माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् । माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ १॥ चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे । पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण- हस्ते नमस्ते जगदेकमातः ॥ २॥ ॥ विनियोगः ॥ माता मरकतश्यामा मातङ्गी मदशालिनी । कुर्यात् कटाक्षं कल्याणी कदंबवनवासिनी
Tag: Sanskrit Devanagari
1. Bhāsa, Aśvaghośa , kālidāsa, Śūdraka, Viśākhadatta, Bhāravi, Māgha, Harṣa,
Bāṇabhaṭṭa, Daṇḍin, Bhavabhūti, Bhaṭṭanārāyaṇa, Bhilhaṇa, Shrῑharṣa, Ambikādatta
2. Allahabad Pillar Inscriptions of Samudragupta, Mandasor Pillar Inscription of Yasodharman, Banāskherā Copper Plate Inscription of Harṣa, Aihole Stone Inscription of Pulakeśīn II
3. Pāṇini , Kātyāyana , Patañjali , Bhartṛhari , Vāmanajayāditya ,
Bhaṭṭojidīkṣita , Nāgeśabhaṭṭa , Kaiyyaṭa , Jainendra , Śākaṭāyana ,
Hemacandrasūri , Sārasvatavyākaraṇakāra.
4. Agnihotra; Agniṣṭoma; Darśapūrṇamāsa ;
Yajña; Pañcamahāyajña; Akhyāna (Śunahśepa , Vāṅmanas)
ब्रह्मसूत्रम् – अधिकरणानि
जिज्ञासाधिकरणम्
जन्माद्यधिकरणम्
शास्त्रयोनित्वाधिकरणम्
समन्वयाधिकरणम्
ईक्षत्यधिकरणम्
आनन्दमयाधिकरणम्
अन्तरधिकरणम्
आकाशाधिकरणम्
प्राणाधिकरणम्
ज्योतिश्चरणाधिकरणम्
प्रतर्दनाधिकरणम्
सर्वत्रप्रसिद्ध्यधिकरणम्
अत्त्रधिकरणम्
गुहाप्रविष्टाधिकरणम्
अन्तराधिकरणम्
विश्वभारती अधिविद्या अधिभूत पाठ – Viswa Bharati Mantra-तैत्तिरीयारण्यक
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्या- यप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च, इति । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवैति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः इति ।
विवेकचूडामणिः-श्रीमच्छङ्करभगवत
संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा -खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् ।
अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शयन्त्येषा शङ्करभारती विजयते निर्वाणसन्दायिनी
हस्तामलकीयम्- Hasta Malakiyam
निमित्तं मनश्चक्षुरादिप्रवृत्तौ
निरस्ताखिलोपाधिराकाशकल्पः ।
रविर्लोकचेष्टानिमित्तं यथा यः
स नित्योपलब्धिस्वरूपोऽहमात्मा
कलि विडम्बनं – नीलकण्ठ Kali Bidambanam by Nilakantha Dikshit
स्वस्थैरसाध्यरोगैश्च जन्तुभिर्नास्ति किं चन ।
कातरा दीर्घरोगाश्च भिषजां भाग्यहेतवस् ॥ २३ ॥
A physician has no use of persons who are healthy or in the terminal stage of sickness. His sources of fortune are those who fear illness and those with protracted illness (23).
तन्त्र सारः-Tantrasar-Abhinavagupta
शास्त्रं च परमेश्वरभाषितम् एव प्रमाणम् ।
अपरशास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच् च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतोमयं दशाष्टादशवस्वष्टभेदभिन्नम् ।
केनोपनिषद्- Keno Upanishad
ॐ केनेषितं पतति प्रेषितं मनः
केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति
चक्षुः श्रोत्रं क उ देवो युनक्ति
चतुःश्लोकी – यामुनाचार्य- Chatur sloki of Yamunacharya
कान्तस्ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनं वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी । ब्रह्मादिसुरव्रजः सदयितस्त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम्
चोदनालक्षणोऽर्थो धर्मः-शबरभाष्यम् Chodana Lakshn Artha Dharma
चोदनालक्षणोऽर्थो धर्मः-चोदनेति क्रियायाः प्रवर्तकं वचनम् आहुः. आचार्य चोदितः करोमीति हि दृश्यते. लक्ष्यते येन, तल् लक्षणम्. धूमो लक्षणम् अग्नेर् इति हि वदन्ति. तया यो लक्ष्यते, सो ऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे. चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टम् इत्य् एवंजातीयकम् अर्थं शक्नोत्य् अवगमयितुम्, नान्यत् किंचनेन्द्रियम्.
अनुत्तराष्टिका – अभिनवगुप्त Anuttara astika by Avinaba Gupta
संक्रामोऽत्र न भावना न च कथायुक्तिर्न चर्चा न च
ध्यानं वा न च धारणा न च जपाभ्यासप्रयासो न च ।
तत्किं नाम सुनिश्चितं वद परं सत्यं च तच्छ्रूयतां
न त्यागी न परिग्रही भज सुखं सर्वं यथावस्थितः
The Purpose of Bhagavad Gita: Sankaracharya Explained
तदसत् । ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिद्वयाश्रययोः । अशोच्यानित्यादिना भगवता यावत्स्वधर्ममपि चावेक्ष्य इत्येतदन्तेन ग्रन्थेन यत्परमार्थात्मतत्त्वनिरूपणं कृतम्, तत्सांख्यम् । तद्विषया बुद्धिरात्मनो जन्मादिषड्विक्रियाभावादकर्ता आत्मेति प्रकरणार्थनिरूपणाद्या जायते, सा सांख्यबुद्धिः ।