय सत्रमासत ते ह स्म द्वितीयं द्वितीयमेवाहरागत्य मुह्यन्ति तान्वा एतच्छार्यातो मानवो द्वितीयेऽहनि सूक्तमशंससत्ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकं तद्यदेतत्सूक्तं द्वितीयेऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै। पृक्षस्य वृष्णो अरुषस्य नू सह इत्याग्निमारुतस्य प्रतिपद्वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। वृष्णे शर्धाय सुमखाय वेधस इति मारुतं वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। जातवेदसे सुनवाम सोममिति जातवेदस्याऽच्युता। यज्ञेन वर्धत जातवेदसमिति जातवेदस्य वृधन्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपमह्नो रूपम्॥4.32॥ ((20.4) (153)

इत्यैतरेयब्राह्मणे चतुर्थपञ्चिका समाप्ता

विश्वे वै देवा देवतास्तृतीयमहर्वहन्ति सप्तदशः स्तोमो वैरूपं साम जगती छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै समानोदर्कं तत्तृतीयस्याह्नो रूपं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्नुउऋत्तं यद्र तवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोकोऽभ्युदितो यद्वैरूपं यज्जागतं यत्कृतमेतानि वै तृतीयस्याह्नो रूपाणि युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिवेति तृतीयस्याह्न आज्यम्भवति देवा वै तृतीयेनाह्ना स्वर्गं लोकमायंस्तानसुरा रक्षांस्यन्ववारयन्त ते विरूपा भवत विरूपा भवतेति भवन्त आयंस्ते यद्विरूपा भवत विरूपा भवतेति भवन्त आयंस्तद्वैरूपं सामाभवत्तद्वैरूपस्य वैरूपत्वं विरूपः पाप्मना भूत्वा पाप्मा-नमपहते य एवं वेद तान्ह स्मान्वेवागछन्ति समेव सृज्यन्ते तानश्वा भूत्वा पद्भिरपाघ्नत यदश्वा भूत्वा पद्भिरपाघ्नत तदश्वानामश्वत्वमश्नुते यद्यत्कामयते य एवं वेद तस्मादश्वः पशूनां जविष्ठस्तस्मादश्वः प्रत्यङ्पदा हिनस्त्यप पाप्मानं हते य एवं वेद तस्मादेतदश्ववदाज्यम्भवति तृतीयेऽहनि तृतीयस्याह्नो रूपं वायवा याहि वीतये वायो याहि शिवा दिव इन्द्र श्च वायवेषां सुतानामा मित्रे वरुणे वयमश्विनावेह गछतमा याह्यद्रि भिः सुतं सजूर्विश्वेभिर्देवेभिरुत नः प्रिया प्रियास्वित्यौष्णिहम्प्रउगं समानोदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपं तं-तमिद्र ?ाधसे महे त्रय इन्द्र स्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ निनृत्तव-त्त्रिवत्तृतीयेऽहनि तृतीयस्याह्नो रूपमिन्द्र नेदीय एदिहीत्यच्युतः प्रगाथः प्र नूनम्ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यो निनृत्तवांस्तृतीयेऽहनि तृतीयस्याह्नो रूपम-ग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्याप इति धाय्या अच्युता नकिः सुदासो रथम्पर्यास न रीरमदिति मरुत्वतीयः प्रगाथः पर्यस्तवांस्तृतीयेऽहनि तृतीय-स्याह्नो रूपं त्र्यर्यमा मनुषो देवतातेति सूक्तं त्रिवत्तृतीयेऽहनि तृतीयस्याह्नो रूपं यद्द्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति वैरूपम्पृष्ठम्भवति राथंतरेऽहनि तॄतियेऽहनि तृतीयस्याह्नो रूपं यद्वावानेति धाय्याच्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेनेन्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवांस्तृतीयेऽहनि तृतीयस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो च्युतः॥5.1॥

यो जात एव प्रथमो मनस्वानिति सूक्तं समानोदर्कं तृतीयेऽहनि तृतीयस्याह्नो रुपां तदु सजनीयमेतद्वा इन्द्र स्येन्द्रि यं यत्सजनीयमेतस्मिन्वै शस्यमान इन्द्र मिन्द्रि यमाविशति तद्धाप्याहुश्छन्दोगास्तृतीयेऽहनि बह्वृचा इन्द्र स्येन्द्रि यं शंसन्तीति तदु गार्त्समदमेतेन वै गृत्समद इन्द्र स्य प्रियं धामोपागछत्स परमं लोकमजयदुपेन्द्रस्य प्रियं धाम गछति जयति परमं लोकं य एवं वेद तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ रा-थंतरेऽहनि तृतीयेऽहनि तृतीयस्याह्नो रूपं तद्देवस्य सवितुर्वार्यम्महदिति सावित्रमन्तो वै महदन्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपं घृतेन द्यावापृथिवी अभीवृते इति द्यावापृथिवीयं घिऋतश्रिया घृतपृचा घृतावृधेति पुनरावृत्तम्पुनर्निनृत्तां तृतीयेऽहनि तृतीयस्याह्नो रूपमनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवम्रथस्त्रिचक्र इति त्रिवत्तृतीयेऽहनि तृतीयस्याह्नो रूपम्परावतो ये दिधिषन्त आप्यमिति वैश्वदेवमन्तो वै परावतोऽन्तस्तृतीयमहस्तृतीयेऽहनि-ऽतृतीयस्याह्नो रूपं तदु गायमेतेन वै गयः प्लातो विश्वेषां देवानाम्पृयं धामोपागछत्स परमं लोकमजयदुप विश्वेषां देवानाम्प्रियं धाम गछति जयति परमं लोकं य एवं वेद वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिपदन्तो वै धिषणान्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपं धारावरा मरुतो धृष्ण्वोजस इति मारुतम्बह्वभिव्याहृत्यमन्तो वै बह्वन्तस्तृतियमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता त्वमग्ने प्रथमो अङ्गिरा ऋषिरिति जातवेदस्यम्पुरस्तादुदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपं त्वंत्वमित्युत्तरं त्र्?यहमभिवदति संतत्यै संततै स्त्र्?यहैरव्यवछिन्नैर्यन्ति य एवं विद्वांसो यन्ति॥5.2॥

आप्यन्ते वै स्तोमा आप्यन्ते छन्दांसि तृतीयेऽहन्येतदेव तत उच्छिष्यते वागित्येव तदेतदक्षरं त्र्?यक्षरं वागित्येकमक्षरमक्षरमिति त्र्?यक्षरं स एवैष उत्तर स्त्र्?याहो वागेकं गौरेकं द्यौरेकं ततो वै वागेव चतुर्थमहर्वहति तद्यच्चतुर्थमहर्न्यूङ्खयन्त्येतदेव तदक्षरमभ्यायछन्त्येतद्वर्धयन्त्येतत्प्रबिभावयिष-न्ति चतुर्थस्याह्न उद्यत्या अन्नं वै न्यूङ्खो यदेलवा अभिगेष्णाश्चरन्त्य-थान्नाद्यम्प्रजायते तद्यच्चतर्थमहर्न्यूङ्खयन्त्यन्नमेव तत्प्रजनयन्त्यन्नाद्यस्य प्रजात्यै तस्माच्चतुर्थमहर्जातवद्भवति चतुरक्षरेण न्यूङ्खयेदित्याहुश्चतुष्पादा वै पशवः पशूनामवरुद्ध्यै त्र्?यक्षरेण न्यूङ्खयेदित्याहुस्त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्या एकाक्षरेण न्यूङ्खयेदिति ह स्माह लाङ्गलायनो ब्रह्मा मौद्गल्य एकाक्षरा वै वाग् एष वाव सम्प्रति न्यूङ्खं न्यूङ्खयति य एकाक्षरेण न्यूङ्खयतीति द्व्यक्षरेणैव न्यूङ्खयेत्प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति तस्मा-द्द्व्यक्षरेणैव न्यूङ्खयेन्मुखतः प्रातरनुवाके न्यूङ्खयति मुखतो वै प्रजा अन्नमदन्ति मुखत एव तदन्नाद्यस्य यजमानं दधाति मध्यत आज्ये न्यूङ्खयति मध्यतो वै प्रजा अन्नं धिनोति मध्यत एव तदन्नाद्यस्य यजमानं दधाति मुखतो मध्यंदिने न्यूङ्खयति मुखतो वै प्रजा अन्नमदन्ति मुखत एव तदन्नाद्यस्य यजमानं दधाति तदुभयतो न्यूङ्खं परिगृह्णाति सवनाभ्यामन्नाद्यस्य परिगृहीत्यै॥5.3॥

वाग्वै देवता चतुर्थमहर्वहत्येकविंशः स्तोमो वैराजं सामानुष्टुप्छन्दो यथा-देवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राद्न्नोति य एवं वेद यद्वा एति च प्रेति च तच्चतुर्थस्याह्नो रूपं यद्ध्येव प्रथममहस्तदेतत्पुनर्यच्चतुर्थं यद्युक्त-वद्यद्र थवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यज्जातवद्यद्धववद्यच्छुक्रवद्यद्वाचो रूपं यद्वैमदं यद्विरिफितं यद्विछन्दा यदूनातिरिक्तं यद्वैराजं यदानुष्टुभं यत्करिष्यद्यत्प्रथमस्याह्नो रूपमेतानि वै चतुर्थस्याह्नो रूपाण्याग्निं न स्ववृक्तिभिरिति चतुर्थस्याह्न आज्यम्भवति वैमदं विरिफितं विरिफितस्य ऋषेश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपमष्टर्चम्पाङ्क्तम्पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशूनामवरुद्ध्यै ता उ दश जगत्यो जगत्प्रातःसवन एष त्र्?यहस्तेन चतुर्थस्याह्नो रूपं ता उ पञ्चदशानुष्टुभ आनुष्टुभं ह्येतदहस्तेन चतु-र्थस्याह्नो रूपं ता उ विंशतिर्गाय त्र्?यः पुनः प्रायणीयं ह्येतदहस्तेन चतुर्थस्याह्नो रूपं तदेतदस्तुतमसस्तमयातयाम सूक्तं यज्ञ एव साक्षात्तद्यदेतच्चतुर्थस्याह्न आज्यम्भवति यज्ञादेव तद्यज्ञं तन्वते वाचमेव तत्पुनरुपयन्ति संतत्यै संततै स्त्र्?यहैरव्यवछिन्नैर्यन्ति य एवं विद्वांसो यन्ति वायो शुक्रो अयामि ते विहि होत्रा अवीता वायो शतं हरीणामिन्द्र श्च वायवेषां सोमानामा चिकितान सुक्रतू आ नो विश्वाभिरूतिभिस्त्यमु वो अप्रहणमप त्यं वृजिनं रिपुमम्बितमे नदीतम इत्यानुष्टुभम्प्रउगमेति च प्रेति च शुक्रवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं तं त्वा यज्ञेभिरीमह इति मरुत्वतीयस्य प्रतिपदीमह इत्यभ्यायाम्यमिवैतदहस्तेन चतुर्थस्याह्नो रूपमिदं वसो सुतमन्ध इन्द्र नेदीय एदिहि प्रैतु ब्रह्मणस्पतिरग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपः प्र व इन्द्र य बृहत इति प्रथमेनाह्ना समान आतानश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं श्रुधी हवमिन्द्र मा रिषण्य इति सूक्तं हववच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्मरुत्वाँ इन्द्र वृषभो रणयेति सूक्तमुग्रं सहोदामिह तं हुवेमेति हववच्चतुर्थेऽहनि चतुर्थस्याह्नो रुपां तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवत इमं नु मायिनं हुव इति पर्यासो हववांश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ गाय त्र्?यो गाय त्र्?यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति पिबा सोममिन्द्र मन्दतु त्वा श्रुधी हवं विपिपानस्याद्रे रिति वैराजम्पृष्ठम्भवति बार्हतेऽहनि चतुर्थेऽहनि चतुर्थस्याह्नो रूपं यद्वावानेति धाय्याच्युता त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेन त्वमिन्द्र प्रतूर्तिष्विति सामप्रगाथोऽशस्तिहा जनितेति जात-वांश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः॥5.4॥

कुह श्रुत इन्द्रः कस्मिन्नद्येति सूक्तं वैमदं विरिफितं विरिफितस्य ऋषेश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं युध्मस्य ते वृषभस्य स्वराज इति सूक्तमुग्रं गभीरं जनुषाभ्युग्रमिति जातवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते त्यमु वः सत्रासाहमिति पर्यासो विश्वासु गीर्ष्वायतमित्यभ्यायाम्यमिवैतदहस्तेन चतुर्थस्याह्नो रूपं ता उ गाय त्र्?यो गाय त्र्?यो वा एतस्य त्र्?यहस्य मध्यंदिनम्वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽहनि चतुर्थेऽहनि चतुर्हस्याह्नो रूपमा देवो यातु सविता सुरत्न इति सावित्रमेति चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्यावापृथिवीयम्प्रेति चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्प्र ऋभुब्योओ दूतमिव वाचमिष्य इत्यार्भवम्प्रेति च वाचमिष्य इति च चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्प्र शुक्रैतु देवी मनीषेति वैश्वदेवम्प्रेति च शुक्रवच्च चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ विछन्दसः सन्ति द्विपदाः सन्ति चतुष्पदास्तेन चतुर्थस्याह्नो रूपं वैश्वानरस्य सुमतौ स्यामेत्याग्निमारुतस्य प्रतिपदितो जात इति जातव-च्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं क ईं व्यक्ता नरः सनीळा इति मारुतं नकिर्ह्येषां जनूंषि वेदेति जातवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ विछन्दसः सन्ति द्विपदाः सन्ति चतुष्पदास्तेन चतुर्थस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याच्युताग्निं नरो दीधितिभिररण्योरिति जातवेदस्यं हस्तच्युती जनयन्तेति जातवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ विछन्दसः सन्ति विराजः सन्ति त्रिष्टुभस्तेन चतुर्थस्याहनो रूपमह्नो रूपम्॥5.5॥

गौर्वै देवता पञ्चममहर्वहति त्रिणवःस्तोमः शाक्वरं साम पाङ्क्तिश्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै नेति न प्रेति यत्स्थितं तत्पञ्चमस्याह्नो रूपं यद्ध्येव द्वितीयमहस्तदेतत्पुनर्यत्पञ्चमं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्दुग्धवद्यदूधवद्यद्धेनुमद्यत्पृश्निमद्यन्मद्वद्यत्पशुरूपं यद-ध्यासवद् विक्षुद्र ?ा इव हि पशवो यज्जागतं जागता हि पशवो यद्बार्हतम्- बार्हता हि पशावो यत्पाङ्क्तम् पाङ्क्ता हि पशवो यद्वामं वामं हि पशवो यद्धविष्मद्धविर्हि पशवो यद्वपुष्मद्- वपुर्हि पशवो – यच्छाक्वरं यत्पाङ्क्तं यत्कुर्वद्यद्द्वितीयस्याह्नो रूपमेतानि वै पञ्चमस्याह्नो रूपाणीममू षु वो अतिथिमुषर्बुधमिति पञ्चमस्याह्न आज्यम्भवति जागतमध्यासवत्पशुरू-पम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमा नो यज्ञं दिविस्पृशमा नो वायो महे तने रथेन पृथुपाजसा बहवः सूरचक्षस इमा उ वां दिविष्टयः पिबा सुतस्य रसिनो देवं-देवं वोऽवसे देवंदेवम्बृहदु गायिषे वच इति बार्हतम्प्रउगम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्यत्पाञ्चजन्यया विशेति मरुत्वतीयस्य प्रतिपत्पाञ्चजन्ययेति पञ्चमेऽहनि पञ्चमस्याह्नो रूपमिन्द्र इत्सोमपा एक इन्द्र नेदीय एदिह्युत्तिष्ठ ब्रह्मणस्पतेऽग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो बृहदिन्द्राय गायतेति द्वितीयेनाह्ना समान आतानः पञ्चमेऽहनि पञ्चमस्याह्नो रूपमवितासि सुन्वतो वृक्तबर्हिष इति सूक्तम्मद्वत्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमित्थ हि सोम इन्मद इति सूक्तम्मद्वत्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमिन्द्र पिब तुभ्यं सुतो मदायेति सूक्तम्मद्वत्त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते मरुत्वाँ इन्द्र मीढ्व इति पर्यासो नेति न प्रेति पञ्चमेऽहनि पञ्चमस्याह्नो रूपं ता उ गाय त्र्?यो गाय त्र्?यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति॥5.6॥

महानाम्नीष्वत्र स्तुवते शाक्वरेण साम्ना राथंतरेऽहनि पञ्चमेऽहनि पञ्चमस्याह्नो रूपमिन्द्रो वा एताभिर्महानात्मानं निरमिमीत तस्मान्महानाम्न्योऽथो इमे वै लोका महानाम्न्य इमे महान्त इमान्वै लोकान्प्रजापतिः सृष्ट्वेदं सर्वमशक्नोद्यदिदम्किंच यदिमाँ ल्लोकान्प्रजापतिः सृष्ट्वेदं सर्वमशक्नोद्यदिदं किंच तच्छक्वर्योऽभवंस्तच्छक्वरीणां शक्वरीत्वं ता ऊर्ध्वाः सीम्नोऽभ्यसृजत यदूर्ध्वाः सीम्नोऽभ्यसृजत तत्सिमा अभवंस्तत्सिमानां सिमात्वं स्वादोरित्था विषूवत उप नो हरिभिः सुतमिन्द्रं विश्वा अवीवृधन्नित्यनुरूपो वृषण्वा-न्पृश्निमान्मद्वान्वृधन्वान्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं यद्वावानेति धाय्या-च्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेन मो षु त्वा वाघतश्चनेति सामप्रगाथोऽध्यासवान्पशुरूपं पञ्चमे हनि पञ्चमस्याह्नो रूपम्। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो च्युतः॥5.7॥

प्रेदम्ब्रह्म वृत्रतूर्येष्वाविथेति सूक्तम्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चनास्याह्नो रूपमिन्द्रो मदाय वावृध इति सूक्तम्मद्वत्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं सत्रा मदासस्तव विश्वजन्या इति सूक्तम्मद्वत्त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते तमिन्द्रं वाजयामसीति पर्यासः स वृषा वृषभो भुवदिति पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं ता उ गाय त्र्?यो गाय त्र्?यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि पञ्चमेऽहनि पञ्चमस्याह्नो रूपमुदु ष्य देवः सविता दमूना इति सावित्रमा दाशुषे सुवति भूरि वाममिति वाम-म्पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्मही द्यावापृथिवी इह ज्येष्ठे इति द्यावापृथिवीयं रुवद्धोक्षेति पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमृभुर्विभ्वा वाज इन्द्रो नो अछेत्यार्भवं वाजो वै पशवः पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्स्तुषे जनं सुव्रतं नव्यसीभिरिति वैश्वदेवमध्यासवत्पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं हविष्पान्तमजरं स्वर्विदीत्याग्निमारुतस्य प्रतिपद्धवि-ष्मत्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं वपुर्नु तच्चिकितुषे चिदस्त्विति मारुतं वपुष्म-त्पञ्चमेऽहनि पञ्चमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवे-दस्याच्युताग्निर्होता गृहपतिः स राजेति जातवेदस्यमध्यासवत्पशुरूपम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्॥5.8॥

देवक्षेत्रं वा एतद्यत्षष्ठमहर्देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठमहरागच्छन्ति। न वै देवा अन्योन्यस्य गृहे वसन्ति नर्तुर्ऋतोर्गृहे वसतीत्याहुस्तद्यथायथमृत्विज ऋतुयाजान्यजन्त्यसंप्रदायं तद्यथर्त्वृतून्कल्पयन्ति यथायथं जनताः। तदाहुर्नर्तुप्रैषैः प्रेषितव्यं नर्तुप्रैषैर्वषट्कृत्यं वाग्वा ऋतुप्रैषा आप्यते वै वाक् षष्ठेऽहनीति। यदृतुप्रैषैः प्रेष्येयुर्यदृतुप्रैषैर्वषट्कुर्युर्वाचमेव तदाप्तां श्रान्तामृक्णवहीं वहराविणीमृच्छेयुः। यद्वेभिर्न प्रेष्येयुर्यद्वेभिर्न वषट्कुर्युरच्युताद्यज्ञस्य च्यवेरन्यज्ञात्प्राणात्प्रजापतेः पशुभ्यो जिह्मा ईयुः। तस्मादृग्मेभ्य एवाधि प्रेषितव्यमृग्मेभ्योऽधि वषट्कृत्यं तन्न वाचमाप्तां श्रान्तामृक्णवहीं वहराविणीमृच्छन्ति नाच्युताद्यज्ञस्य च्यवन्ते न यज्ञात्प्राणात्प्रजापतेः पशुभ्यो जिह्मा यन्ति॥5.9॥ (22.4) (162)

पारुच्छेपीरुपदधति पूर्वयोः सवनयोः पुरस्तात्प्रस्थितयाज्यानां रोहितं वै नामैतच्छन्दो यत्पारुच्छेपमेतेन वा इन्द्रः सप्त स्वर्गाँ ल्लोकानरोहद्र ?ोहति सप्त स्वर्गाँ ल्लोकन्य एवं वेद तदाहुर्यत्पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात्सप्तपदाः षष्ठेऽहञ्छस्यन्त इति षड्भिरेव पदैः षष्ठमह-राप्नुवन्त्यपछिद्येवैतदहर्यत्सप्तमं तदेव सप्तमेन पदेनाभ्यारभ्य वसन्ति वाचमेव तत्पुनरुपयन्ति संतत्यै। संततैस्त्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति॥5.10॥

द्यौर्वै देवता षष्ठमहर्वहति त्रयस्त्रिंशः स्तोमो रैवतं सामातिछन्दाश्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै समानोदर्कं तत्षष्ठस्याह्नो रूपं यद्ध्येव तृतीयमहस्तदेतत्पुनर्यत्षष्ठं यद-श्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्र तवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं य-दुत्तमे पदे देवता निरुच्यते यदसौ लोकोऽभ्युदितो यत्पारुच्छेपं यत्सप्तपदं यन्नाराशंसं यन्नाभानेदिष्ठं यद्रै वतं यदतिछन्दा यत्कृतं यत्तृतीयस्याह्नो रूपं एतानि वै षष्ठस्याह्नो रूपाण्ययं जायत मनुषो धरीमणीति षष्ठस्याह्न आयम्भवति पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपं स्तीर्ण-म्बर्हिरुप नो याही वितय आ वां रथो नियुत्वान्वक्षदवसे सुषुमा यातमद्रि भिर्युवां स्तोमेभिर्देवयन्तो अश्विनावर्मह इन्द्र वृषन्निन्द्रास्तु श्रौषळो षू णो अग्ने शृणुहि त्वमीळितो ये देवासो दिव्येकादश स्थेयमददाद्र भस-मृणच्युतमिति प्रउगम्पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपं स पूर्व्यो महानामिति मरुत्वतीयस्य प्रतिपदन्तो वै महदन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं त्रय इन्द्र स्य सोमा इन्द्र नेदीय एदिहि प्र नूनम्ब्रह्मणस्पतिरग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो नकिः सुदासो रथमिति तृतीयेनाह्ना समान आतानः षष्ठेऽहनि षष्ठस्याह्नो रूपं यं त्वं रथमिन्द्र मेधसातय इति सूक्त-म्पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपं स यो वृषा वृष्ण्येभिः समोका इति सूक्तं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपमिन्द्र मरुत्व इह पाहि सोममिति सूक्तं तेभिः साकम्पिबतु वृत्रखाद इत्यन्तो वै खादोऽन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधा-रायतनादेवैतेन न प्रच्यवतेऽयं ह येन वा इदमिति पर्यासः स्वर्मरुत्वता जितमित्यन्तो वै जितमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं ता उ गाय त्र्?यो गाय त्र्?यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मि-न्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति रेवतीर्नः सधमादे रेवाँ इद्रे वत स्तोतेति रैवतम्पृष्ठम्भवति बार्हतेऽहनि षष्ठेऽहनि षष्ठस्याह्नो रूपं यद्वावानेति धाय्याच्युता त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेनेन्द्र मिद्देवतातय इति सामप्रगाथो निनृत्तवान्षष्ठेऽहनि षष्ठस्याह्नो रूपम्। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः॥5.12॥

एन्द्र याह्युप नः परावत इति सूक्तम्पारुच्छेपमतिछन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपम्प्र घा न्वस्य मबतो महानीति सूक्तं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपमभूरेको रयिपते रयीणामिति सूक्तं रथमा तिष्ठ तुविनृम्ण भीममित्यन्तो वै स्थितमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यावत उप नो हरिभिः सुतमिति पर्यासः समानोदर्कः षष्ठेऽहनि षष्ठस्याह्नो रूपं ता उ गाय त्र्?यो गाया त्र्?यो वा एतस्य त्र्?यहस्य मध्यंदिनम्वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधात्यभि त्यं देवं सवितारमोण्योरिति वैश्वदेवस्य प्रतिपदतिछन्दाः षाष्ठेऽहनि षष्ठस्याह्नो रूपं तत्सवितुर्वरेण्यं दोषो आगादि-त्यनुचरोऽन्तो वै गतमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपमुदु ष्य देवः सविता सवायेति सावित्रं शश्वत्तमं तदपा वह्निरस्थादित्यन्तो वै स्थितमन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं कतरा पूर्वा कतरापरायोरिति द्यावापृथिवीयं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपं किमु श्रेष्ठः किं यविष्ठो न आजगन्नुप नो वाजा अध्वरमृभुक्षा इत्यार्भवं नाराशंसं त्रिवत्षष्ठेऽहनि षष्ठस्याह्नो रूपमिदमित्था रौद्रं गूर्तवचा ये यज्ञेन दक्षिणया समक्ता इति वैश्वदेवम्॥5.13॥

नाभानेदिष्ठं शंसति। नाभानेदिष्ठं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजन्त्सोब्रवीदेत्य किं मह्यमभाक्तेत्येतमेव निष्ठावमववदितारमित्यब्रुवंस्तस्माद्धाप्येतर्हि पितरं पुत्रा निष्ठावोऽववदितेत्येवाऽऽचक्षते। स पितरमेत्याब्रवीत्त्वां ह वाव मह्यं त(ता)ताभाक्षुरिति तं पिताऽब्रवीन्मा पुत्रक तदादृथा अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्रमासते ते षष्ठं षष्ठमेवाहरागत्य मुह्यन्ति तानेते सूक्ते षष्ठेऽहनि शंसय तेषां यत्सहस्रं सत्रपरिवेषणं तत्ते स्वर्यन्तो दास्यन्तीति तथेति। तानुपैत्प्रतिगृभ्णीत मानवं सुमेधस इति तमब्रुवन्किंकामो वदसीतीदमेव वः षष्ठमहः प्रज्ञापयानीत्यब्रवीदथ यद्व एतत्सहस्रं सत्रपरिवेषणं तन्मे स्वर्यन्तो दत्तेति तथेति तानेते सूक्ते षष्ठेऽहन्यशंसयत्ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकम्। तद्यदेते सूक्ते षष्ठेऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै। तं स्वर्यन्तोऽब्रुवन् एतत्ते ब्राह्मण सहस्रमिति तदेनं समाकुर्वाणं पुरुषः कृष्णशवास्युत्तरत उपोत्थायाब्रवीन्मम वा इदं मम वै वास्तुहमिति सोऽब्रवीन्मह्यं वा इदमदुरिति तमब्रवीत्तद्वैनौ तवैव पितरि प्रश्न इति स पितरमैत्तं पिताऽब्रवीन्ननु ते पुत्रकादू३रित्यदुरेव म इत्यब्रवीत्तत्तु मे पुरुषः कृष्णशवास्युत्तरत उपोदतिष्ठन्मम वा इदं मम वै वास्तुहमित्यादितेति तं पिताऽब्रवीत्तस्यैव पुत्रक तत्तत्तु स तुभ्यं दास्यतीति स पुनरेत्याब्रवीत्तव ह वाव किल भगव इदमिति मे पिताऽऽहेति सोऽब्रवीत्तदहं तुभ्यमेव ददामि य एव सत्यमवादीरिति। तस्मादेवं विदुषा सत्यमेव वदितव्यम्। स एष सहस्रसनिर्मन्त्रो यन्नाभानेदिष्ठः। उपैनं सहस्रं नमति प्र षष्ठेनाह्ना स्वर्गं लोकं जानाति य एवं वेद॥5.14॥ (22.9) (167)

तान्येतानि सहचराण्यित्याचक्षते नाभानेदिष्ठं वालखिल्या वृषाकपिमेवा-यमरुतं तानि सहैव शंसेद्यदेषामन्तरियात्तद्यजमानस्यान्तरियाद्यदि नाभानेदिष्ठं रेतोऽस्यान्तरियाद्यदि वालखिल्याः प्राणानस्यान्तरियाद्यदि वृषाकपिमात्मान-मस्यान्तरियाद्यद्येवयामरुतम्प्रह्ष्ठाया एनं च्यावयेद्दैव्यै च मानुष्यै च ना-भानेदिष्ठेनैव रेतोऽसिञ्चत्तद्वालखिल्याभिर्व्यकरोत्सुकीर्तिना काक्षीवतेन योनिं व्यहापयदुरौ यथा तव शर्मन्मदेमेति तस्माज्ज्यायान्सन्गर्भः कनीयांसं सन्त-म्योनिं न हिनस्ति ब्रह्मणा हि स क्लृप्त एवयामरुतैतवै करोति तेनेदं सर्वमेतवै कृतमेति यदिदं किंचाहश्च कृष्णमहरर्जुनं चेत्याग्निमारुतास्य प्रतिपदहश्चाहश्चेति पुनरावृत्तम्पुनर्निनृत्तं षष्ठेऽहनि षष्ठस्याह्नो रूपम्मध्वो वो नाम मारुतं यजत्रा इति मारुतम्बह्वभिव्याहृत्यमन्तो वै बह्वन्तः षष्ठमहः षष्ठेऽहनि षष्ठस्याह्नो रूपं जा-तवेदसे सुनवाम सोममिति जातवेदस्याच्युता स प्रत्नथा सहसा जायमान इति जातवेदस्यं समानोदर्कं षष्ठेऽहनि षष्ठस्याह्नो रूपं धारयन्धारयन्निति शंसति प्रस्रंसाद्वा अन्तस्य बिभाय तद्यथा पुनराग्रन्थम्पुनर्निग्रन्थमन्तम्बध्नीयान्मयूखं वान्ततो धारणाय निहन्यात्तादृक्तद्यद्धारयन्-धारयन्निति शंसति संतत्यै। संततैस्त्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति, यन्ति॥5.15॥

यद्वा एति च प्रेति च तत्सप्तमस्याह्नो रूपं यद्ध्येव प्रथममहस्तदेवैतत्पुनर्यत्सप्तमं यद्युक्तवद्यद्र थवद्यदाशुमद्यै पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यज्जातवद्यदनिरुक्तं यत्करिष्यद्य प्रथमस्याह्नो रूपं एतानि वै सप्तमस्याह्नो रूपाणि समुद्र ?ादूर्मिर्मधुमाँ उदारदिति सप्तमस्याह्न आज्यम्भव-त्यनिरुक्तम्सप्तमेऽहनि सप्तमस्याह्नो रूपं वाग्वै समुद्र ?ो न वै वाक्क्षीयते न समुद्र ?ः क्षीयते तद्यदेतत्सप्तमस्याह्न आज्यम्भवति यज्ञादेव तद्यज्ञं तन्वते वाचमेव तत्पुनरुपयन्ति संतत्यै संततै स्त्र्?यहैरव्यवछिन्नैर्यन्ति य एवं विद्वांसो यन्त्याप्यन्ते वै स्तोमा आप्यन्ते छन्दांसि षष्ठेऽहनि तद्यथैवाद आज्येनावदानानि पुनः प्रत्यभिघारयन्त्ययातयामताया एवमेवैतत्स्तोमांश्च छन्दांसि च पुनः प्रत्युपयन्त्ययातयामतायै यदेतत्सप्तमस्याह्न आज्यम्भवति तदु त्रैष्टुभं त्रिष्टु-प्प्रातःसवन एष त्र्?यह आ वायो भूष शुचिपा उप नः प्र याभिर्यासि दाश्वांसमछा नो नियुद्भिः शतिनीभिरध्वरम्प्र सोता जीरो अध्वरेष्वस्थाद्य वायव इन्द्र मादनासो या वां शतं नियुतो याः सहस्रम्प्र यद्वाम्मित्रावरुणा स्पूर्धन्ना गोमता नासत्या रथेना नो देव शवसा याहि शुष्मिन्प्र वो यज्ञेषु देवयन्तो अर्चन्प्र क्षोदस धायसा सस्र एषेति प्रउगमेति च प्रेति च सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्?यह आ त्वा रथं यथोतय इदं वसो सुतमन्ध इन्द्र नेदीय एदिहि प्रैतु ब्रह्मणस्पतिरग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपः प्र व इन्द्राय बृबत इति प्रथमेनाह्ना समान आतानः सप्तमेऽहनि सप्तमस्याह्नो रूपं कया शुभा सवयसः सनीळा इति सूक्तं न जायमानो नशते न जात इति जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु कयाशुभीयमेतद्वै संज्ञानं संतनि सूक्तं यत्कयाशुभीयमेतेन ह वा इन्द्रोऽगस्त्यो मरुतस्ते समजानत तद्यत्कयाशुभीयं शंसति संज्ञात्या एव तद्वायुष्यं तद्योऽस्य प्रियः स्यात्कु-र्यादेवास्य कयाशुभीयं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते त्यं सु मेषम्महया स्वर्विदमिति सूक्तमत्यं न वाजं हवनस्यदं रथमिति रथवत्सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानी च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठम्भवति सप्तमेऽहनि यदेव षष्ठस्याह्नस्तद्यद्वै रथंतरं तद्वैरूपं यद्बृहत्तद्वैराजं यद्र थंतरं तच्छाक्वरं यद्बृहत्तद्रै वतं तद्यद्बृहत्पृष्ठम्भवति बृहतैव तद्बृहत्प्रत्युत्तभ्नुवन्त्यस्तोमकृन्तत्राय यद्र थंतरं स्यात्कृन्तत्रं स्यात्तस्माद्बृहदेव कर्तव्यं यद्वावानेति धाय्याच्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेन पिबा सुतस्य रसिन इति सामप्रगाथः पिबवान्सप्तमेऽहनि सप्तमस्याह्नो रूपम्त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः॥5.16॥

इन्द्र स्य नु वीर्याणि प्र वोचमिति सूक्तम्प्रेति सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवतेऽभि त्यम्मेषम्पुरुहूतमृग्मियमिति सुक्तं यद्वाव प्रेति तदभीति सप्तमेऽहनि सप्तमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि सप्तमेऽहनि सप्तमस्याह्नो रूपमभि त्वा देव सवितरिति सावित्रं यद्वाव प्रेति तदभीति सप्तमेऽहनि सप्तमस्याह्नो रूपम्प्रेतां यज्ञस्य शम्भुवेति द्यावापृथिवीयम्प्रेति सप्तमेऽहनि सप्तमस्याह्नो रूपमयं देवाय जन्मन इत्यार्भवं जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपमा याही वनसा सहेति द्विपदाः शंसति द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूना-मवरुद्ध्यै तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयत्यैभिरग्ने दुवो गिर इति वैश्वदेवमेति सप्तमेऽहनि सप्तमस्याह्नो रूपं तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्?यहो वैश्वानरो आजीजनदित्या-ग्निमारुतस्य प्रतिपज्जातवत्सप्तमेऽहनि सप्तमस्याह्नो रूपम्प्र यत्वस्त्रिष्टुभमि-षमिति मारुतम्प्रेति सप्तमेऽहनि सप्तमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता दूतं वो विश्ववेदसमिति जातवेदस्यमनिरुक्तं सप्तमेऽहनि सप्तमस्याह्नो रूपम्। तान्यु गायत्रानि गायत्रतृतीयसवन एष त्र्?यहः॥5.17॥

यद्वै नेति न प्रेति यत्स्थितं तदष्टमस्याह्नो रूपं यद्ध्येव द्वितीयमहस्तदेवै-तत्पुनर्यदष्टमं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्द्व्यग्नि यन्महद्वद्यद्द्विहूतवद्यत्पुनर्वद्यत्कुर्व-द्यद्द्वितीयस्याह्नो रूपं एतानि वा अष्टमस्याह्नो रूपाण्यग्निं वो देवमग्निभिः सजोषा इत्यष्टमस्याह्न आज्यम्भवति द्व्यग्न्यष्टमेऽहनि अष्टमस्याह्नो रूपम्तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्?यहः कुविदङ्ग नमसा ये वृधासः पीवोअन्नाँ रयिवृधः सुमेधा उछन्नुषसः सुदिना अरिप्रा उशन्ता दूता न दभाय गोपा यावत्तरस्तन्वो यावदोजः प्रति वां सूर उदिते सूक्तैर्धेनुः प्रत्नस्य काम्यं दुहाना ब्रह्मा णा इन्द्रोप याहि विद्वानूर्ध्वो अग्निः सुमतिं वस्वो अश्रेदुत स्या नः सरस्वती जुषाणेति प्रउगम्प्रतिवदन्तर्वद्द्विहूतवदूर्ध्ववदष्टमेऽहन्यष्टमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्?यहो विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इन्द्र नेदीय एदिह्युत्तिष्ठ ब्रह्मणस्पतेऽग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो बृहदिन्द्राय गायतेति द्वितीयेनाह्ना समान आतानोऽष्टमेऽहनि अष्टमस्याह्नो रूपम्शंसा महामिन्द्रं यस्मिन्विश्वा इति सूक्तम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपम्महश्चि-त्त्वमिन्द्र यत एतानिति सूक्तम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपम्पिबा सोममभि यमुग्र तर्द इति सूक्तमूर्वं गव्यम्महि गृणान इन्द्रे ति महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपम्महाँ इन्द्रो नृवदा चर्षणिप्रा इति सूक्तम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते तमस्य द्यावापृथिवी सचेतसेति सूक्तं यदैत्कृण्वानो महिमानमिन्द्रि यमिति महद्वदष्ट-मेऽहन्यष्टमस्याह्नो रूपम्तदु जागतं जगत्यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै महद्वन्ति सूक्तानि शस्यन्ते महद्वा अन्तरि-क्षमन्तरिक्षस्याप्त्यै पञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्या अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरम्पृष्ठम्भवत्यष्टमेऽहनि यद्वावानेति धाय्याच्युता त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेनोभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हतेऽहन्यष्टमेऽहनि अष्टमस्याह्नो रूपम्। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः॥5.18॥

अपूर्व्या पुरुतमान्यस्मा इति सूक्तम्महे वीराय तवसे तुरायेति महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं तां सु ते कीर्तिम्मघवन्महित्वेति सूक्तम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं त्वम्महाँ इन्द्र यो ह शुष्मैरिति सूक्तम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं त्वम्महाँ इन्द्र तुभ्यं ह क्षा इति सूक्तम्महद्वदष्टमेऽहन्य-ष्टमस्याह्नो रूपम्तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते दिवश्चिदस्य वरिमा वि पप्रथ इति सूक्तमिन्द्रं न मह्नेति महद्वद-ष्टमेऽहनि अष्टमस्याह्नो रूपम्तदु जागतां जगत्यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै महद्वन्ति सूक्तानि शस्यन्ते महद्वा अन्तरि-क्षमन्तरिक्षस्याप्त्यै पञ्चपञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दश सम्पद्यन्ते सा दशिनी विराळन्नम्विराळ् अन्नम्पशवःपशवश्छन्दोमाः पशू-नामवरुद्ध्यै विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽहनि अष्टमेऽहनि अष्टमस्याह्नो रूपं हिरण्य-पाणिमूतय इति सावित्रमूर्ध्ववदष्टमेऽहन्यष्टमस्याह्नो रूपम्मही द्यौः पृथिवी च न इति द्यावापृथिवीयम्महद्वदष्टमेऽहनि अष्टमस्याह्नो रूपं युवाना पितरा पुनरित्यार्भवम्पुनर्वदष्टमेऽहनि अष्टमस्याह्नो रूपमिमा नु कम्भुवना सीषधामेति द्विपदाः शंसति द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाः पशूनाम-वरुद्ध्यै तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति देवानामिदवो महदिति वैश्वदेवम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपं तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्?यह ऋतावानं वैश्वानरमित्या-ग्निमारुतस्य प्रतिपदग्निर्वैश्वानरो महानिति महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपं क्रीळं वः शर्धो मारुतमिति मारुतं जम्भे रसस्य वावृध इति वृध-न्वदष्टमेऽहन्यष्टमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्या-च्युताग्ने मृळ महाँ असीति जातवेदस्यम्महद्वदष्टमेऽहन्यष्टमस्याह्नो रूपं तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्?यह एष त्र्?यहः॥5.19॥

यद्वै समानोदर्कं तन्नवमस्याह्नो रूपं यद्ध्येव तृतीह्यमहस्तदेवैतत्पुनर्यौ नवमं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्र तवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोकोऽभ्युदितो यच्छुचिवद्यत्सत्यवद्य-त्क्षेतिवद्यद्गतवद्यदोकवद्यत्कृतं यत्तृतीयस्याह्नो रूपमेतानि वै नवमस्याह्नो रूपाण्यगन्म महा नमसा यविष्ठमिति नवमस्याह्न आज्यम्भवति गतव-न्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्?यहः प्र वीरया शुचयो दद्रि रे ते ते सत्येन मनसा दीध्याना दिवि क्षयन्ता रजसः पृथिव्यामा विश्ववाराश्विना गतं नोऽयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीं देवयन्तो हवन्त आ नो दिवो बृहतः पर्वतादा सरस्वत्यभि नो नेषि वस्य इति प्रउगं शुचिवत्सत्यवत्क्षेतिवद्गतवदोकवन्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभं त्रिष्टुप्प्रातःसवन एष त्र्?यहस्तंतमिद्र ?ाधसे महे त्रय इन्द्र स्य सोमा इन्द्र नेदीय एदिहि प्र नूनम्ब्रह्मणस्पतिरग्निर्नेता त्वं सोमा क्रतुभिः पिन्वन्त्यपो नकिः सुदासो रथमिति तृतीयेनाह्ना समान आतानो नवमेऽहनि नवमस्याह्नो रूपमिन्द्रः स्वाहा पिबतु यस्य सोम इति सूक्तमन्तो वै स्वाहा-कारोऽन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं गायत्साम नभन्यं यथा वेरिति सूक्तमर्चाम तद्वावृधानं स्वर्वदित्यन्तो वै स्वरन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तिष्ठा हरी रथ आ युज्यमानेति सूक्तमन्तो वै स्थितमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपमिमा उ त्वा पुरुतमस्य कारोरिति सूक्तं धियो रथेष्ठामित्यन्तो वै स्थितमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते प्र मन्दिने पितुमदर्चता वच इति सूक्तम्समानोदर्कं नवमेऽहनि नवमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निव्ल्द्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि सस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै पञ्चा सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठम्भवति नवमेऽहनि यद्वावानेति धाय्याच्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेनेन्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवान्नवमेऽहनि नवमस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः॥5.20॥

सं च त्वे जग्मुर्गिर इन्द्र पूर्वीरिति सूक्तं गतवन्नवमेऽहनि नवमस्याह्नो रूपं कदा भुवन्रथक्षयाणि ब्रह्मेटि सूक्तं क्षेतिवदन्तरूपं क्षेतीव वा अन्तं गत्वा नवमेऽहनि नवमस्याह्नो रूपमा सत्यो यातु मघवाँ ऋजीषीति सूक्तं सत्यवन्नवमेऽहनि नवमस्याह्नो रूपम्तत्त इन्द्रि यम्परमम्पराचैरिति सूक्तमन्तो वै परममन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तदु त्रैष्टुभम्तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवतेऽहम्भुवं वसुनः पूर्व्यस्पतिरिति सूक्तमहं धनानि सं जयामि शश्वत इत्यन्तो वै जितमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपं तदु जागतं जगत्यो वा एतस्य त्र्?यहस्य मध्यंदिनं वहन्ति तद्वै वच्छन्दो वहति यस्मिन्निविद्धीयते तस्माज्जगतीषु निविदं दधाति मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै पञ्चपञ्च सूक्तानि शस्यन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तानि द्वेधा पञ्चान्यानि पञ्चान्यानि दश सम्पद्यन्ते सा दशिनी विराळ् अन्नम्विराळ् अन्नम्पशवः पशवश्छन्दोमाः पशूनामवरुद्ध्यै तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रति-पदनुचरौ राथंतरेऽहनि नवमेऽहनि नवमस्याह्नो रूपं दोषो आगादिति सावित्रं अन्तो वै गतमन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपम्प्र वाम्महिद्यवी अभीति द्यावापृथिवीयं शुची उप प्रशस्तय इति शुचिवन्नवमेऽहनि नवमस्याह्नो रूपमिन्द्र इषे ददातु नस्ते नो रत्नानि धत्तनेत्यार्भवं त्रिरा साप्तानि सुन्वत इति त्रिवन्नवमेऽहनि नवमस्याह्नो रूपाम्बभ्रुरेको विषुणः सूनरो युवेति द्विपदाः शंसति द्विपाद्वै पुरुषश्चतुष्पादाः पशवः पशवश्छन्दोमाह् पशूनामवरुद्ध्यै तद्यद्द्विपदाः शंसति यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति ये त्रिंशति त्रयस्पर इति वैश्वदेवं त्रिवन्नवमेऽहनि नवमस्याह्नो रूपं तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्?यहो वैश्वानरो न ऊतय इत्याग्निमारुतस्य प्रतिपदा प्र यतु परावत इत्यन्तो वै परावतोऽन्तो नवममहर्नवमेऽहनि नवमस्याह्नो रूपम्मरुतो यस्य हि क्षय इति मारुतं क्षेतिवदन्तरूपं क्षेतीव वा अन्तं गत्वा नवमेऽहनि नवमस्याह्नो रूपं जतवेदसे सुनवाम सोममिति जातवेदस्याच्युता प्राग्नये वाचमीरयेति जातवेदस्यं समानोदर्कं नवमेऽनवमस्याह्नो रूपं स नः पर्षदति द्विषः स नः पर्षदति द्विष इति संसह् बहु वा एतस्मिन्नवरात्रे किंच-किंच वारणं क्रियते शान्त्या एव तद्यत्स नः पर्षदति द्विषः स नः पर्षदति द्विष इति शंसति सर्वस्मादेवैनांस्तदेनसः प्रमुञ्चति तान्यु गायत्राणि गायत्रतृतीयसवन एष त्र्?यहः ॥5.21॥

पृष्ठ्यं षळहमुपयन्ति यथा वै मुखमेवम्पृष्ठ्यः षळहस्तद्यथान्तरम्मुखस्य जिह्वा तालु दन्ता एवं छन्दोमा अथ येनैव वाचं व्याकरोति येन स्वादु चास्वादु च विजानाति तद्दशममहर्यथा वै नासिके एवम्पृष्ठ्यः षळहस्तद्यथान्तरम्ना-सिकयोरेवं छन्दोमा अथ येनैव गन्धान्विजानाति तद्दशममहर्यथा वा अक्ष्येवम्पृष्ठ्यः षळहस्तद्यथान्तरमक्ष्णः कृष्णमेवं छन्दोमा अथ यैव कनीनिका येन पश्यति तद्दशममहर्यथा वै कर्ण एवम्पृष्ठ्यः षळहस्तद्यथान्तरं कर्णस्यैवं छन्दोमा अथ येनैव शृणोति तद्दशममहः श्रीर्वै दशममहः श्रियं वा एत आगछन्ति ये दशममहरागछन्ति तस्माद्दशममहरविवाक्यम्भवति मा श्रियो-ऽववादिष्मेति दुरववदं हि श्रेयसस्ते ततः सर्पन्ति ते मार्जयन्ते ते पत्नीशालां सम्प्रपद्यन्ते तेषां य एतामाहुतिं विद्यात्स ब्रूयात्समन्वारभध्वमिति स जुहु-यादिह रमेह रमध्वमिह धृतिरिह स्वधृतिरग्ने वाट्स्वाहा वाळ् इति स यदिह रमेत्याहास्मिन्नेवैनांस्तल्लोके रमयतीह रमध्वमिति यदाह प्रजामेवैषु तद्र म-यतीह धृतिरिह स्वधृतिरिति यदाह प्रजां चैव तद्वाचं च यजमानेषु दधात्यग्ने वाळिति रथंतरम्स्वाहा वाळ् इति बृहद्देवानां वा एतन्मिथुनं यद्बृहद्र थंतरे देवानामेव तन्मिथुनेन मिथुनमवरुन्धते देवानाम्मिथुनेन मिथुनम्प्रजायन्ते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद ते ततः सर्पन्ति ते मार्जयन्ते त आग्नीध्रं सम्प्रपद्यन्ते तेषां य एतामाहुतिं विद्यात्स ब्रूयत्समन्वारभध्वमिति स जुहुया-दुपसृजन्धरुणम्मातरं धरुणो धयन्रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति रायस्पोषमिषमूर्जमवरुन्द्ध आत्मने च यजमानेभ्यश्च यत्रैवं विद्वानेतामाहुतिं जुहोति॥5.22॥

ते ततः सर्पन्ति ते सदः संप्रपद्यन्ते यथायथमन्य ऋत्विजो व्युत्सर्पन्ति संसर्पन्त्युद्गातारस्ते सर्पराज्ञ्या ऋक्षु स्तुवते। इयं वै सर्पराज्ञीयं हि सर्पतो राज्ञीयं वा अलोमिकेवाग्र आसीत्सैतं मन्त्रमपश्यदाऽयं गौः पृश्निरक्रमीदिति तामयं पृश्निवर्ण आविशन्नानारूपो यं यं काममकामयत यदिदं किंचौषधयो वनस्पतयः सर्वाणि रूपाणि। पृश्निरेनं वर्ण आविशति नानारूपो यं यं कामं कामयते य एवं वेद। मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति वाचा शंसति। वाक्च वै मनश्च देवानां मिथुनं देवानामेव तन्मिथुनेन मिथुनमवरुन्धते देवानां मिथुनेन मिथुनं प्रजायन्ते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद। अथ चतुर्होतॄन्होता व्याचष्टे तदेव तत्स्तुतमनुशंसति। देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतुर्होतारस्तद्यच्चतुर्होतॄन्होता व्याचष्टे देवानामेव तद्यज्ञियं गुह्यं नाम प्रकाशं गमयति। तदेनं प्रकाशं गतं प्रकाशं गमयति गच्छति प्रकाशं य एवं वेद। यं ब्राह्मणमनूचानं यशो नर्छेदिति ह स्माऽऽहारण्यं परेत्य दर्भस्तम्बानुद्ग्रथ्य दक्षिणतो ब्रह्माणमुपवेश्य चतुर्होतॄन्व्याचक्षीत। देवानां वा एतद्यज्ञियं गुह्यं नाम यच्चतुर्होतारस्तद्यच्चतुर्होतॄन्व्याचक्षीत देवानामेव तद्यज्ञियं गुह्यं नाम प्रकाशं गमयति तदेनं प्रकाशं गतं प्रकाशं गमयति गच्छति प्रकाशं य एवं वेद॥5.23॥ (24.4) (176)

अथौदुम्बरीं समन्वारभन्ते। इषमूर्जमन्वारभ इति। उर्ग्वा अन्नाद्यमुदुम्बरः। यद्वैतद्देवा इषमूर्जं व्यभजन्त तत उदुम्बरः समभवत्तस्मात्स त्रिः संवत्सरस्य पच्यते। तद्यदौदुम्बरीं समन्वारभन्त इषमेव तदूर्जमन्नाद्यं समन्वारभन्ते। वाचं यच्छन्ति वाग्वै यज्ञो यज्ञमेव तद्यच्छन्ति। अहर्नियच्छन्त्यहर्वै स्वर्गो लोकः स्वर्गमेव तं लोकं नियच्छन्ति। न दिवा वाचं विसृजेरन्यद्दिवा वाचं विसृजेरन्नहर्भ्रातृव्याय परिशिंष्युः। न नक्तं वाचं विसृजेरन्यन्नक्तं वाचं विसृजेरन्रात्रीं भ्रातृव्याय परिशिंष्युः। समयाविषितः सूर्यः स्यादथ वाचं विसृजेरंस्तावन्तमेव तद्द्विषते लोकं परिशिंषन्ति। अथो खल्वस्तमित एव वाचं विसृजेरंस्तमोभाजमेव तद्द्विषन्तं भ्रातृव्यं कुर्वन्ति। आहवनीयं परीत्य वाचं विसृजेरन्यज्ञो वा आहवनीयः स्वर्गो लोक आहवनीयो यज्ञेनैव तत्स्वर्गेण लोकेन स्वर्गं लोकं यन्ति। यदिहोनमकर्म यदत्यरीरिचाम॥ प्रजापतिं तत्पितरमप्येत्विति वाचं विसृजन्ते। प्रजापतिं वै प्रजा अनु प्रजायन्ते प्रजापतिरूनातिरिक्तयोः प्रतिष्ठा नैनानूनं नातिरिक्तं हिनस्ति। प्रजापतिमेवोनातिरिक्तान्यभ्यत्यर्जन्ति य एवं विद्वांस एतेन वाचं विसृजन्ते। तस्मादेव विद्वांस एतेनैव वाचं विसृजेरन्॥5.24॥ (24.5

अध्वर्यो इत्याह्वयते चतुर्होतृषु वदिष्यमाणस्तदाहावस्य रूपमों होतस्तथा होतरित्यध्वर्युः प्रतिगृणात्यवसितेऽवसिते दशसु पदेषु तेषां चित्तिः स्रुगासीत्चित्तमाज्यमासीत्वाग्वेदिरासीताधीतम्बर्हिरासीत्केतो अग्निरासी-त्विज्ञातमग्नीदासीत्प्राणो हविरासीत्सामाध्वर्युरासीत्वाचस्पतिर्होतासीत्मन उपवक्तासीत्ते वा एतं ग्रहमगृह्णत वाचस्पते विधे नामन् विधेम ते नाम विधेस्त्वमस्माकं नाम्ना द्यां गछ यां देवाः प्रजापतिगृहपतय ऋद्धिमरा-ध्नुवंस्तामृद्धिं रात्स्यामोऽथ प्रजापतेस्तनूरनुद्र वति ब्रह्मोद्यं चान्नादा चान्नपत्नी चान्नादा तदग्निरन्नपत्नी तदादित्यो भद्र ?ा च कल्याणी चा भद्र ?ा तत्सोमः कल्याणी तत्पशावोऽनिलया चापभया चानिलया तद्वायुर्न ह्येष कदा चनेलयत्यपभया तन्मृत्युः सर्वं ह्येतस्माद्बीभायानाप्ता चानाप्या चानाप्ता तत्पृथिव्यनाप्या त-द्द्यौरनाधृष्या चाप्रतिधृष्या चानाधृष्या तदग्निरप्रतिधृष्या तदादित्योऽपूर्वा चाभ्रातृव्या चापूर्वा तन्मानोऽभ्रातृव्या तत्संवत्सर एता वाव द्वादश प्रजापतेस्तन्व एष कृत्स्नः प्रजापतिस्तत्कृत्स्नम्प्रजापतिमाप्नोति दशममहरथ ब्रह्मोद्यम्वदन्त्यग्निर्गृहपतिरिति हैक आहुः सोऽस्य लोकस्य गृहपतिर्वा-युर्गृहपतिरिति हैक आहुः सोऽन्तरिक्षलोकस्य गृहपतिरसौ वै गृहपतिर्योऽसौ तपत्येष पतिरृतवो गृहा येषां वै गृहपतिं देवं विद्वान्गृहपतिर्भवति राध्नोति स गृहपतिं राध्नुवन्ति ते यजमाना येषां वा अपहतपाप्मानं देवं विद्वा-न्गृहपतिर्भवत्यप स गृहपतिः पाप्मानं हतेऽप ते यजमानाः पाप्मानं घ्नतेऽध्वर्यो अरात्स्मारात्स्म॥5.25॥

उद्धराहवनीयमित्यपराह्ण आह यदेवाह्ना साधु करोति तदेव तत्प्राङुद्धृत्य तदभये निधत्त उद्धराहवनीयमिति प्रातराह यदेव रा त्र्?या साधु करोति तदेव तत्प्राङुद्धृत्य तदभये निधत्ते यज्ञो वा आहवनीयः स्वर्गो लोक आहवनीयो यज्ञ एव तत्स्वर्गे लोके स्वर्गं लोकं निधत्ते य एवं वेद यो वा अग्निहोत्रं वैश्वदेवं षोळशकलम्पशुषु प्रतिष्ठितं वेद वैश्वदेवेनाग्निहोत्रेण षोळशकलेन पशुषु प्रतिष्ठितेन राध्नोति रौद्रं गवि सद्वायव्यमुपावसृष्टमाश्विनं दुह्यमानं सौम्यं दुग्धं वारुणमधिश्रितम्पौष्णं समुदन्तम्मारुतं विष्यन्दमानं वैश्वदेवम्बिन्दुमन्मैत्रं शरोगृहीतं द्यावापृथिवीयमुद्वासितं सावित्रम्प्रक्रान्तं वैष्णवं ह्रियमाणम्बार्ह-स्पत्यमुपसन्नमग्नेः पूर्वाहुतिः प्रजापतेरुत्तरैन्द्रं हुतमेतद्वा अग्निहोत्रं वैश्वदेवं षो-ळशकलम्पशुषु प्रतिष्ठितं वैश्वदेवेनाग्निहोत्रेण षोळशकलेन पशुषु प्रतिष्ठितेन राध्नोति य एवं वेद॥5.26॥

यस्याग्निहो त्र्?युपावसृष्टा दुह्यमानोपविशेत्का तत्र प्रायश्चित्तिरिति तामभिमन्त्रयेत यस्माद्भीषा निषीदसि ततो नो अभयं क्रिधि पशून्नः सर्वान्गोपाय नमो रुद्र ?ाय मीळ्हुष इति तामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधातिन्द्राय क्रिण्वती भागम्मित्राय वरुणय चेत्यथास्या उदपात्रमूधसि च मुखे चोपगृह्णीयाद-थैनाम्ब्राह्मणाय दद्यात्सा तत्र प्रायश्चित्तिर्यस्याग्निहो त्र्?युपावसृष्टा दुह्यमाना वाश्येत का तत्र प्रायश्चित्तिरित्यशनायां ह वा एष यजमानस्य प्रतिख्याय वाश्यते तामन्नमप्यादयेच्छान्त्यै शान्तिर्वा अन्नं सूयवसाद्भगवती हि भूया इति सा तत्र प्रायश्चित्तिर्यस्याग्निहो त्र्?युपावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्तिरिति सा यत्तत्र स्कन्दयेत्तदभिमृश्य जपेद्यदद्य दुग्धम्पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः पयो गृहेषु पयो अघ्न्यायाम्पयो वत्सेषु पयो अस्तु तन्मायिति तत्र यत्परिशिष्टं स्यात्तेन जुहुयाद्यदलं होमाय स्याद्यद्यु वै सर्वं सिक्तं स्यादथान्यामाहूय तां दुग्ध्वा तेन जुहुयादा त्वेव श्रद्धायै होतव्यां सा तत्र प्रायश्चित्तिः सर्वं वा अस्य बर्हिष्यं सर्वम्परिगृहीतं य एवं विद्वानग्निहोत्रं जुहोति॥5.27॥

असौ वा अस्यादित्यो यूपः पृथिवी वेदिरोषधयो बर्हिर्वनस्पतय इध्मा आपः प्रोक्षण्यो दिशः परिधयो यद्ध वा अस्य किंच नश्यति यन्म्रियते यदपाजन्ति सर्वं हैवनं तदमुष्मिँ ल्लोके यथा बर्हिषि दत्तमागछेदेवमागछति य एवं विद्वानग्निहोत्रं जुहोत्युभयान्वा एष देवमनुष्यान्विपर्यासं दक्षिणा नयति सर्वं चेदं यदिदं किंच मनुष्यान्वा एष सायमाहुत्या देवेभ्यो दक्षिणा नयति सर्वं चेदं यदिदं किंच त एते प्रलीना न्योकस इव शेरे मनुष्या देवेभ्यो दक्षिणा नीता देवान्वा एष प्रातराहुत्या मनुष्येभ्यो दक्षिणा नयति सर्वं चेदं यदिदं किंच त एते विविदाना इवोत्पतन्त्यदोऽहं करिष्येऽदो हं गमिष्यामीति वदन्तो यावन्तं ह वै सर्वमिदं दत्त्वा लोकं जयति तावन्तं ह लोकं जयति य एवं विद्वानग्निहोत्रं जुहोत्यग्नये वा एष सायमाहुत्याश्विनमुपाकरोह् तद्वाक्प्रतिगृणाति वाग्-वागित्यग्निना हास्य रा त्र्?याश्विनं शस्तम्भवति य एवं विद्वानग्निहोत्रं जुहो-त्यादित्याया वा एष प्रातराहुत्या महाव्रतमुपाकरोति तत्प्राणः प्रतिगृणा-त्यन्नमन्नमित्यादित्येन हास्याह्ना महाव्रतं शस्तम्भवति य एवं विद्वानग्निहोत्रं जुहोति तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि विंशतिश्च संवत्सरे सायमाहुतयः सप्त चो एव शतानि विंशतिश्च संवत्सरे प्रातराहुत-यस्तावत्योऽग्नेर्यजुष्मत्य इष्टकाः संवत्सरेण हास्याग्निना चित्येनेष्टम्भवति य एवं विद्वानग्निहोत्रं जुहोति॥5.28॥

वृषशुष्मो ह वातावत उवाच जातूकर्ण्यो वक्तास्मो वा इदं देवेभ्यो यद्वैतदग्निहोत्रमुभयेद्युरहूयतान्येद्युर्वाव तदेतर्हि हूयत इति। एतदु हैवोवाच कुमारी गन्धर्वगृहीता वक्तास्मो वा इदं पितृभ्यो यद्वैतदग्निहोत्रमुभयेद्युरहूयतान्येद्युर्वाव तदेतर्हि हूयत इति। एतद्वा अग्निहोत्रमन्येद्युर्हूयते यदस्तमिते सायं जुहोत्यनुदिते प्रातरथैतदग्निहोत्रमुभयेद्युर्हूयते यदस्तमिते सायं जुहोत्युदिते प्रातः। तस्मादुदिते होतव्यम्। चतुर्विंशे ह वै संवत्सरेऽनुदितहोमी गायत्रीलोकमाप्नोति द्वादश उदितहोमी स यदा द्वौ संवत्सरावनुदिते जुहोत्यथ हास्यैको हुतो भवत्यथ य उदिते जुहोति संवत्सरेणैव संवत्सरमाप्नोति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यम्। एष ह वा अहोरात्रयोस्तेजसि जुहोति योऽस्तमिते सायं जुहोत्युदिते प्रातरग्निना वै तेजसा रात्रिस्तेजस्वत्यादित्येन तेजसाऽहस्तेजस्वत्। अहोरात्रयोर्हास्य तेजसि हुतं भवति य एवं विद्वानुदिते जुहोति। तस्मादुदिते होतव्यम्॥5.29॥ (25.4) (182)

एते ह वै संवत्सरस्य चक्रे यदहोरात्रे ताभ्यामेव तत्संवत्सरमेति स योऽनुदिते जुहोति यथैकतश्चक्रेण यायात्तादृक्तदथ य उदिते जुहोति यथोभयतश्चक्रेण यान्क्षिप्रमध्वानं समश्न्वीत तादृक्तत्तदेषाभि यज्ञगाथा गीयते बृहद्र थंतरा-भ्यामिदमेति युक्तं यद्भूतं भविष्यच्चापि सर्वं ताभ्यामियादग्नीनाधाय धीरो दिवैवान्यज्जुहुयान्नक्तमन्यद् इति राथम्तरी वै रा त्र्?यहर्बार्हतमग्निर्कै रथंतरमा-दित्यो बृहदेते ह वा एनं देवते ब्रध्नस्य विष्टपं स्वर्गं लोकं गमयतो य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यं तदेषाभि यज्ञगाथा गीयते यथा ह वा स्थूरिणैकेन यायादकृत्वान्यदुपयोजनाय एवं यन्ति ते बहवो जनासः पुरोदयाज्जुह्वति येऽग्निहोत्रम् इति तां वा एतां देवताम्प्रयतीं सर्वमिदमनुप्रैति यदिदं किंचैतस्यै हीदं देवताया अनुचरं सर्वं यदिदं किंच सैषानुचरवती देवता विन्दते ह वा अनुचरम्भवत्यस्यानुचरो य एवं वेद स वा एष एकातिथिः स एष जुह्वत्सु वसति। तद्यददो गाथा भवति।अनेनसमेनसा सोऽभिशस्तादेनस्वतो वाऽपहरादेनः। एकातिथिमप सायं रुणद्धि, बिसानि स्तेनो ्प सो जहारेति। एष ह वै स एकातिथिः, स एष जुह्वत्सु वसत्येतां वाव स देवतामपरुणद्धि, योऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति, तमेषा देवताऽपरुद्धाऽपरुणद्ध्यस्माच्च लोकादमुष्माच्चोभाभ्यां योऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति। तस्माद्योऽलमग्निहोत्राय स्याज्जुहुयात्। तस्मादाहुर्न सायमतिथिरपरुध्य इति। एतद्ध स्म वै तद् विद्वान् नगरी जानश्रुतेय उदितहोमिनमैकादशाक्षं मानुतन्तव्यमुवाच – प्रजायामेनं विज्ञातास्मो यदि विद्वान् वा जुहोत्यविद्वान् वेति, तस्यो हैकादशाक्षे राष्ट्रमिव प्रजा बभूव, राष्ट्रमिव ह वा अस्य प्रजा भवति, य एवं विद्वानुदिते जुहोति, तस्मादुतिते होतव्यम्॥5.30॥

उद्यन्नु खलु वा आदित्य आहवनीयेन रश्मीन् संदधाति, स योऽनुदिते जुहोति, यथा कुमाराय वा वत्साय वाऽजाताय स्तनं प्रतिदध्यात्तादृक्तदथ य उदिते जुहोति, यथा कुमाराय वा वत्साय वा जाताय स्तनं प्रतिदध्यात् तादृक्तत्, तमस्मै प्रतिधीयमानमुभयोर्लोकयोरन्नाद्यमनु प्रतिधीयतेऽस्माच्च लोकादमुष्माच्चोभाभ्याम्। स योऽनुदिते जुहोति, यथा पुरुषाय वा हस्तिने वाऽप्रयते हस्त आदध्यात् तादृक्तदथ य उदिते जुहोति, यथा पुरुषाय वा हस्तिने वा प्रयते हस्त आदध्यात् तादृक्तत्, तमेष एतेनैव हस्तेनोर्ध्वं हृत्वा स्वर्गे लोक आदधाति, य एवं विद्वानुदिते जुहोति, तस्मादुदिते होतव्यम्॥ उद्यन्नु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति, तस्मादेनं प्राण इत्याचक्षते प्राणे हास्य सम्प्रति हुतम्भवति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यमेष ह वै सत्यं वदन्सत्ये जुहोति योऽस्तमिते सायं जुहोत्युदिते प्रातर्भूर्भुवः स्वरोमग्निर्ज्योतिर्ज्योतिरग्निरिति सायं जुहोति भूर्भुवः स्वरों सूर्यो ज्योतिर्ज्योतिः सूर्य इति प्रातः सत्यं हास्य वदतः सत्ये हुतम्भवति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यं तदेषाभि यज्ञगाथा गीयते प्रातःप्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्दिवाकीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषामिति॥5.31॥

प्रजापतिरकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमाँल्लोकानसृजत पृथिवीमन्तरिक्षं दिवं ताँल्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रीणि ज्योतींष्यजायन्ताग्निरेव पृथिव्या अजायत वायुरन्तरिक्षादादित्यो दिवस्तानि ज्योतींष्यभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वेदा अजायन्त ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात्तान्वेदानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रीणि शुक्राण्यजायन्त भूरित्येव ऋग्वेदादजायत भुव इति यजुर्वेदात्स्वरिति सामवेदात्। तानि शुक्राण्यभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति तानेकधा समभरत्तदेतदोमिति तस्मादोमिति प्रणौत्योमिति वै स्वर्गो लोक ओमित्यसौ योऽसौ तपति। स प्रजापतिर्यज्ञमतनुत तमाहरत्तेनायजत स ऋचैव हौत्रमकरोद्यजुषाऽऽध्वर्यवं साम्नोद्गीथं तदेतत्त्रय्यैव विद्यायै शुक्रं तेन ब्रह्मत्वमकरोत्। स प्रजापतिर्यज्ञं देवेभ्यः संप्रायच्छत्ते देवा यज्ञमतन्वत तमाहरन्त तेनायजन्त त ऋचैव हौत्रमकुर्वन्यजुषाऽऽध्वर्यवं साम्नोद्गीथं यदेवैतत्त्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वमकुर्वन्। ते देवा अब्रुवन्प्रजापतिं यदि नो यज्ञ ऋक्त आर्तिः स्याद्यदि यजुष्टो यदि सामतो यद्यविज्ञाता सर्वव्यापद्वा का प्रायश्चित्तिरिति स प्रजापतिरब्रवीद्देवान्यदि वो यज्ञ ऋक्त आर्तिर्भवति भूरिति गार्हपत्ये जुहवाथ यदि यजुष्टो भुव इत्याग्नीध्रीयेऽन्वाहार्यपचने वा हविर्यज्ञेषु यदि सामतः स्वरित्याहवनीये यद्यविज्ञाता सर्वव्यापद्वा भूर्भुवः स्वरिति सर्वा अनुद्रुत्याऽऽहवनीय एव जुहवाथेति। एतानि ह वै वेदानामन्तःश्लेषणानि यदेता व्याहृतयस्तद्यथाऽऽत्मनाऽऽत्मानं संदध्याद्यथा पर्वणा पर्व यथा श्लेष्मणा चर्मण्यं वाऽन्यद्वा विश्लिष्टं संश्लेषयेदेवमेवैताभिर्यज्ञस्य विश्लिष्टं संदधाति सैषा सर्वप्रायश्चित्तिर्यदेता व्याहृतयस्तस्मादेषैव यज्ञे प्रायश्चित्तिः कर्तव्या॥5.32॥ (25.7) (185)

तदाहुर्महावदा३ः, यदृचैव हौत्रं क्रियते यजुषाऽऽध्वर्यवं साम्नोद्गीथं व्यारब्धा त्रयी विद्या भवत्यथ केन ब्रह्मत्वं क्रियत इति त्रय्या विद्ययेति ब्रूयात्। अयं वै यज्ञो योऽयं पवते तस्य वाक्च मनश्च वर्तन्यौ वाचा च हि मनसा च यज्ञो वर्तत इयं वै वागदोमनस्तद्वाचा त्रय्या विद्ययैकं पक्षं संस्कुर्वन्ति मनसैव ब्रह्मा संस्करोति। ते हैके ब्रह्माण उपाकृते प्रातरनुवाके स्तोमभागाञ्जपित्वा भाषमाणा उपासते तद्धैतदुवाच ब्राह्मण उपाकृते प्रातरनुवाके ब्रह्माणं भाषमाणं दृष्ट्वाऽर्धमस्य यज्ञस्यान्तरगुरिति तद्यथैकपात्पुरुषो यन्नेकतश्चक्रो वा रथो वर्तमानो भ्रेषं न्येत्येवमेव स यज्ञो भ्रेषं न्येति यज्ञस्य भ्रेषमनु यजमानो भ्रेषं न्येति। तस्माद्ब्रह्मोपाकृते प्रातरनुवाके वाचंयमः स्यादोपांश्वन्तर्यामयोर्होमादुपाकृतेषु पवमानेष्वोदृचोऽथ यानि स्तोत्राणि सशस्त्राण्या तेषां वषट्काराद्वाचंयम एव स्यात्तद्यथोभयतः पात्पुरुषो यन्नुभयतश्चक्रो वा रथो वर्तमानो न रिष्यत्येवमेव स यज्ञो न रिष्यति यज्ञस्यारिष्टिमनु यजमानो न रिष्यति॥5.33॥ (25.8) (186)

तदाहुर्यद्ग्रहान्मेऽग्रहीत्प्राचारीन्म आहुतीर्मेऽहौषीदित्यध्वर्यवे दक्षिणा नीयन्त उदगासीन्म इत्युद्गात्रेऽन्ववोचन्मेऽशंसीन्मेऽयाक्षीन्म इति होत्रे किं स्विदेव चक्रुषे ब्रह्मणे दक्षिणा नीयन्तेऽकृत्वाहो स्विदेव हरन्ता इति यज्ञस्य हैष भिषग्यद्ब्रह्मा यज्ञायैव तद्भेषजं कृत्वा हरत्यथो यद्भूयिष्ठेनैव ब्रह्मणा छन्दसां रसेनार्त्विज्यं करोति यद्ब्रह्मा तस्माद्ब्रह्मार्धभाग्घ वा एष इतरेषामृत्विजामग्र आस यद्ब्रह्मार्धमेव ब्रह्मण आसार्धमितरेषामृत्विजां तस्माद्यदि यज्ञ ऋक्त आर्तिः स्याद्यदि यजुष्टो यदि सामतो यद्यविज्ञाता सर्वव्यापद्वा ब्रह्मण एव निवेदयन्ते तस्माद्यदि यज्ञ ऋक्त आर्तिर्भवति भूरिति ब्रह्मा गार्हपत्ये जुहुयाद्यदि यजुष्टो भुव इत्याग्नीध्रीयेऽन्वाहार्यपचने वा हविर्यज्ञेषु यदि सामतः स्वरित्याहवनीये यद्यविज्ञाता सर्वव्यापद्वा भूर्भुवः स्वरिति सर्वा अनुद्रु-त्याहवनीय एव जुहुयत्स प्रस्तोतोपाकृते स्तोत्र आह ब्रह्मन्स्तोष्यामः प्रशा-स्तरिति स भूरिति ब्रह्मा प्रातःसवने ब्रूयादिन्द्र वन्तः स्तुध्वमिति भुव इति माध्यंदिने सवने ब्रूयादिन्द्र वन्तः स्तुध्वमिति स्वरिति तृतीयसवने ब्रूयादि-न्द्र वन्तः स्तुध्वमिति भूर्भुवः स्वरित्युक्थे वातिरात्रे वा ब्रूयादिन्द्र वन्तः स्तुध्वमिति स यदाहेन्द्र वन्तः स्तुध्वमित्यैन्द्रो वै यज्ञ इन्द्रो यज्ञस्य देवता सेन्द्र मेव तदुद्गीथं करोतीन्द्रान्मा गादिन्द्र वन्तः स्तुध्वमिति एवैनांस्तदाह तदाह॥5.34॥

देवा ह वै सर्वचरौ सत्रं निषेदुस्ते ह पाप्मानं नापजघ्निरे तान्होवाचार्बुदः काद्रवेयः सर्प ऋषिर्मन्त्रकृदेका वै वो होत्राऽकृता तां वोऽहं करवाण्यथ पाप्मानमपहनिष्यध्व इति ते ह तथेत्यूचुस्तेषां ह स्म स मध्यंदिने मध्यंदिन एवोपोदासर्पद्ग्राव्णोऽभिष्टौति। तस्मान्मध्यंदिने मध्यंदिन एव ग्राव्णोऽभिष्टुवन्ति तदनुकृति। स ह स्म येनोपोदासर्पत्तद्धाप्येतर्ह्यर्बुदोदासर्पणी नाम प्रपदस्ति। तान्ह राजा मदयांचकार ते होचुराशीविषो वै नो राजानमवेक्षते हन्तास्योष्णीषेणाक्ष्यावपिनह्यामेति तथेति तस्य होष्णीषेणाक्ष्यावपिनह्युस्तस्मादुष्णीषमेव पर्यस्य ग्राव्णोऽभिष्टुवन्ति तदनुकृति। तान्ह राजा मदयामेव चकार ते होचुः स्वेन वै नो मन्त्रेण ग्राव्णोऽभिष्टौति हन्तास्यान्याभिर्ऋग्भिर्मन्त्रमापृणचामेति तथेति तस्य हान्याभिर्ऋग्भिर्मन्त्रमापपृचुस्ततो हैनान्न मदयांचकार तद्यदस्यान्याभिर्ऋग्भिर्मन्त्रमापृञ्चन्ति शान्त्या एव। ते ह पाप्मानपजघ्निरे तेषामन्वपहतिं सर्पाः पाप्मानमपजघ्निरे त एतेऽपहतपाप्मानो हित्वा पूर्वां जीर्णां त्वचं नवयैव प्रयन्ति। अप पाप्मानं हते य एवं वेद॥6.1॥ (26.1) (188)

तदाहुः कियतीभिरभिष्टुयादिति शतेनेत्याहुः शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय आयुष्येवैनं तद्वीर्य इन्द्रियं दधाति। त्रयस्त्रिंशत्या वेत्याहुस्त्रयस्त्रिंशतो वै स देवानां पाप्मनोऽपाहंस्त्रयस्त्रिंशद्वै तस्य देवा इति। अपरिमिताभिरभिष्टुयादपरिमितो वै प्रजापतिः प्रजापतेर्वा एषा होत्रा यद्ग्रावस्तोत्रीया तस्यां सर्वे कामा अवरुध्यन्ते स यदपरिमिताभिरभिष्टौति सर्वेषां कामानामवरुद्ध्यै। सर्वान्कामानवरुन्धे य एवं वेद। तस्मादपरिमिताभिरेवाभिष्टुयात्। तदाहुः कथमभिष्टुयादित्यक्षरशा३ः , चतुरक्षरशा३ः, पच्छा३ः, अर्धर्चशा३ः, ऋक्शा३ः, इति तद्यदृक्शो न तदवकल्पतेऽथ यत्पच्छो नो एव तदवकल्पतेऽथ यदक्षरशश्चतुरक्षरशो वि तथा छन्दांसि लुप्येरन्बहूनि तथाऽक्षराणि हीयेरन्नर्धर्चश एवाभिष्टुयात्प्रतिष्ठाया एव। द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति तस्मादर्धर्चश एवाभिष्टुयात्। तदाहुर्यन्मध्यंदिने मध्यंदिन एव ग्राव्णोऽभिष्टौति कथमस्येतरयोः सवनयोरभिष्टुतं भवतीति यदेव गायत्रीभिरभिष्टौति गायत्रं वै प्रातःसवनं तेन प्रातःसवनेऽथ यज्जगतीभिरभिष्टौति जागतं वै तृतीयसवनं तेन तृतीयसवने। एवमु हास्य मध्यंदिने मध्यंदिन एव ग्राव्णोऽभिष्टुवतः सर्वेषु सवनेष्वभिष्टुतं भवति य एवं वेद। तदाहुर्यदध्वर्युरेवान्यानृत्विजः संप्रेष्यत्थकस्मादेष एतामसंप्रेषितः प्रतिपद्यत इति मनो वै ग्रावस्तोत्रीयाऽसंप्रेषितं वा इदं मनस्तस्मादेष एतामसंप्रेषितः प्रतिपद्यते॥6.2॥ (26.2) (189)

वाग्वै सुब्रह्मण्या तस्यै सोमो राजा वत्सः सोमे राजनि क्रीते सुब्रह्मण्यामाह्वयन्ति यथा धेनुमुपह्वयेत्तेन वत्सेन यजमानाय सर्वान्कामान्दुहे। सर्वान्हास्मै कामान्वाग्दुहे य एवं वेद। तदाहुः किं सुब्रह्मण्यायै सुब्रह्मण्यात्वमिति वागेवेति ब्रूयाद्वाग्वै ब्रह्म च सुब्रह्म चेति। तदाहुरथ कस्मादेनं पुमांसं सन्तं स्त्रीमिवाऽऽचक्षत इति वाग्घि सुब्रह्मण्येति ब्रूयात्तेनेति। तदाहुर्यदन्तर्वेदीतर ऋत्विज आर्त्विज्यं कुर्वन्ति बहिर्वेदि सुब्रह्मण्या कथमस्यान्तर्वेद्यार्त्विज्यं कृतं भवतीति वेदेर्वा उत्करमुत्किरन्ति यदेवोत्करे तिष्ठन्नाह्वयतीति ब्रूयात्तेनेति। तदाहुरथ कस्मादुत्करे तिष्ठन्सुब्रह्मण्यामाह्वयतीत्यृषयो वै सत्रमासत तेषां यो वर्षिष्ठ आसीत्तमब्रुवन्सुब्रह्मण्यामाह्वय त्वं नो नेदिष्ठाद्देवान्ह्वयिष्यसीति वर्षिष्ठमेवैनं तत्कुर्वन्त्यथो वेदिमेव तत्सर्वां प्रीणाति। तदाहुः कस्मादस्मा ऋषभं दक्षिणामभ्याजन्तीति वृषा वा ऋषभो योषा सुब्रह्मण्या तन्मिथुनं तस्य मिथुनस्य प्रजात्या इति। उपांशु पात्नीवतस्याऽऽग्नीध्रो यजति रेतो वै पात्नीवत उपांश्विव वै रेतसः सिक्तिः। नानुवषट्करोति संस्था वा एषा यदनुवषट्कारो नेद्रेतः संस्थापयानीत्यसंस्थितं वै रेतसः समृद्धं तस्मान्नानुवषट्करोति। नेष्टुरुपस्थ आसीनो भक्षयति पत्नीभाजनं वै नेष्टाऽग्निः पत्नीषु रेतो दधाति प्रजात्या अग्निनैवं तत्पत्नीषु रेतो दधाति प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद। दक्षिणा अनु सुब्रह्मण्या संतिष्ठते वाग्वै सुब्रह्मण्याऽन्नं दक्षिणाऽन्नाद्य एव तद्वाचि यज्ञमन्ततः प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति॥6.3॥ (26.3) (190)

देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति तान्दक्षिणत उपायन्यत एषां यज्ञस्य तनिष्ठममन्यन्त ते देवाः प्रतिबुध्य मित्रावरुणौ दक्षिणतः पर्यौहंस्ते मित्रावरुणाभ्यामेव दक्षिणतः प्रातःसव-नेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना मित्रावरुणाभ्यामेव दक्षिणतः प्रातः-सवनेऽसुररक्षंस्यपघ्नते तस्मान्मैत्रावरुणम्मैत्रावरुणः प्रातःसवने शंसति मित्रा-वरुणाभ्यां हि देवा दक्षिणतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत ते वै दक्षिण-तोऽपहता असुरा मध्यतो यज्ञम्प्राविशंस्ते देवाः प्रतिबुध्येन्द्र म्मध्यतोऽदधुस्त इन्द्रे णैव मध्यतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना इन्द्रे णैव मध्य-तः प्रातःसवनेऽसुररक्षांस्यपघ्नते तस्मादैन्द्र म्ब्राह्मणाच्छंसी प्रातःसवने शं-सतीन्द्रे ण हि देवा मध्यतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत ते वै मध्यतोऽपहता असुरा उत्तरतो यज्ञम्प्राविशंस्ते देवाः प्रतिबुध्येन्द्राग्नी उत्तरतः पर्यौहंस्त इन्द्राग्निभ्यां एवोत्तरतः प्रातःसवनेऽसुरराक्षांस्यपाघ्नत तथैवैतद्यजमाना इन्द्रा-ग्निभ्यामेवोत्तरतः प्रातःसवनेऽसुररक्षांस्यपघ्नते तस्मादैन्द्राग्नमच्छावाकः प्रातः-सवने शंसतीन्द्राग्निभ्यां हि देवा उत्तरतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत ते वा उत्तरतोऽपहता असुराः पुरस्तात्पर्यद्र वन्समनीकतस्ते देवाः प्रतिबुध्याग्नि-म्पुरस्तात्प्रातःसवने पर्यौहंस्तेऽग्निनैव पुरस्तात्प्रातःसवनेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना अग्निनैव पुरस्तात्प्रातःसवनेऽसुररक्षांस्यपघ्नते तस्मादाग्नेय-म्प्रातःसवनमप पाप्मानं हते य एवं वेद ते वै पुरस्तादपहता असुराः पश्चात्परीत्य प्राविशंस्ते देवाः प्रतिबुध्य विश्वान्देवानात्मानं पश्चात्तृतीयसवने पर्यौहंस्ते विश्वैरेव देवैरात्मभिः पश्चात्तृतीयसवनेऽसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना विश्वैरेव देवैरात्मभिः पश्चात्तृतीयसवनेऽसुररक्षांस्यपघ्नते तस्माद्वैश्वदेवं तृतीय-सवनमप पाप्मानं हते य एवं वेद ते वै देवा असुरानेवमपाघ्नत सर्वस्मादेव यज्ञात्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद ते देवा एवं क्लृप्तेन यज्ञेनापासुरान्पाप्मानमघ्नताजयन्स्वर्गं लोकमप ह वै द्विषन्तम्पाप्मानम्भ्रातृव्यं हते जयति स्वर्गं लोकं य एवं वेद यश्चैवं विद्वान् सवनानि कल्पयति॥6.4॥ (27.1) (191)

स्तोत्रियं स्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवनेऽहरेव तदह्नोऽनुरूपं कुर्वन्त्यवरेणैव तदह्ना परमहरभ्यारभन्ते। अथ तथा न मध्यंदिने श्रीर्वै पृष्ठानि तानि तस्मै न तत्स्थानानि यत्स्तोत्रियं स्तोत्रियस्यानुरूपं कुर्युः। तयैव विभक्त्या तृतीसवने न स्तोत्रियं स्तोत्रियस्यानुरूपं कुर्वन्ति॥6.5॥ (27.2) (192)

अथात आरम्भणीया एव ऋजुनीती नो वरुण इति मैत्रावरुणस्य मित्रो नयतु विद्वानिति प्रणेता वा एष होत्रकाणां यन्मैत्रावरुणस्तस्मादेषा प्रणेतृमती भवतीन्द्रं वो विश्वतस्परीति ब्राह्मणाच्छंसिनो हवामहे जनेभ्य इतीन्द्र मेवैतयाहरहार्निह्वयन्ते न हैषां विहवेऽन्य इन्द्रं वृङ्क्ते यत्रैवं विद्वान्ब्राह्मणा-च्छंस्येतामहरहः शंसति यत्सोम आ सुते नर इत्यच्छावाकस्येन्द्राग्नी अजो-हवुरितीन्द्राग्नी एवैतयाहरहर्निह्वयन्ते न हैषां विहवेऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवं विद्वानच्छावाक एतामहरहः शंसति ता वा एताः स्वर्गस्य लोकस्य नावः संपारिण्यः स्वर्गमेवैताभिर्लोकमभि संतरन्ति॥6.6॥ (27.3) (193)

अथातः परिधानीया एव ते स्याम देव वरुणेति मैत्रावरुणस्येषं स्वश्च धीमहीत्ययं वै लोक इषमित्यसौ लोकः स्वरित्युभावेवैतया लोकावारभन्ते व्यन्तरिक्षमतिरदिति ब्राह्मनाच्छंसिनो विवत्तृचं स्वर्गमेवैभ्य एताय लोकं विवृणोति मदे सोमस्य रोचना इन्द्रो यदभिनद्वलमिति सिषासवो वा एते यद्दीक्षितास्तस्मादेषा वलवती भवत्युद्गा आजदङ्गिरोभ्य आविस्ः कृण्वन्गुहा सतीः अर्वाञ्चं नुनुदे वलमिति सनिमेवैभ्य एतयावरुन्द्ध इन्द्रे ण रोचना दिव इति स्वर्गो वै लोक इन्द्रे ण रोचना दिवो दृळ्हानि दृंहितानि च स्थिराणि न पराणुद इति स्वर्ग एवैतया लोकेऽहरहः प्रतितिष्ठन्तो यन्त्याहं सरस्वती-वतोरित्यच्छावाकस्य वाग्वै सरस्वती वाग्वतोरिति हैतदाहेन्द्राग्न्योरवो वृण इत्येतद्ध वा इन्द्राग्न्योः प्रियं धाम यद्वागिति प्रियेणैवैनौ तद्धाम्ना समर्धयति प्रियेण धाम्ना समृध्यते य एवं वेद॥6.7॥ (27.4)

उभय्यः परिधानीया भवन्ति होत्रकाणां प्रातःसवने च माध्यंदिने चाहीनाश्चैकाहिकाश्च। तत ऐकाहिकाभिरेव मैत्रावरुणः परिदधाति तेनास्माल्लोकान्न प्रच्यवते। अहीनाभिरच्छावाकः स्वर्गस्य लोकस्याऽऽप्त्यै। उभयीभिर्ब्राह्मणाच्छंसी तेनो स उभौ व्यन्वारभमाण एतीमं चामुं च लोकमथो मैत्रावरुणं चाच्छावाकं चाथो अहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चैवमु स उभौ व्यन्वारभमाण एति। अथ तत ऐकाहिका एव तृतीयसवने होत्रकाणां परिधानीया भवन्ति प्रतिष्ठा वा एकाहः प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयन्ति। अनवानं प्रातःसवने यजेत्। एकां द्वे न स्तोममतिशंसेत्तद्यथाऽभिहेषते पिपासते क्षिप्रं प्रयच्छेत्तादृक्तदथो क्षिप्रं देवेभ्योऽन्नाद्यं सोमपीथं प्रयच्छानीति क्षिप्रं हास्मिँल्लोके प्रतितिष्ठति। अपरिमिताभिरुत्तरयोः सवनयोरपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याऽऽप्त्यै। कामं तद्धोता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुर्यद्वा होता तद्धोत्रकाः प्राणो वै होताऽङ्गानि होत्रकाः समानो वा अयं प्राणोऽङ्गान्यनुसंचरति तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुर्यद्वा होता तद्धोत्रकाः। सूक्तान्तैर्होता परिदधदेत्यथ समान्य एव तृतीयसवने होत्रकाणां परिधानीया भवन्त्यात्मा वै होताऽङ्गानि होत्रकाः समाना वा इमेऽङ्गानामन्तास्तस्मात्समान्य एव तृतीयसवने होत्रकाणां परिधानीया भवन्ति भवन्ति॥6.8॥ (27.5) (195)

आ त्वा वहन्तु हरय इति प्रातःसवन उन्नीयमानेभ्योऽन्वाह वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धा ऐन्द्र ?ीरन्वाहैन्द्रो वै यज्ञो गायत्रीरन्वाह गायत्रं वै प्रातःसवनं नव न्यूनाः प्रातःसवनेऽन्वाह न्यूने वै रेतः सिच्यते दश मध्यंदिनेऽन्वाह न्यूने वै रेतः सिक्तम्मध्यं स्त्रियै प्राप्य स्थविष्ठम्भवति नव न्यूनास्तृतीयसवनेऽन्वाह न्यूनाद्वै प्रजाः प्रजायन्ते तद्यदेतानि केवलसूक्ता-न्यन्वाह यजमानमेव तद्गर्भम्भूतम्प्रजनयति यज्ञाद्देवयोन्यै ते हैके सप्तसप्ता-न्वाहुः सप्त प्रातःसवने सप्त माध्यंदिने सप्त तृतीयसवने यावत्यो वै पुरोनुवाक्यास्तावत्यो याज्याः सप्त वै प्राञ्चो यजन्ति सप्त वषट्कुर्वन्ति तासा-मेताः पुरोन्न्वाक्या इति वदन्तस्तत्तथा न कुर्याद्यजमानस्य ह ते रेतो विलु-म्पन्त्यथो यजमानमेव यजमानो हि सूक्तं नवभिर्वा एतम्मैत्रावरुणोऽस्मा-ल्लोकादन्तरिक्षलोकमभि प्रवहति दशभिरन्तरिक्षलोकादमुं लोकमभ्यन्तरि-क्षलोको हि ज्येष्ठोऽनवभिरमुष्माल्लोकात्स्वर्गं लोकमभि न ह वै ते यजमानां स्वर्गं लोकमभि वोळ्हुमर्हन्ति ये सप्तसप्तान्वाहुस्तस्मात्केवलश एव सूक्तान्यनुब्रूयात्॥6.9॥ (28.1)

अथाह यदैन्द्रो वै यज्ञोऽथ कस्माद्द्वादेव प्रातःसवने प्रस्थितानाम्प्रत्य-क्षादैन्द्र ?ीभ्यां यजतो होता चैव ब्राह्मणाच्चः?ि चेदं ते सोम्यम्मध्विति होता यजतीन्द्र त्वा वृषभं वयं इति ब्राह्मणाच्छंसी नानादे अत्याभिरितरे कथं तेषामैन्द्र् यो भवन्तीति मित्रं वयं हवामह इति मैत्रावरुणो यजति वरुणं सोमपीतय इति यद्वै किंच पीतवत्पदं तदैन्द्रं रूपं तेनेन्द्र म्प्रीणाति मरुतो यस्य हि क्षय इति पोता यजति स सुगोपातमो जन इतीन्द्रो वै गोपास्तदैन्द्रं रूपंतेनेन्द्र म्प्रीणात्यग्ने पत्नीरिहा वहेति नेष्टा यजति त्वष्टारं सोमपीतय इतीन्द्रो वै त्वष्टा तदैन्द्रं रूपं तेनेन्द्र म्प्रीणात्युक्षान्नाय वशान्नायेत्याग्नीध्रो याजति सोमपृष्ठाय वेधस इतीन्द्रो वै वेधस्तदैन्द्रं रूपं तेनेन्द्र म्प्रीणति प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू इन्द्राग्नी सोमपीतय इति स्वयंसमृद्धाच्छावाकास्यैवमु हैता ऐन्द्र् यो भवन्ति यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति यदु गाय त्र्?यस्तेनाग्नेय्यः॥ एतदु हैताभिस्त्रयमुपाप्नोति॥6.10॥ (28.2)

असावि देवं गोऋजीकमन्ध इति मध्यंदिन उन्नीयमानेभ्योऽन्वाह वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धा ऐन्द्र ?ीरन्वाहैन्द्रो वै यज्ञस्त्रिष्टुभोऽन्वाह त्रैष्टुभम्वै माध्यंदिनं सवनं तदाहुर्यत्तृतीयसवनस्यैव रूपम्मद्वदथ कस्मा-न्मध्यंदिने मद्वतीरनु चाह यजन्ति चाभिरिति माद्यन्तीव वै मध्यंदिने देवताः समेव तृतीयसवने मादयन्ते तस्मान्मध्यंदिने मद्वतीरनु चाह यजन्ति चाभिस्ते वै खलु सर्व एव माध्यंदिने प्रस्थितानाम्प्रत्यक्षादैन्द्र ?ीभिर्यजन्त्यभितृण्णव-तीभिरेके पिबा सोममभि यमुग्र तर्द इति होता यजति स ईम्पाहि य ऋजीषी तरुत्र इति मैत्रावरुणो यजत्येवा पाहि प्रत्नथा मन्दतु त्वेति ब्राह्मणाच्छंसी यजत्यर्वाङेहि सोमकामं त्वाहुरिति पोता यजति तवायं सोमस्त्वमेह्यर्वाङिति नेष्टा यजतीन्द्र य सोमाः प्रदिवो विदाना इत्यच्छावाको यजत्यापूर्णो अस्य कलशः स्वाहेत्याग्नीध्रो यजति तासामेता अभितृण्णवत्यो भवन्तीन्द्रो वै प्रातःसवने न व्यजयत स एताभिरेव माध्यंदिनं सवनमभ्यतृणद्यदभ्यतृणत्, तस्मादेता अभितृण्णवत्यो भवन्ति॥6.11॥ (28.3) (198)

”इहोप यात शवसो नपात इति तृतीयसवन उन्नीयमानेभ्योऽन्वाह वृषण्वतीः पीतवतीः सुतवतीर्मद्वती रूपसमृद्धास्ता ऐन्द्रार्भव्यो भवन्ति तदाहुर्यन्नार्भवीषु स्तुवतेऽथ कस्मादार्भवः पवमान इत्याचक्षत इति प्रजापतिर्वै पित ऋभू-न्मर्त्यान्सतोऽमर्त्यान्कृत्वा तृतीयसवन आभजत्तस्मान्नार्भवीषु स्तुवतेऽथार्भवः पवमान इत्याचक्षतेऽथाह यद्यथाछन्दसम्पूर्वयोः सवनयोरन्वाह गायत्रीः प्रातःसवने त्रिष्टुभो माध्यंदिनेऽथ कस्माज्जागते सति तृतीयसवने त्रिष्टुभो-ऽन्वाहेति धीतरसं वै तृतीयसवनमथैतदधीतरसं शुक्रियं छन्दो यत्त्रिष्टुप्स-वनस्य सरसताया इति ब्रूयादथो इन्द्रं एवैतत्सवनेऽन्वाभजतीत्यथाह यदैन्द्रार्भवं वै तृतीयसवनमथ कस्मादेष एव तृतीयसवने प्रस्थिताना-म्प्रत्यक्षादैन्द्रार्भव्या यजतीन्द्र ऋभुभिर्वाजवद्भिः समुक्षितमिति होतैव नाना-देवत्याभिरितरे कथं तेषामैन्द्रार्भव्यो भवन्तीतीन्द्रावरुणा सुतपाविमं सुतमिति मैत्रावरुणो यजति युवो रथो अध्वरं देववीतय इति बहूनि वह तदृभूणाम्रूपमिन्द्र श्च सोमम्पिबतम्बृहस्पत इति ब्राह्मणाच्छंसी यजत्या वां विशन्त्विन्दवः स्वाभुव इति बहूनि वाह तदृभूणां रूपमा वो वहन्तु सप्तयो रघुष्यद इति पोता यजति रघुपत्वानः प्र जिगात बाहुभिरिति बहूनि वह तदृभूणां रूपममेव नः सुहवा आ हि गन्तनेति नेष्टा यजति गन्तनेति बहूनि वाह तदृभूणां रूपमिन्द्राविष्णू पिबतम्मध्वो अस्येत्यच्छावाको यजत्या वामन्धांसि मदि-राण्यग्मन्निति बहूनि वाह तदृभूणां रूपमिमं स्तोममर्हते जातवेदस इत्याग्नीध्रो यजति रथमिव सम्महेमा मनीषयेति बहूनि वाह तदृभूणां रूपमेवमु हैता ऐन्द्रार्भव्यो भवन्ति यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति यदु जगत्प्रासाहा जागतं वै तृतीयसवनं तृतीयसवनस्यैव समृद्ध्यै॥6.12॥ (28.4)

अथाऽऽह यदुक्थिन्योऽन्या होत्रा अनुक्था अन्याः कथमस्यैता उक्थिन्यः सर्वाः समाः समृद्धा भवन्तीति. यदेवैनाः संप्रगीर्य होत्रा इत्याचक्षते तेन समाः। यदुक्थिन्योऽन्या होत्रा अनुक्था अन्यास्तेनो विषमाः। एवमु हास्यैता उक्थिन्यः सर्वाः समाः समृद्धा भवन्ति। अथाऽऽह शंसन्ति प्रातःसवने शंसन्ति माध्यंदिने होत्रकाः कथमेषां तृतीयसवने शस्तं भवतीति। यदेव माध्यंदिने द्वे द्वे सूक्ते शंसन्तीति ब्रूयात्तेनेति। अथाऽऽह यद्द्व्युक्थो होता कथं होत्रका द्व्युक्था भवन्तीति। यदेव द्विदेवत्याभिर्यजन्तीति ब्रूयात्तेनेति॥6.13॥ (28.5) (100)

अथाऽऽह यदेतास्तिस्र उक्थिन्यो होत्राः कथमितरा उक्थिन्यो भवन्तीत्याज्य-मेवाग्नीध्रीयाया उक्थम्मरुत्वतीयम्पोत्रीयायै वैश्वदेवं नेष्ट्रीयायै ता वा एता होत्रा एवंन्यङ्गा एव भवन्त्यथाह यदेकप्रैषा अन्ये होत्रका अथ कस्माद्द्विप्रैषः पोता द्विप्रैषो नेष्टेति यत्रादो गायत्री सुपर्णो भूत्वा सोममाहरत्तदेतासां होत्राणामिन्द्र उक्थानि परिलुप्य होत्रे प्रददौ यूयम्माभ्यह्वयध्वं यूयमस्यावेदिष्टेति ते होचुर्देवा वाचेमे होत्रे प्रभावयामेति तस्मात्ते द्विप्रैषे भवत ऋचाग्नीध्रीयाम्प्रभावयां चक्रुस्तस्मात्तस्यैकयर्चा भूयस्यो याज्या भवन्त्यथाह यद्धोता यक्षद्धोता यक्षदिति मैत्रावरुनो होत्रे प्रेष्यत्यथ कस्मादहोतृभ्यः सद्भ्यो होत्रशंसिभ्यो होता यक्षद्धोता यक्षदिति प्रेष्यतीति प्राणो वै होता प्राणः सर्व ऋत्विजः प्राणो यक्षत्प्रानो यक्षदित्येव तदाहाथाहास्त्युद्गातॄणाम्प्रैषाः नाँ इति अस्तीटि ब्रूयाद्य-देवैतत्प्रशास्ता जपं जपित्वा स्तुध्वमित्याह स एषाम्प्रैषोऽथाहास्त्यच्छावाकस्य प्रवराः नाँ इति अस्तीति ब्रूयाद्यदेवैनमध्वर्युराहाच्छावाक वदस्व यत्ते वाद्यमित्येषोऽस्य प्रवरोऽथाह यदैन्द्रावरुणम्मैत्रावरुणस्तृतीयसवने शंसत्यथ कस्मादस्याग्नेयौ स्तोत्रियानुरूपन्भवत इत्यग्निना वै मुखेन देवा असुरानुक्थेभ्यो निर्जघ्नुस्तस्मादस्याग्नेयौ स्तोत्रियानुरूपन्भवतोऽथाह यदैन्द्राबार्हस्पत्यम्ब्राह्म-णाच्छांसी तृतीयसवने शंसत्यैन्द्रावैष्णवमच्छावाकः कथमेनयोरैन्द्राः स्तोत्रि-यानुरूपा भवन्तीतीन्द्रो ह स्म वा असुरानुक्थेभ्यः प्रजिगाय सोऽब्रवीत्कश्चाहं चेत्यहं चाहं चेति ह स्म देवता अन्ववयन्ति स यदिन्द्रः पूर्वः प्रजिगाय तस्मादेनयोरैन्द्राः स्तोत्रियानुरूपा भवन्ति यद्वहं चाहं चेति ह स्म देवता अन्ववयुस्तस्मान्नानादेवत्यानि शंसतः॥6.14॥ (28.6) (101)

अथाह यद्वैश्वदेवं वै तृतीयसवनमथ कस्मादेतान्यैन्द्राणि जागतानि सूक्तनि तृतीयसवन आरम्भणीयानि शस्यन्त इतीन्द्र मेवैतैरारभ्य यन्तीति ब्रूयादथो यज्जागतं वै तृतीयसवनं तज्जगत्काम्यैव तद्यत्किंचात ऊर्ध्वं छन्दः शस्यते तद्ध सर्वं जागतम्भवत्येतानि चेदैन्द्राणि जागतानि सूक्तानि तृतीयसवन आरम्भ-णीयानि शस्यन्तेऽथ त्रैष्टुभमच्छावाकोऽन्ततः शंसति सं वां कर्मणेति यदेव पनाय्यं कर्म तदेतदभिवदति समिषेत्यन्नं वा इषोऽन्नाद्यस्यावरुद्ध्या अरिष्टैर्नः पथिभिः पारयन्तेति स्वस्तिताया एवैतदहरहः शंसत्यथाह यज्जागतं वै तृतीयसवनमथ कस्मादेषां त्रिष्टुभः परिधानीया भवन्तीति वीर्यं वै त्रिष्टुब्वीर्य एव तदन्ततः प्रतितिष्ठन्तो यन्तीयमिन्द्रं वरुणमष्ट मे गीरिति मैत्रवरुणस्य बृहस्पतिर्नः परि पातु पश्चादिति ब्राह्मणाच्छांसिन उभा जिग्यथुरित्यछा-वाकस्यो भौ हि तौ जिग्यतुर्न परा जयेथे न परा जिग्य इति न हि तयोः कतरश्चन पराजिग्य इन्द्र श्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथामितीन्द्र श्च ह वै विष्णुश्चासुरैर्युयुधाते तान्ह स्म जित्वोचतुः कल्पामहा इति ते ह तथेत्यसुरा उचुः सोऽब्रवीदिन्द्रो यावदेवायं विष्णुस्त्रिर्विक्रमते तावदस्माकमथ युष्माक-मितरदिति स इमाँ ल्लोकान्विचक्रमेऽथो वेदानथो वाचं तदाहुः किं तत्सहस्र-मितीमे लोका इमे वेदा अथो वागिति ब्रूयादैरयेथाम्-ऐरयेथामित्यच्छावाक उक्थ्येऽभ्यस्यति स हि तत्रान्त्यो भवत्यग्निष्टोमे होतातिरात्रे च स हि तत्रान्त्यो भवत्यभ्यस्येत्षोळशिनीम् नाभ्यस्येदिति अभ्यस्येदित्याहुः कथमन्येष्वहःस्वभ्यस्यति, कथमत्र नाभ्यस्येदिति, तस्मादभ्यस्येत्॥6.15॥ (28.7) (102)

अथाह यन्नाराशंसं वै तृटीयसवनमथ कस्मादच्छावाकोऽन्ततः शिल्पेष्वना-राशंसीः शंसतीति विकृतिर्वै नाराशंसं किमिव च वै किमिव च रेतो विक्रियते तत्तद विकृतम्प्रजातम्भवत्यथैतन्मृद्विव छन्दः शिथिरन्यन्नाराशंसमथैषोऽन्त्यो यदच्छावाकस्तद्दृळ्हतायै दृळ्हे प्रतिष्ठास्याम इति तस्मादच्छावाकोऽन्ततः शिल्पेष्वनाराशंसिः शंसति दृळ्हतायै दृळ्हे प्रतिष्ठास्याम दृळ्हे प्रतिष्ठास्याम॥6.16॥ (28.8) (103)

यः श्वःस्तोत्रियस्तमनुरूपं कुर्वन्ति प्रातःसवनेऽहीनसंतत्यै यथा वा एकाहः सुत एवमहीनस्तद्यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्येवमेवा-हीनस्याहानि संतिष्ठमानानि यन्ति तद्यच्छ्वःस्तोत्रियमनुरूपं कुर्वन्ति प्रातः-सवनेऽहीनसंतत्या अहीनमेव तत्संतन्वन्ति ते वै देवाश्च ऋषयश्चाद्रि यन्त समानेन यज्ञं संतनवामेति त एतत्समानं यज्ञस्यापश्यौ समानान्प्रगा-थान्समानीः प्रतिपदः समानानि सूक्तान्योकःसारी वा इन्द्रो यत्र वा इन्द्रः पूर्वं गच्छत्यैव तत्रापरं गच्छति, यज्ञस्यैव सेन्द्रतायै॥6.17॥ (29.1) (104)

तान्वा एतान्सम्पातान्विश्वामित्रः प्रथममपश्यत्तान्विश्वामित्रेण दृष्टान्वामदेवो-ऽसृजतै वा त्वामिन्द्र वज्रिन्नत्र यन्न इन्द्रो जुजुषे यच्च वष्टि कथा महामवृधत्कस्य होतुरिति तान्क्षिप्रं समपतद्यत्क्षिप्रं समपतत्तत्सम्पातानां सम्पातत्वं स हेक्षां चक्रे विश्वामित्रो यान्वा अहं सम्पातानपश्यं तान्वामदेवोऽसृष्ट कानि न्वहं सूक्तानि सम्पातांस्तत्प्रतिमान्सृजेयेति स एतानि सूक्तानि सम्पातांस्तत्प्र-तिमानसृजत सद्यो ह जातो वृषभः कनीन इन्द्रः पूर्भिदातिरद्दासमर्कैरिमामू षु प्रभृतिं सातये धा इच्छन्ति त्वा सोम्यासः सखायः शासद्वह्निर्दुहितुर्नप्त्यं गादभि तष्टेव दीधया मनीषामिति य एक इद्धव्यश्चर्षणीनामिति भरद्वाजो यस्तिग्मशृङ्गो वृषभो न भीम उदु ब्रह्माण्यैरत श्रवस्येति वसिष्ठोऽस्मा इदु प्र तवसे तुरायेति नोधास्त एते प्रातःसवने षळहस्तोत्रियाञ्छस्त्वा माध्यंदिनेऽहीनसूक्तानि शंसन्ति तान्येतान्यहीनसूक्तान्या सत्यो यातु मघवाँ ऋइजीषीति सत्य-वन्मैत्रावरुनो ऽस्मा इदु प्र तवसे तुरायेन्द्राय ब्रह्माणि राततमा इन्द्र ब्रह्माणि गोतमासो अक्रन्निति ब्रह्मण्वद्ब्राह्मणाच्छंसी शासद्वह्निर्जनयन्त वह्निमिति वह्निवदच्छावाकस्तदाहुः कस्मादच्छावाको वह्निवदेतत्सूक्तमुभयत्र शंसति पराञ्चिषु चैवाहस्स्वभ्यावर्तिषु चेति वीर्यवान्वा एष बह्वृचो वह्निवदेतत्सूक्तं वहति ह वै वह्निर्धुरो यासु युज्यते तस्मादच्छावाको वह्निवदेतत्सूक्तमुभयत्र शंसति पराञ्चिषु चैवाहस्स्वभ्यावर्तिषु च तानि पञ्चस्वहस्सु भवन्ति चतु-र्विंशेऽभिजिति विषुवति विश्वजिति महाव्रतेऽहीनानि ह वा एतान्यहानि न ह्येषु किं चन हीयते पराञ्चीनि ह वा एतान्यहान्यनभ्यावर्तीनि तस्मादेना-न्येतेष्वहस्सु शंसन्ति यदेनानि शंसन्त्यहीनान्स्वर्गाँ ल्लोकान्सर्वरूपान्सर्वस-मृद्धानवाप्नवामेति यदेवैनानि शंसन्तीन्द्र मेवैतैर्निह्वयन्ते यथ ऋषभं वाशितायै यद्वेवैनानि शंसन्त्यहीनस्य संतत्या, अहीनमेव तत् संतन्वन्ति॥6.18॥ (29.2)

ततो वा एतांस्त्रीन्सम्पातान्मैत्रावरुणो विपर्यासमेकैकमहरहः शंसत्येवा त्वा-मिन्द्र वज्रिन्नत्रेति प्रथमेऽहनि यन्न इन्द्रो जुजुषे यच्च वष्टीति द्वितीये कथा महामवृधत्कस्य होतुरिति तृतीये त्रीनेव सम्पातान्ब्राह्मणाच्छंसी विप-र्यासमेकैकमहरहः शंसतीन्द्रः पूर्भिदातिरद्दासमर्कैरिति प्रथमेऽहनि य एक इद्धव्यश्चर्षणीनामिति द्वितीये यस्तिग्मशृङ्गो वृषभो न भीम इति तृतीये त्रीनेव सम्पातानच्छावाको विपर्यासमेकैकमहरहः शंसतीमामू षु प्रभृतिं सातये धा इति प्रथमेऽहनीच्छन्ति त्वा सोम्यासः सखाय इति द्वितीये शासद्वह्निर्दुहितुर्नप्त्यं गादिति तृतीये तानि वा एतानि नव त्रीणि चाहरहःशस्यानि तानि द्वादश सम्पद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापति-र्यज्ञस्तत्संवत्सरम्प्रजापतिं यज्ञमाप्नुवन्ति तत्संवत्सरे प्रजापतौ यज्ञेऽहरहः प्रतितिष्ठन्तो यन्ति तान्यन्तरेणावापमावपेरन्नन्यूङ्ख्या विराजो वैमदीश्चतुर्थेऽहनि पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठेऽथ यान्यहानि महास्तोमानि स्युः को अद्य नर्यो देवकाम इति मैत्रावरुण आवपेत वने न वा यो न्यधायि चाकन्निति ब्राह्म-णाच्छंस्या याह्यर्वाङुप वन्धुरेष्ठा इत्यच्छावाक एतानि वा आवपनान्येतैर्वा आवपनैर्देवाः स्वर्गम्लोकमजयन्नेतैरृषयस्तथैवैतद्यजमाना एतैरावपनैः स्वर्गं लोकं जयन्ति॥6.19॥ (29.3) (106)

सद्यो ह जातो वृषभः कनीन इति मैत्रावरुनः पुरस्तात्सूक्तानामहरहः शंसति तदेतत्सूक्तां स्वर्ग्यमेतेन वै सूक्तेन देवाः स्वर्गं लोकमजयन्नेतेन ऋषयस्तथैवैतद्यजमाना एतेन सूक्तेन स्वर्गं लोकं जयन्ति तदु वैश्वामित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै मित्रम्भवति य एवं वेद येषां चैवं विद्वानेतन्मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसति तदृषभवत्पशुमद्भवति पशूनामवरुद्ध्यै तत्पञ्चर्चम्भवति पञ्चपदा पङ्क्तिः पङ्क्तिर्वा अन्नमन्नाद्यस्यावरुद्ध्या उदु ब्रह्माण्यैरत श्रवस्येति ब्राह्मणाच्छंसी ब्रह्मण्वत्समृद्धं सूक्तमहरहः शंसति तदेतत्सूक्तं स्वर्ग्यामेतेन वै सूक्तेन देवाः स्वर्गं लोकमजयन्नेतेन ऋषय-स्तथैवैतद्यजमाना एतेन सूक्तेन स्वर्गं लोकं जयन्ति तदु वासिष्ठमेतेन वै वसिष्ठ इन्द्र स्य प्रियं धामोपागछत्स परमं लोकमजयदुपेन्द्र स्य प्रियं लोकं गछति जयति परमं लोकं य एवं वेद तद्वै षळृचं षड्वा ऋतव ऋतूनामाप्त्यै तदुपरिष्टात्सम्पातानां शंसत्याप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँ ल्लोके प्रतितिष्ठन्त्यभि तष्टेव दीधया मनीषामित्यच्छावाकोऽहरहः शंसत्यभिवत्तत्यै रूपमभि प्रियाणि मर्मृशत्पराणीति यान्येव पराण्यहानि तानि प्रियाणि तान्येव तदभिमर्मृशतो यन्त्यभ्यारभमाणाः परो वा अस्माल्लोकात्स्वर्गो लोकस्तमेव तदभिवदति कवीँ रिछामि संदृशे सुमेधा इति ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति तदु वैश्वमित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै मित्रम्भवति य एवं वेद तदनिरुक्तम्प्राजापात्यं शंसत्यनिरुक्तो वै प्रजापतिः प्रजापतेराप्त्यै सकृदिन्द्रं निराह तेनैन्द्राद्रू पान्न प्रच्यवते तद्वै दशर्चं दशाक्षरा विराळ् अन्नं विराळ् अन्नाद्यस्यावरुद्ध्यै यदेव दशर्चां दश वै प्राणाः प्राणानेव तदाप्नुवन्ति प्राणानात्मन्दधते तदुपरिष्टात्सम्पातानां शंसत्याप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्ति॥6.20॥ (29.4)

कस्तमिन्द्र त्वावसुं कन्नव्यो अतसीनां कदू न्वस्याकृतमिति कद्वन्तः प्रगाथा आरम्भणीया अहरहः शस्यन्ते। को वै प्रजापतिः प्रजापतेराप्त्यै। यदेव कद्वन्ता३ः । अन्नं वै कमन्नाद्यस्यावरुद्ध्यै। यद्वेव कद्वन्ता३ः । अहरहर्वा एते शान्तान्यहीनसूक्तान्युपयुञ्जाना यन्ति तानि कद्वद्भिः प्रगाथैः शमयन्ति तान्येभ्यः शान्तानि कं भवन्ति तान्येनाञ्छान्तानि स्वर्गं लोकमभिहन्ति। त्रिष्टुभः सूक्तप्रतिपदः शंसेयुः। ता हैके पुरस्तात्प्रगाथानां शंसन्ति। धाय्या इति वदन्तः। तत्तथा न कुर्यात्। क्षत्त्रं वै होता विशो होत्राशंसिनः क्षत्त्रायैव तद्विशं प्रत्युद्यामिनीं कुर्युः पापवस्यसम्। त्रिष्टुभो म इमाः सूक्तप्रतिपद इत्येव विद्यात्। तद्यथा समुद्रं प्रप्लवेरन्नेवं हैव ते प्रप्लवन्ते ये संवत्सरं वा द्वादशाहं वाऽऽसते तद्यथा सैरावतीं नावं पारकामाः समारोहेयुरेवमेवैतास्त्रिष्टुभः समारोहन्ति। न ह वा एतच्छन्दोगमयित्वा स्वर्गं लोकमुपावर्तते वीर्यवत्तमं हि। ताभ्यो न व्याह्वयीत समानं हि च्छन्दोऽथो नेद्धाय्याः करवाणीति। यदेनाः शंसन्ति प्रज्ञाताभिः सूक्तं प्रतिपद्भिः सूक्तानि समारोहामेति । यदेवैनाः शंसन्तीन्द्रमेवैताभिर्निह्वयन्ते यथ ऋषभं वाशितायै यद्वेवैनाः शंसन्त्यहीनस्य संतत्या अहीनमेव तत्संतन्वन्ति॥6.21॥ (29.5) (108)

अप प्राच इन्द्र विश्वाँ अमित्रानिति मैत्रावरुणः पुरस्तात्सूक्तानामहरहः शंसत्यपापाचो अभिभूते नुदस्व अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेमेत्यभयस्य रूपमभयमिव हि यन्निछति ब्रह्मणा ते ब्रह्मयुजा युनज्मीति ब्राह्मणाच्छंस्यहरहः शंसति युनज्मीति युक्तवती युक्त इव ह्यहीनोऽहीनस्य रूपमुरुं नो लोकमनु नेषि विद्वानित्यच्छावाकोऽहरहः शंसत्यनु नेषित्येतीव ह्यहीनोऽहीनस्य रूपं नेषीति सत्रायणरूपं ता वा एता अहरहः शस्यन्ते समानीभिः परिदध्युरोकःसारी हैषामिन्द्रो यज्ञम्भवतीं यथ ऋषभो वाशितां यथा वा गौः प्रज्ञातं गोष्ठमेवं हैषामिन्द्रो यज्ञमैव गछति न शुनंहुवीययाहीनस्य परिदध्यात्क्षत्त्रियो ह राष्ट्राच्च्यवते यो हैव परो भवति तमभिह्वयति॥6.22॥ (29.6) (109)

अथातोऽहीनस्य युक्तिश्च विमुक्तिश्च। व्यन्तरिक्षमतिरदित्यहीनं युङ्क्त एवेदिन्द्रमिति विमुञ्चति। आऽहं सरस्वतीवतोर्नूनं सा त इत्यहीनं युङ्क्ते। ते स्याम देव वरुण नू ष्टुत इति विमु्ञ्चति। एष ह वा अहीनं तन्तुमर्हति य एनं योक्तुं च विमोक्तुं च वेद। तद्यच्चतुर्विंशेऽहन्युज्यन्ते सा युक्तिरथ यत्पुरस्तादुदयनीयस्यातिरात्रस्य विमुच्यन्ते सा विमुक्तिः। तद्यच्चतुर्विंशेऽहन्नैकाहिकाभिः परिदध्युरत्राहैव यज्ञं संस्थापयेयुर्नाहीनकर्म कुर्युरथ यदहीनपरिधानीयाभिः परिदध्युर्यथा श्रान्तोऽविमु्च्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन्नुभयीभिः परिदध्युः। तद्यथा दीर्घाध्व उपविमोकं यायात्तादृक्तत्। संततो हैषां यज्ञो भवतीँ३ व्यू मुञ्चन्ते। एकां द्वे न द्वयोः सवनयोः स्तोमममतिशंसेत्। दीर्घारण्यानि ह वै भवन्ति यत्र बह्वीभिः स्तोमोऽतिशस्यते। अपरिमिताभिस्तृतीयसवनेऽपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याऽऽप्त्यै। संततो हास्याभ्यारब्धोऽविस्रस्तोऽहीनो भवति य एवं विद्वानहीनं तनुते॥6.23॥ (29.7) (110)

देवा वै वले गाः पर्यपश्यंस्ता यज्ञेनैवेप्संस्ताः षष्ठेनाह्नाप्नुवंस्ते प्रातःसवने नभाकेन वलमनभयंस्तं यदनभयाँ अश्रथयन्नेवैनं तत्त उ तृतीयसवने वज्रेण वालखिल्याभिर्वाचः कूटेनैकपदया वलं विरुज्य गा उदाजंस्तथैवैतद्यजमानाः प्रातःसवने नभाकेन वलं नभयन्ति तं यन्नभयन्तीँ श्रथयन्त्येवैनं तत्तस्माद्धोत्रकाः प्रातःसवने नाभाकांस्तृचाञ्छंसन्ति यः ककुभो निधारय इति मैत्रावरुणः पूर्वीष्ट इन्द्रोपमातय इति ब्राह्मणाच्छंसी ता हि मध्यम्भराणामित्यच्छावाकस्त उ तृटीयसवने वज्रेण वालखिल्याभिर्वाचः कूटेनैकपदया वलं विरुज्य गा आप्नुवन्ति पच्छः प्रथमं षड्वालखिल्यानां सूक्तानि विहरत्यर्धर्चशो द्वितीय-मृक्शस्तृतीयं स पच्छो विहरन्प्रगाथे-प्रगाथ एवैकपदां दध्यात्स वाचः कूटस्ता एताः पञ्चैकपदाश्चतस्रो दशमादह्न एका महाव्रतादथाष्टाक्षराणि माहानामनानि पदानि तेषां यावद्भिः सम्पद्येत तावन्ति शन्सेन्नेतराण्याद्रि येताथार्धर्चशो विह-रंस्ताश्चैवैकपदाः शंसेत्तानि चैवाष्टाक्षराणि माहानामनानि पदान्यथ ऋक्शो विहरंस्ताश्चैवैकपदाः शंसेत्तानि चैवाष्टाक्षराणि माहानामनानि पदानि स यत्प्रथमं षड्वालखिल्यानां सूक्तानि विहरति प्राणं च तद्वाचं च विहरति यद्द्वितीयं चक्षुश्च तन्मनश्च विहरति यत्तृतीयं श्रोत्रं च तदात्मानं च विहरति तदुपाप्तो विहारे काम उपाप्तो वज्रे वालखिल्यासूपाप्तो वाचः कूट एकपदायामुपाप्तः प्राणक्लृप्त्यामविहृतानेव चतुर्थम्प्रगाथाञ्छंसति पशवो वै प्रगाथाः पशूनामवरुद्ध्यै नात्रैकपदां व्यवदध्याद्यदत्रैकपदां व्यवदध्याद्वाचः कूटेन यजमानात्पशून्निर्हण्याद्य एनं तत्र ब्रूयाद्वाचः कूटेन यजमानात्प-शून्निरवधीरपशुमेनमकरिति शश्वत्तथा स्यात्तस्मात्तत्रैकपदां न व्यवदध्या-द्व्येवोत्तमे सूक्ते पर्यस्यति स एव तयोर्विहारस्तदेतत्सौबलाय सर्पिर्वात्सिः शशंस स होवाच भूयिष्ठानहं यजमाने पशून्पर्यग्रहैषमकनिष्ठा उ मामा-गमिष्यन्तीति तस्मै ह यथा महद्भ्य ऋत्विग्भ्य एवं निनाय तदेतत्पशव्यं च स्वर्ग्यं च शस्त्रं तस्मादेतच्छंसति॥6.24॥ (29.8)

दूरोहणं रोहति तस्योक्तम्ब्राह्मणमैन्द्रे पशुकामस्य रोहेदैन्द्रा वै पशवस्तज्जागतं स्याज्जागता वै पशवस्तन्महासूक्तं स्याद्भूयिष्ठेष्वेव तत्पशुषु यजमानम्प्रति-ष्ठापयति बरौ रोहेत्तन्महासूक्तं च जागतं चैन्द्रावरुणे प्रतिष्ठाकामस्य रोहे-देतद्देवता वा एषा होत्रैतत्प्रतिष्ठा यदैन्द्रावरुणा तदेनत्स्वायामेव प्रतिष्ठाया-मन्ततः प्रतिष्ठापयति यदेवैन्द्रावरुणा३ ?िषा ह वा अत्र निविन्निविदा वै कामा आप्यन्ते स यद्यैन्द्रावरुणे रोहेत्सौपर्णे रोहेत्तदुपाप्त ऐन्द्रावरुणे काम उपाप्तः सौपर्णे॥6.25॥ (29.9) (112)

तदाहुः संशंसेत्षष्ठेऽहान् न सम्शंसेदिति संशंसेदित्याहुः कथमन्येष्वहस्सु संशंसति कथमत्र न संशंसेदित्यथो खल्वाहुर्नैव संशंसेत्स्वर्गो वै लोकः षष्ठमहरसमायी वै स्वर्गो लोकः कश्चिद्वै स्वर्गे लोके समेतीति स यत्संशंसेत्समानं तत्कुर्यादथ यन्न संशंसतीँ तत्स्वर्गस्य लोकस्य रूपं तस्मान्न संशंसेद्यदेव न संशंसती३?ँ आत्मा वै स्तोत्रियः प्राणा वालखिल्याः स यत्संशंसेदेताभ्यां देवताभ्यां यजमानस्य प्राणान्वीयाद्य एनंतत्र ब्रूयादेताभ्यां देवताभ्यां यजमानस्य प्राणान्व्यागात्प्राण एनं हास्यातिति शश्वत्तथा स्यात्तस्मान्न संशंसेत्स यदीक्षेताशंसिषं वालखिल्या हन्त पुरस्ताद्दूरोहणस्य संशंसानीति नो एव तस्याशामियात्तं यदि दर्प एव विन्देदुपरिष्टाद्दूरोहणस्यापि बहूनि शतानि शंसेद्यस्यो तत्कामाय तथा कुर्यादत्रैव तदुपाप्तमैन्द्र् यो वालखिल्यास्तासां द्वादशाक्षराणि पदानि तत्र स काम उपाप्तो य ऐन्द्रे जागतेऽथेदमैन्द्रावरुणं सूक्तमैन्द्रावरुणी परिधानीया तस्मान्न संशंसेत्तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रं विहृता वालखिल्याः शस्यन्ते विहृतां स्तोत्राम् अविहृतामिति विहृतमिति ब्रूयादष्टाक्षरेण द्वादशाक्षरमिति तदाहुर्यथा वाव शस्त्रमेवं याज्या तिस्रो देवताः शस्यन्तेऽग्निरिन्द्रो वरुण इत्यथैन्द्रावरुण्या यजति कथमग्निरनन्तरित इति यो वा अग्निः स वरुणस्तदप्येतदृषिणोक्तं त्वमग्ने वरुणो जायसे यदिति तद्यदेवैन्द्रावरुण्या यजति तेनाग्निरनन्तरितोऽनन्तरितः॥6.26॥ (29.10)

देवशिल्पान्येतेषां वै शिल्पानामनुकृतीह शिल्पमधिगम्यते हस्ती कंसो वासो हिरण्यमश्वतरीरथः शिल्पम्। शिल्पं हास्मिन्नधिगम्यते य एवं वेद। यदेव शिल्पानीँ३ । आत्मसंस्कृतिर्वाव शिल्पानि च्छन्दोमयं वा एतैर्यजमान आत्मानं संस्कुरुते। नाभानेदिष्ठं शंसति। रेतो वै नाभानेदिष्ठो रेतस्तत्सिञ्चति। तमनिरुक्तं शंसत्यनिरुक्तं वै रेतो गुहायोन्यां सिच्यते। स रेतोमिश्रो भवति क्ष्मया रेतः संजग्मानो निषिञ्चदिति रेतःसमृद्ध्या एव। तं सनाराशंसं शंसति प्रजा वै नरो वाक्शंसः प्रजास्वेव तद्वाचं दधाति तस्मादिमाः प्रजा वदत्यो जायन्ते। तं हैके पुरस्ताच्छंसन्ति पुरस्तादायताना वागिति वदन्तः। उपरिष्टादेक उपरिष्टादायतना वागिति वदन्तः। मध्य एव शंसेन्मध्यायतना वा इयं वाक्। उपरिष्टान्नेदीयसीवोपरिष्टान्नेदीयसीव वा इयं वाक्। तं होता रेतोभूतं सिक्त्वा मैत्रावरुणाय संप्रयच्छत्येतस्य त्वं प्राणान्कल्पयेति॥6.27॥ (30.1)

वालखिल्याः शंसति प्राणा वै वालखिल्याः प्राणानेवास्य तत्कल्पयति। ता विहृताः शंसति विहृता वा इमे प्राणाः प्राणेनापानोऽपानेन व्यानः। स पच्छः प्रथमे सूक्ते विहरत्यर्धर्चशो द्वितीये ऋक्शस्तृतीये। स यत्प्रथमे सूक्ते विहरति प्राणं च तद्वाचं च विहरति यद्द्वितीये चक्षुश्च तन्मनश्च विहरति यत्तृतीये श्रोत्रं च तदात्मानं च विहरति। ते हैके सह बृहत्यौ सह सतोबहत्यौ विहन्ति तदुपाप्तो विहारे कामो नेत्तु प्रगाथाः कल्पन्ते। अतिमर्शमेव विहरेत्तथा वै प्रगाथाः कल्पन्ते प्रगाथा वै वालखिल्यास्तस्मादतिमर्शमेव विहरेद्यदेवातिमर्शा३म्। आत्मा वै बृहती प्राणाः सतोबृहती स बृहतीमशंसीत्स आत्माऽथ सतोबृहतीं ते प्राणा अथ बृहतीमथ सतोबृहतीं तदात्मानं प्राणैः परबृहन्नेति तस्मादतिमर्शमेव विहरेत्। यद्वेवातिमर्शा३म्। आत्मा वै बृहती पशवः सतोबृहती स बृहतीमशंसीत्स आत्माऽथ सतोबृहतीं ते पशवोऽथ बृहतीमथ सतोबृहतीं तदात्मानं पशुभिः परिबृह्न्नेति तस्मादतिमर्शमेव विहरेत्। तस्य मैत्रावरुणः प्राणान्कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छत्येतं त्वं प्रजनयेति॥6.28॥

सुकीर्तिं शंसति देवयोनिर्वै सुकीर्तिस्तद्यज्ञाद्देवयोन्यै यजमानं प्रजनयति। वृषाकपिं शंसत्यात्मा वै वृषाकपिरात्मानमेवास्य तत्कल्पयति। तं न्यूङ्खयत्यन्नं वै न्यूङ्खस्तदस्मै जातायान्नाद्यं प्रतिदधाति यथा कुमाराय स्तनम्। स पाङ्क्तो भवति पाङ्क्तोऽयं पुरुषः पञ्चधा विहितो लोमानि त्वङ्मांसमस्थि मज्जा स यावानेव पुरुषस्तावन्तं यजमानं संस्करोति। तं ब्राह्मणाच्छंसी जनयित्वाऽच्छावाकाय संप्रयच्छत्येतस्य त्वं प्रतिष्ठां कल्पयेति॥6.29॥ (30.3) (116)

एवयामरुतं शंसति प्रतिष्ठा वा एवयामरुत्प्रतिष्ठामेवास्य तत्कल्पयति तं न्यूङ्खयत्यन्नं वै न्यूङ्खोऽन्नाद्यमेवास्मिंस्तद्दधाति स जागतो वातिजागतो वा सर्वं वा इदं जागतं वातिजागतं वा स उ मारुत आपो वै मरुत आपो-ऽन्नमभिपूर्वमेवास्मिंस्तदन्नाद्यं दधाति तान्येतानि सहचराणीत्याचक्षते नाभा-नेदिष्ठं वालखिल्या वृषाकपिमेवयामरुतं तानि सह वा शंसेत्सह वा न शंसेद्यदेनानि नाना शंसेद्यथा पुरुषं वा रेतो वा विछिन्द्यात्तादृक्तत्तस्मादेनानि सह वा शंसेत्सह वा न शंसेत्स ह बुलिल आश्वतर आश्विर्वैश्वजितो होता सन्नीक्षां चक्र एषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे मध्यंदिनमभि प्रत्येतोर्हन्ताहमित्थमेवयामरुतं शंसयानीति तद्ध तथा शंसयां चकार तद्ध तथा शस्यामने गौश्ल आजगाम स होवाच होतः कथा ते शस्त्रं विचक्रम्प्लवत इति किह्य्ह्यभूदित्येवयामरुदयमुत्तरतः शस्यत इति स होवाचैन्द्रो वै मध्यंदिनः कथेन्द्र म्मध्यंदिनान्निनीषसीति नेन्द्र म्मध्यंदिना-न्निनीषामीति होवाच छन्दस्त्विदममध्यंदिनसाच्ययं जागतो वातिजागतो वा सर्वं वा इदं जागतं वातिजागतं वा स उ मारुतो मैव शंसिष्टेति स होवाचारमाछावकेत्यथ हास्मिन्ननुशासनमीषे स होवाचैन्द्र मेष विष्णुन्यङ्गं शंसत्वथ त्वमेतं होतरुपरिष्टाद्र ?ौद्र ?? धाय्यायै पुरस्तान्मारुतस्याप्यस्याथा इति। तद्ध तथा शंसयांचकार तदिदमप्येतर्हि तथैव शस्यते॥6.30॥ (30.4)

तदाहुर्यदस्मिन्विश्वजित्यतिरात्र एवं षष्ठेऽहनि कल्पते यज्ञः कल्पते यजमानस्य प्रजातिः कथमत्राशस्त एव नाभानेदिष्ठो भवत्यथ मैत्रावारुणो वालखिल्याः शंसति ते प्राणा — रेतो वा अग्रेऽथ प्राणा — एवम्ब्राह्मणाच्छन्स्यशस्त एव नाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति स आत्मा — रेतो वा अग्रेऽथात्मा — कथमत्र यजमानस्य प्रजातिः कथम्प्राणा अविक्लृप्ता भवन्तीति यजमानं ह वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति स यथा गर्भो योन्यामन्तरेवं सम्भवञ्छेते न वै सकृदेवाग्रे सर्वः सम्भवत्येकैकं वा अङ्गं सम्भवतः सम्भवतीति सर्वाणि चेत्समानेऽहन्क्रियेरन्कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिरथैतं होतैवयामरुतं तृतीयसवने शंसति तद्यास्य प्रतिष्ठा तस्यामेवैनं तदन्ततः प्रतिष्ठापयति॥6.31॥ (30.5)

छन्दसां वै षष्ठेनाह्नाप्तानां रसोऽत्यनेदत्स प्रजापतिरबिभेत्पराङयं छन्दसां रसो लोकानत्येष्यतीति तम्परस्ताच्छन्दोभिः पर्यगृह्नान्नाराशंस्या गाय त्र्?या रैभ्या त्रिष्टुभः पारिक्षित्या जगत्याः कारव्ययानुष्टुभस्तत्पुनश्छन्दस्सु रसमदधा-त्सरसैर्हास्य छन्दोभिरिष्टम्भवति सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद नाराशंसीः शंसति प्रजा वै नरो वाक्शंसः प्रजास्वेव तद्वाचं दधाति तस्मादिमाः प्रजा वदन्त्यो जायन्ते य एवं वेद यदेव नाराशंसीः शन्सन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमानाः शंसन्त एव स्वर्गं लोकं यन्ति ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषाकपेस्तन्न्या यमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खो रैभीः शंसति रेभन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमाना रेभन्त एव स्वर्गं लोकं यन्ति ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषाकपेश्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खः पारिक्षितीः शंसत्यग्निर्वै परिक्षिदग्निर्हीमाः प्रजाः परिक्षेत्यग्निं हीमाः प्रजाः परिक्षियन्त्यग्नेरेव सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद यदेव पारिक्षिती३?ः संवत्सरो वै परिक्षित्संवत्सरो हीमाः प्रजाः परिक्षेति संवत्सरं हीमाः प्रजाः परिक्षियन्ति संवत्सरस्यैव सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषाकपेस्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खः कारव्याः शंसति देवा वै यत्किंच कल्याणं कर्माकुर्वं-स्तत्कारव्याभिराप्नुवंस्तथैवैतद्यजमाना यत्किंच कल्याणं कर्म कुर्वन्ति तत्का-रव्याभिराप्नुवन्ति ताः प्रग्राहं शंसति यथा वृषाकपिं वार्षाकपं हि वृषा-कपेस्तन्न्यायमेति तासु न न्यूङ्खयेन्नीवैव नर्देत्स हि तासां न्यूङ्खो दिशां क्लृप्तीः शंसति दिश एव तत्कल्पयति ताः पञ्च शंसति पञ्च वा इमा दिशश्चतस्रस्तिरश्च्य एकोर्ध्वा तासु न न्यूङ्खयेन्नेवैव च निनर्देन्नेदिमा दिशो न्युङ्खयानीति ता अर्धर्चशः शंसति प्रतिष्ठाया एव जनकल्पाः शंसति प्रजा वै जनकल्पा दिश एव तत्कल्पयित्वा तासु प्रजाः प्रतिष्ठापयति तासु न न्यूङ्खयेन्नेवैव च निनर्देन्नेदिमाः प्रजा न्यूङ्खयानीति ता अर्धर्चशः शंसति प्रतिष्ठाया एवेन्द्र गाथाः शंस-तीन्द्र गाथाभिर्वै देवा असुरानभिगायाथैनानत्यायंस्तथैवैतद्यजमाना इन्द्र गा-थाभिरेवाप्रियम्भ्रातृव्यमभिगायाथैनमतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठाया एव॥6.32॥

ऐतशप्रलापं शंसति। ऐतशो ह वै मुनिरग्नेरायुर्ददर्श यज्ञस्यायातयाममिति हैक आहुः सोऽब्रवीत्पुत्रान्पुत्रका अग्नेरायुरदर्शं तदभिलपिष्यामि यत्किं च वदामि तन्मे मा परिगातेति स प्रत्यपद्यतैता अश्वा आप्लवन्ते प्रतीपं प्रातिसत्वनमिति। तस्याभ्यग्निरैतशायन एत्याकालेऽभिहाय मुखमप्यगृह्णाददृपन्नः पितेति। तं होवाचापेह्यलसोऽभूर्यो मे वाचमवधीः शतायुं गामकरिष्यं सहस्रायुं पुरुषं पापिष्ठां ते प्रजां करोमि यो मेत्थमसक्था इति। तस्मादाहुरभ्यग्नय ऐतशायना और्वाणां पापिष्ठा इति। तं हैके भूयांसं शंसन्ति। स न निषेधेद्यावत्कामं शंसेत्येव ब्रूयादायुर्वा ऐतशप्रलापः। आयुरेव तद्यजमानस्य प्रतारयति य एवं वेद। यदेवैतशप्रलापा३ः । छन्दसां हैष रसो यदैतशप्रलापश्छन्दःस्वेव तद्रसं दधाति। सरसैर्हास्य च्छन्दोभिरिष्टं भवति सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद। यद्वेवैतशप्रलापा३ः । अयातयामा वा अक्षितिरैतशप्रलापोऽयातयामा मे यज्ञेऽसदक्षितिर्मे यज्ञेऽसदिति। तं वा एतमैतशप्रलापं शंसति पदावग्राहं यथा निविदम्। तस्योत्तमेन पदेन प्रणौति यथा निविदः। प्रवह्लिकाः शंसति प्रवह्लिकाभिर्वै देवा असुरान्प्रवह्ल्याथैनानत्यायंस्तथैवैतद्यजमानाः प्रवह्लिकाभिरेवाप्रियं भ्रातृव्यं प्रवह्ल्याथैनमतियन्ति। ता अर्धर्चशः शंसति प्रतिष्ठाया एव। आजिज्ञासेन्याः शंसत्याजिज्ञासेन्याभिर्वै देवा असुरानाज्ञायाथैनानत्यायंस्तथैवैतद्यजमाना आजिज्ञासेन्याभिरेवाप्रियं भ्रातृव्यमाज्ञायाथैनमतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठाया एव। प्रतिराधं शंसति प्रतिराधेन वै देवा असुरान्प्रतिराध्याथैनानत्यायंस्तथैवैतद्यजमानाः प्रतिराधेनैवाप्रियं भ्रातृव्यं प्रतिराध्याथैनमतियन्ति। अतिवादं शंसत्यत्यतिवादेन वै देवा असुरानत्युद्याथैनानत्यायंस्तथैवैतद्यजमाना अतिवादेनैवाप्रियं भ्रातृव्यमत्युद्याथैनमतियन्ति तमर्धर्चशः शंसति प्रतिष्ठाया एव॥6.33॥ (30.7)

देवानीथं शंसति। आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयं पूर्व एष्यामो वयमिति ते हाङ्गिरसः पूर्वे श्वः सुत्यां स्वर्गस्य लोकस्य ददृशुस्तेऽग्निं प्रजिघ्युरङ्गिरसां वा एकोऽग्निः परेह्यादित्येभ्यः श्वःसुत्यां स्वर्गस्य लोकस्य प्रब्रूहीति ते हाऽऽदित्या अग्निमेव दृष्ट्वा सद्यःसुत्यां स्वर्गस्य लोकस्य ददृशुस्तानेत्याब्रवीच्छ्वःसुत्यां वः स्वर्गस्य लोकस्य प्रब्रूम इति ते होचुरथ वयं तुभ्यं सद्यःसुत्यां स्वर्गस्य लोकस्य प्रब्रूमस्त्वयैव वयं होत्रा स्वर्गं लोकमेष्याम इति स तथेत्युक्त्वा प्रत्युक्तः पुनराजगाम। ते होचुः प्रावोचा३ः इति प्रावोचमिति होवाचाथो मे प्रतिप्रावोचन्निति नो हि न प्रत्यज्ञास्था३ः, इति प्रति वा अज्ञासमिति होवाच। यशसा वा एषोऽभ्यै(ऽभ्ये)ति य आर्त्विज्येन तं यः प्रतिरुन्धेद्यशः स प्रतिरुन्धेत्तस्मान्न प्रत्यरौत्सीति। यदि त्वस्मादपोज्जिगांसेद्यज्ञेनास्मादपोदियात्। यदि त्वयाज्यः स्वयमपोदितं तस्मात्॥6.34॥ (30.8)

ते हादित्यानङ्गिरसोऽयाजयंस्तेभ्य याजयद्भ्य इमाम्पृथिवीम्पूर्णां दक्षिणानामद-दुस्तानियम्प्रतिगृहीतातपत्तां न्यवृञ्जन्सा सिंही भूत्वा विजृम्भन्ती जनान-चरत्तस्याः शोचत्या इमे प्रदराः प्रादीर्यन्त येऽस्या इमे प्रदराः समेव हैव ततः पुरा तस्मादाहुर्न निवृत्तदक्षिणाम्प्रतिगृह्णीयान्नेन्मा शुचा विद्धा शुचा विध्या-दिति यदि त्वेनाम्प्रतिगृह्णीयादप्रियायैनाम्भ्रातृव्याय दद्यात्परा हैव भवत्यथ योऽसौ तपतीँ एषोऽश्वः श्वेतो रूपं कृत्वाश्वाभिधान्यपिहितेनात्मना प्रतिचक्रम इमं वो नयाम इति स एष देवनीथोऽनूच्यत आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्तां ह जरितर्न प्रत्यायन्निति न हि त इमाम्प्रत्यायंस्तामु ह जरितः प्रत्यायन्निति प्रति हि तेऽमुमायंस्तां ह जरितर्न प्रत्यगृभ्णन्निति न हि त इमाम्प्रत्यगृभ्णंस्तामु ह जरितं प्रत्यगृभ्णन्निति प्रति हि तेऽमुमगृभ्णन्नहा नेदसन्नविचेतनानीत्येष ह वा अह्नां विचेतयिता जज्ञा नेदसन्नपुरोगवास इति दक्षिणा वै यज्ञानाम्पुरोगवी यथा ह वा इदमनोऽपुरोगवं रिष्यत्येवं हैव यज्ञोऽदक्षिणो रिष्यति तस्मादाहुर्दातव्यैव यज्ञे दक्षिणा भवत्यप्यल्पिकाप्युत श्वेत आशुपत्वा उतो पद्याभिर्जविष्ठः उतेमाशु मानम्पिपर्ति आदित्या रुद्र ?ा वसवस्त्वेळते इदं राधः प्रति गृभ्णीथ्यङ्गि र इति प्रतिग्रहमेव तद्र ?ाधस ऐछन्निदं राधो बृहत्पृथु देवा ददत्वा वरम्तद्वो अस्तु सुचेतनम्युष्मे अस्तु दिवे-दिवे प्रत्येव गृभायतेति प्रत्येवैनं तदजग्रभैषं तं वा एतं देवनीथं शंसति पदावग्राहं यथानिविदं तस्योत्तमेन पदेन प्रणौति यथा निविदः॥6.35॥ (30.9)

भूतेछदः शंसति भूतेछद्भिर्वै देवा असुरानुपासचन्तोतेव युद्धेनोतेव मायया तेषां वै देवा असुराणाम्भूतेछद्भिरेव भूतं छादयित्वाथैनानत्यायंस्तथैवैतद्यजमाना भूतेछद्भिरेवाप्रियस्य भ्रातृव्यस्य भूतं छादयित्वाथैनमतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठाया एवाहनस्याः शंसत्याहनस्याद्वै रेतः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ता दश शंसति दशाक्षरा विराळ् अन्नं विराळ् अन्नाद्रे तः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति ता न्यूङ्खयत्यन्नं वै न्यूङ्खोऽन्नाद्रे तः सिच्यते रेतसः प्रजाः प्रजायन्ते प्रजातिमेव तद्दधाति दधिक्राव्णो अकारिषमिति दाधिक्रीं शंसति देवपवित्रं वै दधिक्रा इदं वा इदं व्याहनस्यां वाचमवादीत्तद्देवपवित्रेण वाचम्पुनीते सानुष्टुब्भवति वाग्वा अनुष्टुप्तत्स्वेन छन्दसा वाचम्पुनीते सुतासो मधुमत्तमा इति पावमानीः शंसति देवपवित्रं वै पावमान्य इदं वा इदं व्याहनस्यां वाचमवादीत्तद्देवपवित्रेणैव वाचम्पुनीते ता अनुष्टुभो भवन्ति वाग्वा अनुष्टुप्तत्स्वेनैव छन्दसा वाचम्पुनीतेऽव द्र प्सो अंशुमतीमतिष्ठदित्यैन्द्राबार्हस्पत्यं तृचं शंसति विशो अदेवीरभ्याच-रन्तीर्बृहस्पतिना युजेन्द्रः ससाह इत्यसुरविशं ह वै देवानभ्युदाचार्य आसीत्स इन्द्रो बृहस्पतिनैव युजासुर्यं वर्णमभिदासन्तमपाहंस्तथैवैतद्यजमाना इन्द्रा-बृहस्पतिभ्यामेव युजासुर्यं वर्णमभिदासन्तमपघ्नते तदाहुः संशंसेत्षष्ठेऽहान् न संशंसेदिति संशंसेदित्याहुः कथमन्येष्वहस्सु संशंसति कथमत्र न संशं-सेदित्यथो खल्वाहुर्नैव संशंसेत्स्वर्गो वै लोकः षष्ठमहरसमायी वै स्वर्गो लोकः कश्चिद्वै स्वर्गे लोके समेतीति स यत्संशंसेत्समानं तत्कुर्यादथ यन्न संशंसतीँ तत्स्वर्गस्य लोकस्य रूपं तस्मान्न संशंसेद्यदेव न संशंसतीँ एतानि वा अत्रोक्थानि नाभानेदिष्ठो वालखिल्या वृषाकपिरेवयामरुत्स यत्संशंसेदपैव स एतेषु कामं राध्नुयादैन्द्रो वृषाकपिः सर्वाणि छन्दांस्यैतशप्रलापस्तत्र स काम उपाप्तो य ऐन्द्रे जागतेऽथेदमैन्द्राबर्हस्पत्यं सूक्तमैन्द्राबार्हस्पत्या परिधानीया तस्मान्न संशंसेन्न संशंसेत्॥6.36॥ 30.10 (123)

अथातः पशोर्विभक्तिस्तस्य विभागं वक्ष्यामो हनू सजिह्वे प्रस्तोतुः श्येनं वक्ष उद्गातुः कण्ठः काकुद्रः प्रतिहर्तुर्दक्षिणा श्रोणिर्होतुः सव्य ब्रह्मणो दक्षिणं सक्थि मैत्रावरुणस्य सव्यम्ब्राह्मणाच्छंसिनो दक्षिणम्पार्श्वं सांसमध्वर्योः सव्यमुपगातॄणां सव्योंऽसः प्रतिप्रस्थातुर्दक्षिणं दोर्नेष्टुः सव्यम्पोतुर्दक्षिण ऊरुरच्छावाकस्य सव्य आग्नीध्रस्य दक्षिणो बाहुरात्रेयस्य सव्यः सदस्यस्य सदं चानूकं च गृहपतेर्दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य सव्यौ पादौ गृहपतेर्भार्यायै व्रतप्रदस्यौष्ठ एनयोः साधारणो भवति तं गृहपतिरेव प्रशिंष्याज् जाघनीम्पत्नीभ्यो हरन्ति ताम्ब्राह्मणाय दद्युः स्कन्ध्याश्च मनिकास्तिस्रश्च कीकसा ग्रावस्तुतस्तिस्रश्चैव कीकसा अर्धं च वैकर्तस्योन्नेतुरर्धं चैव वैकर्तस्य क्लोमा च शमितुस्तद्ब्राह्मणाय दद्याद्यद्यब्राह्मणः स्याच् छिरः सुब्रह्मण्यायै यः श्वःसुत्याम्प्राह तस्याजिनमिळ सर्वेषां होतुर्वा ता वा एताः षट्त्रिंशतमेकपा यज्ञं वाहन्ति षट्त्रिंशदक्षरा वै बृहती बार्हताः स्वर्गा लोकाः प्रानांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति स एष स्वर्ग्यः पशुर्य एनमेवं विभजन्त्यथ येऽतोऽन्यथा तद्यथा सेलगा वा पापकृतो वा पशुं विम-थ्नीरंस्तादृक्तत्तां वा एताम्पशोर्विभक्तिं श्रौतऋषिर्देवभागो विदां चकार तामु हाप्रोच्यैवास्माल्लोकादुच्चक्राम तामु ह गिरिजाय बाभ्रव्यायामनुष्यः प्रोवाच ततो हैनामेतदर्वाङ्मनुष्या अधीयतेऽधीयते॥7.1॥ (31.1) (124)

तदाहुर्य आहिताग्निरुपवसथे म्रियेत कथमस्य यज्ञः स्यादिति नैनं याजयेदित्याहुरनभिप्राप्तो हि यज्ञं भवतीति। तदाहुर्य आहिताग्निरधिश्रितेऽग्निहोत्रे सांनाय्ये वा हविःषु वा म्रियेत का तत्र प्रायश्चित्तिरित्यत्रैवैनान्यनुपर्यादध्याद्यथा सर्वाणि संदह्येरन्सा तत्र प्रायश्चित्तिः। तदाहुर्य आहिताग्निरासन्नेषु हविःषु म्रियेत का तत्र प्रायश्चित्तिरिति याभ्य एव तानि देवताभ्यो हवींषि गृहीतानि भवन्ति ताभ्यः स्वाहेत्येवैनान्याहवनीये सर्वहुन्ति जुहुयात्सा तत्र प्रायश्चित्तिः। तदाहुर्य आहिताग्निः प्रवसन्म्रियेत कथमस्याग्निहोत्रं स्यादित्यभिवान्यवत्सायाः पयसा जुहुयादन्यदिवैतत्पयो यदभिवान्यवत्साया अन्यदिवैतदग्निहोत्रं यत्प्रेतस्य। अपि वा यत एव कुतश्च पयसा जुहुयुः। अथाप्याहुरेवमेवैनानजस्रानजुह्वत इन्धीरन्ना शरीराणामाहर्तोरिति। यदि शरीराणि न विद्येरन्पर्णशरः षष्टिस्त्रीणि च शतान्याहृत्य तेषां पुरुषरूपकमिव कृत्वा तस्मिंस्तामावृतं कुर्युरथैनाञ्छरीरैराहृतैः संस्पर्श्योद्वासयेयुः। अध्यर्धशतं काये सक्थिनी द्विपञ्चाशे च विंशे चोरु द्विपञ्चविंशे शेषं तु शिरस्युपरि दध्यात्। सा तत्र प्रायश्चित्तिः॥॥7.2॥ (32.1) (125)

तदाहुर्यस्याग्निहो त्र्?युपावसृष्टा दुह्यमानोपविशेत्का तत्र प्रायश्चित्तिरिति तामभि-मन्त्रयेत यस्माद्भीषा निषीदसि ततो नो अभयं कृधि पशून्नः सर्वान्गोपाय नमो रुद्र ?ाय मीळ्हुष इति तामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधातिन्द्राय कृ-ण्वती भागम्मित्राय वरुणय चेत्यथास्या उदपात्रमूधसि च मुखे चो-पगृह्णीयादथैनाम्ब्राह्मणाय दद्यात्सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्निहो त्र्?यु-पावसृष्टा दुह्यमाना वाश्येत का तत्र प्रायश्चित्तिरित्यशनायां ह वा एषा यजमानस्य प्रतिख्याय वाश्यते तामन्नमप्यादयेच्छान्त्यै शान्तिर्वा अन्नं सूयवसाद्भगवती हि भूया इति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्निहो त्र्?यु-पावसृष्टा दुह्यमाना स्पन्देत का तत्र प्रायश्चित्तिरिति सा यत्तत्र स्कन्द-येत्तदभिमृश्य जपेद्यदद्य दुग्धम्पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः पयो गृहेषु पयो अघ्न्यायाम्पयो वत्सेषु पयो अस्तु तन्मयीति तत्र यत्परिशिष्टं स्यात्तेन जुहुयाद्यद्यलं होमाय स्याड् यद्यु वै सर्वं सिक्तं स्यादथान्यामाहूय तां दुग्ध्वा तेन जुहुयादा त्वेव श्रद्धायै होतव्यं सा तत्र प्रायश्चित्तिः॥7.3॥ (32.2) (126)

तदाहुर्यस्य सायंदुग्धं सांनाय्यं दुष्येद्वापहरेद्वा का तत्र प्रायश्चित्तिरिति प्रातर्दुग्धं द्वैधं कृत्वा तस्यान्यतराम्भक्तिमातच्य तेन यजेत सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य प्रातर्दुग्धं संनाय्यं दुष्येद्वापहरेद्वा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं वा पुरोळाशां तस्य स्थाने निरुप्य तेन यजेत सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्वमेव सांनाय्यं दुष्येद्वापहरेद्वा का तत्र प्रायश्चित्तिरित्यैन्द्रं वा माहेन्द्रं वेति समानं सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्वाण्येव हवींषि दुष्येयुर्वापहरेयुर्वा का तत्र प्रायश्चित्तिरित्याज्यस्यैनानि यथादेवतम्परिकल्प्य तयाज्यहविषेष्ट्या यजेतातोऽन्यामिष्टिमनुल्बणां तन्वीत यज्ञो यज्ञस्य प्रायश्चित्तिः॥7.4॥ (32.3)

तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येत का तत्र प्रायश्चित्तिरिति सर्वमेवैनत्स्रुच्यभिपर्यासिच्य प्राङुदेत्याऽऽहवनीये हैतां समिधमभ्यादधात्यथोत्तरत आहवनीयस्योष्णं भस्म निरूह्य जुहुयान्मनसा वा प्राजापत्यया वर्चा तद्धुतं चाहुतं च स यद्येकस्मिन्नुन्नीते यदि द्वयोरेष एव कल्पस्तच्चेद्व्यपनयितुं शक्नुयान्निःषिच्यैतद्दुष्टमदुष्टमभिपर्यासिच्य तस्य यथोन्नीत्ती स्यात्तथा जुहुयात्सा तत्र प्रायश्चित्तिः। तदाहुर्यस्याग्निहोत्रमधिश्रितं स्कन्दति वा विष्यन्तदे वा का तत्र प्रायश्चित्तिरिति तदद्भिरुपनिनयेच्छान्त्यै शान्तिर्वा आपोऽथैनद्दक्षिणेन पाणिनाऽभिमृश्य जपति। दिवं तृतीयं देवान्यज्ञोऽगात्ततो मा द्रविणमाष्टान्तरिक्षं तृतीयं पितॄन्यज्ञोऽगात्तततो मा द्रविणमाष्ट पृथिवीं तृतीयं मनुष्यान्यज्ञोऽगात्ततो मा द्रविणमाष्ट। ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणीमृचं जपति विष्णुर्वै यज्ञस्य दुरिष्टं पाति वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै। सा तत्र प्रायश्चित्तिः। तदाहुर्यस्याग्निहोत्रमधिश्रितं प्राङुदायन्स्खलते वाऽपि वा भ्रंशते का तत्र प्रायश्चित्तिरिति स यद्युपनिवर्तयेत्स्वर्गाल्लोकाद्यजमानमावर्तयेदत्रैवास्मा उपविष्टायैतमग्निहोत्रपरीशेषमाहरेयुस्तस्य यथोन्नीती स्यात्तथा जुहुयात्सा तत्र प्रायश्चित्तिः। तदाहुरथ यदि स्रुग्भिद्येत का तत्र प्रायश्चित्तिरित्यन्यां स्रुचमाहृत्य जुहुयादथैनां स्रुचं भिन्नमाहवनीयेऽभ्यादध्यात्प्राग्दण्डां प्रत्यक्पुष्करां सा तत्र प्रायश्चित्तिः। तदाहुर्यस्याऽऽहवनीये हाग्निर्विद्येताथ गार्हपत्य उपशाम्येत्का तत्र प्रायश्चित्तिरिति स यदि प्राञ्चमुद्धरेत्प्रायऽऽयतनाच्च्यवेत यत्प्रत्यञ्चमसुरवद्यज्ञं तन्वीत यन्मन्थेद् भ्रातृव्यं यजमानस्य जनयेद्यदनुगमयेत्प्राणो यजमानं जह्यात्सर्वमेवैनं सह भस्मानं समोप्य गार्हपत्यायतने निधायाथ प्राञ्चमाहवनीयमुद्धरेत्सा तत्र प्रायश्चित्तिः॥7.5॥ (32.4)

तदाहुर्यस्याग्नावग्निमुद्धरेयुः का तत्र प्रायश्चित्तिरिति स यद्यनुपश्येदुदूह्य पूर्वमपरं निदध्याद्यद्यु नानुपश्येत्सोऽग्नयेऽग्निवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य या-ज्यानुवक्ये अग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निनेत्याहुतिं वाहवनीये जुहुया-दग्नयेऽग्निवते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य गार्हपत्याहवनीयौ मिथः संसृज्येयातां का तत्र प्रायश्चित्तिरिति सोऽग्नये वीतयेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अग्न आ याहि वीतये यो अग्निं देववीतय इत्याहुतिं वाहवनीये जुहुयादग्नये वीतये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य सर्व एवाग्नयो मिथः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये विविचये-ऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये स्वर्ण वस्तोरुषसामरोचि त्वामग्ने मानुषीरीळते विश इत्याहुतिं वाहवनीये जुहुयादग्नये विविचये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्नयो अन्यैरग्निभिः संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये क्षामवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्या-नुवाक्ये अक्रन्ददग्नु स्तनयन्निव द्यौरधा यथा नः पितरः परास इत्याहुतिं वाऽऽहवनीये जुहुयादग्नये क्षामवते स्वाहेति सा तत्र प्रायश्चित्तिः॥7.6॥ (32.5)

तादाहुर्यस्याग्नयो ग्राम्येणाग्निना संदह्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये संवर्गायाष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये कुवित्सु नो गविष्टये मा नो अस्मिन्महाधन इत्याहुतिं वाहवनीये जुहुयादग्नये संवर्गाय स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्नयो दिव्येनाग्निना संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नयेऽप्सुमतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अप्स्वग्ने सधिष्टव मयो दधे मेधिरः पूतदक्ष इत्याहुतिं वाहवनीये जुहुयादग्नयेऽप्सुमते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्नयः शवाग्निना संसृज्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये शुचयेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अग्निः शुचिव्रततम उदग्ने शुचयस्तवेत्यहुतिं वाहवनीये जुहुयादग्नये शुचये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्याग्नय आरण्येनाग्निना संदह्येरन्का तत्र प्रायश्चित्तिरिति समेवारोपयेदरणी वोल्मुकं वा मोक्षयेद्यद्याहवनीयाद्यदि गार्हपत्याद्यदि न शक्नुयात्सोऽग्नये संवर्गायाष्टाकपालम्पुरोळाशं निर्वपेत्त-स्योक्ते याज्यानुवाक्ये आहुतिं वाहवनीये जुहुयादग्नये संवर्गाय स्वाहेति सा तत्र प्रायश्चित्तिः॥7.7॥ (32.6)

तदाहुर्य आहिताग्निरुपवसथेऽश्रु कुर्वीत का तत्र प्रायश्चित्तिरिति सोऽग्नये व्रतभृतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वमग्ने व्रतभृच्छुचि-र्व्रतानि बिभ्रद्व्रतपा अदब्ध इत्याहुतिं वाहवनीये जुहुयादग्नये व्रतभृते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निरुपवसथेऽव्रत्यमापद्येत का तत्र प्रायश्चि-त्तिरिति सोऽग्नये व्रतपतयेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वमग्ने व्रतपा असि यद्वो वयम्प्रमिनाम व्रतानीत्याहुतिं वाहवनीये जुहुयादग्नये व्रतपतये स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निरमावास्याम्पौर्णमासीं वातीयात्का तत्र प्रायश्चित्तिरिति सोऽग्नये पथिकृतेऽष्टाकपालम्पुरोळाशं निर्व-पेत्तस्य याज्यानुवाक्ये वेत्था हि वेदोःऽध्वन आ देवानामपि पन्थामग-न्मेत्याहुतिं वाहवनीये जुहुयादग्नये पथिकृते स्वाहेति सा तत्र प्रायश्चित्ति-स्तदाहुर्यस्य सर्व एवाग्नय उपशाम्येरन्का तत्र प्रायश्चित्तिरिति सोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये आ याहि तपसा जनेष्वा नो याहि तपसा जनेष्वित्याहुतिं वाहवनीये जुहुयादग्नये तपस्वते जनद्वते पावकवते स्वाहेति सा तत्र प्रायश्चित्तिः॥7.8॥ (32.7)

तदाहुर्य आहिताग्निराग्रयणेनानिष्ट्वा नवान्नम्प्राश्नीयात्का तत्र प्रायश्चित्तिरिति सोऽग्नये वैश्वानराय द्वादशकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये वैश्वानरो अजीजनत्पृष्टो दिवि पृष्टो अग्निः पृथिव्यामित्याहुतिं वाहवनीये जुहुयादग्नये वैश्वानराय स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि कपालं नश्येत्का तत्र प्रायश्चित्तिरिति सोऽश्विभ्यां द्विकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अश्विना वर्तिरस्मदा गोमता नासत्या रथेनेत्याहुतिं वाहवनीये जुहुयादश्विभ्यां स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि पवित्रं नश्येत्का तत्र प्रायश्चित्तिरिति सोऽग्नये पवित्रवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये पवित्रं ते विततम्ब्रह्मणस्पते तपोस्ः पवित्रं विततं दिवस्पद इति आहुतिं वाहवनीये जुहुयादग्नये पवित्रवते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि हिरण्यं नश्येत्का तत्र प्रायश्चित्तिरिति सोऽग्नये हिरण्यवतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये हिरण्य-केशो रजसो विसार आ ते सुपर्णा अमिनन्तँ एवैरिति आहुतिं वाहवनीये जुहुयादग्नये हिरण्यवते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि प्रातरस्नातोऽग्निहोत्रं जुहुयात्का तत्र प्रायश्चित्तिरिति सोऽग्नये वरुणायाष्टाकपा-लम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये त्वं नो अग्ने वरुणस्य विद्वान्स त्वं नो अग्नेऽवमो भवोतीत्याहुतिं वाहवनीये जुहुयादग्नये वरुणाय स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्यदि सूतकान्नम्प्राश्नीयात्का तत्र प्रायश्चित्तिरिति सोऽग्नाये तन्तुमतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये तन्तुं तन्व-न्रजसो भानुमन्विह्यक्षानहो नह्यतनोत सोम्या इति आहुतिं वाहवनीये जुहुयादग्नये तन्तुमते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुर्य आहिताग्निर्जीवे मृतशब्दं श्रुत्वा का तत्र प्रायश्चित्तिरिति सोऽग्नाये सुरभिमतेऽष्टाकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये अग्निर्होता न्यसीदद्यजीयान्साध्वीमकर्देववीतिं नो अद्येत्याहुतिं वाहवनीये जुहुयादग्नये सुरभिमते स्वाहेति सा तत्र प्रायश्चित्ति-स्तदाहुर्य आहिताग्निर्यस्य भार्या गौर्वा यमौ जनयेत्का तत्र प्रायश्चित्तिरिति सोऽग्नये मरुत्वते त्रयोदशकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये मरुतो यस्य हि क्षयेऽरा इवेदचरमा अहेवेत्याहुतिं वाहवनीये जुहुयादग्नये मरुत्वते स्वाहेति सा तत्र प्रायश्चित्तिस्तदाहुरपत्नीकोऽप्यग्निहोत्रमाहरेन्नाहरेदिति आहरे-दित्याहुर्यदि नाहरेदनद्धा पुरुषः कोऽनद्धापुरुष इति न देवान्न पितॄन्न मनुष्यानिति। तस्मादपत्नीकोऽप्तयग्निहोत्रमाहरेत्। तदेषाऽभि यज्ञगाथा गीयते। यजेत्सौत्रामण्यामपत्नीकोऽप्यसोमपः। मातापितृभ्यामनृणार्थाद्यजेति वचनाच्छ्रुतिरिति। तस्मात्सौम्यं याजयेत्॥7.9॥ (32.8)

तदाहुर्वाचाऽपत्नीकोऽग्निहोत्रं कथमेव जुहोति। निविष्टे मृता पत्नी नष्टा वाऽग्निहोत्रे कथमग्निहोत्रं जुहोति। पुत्रान्पौत्रान्नप्तॄनित्याहुरस्मिँश्च लोकेऽमुष्मिँश्चास्मिँल्लोकेऽयं स्वर्गोऽस्वर्गेण स्वर्गं लोकमारुरोहेत्यमुष्यैव लोकस्य संततिं धारयति यस्यैषां पत्नीं नैच्छेत्तस्मादपत्नीकस्याऽऽधानं कुर्वन्ति। अपत्नीकोऽग्निहोत्रं कथमग्निहोत्रं जुहोति श्रद्धा पत्नी सत्यं यजमानः श्रद्धा सत्यं तदित्युत्तमं मिथुनं श्रद्धया सत्येन मिथुनेन स्वर्गाँल्लोकाञ्जयतीति॥7.10॥ (32.9) (133)

तदाहुर्यद्दर्शपूर्णमासयोरुपवसति न ह वा अव्रतस्य देवा हविरश्नन्ति तस्मादुपवसत्युत मे देवा हविरश्नीयुरिति। पूर्वां पौर्णमासीमुपवसेदिति पैङ्ग्यमुत्तरामिति कौषीतकं या पूर्वा पौर्णमासी साऽनुमतिर्योत्तरा सा राका। या पूर्वाऽमावास्या सा सिनीवाली योत्तरा सा कुहूः। यां पर्यस्तमियादभ्युदियादिति सा तिथिः। पूर्वां पौर्णमासीमुपवसेदनिर्ज्ञाय पुरस्तादमावास्यायां चन्द्रमसं यदुपैति यद्यजते तेन सोमं क्रीणन्ति तेनोत्तरामुपवसेदुत्तराणि ह वै सोमो यजते सोममनु दैवतमेतद्वै देवसोमं यच्चन्द्रमास्तस्मादुत्तरामुपवसेत्॥7.11॥ (32.10)

तदाहुर्यस्याग्निमनुद्धृतमादित्योऽभ्युदियाद्वाभ्यस्तमियाद्वा प्रणीतो वा प्राग्घो-मादुपशाम्येत्का तत्र प्रायश्चित्तिरिति हिरण्यम्पुरस्कृत्य सायमुद्धरेज् ज्योतिर्वै शुक्रं हिरण्यं ज्योतिः शुक्रमसौ तदेव तज्ज्योतिः शुक्रम्पश्यन्नुद्धरति रजतमन्तर्धाय प्रातरुद्धरेदेतद्र ?ात्रिरूपम्पुरा सम्भेदाच्छायानामाहवनीयमुद्धरे-न्मृत्युर्वै तमश्छाया तेनैव तज्ज्योतिषा मृत्युं तमश्छायां तरति सा तत्र प्रायश्चित्तिस्तदाहुर्यस्य गार्हपत्याहवनीयावन्तरेणानो वा रथो वा श्वा वा प्रतिपद्येत का तत्र प्रायश्चित्तिरिति नैनन्मनसि कुर्यादित्याहुरात्मन्यस्य हिता भवन्तीति तच्चेन्मनसि कुर्वीत गार्हपत्यादविछिन्नामुदकधारां हरेत्तन्तुं तन्व-न्रजसो भानुमन्विहीत्याहवनीयात्सा तत्र प्रायश्चित्तिस्तदाहुः कथमग्नीनन्वा-दधानोऽन्वाहार्यपचनमाहारयेन्नाहारयेदिति आहारयेदित्याहुः प्राणान्वा एषो-ऽभ्यात्मं धत्ते योऽग्नीनाधत्ते तेषामेषोऽन्नादतमो भवति यदन्वाहार्यप-चनस्तस्मिन्नेतामाहुतिं जुहोत्यग्नयेऽन्नादायान्नपतये स्वाहेत्यन्नादो हान्नपतिर्भ-वत्यश्नुते प्रजयान्नाद्यं य एवं वेदान्तरेण गार्हपत्याहवनीयौ होष्यन्संचरेतैतेन ह वा एनं संचरमाणमग्नयो विदुरयमस्मासु होष्यतीत्येतेन ह वा अस्य संचर-माणस्य गार्हपत्याहवनीयौ पाप्मानमपहतः सोऽपहतपाप्मोर्ध्वः स्वर्गं लोक-मेतीति वै ब्राह्मणमुदाहरन्ति तदाहुः कथमग्नीन्प्रवत्स्यन्नुपतिष्ठेत प्रोष्य वा प्रत्येत्याहरहर्वेति तूष्णीमित्याहुस्तूष्णीं वै श्रेयस आकाङ्क्षन्तेऽथाप्याहुरहरहर्वा एते यजमानस्याश्रद्धयोद्वासनात्प्रप्लावनाद्बिभ्यति तानुपतिष्ठेतैवाभयं वोऽभयमेऽस्त्वित्यभयं हैवास्मै भवत्यभयं हैवास्मै भवति॥7.12॥ (32.11)

हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजापुत्र आस तस्य ह शतं जाया बभूवुस्तासु पुत्रं न लेभे तस्य ह पर्वतनारदौ गृह ऊषतुः स ह नारदम्पप्रछ यं न्विमम्पुत्रमिछन्ति ये विजानन्ति ये च न किं स्वित्पुत्रेण विन्दते तन्म आचक्ष्व नारदेति स एकया पृष्टो दशभिः प्रत्युवाच ऋनमस्मिन्संनयत्यमृतत्वं च गछति पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम्यावन्तः पृथिव्याम्भोगा यावन्तो जातवेदसि यावन्तो अप्सु प्राणिनाम्भूयान्पुत्रे पितुस्ततः शश्वत्पुत्रेण पित-रोऽत्यायन्बहुलं तमः आत्मा हि जज्ञ आत्मनः स इरावत्यतितारिणी किं नु मलं किमजिनं किमु श्मश्रूणि किं तपः पुत्रम्ब्रह्माण इच्छध्वं स वै लोकोऽवदावदः अन्नं ह प्राणः शरणं ह वासो रूपं हिरण्यम्पशवो विवाहाः सखा ह जाया कृपणं ह दुहिता ज्योतिर्ह पुत्रः परमे व्योमन्पतिर्जायाम्प्रविशति गर्भो भूत्वा स मातरम्तस्याम्पुनर्नवो भूत्वा दशमे मासि जायते तज्जाया जाया भवति यदस्यां जायते पुनः आभूतिरेषाभूतिर्बीजमेतन्निधीयते देवाश्चैतामृषयश्च तेजः समभरन्महत्देवा मनुष्यानब्रुवन्नेषा वो जननी पुनः नापुत्रस्य लोकोऽस्ती-ति तत्सर्वे पशवो विदुः तस्मात्तु पुत्रो मातरं स्वसारं चाधिरोहति एष पन्था उरुगायः सुशेवो यम्पुत्रिण आक्रमन्ते विशोकाः तम्पश्यन्ति पशवो वयांसि च तस्मात्ते मात्राऽपि मिथुनी भवन्ति। इति हास्मा आख्याय॥7.13॥ (33.1) (136)

अथैनमुवाच वरुणं राजानमुपधाव पुत्रो मे जायतां तेन त्वा यजा इति। तथेति स वरुणं राजानमुपससार पुत्रो मे जायतां तेन त्वा यजा इति तथेति तस्य पुत्रो जज्ञे रोहितो नाम। तं होवाचाजनि वै ते पुत्रो यजस्व माऽनेनेति स होवाच यदा वै पशुर्निर्दशो भवत्यथ स मेध्यो भवति निर्दशो न्वस्त्वथ त्वा यजा इति तथेति। स ह निर्दश आस तं होवाच निर्दशो न्वभूद्यजस्व माऽनेनेति स होवाच यदा वै पशोर्दन्ता जायन्तेऽथ स मेध्यो भवति दन्ता न्वस्य जायन्तामथ त्वा यजा इति तथेति। तस्य ह दन्ता जज्ञिरे तं होवाचाज्ञत वा अस्य दन्ता यजस्व माऽनेनेति स होवाच यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पद्यन्तामथ त्वा यजा इति तथेति। तस्य ह दन्ता पेदिरे तं होवाचापत्सत वा अस्य दन्ता यजस्व माऽनेनेति स होवाच यदा वै पशोर्दन्ताः पुनर्जायन्तामथ त्वा यजा इति तथेति। तस्य ह दन्ताः पुनर्जज्ञिरे तं होवाचाज्ञत वा अस्य पुनर्दन्ता यजस्व माऽनेनेति स होवाच यदा वै क्षत्त्रियः सांनाहुको भवत्यथ स मेध्यो भवति संनाहं नु प्राप्नोत्वथ त्वा यजा इति तथेति। स ह संनाहं प्रापत्तं होवाच संनाहं नु प्राप्नोद्यजस्व माऽनेनेति स तथेत्युक्त्वा पुत्रमामन्त्रयामास ततायं वै मह्यं त्वामददाद्धन्त त्वयाऽहमिमं यजा इति। स ह नेत्युक्त्वा धनुरादायारण्यमुपातस्थौ स संवत्सरमरण्ये चचार॥7.14॥ (33.2)

अथ हैक्ष्वाकं वरुणो जग्राह तस्य होदरं जज्ञे तदु ह रोहितः शुश्राव सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच नाना श्रान्ताय श्रीरस्तीति रोहित शुश्रुम पापो नृषद्वरो जन इन्द्र इच्चरतः सखा चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह द्वितीयं संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलग्रहिः शेरेऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हताश् चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह तृतीयं संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच आस्ते भग आसीनस्योर्ध्वस्तिष्ठति तिष्ठतः शेते निपद्यमानस्य चराति चरतो भगश् चरैवेति चरैवेति वै मा ब्राह्म-णोऽवोचदिति ह चतुर्थं संवत्सरमरण्ये चचार सोऽरण्याद्ग्रामनेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच कलिः शयानो भवति संजिहानस्तु द्वापरः उत्तिष्ठंस्त्रेता भवति कृतं सम्पद्यते चरंश् चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह पञ्चमं संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच चरन्वै मधु विन्दति चरन्स्वादुमुदुम्बरम्सूर्यस्य पश्य श्रेमाणं यो न तन्द्र यते चरंश् चरैवेति चरैवेति वै मा ब्राह्मणोऽवोचदिति ह षष्ठं संवत्सरमरण्ये चचार सोऽजीगर्तं सौयवसिमृषिमशनायापरीतमरण्य उपेयाय तस्य ह त्रयः पुत्रा आसुः शुनःपुछः शुनःशेपः शुनोलाङ्गूल इति तं होवाच ऋषेऽहं ते शतं ददा-म्यहमेषामेकेनात्मानं निष्क्रीणा इति स ज्येष्ठम्पुत्रं निगृह्णान उवाच न न्विममिति नो एवेममिति कनिष्ठम्माता तौ ह मध्यमे सम्पादयां चक्रतुः शुनःशेपे तस्य ह शतं दत्त्वा स तमादाय सोऽरण्याद्ग्राममेयाय स पितरमेत्योवाच तत हन्ता-हमनेनात्मानं निष्क्रीणा इति स वरुणं राजानमुपससारानेन त्वा यजा इति तथेति भूयन्वै ब्राह्मणः क्षत्रियादिति वरुण उवाच तस्मा एतं राजसूयं यज्ञक्रतुं प्रोवाच तमेतमभिषेचनीये पुरुषं पशुमालेभे॥7.15॥ (33.3)

तस्य ह विश्वामित्रो होतासीज्जमदग्निरध्वर्युर्वसिष्ठो ब्रह्मायास्य उद्गाता तस्मा उपाकृताय नियोक्तारं न विविदुः स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं दत्ताहमेनं नियोक्ष्यामीति तस्मा अपरं शतं ददुस्तं स नियुयोज तस्मा उपाकृताय नियुक्तायाप्रीताया पर्यग्निकृताय विशसितारं न विविदुः स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं दत्ताहमेनं विशसिष्यामीति तस्मा अपरं शतं ददुः सोऽसिं निःश्यान एयायाथ ह शुनःशेप ईक्षां चक्रे ऽमानुषमिव वै मा विशसिष्यन्ति हन्ताहं देवता उपधावानीति स प्रजापतिमेव प्रथमं देवताना-मुपसासर कस्य नूनं कतमस्यामृतानामित्येतयर्चा तम्प्रजापतिरुवाचाग्निर्वै देवानां नेदिष्ठस्तमेवोपधावेति सोऽग्निमुपससाराग्नेर्वयम्प्रथमस्यामृतानामिति एतयर्चा तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति स सवितारमुपससाराभि त्वा देव सवितरित्येतेन तृचेन तं सवितोवाच वरुणाय वै राज्ञे नियुक्तोऽसि तमेवोपधावेति स वरुणं राजानमुपससारात उत्तराभिरेक-त्रिंशता तं वरुण उवाचाग्निर्वै देवानाम्मुखं सुहृदयतमस्तं नु स्तुह्यथ त्वोत्स्र-क्ष्याम इति सोऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या तमग्निरुवाच विश्वान्नु देवान्स्तुह्यथ त्वोत्स्रक्ष्याम इति स विश्वान्देवांस्तुष्टाव नमो महद्भ्यो नमो अर्भ-केभ्य इत्येतयर्चा तं विश्वे देवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स इन्द्रं तुष्टाव यच्चिद्धि सत्य सोमपा इति चैतेन सूक्तेनोत्तरस्य च पञ्चदशभिस्तस्मा इन्द्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ तमेतया प्रतीयाय शश्वदिन्द्र इति तमिन्द्र उवाचाश्विनौ नो स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽश्विनौ तुष्टावात उत्तरेण तृचेन तमश्विना उचतुरुषसं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स उषसं तुष्टावात उत्तरेन तृचेन तस्य ह स्मर्च्यृच्युक्तायां वि पाशो मुमुचे कनीय ऐक्ष्वाकस्योदरम्भवत्युत्तमस्यामेवर्च्युक्तायां वि पाशो मुमुचेऽगद ऐक्ष्वाक आस॥7.16॥ (33.4)

तमृत्विज ऊचुस्त्वमेव नोऽस्याह्नः संस्थामधिगछेत्यथ हैतं शुनःशेपोऽञ्जःसवं ददर्श तमेताभिश्चतसृभिरभिसुषाव यच्चिद्धि त्वं गृहेगृह इत्यथैनं द्र ?ोणकलशम-भ्यवनिनायोच्छिष्टं चम्वोर्भरेत्येतयर्चाथ हास्मिन्नन्वारब्धे पूर्वाभिश्चतसृभिः सस्वाहाकाराभिर्जुहवां चकाराथैनमवभृथमभ्यवनिनाय त्वं नो अग्ने वरुणस्य विद्वानित्येताभ्यामथैनमत ऊर्ध्वमग्निमाहवनीयमुपस्थापयां चकार शुनश्चि-च्छेपं निदितं सहस्रादित्यथ ह शुनःशेपो विश्वामित्रस्याङ्कमाससाद स होवा-चाजीगर्तः सौयवसिरृषे पुनर्मे पुत्रं देहीति नेति होवाच विश्वामित्रो देवा वा इमम्मह्यमरासतेति स ह देवरातो वैश्वामित्र आस तस्यैते कापिलेयबाभ्रवाः स होवचाजीगर्तः सौयवसिस्त्वम्वेहि विह्वयावहा इति स होवाचाजीगर्तः सौय-वसिराङ्गिरसो जन्मनास्याजीगर्तिः श्रुतः कविः रिषे पैतामहात्तन्तोर्मापगाः पुनरेहि माम् इति स होवाच शुनःशेपोऽदर्श्?स्त्वा शासहस्तं न यच्छूद्रे ष्वलप्सत गवां त्रीणि शतानि त्वमवृणीथा मदङ्गिर इति स होवाचाजीगर्तः सन्यव-सिस्तद्वै मा तात तपति पापं कर्म मया कृतम्तदहं निह्नवे तुभ्यम्प्रतियन्तु शता गवाम् इति स होवाच शुनःशेपोयः सकृत्पापकं कुर्यात्कुर्यादेनत्ततोऽप-रम्नापागाः शौद्र ?ान्न्यायादसंधेयं त्वया कृतम् इत्यसंधेयमिति ह विश्वामित्र उपपपाद स होवाच विश्वामित्रो भीम एव सौयवसिः शासेन विशिशासिषुः अस्थान्मैतस्य पुत्रो भूर्ममैवोपेहि पुत्रताम् इति स होवाच शुनःशेपः स वै यथा नो ज्ञपया राजपुत्र तथा वद यथैवाङ्गिरसः सन्नुपेयां तव पुत्रताम् इति स होवाच विश्वामित्रो ज्येष्ठो मे त्वम्पुत्राणां स्यास्तव श्रेष्ठा प्रजा स्यातुपेया दैवम्मे दायं तेन वै त्वोपमन्त्रय इति स होवाच शुनःशेपः संजानानेषु वै ब्रूयाः सौहर्द्याय मे श्रियै यथाहम्भरतऋषभोपेयां तव पुत्रताम् इत्यथ ह विश्वामित्रः पुत्राना-मन्त्रयामास मधुछन्दाः शृणोतन ऋषभो रेणुरष्टकः ये केच भ्रातरः स्थ नास्मै ज्यैष्ठ्याय कल्पध्वमिति॥7.17॥ (33.5)

तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसुः पञ्चाशदेव ज्यायांसो मधुच्छन्दसः पञ्चाशत्कनीयांसः। तद्ये ज्यायांसो न ते कुशलं मेनिरे ताननु व्याजहारान्तान्वः प्रजा भक्षीष्टेति त एतेऽन्ध्राः पुण्ड्राः शबराः पुलिन्दा मूतिबा इत्युदन्त्या बहवो वैश्वामित्रा दस्यूनां भूयिष्ठाः। स होवाच मधुच्छन्दाः पञ्चाशता सार्धं यन्नः पिता संजानीते तस्मिंस्तिष्ठामहे वयम्। पुरस्त्वा सर्वे कुर्महे त्वामन्वञ्चो वयं स्मसीति। अथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव। ते वै पुत्राः पशुमन्तो वीरवन्तो भविष्यथ। ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त मा। पुर एत्रा वीरवन्तो देवरातेन गाथिनाः। सर्वे राध्याः स्थ पुत्रा एष वः सद्विवाचनम्। एष वः कुशिका वीरो देवरातस्तमन्वित। युष्मांश्च दायं म उपेता विद्यां यामु च विद्मसि। ते सम्यञ्चो वैश्वामित्राः सर्वे साकं सरातयः। देवराताय तस्थिरे धृत्यै श्रैष्ठ्याय गाथिनाः। अधीयत देवरातो रिक्थयोरुभयोर्ऋषिः। जह्नूनांचाधिपत्ये दैवे वेदे च गाथिनाम्। तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानम्। तद्धोता राज्ञेऽभिषिक्तायाऽऽचष्टे। हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति यशो वै हिरण्यं यशसैवैनं तत्समर्धयति। ओमित्यृचः प्रतिगर एवं तथेति गाथाया ओमिति वै दैव तथेति मानुषं दैवेन चैवैनं तन्मानुषेण च पापादेनसः प्रमुञ्चति। तस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनःशेपमाख्यानं न हास्मिन्नल्पं चनैनः परिशिष्यते। सहस्रमाख्यात्रे दद्याच्छतं प्रतिगरित्र एते चैवाऽऽसने श्वेतश्चाश्वतरीरथो होतुः। पुत्रकामा हाप्याख्यापयेरँल्लभन्ते ह पुत्राँल्लभन्ते ह पुत्रान्॥7.18॥ (33.6)

प्रजापतिर्यज्ञमसृजत यज्ञं सृष्टमनु ब्रह्मक्षत्रे असृज्येताम्ब्रह्मक्षत्रे अनु द्वय्यः प्रजा असृज्यन्त हुतादश्चाहुतादश्च ब्रह्मैवानु हुतादः क्षत्रमन्वहुताद एता वै प्रजा हुतादो यद्ब्राह्मणा अथैता अहुतादो यद्र ?ाजन्यो वैश्यः शूद्र स्ताभ्यो यज्ञ उदक्राम-त्तम्ब्रह्मक्षत्रे अन्वैतां यान्येव ब्रह्मण आयुधानि तैर्ब्रह्मान्वैद्यानि क्षत्रस्य तैः क्षत्रमेतानि वै ब्रह्मण आयुधानि यद्यज्ञायुधान्यथैतानि क्षत्रस्यायुधानि यदश्वरथः कवच इषुधन्व तं क्षत्रमनन्वाप्य न्यवर्ततायुधेभ्यो ह स्मास्य विजमानः पराङेवैत्यथैनम्ब्रह्मान्वैत्तमाप्नोत्तमाप्त्वा परस्तान्निरुध्यातिष्ठत्स आप्तः परस्ता-न्निरुद्धस्तिष्ठञ्ज्ञात्वा स्वान्यायुधानि ब्रह्मोपावर्तत तस्माद्धाप्येतर्हि यज्ञो ब्रह्म-ण्येव ब्राह्मणेषु प्रतिष्ठितोऽथैनत्क्षत्रमन्वागछत्तदब्रवीदुप मास्मिन्यज्ञे ह्वयस्वेति तत्तथेत्यब्रवीत्तद्वै निधाय स्वान्यायुधानि ब्रह्मण एवायुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तस्वेति तथेति तत्क्षत्रं निधाय स्वान्यायुधानि ब्रह्मण एवा-युधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तत तस्माद्धाप्येतर्हि क्षत्रियो यजमानो निधायैव स्वान्यायुधानि ब्रह्मण एवायुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तते॥7.19॥ (34.1)

अथातो देवयजनस्यैव याच्ञ्यश्तदाहुर्यद्ब्राह्मणो राजन्यो वैश्यो दीक्षिष्यमाणं क्षत्रियं देवयजनं याचति कं क्षत्रियो याचेदिति दैवं क्षत्रं याचेदित्याहुरादित्यो वै दैवं क्षत्रमादित्य एषाम्भूतानामधिपतिः स यदहर्दीक्षिष्यमाणो भवति तदहः पूर्वाह्ण एवोद्यन्तमादित्यमुपतिष्ठेतेदम्श्रेष्ठं ज्योतिषां ज्योतिरुत्तमम् देव सवित-र्देवयजनम्मे देहि देवयजनं इति देवयजनं याचति स यत्तत्र याचित उत्तरां सर्पत्यों तथा ददामीति हैव तदाह तस्य ह न का चन रिष्टिर्भवति देवेन सवित्रा प्रसूतस्योत्तरोत्तरिणीम्ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमुपस्थाय याचित्वा देवयजनमध्यवसाय दीक्षते क्षत्त्रियः सन्॥7.20॥ (34.2)

अथात इष्टापूर्तस्यापरिज्यानिः क्षत्रियस्य यजमानस्य स पुरस्ताद्दीक्षाया आहुतिं जुहुयाच्चतुर्गृहीतमाज्यमाहवनीय इष्टापूर्तस्यापरिज्यान्यै पुनर्न इन्द्रो मघवा ददातु ब्रह्म पुनरिष्टम्पूर्तं दात्स्वाहेत्यथानूबन्ध्यायै समिष्टयजुषामुपरिष्टात्पुनर्नो अग्निर्जातवेदा ददातु क्षत्रम्पुनरिष्टम्पूर्तं दात्स्वाहेति सैषेष्टापूर्तस्यापरिज्यानिः क्षत्त्रियस्य यजमानस्य यदेते आहुती तस्मादेते होतव्ये॥7.21॥ (34.3)

तदु ह स्माह सौजात आराळ्हिरजीतपुनर्वण्यं वा एतद्यदेते आहुती इति यथा ह कामयेत तथैते कुर्याद्य इतोऽनुशासनं कुर्यादितीमे त्वेव जुहुयाद्ब्रह्म प्रपद्ये ब्रह्म माक्षत्राद्गोपायतु ब्रह्मणे स्वाहेति तत्तदितीँ ब्रह्म वा एष प्रपद्यते यो यज्ञम्प्रपद्यते ब्रह्म वै यज्ञो यज्ञादु ह वा एष पुनर्जायते यो दीक्षते तम्ब्रह्म प्रपन्नं क्षत्रं न परिजिनाति ब्रह्म मा क्षत्राद्गोपायत्वित्याह यथैनम्ब्रह्म क्षत्राद्गोपा-येद्ब्रह्मणे स्वाहेति तदेनत्प्रीणाति तदेनत्प्रीतं क्षत्राद्गोपायत्यथानूबन्ध्यायै समिष्टयजुषामुपरिष्टात्क्षत्रम्प्रपद्ये क्षत्रम्मा ब्रह्मणो गोपायतु क्षत्राय स्वाहेति तत्तदितीँ क्षत्रं वा एष प्रपद्यते यो राष्ट्रम्प्रपद्यते क्षत्रं हि राष्ट्रं तं क्षत्रम्प्रपन्नम्ब्रह्म न परिजिनाति क्षत्रम्मा ब्रह्मणो गोपायत्वित्याह यथैनं क्षत्रम्ब्रह्मणो गोपा-येत्क्षत्राय स्वाहेति तदेनत्प्रीणाति तदेनत्प्रीतम्ब्रह्मणो गोपायति सैषेष्टापूर्तस्यैवापरिज्यानिः क्षत्त्रियस्य यजमनस्य यदेते आहुती तस्मादेते एव होतव्ये॥7.22॥ 34.4

अथैन्द्रो वै देवतया क्षत्रियो भवति त्रैष्टुभश्छन्दसा पञ्चदशः स्तोमेन सोमो राज्येन राजन्यो बन्धुना स ह दीक्षमाण एव ब्राह्मणतामभ्युपैति यत्कृ-ष्णाजिनमध्यूहति यद्दीक्षितव्रतं चरति यदेनम्ब्राह्मणा अभिसंगछन्ते तस्य ह दीक्षमाणस्येन्द्र एवेन्द्रि यमादत्ते त्रिष्टुब्वीर्यम्पञ्चदशः स्तोम आयुः सोमो रा-ज्यम्पितरो यशस्कीर्तिमन्यो वा अयमस्मद्भवति ब्रह्म वा अयम्भवति ब्रह्म वा अयमुपावर्तत इति वदन्तः स पुरस्ताद्दीक्षाया आहुतिं हुत्वाहवनीयमुपतिष्ठेत नेन्द्राद्देवताया एमि न त्रिष्टुभश्छन्दसो न पञ्चदशत्स्तोमान्न सोमाद्र ?ाज्ञो न पि त्र्?याद्बन्धोर्मा म इन्द्र इन्द्रि यमादित मा त्रिष्टुब्वीर्यम्मा पञ्चदशः स्तोम आयुर्मा सोमो राज्यम्मा पितरो यशस्कीर्तिं सहेन्द्रि येण वीर्येणायुषा राज्येन यशसा बन्धुनाग्निमुपैमि गायत्रीं छन्दस्त्रिवृतं स्तोमं सोमं राजानम्ब्रह्म प्रपद्ये ब्राह्मणो भवामीति तस्य ह नेन्द्र इन्द्रि यमादत्ते न त्रिष्टुब्वीर्यं न पञ्चदशः स्तोम आयुर्न सोमो राज्यं न पितरो यशस्कीर्तिं य एवमेतामाहुतिं हुत्वाऽऽहवनीयमुपस्थाय दीक्षते क्षत्त्रियः सन्॥7.23॥ 34.5 (146)

अथाग्नेयो वै देवतया क्षत्रियो दीक्षितो भवति गायत्रश्छन्दसा त्रिवृत्स्तोमेन ब्राह्मणो बन्धुना स होदवस्यन्नेव क्षत्रियतामभ्युपैति तस्य होदवस्यतोऽग्निरेव तेज आदत्ते गायत्री वीर्यं त्रिवृत्स्तोम आयुर्ब्राह्मणा ब्रह्म यशस्कीर्तिमन्यो वा अयमस्मद्भवति क्षत्रं वा अयम्भवति क्षत्रं वा अयमुपावर्तत इति वदन्तः सोऽनूबन्ध्यायै समिष्टयजुषामुपरिष्टाद्धुत्वाहुतिमाहवनीयमुपतिष्ठेत नाग्नेर्देव-ताया एमि न गाय त्र्?याश्छन्दसो न त्रिवृतः स्तोमान्न ब्रह्मणो बन्धोर्मा मेऽग्निस्तेज आदित मा गायत्री वीर्यम्मा त्रिवृत्स्तोम आयुर्मा ब्राह्मणा ब्रह्म यशस्कीर्तिं सह तेजसा वीर्येणायुषा ब्रह्मणा यशसा कीर्त्येन्द्रं देवतामुपैमि त्रिष्टुभं छन्दः पञ्चदशं स्तोमं सोमं राजानं क्षत्रम्प्रपद्ये क्षत्रियो भवामि देवाः पितरः पितरो देवा योऽस्मि स सन्यजे स्वम्म इदमिष्टं स्वम्पूर्तं स्वं श्रान्तं स्वं हुतम्तस्य मेऽयम-ग्निरुपद्र ष्टायं वायुरुपश्रोतासावादित्योऽनुख्यातेदमहं य एवास्मि सोऽस्मीति तस्य ह नाग्निस्तेज आदत्ते न गायत्री वीर्यं न त्रिवृत्स्तोम आयुर्न ब्राह्मणा ब्रह्म यशस्कीर्तिं य एवमेतामाहुतिं हुत्वाहवनीयमुपस्थायोदवस्यति क्षत्रियः सन्॥7.24॥ 34.6

॥7.25॥ manuscript not readable
॥7.26॥
॥7.27॥

यत्रेन्द्रं देवताः पर्यवृञ्जन्विश्वरूपं त्वाष्ट्रमभ्यमंस्त वृत्रमस्तृत यतीन्सालावृकेभ्यः प्रादादरुरुमघानवधीद्बृहस्पतेः प्रत्यवधीदिति तत्रेन्द्रः सोमपीथेन व्यार्ध्यते-न्द्र स्यानु व्यृद्धिं क्षत्रं सोमपीथेन व्यार्ध्यतापीन्द्रः सोमपीथेऽभवत्त्वष्टुरामुष्य सोमं तद्व्यृद्धमेवाद्यापि क्षत्रं सोमपीथेन स यस्तम्भक्षं विद्याद्यः क्षत्रस्य सोमपिथेन व्यृइद्धस्य येन क्षत्रं समृध्यते कथं तं वेदेरुत्थापयन्तीति वेत्थ ब्राह्मण त्वं तम्भक्षाम् वेद हीति तं वै नो ब्राह्मण ब्रूहीति तस्मै वै ते राजन्निति होवाच॥7.28॥ (35.2)

त्रयाणाम्भक्षाणामेकमाहरिष्यन्ति सोमं वा दधि वापो वा स यदि सोम-म्ब्राह्मणानां स भक्षो ब्राह्मणांस्तेन भक्षेण जिन्विष्यसि ब्राह्मणकल्पस्ते प्रजायामाजनिष्यत आदाय्यापाय्यावसायी यथाकामप्रयाप्यो यदा वै क्षत्रियाय पापम्भवति ब्राह्मणकल्पोऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा ब्राह्मणतामभ्युपैतोः स ब्रह्मबन्धवेन जिज्यूषितोऽथ यदि दधि वैश्यानां स भक्षो वैश्यांस्तेन भक्षेण जिन्विष्यसि वैश्यकल्पस्ते प्रजायामा-जनिष्यतेऽन्यस्य बलिकृदन्यस्याद्यो यथाकामज्येयो यदा वै क्षत्रियाय पाप-म्भवति वैश्यकल्पोऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा वैश्यतामभ्युपैतोः स वैश्यतया जिज्यूषितोऽथ यद्यपः शूद्र ?ाणां स भक्षः शूद्र ?ांस्तेन भक्षेण जिन्विष्यसि शूद्र कल्पस्ते प्रजायामाजनिष्यतेऽन्यस्य प्रेष्यः कामोत्थाप्यो यथाकामवध्यो यदा वै क्षत्रियाय पापम्भवति शूद्र कल्पोऽस्य प्रजायामाजायत ईश्वरो हास्माद्द्वितीयो वा तृतीयो वा शूद्रतामभ्युपैतोः स शूद्रतया जिज्यूषितः॥7.29॥ (35.3)

एते वै ते त्रयो भक्षा राजन्निति होवाच येषमाशां नेयात्क्षत्त्रियो यजमानः। अथास्यैष स्वो भक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बराण्याश्वत्थानि प्लाक्षाण्यभिषुणुयात्तानि भक्षयेत्सोऽस्य स्वो भक्षः। यतो वा अधि देवा यज्ञेनेष्ट्वा स्वर्गं लोकमायंस्तत्रैतांश्चमसान्न्युब्जंस्ते न्यग्रोधा अभवन्न्युब्जा इति हाप्येनानेतर्ह्याचक्षते कुरुक्षेत्रे ते ह प्रथमजा न्यग्रोधानां तेभ्यो हान्येऽधिजाताः। ते यन्न्यञ्चोऽरोहंस्तस्मान्यङ् रोहति न्यग्रोहो न्यग्रोहो वै नाम तन्न्यग्रोहं सन्तं न्यग्रोध इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः॥7.30॥ (35.4)

तेषां यश्चमसानां रसोऽवाङैत्तेऽवरोधा अभवन्नथ य ऊर्ध्वस्तानि फलानि। एष ह वाव क्षत्त्रियः स्वाद्भक्षान्नैति यो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्युपाह परोक्षेणैव सोमपीथमाप्नोति नास्य प्रत्यक्षं भक्षितो भवति परोक्षमिव ह वा एष सोमो राजा यन्न्यग्रोधः परोक्षमिवैष ब्रह्मणो रूपमुपनिगच्छति यत्क्षत्त्रियः पुरोधयैव दीक्षयेव प्रवरेणैव। क्षत्त्रं वा एतद्वनस्पतीनां यन्न्यग्रोधः क्षत्त्रं राजन्यो नितत इव हीह क्षत्त्रियो राष्ट्रे वसन्भवति प्रतिष्ठित इव नितत इव न्यग्रोधोऽवरोहैर्भूम्यां प्रतिष्ठित इव। तद्यत्क्षत्त्रियो यजमानो न्यग्रोधस्यावरोधांश्च फलानि च भक्षयत्यात्मन्येव तत्क्षत्त्रं वनस्पतीनां प्रतिष्ठापयति क्षत्त्र आत्मानम्। क्षत्त्रे ह वै स आत्मनि क्षत्त्रं वनस्पतीनां प्रतिष्ठापयति न्यग्रोध इवावरोधैर्भूम्यां प्रति राष्ट्रे तिष्ठत्युग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्त्रियो यजमानः॥7.31॥ (35.5) (154)

अथ यदौदुम्बराण्यूर्जो वा एषोऽन्नाद्याद्वनस्पतिरजायत यदुदुम्बरो भौज्यं वा एतद्वनस्पतीनामूर्जमेवास्मिंस्तदन्नाद्यं च भौज्यं च वनस्पतीनां क्षत्रे दधात्यथ यदाश्वत्थानि तेजसो वा एष वनस्पतिरजायत यदश्वत्थः साम्राज्यं वा एतद्वनस्पतीनाम्तेज एवास्मिंस्तत्साम्राज्यं च वनस्पतीनां क्षत्रे दधात्यथ यत्प्लाक्षाणि यशसो वा एष वनस्पतिरजायत यत्प्लक्षः स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनां यश एवास्मिंस्तत्स्वाराज्यवैराज्ये च वनस्पतीनां क्षत्रे दधात्येतान्यस्य पुरस्तादुपक्लृप्तानि भवन्त्यथ सोमं राजानं क्रीनन्ति ते राज्ञ एवावृतोपवसथात् प्रतिवेशैश्चरन्ति अथौपवसथ्यमहरेतान्यध्वर्युः पुरस्तादुपकल्पयेताधिषवणं चर्माधिषवणे फलके द्र ?ोणकलशं दशापवि-त्रमद्र ?ीन्पूतभृतं चाधवनीयं च स्थालीमुदञ्चनं चमसं च तद्यदेतद्र ?ाजनम्प्रा-तरभिषुण्वन्ति तदेनानि द्वेधा विगृह्णीयादभ्यन्यानि सुनुयान्माध्यंदिनायान्यानि परिशिंष्यात्॥7.32॥ (35.7)

तद्यत्रैतांश्चमसानुन्नयेयुस्तदेतं यजमानचमसमुन्नयेत्तस्मिन्द्वे दर्भतरुणके प्रास्ते स्यातां तयोर्वषट्कृतेऽन्तःपरिधि पूर्वम्प्रास्येद्दधिक्राव्णो अकारिषं इत्येतयर्चा सस्वाहकारयानुवषट्कृतेऽपरमा दधिक्राः शवसा पञ्च कृष्टीरिति तद्यत्रैतांश्चम-सानाहरेयुस्तदेतं यजमानचमसमाहरेत्तान्यत्रोद्गृह्णीयुस्तदेनमुपोद्गृह्णीयात्तद्यदेळां होतोपह्वयेत यदा चमसम्भक्षयेदथैनमेतया भक्षयेद्यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामीति शिवो ह वा अस्मा एष वानस्पत्यः शिवेन मनसा भक्षितो भवत्युग्रं हास्य राष्ट्रमव्यथ्यम्भवति य एवमेतम्भक्षम्भक्षयति क्षत्रियो यजमानः शं ना एधि हृइदे पीतः पीतः प्र ण आयुर्जीवसे सोम तारीरित्यात्मनः प्रत्यभिमर्श ईश्वरो ह वा एषोऽप्रत्यभिमृष्टो मनुष्यस्यायुः प्रत्यवहर्तोरनर्हन्मा भक्षयतीति तद्यदेतेनात्मानमभिमृशत्यायुरेव तत्प्रतिरत आ प्यायस्व समेतु ते सं ते पयांसि समु यन्तु वाजा इति चमसमाप्याययत्यभिरूपाभ्यां यद्यज्ञेऽभिरूपं तत्समृद्धम्॥7.33॥ (35.7)

तद्यत्रैतांश्चमसान्सादयेयुस्तदेतं यजमानचमसं सादयेतान्यत्र प्रकम्पयेयुस्तदेनमनु प्रकम्येदथैनमाहृतं भक्षयेन्नराशंसपीतस्य देव सोम ते मतिविद ऊमैः पितृभिर्भक्षितस्य भक्षयामीति प्रातःसवने नाराशंसो भक्ष ऊर्वैरिति माध्यंदिने काव्यैरिति तृतीयसवने। ऊमा वै पितरः प्रातःसवन ऊर्वा माध्यंदिने काव्यास्तृतीयसवने तदेतत्पितॄनेवामृतान्सवनभाजः करोति। सर्वो हैव सोऽमृत इति ह स्माऽऽह प्रियव्रतः सोमापो यः कश्च सवनभागिति। अमृता ह वा अस्य पितरः सवनभाजो भवन्त्युग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्त्रियो यजमानः। समान आत्मनः प्रत्यभिमर्शः समानमाप्यायनं चमसस्य। प्रातःसवनस्यैवाऽऽवृता प्रातःसवने चरेयुर्माध्यंदिनस्य माध्यंदिने तृतीयसवनस्य तृतीयसवने। तमेतमेतं भक्षं प्रोवाच रामो मार्गवेयो विश्वंतराय सौषद्मनाय। तस्मिन्होवाच प्रोक्ते सहस्रमु ह ब्राह्मण तुभ्यं दद्मः सश्यापर्ण उ मे यज्ञ इति। एतमु हैव प्रोवाच तुरः कावषेयो जनमेजयाय पारिक्षितायैतमु हैव प्रोचतुः पर्वतनारदौ सोमकाय साहदेव्याय सहदेवाय सार्ञ्जयाय बभ्रवे दैवावृधाय भीमाय वैदर्भाय नग्नजिते गान्धारायैतमु हैव प्रोवाचाग्निः सनश्रुतायारिंदमाय क्रतुविदे जानकय एतमु हैव प्रोवाच वसिष्ठः सुदासे पैजवनाय ते ह ते सर्व एव महज्जग्मुरेतं भक्षं भक्षयित्वा सर्वे हैव महाराजा आसुरादित्य इव ह स्म श्रियां प्रतिष्ठितास्तपन्ति सर्वाभ्यो दिग्भ्यो बलिमावहन्तः। आदित्य इव ह वै श्रियां प्रतिष्ठिस्तपति सर्वाभ्यो दिग्भ्यो बलिमावहत्युग्रं हास्य राष्ट्रमव्यथ्यं भवति य एवमेतं भक्षं भक्षयति क्षत्त्रियो यजमानो यजमानः॥॥7.34॥ (35.8) (157)

अथातः स्तुतशस्त्रयोरेवैकाहिकम्प्रातःसवनमैकाहिकं तृतीयसवनमेते वै शान्ते क्लृप्ते प्रतिष्ठिते सवने यदैकाहिके शान्त्यै क्लृप्त्यै प्रतिष्ठित्या अप्रच्युत्या उक्तो माध्यंदिनः पवमानो य उभयसाम्नो बृथत्पृष्ठस्योभे हि सामनी क्रियेते आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति राथंतरी प्रतिपद्र ?ाथंतरोऽनुचरः पवमानोक्थं वा एतद्यन्मरुत्वतीयम्पवमाञे वा अत्र रथंतरं कुर्वन्ति बृहत्पृष्ठं सवीवधतायै तदिदं रथंतरं स्तुतमाभ्याम्प्रतिपदनुचराभ्यामनुशंसत्यथो ब्रह्म वै रथंतरं क्षत्रं बृहद्ब्रह्म खलु वै क्षत्रात्पूर्वम्ब्रह्मपुरस्तान्म उग्रं राष्ट्रमव्यथ्यमसदित्यथान्नं वै रथंतरमन्नमेवास्मै तत्पुरस्तात्कल्पयत्यथेयं वै पृथिवी रथंतरमियं खलु वै प्रतिष्ठ प्रतिष्ठामेवास्मै तत्पुरस्तात्कल्पयति समान इन्द्र निहवोऽविभक्तः सोऽह्नामु-द्वान्ब्राह्मणस्पत्य उभयसाम्नो रूपमुभे हि सामनी क्रियेते समान्यो धाय्या अविभक्तास्ता अह्नाम्। ऐकाहिको मरुत्वतीयः प्रगाथः॥8.1॥ (36.1) (158)

जनिष्ठा उग्रः सहसे तुरायेति सूक्तमुग्रवत्सहस्वत्तत्क्षत्त्रस्य रूपं मन्द्र ओजिष्ठ इत्योजस्वत्तत्क्षत्त्रस्य रूपं बहुलाभिमान इत्याभिवदभिभूत्यै रूपं तदेकादशर्चं भवत्येकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभो वै राजन्य ओजो वा इन्दिरियं वीर्यं त्रिष्टुबोजः क्षत्त्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति तद्गौरिवीतं भवत्येतद्वै मरुत्वतीयं समृद्धं यद्गौरिवीतं तस्योक्तंब्राह्मणम्। त्वामिद्धि हवामह इति बृहत्पृष्ठं भवति क्षत्त्रं वै बृहत्क्षत्त्रेणैव तत्क्षत्त्रं समर्धयत्यथो क्षत्त्रं वै बृहदात्मा यजमानस्य निष्केवल्यं तद्यद्बृहत्पृष्ठं भवति क्षत्त्रं वै बृहत्क्षत्त्रेणैवैनं तत्समर्धयत्यथो ज्यैष्ठ्यं वै बृहज्ज्यैष्ठ्यैनैवैनं तत्समर्धयत्यथो श्रैष्ठ्यं वै बृहच्छ्रैष्ठ्येनैवैनं तत्समर्धयति। अभि त्वा शूर नोनुम िति रथंतरमनुरूपं कुर्वन्त्ययं वै लोको रथंतरमसौ लोको बृहदस्य वै लोकस्यासौ लोको ऽनुरूपोऽमु,्य लोकस्यायं लोको ऽनुरूपस्तद्यद्रथंतरमनुरूपं कुर्वन्त्युभावेव तल्लोकौ यजमानाय संभोगिनौ कुर्वन्त्यथो ब्रह्म वै रथंतरं क्षत्त्रं बहद्ब्रह्माणि खलु वै क्षत्त्रं प्रतिष्ठितं क्षत्त्रे ब्रह्माथो साम्न एव सयोनितायै। यद्वावानेति दाय्या तस्या उक्तं ब्राह्मणम्। उभयं शृणवच्चन इति सामप्रगाथ उभयसाम्नो रूपमुभे हि सामनी क्रियेते ॥8.2॥ (36.2)
तमु ष्टुहि यो अभिभूत्योजा इति सूक्तमभिवदभिभूत्यै रूपमषाळ्हमुग्रं सहमानमाभिरित्युग्रवत्सहमानवत्तत्क्षत्रस्य रूपं तत्पञ्चदशर्चम्भवत्योजो वा इन्द्रि यं वीर्यम्पञ्चदश ओजः क्षत्रं वीर्यम्राजन्यस्तदेनमोजसा क्षत्रेण वीर्येण समर्धयति तद्भारद्वाजम्भवति भारद्वाजं वै बृहदार्षेयेण सलोमैष ह वाव क्षत्रिययज्ञः समृद्धो यो बृहत्पृष्ठस्तस्माद्यत्र क्वच क्षत्रियो यजेत बृहदेव तत्र पृष्ठं स्यात्तत्समृद्धम्॥8.3॥ (36.3)

ऐकाहिका होत्रा एता वै शान्ताः क्लृप्ताः प्रतिष्ठिता होत्रा यदैकाहिकाः शान्त्यै क्लृप्त्यै प्रतिष्ठित्या अप्रच्युत्यै ताः सर्वरूपा भवन्ति सर्वसमृद्धाः सर्वरूपतायै सर्वसमृद्ध्यै सर्वरूपाभिर्होत्राभिः सर्वसमृद्धाभिः सर्वान्कामानवाप्नवामेति तस्माद्यत्र क्वचैकाहा असर्वस्तोमा असर्वपृष्ठा ऐकाहिका एव तत्र होत्राः स्युस्तत्समृद्धमुक्थ्य एवायम्पञ्चदशः स्यादित्याहुरोजो वा इन्द्रि यं वीर्यम्पञ्चदश ओजः क्षत्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्रेण वीर्येण समर्धयति तस्य त्रिंशत्स्तुतशस्त्राणि भवन्ति त्रिंशदक्षरा वै विराड्विराडन्नाद्यं विराज्येवैनं तदन्नाद्ये प्रतिष्ठापयति तस्मात्तदुक्थ्यः पञ्चदशः स्यादित्याहुर्ज्योतिष्टोम एवा-ग्निष्टोमः स्याद्ब्रह्म वै स्तोमानां त्रिवृत्क्षत्रम्पञ्चदशो ब्रह्म खलु वै क्षत्रा-त्पूर्वम्ब्रह्मपुरस्तान्न उग्रं राष्ट्रमव्यथ्यमसदिति विशः सप्तदशः शौद्र ?ो वर्ण एकविंशो विशं चैवास्मै तच्छौद्रं च वर्णमनुवर्त्मानौ कुर्वन्त्यथो तेजो वै स्तोमानां त्रिवृद्वीर्यम्पञ्चदशः प्रजातिः सप्तदशः प्रतिष्ठैकविंशस्तदेनं तेजसा वी-र्येण प्रजात्या प्रतिष्ठयान्ततः समर्धयति तस्माज्ज्योतिष्टोमः स्यात्तस्य चतुर्विं-शतिः स्तुतशस्त्राणि भवन्ति चतुर्विंसत्यर्धमासो वै संवत्सरः संवत्सरे कृत्स्न-मन्नाद्यं कृत्स्न एवैनं तदन्नाद्ये प्रतिष्ठापयति तस्माज्ज्योतिष्टोम एवाग्निष्टोमः स्यादग्निष्टोमः स्यात्॥8.4॥ (36.4)

अथातः पुनरभिषेकस्यैव सूयते ह वा अस्य क्षत्रं यो दीक्षते क्षत्रियः सन्स यदाऽवभृथादुदेत्यानूबन्ध्ययेष्ट्वा उदवस्यत्यथैनमुदवसानीयायां संस्थितायाम्पुनरभिषिञ्चन्ति तस्यैते पुरस्तादेव सम्भारा उपक्लृप्ता भवन्त्यौदुम्बर्यासन्दी तस्यै प्रा-देशमात्राः पादाः स्युररत्निमात्राणि शीर्षण्यानूच्यानि मौञ्जं विवयनं व्याघ्रच-र्मास्तरणमौदुम्बरश्चमस उदुम्बरशाखा तस्मिन्नेतस्मिंश्चमसेऽष्टातयानि निषुतानि भवन्ति दधि मधु सर्पिरातपवर्ष्या आपः शष्पाणि च तोक्मानि च सुरा दूर्वा तद्यैषा दक्षिणा स्फ्यवर्तनिर्वेदेर्भवति तत्रैताम्प्राचीमासन्दीम्प्रतिष्ठापयति तस्या अन्तर्वेदि द्वौ पादौ भवतो बहिर्वेदि द्वावियं वै श्रीस्तस्या एतत्परिमितं रूपं यदन्तर्वेद्यथैष भूमापरिमितो यो बहिर्वेदि तद्यदस्या अन्तर्वेदि द्वौ पादौ भवतो बहिर्वेदि द्वा उभयोः कामयोरुपापप्त्यै यश्चान्तर्वेदि यश्च बहिर्वेदि॥8.5॥ (37.1)

व्याघ्रचर्मणास्तृणात्युत्तरलोम्ना प्राचीनग्रीवेण क्षत्रां वा एतदारण्यानाम्पशूनां यद्व्याघ्रः क्षत्रं राजन्यः क्षत्रेणैव तत्क्षत्रं समर्धयति ताम्पश्चात्प्राङुपविश्याच्य जान्न्दक्षिणमभिमन्त्रयत उभाभ्याम्पाणिभ्यामालभ्याग्निष्ट्वा गाय त्र्?या सयुक् छन्दसारोहतु सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिर्बृहत्या मित्रावरुणौ पङ्क्त्ये-न्द्र स्त्रिष्टुभा विश्वे देवा जगत्या तानहमनु राज्याय साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाधिपत्याय स्वाव-श्यायातिष्ठायारोहामीत्येतामासन्दीमारोहेद्दक्षिणेनाग्रे जानुनाथ सव्येन तत्त-दितीँ चतुरुत्तरैर्वै देवाश्छन्दोभिः सयुग्भूत्वैतां श्रियमारोहन्यस्यामेत एतर्हि प्रतिष्ठिता अग्निर्गाय त्र्?या सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिर्बृहत्या मित्रा-वरुणौ पङ्क्त्येन्द्र स्त्रिष्टुभा विश्वे देवा जगत्या ते एते अभ्यनूच्येते अग्नेर्गाय त्र्?य-भवत्सयुग्वेति कल्पते ह वा अस्मै योगक्षेम उत्तरोत्त रिणीं ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेता अनु देवता एतामासन्दीमारोहति क्षत्रियः सन्नथैनमभिषेक्ष्यन्नपां शान्तिं वाचयति शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचम्मे सर्वाँ अग्नीँ रप्सुषदो हुवे वो मयि वर्चो बलमोजो निधत्तेति। नैतस्याभिषिषिचानस्याशान्ता आपो वीर्यं निर्हणन्निति॥8.6॥(37.2)
अथैनमुदुम्बरशाखामन्तर्धायाभिषिञ्चतीमा आपः शिवतमा इमाः सर्वस्य भेष-जीः इमा राष्ट्रस्य वर्धनीरिमा राष्ट्रभृतोऽमृताः याभिरिन्द्र मभ्यषिञ्चत्प्रजापतिः सोमं राजानं वरुणं यमम्मनुम्ताभिरद्भिरभिषिञ्चामि त्वामहं राज्ञां त्वमधिराजो भवेह महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनि त्र्?यजीजनद्भद्र ?ा जनि- त्र्?यजीजनद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्यामग्नेस्तेजसा सुर्यस्य वर्चसेन्द्र स्येन्द्रि येणाभिषिञ्चमि बलाय श्रियै यशसेऽन्नाद्याय भूरिति य इछेदिममेव प्रत्यन्नमद्यादित्यथ य इछेद्द्विपुरुषम्भूर्भुव इत्यथ य इछेत्त्रिपुरुषं वाप्रतिमं वा भूर्भुवः स्वरिति तद्धैक आहुः सर्वाप्तिर्वा एषा यदेता व्याहृतयो-ऽतिसर्वेण हास्य परस्मै कृतम्भवतीति तमेतेनाभिषिञ्चेद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाबुभ्याम्पूष्णो हस्तभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्र स्येन्द्रि ये-णाभिषिञ्चामि बलाय श्रियै यशसेऽन्नाद्यायेति तदु पुनः परिचक्षते यदसर्वेण वाचोऽभिषिक्तो भवतीश्वरो ह तु पुरायुषः प्रैतोरिति ह स्माह सत्यकामो जाबालो यमेताभिर्व्याहृतिभिर्नाभिषिञ्चन्तीतीश्वरो ह सर्वमायुरैतोः सर्वमाप्नोद्विजयेनेत्यु ह स्माहोद्दालक आरुणिर्यमेताभिर्व्याहृतिभिरभिषिञ्चन्तीति तमेतेनैवाभिषि-ञ्चेद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्याम्पूष्णो हस्तभ्यामग्नेस्तेजसा सूर्यस्य वर्चसेन्द्र स्येन्द्रि येणाभिषिञ्चामि बलाय श्रियै यशसेऽन्नाद्याय भूर्भुवः स्वरित्य-थैतानि ह वै क्षत्रियादीजानाद्व्युत्क्रान्तानि भवन्ति ब्रह्मक्षत्रे ऊर्गन्नाद्यम-पामोषधीनां रसो ब्रह्मवर्चसमिरा पुष्टिः प्रजातिः क्षत्ररूपं तदथो अन्नस्य रस ओषधीनां क्षत्रम्प्रतिष्ठा तद्यदेवामू पुरस्तादाहुती जुहोति तदस्मिन्ब्रह्मक्षत्रे दधाति॥8.7॥(37.3)

अथ यदौदुम्बर्यासन्दी भवत्यौदुम्बरश्चमस उदुम्बरशाखोर्ग्वा अन्नाद्यमुदुम्बर ऊर्जमेवास्निंस्तदन्नाद्यं दधात्यथ यद्दधि मधु घृतम्भवत्यपां स ओषधीनां रसो-ऽपामेवास्मिंस्तदोषधीनां रसं दधात्यथ यदातपवर्ष्या आपो भवन्ति तेजश्च ह वै ब्रह्मवर्चसं चातपवर्ष्या आपस्तेज एवास्मिंस्तद्ब्रह्मवर्चसं च दधात्यथ यच्छष्पाणि च तोक्मानि च भवन्तीरायै तत्पुष्ट्यै रूपमथो प्रजात्य इरामेवा-स्मिंस्तत्पुष्टिं दधात्यथो प्रजातिमथ यत्सुरा भवति क्षत्ररूपं तदथो अन्नस्य रसः क्षत्ररूपमेवास्मिंस्तद्दधात्यथो अन्नस्य रसमथ यद्दूर्वा भवति क्षत्रं वा एत-दोषधीनां यद्दूर्वा क्षत्रं राजन्यो नितत इव हीह क्षत्रियो राष्ट्रे वसन्भवति प्रतिष्ठित इव निततेव दूर्वावरोधैर्भूम्याम्प्रतिष्ठितेव तद्यद्दूर्वा भवत्योषधीनामेवास्मिंस्त-त्क्षत्रं दधात्यथो प्रतिष्ठामेतानि ह वै यान्यस्मादीजानाद्व्युत्क्रान्तानि भवन्ति तान्येवास्मिंस्तद्दधाति तैरेवैनं तत्समर्धयत्यथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्राय पातवे सुत इत्याधाय शान्तिं वाचयति नाना हि वां देवहितं सदस्कृतम्मा सं सृक्षाथाम्परमे व्योमनि सुरा त्वमसि शुष्मिणी सोम एष राजा मैनं हिंसिष्टं स्वां योनिमाविसन्ताविति सोमपीथस्य चैषा सुरापीथस्य च व्यावृत्तिः पित्वा यं रातिम्मन्येत तस्मा एनाम्प्रयछेत्तद्धि मित्रस्य रूपं मित्र एवैनां तदन्ततः प्रतिष्ठापयति तथा हि मित्रे प्रतितिष्ठति। प्रतितिष्ठति य एवं वेद॥8.8॥ (37.4)

अथोदुम्बरशाखामभि प्रत्यवरोहत्यूर्ग्वा अन्नाद्यमुदुम्बर ऊर्जमेव तदन्नाद्यमभि प्रत्यवरोहत्युपर्येवासिनो भूमौ पादौ प्रातिष्ठाप्य प्रत्यवरोहमाह प्रतितिष्ठामि द्यावापृथिव्योः प्रतितिष्ठामि प्राणापानयोः प्रातितिष्ठाम्यहोरात्रयोः प्रातितिष्ठा-म्यान्नपानयोः प्रति ब्रह्मन्प्रति क्षत्रे प्रत्येषु त्रिषु लोकेषु तिष्ठामीत्यन्ततः सर्वेणा-त्मना प्रतितिष्ठति सर्वस्मिन्ह वा एतस्मिन्प्रतितिष्ठत्युत्तरोत्तरिणीं ह श्रियम-श्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेतेन पुनरभिषेकेणाभिषिक्तः क्षत्रियः प्रत्यवरोहत्येतेन प्रत्यवरोहेण प्रत्यवरूह्योपस्थं कृत्वा प्राङासीनो नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्माण इति त्रिष्कृत्वो ब्रह्मणे नमस्कृत्य वरं ददामि जित्या अभिजित्यै विजित्यै संजित्या इति वाचं विसृजते स यन्नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्करोति ब्रह्मण एव तत्क्षत्रं वशमेति तद्यत्र वै ब्रह्मणः क्षत्रं वशमेति तद्र ?ाष्ट्रं समृद्धं तद्वीरवदा हास्मिन्वीरो जायतेऽथ यद्वरं ददामि जित्या अभिजित्यै विजित्यै संजित्या इति वाचं विसृजत एतद्वै वाचो जितं यद्ददामीत्याह यदेव वाचो जितां तन्म इदमनु कर्म संतिष्ठाता इति विसृज्य वाचमुपोत्थायाहवनीये समिधमभ्यादधाति समिदसि सम्वेङ्क्ष्वेन्द्रि येण वीर्येण स्वाहेतीन्द्रि येणैव तद्वीर्येणात्मानमन्ततः समर्धय-त्याधाय समिधं त्रीणि पदानि प्राङुदङ्ङभ्युत्क्रामति क्ळ्प्तिरसि दिशाम्मयि देवेभ्यः कल्पत कल्पताम्मे योगक्षेमोऽभयम्मेऽस्त्वित्यपराजितां दिशमुपतिष्ठते जितस्यैवापुनःपराजयाय तत्तदितीँ3॥8.9॥(166

देवासुरा वा एषु लोकेषु संयेतिरे त एतस्याम्प्राच्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्ते दक्षिणस्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्ते प्रतीच्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्त उदीच्यां दिशि येतिरे तांस्ततोऽसुरा अजयंस्त एतस्मिन्नवान्तारदेशे येतिरे य एष प्राङुदङ्ते ह ततो जिग्युस्तं यदि क्षत्रिय उपधावेत्सेनयोः समायत्योस्तथा मे कुरु यथाहमिमां सेनां जयानीति स यदि तथेति ब्रूयाद्वनस्पते वीड्वङ्गो हि भूया इत्यस्य रथोपस्थमभिमृश्याथैन-म्ब्रूयादातिष्ठस्वैतां ते दिशमभिमुखः संनद्धो रथोऽभि प्रवर्ततां स उदङ्स प्रत्यङ्स दक्षिणा स प्राङ्सोऽभ्यमित्रं इत्यभीवर्तेन हविषेत्येवैनमावर्तयेदथैन-मन्वीक्षेताप्रतिरथेन शासेन सौपर्णेनेति जयति ह तां सेनां यद्यु वा एनमु-पधावेत्संग्रामं संयतिष्यमाणस्तथा मे कुरु यथाहमिमं संग्रामं संजयानीत्येत-स्यामेवैनं दिशि यातयेज्जयति ह तं संग्रामं यद्यु वा एनमुपधावेद्र ?ा-ष्ट्रादप-रुध्यमानस्तथा मे कुरु यथाहमिदं राष्ट्रम्पुनरवगछानीत्येतामेवैनं दिशमुपनि-ष्कतमवेत्तथा ह राष्ट्रम्पुनरवगछत्युपस्थायामित्राणां व्यपनुत्तिम्ब्रुवन्गृहानभ्ये-त्यप प्राच इन्द्र विश्वाँ अमित्रानिति सर्वतो हास्मा अनमित्रमभयम्भव-त्युत्तरोत्तरिणीं ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमेताममि-त्राणां व्यपनुत्तिम्ब्रुवन्गृहानभ्येत्येत्य गृहान्पश्चाद्गृह्यस्याग्नेरुपविष्टायान्वातब्धाय ऋत्विगन्ततः कंसेन चतुर्गृहीतस्तिस्र आज्याहुतीरैन्द्र ?ीः प्रपदं जुहोत्यनार्त्या अरिष्ट्या अज्यान्या अभयाय॥8.10॥(168)

पर्यू षु प्र धन्व वाजसतये परि वृत्रा भूर्ब्रह्म प्राणममृतम्प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये सह प्रजया सह पशुभिरणि सक्षणिर्द्विषस्तरध्या ऋणया न ईयसे स्वाहा अनो हि त्वा सुतं सोम मदामसि महे सम भुवो ब्रह्म प्राणममृतम्प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये सह प्रजया सह पशुभि र्यराज्ये वाजाँ अभि पवमान प्र गाहशे स्वाहा अजीजनो हि पवमान सूर्यं विधारे श स्वर्ब्रह्म प्राणममृतम्प्रपद्यतेऽयमसौ शर्म वर्माभयं स्वस्तये सह प्रजया सह पशुभिः क्मना पयो गोजीरया रंहमाणः पुरंध्या स्वाहेत्यनार्तो ह वा अरिष्टोऽजीतः सर्वातो गुप्तस्त्रय्यै विद्यायै रूपेण सर्वा दिशोऽनुसंचरत्यैन्द्रे लोके प्रतिष्ठितो यस्मा एता ऋत्विगन्ततः कंसेन चतुर्गृहीतास्तिस्र आज्याहुतीरैन्द्र ?ीः प्रपदं जुहोत्यथान्ततः प्रजातिमाशास्ते गवामश्वानाम्पुरुषाणामिह गावः प्र जायध्वमिहाश्वा इह पूरुषाः इहो सहस्रदक्षिणो वीरस्त्राता नि षीदत्विति बाहुर्ह वै प्रजया पशुभिर्भवति य एवमेतामन्ततः प्रजातिमाशास्ते गवामश्वानाम्पुरुषा-णामेष ह वाव क्षत्रियोऽविकृष्टो यमेवंविदो याजयन्त्यथ ह तं व्येव कर्षन्ते यथा ह वा इदं निषादा वा सेलगा वा पापकृतो वा वित्तवन्तम्पुरुषमरण्ये गृथीत्वा कर्तमन्वस्य वित्तमादाय द्र वन्त्येवमेव त ऋत्विजो यजमानं कर्तमन्वस्य वित्तमादाय द्र वन्ति यमनेवंविदो याजयन्त्येतद्ध स्म वै तद्विद्वानाह जनमेजयः पारिक्षित एवंविदं हि वै मामेवंविदो याजयन्ति तस्मादहं जया-म्यभीत्वरीं सेनां जयाम्यभीत्वर्या सेनया न मा दिव्या न मानुष्य इषव ऋछ-नियेष्यामि सर्वमायुः सर्वभूमिर्भविष्यामीति न ह वा एनं दिव्या न मानुष्य इषव ऋछन्त्येति सर्वमायुः सर्वभूमिर्भवति यमेवंविदो याजयन्ति याजयन्ति॥8.11॥

अथात ऐन्द्रो महाभिषेकस्ते देवा अब्रुवन्सप्रजापतिका अयंवै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतम इममेवाभिषिञ्चामहा इति तथेति तद्वै तदिन्द्र मेव तस्मा एतामासन्दीं समभरन्नृचं नाम तस्यै बृहच्च रथंतरं च पूर्वौ पादावकुर्वन्वैरूपं च वैराजं चापरौ शाक्वररैवते शीर्षण्ये नौधसं च कालेयं चानूच्ये ऋचः प्राचीनातानान्सामानि तिरश्चीनवायान्यजूंष्यतीकाशान्यश आस्तरणं श्रियमुपबर्हणं तस्यै सविता च बृहस्पतिश्च पूर्वौ पादावधारयतां वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्ये अश्विनावनूच्ये स एतामासन्दी-मारोहद्वसवस्त्वा गायत्रेण छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्नारोहन्तु तानन्वारोहामि साम्राज्याय रुद्रास्त्वा त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहत साम्नारोहन्तु तानन्वारोहामि भौज्याया दित्यास्त्वा जागतेन छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्नारोहन्तु तानन्वारोहामि स्वाराज्याय विश्वे त्वा देवा आनुष्टुभेन छन्दसैकविंशेन स्तोमेन वैराजेन साम्नारोहन्तु तानन्वारोहामि वैराज्याय साध्याश्च त्वाप्त्याश्च देवाः पाङ्क्तेन छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्नारोहन्तु तानन्वारोहामि राज्याय मरुतश्च त्वाङ्गिरसश्च देवा अतिछन्दसा छन्दसा त्रयस्त्रिङ्शेन स्तोमेन रैवतेन साम्नारोहन्तु तानन्वारोहामि पारमेष्ठ्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठायारोहामीति एतामासन्दीमारोहत्तमे-तस्यामासन्द्यामासीनं विश्वे देवा अब्रुवन्न वा अनभ्युत्क्रुष्ट इन्द्रो वीर्यं कर्तुम-र्हत्यभ्येनमुत्क्रोशामेति तैतिएति तां विश्वे देवा अभ्युदक्रोशन्निमं देवा अभ्यु-त्क्रोशत सम्राजं साम्राज्यम्भोजम्भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यं राजानं राजपितरम्परमेष्टिनम्पारमेष्ठ्यं क्षत्रमजनि क्षत्रियोऽजनि विश्वस्य भूत-स्याधिपतिरजनि विशामत्ताजनि पुराम्भेत्ताजन्यसुराणां हन्ताजनि ब्रह्माणो गोप्ताजनि धर्मस्य गोप्ताजनीति तमभ्युत्क्रुष्टम् प्रजापतिरभिषेक्ष्यन्नेतयर्चाभ्यमन्त्रयत॥8.12॥

निषसाद धृतव्रतो वरुणः पस्त्यास्वा। साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाऽधिपत्याय स्वावश्यायाऽऽतिष्ठाय सुक्रतुरिति। तमेतस्यामासन्द्यामासीनं प्रजापतिः पुरस्तात्तिष्ठन्प्रत्यङ्मुख औदुम्बर्याऽऽर्द्रया शाखया सपलाशया जातरूपमयेन च पवित्रेणान्तर्धायाभ्यषिञ्चदिमा आपः शिवतमा इत्येतेन तृचेन देवस्य त्वेति च यजुषा भूर्भुवः स्वरित्येताभिश्च व्याहृतिभिः ॥8.13॥ (38.2)

अथैनम्प्राच्यां दिशि वसवो देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः साम्राज्याय तस्मादेतस्याम्प्राच्यां दिशि ये केच प्राच्यानां राजानः साम्राज्यायैव तेऽभिषिच्यन्ते सम्राळ् इत्येनान-भिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनं दक्षिणस्यां दिशि रुद्र ?ा देवाः षड्भिश्चैव पञ्चाविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याबृतिभिर्भौज्याय तस्मादेतस्यां दक्षिणस्यां दिशि ये केच सत्वतां राजानो भौज्यायैव तेऽभिषिच्यन्ते भोजेत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनम्प्रतीच्यां दिश्यादित्या देवाः षड्भिश्चैव पञ्चविंशैरहोभि-रभ्यषिञ्चनु एतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः स्वाराज्याय तस्मादेतस्याम्प्रतीच्यां दिशि ये केच नीच्यानां राजानो येऽपाच्यानां स्वारा-ज्यायैव तेऽभिषिच्यन्ते स्वराळ् इत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमुदीच्यां दिशि विश्वे देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्य-षिञ्चन्नेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्वैराज्याय तस्मादेतस्या-मुदीच्यां दिशि ये केच परेण हिमवन्तं जनपदा उत्ततकुरव उत्तरमद्र ?ा इति वैराज्यायैव तेऽभिषिच्यन्ते विराळ् इत्येनानभिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमस्यां ध्रुवायाम्मन्ध्यमायाम्प्रतिष्ठायां दिशि साध्याश्चाप्त्याश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनतिएन च यजुषैताभिश्च व्याहृतिभी राज्याय तस्मादस्यां ध्रुवायाम्मध्यमायाम्प्रतिष्ठायां दिसि ये केच कुरुपञ्चालानां राजानः सवशोशीनराणां राज्यायैव तेऽभिषिच्यन्ते राजेत्येनान-भिषिक्तानाचक्षत एतामेव देवानां विहितिमन्वथैनमूर्ध्वायां दिशि मरुत-श्चाङ्गिरसश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभ्यषिञ्चन्नेतेन च तृचेनैतेन च यजु-षैताभिश्च व्याहृद्भिः पारमेष्ठ्याय माहाराज्यायाधिपत्याय स्वावश्यायातिष्ठा-येति स परमेष्ठी प्राजापत्योऽभवत्स एतेन महाभिषेकेणाभिषिक्त इन्द्रः सर्वा जितीरजयत्सर्वाँ ल्लोकानविन्दत्सर्वेषां देवानां श्रैष्ठ्यमतिष्ठाम्परमातमगछ-त्साम्राज्यम्भौज्यं स्वाराज्यं वैराज्यम्पारमेष्ठ्यं राज्यम्माहाराज्यमाधिपत्यं जि-त्वास्मिँ ल्लोके स्वयम्भूः स्वराळ् अमृतोऽमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्॥8.14॥

स य इच्छेदेवंवित्क्षत्रियमायं सर्वा जितीर्जयेतायं सर्वाँ ल्लोकान्विन्देतायं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठाम्परमतां गछेत साम्राज्यम्भौज्यं स्वाराज्यं वैराज्य-म्पारमेष्ठ्यं राज्यम्माहाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सा-र्वायुष आन्तादा पररार्धात्पृथिव्यै समुद्र पर्यन्ताया एकराळ् इति तं एतेनैन्द्रे ण महाभिषेकेण क्षत्रियं शापयित्वाऽभिषिञ्चेद्यां च रात्रीमजायथा यां च प्रेतासि तदुभयमन्तरेणेष्टापूर्तं ते लोकं सुकृतमायुः प्रजां वृञ्जीय यदि मे द्रुह्येरिति स य इछेदेवंवित्क्षत्रियो ऽहं सर्वा जितीर्जयेयमहं सर्वांल्लोकान्विन्देयमहं सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठाम्परमतां गछेयं साम्राज्यम्भौज्यं स्वाराज्यम्वैराज्यम्पारमेष्ठ्यं राज्यम्माहाराज्यमाधिपत्यमहं समन्तपर्यायी स्यां सार्वभौमः सार्वायुष आन्तादा परार्धत्पृथिव्यै समुद्र पर्यन्ताया एकराळिति स न विचिकित्सेत्स ब्रूयत्सह श्रद्धया यां च रात्रीमजायेऽहं यां च प्रेतास्मि तदुभयमन्तरेणेष्टापूर्तम्मे लोकं सुकृतमायुः प्रजां वृञ्जीथा यदि ते द्रुह्येयमिति॥8.15॥

अथ ततो ब्रूयाच्चतुष्टयानि वानस्पत्यानि संभरत नैयग्रोधान्यौदुम्बराण्याश्वत्थानि प्लाक्षाणीति। क्षत्त्रं वा एतद्वनस्पतीनां यन्न्यग्रोधो यन्नैयग्रोधानि संभरन्ति क्षत्त्रमेवास्मिंतद्दधाति भौज्यं वा एतद्वनस्पतीनां यदुदुम्बरो यदौदुम्बराणि संभरन्ति भौज्यमेवास्मिंस्तद्दधाति साम्राज्यं वा एतद्वनस्पतीनां यदश्वत्थो यदाश्वत्थानि संभरन्ति साम्राज्यमेवास्मिंस्तद्दधाति स्वाराज्यं च ह वा एतद्वैराज्यं च वनस्पतीनां यत्प्लक्षो यत्प्लाक्षाणि संभरन्ति स्वाराज्यवैराज्ये एवास्मिंस्तद्दधाति। अथ ततो ब्रूयाच्चतुष्टयान्यौषधानि संभरत तोक्मकृतानि व्रीहीणां महाव्रीहीणां प्रियंगूनां यवानामिति। क्षत्त्रं वा एतदोषधीनां यद्व्रीहयो यद्व्रीहीणां तोक्म संभरन्ति क्षत्त्रमेवाास्मिंस्तद्दधाति साम्राज्यं वा एतदोषधीनां यन्महाव्रीहयो यन्महाव्रीहीणां तोक्म संभरन्ति साम्राज्यमेवास्मिंस्तद्दधाति भौज्यं वा एतदोषधीनां यत्प्रियंगवो यत्प्रियंगूनां तोक्म संभरन्ति भौज्यमेवास्मिंस्तद्दधाति सैनान्यं वा एतदोषधीनां यद्यवा यद्यवानां तोक्म संभरन्ति सैनान्यमेवास्मिंस्तद्दधाति॥8.16॥ (39.2)

अथास्मा औदुम्बरीमासन्दीं सम्भरन्ति तस्या उक्तम्ब्राह्मणमौदुम्बरश्चमसो वा पात्री वोदुम्बरशाखा तानेतान्सम्भारान्सम्भृत्यौदुम्बर्याम्पा त्र्?यां वा चमसे वा समावपेयुस्तेषु समोप्तेषु दधि मधु सर्पिरातपवर्ष्या आपोऽभ्यानीय प्रति-ष्ठाप्यैतमासन्दीमभिमन्त्रयेत बृहच्च ते रथंतरं च पूर्वौ पादौ भवतां वैरूपं च वैराजं चापरौ शाक्वररैवते शीर्षण्ये नौधसं च कालेयं चानूच्ये ऋचः प्राची-नातानाःसामानि तिरश्चीनवाया यजूंष्यतीकाशा यश आस्तरणं श्रीरुपबर्हणं सविता च ते बृहस्पतिश्च पूर्वौ पादौ धारयतां वायुश्च पूषा चापरौ मित्रावरुणौ शीर्षण्ये अश्विनावनूच्ये इत्यथैनं एतामासन्दीमारोहयेद्वसवस्त्वा गायत्रेण छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्नारोहन्तु तानन्वारोह साम्राज्याय रुद्र ?ास्त्वा त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्नारोहन्तु तानन्वारोह भौज्याया दित्यास्त्वा जागतेन छन्दसा सप्तदशेन स्तोमेन वैरूपेण साम्नारोहन्तु तानन्वारोह स्वाराज्याय विश्वे त्वा देवा आनुष्टुभेन छन्दसैकविंशेन स्तोमेन वैराजेन साम्नारोहन्तु तानन्वारोह वैराज्याय मरुतश्च त्वाङ्गिरसश्च देवा अतिछन्दसा छन्दसा त्रयस्त्रिंशेन स्तोमेन रैवतेन साम्नारोहन्तु तानन्वारोह पारमेष्ठ्याय साध्याश्च त्वाप्त्याश्च देवाः पाङ्क्तेन छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्नारोहन्तु तानन्वारोह राज्याय माहाराज्यायाधिपत्याय स्वावश्यायाऽऽतिष्ठायाऽऽरोहेति एतामासन्दीमारोहयेत् तमेतस्यामासन्द्यामासीनं राजकर्तारो ब्रूयुर्न वा अनभ्युत्क्रुष्टः क्षत्रियो वीर्यं कर्तुमर्हत्यभ्येनमुत्क्रोशामेति तथेति तं राजकर्तारोऽभ्युत्क्रोशन्तीमं जना अभ्युत्क्रोशत सम्राजं साम्राज्यम्भो-जम्भोजपितरं स्वराजं स्वाराज्यं विराजं वैराज्यम्परमेष्ठिनम्पारमेष्ठ्यं राजानां राजपितरं क्षत्रमजनि क्षत्रियोऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ता-जन्यमित्राणां हन्ताजनि ब्राह्मणानाम्गोप्ताजनि धर्मस्य गोप्ताजनीति तमभ्युत्क्रुष्टम् एवंविदभिषेक्ष्यन्नेतयर्चाऽभिमन्त्रयेत॥8.17॥ (39.3)

निषसाद धृतव्रतो वरुणः पस्त्यास्वा। साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्याय राज्याय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाऽऽतिष्ठाय सुक्रतुरिति। तमेतस्यामासन्द्यामासीनमेवंवित् पुरस्तात्तिष्ठन्प्रत्यङ्मुख औदुम्बर्या ऽऽर्द्रया शाखया सपलाशया जातरूपमयेन च पवित्रेणान्तर्धायाभिषिञ्चतीमा आपः शिवतमा इत्येतेननतृचेननदेवस्य त्वेति च यजुषा भूर्भुवः स्वरित्येताभिश्चव्याहृतिभिः॥8.18॥ (39.4)

प्राच्यां त्वा दिशि वसवो देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः साम्राज्याय दक्षिणस्यां त्वा दिशि रुद्र ?ा देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिर्भौज्याय प्रतीच्यां त्वा दिश्यादित्या देवाः षड्भिश्चैव पञ्चविंशै-रहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभिः स्वाराज्या-योदीच्यां त्वा दिशि विश्वे देवाः षड्भिश्चैव पञ्चविन्शैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेना च यजुषैताभिश्चा व्याहृतिभिर्वैराज्यायोर्ध्वायां त्वा दिशि मरुतश्चाङ्गिरासश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभिषिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याह्बृतिभिः पारमेष्ठ्यायास्यां त्वा ध्रुवायां मध्यमाया-म्प्रतिष्ठायां दिशि साध्याश्चाप्त्याश्च देवाः षड्भिश्चैव पञ्चविंशैरहोभिरभि-षिञ्चन्त्वेतेन च तृचेनैतेन च यजुषैताभिश्च व्याहृतिभी राज्याय माहारा-ज्याधिपत्याय स्वावश्यायाधिष्ठायेति स परमेष्ठी प्राजापत्यो भवति स एतेनैन्द्रे न महाभिषेकेणाभिषिक्तः क्षत्रियः सर्वा जितीर्जयति सर्वांल्लोका-न्विन्दति सर्वेषां राज्ञां श्रैष्ठ्यमतिष्ठाम्परमतां गछति साम्राज्यम्भौज्यं स्वा-राज्यम्पारमेष्ठ्यं राज्यम्माहाराज्यमाधिपत्यं जित्वास्मिँ ल्लोके स्वयम्भूः स्वराळमृतोऽमुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः सम्भवति यमेतेनैन्द्रेण महाभिषेकेण क्षत्रियं शापयित्वऽभिषिञ्चति॥8.19॥ (39.6)

”इन्द्रियं वा एतदस्मिँ ल्लोके यद्दधि यद्दध्नाभिषिञ्चतीन्द्रि यमेवास्मिंस्तद्दधाति रसो वा एष ओषधिवनस्पतिषु यन्मधु यन्मध्वाभिषिञ्चति रसमेवा-स्मिंस्तद्दधाति तेजो वा एतत्पशूनां यद्घृतं यद्घृतेनाभिषिञ्चति तेज एवास्मिंस्त-द्दधात्यमृतं वा एतदस्मिँ ल्लोके यदापो यदद्भिरभिषिञ्चत्यमृतत्वमेवास्मिं-स्तद्दधाति सोऽभिषिक्तोऽभिषेक्त्रे ब्राह्मणाय हिरण्यं दद्यात्सहस्रं दद्यात्क्षेत्रं चतुष्पाद्दद्यादथाप्याहुरसंख्यातमेवापरिमितं दद्यादपरिमितो वै क्षत्रियोऽपरि-मितस्यावरुद्ध्या इत्यथास्मै सुराकंसं हस्त आदधाति स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्राय पातवे सुत इति ताम्पिबेद्यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षायमि अभि त्वा वृषभा सुते सुतं सृजामि पीतये तृम्प व्यश्नुही मदमिति यो ह वाव सोमपीथः सुरायाम्प्रविष्टः स हैव तेनैन्द्रे ण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य भक्षितो भवति न सुरा ताम्पीत्वाभिमन्त्रयेतपाम सोमं शं नो भवेति तद्यथैवादः प्रियः पुत्रः पितरम्प्रिया वा जाया पतिं सुखं शिवमुपस्पृशत्या विस्रस एवं हैवैतेनैन्द्रे ण महाभिषेकेणाभिषिक्तस्य क्षत्रियस्य सुरा वा सोमो वान्यद्वान्नाद्यं सुखं शिवमुपस्पृशत्याविस्रसः॥8.20॥ (39.6)

एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः कावषेयो जनमेजयं पारिक्षितमभिषिषेच तस्मादु जनमेजयः पारिक्षितः समन्तं सर्वः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। तदेषाऽभि यज्ञगाथा गीयते। आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम्। अश्वं बबन्ध सारंगं देवेभ्यो जनमेजय इति। एतेन ह वा ऐन्द्रेण महाभिषेकेण च्यवनो भार्गवः शार्यातं मानवमभिषिषेच तस्मादु शार्यातो मानवः समन्तं सर्वः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे देवानां हापि सत्रे गृहपतिरास। एतेन ह वा ऐन्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सात्राजितमभिषिषेच तस्मादु शतानीकः सात्राजितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदावाम्बाष्ठ्यम् अभिषिषिचतुस्तस्माद्वाम्बाष्ठ्यः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदौ युधांश्रौष्टिमौग्रसैन्यम् अभिषिषिचतुस्तस्मादु युधांश्रौष्टिरौग्रसैन्यः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। एतेन ह वा ऐन्द्रेण महाभिषेकेण कश्यपो विश्वकर्माणं भौवनमभिषिषेच तस्मादु विश्वकर्मा भौवनः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। भूमिर्ह जगावित्युदाहरन्ति। न मा मर्त्यः कश्च दातुमर्हति विश्वकर्मन्भौवन मां दिदासिथ। निमङ्क्ष्येऽहं सलिलस्य मध्ये मोघस्त एष कश्यपायाऽऽस संगर इति। एतेन ह वा ऐन्द्रेण महाभिषेकेण वसिष्ठः सुदासं पैजवनमभिषिषेच तस्मादु सुदाः पैजवनः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। एतेन ह वा ऐन्द्रेण महाभिषेकेण संवर्त आङ्गिरसो मरुत्तमाविक्षितमभिषिषेच तस्मादु मरुत्त आविक्षितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे। तदप्येष श्लोकोऽभिगीतः। मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे। आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति॥8.21॥ (39.7)

एतेन ह वा ऐन्द्रे ण महाभिषेकेणोदमय आत्रेयोऽङ्गमभिषिषेच तस्माद्वाङ्गः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे स होवाचालोपाङ्गो दश नागसहस्राणि दश दासीसहस्राणि ददामि ते ब्राह्मणोप मास्मिन्यज्ञे ह्वयस्वेति तदप्येते श्लोका अभिगीताः याभिर्गोभिरुदमयम्प्रैयमेधा अयाजयन्द्वेद्वे सहस्रे बद्वानामात्रेयो मध्यतोऽददातष्टाशीतिसहस्राणि श्वेतान्वैरोचनो हयान्प्रष्टी-न्निश्चृत्य प्रायछद्यजमाने पुरोहिते देशाद्देशात्समोळ्हानां सर्वासामा-ढ्यदुहि-तृणां दशाददात्सहस्राण्यात्रेयो निष्ककण्ठ्यः दश नागसहस्राणि दत्त्वात्रे-योऽवचत्नुके श्रान्तः पारिकुटान्प्रैप्सद्दानेनाङ्गस्य ब्राह्मणः शतं तुभ्यं शतं तुभ्यमिति स्मैव प्राम्यति। सहस्रं तुभ्यमित्युक्त्वा प्राणान्स्म प्रतिपद्यत इति॥8.22॥ (39.8) (180)

एतेन ह वा ऐन्द्रेण महाभिषेकेण दीर्घतमा मामतेयो भरतं दौःषन्तिमभिषिषेच तस्मादु भरतो दौःषन्तिः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वैरु च मेध्यैरीजे तदप्येते श्लोका अभिगीताः हिरण्येन पारिवृतान्कृष्णाञ्छुक्लदतो मृगान्मष्णारे भरतोऽददाच्छतम्बद्वानि सप्त च भरतस्यैष दौःषन्तेरग्निः साचीगुणे चितः यस्मिन्सहस्रम्ब्राह्मणा बद्वशो गा विभेजिरे अष्टासप्ततिम्भरतो दौःषन्ति-र्यमुनामनु गङ्गायां वृत्रघ्नेऽबध्नात्पञ्चपञ्चाशतं हयान्त्रयस्त्रिंशच्छतं राजाश्वा-न्बद्ध्वाय मेध्यान्दौःषन्तिरत्यगाद्र ?ाज्ञोऽमायान्मायवत्तरः महाकर्म भरतस्य न पूर्वे नापरे जनाः दिवम्मर्त्य इव हस्ताभ्यां नोदापुः पञ्च मानवा इत्येतं ह वा ऐन्द्र म्महाभिषेकम्बृहदुक्थ ऋषिर्दुर्मुखाय पाञ्चालाय प्रोवाच तस्मादु दुर्मुखः पाञ्चालो राजा सन्विद्यया समन्तं सर्वतः पृथिवीं जयन्परीयायैतं ह वा ऐन्द्र म्महाभिषेकं वासिष्ठः सात्यहव्योऽत्यरातये जानंतपये प्रोवाच तस्माद्वत्य-त्रातिर्जानंतपिरराजा सन्विद्यया समन्तं सर्वतः पृथिवीं जयन्परीयाय स होवाच वासिष्ठः सात्यहव्यो ऽजैषीर्वै समन्तं सर्वतः पृथिवीम्महन्मा गमयेति स होवाचात्यरातिर्जानंतपिर्यदा ब्राह्मणोत्तरकुरूञ्जयेयमथ त्वमु हैव पृथिव्यै राजा स्याः सेनापतिरेव तेऽहं स्यामिति स होवाच वासिष्ठः सात्यहव्यो देवक्षेत्रं वै तन्न वै तन्मर्त्यो जेतुमर्हत्यद्रुक्षो वै म आत इदं दद इति ततो हात्यरातिं जानंतपिमात्तवीर्यं निःशुक्रममित्रतपनः शुष्मिणः शैब्यो राजा जघान तस्मादेवं विदुषे ब्राह्मणायैवं चक्रुषे न क्षत्रियो द्रुह्येन्नेद्र ?ाष्ट्रदवपद्येय नेद्वा मा प्राणो जहदिति॥8.२३॥ (39.9)

अथातः पुरोधाया एव न ह वा अपुरोहितस्य रज्ञो देवा अन्नमदन्ति तस्माद्र ?ाजा यक्ष्यमाणो ब्राह्मणम्पुरोदधीत देवा मेऽन्नमदन्नित्यग्नीन्वा एष स्वर्ग्यान्राजोद्धरते यत्पुरोहितं तस्य पुरोहित एवाहवनीयो भवति जाया गार्हपत्यः पुत्रो-ऽन्वाहार्यपचनः स यत्पुरोहिताय करोत्याहवनीय एव तज्जुबोत्यथ यज्जायायै करोति गार्हपत्य एय तज्जुहोत्यथ यत्पुत्राय करोत्यन्वाहार्यपचन एव तज्जुहोति त एनं शान्ततनवोऽभिहुता अभिप्रीताः स्वर्गं लोकमभिवहन्ति क्षत्रं च बलं च राष्ट्रं च विशं च त एवैनमशान्ततनवोऽनभिबुता अनभिप्रीताः स्वर्गाल् लोकान्नुदन्ते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्चाग्निर्वा एष वैश्वानरः पञ्चमे-निर्यत्पुरोहितस्तस्य वाच्येवैका मेनिर्भवति पादयोरेका त्वच्येका हृदय एकोपस्थ एका ताभिर्ज्वलन्तीभिर्दीप्यमानाभिरुपोदेति राजानं स यदाह क्व भगवोऽवात्सीस्तृणान्यस्मा आहरतेति तेनास्य तां शमयति यास्य वाचि मेनिर्भवत्यथ यदस्मा उदकमानयन्ति पाद्यं तेनास्य तां शमयति यास्य पादयोर्मेनिर्भवत्यथ यदेनमलंकुर्वन्ति तेनास्य तां शमयति यास्य त्वचि मेनिर्भवत्यथ यदेनं तर्पयन्ति तेनास्य तां शमयति यास्य हृदये मेनिर्भवत्यथ यदस्यानारुद्धो वेश्मसु वसति तेनास्य तां शमयति यास्योपस्थे मेनिर्भवति स एनं शान्ततनुरभिहुतोऽभिप्रीतः स्वर्गं लोकमभिवहति क्षत्रं च बलं च राष्ट्रं च विशं च स एवैनमशान्ततनुरनभिहुतोऽनभिप्रीतः स्वार्गल्लोकान्नुदते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्च॥8.24॥ (40.1)

अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितस्ताभी राजानं परिगृह्य तिष्ठति समुद्र इव भूमिम्। अयुवमार्यस्य राष्ट्रं भवति नैनं पुराऽऽयुषः प्राणो जहात्याजरसं जीवति सर्वमायुरेति न पुनर्म्रियते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः। क्षत्त्रेण क्षत्त्रं जयति बलेन बलमश्नुते यस्यैव विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः। तस्मै विशः संजानते संमुखा एकमनसो यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः॥॥8.25॥ (40.2) (183)

तदप्येतदृषिणोक्तं स इद्र ?ाजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येणेति सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानेव तच्छुष्मेण वीर्येणाधितिष्ठति बृहस्पतिं यः सुभृतम्बिभर्तीति बृहस्पतिर्ह वै देवानाम्पुरोहितस्तमन्वन्ये मनुष्यराज्ञाम्पुरोहिता बृहस्पतिं यः सुभृतम्बिभर्तीति यदाह पुरोहितं यः सुभृतं बिभर्तीत्येव तदाह वल्गूयति वन्दते पूर्वभाजमित्यपचितिमेवास्मा एतदाह स इत्क्षेति सुधित ओकसि स्व इति गृहा वा ओकः स्वेष्वेव तद्गृहेषु सुहितो वसति तस्मा इळा पिन्वते विश्वदानीमित्यन्नं वा इळान्नमेवास्मा एतदूर्जस्वच्छ-श्वद्भवति तस्मै विशः स्वयमेवा नमन्त इति राष्ट्राणि वै विशो राष्ट्राण्येवैनं तत्स्वयमुपनमन्ति यस्मिन्ब्रह्मा राजनि पूर्व एतीति पुरोहितमेवैतदाहाप्रतीतो जयति सं धनानीति राष्ट्राणि वै धनानि तान्यप्रतीतो जयति प्रतिजन्यान्युत या सजन्येति सपत्ना वै द्विषन्तो भ्रातृव्या जन्यानि तानप्रतीतो जयत्यवस्यवे यो वरिवः कृणोतीति यदाहावसीयसे यो वसीयः करोतीत्येव तदाह ब्रह्मणे राजा तमन्वन्ति देवा इति पुरोहितमेवैतदभिवदति॥8.26॥ (40.3)

यो ह वै त्रीन्पुरोहितांस्त्रीन्पुरोधातॄन्वेद स ब्राह्मणः पुरोहितः स वदेत पुरोधाया अग्निर्वाव पुरोहितः पृथिवी पुरोधाता वायुर्वाव पुरोहितोऽन्तरिक्षं पुरोधाताऽऽदित्यो वाव पुरोहितो द्यौः पुरोधातैष ह वै पुरोहितो य एवं वेदाथ स तिरोहितो य एवं न वेद। तस्य राजा मित्रं भवति द्विषन्तमपबाधते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः। क्षत्त्रेण क्षत्त्रं जयति बलेन बलमश्नुते यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितस्तस्मै विशः संजानते संमुखा एकमनसो यस्यैवं विद्वान्ब्राह्मणो राष्ट्रगोपः पुरोहितः. भूर्भुवः स्वरोममोऽहमस्मि स त्वं स त्वमस्यमोऽहं द्यौरहं पृथिवी त्वं सामहमृक्त्वं तावेह संवहावहै। पुराण्यस्मान्महाभयात्। तनूरसि तन्वं मे पाहि। या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः। ता मह्यमस्मिन्नासनेऽच्छिद्रं शर्म यच्छत। या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ता मह्यमस्मिन्नासने ऽच्छिद्रं शर्म यच्छत। अस्मिन्राष्ट्रे श्रियमावेशयाम्यतो देवीः प्रतिपश्याम्यापः। दक्षिणं पादमवनेनिजेऽस्मिन्राष्ट्र इन्द्रियं दधामि। सव्यं पादमवनेनिजेऽस्मिन्राष्ट्र इन्द्रियं वर्धयामि। पूर्वमन्यमपरमन्यं पादाववनेनिजे। देवा राष्ट्रस्य गुप्त्या अभयस्यावरुद्ध्यै। आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे॥8.27॥ (40.4)

अथातो ब्रह्मणः परिमरो यो ह वै ब्रह्मणः परिमरं वेद पर्येनं द्विषन्तो भ्रातृव्याः परि सपत्ना म्रियन्ते। अयं वै ब्रह्म योऽयं पवते तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः। विद्युद्वै विद्युत्य वृष्टिमनुप्रविशति साऽन्तर्धीयते तां न निर्जानन्ति। यदा वै म्रियते ऽथान्तर्धीयते ऽथैनं न निर्जानन्ति। स ब्रूयाद्विद्युतो मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति। क्षिप्रं हैवैनं न निर्जानन्ति। वृष्टिर्वै वृष्ट्वा चन्द्रमसमनुप्रविशति साऽन्तर्धीयते तां न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयतेऽथैनं न निर्जानन्ति स ब्रूयाद्वृष्टेर्मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति क्षिप्र हैवैनं न निर्जानन्ति। चन्द्रमा वा अमावास्यायामादित्यमनुप्रविशति सोऽन्तर्धीयते तं न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयते ऽथैनं न निर्जानन्ति स ब्रूयाच्चन्द्रमसो मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनं न निर्जानन्ति। आदित्यो वा अस्तं यन्नग्निमनुप्रविशति सोऽन्तर्धीयते तं न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयतऽथैनं न निर्जानन्ति स ब्रूयादादित्यस्य मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनं न निर्जानन्ति। अग्निर्वा उद्वायन्वायुमनुप्रविशति सोऽन्तर्धीयत तं न निर्जानन्ति यदा वै म्रियतेऽथान्तर्धीयते ऽथैनं न निर्जानन्ति स ब्रूयादग्नेर्मरणे द्विषन्मे म्रियतां सोऽन्तर्धीयतां तं मा निर्ज्ञासिषुरिति क्षिप्रं हैवैनं न निर्जानन्ति। ता वा एता देवता अत एव पुनर्जायन्ते। वायोरग्निर्जायते प्राणाद्धि बलान्मथ्यमानोऽग्निर्जायते तं दृष्ट्वा ब्रूयादग्निर्जायतां मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति। अग्नेर्वा आदित्यो जायते तं दृष्ट्वा ब्रूयादादित्यो जायता मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति। आदित्याद्वै चन्द्रमा जायते तं दृष्ट्वा ब्रूयाच्चन्द्रमा जायतां मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति। चन्द्रमसो वै वृष्टिर्जायते तां दृष्ट्वा ब्रूयाद् वृष्टिर्जायतां मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतोहैव पराङ्प्रजिघ्यति। वृष्टेर्वै विद्युज्जायते तां दृष्ट्वा ब्रूयाद्विद्युज्जायतां मा मे द्विषञ्जन्यत एव पराङ्प्रजिघ्यत्वित्यतो हैव पराङ्प्रजिघ्यति। स एष ब्रह्मणः परिमरः। तमेतं ब्रह्मणः परिमरं मैत्रेयः कौषारवः सुत्वने कैरिशये भार्गायणाय राज्ञे प्रोवाच तं ह पञ्च राजानः परिमम्रुस्ततः सुत्वा महज्जगाम। तस्य व्रतं न द्विषतः पूर्व उपविशेद्यदि तिष्ठन्तं मन्येत तिष्ठेतैव न द्विषतः पूर्वः संविशेद्यद्यासीनं मन्येताऽऽसीतैव न द्विषतः पूर्वः प्रस्वप्याद्यदि जाग्रतं मन्येत जाग्रियादेव। अपि ह यद्यस्याश्ममूर्धा द्विषन्भवति क्षिप्रं हैवैनं स्तृणुते स्तृणुते॥8.28॥ (40.5) (186)

इत्यष्टमपञ्चिकायां पञ्चमोऽध्यायः।

इत्यैतरेयब्राह्मणेऽष्टमपञ्चिका समाप्ता॥8॥


%d bloggers like this: