कौषीतकि ब्राह्मणम् – ऋग्वेदः
१.१ अग्नेः शरीराणि
अस्मिन् वै लोक उभये देव मनुष्या आसुः । ते देवाः स्वर्गंल् लोकम् यन्तो अग्निम् ऊचुः । त्वम् नो अस्य लोकस्य अध्यक्ष एधि इति । तान् अग्निर् उवाच । अथ यद् वो अहम् घोर संस्पर्शतमो अस्मि । अनपचायितारो मनुष्याः । कथम् वस् तद् भविष्यति यन् मनुष्येष्व् इति । ते देवा ऊचुः । तस्य वै ते वयम् घोरास् तनूर् विनिधास्यामः । अथ या एव ते शिवा शग्मा यज्ञिया तनूः । तया इह मनुष्येभ्यो भविष्यसि इति । तस्य अप्सु पवमानाम् अदधुः । वायौ पावकाम् । आदित्ये शुचिम् । अथ या एव अस्य शिवा शग्मा यज्ञिया तनूर् आसीत् । तया इह मनुष्येभ्यो अतपत् । एता वा अग्नेस् तन्वः । तद् यद् एता देवता यजति । अत्र अग्निः साङ्गः सतनूः प्रीतो भवति । ता वै तिस्रो भवन्ति । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति ।
पौर्णमासम् प्रथमायै तन्त्रम् भवति । आमावास्यम् द्वितीयायै । तेन ह अस्य दर्श पूर्ण मासाव् अन्वारब्धौ भवतः । ईडितवत्यौ हव्यवाड्वत्यौ प्रथमायै सम्याज्ये । तत् सम्याज्या रूपम् । द्व्य् अग्नी द्वितीयायै । द्वौ हि अग्नी यजति । सप्तसस सामिधेनीका तृतीया । सप्तदश सामिधेनीका वा इष्टि पशु बन्धाः । तद् इष्टि पौश् बन्धान् आप्नोति । सद्वन्ताव् आज्य भागौ भवतः । असानि इति वा अग्नीन् आधत्ते । स्याम् इति कामयते । स यदि ह वा अपि स्वैषावीर इव सन्न् अग्नीन् आधत्ते । क्षिप्र एव सम्भवति । क्षिप्रे भोग्यताम् अश्नुते । यः सद्वन्तौ कुरुते । विराजौ सम्याज्ये । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । ता वै गायत्र्यो भवन्ति । गायत्रो वा अग्निर् गायत्रच् छन्दाः । स्वेन एव तच् छन्दसा अग्नीन् आधत्ते । ता वा उपांशु भवन्ति । रेतः सिक्तिर् वा अग्न्य् आध्येयम् । उपांशु वै रेतः सिच्यते । अभिरूपा भवन्ति । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । द्वादश दद्यात् । द्वादश वै मासाः संवत्सरः । संवत्सरस्य एव आप्त्यै । अश्वम् त्रयोदशम् ददाति । यस् त्रयोदशो मासस् तस्य आप्यै ।
२.१ पयोहोमः
घर्मो वा एष प्रवृज्यते यद् अग्निहोत्रम् । तद् असौ वै घर्मो यो असौ तपति । एतम् एव त प्रीणाति । स वै सायम् च प्रातश् च जुहोति । अग्नये सायम् सूर्याय प्रातः । सौर्यम् वा अहर् आग्नेयी रात्रिः । मुखत एव तद् अहो रात्रे प्रीणाति । पयसा जुहुयात् । एष ह वै सर्वासाम् ओषधीनाम् रसो यत् पयः । सर्वैर् एव तद् रसैर् अग्नीन् प्रीणाति । तद् उ वा आहुर् यद् अशनस्य एव जुहुयात् । सर्वम् वा इदम् अग्नेर् अन्नम् । स्वेन एव तद् अन्नेन अग्नीन् प्रीणाति इति । गार्हपत्ये अधिश्रित्य आहवनीये जुहुयात् । श्रपणो वै गार्हपत्यः । आहवन आहवनीयः । तस्माद् गार्हपत्ये अधिश्रित्य आहवनीये जुहुयात् । द्व्य् अन्तान् अङ्गारान् करोति । इमाव् एव तल् लोकौ वितारयति । तस्माद्द् हि इमौ लोकौ सह सन्तौ नाना इव । अथ यद् अधिश्रित्य अवद्योतयति । श्रपयत्य् एव एतत् तत् । अथ यद् अपः प्रत्यानयति । आपः कृत्स्नानि ह वै सर्वाणि हवींषि भवन्ति । हविष एव कृत्स्नतायै । अथ यत् पुनर् अवद्योगयति । त्रिवृद्द् हि देव कर्म । अनुच्छिन्दन्न् इव हरेति । तथा ह यजमानो अप्रच्यावुको भवति । अथ उपवेषेण दक्षिणतो अङ्गारान् उपस्पृशति नमो देवेभ्य इति । न हि नमस् कारम् अति देवाः । सुप्रत्यूढान् अङ्गारान् प्रत्यूहेत् । तथा ह अस्य न अन्तम चारिणो चन नश्यति । चतुर् उन्नयेत् । चतुष्टयम् वा इदम् सर्वम् । अस्य एव सर्वस्य आप्त्यै । पञ्च कृत्व उन्नयेत् । पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
२.२ पयःप्राशनम् अग्न्युपस्थानम्
उपसदो अग्निहोत्रे वेदितव्याः । उन्नीय उत्तरेण गार्हपत्यम् उपसादयति । तद् इमंल् लोकम् आप्नोति । आहवनीये होष्यन् द्वितीयम् । पालाशीम् समिधम् अभ्यादधाति । सोमो वै पलाशः । सा प्रथमा सोम आहुतिः । प्रादेश मात्री भवति । प्रादेश मात्रम् हि इम आत्मनो अधि प्राणाः । द्व्य् अङ्गुलम् समिधो अतिहृत्य अनुदृभन्न् इव अभिजुहोति । द्व्य् अङ्गुले वा इदम् मुखस्य अन्नम् धीयते । धूमायन्त्याम् ग्राम कामस्य जुहुयात् । ज्वलन्त्याम् ब्रह्म वर्चस कामस्य । अङ्गारेषु पशु कामस्य । अभ्याधाय इति त्व् एव स्थितम् । अत्र ह्य् एव एते सर्वे कामा उपाप्यन्त इति । उभे आहुती हुत्वा जपति । या यज्ञस्य समृद्धस्य आशीः सा मे समृध्यताम् इति । या वै यज्ञस्य समृद्धस्य आशीः सा यजमानस्य भवति । उत्तराव् अवतीर आहुतीर् ( उत्तर अवतीर आहुतीर्) जुहुयात् । उत्तर उत्तरिण एव तत् स्वर्गांल् लोकान् आप्नोति । स्रुचो बुध्नेन अङ्गारान् उपस्पृशति । स्वर्ग एव तल् लोके यजमानम् दधाति । द्विर् उदीचीम् स्रुचम् उद्यच्छति । रुद्रम् एव तत् स्वायाम् दिशि प्रीत्वा अवसृजति । तस्माद्द् हूयमानस्य उत्तरतो न तिष्ठेत् । न इद् एतस्य अखिलस्य देवस्य परिप्राध्वे असानि इति । ताम् उत्तरतः सायम् उपमार्ष्टि प्रतीचीम् । आदित्यम् तद् अस्तम् नयति । दक्षिणत ऊर्ध्वाम् प्रातः । आदित्यम् तद् उन्नयति । यत् पूर्वम् उपमार्ष्टि तत् कूर्चे निलिम्पति । ओषधीस् तेन प्रीणाति । यद् द्वितीयम् तद् दक्षिणेन कूर्चम् उत्तानम् पाणिम् निदधाति । पितॄंस् तेन प्रीणाति । अथ यद् द्षिप् प्रदेशिन्या प्राश्नाति । गर्भान् पूर्वेण प्रीणाति । तस्माद् अनश्नन्तो गर्भाः प्राणन्ति । वयांस्य् उत्तरेण । तस्माद् वयांसि बहु किंच किंचिद् इव भक्षयन्ति श्वेतम् इव प्रस्रावयन्ति । अथ यत् स्रुचा भक्षयति । भूतम् च तेन भव्यम् च प्रीणाति । अथ यत् स्रुचम् निर्लेढि । सर्व देव जनांस् तेन प्रीणाति । अथ यत् स्रुचम् मार्जयते । रक्षो देव जनांस् तेन प्रीणाति । अथ यत् प्राचीरु उदीचीर् अप उत्सिञ्चति । गन्धर्व अप्सरसस् तेन प्रीणाति । अथ यत् प्राचीम् उदीचीम् स्रुचम् उद्दिशति । रुद्रम् एव तत् स्वायाम् दिशि दधाति । एवम् अग्निहोत्रेण सर्वाणि भूतानि प्रीणाति ।
२.३ आहवनीयाग्निहोमः
आहवनीय एव जुहुयाद् इति ह एक आहुः । सर्वेषु त्व् एव जुहुयात् । होमाय ह्य् एत आधीयन्ते । चतस्रो गार्हपत्ये । चतस्रो अन्वाहार्य पचने । द्वे आहवनीये । ता दश सम्पद्यते । दश दशिनी विराट् । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । स य एवम् विराट् सम्पन्नम् अग्निहोत्रम् जुहोति । सर्वान् कामान् आप्नोति ।
२.४ अग्न्युपस्थानम् व्रतविसर्जनञ्च
अथ यद् हुत्वा अग्नीन् उपतिष्ठते । प्रीत्वा एव तद् देवेष्व् अन्ततो अर्थम् वदते । यद् व् एव वत्सम् स्पृशति । तस्माद् वात्सप्रम् । तथा ह यजमानात् पशवो अनुत्क्रामुका भवन्ति । अथ यद् अप आचम्य व्रतम् विसृजते । अप्स्व् एव तद् व्रतम् दधाति । ता अस्य व्रतम् गोपायन्त्या पुनर् होमात् ।
२.५ प्रवत्स्यता प्रोषितेन च अग्न्युपस्थानम्
अथो यत् प्रवत्स्यंश् च प्रोषिवांश् च अग्नीन् उपतिष्ठते । अभिवादो ह एष देवतायै यद् उत्काशम् भवति । अथो अग्निभ्य एव एतद् आत्मानम् परिददाति । ये च एनम् अन्वञ्चो भवन्ति ।
२.६ अग्नेः अरणिसमारोहणम्
अथ यद् अरण्योर् अग्नीन्त् समारोहयते । देव रथो वा अरणी । देव रथ एव एनांस् तत् समारोपयते । स एतेन देव रथेन स्वस्ति स्वर्गंल् लोकम् समश्नुते । यद् व् एव पुनः पुनर् निर्मन्थते । तेनो ह एव अस्य पुनर् आधेयम् उपाप्तम् भवति ।
२.७ वाचः अन्येन्द्रियाणां च संबन्धः
ये वै के च आनन्दा अन्ने पाने मिथुने । रात्र्या एव ते संतता अव्यवच्छिन्नाः क्रियन्ते । तेषाम् रात्रिः कारोतरः । य उ वै के च आनन्दाः । अन्नाद् एव ते सर्वे जायन्ते । ते देवा अब्रुवन् । कथम् न्व् इमान् वयम् आनन्दान् अस्मादृशस्य एव प्रतिगृह्णीयाम इति । ते अपाम् ऊर्ध्वम् रसम् उदौहन् । ता ओषधयश् च वनस्पतयश् च समभवन् । ओषधीनाम् च वनस्पतीनाम् च ऊर्ध्वम् रसम् उदौहन् । तत् फलम् अभवत् । फलस्य ऊर्ध्वम् रसम् उदौहन् । तद् अन्नम् अभवत् । अन्नस्य ऊर्ध्वम् रसम् उदौहन् । तद् रेतो अभवत् । रेतस ऊर्ध्वम् रसम् उदौहन् । स पुरुषो अभवत् । सो अयम् पुरुषो यत् प्राणिति वा अपानिति वा । न तत् प्राणेन न अनापेन आह इति प्राणिषम् वा अपानिषम् वा इति । वाचा एव तद् आह । तत् प्राण अवानौ वाचम् अपीतो वान्मयौ भवतः । अथ यच् चक्षुषा पश्यति । न तच् चक्षुषा आह इत्य् अद्राक्षम् इति । वाचा एव तद् आह । तच् चक्षुर् वाअचम् अप्येति वान्मयम् भवति । अथ यत् श्रोत्रेण शृणोति । न तत् श्रोत्रेण आह इत्य् अश्रौषम् इति । वाचा एव तद् आह । तत् श्रोत्रम् वाचम् अप्येति वान्मयम् भवति । अथ यन् मनसा संकल्पयते । न तन् मनसा आह इति समचीकॢपम् इति । वाचा एव तद् आह । तन् मनो वाचम् अप्येति वान्मयम् भवति । अथ यद् अङ्गैः सुशीमम् वा दुह्शीमम् वा स्पृशति । न तद् अङ्गैर् आह इति सुशीमम् वा दुह्शीमम् वा अस्प्राक्षम् इति । वाचा एव तद् आह । तत् सर्व आत्मा वाचम् अप्येति वान्मयो भवति । तद् एतद् ऋचा अभ्युदितम् । न इन्द्राद् ऋते पवते धाम किंचन इति । वाग् वा इन्द्रः । न ह्य् ऋते वाचः पवते धाम किंचन । स वै सायम् जुहोत्य्
२.८ अग्निहोत्रविज्ञानफलम्
अग्निर् ज्योतिर् ज्योतिर् अग्निर् इति । तम् ज्योतिः सन्तम् ज्योतिर् इत्य् आह । स सत्यम् वदति । तस्य अयम् वाङ्मय आत्मा सत्यमयो भवति । सत्यमया उ देवाः । अथ स्वाहा इति जुहोति । तस्य एताम् देवाः सत्य हुतस्य आहुतिम् प्रतिगृह्णन्ति । रात्र्या उ शीर्षन्त् सत्यम् वदति । स यदि ह वा अपि तत ऊर्ध्वम् मृषा वदति । सत्यम् ह एव अस्य उदितम् भवति । रात्र्या उ हि शीर्षन्त् सत्यम् वदति ।
अथ प्रातर् जुहोति सूर्यो ज्योतिर् ज्योतिः सूर्य इति । तम् ज्योतिः सन्तम् ज्योतिर् इत्य् आह । स सत्यम् वदति । तस्य अयम् वाङ्मय आत्मा सत्यमयो भवति । सत्यमया उ देवाः । अथ स्वाहा इति जुहोति । तस्य एताम् देवाः सत्य हुतस्य आहुतिम् प्रतिगृह्णन्ति । अह्न उ शीर्षन्त् सत्यम् वदति । स यदि ह वा अपि तत ऊर्ध्वम् मृषा वदति । सत्यम् ह एव अस्य उदितम् भवति । अह्न उ हि शीर्षन्त् सत्यम् वदति । स वा एषो अग्निर् उद्यत्यादित्य आत्मानम् जुहोति अथ अस्तम् यन्त् साये अग्नाव् आत्मानम् जुहोति । रात्रिर् एव अहन् जुहोत्य् अहोरात्र्यां । प्राण एव अपाने जुहोत्य् अपानः प्राणे । तानि वा एतानि षड् जुह्वत्य् अन्योन्य आत्मानम् । स य एतानि षड् जुह्वति वेद । अजुह्वत एव अस्य अग्निहोत्रम् हुतम् भवति । जुह्वत एव अस्य द्विर् हुतम् भवति य एवम् एव । स यदि ह वा अपि सुरुशाद् एवम् विद्वान् अग्निहोत्रम् जुहोति । प्रति ह एव अस्य एते देवा आहुती गृह्णन्ति । यस्यो ह वा अपि देवाः सकृद् अश्नन्ति । तत एव सो अमृतः । सत्यमयो ह वा अमृतमयः सम्भवति य एवम् वेद । तद् यथा ह वै श्रद्धा देवस्य ( एव अस्य ) सत्यवादिनस् तपस्विनो हुतम् भवति । एवम् ह एव अस्य हुतम् भवति । य एवम् विद्वान् अग्निहोत्रम् जुहोति । तस्माद् एवंविद् अग्निहोत्रम् जुहुयाद् इति ।
२.९ अग्निहोत्रकालविवेचनम्
उदिते होतव्यम् अनुदित इति मीमांसन्ते । स य उदिते जुहोति । प्रसवत एव एतन् महते देवाय आतिथ्यम् करोति । अथ यो अनुदिते जुहोति । सन्निहिताय एव एतन् महते देवाय आतिथ्यम् करोति । तस्माद् अनुदिते होतव्यम् । तद्द् ह अपि वृष शुष्मो वातावतः पूर्वेषाम् एको जीर्णिः शयानो रात्र्याम् एव उभे आहुती हूयमाने दृष्ट्वा उवाच । रात्र्याम् एव उभे आहुती जुह्वति इति । रात्र्या हि इति स ह उवाच । वक्ता अस्मो ( वक्तास्मो) न्व् एव वयम् अमुंल् लोकम् परेत्य पितृभ्यः । अथो एव एनम् न श्रद्धातारः । यद् व् एव एतद् उभये द्युर् अग्निहोत्रम् अहूयत । अन्ये द्युर् वा तद् एतर्हि हूयते । रात्र्याम् एव इत्य् एतद् एव कुमारी गन्धर्व गृहीता उवाच । रात्र्याम् एव उभे आहुती जुह्वति इति । रात्र्याम् हि इति सा ह उवाच । संधौ जुहुयात् । समुद्रो ह वा एष सर्वम् हरो यद् अहो रात्रे । तस्य ह एते गाधे तीर्थे यत् संध्ये । तद् यथा गाधाभ्याम् तीर्थाभ्याम् समुद्रम् अतीयात् तादृक् तत् । यत् संधौ जुहोति । अथो देव सेना ह वा एष अध्वगा हनिष्यन्ती यद् अहो रात्रे । तस्या ह एते पक्षसी यत् संध्ये । तद् यथा पक्षाभ्याम् क्षिप्रम् अध्वानम् अन्वियात् तादृक् तत् । यत् संधौ जुहोति । अथो मृत्योर् ह वा एतौ विराज बाहू यद् अहोरात्रे । तद् यथा विराज बाहुभ्याम् परिजिग्रहीष्यन्न् अन्तरेण अतिमुच्येत तादृक् तत् । यत् संधौ जुहोति । तद् उ ह स्म आह कौषीतकिः । सायम् अस्तमिते पुरा तमसस् तस्मिन् काले जुहुयात् । स देव यानः केतुः । तम् एव आरभ्य स्वस्ति स्वर्गंल् लोकम् एति । प्रातः पुरोदयाद् अपहते तमसि तस्मिन् काले जुहुयात् । स देव यानः केतुः । तम् एव आरभ्य स्वस्ति स्वर्गंल् लोकम् एति । अथ यो अतो अन्यथा अग्निहोत्रम् जुहोति । श्याम शबलौ ह अस्य अग्निहोत्रम् विखिदतः । अहर् वै शबलः । रात्रिः श्यामः । स यो महा रात्रे जुहोति । श्यामो ह अस्य अग्निहोत्रम् विखिदति । अथ यो महा अह्ने जुहोति । शबलो ह अस्य अग्निहोत्रम् विखिदति । तद् वै खलु यदा एव कदाचन जुहुयात् । हुत समृद्धिम् एव उपासीत इति हुत समृद्धम् एव उपासीत इति ।
२.१ पयोहोमः
घर्मो वा एष प्रवृज्यते यद् अग्निहोत्रम् ।
तद् असौ वै घर्मो यो असौ तपति ।
एतम् एव त प्रीणाति ।
स वै सायम् च प्रातश् च जुहोति ।
अग्नये सायम् सूर्याय प्रातः ।
सौर्यम् वा अहर् आग्नेयी रात्रिः ।
मुखत एव तद् अहो रात्रे प्रीणाति ।
पयसा जुहुयात् ।
एष ह वै सर्वासाम् ओषधीनाम् रसो यत् पयः ।
सर्वैर् एव तद् रसैर् अग्नीन् प्रीणाति ।
तद् उ वा आहुर् यद् अशनस्य एव जुहुयात् ।
सर्वम् वा इदम् अग्नेर् अन्नम् ।
स्वेन एव तद् अन्नेन अग्नीन् प्रीणाति इति ।
गार्हपत्ये अधिश्रित्य आहवनीये जुहुयात् ।
श्रपणो वै गार्हपत्यः ।
आहवन आहवनीयः ।
तस्माद् गार्हपत्ये अधिश्रित्य आहवनीये जुहुयात् ।
द्व्य् अन्तान् अङ्गारान् करोति ।
इमाव् एव तल् लोकौ वितारयति ।
तस्माद्द् हि इमौ लोकौ सह सन्तौ नाना इव ।
अथ यद् अधिश्रित्य अवद्योतयति ।
श्रपयत्य् एव एतत् तत् ।
अथ यद् अपः प्रत्यानयति ।
आपः कृत्स्नानि ह वै सर्वाणि हवींषि भवन्ति ।
हविष एव कृत्स्नतायै ।
अथ यत् पुनर् अवद्योगयति ।
त्रिवृद्द् हि देव कर्म ।
अनुच्छिन्दन्न् इव हरेति ।
तथा ह यजमानो अप्रच्यावुको भवति ।
अथ उपवेषेण दक्षिणतो अङ्गारान् उपस्पृशति नमो देवेभ्य इति ।
न हि नमस् कारम् अति देवाः ।
सुप्रत्यूढान् अङ्गारान् प्रत्यूहेत् ।
तथा ह अस्य न अन्तम चारिणो चन नश्यति ।
चतुर् उन्नयेत् ।
चतुष्टयम् वा इदम् सर्वम् ।
अस्य एव सर्वस्य आप्त्यै ।
पञ्च कृत्व उन्नयेत् ।
पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
२.२ पयःप्राशनम् अग्न्युपस्थानम्
उपसदो अग्निहोत्रे वेदितव्याः ।
उन्नीय उत्तरेण गार्हपत्यम् उपसादयति ।
तद् इमंल् लोकम् आप्नोति ।
आहवनीये होष्यन् द्वितीयम् ।
पालाशीम् समिधम् अभ्यादधाति ।
सोमो वै पलाशः ।
सा प्रथमा सोम आहुतिः ।
प्रादेश मात्री भवति ।
प्रादेश मात्रम् हि इम आत्मनो अधि प्राणाः ।
द्व्य् अङ्गुलम् समिधो अतिहृत्य अनुदृभन्न् इव अभिजुहोति ।
द्व्य् अङ्गुले वा इदम् मुखस्य अन्नम् धीयते ।
धूमायन्त्याम् ग्राम कामस्य जुहुयात् ।
ज्वलन्त्याम् ब्रह्म वर्चस कामस्य ।
अङ्गारेषु पशु कामस्य ।
अभ्याधाय इति त्व् एव स्थितम् ।
अत्र ह्य् एव एते सर्वे कामा उपाप्यन्त इति ।
उभे आहुती हुत्वा जपति ।
या यज्ञस्य समृद्धस्य आशीः सा मे समृध्यताम् इति ।
या वै यज्ञस्य समृद्धस्य आशीः सा यजमानस्य भवति ।
उत्तराव् अवतीर आहुतीर् ( उत्तर अवतीर आहुतीर्) जुहुयात् ।
उत्तर उत्तरिण एव तत् स्वर्गांल् लोकान् आप्नोति ।
स्रुचो बुध्नेन अङ्गारान् उपस्पृशति ।
स्वर्ग एव तल् लोके यजमानम् दधाति ।
द्विर् उदीचीम् स्रुचम् उद्यच्छति ।
रुद्रम् एव तत् स्वायाम् दिशि प्रीत्वा अवसृजति ।
तस्माद्द् हूयमानस्य उत्तरतो न तिष्ठेत् ।
न इद् एतस्य अखिलस्य देवस्य परिप्राध्वे असानि इति ।
ताम् उत्तरतः सायम् उपमार्ष्टि प्रतीचीम् ।
आदित्यम् तद् अस्तम् नयति ।
दक्षिणत ऊर्ध्वाम् प्रातः ।
आदित्यम् तद् उन्नयति ।
यत् पूर्वम् उपमार्ष्टि तत् कूर्चे निलिम्पति ।
ओषधीस् तेन प्रीणाति ।
यद् द्वितीयम् तद् दक्षिणेन कूर्चम् उत्तानम् पाणिम् निदधाति ।
पितॄंस् तेन प्रीणाति ।
अथ यद् द्षिप् प्रदेशिन्या प्राश्नाति ।
गर्भान् पूर्वेण प्रीणाति ।
तस्माद् अनश्नन्तो गर्भाः प्राणन्ति ।
वयांस्य् उत्तरेण ।
तस्माद् वयांसि बहु किंच किंचिद् इव भक्षयन्ति श्वेतम् इव प्रस्रावयन्ति ।
अथ यत् स्रुचा भक्षयति ।
भूतम् च तेन भव्यम् च प्रीणाति ।
अथ यत् स्रुचम् निर्लेढि ।
सर्व देव जनांस् तेन प्रीणाति ।
अथ यत् स्रुचम् मार्जयते ।
रक्षो देव जनांस् तेन प्रीणाति ।
अथ यत् प्राचीरु उदीचीर् अप उत्सिञ्चति ।
गन्धर्व अप्सरसस् तेन प्रीणाति ।
अथ यत् प्राचीम् उदीचीम् स्रुचम् उद्दिशति ।
रुद्रम् एव तत् स्वायाम् दिशि दधाति ।
एवम् अग्निहोत्रेण सर्वाणि भूतानि प्रीणाति ।
२.३ आहवनीयाग्निहोमः
आहवनीय एव जुहुयाद् इति ह एक आहुः ।
सर्वेषु त्व् एव जुहुयात् ।
होमाय ह्य् एत आधीयन्ते ।
चतस्रो गार्हपत्ये ।
चतस्रो अन्वाहार्य पचने ।
द्वे आहवनीये ।
ता दश सम्पद्यते ।
दश दशिनी विराट् ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
स य एवम् विराट् सम्पन्नम् अग्निहोत्रम् जुहोति ।
सर्वान् कामान् आप्नोति ।
२.४ अग्न्युपस्थानम् व्रतविसर्जनञ्च
अथ यद् हुत्वा अग्नीन् उपतिष्ठते ।
प्रीत्वा एव तद् देवेष्व् अन्ततो अर्थम् वदते ।
यद् व् एव वत्सम् स्पृशति ।
तस्माद् वात्सप्रम् ।
तथा ह यजमानात् पशवो अनुत्क्रामुका भवन्ति ।
अथ यद् अप आचम्य व्रतम् विसृजते ।
अप्स्व् एव तद् व्रतम् दधाति ।
ता अस्य व्रतम् गोपायन्त्या पुनर् होमात् ।
२.५ प्रवत्स्यता प्रोषितेन च अग्न्युपस्थानम्
अथो यत् प्रवत्स्यंश् च प्रोषिवांश् च अग्नीन् उपतिष्ठते ।
अभिवादो ह एष देवतायै यद् उत्काशम् भवति ।
अथो अग्निभ्य एव एतद् आत्मानम् परिददाति ।
ये च एनम् अन्वञ्चो भवन्ति ।
२.६ अग्नेः अरणिसमारोहणम्
अथ यद् अरण्योर् अग्नीन्त् समारोहयते ।
देव रथो वा अरणी ।
देव रथ एव एनांस् तत् समारोपयते ।
स एतेन देव रथेन स्वस्ति स्वर्गंल् लोकम् समश्नुते ।
यद् व् एव पुनः पुनर् निर्मन्थते ।
तेनो ह एव अस्य पुनर् आधेयम् उपाप्तम् भवति ।
२.७ वाचः अन्येन्द्रियाणां च संबन्धः
ये वै के च आनन्दा अन्ने पाने मिथुने ।
रात्र्या एव ते संतता अव्यवच्छिन्नाः क्रियन्ते ।
तेषाम् रात्रिः कारोतरः ।
य उ वै के च आनन्दाः ।
अन्नाद् एव ते सर्वे जायन्ते ।
ते देवा अब्रुवन् ।
कथम् न्व् इमान् वयम् आनन्दान् अस्मादृशस्य एव प्रतिगृह्णीयाम इति ।
ते अपाम् ऊर्ध्वम् रसम् उदौहन् ।
ता ओषधयश् च वनस्पतयश् च समभवन् ।
ओषधीनाम् च वनस्पतीनाम् च ऊर्ध्वम् रसम् उदौहन् ।
तत् फलम् अभवत् ।
फलस्य ऊर्ध्वम् रसम् उदौहन् ।
तद् अन्नम् अभवत् ।
अन्नस्य ऊर्ध्वम् रसम् उदौहन् ।
तद् रेतो अभवत् ।
रेतस ऊर्ध्वम् रसम् उदौहन् ।
स पुरुषो अभवत् ।
सो अयम् पुरुषो यत् प्राणिति वा अपानिति वा ।
न तत् प्राणेन न अनापेन आह इति प्राणिषम् वा अपानिषम् वा इति ।
वाचा एव तद् आह ।
तत् प्राण अवानौ वाचम् अपीतो वान्मयौ भवतः ।
अथ यच् चक्षुषा पश्यति ।
न तच् चक्षुषा आह इत्य् अद्राक्षम् इति ।
वाचा एव तद् आह ।
तच् चक्षुर् वाअचम् अप्येति वान्मयम् भवति ।
अथ यत् श्रोत्रेण शृणोति ।
न तत् श्रोत्रेण आह इत्य् अश्रौषम् इति ।
वाचा एव तद् आह ।
तत् श्रोत्रम् वाचम् अप्येति वान्मयम् भवति ।
अथ यन् मनसा संकल्पयते ।
न तन् मनसा आह इति समचीकॢपम् इति ।
वाचा एव तद् आह ।
तन् मनो वाचम् अप्येति वान्मयम् भवति ।
अथ यद् अङ्गैः सुशीमम् वा दुह्शीमम् वा स्पृशति ।
न तद् अङ्गैर् आह इति सुशीमम् वा दुह्शीमम् वा अस्प्राक्षम् इति ।
वाचा एव तद् आह ।
तत् सर्व आत्मा वाचम् अप्येति वान्मयो भवति ।
तद् एतद् ऋचा अभ्युदितम् ।
न इन्द्राद् ऋते पवते धाम किंचन इति ।
वाग् वा इन्द्रः ।
न ह्य् ऋते वाचः पवते धाम किंचन ।
स वै सायम् जुहोत्य्
२.८ अग्निहोत्रविज्ञानफलम्
अग्निर् ज्योतिर् ज्योतिर् अग्निर् इति ।
तम् ज्योतिः सन्तम् ज्योतिर् इत्य् आह ।
स सत्यम् वदति ।
तस्य अयम् वान्मय आत्मा सत्यमयो भवति ।
सत्यमया उ देवाः ।
अथ स्वाहा इति जुहोति ।
तस्य एताम् देवाः सत्य हुतस्य आहुतिम् प्रतिगृह्णन्ति ।
रात्र्या उ शीर्षन्त् सत्यम् वदति ।
स यदि ह वा अपि तत ऊर्ध्वम् मृषा वदति ।
सत्यम् ह एव अस्य उदितम् भवति ।
रात्र्या उ हि शीर्षन्त् सत्यम् वदति ।
अथ प्रातर् जुहोति सूर्यो ज्योतिर् ज्योतिः सूर्य इति ।
तम् ज्योतिः सन्तम् ज्योतिर् इत्य् आह ।
स सत्यम् वदति ।
तस्य अयम् वान्मय आत्मा सत्यमयो भवति ।
सत्यमया उ देवाः ।
अथ स्वाहा इति जुहोति ।
तस्य एताम् देवाः सत्य हुतस्य आहुतिम् प्रतिगृह्णन्ति ।
अह्न उ शीर्षन्त् सत्यम् वदति ।
स यदि ह वा अपि तत ऊर्ध्वम् मृषा वदति ।
सत्यम् ह एव अस्य उदितम् भवति ।
अह्न उ हि शीर्षन्त् सत्यम् वदति ।
स वा एषो अग्निर् उद्यत्य् आदित्य आत्मानम् जुहोति ।
असाव् अस्तम् यन्त् साये अग्नाव् आदित्य आत्मानम् जुहोति ।
रात्रिर् एव अहन् जुहोत्य् अहो रात्रौ ।
प्राण एव अपाने जुहोत्य् अपानः प्राणे ।
तानि वा एतानि षड् जुह्वत्य् अन्योन्य आत्मानम् ।
स य एतानि षड् जुह्वति वेद ।
अजुह्वत एव अस्य अग्निहोत्रम् हुतम् भवति ।
जुह्वत एव अस्य द्विर् हुतम् भवति य एवम् एव ।
स यदि ह वा अपि सुरुशाद् एवम् विद्वान् अग्निहोत्रम् जुहोति ।
प्रति ह एव अस्य एते देवा आहुती गृह्णन्ति ।
यस्यो ह वा अपि देवाः सकृद् अश्नन्ति ।
तत एव सो अमृतः ।
सत्यमयो ह वा अमृतमयः सम्भवति य एवम् वेद ।
तद् यथा ह वै श्रद्धाद् ( एव अस्य ) सत्य वादिनस् तपस्विनो हुतम् भवति ।
एवम् ह एव अस्य हुतम् भवति ।
य एवम् विद्वान् अग्निहोत्रम् जुहोति ।
तस्माद् एवंविद् अग्निहोत्रम् जुहुयाद् इति ।
२.९ अग्निहोत्रकालविवेचनम्
उदिते होतव्यम् अनुदित इति मीमांसन्ते ।
स य उदिते जुहोति ।
प्रसवत एव एतन् महते देवाय आतिथ्यम् करोति ।
अथ यो अनुदिते जुहोति ।
सन्निहिताय एव एतन् महते देवाय आतिथ्यम् करोति ।
तस्माद् अनुदिते होतव्यम् ।
तद्द् ह अपि वृष शुष्मो वातावतः पूर्वेषाम् एको जीर्णिः शयानो रात्र्याम् एव उभे आहुती हूयमाने दृष्ट्वा उवाच ।
रात्र्याम् एव उभे आहुती जुह्वति इति ।
रात्र्या हि इति स ह उवाच ।
वक्ता अस्मो ( वक्तास्मो) न्व् एव वयम् अमुंल् लोकम् परेत्य पितृभ्यः ।
अथो एव एनम् न श्रद्धातारः ।
यद् व् एव एतद् उभये द्युर् अग्निहोत्रम् अहूयत ।
अन्ये द्युर् वा तद् एतर्हि हूयते ।
रात्र्याम् एव इत्य् एतद् एव कुमारी गन्धर्व गृहीता उवाच ।
रात्र्याम् एव उभे आहुती जुह्वति इति ।
रात्र्याम् हि इति सा ह उवाच ।
संधौ जुहुयात् ।
समुद्रो ह वा एष सर्वम् हरो यद् अहो रात्रे ।
तस्य ह एते गाधे तीर्थे यत् संध्ये ।
तद् यथा गाधाभ्याम् तीर्थाभ्याम् समुद्रम् अतीयात् तादृक् तत् ।
यत् संधौ जुहोति ।
अथो देव सेना ह वा एष अध्वगा हनिष्यन्ती यद् अहो रात्रे ।
तस्या ह एते पक्षसी यत् संध्ये ।
तद् यथा पक्षाभ्याम् क्षिप्रम् अध्वानम् अन्वियात् तादृक् तत् ।
यत् संधौ जुहोति ।
अथो मृत्योर् ह वा एतौ विराज बाहू यद् अहोरात्रे ।
तद् यथा विराज बाहुभ्याम् परिजिग्रहीष्यन्न् अन्तरेण अतिमुच्येत तादृक् तत् ।
यत् संधौ जुहोति ।
तद् उ ह स्म आह कौषीतकिः ।
सायम् अस्तमिते पुरा तमसस् तस्मिन् काले जुहुयात् ।
स देव यानः केतुः ।
तम् एव आरभ्य स्वस्ति स्वर्गंल् लोकम् एति ।
प्रातः पुरोदयाद् अपहते तमसि तस्मिन् काले जुहुयात् ।
स देव यानः केतुः ।
तम् एव आरभ्य स्वस्ति स्वर्गंल् लोकम् एति ।
अथ यो अतो अन्यथा अग्निहोत्रम् जुहोति ।
श्याम शबलौ ह अस्य अग्निहोत्रम् विखिदतः ।
अहर् वै शबलः ।
रात्रिः श्यामः ।
स यो महा रात्रे जुहोति ।
श्यामो ह अस्य अग्निहोत्रम् विखिदति ।
अथ यो महा अह्ने जुहोति ।
शबलो ह अस्य अग्निहोत्रम् विखिदति ।
तद् वै खलु यदा एव कदाचन जुहुयात् ।
हुत समृद्धिम् एव उपासीत इति हुत समृद्धम् एव उपासीत इति ।
३.१ पौर्णमासकालः
यद् दर्श पूर्ण मासयोर् उपवसति । न ह वा अव्रतस्य देवा हविर् अश्नन्ति । तस्माद् उपवसति । उत मे देवा हविर् अश्नीयुर् इति । पूर्वाम् पौर्णमासीम् उपवसेद् इति पैङ्ग्यम् । उत्तराम् इति कौषीतकम् । याम् पर्यस्तमयम् उत्सर्पेद् इति सा स्थितिः । पूर्वाम् पौर्णमासीम् उपवसेद् अनिर्ज्ञाय पुरस्ताद् अमावास्यायाम् चन्द्रमसम् । यद् उपवसति तेन पूर्वाम् प्रीणाति । यद् यजते तेन उत्तराम् । उत्तराम् उपवसेत् । उत्तराम् उ ह वै समुद्रो विजते सोमम् अनु दैवतम् । एतद् वै देव सत्यम् यच् चन्द्रमाः । तस्माद् उत्तराम् उपवसेत् ।
३.२ सामिधेन्यः आर्षेयकथनं च
अथ यत् पुरस्तात् सामिधेनीनाम् जपति । स्वस्त्ययनम् एव तत् कुरुते । हिंकृत्य सामिधेनीर् अन्वाह । वज्रो वै हिंकारः । वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति । त्रिर् हिम् करोति । त्रिवृद् वै वज्रः । वज्रम् एव तद् अभिसम्पादयति । एतेन वै देवास् त्रिवृता वज्रेण एभ्यो लोकेभ्यो असुरान् अनुदन्त । तथो एव एतद् यजमान एतेन एव त्रिवृता वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदति । एकादश सामिधेनीर् अन्वाह । एकादश अक्षरा वै त्रिष्टुप् । त्रैष्टुभ इन्द्रः । तद् उभा इन्द्राग्नी आप्नोति । त्रिः प्रथमया त्रिर् उत्तमया पञ्चदश सम्पद्यते । पञ्चदश वै पूर्व पक्ष अपर पक्षयोर् अहानि । तत् सामिधेनीभिः पूर्व पक्ष अपर पक्षाव् आप्नोति । अथो वज्रो वै सामिधेन्यः । पञ्चदशो वै वज्रः । वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति । यद् व् एव त्रिः प्रथमाम् त्रिरु उत्तमाम् । यज्ञस्य एव तद् बर्सौ नह्यति स्थेम्ने अविस्रंसाय । तासाम् वै त्रीणि षष्टि शतान्य् अक्षराणाम् भवन्ति । त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् । तत् सामिधेनीभिः संवत्सरस्य अहान्य् आप्नोति । ता वै गायत्र्यो भवन्ति । गायत्रो वा अग्निर् गायत्रच् छन्दाः । स्वेन एव तत् छन्दसा अग्निम् स्तौति । अभिरूपा भवन्ति । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । उत्तमायै तृतीये वचने प्रणवेन निगदम् उपसंदधाति । अग्ने महान् असि ब्राह्मण भारत इति । अग्निर् वै भरतः । स वै देवेभ्यो हव्यम् भरति । अथ यद् यजमानस्य आर्षेयम् आह । न ह वा अनार्षेयस्य देवा हविर् अश्नन्ति । तस्माद् अस्य आर्षेयम् आह । अथ एतम् पञ्चदश पदम् निगदम् उपसंदधाति । एषा ह वै सामिधेनीनाम् निवित् । तस्मात् पञ्चदश पदो भवति । पञ्चदश हि सामिधेन्यः । स वा अच्छन्दस् कृतो भवति । द्वयम् वा इदम् सर्वम् छन्दस् कृतम् च अच्छन्दस् कृतम् च । तेन सर्वेण अग्निम् स्तवानि इति । तस्य सप्त पदानि समस्य अवस्येत् । सप्त वै छन्दांसि । सर्वेषाम् एव छन्दसाम् आप्त्यै । अथ चत्वार्य् अथ चत्वारि । चतुष्टयम् वा इदम् सर्वम् । अस्य एव सर्वस्य आप्त्यै ।
३.३ देवतावाहनम्
अथ यद् व्यवग्राहम् देवता आवाहयति । नाना ह्य् आभ्यो हवींषि गृहीतानि भवन्ति । तस्माद् व्यवग्राहम् देवता आवाहयति । अथ यद् अग्निम् अग्निना आवाहयति । एषा वा अग्नेर् यज्ञिया तनूर् या अस्य हव्य वाट् । सा वा असौ यद् अदो अमुष्याद् इत्य् अस्य उपरिष्टाद् दिवि इव भाति ज्योतिर् इव । तद् यद् आह अग्निम् अग्न आवह इति । ताम् आवह इत्य् एव तद् आह । अथ यद् देवान् आज्यपान् आवाहयति । प्रयाज अनुयाजांस् तद् आवाहयति ।
अथ यद् अग्निम् होत्राय आवाहयति । स्विष्टकृतम् तद् आवाहयति । अथ यत् स्वम् महिमानम् आवाहयति । वायुम् तद् आवाहयति । वायुर् वा अग्नेः स्वो महिमा । तेन हि सम्पद्य महिमानम् गच्छति । यद् व् एव वाचा अन्वाह वाचा यजति । तेन उ ह एव अस्य स्वो महिमा इष्टो भवति । आ च वह जातवेदः सुयुजा च यज इत्य् आह । आवह च जातवेदो देवान्त् सयुजा च देवता यज इत्य् एव एनम् तद् आह । अथ यत् परस्तात् सामिधेनीनाम् जपति । वज्रो वै सामिधेन्यः । तम् एव एतत् शमयति पुरस्ताच् च उपरिष्टाच् च । अथ यत् स्रुग् आदापनेन स्रुचाव् आदापयति । देव रथम् एव तद् युनक्ति देवेभ्यो हविः प्रदास्यन् । स एतेन देव रथेन स्वस्ति स्वर्गं लोकम् समश्नुते ।
३.४ प्रयाजाः
प्रयाजान् यजति । ऋतवो वै प्रयाजाः । ऋतून् एव तत् प्रीणाति । ते वै पञ्च भवन्ति । तैर् यत् किंच पञ्च विधम् अधिदैवतम् अध्यात्मम् तत् सर्वम् आप्नोति । समिधो यजति वसन्तम् एव । वसन्ते वा इडम् सर्वम् समिद्यते । तनूनपातम् यजति गीष्मम् एव । ग्रीष्मे हि तन्वम् तपति । इडो यजति वर्षा एव । वर्षाभिर् हि ईडितम् अन्नाद्यम् उत्तिष्ठति । बर्हिर् यजति शरदम् एव । शरदि हि बर्हिष्ठा ओषधयो भवन्ति । स्वाहा कृतिम् अन्तम् यजति हेमन्तम् एव । हेमन्ते वा इदम् सर्वम् स्वाहा कृतम् । तद् आहुर् यत् पञ्च प्रयाजाः षड् ऋतवः क्वैतम् षष्ठम् ऋतुम् यजति इति । यद् एव चतुर्थे प्रयाजे समानयति तद् एनम् इतरेष्व् अनुविभजति । अथ यद् उत्तमे प्रयाजे देवताः समावपति । प्रयाज भाज एव एनास् तत् करोति । तद् यथा अग्निः सर्वेषु हविह्षु भागी भवति । एवम् तद् अग्नेर् भागे देवता भागिनीः करोति । न अत्र अग्निम् होत्राद् इत्य् आह । पशवो वै प्रयाजाः । रुद्रः स्विष्टकृत् । न इद् रुद्रेण यजमानस्य पशून् प्रसजानि इति । स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्त्व् इति ह एक आहुः । न तथा कुर्यात् । अर्धम् ह वै यज्ञस्य आज्यम् अर्धम् हविः । स यद्द् ह अन्यतरद् ब्रूयात् । अर्धम् ह वै यज्ञस्य समिष्टम् स्याद् अर्धम् असमिष्टम् । तस्मात् स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य हविषो व्यन्त्व् इत्य् एव ब्रूयात् ।
३.५ आज्यभागौ
अथ यत् पौर्णमास्याम् वार्त्रघ्नाव् आज्य भागौ भवतः । पौर्णमासेन वा इन्द्रो वृत्रम् अहन् । अथ यद् अमावास्यायाम् वृधन्वन्तौ । क्षयम् वा अत्र चन्द्रो गच्छति । तम् एव एतद् आप्याययति तम् वर्धयति । तौ वै जुषाण याज्यौ भवतः । समान हविषौ हि प्रयाजैर् भवतः । अथो ब्रह्म वै जुषाणः । ब्राह्मणा एव तद् देवेभ्यो हविः प्रयच्छति । तौ वै त्रिवृतौ भवतः । ये यजामहो निगदो वषट्कारः । चक्षुर् वा आज्य भागौ । त्रिवृद् वै चक्षुः शुक्लम् कृष्णम् लोहितम् इति । तौ न पशौ न सोमे करोति । पशुना वै चक्षुष्मान् अध्वरः । न इच् चतुर् अक्षम् बीभत्सम् अध्वरम् करवाणि इति । अथ यदावत्योण्(?) हूतवत्यः पुरोनुवाक्या भवन्ति । प्रवत्यः प्रत्तवत्यो याज्याः । हूत्वा एव तद् देवेभ्यो हविः प्रयच्छति । ता वै गायत्री त्रिष्टुभौ भवन्ति । ब्रह्म वै गायत्री । क्षत्रम् त्रिष्टुप् । ब्रह्म क्षत्राभ्याम् एव तद् देवेभ्यो हविः प्रयच्छति । ऋग् अन्ते वषट् करोति । तथा ह अस्य सर्वा याज्या रूपवत्यो भवन्ति । षड् इति वषट् करोति । षड् वा ऋतवः । ऋतून् एव तत् प्रीणाति । बार्हत राथन्तरम् वषट् कुर्यात् पुरस्ताद् दीर्घम् उपरिष्टाद्द् ह्रस्वम् । यद्द् ह्रस्वम् तद् रथन्तरम् । यद् दीर्घम् तद् बृहति । अथो इयम् वै रथन्तरम् असौ बृहत् । अनयोर् एव तत् प्रतितिष्ठति । अथो एतावान् वै वाचो विकारः । सर्वेण एव तद् वाचो विकारेण देवेभ्यो हविः प्रयच्छति । भूर् भुव इति पुरस्ताद् ये यजामहस्य जपति । वषट् कृत्या अनुजपत्य् ओजः सहः सह ओजः स्वर् इति । वज्रो वै वषट् कारः । तम् एव एतत् शमयति पुरस्ताच् च उपरिष्टाच् च । अथो एते एव वषट् कारस्य प्रीयतमे तनू यद् ओजश् च सहश् च । ताभ्याम् एव एनम् शमयति ।
३.६ यज्ञानां मुख्याहुतयः
अथ यद् अग्निम् प्रथमम् देवतानाम् यजति । अग्निर् वै देवानाम् मुखम् । मुखत एव तद् देवान् प्रीणाति । अथ यत् पौर्णमास्याम् अग्नीषोमौ यजति । अग्नीषोमौ वा अन्तर् वृत्र आस्ताम् । ताव् इन्द्रो न अशक्नोद् अभि वज्रम् प्रहर्तुम् । यद् उपांशु यजति तेन सोमम् प्रीणाति । यन् निरुक्तम् तेन अग्निम् । अथ यद् अमावास्यायाम् इन्द्राग्नी यजति । प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव । अथ यत् सन्नयन्न् इन्द्रम् यजति महा इन्द्रम् वा । एतज् ज्योतिर् वा अमावास्या । न ह्य् अत्र चन्द्रो दृश्यते । अथ यद् असन्नयन् पुरोडाशाव् अन्तरेण उपांश्व् आज्यस्य यजत्य् अजामितायै । अथ यत् सन्नयन्त् सान्नाय्यस्य अन्तरेण उपांश्व् आज्यस्य यजति तस्य उक्तम् ब्राह्मणम् । अथ यद् अग्निम् स्विष्टकृतम् अन्ततो यजति । एष ह वै देवेभ्यो हविः प्रयच्छति । यो वा अन्नम् विभजत्य् अन्ततः स भजते । अथो रुद्रो वै स्विष्टकृत् । अन्त भाग् वा वा एषः । तस्माद् एनम् अन्ततो यजति । तस्य तच् छन्दसौ याज्या पुरोनुवाक्ये निगदो व्यवैति । तेन अजामि भवति । वषट् कृत्या अप उपस्पृशति । शान्तिर् वै भेषजम् आपः । शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।
३.७ इळोपाह्वानम्
अथ यत् प्रदेशिन्याम् इडायाः पूर्वम् अञ्जनम् अधर ओष्ठे निलिम्पते । उत्तरम् उत्तर ओष्ठे । अयम् वै लोको अधर ओष्ठः । असौ लोकः उत्तर ओष्ठः । अथ यद् ओष्ठाव् अन्तरेण तद् इदम् अन्तरिक्षम् । तद् यद् प्राश्नाति । इमान् एव तल् लोकान् अनुसंतन्वन् प्रीणाति । अथ यद् इडाम् उपह्वयते । सर्वेष्व् एव तद् भूतेषु उपहवम् इच्छते । अथो अन्नम् वा इडा । अन्नम् एव तद् आत्मन् धत्ते । अथो पशवो वा इडा । पशूनाम् एव आप्त्यै । तस्याम् चतुरवान् इति । तथा पञ्चपदी भवति । पञ्चपदा पङ्क्तिः । पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै । अथ यज् जपेन उत्त्तर इडाम् प्राश्नाति । ब्रह्म वै जपः । ब्रह्मणा एव एनाम् तत् शमयति । अथ यद् अध्वर्युर् बर्हिषदम् पुरोडाशम् करोति । पितॄन् एव तत् प्रीणाति । अथ यत् पवित्रवति मार्जयन्ते । शान्तिर् वै भेषजम् आपः । शान्तिर् एव एषा भेषजम् यज्ञे क्रियते । अथ यद् अन्वाहार्यम् आहरन्ति । एतद् दक्षिणौ वै दर्श पूर्ण मासौ । तस्माद् एनम् आहरन्ति । अथ यत् समिधम् अनुमन्त्रयते । इध्मस्य वा एषा एक अतिशिष्टा भवति । तस्माद् एनाम् अनुस्तौति ।
३.८ अनुयाजाः सूक्तवाकः शंयोर्वाकश्च
अथ यत् त्रीन् अनुयाजान् यजैत् । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति । अथ यत् सर्वम् उत्तमम् आह । प्रतिष्ठा वै स्विष्टकृत् प्रतिष्ठित्या एव । अथ यत् सूक्त वाकम् आह । प्रतिष्ठा वै सूक्त वाकः प्रतिष्ठित्या एव । अथ यद् द्यावा पृथिव्योः कीर्तयति । प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव । अग्निर् इदम् हविर् अजुषत इति ह एक आहुः । न तथा कुर्यात् । अभ्यावर्तते ह अस्य देवता पुनर् यज्ञ इति मन्वाना । पुनर् मे हविः प्रदास्यति इति । सा यजमानस्य आशिषो निवर्तयति य इदम् हविर् इत्य् आह । तस्माद्द् हविर् अजुषत हविर् अजुषत इत्य् एव ब्रूयात् । अथो या एव एतद् देवताः पुरस्ताद् यजति । ताभिर् एव एतद् अन्ततः प्रतितिष्ठति । अथ यत् सूक्त वाके यजमानस्य नाम गृह्णाति । एष ह वै दैव आत्मा यजमानस्य यम् ऋत्विजः संस्कुर्वन्ति । तस्माद् अस्य नाम गृह्णाति । अत्र हि जायते । उच्चैर् गृह्णीयाद् यद्य् अप्य् आचार्यः स्यात् । तथा ह यजमानो अप्राच्यावुको भवति । अथ पञ्च आशिषो वदत इडायाम् तिस्रस् ता अष्टौ । एताभिर् वै देवाः सर्वा अष्टीर् अश्नुवत । तथो एव एतद् यजमान एताभिर् एव सर्वा अष्टीर् अश्नुते । अथ बर्हिषि प्राञ्चम् अञ्जलिम् निधाय जपति नम उप इति । न हि नमस्कारम् अति देवाः । अथ यत् शंयोर्वाकम् आह । प्रतिष्ठा वै शंयोर्वाकः प्रतिष्ठित्या एव । अथो शंयुर् ह वै बार्हस्पत्यः सर्वान् यज्ञान् शमयांचकार । तस्मात् शंयोर्वाकम् आह । अथ यद् अप उपस्पृशति । शान्तिर् वै भेषजम् आपः । शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।
३.९ पत्नीसंयाजाः
अथ यद् गार्हपत्ये पत्नीसंयाजैश् चरन्ति । गार्हपत्य भाजो वै पत्न्यः । आहवनीय भाग् यजमानः । तस्माद् गार्हपत्ये पत्नीसंयाजैश् चरन्ति । ते वै चत्वारो भवन्ति । आ चतुरम् वै द्वन्द्वम् मिथुनम् प्रजननम् प्रजात्यै । ते वा उपांशु भवन्ति । रेतः सिक्तिर् वै पत्नी संयाजाः । उपांशु वै रेतः सिच्यते । अभिरूपा भवन्ति । यद् यजे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । अथ सोमम् त्वष्टारम् देवानाम् पत्नीर् अग्निम् गृहपतिम् इति । एता ह वै देवता मिथुनानाम् ईशते । ता अत्र प्रीणन्ति । ता अस्मै प्रीता मिथुनानि दधति । सोमम् प्रथमम् यजति । रेतस् तत् सिञ्चति । त्वष्टारम् द्वितीयम् । त्वष्टा वै रेतः षिक्तम् विकरोति । ततः पत्न्यः । पत्नी सम्याजा ह्य् एते । अथ यद् अग्निम् गृहपतिम् अन्ततो यजति । एतत् स्विष्टकृतो वै पत्न्यः । तस्माद् एनम् अन्ततो यजति । अथ य अप उपस्पृशति तस्य उक्तम् ब्राह्मणम् ।
अथ यद् ऋचम् जपति स्वस्त्ययनम् एव तत् कुरुते । अथ यद् इलाम् उपह्वयते यन् मार्जयते यत् शम्योर् वाकम् आह तस्य उक्तम् ब्राह्मणम् । अथ यद् वेदे पत्नीम् वाचयति । वृषा वै वेदः । योषा पत्नी । मिथुनम् एव तत् पत्नीषु दधाति । तस्मात् पत्नी वेद तृणान्य् अन्तर ऊरू कुरुते । अथ यद् वेदम् स्तृणाति । तेन ह अस्य दर्श पूर्ण मासौ संततौ भवतः । अथो एतेन एव अस्य अग्निहोत्रम् स्तीर्ण बर्हिर् भवति । अथ यद् वेद अतिशेषम् उपतिष्ठते । आशिषम् एव तद् वदते । अथ यद् आहवनीयम् उपतिष्ठते । प्रीत्वा एव तद् देवेष्व् अन्ततो अर्थम् वदते । अथ यद् अप उपस्पृशति । शान्तिर् वै भेषजम् आपः । शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते अन्ततो यज्ञे क्रियते ।
३.१ पौर्णमासकालः
यद् दर्श पूर्ण मासयोर् उपवसति ।
न ह वा अव्रतस्य देवा हविर् अश्नन्ति ।
तस्माद् उपवसति ।
उत मे देवा हविर् अश्नीयुर् इति ।
पूर्वाम् पौर्णमासीम् उपवसेद् इति पैङ्ग्यम् ।
उत्तराम् इति कौषीतकम् ।
याम् पर्यस्तमयम् उत्सर्पेद् इति सा स्थितिः ।
पूर्वाम् पौर्णमासीम् उपवसेद् अनिर्ज्ञाय पुरस्ताद् अमावास्यायाम् चन्द्रमसम् ।
यद् उपवसति तेन पूर्वाम् प्रीणाति ।
यद् यजते तेन उत्तराम् ।
उत्तराम् उपवसेत् ।
उत्तराम् उ ह वै समुद्रो विजते सोमम् अनु दैवतम् ।
एतद् वै देव सत्यम् यच् चन्द्रमाः ।
तस्माद् उत्तराम् उपवसेत् ।
३.२ सामिधेन्यः आर्षेयकथनं च
अथ यत् पुरस्तात् सामिधेनीनाम् जपति ।
स्वस्त्ययनम् एव तत् कुरुते ।
हिंकृत्य सामिधेनीर् अन्वाह ।
वज्रो वै हिंकारः ।
वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति ।
त्रिर् हिम् करोति ।
त्रिवृद् वै वज्रः ।
वज्रम् एव तद् अभिसम्पादयति ।
एतेन वै देवास् त्रिवृता वज्रेण एभ्यो लोकेभ्यो असुरान् अनुदन्त ।
तथो एव एतद् यजमान एतेन एव त्रिवृता वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदति ।
एकादश सामिधेनीर् अन्वाह ।
एकादश अक्षरा वै त्रिष्टुप् ।
त्रैष्टुभ इन्द्रः ।
तद् उभा इन्द्राग्नी आप्नोति ।
त्रिः प्रथमया त्रिर् उत्तमया पञ्चदश सम्पद्यते ।
पञ्चदश वै पूर्व पक्ष अपर पक्षयोर् अहानि ।
तत् सामिधेनीभिः पूर्व पक्ष अपर पक्षाव् आप्नोति ।
अथो वज्रो वै सामिधेन्यः ।
पञ्चदशो वै वज्रः ।
वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति ।
यद् व् एव त्रिः प्रथमाम् त्रिरु उत्तमाम् ।
यज्ञस्य एव तद् बर्सौ नह्यति स्थेम्ने अविस्रंसाय ।
तासाम् वै त्रीणि षष्टि शतान्य् अक्षराणाम् भवन्ति ।
त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् ।
तत् सामिधेनीभिः संवत्सरस्य अहान्य् आप्नोति ।
ता वै गायत्र्यो भवन्ति ।
गायत्रो वा अग्निर् गायत्रच् छन्दाः ।
स्वेन एव तत् छन्दसा अग्निम् स्तौति ।
अभिरूपा भवन्ति ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
उत्तमायै तृतीये वचने प्रणवेन निगदम् उपसंदधाति ।
अग्ने महान् असि ब्राह्मण भारत इति ।
अग्निर् वै भरतः ।
स वै देवेभ्यो हव्यम् भरति ।
अथ यद् यजमानस्य आर्षेयम् आह ।
न ह वा अनार्षेयस्य देवा हविर् अश्नन्ति ।
तस्माद् अस्य आर्षेयम् आह ।
अथ एतम् पञ्चदश पदम् निगदम् उपसंदधाति ।
एषा ह वै सामिधेनीनाम् निवित् ।
तस्मात् पञ्चदश पदो भवति ।
पञ्चदश हि सामिधेन्यः ।
स वा अच्छन्दस् कृतो भवति ।
द्वयम् वा इदम् सर्वम् छन्दस् कृतम् च अच्छन्दस् कृतम् च ।
तेन सर्वेण अग्निम् स्तवानि इति ।
तस्य सप्त पदानि समस्य अवस्येत् ।
सप्त वै छन्दांसि ।
सर्वेषाम् एव छन्दसाम् आप्त्यै ।
अथ चत्वार्य् अथ चत्वारि ।
चतुष्टयम् वा इदम् सर्वम् ।
अस्य एव सर्वस्य आप्त्यै ।
३.३ देवतावाहनम्
अथ यद् व्यवग्राहम् देवता आवाहयति ।
नाना ह्य् आभ्यो हवींषि गृहीतानि भवन्ति ।
तस्माद् व्यवग्राहम् देवता आवाहयति ।
अथ यद् अग्निम् अग्निना आवाहयति ।
एषा वा अग्नेर् यज्ञिया तनूर् या अस्य हव्य वाट् ।
सा वा असौ यद् अदो अमुष्याद् इत्य् अस्य उपरिष्टाद् दिवि इव भाति ज्योतिर् इव ।
तद् यद् आह अग्निम् अग्न आवह इति ।
ताम् आवह इत्य् एव तद् आह ।
अथ यद् देवान् आज्यपान् आवाहयति ।
प्रयाज अनुयाजांस् तद् आवाहयति ।
अथ यद् अग्निम् होत्राय आवाहयति ।
स्विष्टकृतम् तद् आवाहयति ।
अथ यत् स्वम् महिमानम् आवाहयति ।
वायुम् तद् आवाहयति ।
वायुर् वा अग्नेः स्वो महिमा ।
तेन हि सम्पद्य महिमानम् गच्छति ।
यद् व् एव वाचा अन्वाह वाचा यजति ।
तेन उ ह एव अस्य स्वो महिमा इष्टो भवति ।
आ च वह जातवेदः सुयुजा च यज इत्य् आह ।
आवह च जातवेदो देवान्त् सयुजा च देवता यज इत्य् एव एनम् तद् आह ।
अथ यत् परस्तात् सामिधेनीनाम् जपति ।
वज्रो वै सामिधेन्यः ।
तम् एव एतत् शमयति पुरस्ताच् च उपरिष्टाच् च ।
अथ यत् स्रुग् आदापनेन स्रुचाव् आदापयति ।
देव रथम् एव तद् युनक्ति देवेभ्यो हविः प्रदास्यन् ।
स एतेन देव रथेन स्वस्ति स्वर्गं लोकम् समश्नुते ।
३.४ प्रयाजाः
प्रयाजान् यजति ।
ऋतवो वै प्रयाजाः ।
ऋतून् एव तत् प्रीणाति ।
ते वै पञ्च भवन्ति ।
तैर् यत् किंच पञ्च विधम् अधिदैवतम् अध्यात्मम् तत् सर्वम् आप्नोति ।
समिधो यजति वसन्तम् एव ।
वसन्ते वा इडम् सर्वम् समिद्यते ।
तनूनपातम् यजति गीष्मम् एव ।
ग्रीष्मे हि तन्वम् तपति ।
इडो यजति वर्षा एव ।
वर्षाभिर् हि ईडितम् अन्नाद्यम् उत्तिष्ठति ।
बर्हिर् यजति शरदम् एव ।
शरदि हि बर्हिष्ठा ओषधयो भवन्ति ।
स्वाहा कृतिम् अन्तम् यजति हेमन्तम् एव ।
हेमन्ते वा इदम् सर्वम् स्वाहा कृतम् ।
तद् आहुर् यत् पञ्च प्रयाजाः षड् ऋतवः क्वैतम् षष्ठम् ऋतुम् यजति इति ।
यद् एव चतुर्थे प्रयाजे समानयति तद् एनम् इतरेष्व् अनुविभजति ।
अथ यद् उत्तमे प्रयाजे देवताः समावपति ।
प्रयाज भाज एव एनास् तत् करोति ।
तद् यथा अग्निः सर्वेषु हविह्षु भागी भवति ।
एवम् तद् अग्नेर् भागे देवता भागिनीः करोति ।
न अत्र अग्निम् होत्राद् इत्य् आह ।
पशवो वै प्रयाजाः ।
रुद्रः स्विष्टकृत् ।
न इद् रुद्रेण यजमानस्य पशून् प्रसजानि इति ।
स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्त्व् इति ह एक आहुः ।
न तथा कुर्यात् ।
अर्धम् ह वै यज्ञस्य आज्यम् अर्धम् हविः ।
स यद्द् ह अन्यतरद् ब्रूयात् ।
अर्धम् ह वै यज्ञस्य समिष्टम् स्याद् अर्धम् असमिष्टम् ।
तस्मात् स्वाहा देवा आज्यपा जुषाणा अग्न आज्यस्य हविषो व्यन्त्व् इत्य् एव ब्रूयात् ।
३.५ आज्यभागौ
अथ यत् पौर्णमास्याम् वार्त्रघ्नाव् आज्य भागौ भवतः ।
पौर्णमासेन वा इन्द्रो वृत्रम् अहन् ।
अथ यद् अमावास्यायाम् वृधन्वन्तौ ।
क्षयम् वा अत्र चन्द्रो गच्छति ।
तम् एव एतद् आप्याययति तम् वर्धयति ।
तौ वै जुषाण याज्यौ भवतः ।
समान हविषौ हि प्रयाजैर् भवतः ।
अथो ब्रह्म वै जुषाणः ।
ब्राह्मणा एव तद् देवेभ्यो हविः प्रयच्छति ।
तौ वै त्रिवृतौ भवतः ।
ये यजामहो निगदो वषट्कारः ।
चक्षुर् वा आज्य भागौ ।
त्रिवृद् वै चक्षुः शुक्लम् कृष्णम् लोहितम् इति ।
तौ न पशौ न सोमे करोति ।
पशुना वै चक्षुष्मान् अध्वरः ।
न इच् चतुर् अक्षम् बीभत्सम् अध्वरम् करवाणि इति ।
अथ यदावत्योण्(?) हूतवत्यः पुरोनुवाक्या भवन्ति ।
प्रवत्यः प्रत्तवत्यो याज्याः ।
हूत्वा एव तद् देवेभ्यो हविः प्रयच्छति ।
ता वै गायत्री त्रिष्टुभौ भवन्ति ।
ब्रह्म वै गायत्री ।
क्षत्रम् त्रिष्टुप् ।
ब्रह्म क्षत्राभ्याम् एव तद् देवेभ्यो हविः प्रयच्छति ।
ऋग् अन्ते वषट् करोति ।
तथा ह अस्य सर्वा याज्या रूपवत्यो भवन्ति ।
षड् इति वषट् करोति ।
षड् वा ऋतवः ।
ऋतून् एव तत् प्रीणाति ।
बार्हत राथन्तरम् वषट् कुर्यात् पुरस्ताद् दीर्घम् उपरिष्टाद्द् ह्रस्वम् ।
यद्द् ह्रस्वम् तद् रथन्तरम् ।
यद् दीर्घम् तद् बृहति ।
अथो इयम् वै रथन्तरम् असौ बृहत् ।
अनयोर् एव तत् प्रतितिष्ठति ।
अथो एतावान् वै वाचो विकारः ।
सर्वेण एव तद् वाचो विकारेण देवेभ्यो हविः प्रयच्छति ।
भूर् भुव इति पुरस्ताद् ये यजामहस्य जपति ।
वषट् कृत्या अनुजपत्य् ओजः सहः सह ओजः स्वर् इति ।
वज्रो वै वषट् कारः ।
तम् एव एतत् शमयति पुरस्ताच् च उपरिष्टाच् च ।
अथो एते एव वषट् कारस्य प्रीयतमे तनू यद् ओजश् च सहश् च ।
ताभ्याम् एव एनम् शमयति ।
३.६ यज्ञानां मुख्याहुतयः
अथ यद् अग्निम् प्रथमम् देवतानाम् यजति ।
अग्निर् वै देवानाम् मुखम् ।
मुखत एव तद् देवान् प्रीणाति ।
अथ यत् पौर्णमास्याम् अग्नीषोमौ यजति ।
अग्नीषोमौ वा अन्तर् वृत्र आस्ताम् ।
ताव् इन्द्रो न अशक्नोद् अभि वज्रम् प्रहर्तुम् ।
यद् उपांशु यजति तेन सोमम् प्रीणाति ।
यन् निरुक्तम् तेन अग्निम् ।
अथ यद् अमावास्यायाम् इन्द्राग्नी यजति ।
प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव ।
अथ यत् सन्नयन्न् इन्द्रम् यजति महा इन्द्रम् वा ।
एतज् ज्योतिर् वा अमावास्या ।
न ह्य् अत्र चन्द्रो दृश्यते ।
अथ यद् असन्नयन् पुरोडाशाव् अन्तरेण उपांश्व् आज्यस्य यजत्य् अजामितायै ।
अथ यत् सन्नयन्त् सान्नाय्यस्य अन्तरेण उपांश्व् आज्यस्य यजति तस्य उक्तम् ब्राह्मणम् ।
अथ यद् अग्निम् स्विष्टकृतम् अन्ततो यजति ।
एष ह वै देवेभ्यो हविः प्रयच्छति ।
यो वा अन्नम् विभजत्य् अन्ततः स भजते ।
अथो रुद्रो वै स्विष्टकृत् ।
अन्त भाग् वा वा एषः ।
तस्माद् एनम् अन्ततो यजति ।
तस्य तच् छन्दसौ याज्या पुरोनुवाक्ये निगदो व्यवैति ।
तेन अजामि भवति ।
वषट् कृत्या अप उपस्पृशति ।
शान्तिर् वै भेषजम् आपः ।
शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।
३.७ इळोपाह्वानम्
अथ यत् प्रदेशिन्याम् इडायाः पूर्वम् अञ्जनम् अधर ओष्ठे निलिम्पते ।
उत्तरम् उत्तर ओष्ठे ।
अयम् वै लोको अधर ओष्ठः ।
असौ लोकः उत्तर ओष्ठः ।
अथ यद् ओष्ठाव् अन्तरेण तद् इदम् अन्तरिक्षम् ।
तद् यद् प्राश्नाति ।
इमान् एव तल् लोकान् अनुसंतन्वन् प्रीणाति ।
अथ यद् इडाम् उपह्वयते ।
सर्वेष्व् एव तद् भूतेषु उपहवम् इच्छते ।
अथो अन्नम् वा इडा ।
अन्नम् एव तद् आत्मन् धत्ते ।
अथो पशवो वा इडा ।
पशूनाम् एव आप्त्यै ।
तस्याम् चतुरवान् इति ।
तथा पञ्चपदी भवति ।
पञ्चपदा पङ्क्तिः ।
पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
अथ यज् जपेन उत्त्तर इडाम् प्राश्नाति ।
ब्रह्म वै जपः ।
ब्रह्मणा एव एनाम् तत् शमयति ।
अथ यद् अध्वर्युर् बर्हिषदम् पुरोडाशम् करोति ।
पितॄन् एव तत् प्रीणाति ।
अथ यत् पवित्रवति मार्जयन्ते ।
शान्तिर् वै भेषजम् आपः ।
शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।
अथ यद् अन्वाहार्यम् आहरन्ति ।
एतद् दक्षिणौ वै दर्श पूर्ण मासौ ।
तस्माद् एनम् आहरन्ति ।
अथ यत् समिधम् अनुमन्त्रयते ।
इध्मस्य वा एषा एक अतिशिष्टा भवति ।
तस्माद् एनाम् अनुस्तौति ।
३.८ अनुयाजाः सूक्तवाकः शंयोर्वाकश्च
अथ यत् त्रीन् अनुयाजान् यजैत् ।
त्रयो वा इमे लोकाः ।
इमान् एव तल् लोकान् आप्नोति ।
अथ यत् सर्वम् उत्तमम् आह ।
प्रतिष्ठा वै स्विष्टकृत् प्रतिष्ठित्या एव ।
अथ यत् सूक्त वाकम् आह ।
प्रतिष्ठा वै सूक्त वाकः प्रतिष्ठित्या एव ।
अथ यद् द्यावा पृथिव्योः कीर्तयति ।
प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव ।
अग्निर् इदम् हविर् अजुषत इति ह एक आहुः ।
न तथा कुर्यात् ।
अभ्यावर्तते ह अस्य देवता पुनर् यज्ञ इति मन्वाना ।
पुनर् मे हविः प्रदास्यति इति ।
सा यजमानस्य आशिषो निवर्तयति य इदम् हविर् इत्य् आह ।
तस्माद्द् हविर् अजुषत हविर् अजुषत इत्य् एव ब्रूयात् ।
अथो या एव एतद् देवताः पुरस्ताद् यजति ।
ताभिर् एव एतद् अन्ततः प्रतितिष्ठति ।
अथ यत् सूक्त वाके यजमानस्य नाम गृह्णाति ।
एष ह वै दैव आत्मा यजमानस्य यम् ऋत्विजः संस्कुर्वन्ति ।
तस्माद् अस्य नाम गृह्णाति ।
अत्र हि जायते ।
उच्चैर् गृह्णीयाद् यद्य् अप्य् आचार्यः स्यात् ।
तथा ह यजमानो अप्राच्यावुको भवति ।
अथ पञ्च आशिषो वदत इडायाम् तिस्रस् ता अष्टौ ।
एताभिर् वै देवाः सर्वा अष्टीर् अश्नुवत ।
तथो एव एतद् यजमान एताभिर् एव सर्वा अष्टीर् अश्नुते ।
अथ बर्हिषि प्राञ्चम् अञ्जलिम् निधाय जपति नम उप इति ।
न हि नमस् कारम् अति देवाः ।
अथ यत् शम्योर् वाकम् आह ।
प्रतिष्ठा वै शम्योर् वाकः प्रतिष्ठित्या एव ।
अथो शम्युर् ह वै बार्हस्पत्यः सर्वान् यज्ञान् शमयाम् चकार ।
तस्मात् शम्योर् वाकम् आह ।
अथ यद् अप उपस्पृशति ।
शान्तिर् वै भेषजम् आपः ।
शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।
३.९ पत्नीसंयाजाः
अथ यद् गार्हपत्ये पत्नी सम्याजैश् चरन्ति ।
गार्हपत्य भाजो वै पत्न्यः ।
आहवनीय भाग् यजमानः ।
तस्माद् गार्हपत्ये पत्नी सम्याजैश् चरन्ति ।
ते वै चत्वारो भवन्ति ।
आ चतुरम् वै द्वन्द्वम् मिथुनम् प्रजननम् प्रजात्यै ।
ते वा उपांशु भवन्ति ।
रेतः सिक्तिर् वै पत्नी सम्याजाः ।
उपांशु वै रेतः सिच्यते ।
अभिरूपा भवन्ति ।
यद् यजे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
अथ सोमम् त्वष्टारम् देवानाम् पत्नीर् अग्निम् गृहपतिम् इति ।
एता ह वै देवता मिथुनानाम् ईशते ।
ता अत्र प्रीणन्ति ।
ता अस्मै प्रीता मिथुनानि दधति ।
सोमम् प्रथमम् यजति ।
रेतस् तत् सिञ्चति ।
त्वष्टारम् द्वितीयम् ।
त्वष्टा वै रेतः षिक्तम् विकरोति ।
ततः पत्न्यः ।
पत्नी सम्याजा ह्य् एते ।
अथ यद् अग्निम् गृहपतिम् अन्ततो यजति ।
एतत् स्विष्टकृतो वै पत्न्यः ।
तस्माद् एनम् अन्ततो यजति ।
अथ य अप उपस्पृशति तस्य उक्तम् ब्राह्मणम् ।
अथ यद् ऋचम् जपति स्वस्त्ययनम् एव तत् कुरुते ।
अथ यद् इलाम् उपह्वयते यन् मार्जयते यत् शम्योर् वाकम् आह तस्य उक्तम् ब्राह्मणम् ।
अथ यद् वेदे पत्नीम् वाचयति ।
वृषा वै वेदः ।
योषा पत्नी ।
मिथुनम् एव तत् पत्नीषु दधाति ।
तस्मात् पत्नी वेद तृणान्य् अन्तर ऊरू कुरुते ।
अथ यद् वेदम् स्तृणाति ।
तेन ह अस्य दर्श पूर्ण मासौ संततौ भवतः ।
अथो एतेन एव अस्य अग्निहोत्रम् स्तीर्ण बर्हिर् भवति ।
अथ यद् वेद अतिशेषम् उपतिष्ठते ।
आशिषम् एव तद् वदते ।
अथ यद् आहवनीयम् उपतिष्ठते ।
प्रीत्वा एव तद् देवेष्व् अन्ततो अर्थम् वदते ।
अथ यद् अप उपस्पृशति ।
शान्तिर् वै भेषजम् आपः ।
शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते अन्ततो यज्ञे क्रियते ।
विकृति इष्टयः
४.१ अनुनिर्वाप्येष्टिः
अनुनिर्वाप्यया वै देवा असुरान् अपाघ्रत । तथो एव एतद् यजमानो अनुनिर्वाप्यया एव द्विषतो भ्रातृव्यान् अपहते । स वा इन्द्राय विमृध एकादश कपालम् पुलोडाशम् निर्वपति । इन्द्रो वै मृधाम् विहन्ता । स एव अस्य मृधो विहन्ति । अथो आमावास्यम् एव एतत् प्रत्याहरति यत् पौर्णमास्याम् इन्द्रम् यजति । अत्र संस्थित दर्श पूर्ण मासौ यजमानो यद्य् अपर पक्षे भङ्गम् नीयात् । न अस्य यज्ञ विकर्षः स्यात् । अथ यद् अमावास्यायाम् अदितिम् यजति । यज्ञस्य एव सभारतायै । सा सम्याज्यातो विमृद्वती भवति ।
४.२ अभ्युदितेष्टिः
अथातो अभ्युदितायाः । एहि ह वा एष यज पथात् । यस्य उपवसथे पुरस्ताच् चन्द्रो दृश्यते । सो अग्नये दात्रे अष्टा कपालम् पुरोडाशम् निर्वपति । अग्निर् वै दाता । स एव अस्मै यज्ञम् ददाति । इन्द्राय प्रदात्रे सायम् दोहितम् दधि । इन्द्रो वै प्रदाता । स एव अस्मै यज्ञम् प्रयच्छति । विष्णवे शिपि विष्टाय प्रातर् दोहिते पयसि चरुम् । यज्ञो वै विष्णुः । स एव अस्मै यज्ञम् ददाति । तद् यद् एता देवता याति । न इद् यज्ञ पथाद् अयानि इति । तिसृधन्वम् दक्षिणा । तत् स्वस्त्ययनस्य रूपम् ।
४.३ अभ्युद्दृष्टेष्टिः
अथातो अभ्युद्रष्टायाः । एहि ह वा एष यज्ञ पथात् । यस्य उपसवथे पश्चाच् चन्द्रो दृश्यते । सो अग्नये पथि कृते अष्टा कपालम् पुरोडाशम् निर्वपति । अग्निर् वै पक्षिकृत् । स एव एनम् यज्ञ पथम् अपिपातयति । इन्द्राय वृत्रघ्न एकादश कपालम् । इन्द्रो वै वृत्रहा । स एव एनम् पुनर् यज्ञ पथम् अपिपातयति । वैश्वानरीयम् द्वादश कपालम् । असौ वै वैश्वानरो यो असौ तपति । एष एव एनम् पुनर् यज्ञ पथम् अपिपातयति । तद् यद् एता देवता यजति । न इद् यज्ञ पथाद् अयानि इति । दण्ड उपानहम् दक्षिणा । तद् अभयस्य रूपम् ।
४.४ दाक्षायणयज्ञः
अथातो दाक्षायण यज्ञस्य । दाक्षायण यज्ञेन इष्यन् फाल्गुन्याम् पौर्णमास्याम् प्रयुङ्क्ते । मुखम् वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी । तस्मात् तस्याम् अदीक्षित अयनानि प्रयुज्यन्ते । अथो दक्षो ह वै पार्वतिर् एतेन यज्ञेन इष्ट्वा सर्वान् कामान् आप । तद् यद् दाक्षायण यज्ञेन यजते । सर्वेषाम् एव कामानाम् आप्त्यै । नाशने कामम् आपयीत । सोमम् राजानम् चन्द्रमसम् भक्षयानि इति मनसा ध्यायन्न् अश्नीयात् । तद् असौ वै सोमो राजा विचक्षणश् चन्द्रमाः । तम् एतम् अपर पर्क्षम् देवा अभिषुण्वन्ति । तद् यद् अपर पक्षम् दाक्षायण यज्ञस्य व्रतानि चरन्ति । देवानाम् अपि सोम पीथो असानि इति । अथ यद् उपवसथे अग्नीषोमीयम् एकादश कपालम् पुरोडाशम् निर्वपति । य एव असौ सोमस्य उपवसथे अग्नीषोमीयः । तम् एव अस्य तेन आप्नोति । अथ यत् प्रातर् आमावास्येन यजते । ऐन्द्रम् वै सुत्यम् अहः । तत् सुत्यम् अहर् आप्नोति । अथ यद् अमावास्याया उपवसथ ऐन्द्राग्नम् द्वादश कपालम् पुरोडाशम् निर्वपति । ऐन्द्राग्नम् वै सामतस् तृतीय सवनम् । तत् तृतीय सवनम् आप्नोति । अथ यन् मैत्रावरुणी पयस्या । मैत्रावरुणी वा अनूबन्ध्या । तद् अनूबन्ध्याम् आप्नोति । स एष सोमो हविर् यज्ञान् अनुप्रविष्टः । तस्माद् अदीक्षितो दीष्कित व्रतो भवति ।
४.५ इळादधेष्टिः
अथातः इडादधस्य । इडादधेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष पशु कामस्य अन्न अद्य कामस्य यज्ञः । तेन पशु कामो अन्न अद्य कामो यजेत । तत्र तथा एव व्रतानि चरति । दाक्षायण यज्ञस्य हि समासः ।
४.६ शौनकयज्ञः
अथ अतः सार्वसेनि यज्ञस्य । सार्वसेनि यज्ञेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष तु स्तूर्षमाणस्य यज्ञः । स य इच्छेद् द्विषन्तम् भ्रातृव्यम् स्तृण्वीय इति । स एतेन यजने स्तृणुते ह ।
४.७ सार्वसेनियज्ञः
अथातः शौनक यज्ञस्य । शौनक यज्ञेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष प्रजाति कामस्य यज्ञः । तेन प्रजाति कामो यजेत । तद् यद् अध्वर्युर् हवींषि प्रजनयति तत् प्रजात्यै रूपम् ।
४.८ वसिष्ठयज्ञः
अथातो वसिष्ठ यज्ञस्य । वसिष्ठ यज्ञेन इष्यन् फाल्गुन्याम् अमावास्यायाम् प्रयुङ्क्ते । ब्रह्म वै पौर्णमासी । क्षत्रम् अमावास्या । क्षत्रम् इव एष यज्ञः । क्षत्रेण शत्रून्त् सहा इति । वसिष्ठो अकामयत हत पुत्रः प्रजायेन प्रजया पशुभिर् अभि सौदासान् भवेयम् इति । स एतम् यज्ञ क्रतुम् अपश्यद् वसिष्ठ यज्ञम् । तेन इष्ट्वा प्राजायत प्रजया पशुभिर् अभि सौदासान् अभवत् । तथो एव एतद् यजमानो यद् वसिष्ठ यज्ञेन यजने । प्रजायते प्रजया पशुभिर् अभि द्विषतो भ्रातृव्यान् भवति ।
४.९ साकंप्रस्थाय्ययज्ञः
अथातः साकम् प्रस्थाय्यस्य । साकम् प्रस्थाय्येन इष्यन्न् एतस्याम् एव अमावास्यायाम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष श्रैष्ठ्य कामस्य पौरुष कामस्य यज्ञः । तेन श्रैष्ठ्य कामः पौरुष कामो यजते । तद् यत् साकम् सम्प्रतिष्ठन्ते । साकम् सम्प्रयजन्ते । साकम् सम्भक्षयन्ते । तस्मात् साकम् प्रस्थाय्यः ।
४.१० मुन्ययनेष्टिः
अथातो मुन्ययनस्य । मुन्ययनेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष सर्व कामस्य यज्ञः । तेन सर्व कामो यजेत ।
४.११ तुरायणयज्ञः अथातस् तुरायणस्य । तुरायणेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् । स एष स्वर्ग कामस्य यज्ञः । ब्रह्मणा एव तद् आत्मानम् समर्धयति । तानि वै त्रीणि हवींषि भवन्ति । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति ।
४.१२ श्यामाकेष्टिः अथात आग्रयणस्य । आग्रयणेन अन्न अद्य कामो यजेत वर्षास् आगते श्यामाक सस्ये । श्यामाकान् उद्धर्तव आह । सा या तस्मिन् काले अमावास्या उपसम्पद्येत । तया इष्ट्वा अथ एतया इष्ट्या यजेत । यदि पौरुणमासी । एतया इष्ट्वा अथ पौर्णमासेन यजेत । यद्य् उ नक्षत्रम् उपेप्सेत् । पूर्व पक्षे नक्षत्रम् उदीक्ष्य यस्मिन् कल्याणे नक्षत्रे कामयेत तस्मिन् यजेत । तस्यै सप्तदश सामिधेन्यः सद्वान्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् । सौम्यश् चरुः । सोमो वै राजा ओषधीनाम् । तद् एनम् स्वया दिशा प्रीणाति । अथ यन् मधु पर्कम् ददाति । एष ह्य् आरण्यानाम् रसः ।
४.१३ वेणुयवेष्टिः
अथ वसन्त आगते पक्वेषु वेणु यवेषु । वेणु यवान् उद्धर्तव आह । तस्या एतद् एव पर्व एतत् तन्त्रम् एषा देवता एषा दक्षिणा एतद् ब्राह्मणम्। ताम् ह एक आग्नेयीम् वा वारुणीम् वा प्राजापत्याम् वा कुर्वन्त्य् एतत् तन्त्राम् एव एतद् ब्राह्मणाम् ।
४.१४ आग्रयणेष्टिः
अथ व्रीहि सस्ये वा यवसस्ये वा आगते । आग्रयणीयान् उद्धर्तव आह । तस्या एतद् एव पर्व एतत् तन्त्रम् । अथ यद् ऐन्द्राग्नो द्वादश कपालः । इन्द्राग्नी वै देवानाम् मुखम् । मुखत एव तद् देवान् प्रीणाति । अथ यद् वैश्वदेवश् चरुः । एते वै सर्वे देवा यद् विश्वे देवाः । सर्वेषाम् एव देवानाम् प्रीत्यै । अथ यद् द्यावा पृथिवीय एक कपालः । द्यावा पृथिवी वै सस्यस्य साधयित्र्यै । प्रतिष्ठा पृथिवी ओद्म्ना असाव् अनुवेद (?) । तद् यद् एता देवता यजति । एताभिर् देवताभिः शान्तम् अन्नम् अत्स्यामि इति । अथ य प्रथजम् गाम् ददाति । पथम कर्म ह्य् एतत् । यद्य् एतस्यै ग्लायात् । पौर्णमासम् वा अमावास्यम् वा हविष् कुर्वीत नवानाम् उभयस्य आप्त्यै । अपि वा पौर्णमासे वा अमावास्ये वा हवींष्य् अनुवर्तयेद् देवतानाम् अपरिहाणाय । अपि वा यवाग् वा एव सायम् प्रातर् अग्निहोत्रम् जुहुयान् नवानाम् उभयस्य आप्त्यै । अपि वा स्थाली पाकम् एव गार्हपत्ये श्रपयित्वा नवानाम् एताभ्य आग्रयण देवताभ्य आहवनीये जुहुयात् स्विष्टकृच् चतुर्थीभ्यो अमुष्यै स्वाहा अमुष्यै स्वाहा इति देवतानाम् अपरिहाणाय । अपि वा अग्निहोत्रीम् एव नवान् आदयित्वा तस्यै दुग्धेन सायम् प्रातर् अग्निहोत्रम् जुहुयाद् उभयस्य आप्त्यै । एत एतावन्तः पाताः । तेषाम् येन कामयेत तेन यजेत । त्रिहविस् तु स्थिता । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नोति इमान् एव तल् लोकान् आप्नोति ।
४.१ अनुनिर्वाप्येष्टिः
अनुनिर्वाप्यया वै देवा असुरान् अपाघ्रत ।
तथो एव एतद् यजमानो अनुनिर्वाप्यया एव द्विषतो भ्रातृव्यान् अपहते ।
स वा इन्द्राय विमृध एकादश कपालम् पुलोडाशम् निर्वपति ।
इन्द्रो वै मृधाम् विहन्ता ।
स एव अस्य मृधो विहन्ति ।
अथो आमावास्यम् एव एतत् प्रत्याहरति यत् पौर्णमास्याम् इन्द्रम् यजति ।
अत्र संस्थित दर्श पूर्ण मासौ यजमानो यद्य् अपर पक्षे भङ्गम् नीयात् ।
न अस्य यज्ञ विकर्षः स्यात् ।
अथ यद् अमावास्यायाम् अदितिम् यजति ।
यज्ञस्य एव सभारतायै ।
सा सम्याज्यातो विमृद्वती भवति ।
४.२ अभ्युदितेष्टिः
अथातो अभ्युदितायाः ।
एहि ह वा एष यज पथात् ।
यस्य उपवसथे पुरस्ताच् चन्द्रो दृश्यते ।
सो अग्नये दात्रे अष्टा कपालम् पुरोडाशम् निर्वपति ।
अग्निर् वै दाता ।
स एव अस्मै यज्ञम् ददाति ।
इन्द्राय प्रदात्रे सायम् दोहितम् दधि ।
इन्द्रो वै प्रदाता ।
स एव अस्मै यज्ञम् प्रयच्छति ।
विष्णवे शिपि विष्टाय प्रातर् दोहिते पयसि चरुम् ।
यज्ञो वै विष्णुः ।
स एव अस्मै यज्ञम् ददाति ।
तद् यद् एता देवता याति ।
न इद् यज्ञ पथाद् अयानि इति ।
तिसृधन्वम् दक्षिणा ।
तत् स्वस्त्ययनस्य रूपम् ।
४.३ अभ्युद्दृष्टेष्टिः
अथातो अभ्युद्रष्टायाः ।
एहि ह वा एष यज्ञ पथात् ।
यस्य उपसवथे पश्चाच् चन्द्रो दृश्यते ।
सो अग्नये पथि कृते अष्टा कपालम् पुरोडाशम् निर्वपति ।
अग्निर् वै पक्षिकृत् ।
स एव एनम् यज्ञ पथम् अपिपातयति ।
इन्द्राय वृत्रघ्न एकादश कपालम् ।
इन्द्रो वै वृत्रहा ।
स एव एनम् पुनर् यज्ञ पथम् अपिपातयति ।
वैश्वानरीयम् द्वादश कपालम् ।
असौ वै वैश्वानरो यो असौ तपति ।
एष एव एनम् पुनर् यज्ञ पथम् अपिपातयति ।
तद् यद् एता देवता यजति ।
न इद् यज्ञ पथाद् अयानि इति ।
दण्ड उपानहम् दक्षिणा ।
तद् अभयस्य रूपम् ।
४.४ दाक्षायणयज्ञः
अथातो दाक्षायण यज्ञस्य ।
दाक्षायण यज्ञेन इष्यन् फाल्गुन्याम् पौर्णमास्याम् प्रयुङ्क्ते ।
मुखम् वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी ।
तस्मात् तस्याम् अदीक्षित अयनानि प्रयुज्यन्ते ।
अथो दक्षो ह वै पार्वतिर् एतेन यज्ञेन इष्ट्वा सर्वान् कामान् आप ।
तद् यद् दाक्षायण यज्ञेन यजते ।
सर्वेषाम् एव कामानाम् आप्त्यै ।
नाशने कामम् आपयीत ।
सोमम् राजानम् चन्द्रमसम् भक्षयानि इति मनसा ध्यायन्न् अश्नीयात् ।
तद् असौ वै सोमो राजा विचक्षणश् चन्द्रमाः ।
तम् एतम् अपर पर्क्षम् देवा अभिषुण्वन्ति ।
तद् यद् अपर पक्षम् दाक्षायण यज्ञस्य व्रतानि चरन्ति ।
देवानाम् अपि सोम पीथो असानि इति ।
अथ यद् उपवसथे अग्नीषोमीयम् एकादश कपालम् पुरोडाशम् निर्वपति ।
य एव असौ सोमस्य उपवसथे अग्नीषोमीयः ।
तम् एव अस्य तेन आप्नोति ।
अथ यत् प्रातर् आमावास्येन यजते ।
ऐन्द्रम् वै सुत्यम् अहः ।
तत् सुत्यम् अहर् आप्नोति ।
अथ यद् अमावास्याया उपवसथ ऐन्द्राग्नम् द्वादश कपालम् पुरोडाशम् निर्वपति ।
ऐन्द्राग्नम् वै सामतस् तृतीय सवनम् ।
तत् तृतीय सवनम् आप्नोति ।
अथ यन् मैत्रावरुणी पयस्या ।
मैत्रावरुणी वा अनूबन्ध्या ।
तद् अनूबन्ध्याम् आप्नोति ।
स एष सोमो हविर् यज्ञान् अनुप्रविष्टः ।
तस्माद् अदीक्षितो दीष्कित व्रतो भवति ।
४.५ इळादधेष्टिः
अथातः इडादधस्य ।
इडादधेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष पशु कामस्य अन्न अद्य कामस्य यज्ञः ।
तेन पशु कामो अन्न अद्य कामो यजेत ।
तत्र तथा एव व्रतानि चरति ।
दाक्षायण यज्ञस्य हि समासः ।
४.६ शौनकयज्ञः
अथ अतः सार्वसेनि यज्ञस्य ।
सार्वसेनि यज्ञेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष तु स्तूर्षमाणस्य यज्ञः ।
स य इच्छेद् द्विषन्तम् भ्रातृव्यम् स्तृण्वीय इति ।
स एतेन यजने स्तृणुते ह ।
४.७ सार्वसेनियज्ञः
अथातः शौनक यज्ञस्य ।
शौनक यज्ञेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष प्रजाति कामस्य यज्ञः ।
तेन प्रजाति कामो यजेत ।
तद् यद् अध्वर्युर् हवींषि प्रजनयति तत् प्रजात्यै रूपम् ।
४.८ वसिष्ठयज्ञः
अथातो वसिष्ठ यज्ञस्य ।
वसिष्ठ यज्ञेन इष्यन् फाल्गुन्याम् अमावास्यायाम् प्रयुङ्क्ते ।
ब्रह्म वै पौर्णमासी ।
क्षत्रम् अमावास्या ।
क्षत्रम् इव एष यज्ञः ।
क्षत्रेण शत्रून्त् सहा इति ।
वसिष्ठो अकामयत हत पुत्रः प्रजायेन प्रजया पशुभिर् अभि सौदासान् भवेयम् इति ।
स एतम् यज्ञ क्रतुम् अपश्यद् वसिष्ठ यज्ञम् ।
तेन इष्ट्वा प्राजायत प्रजया पशुभिर् अभि सौदासान् अभवत् ।
तथो एव एतद् यजमानो यद् वसिष्ठ यज्ञेन यजने ।
प्रजायते प्रजया पशुभिर् अभि द्विषतो भ्रातृव्यान् भवति ।
४.९ साकंप्रस्थाय्ययज्ञः
अथातः साकम् प्रस्थाय्यस्य ।
साकम् प्रस्थाय्येन इष्यन्न् एतस्याम् एव अमावास्यायाम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष श्रैष्ठ्य कामस्य पौरुष कामस्य यज्ञः ।
तेन श्रैष्ठ्य कामः पौरुष कामो यजते ।
तद् यत् साकम् सम्प्रतिष्ठन्ते ।
साकम् सम्प्रयजन्ते ।
साकम् सम्भक्षयन्ते ।
तस्मात् साकम् प्रस्थाय्यः ।
४.१० मुन्ययनेष्टिः
अथातो मुन्ययनस्य ।
मुन्ययनेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष सर्व कामस्य यज्ञः ।
तेन सर्व कामो यजेत ।
४.११ तुरायणयज्ञः
अथातस् तुरायणस्य ।
तुरायणेन इष्यन्न् एतस्याम् एव पौर्णमास्याम् प्रयुङ्क्ते तस्या उक्तम् ब्राह्मणम् ।
स एष स्वर्ग कामस्य यज्ञः ।
ब्रह्मणा एव तद् आत्मानम् समर्धयति ।
तानि वै त्रीणि हवींषि भवन्ति ।
त्रयो वा इमे लोकाः ।
इमान् एव तल् लोकान् आप्नोति ।
४.१२ श्यामाकेष्टिः
अथात आग्रयणस्य ।
आग्रयणेन अन्न अद्य कामो यजेत वर्षास् आगते श्यामाक सस्ये ।
श्यामाकान् उद्धर्तव आह ।
सा या तस्मिन् काले अमावास्या उपसम्पद्येत ।
तया इष्ट्वा अथ एतया इष्ट्या यजेत ।
यदि पौरुणमासी ।
एतया इष्ट्वा अथ पौर्णमासेन यजेत ।
यद्य् उ नक्षत्रम् उपेप्सेत् ।
पूर्व पक्षे नक्षत्रम् उदीक्ष्य यस्मिन् कल्याणे नक्षत्रे कामयेत तस्मिन् यजेत ।
तस्यै सप्तदश सामिधेन्यः सद्वान्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् ।
सौम्यश् चरुः ।
सोमो वै राजा ओषधीनाम् ।
तद् एनम् स्वया दिशा प्रीणाति ।
अथ यन् मधु पर्कम् ददाति ।
एष ह्य् आरण्यानाम् रसः ।
४.१३ वेणुयवेष्टिः
अथ वसन्त आगते पक्वेषु वेणु यवेषु ।
वेणु यवान् उद्धर्तव आह ।
तस्या एतद् एव पर्व एतत् तन्त्रम् एषा देवता एषा दक्षिणा एतद् ब्राह्मणम्।
ताम् ह एक आग्नेयीम् वा वारुणीम् वा प्राजापत्याम् वा कुर्वन्त्य् एतत् तन्त्राम् एव एतद् ब्राह्मणाम् ।
४.१४ आग्रयणेष्टिः
अथ व्रीहि सस्ये वा यवसस्ये वा आगते ।
आग्रयणीयान् उद्धर्तव आह ।
तस्या एतद् एव पर्व एतत् तन्त्रम् ।
अथ यद् ऐन्द्राग्नो द्वादश कपालः ।
इन्द्राग्नी वै देवानाम् मुखम् ।
मुखत एव तद् देवान् प्रीणाति ।
अथ यद् वैश्वदेवश् चरुः ।
एते वै सर्वे देवा यद् विश्वे देवाः ।
सर्वेषाम् एव देवानाम् प्रीत्यै ।
अथ यद् द्यावा पृथिवीय एक कपालः ।
द्यावा पृथिवी वै सस्यस्य साधयित्र्यै ।
प्रतिष्ठा पृथिवी ओद्म्ना असाव् अनुवेद (?) ।
तद् यद् एता देवता यजति ।
एताभिर् देवताभिः शान्तम् अन्नम् अत्स्यामि इति ।
अथ य प्रथजम् गाम् ददाति ।
पथम कर्म ह्य् एतत् ।
यद्य् एतस्यै ग्लायात् ।
पौर्णमासम् वा अमावास्यम् वा हविष् कुर्वीत नवानाम् उभयस्य आप्त्यै ।
अपि वा पौर्णमासे वा अमावास्ये वा हवींष्य् अनुवर्तयेद् देवतानाम् अपरिहाणाय ।
अपि वा यवाग् वा एव सायम् प्रातर् अग्निहोत्रम् जुहुयान् नवानाम् उभयस्य आप्त्यै ।
अपि वा स्थाली पाकम् एव गार्हपत्ये श्रपयित्वा नवानाम् एताभ्य आग्रयण देवताभ्य आहवनीये जुहुयात् स्विष्टकृच् चतुर्थीभ्यो अमुष्यै स्वाहा अमुष्यै स्वाहा इति देवतानाम् अपरिहाणाय ।
अपि वा अग्निहोत्रीम् एव नवान् आदयित्वा तस्यै दुग्धेन सायम् प्रातर् अग्निहोत्रम् जुहुयाद् उभयस्य आप्त्यै ।
एत एतावन्तः पाताः ।
तेषाम् येन कामयेत तेन यजेत ।
त्रिहविस् तु स्थिता ।
त्रयो वा इमे लोकाः ।
इमान् एव तल् लोकान् आप्नोति इमान् एव तल् लोकान् आप्नोति ।
चातुर्मास्य यज्ञानि
५.१ वैश्वदेवकालः
अथातश् चातुर्मास्यानाम् । चातुर्मास्यानि प्रयुञ्जानः फाल्गुन्याम् पौर्णमास्याम् प्रयुङ्क्ते । मुखम् वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी । मुखम् उत्तरे फल्गू । पुच्छम् पूर्वे । तद् यथा प्रवृत्तस्य अन्तौ समेतौ स्याताम् । एवम् एव एतौ संवत्सरस्य अन्तौ समेतौ । तद् यत् फाल्गुन्याम् पौर्णमास्याम् वैश्वदेवेन यजेत । मुखत एव तस् संवत्सरम् प्रीणाति । अथो भैषज्य यज्ञा वा एते यच् चातुर्मास्यानि । तस्माद् ऋतु संधिषु प्रयुज्यन्ते । ऋतु संधिषु हि व्याधिर् जायते । तानि वा अष्टौ हवींषि भवन्ति । अष्टौ वै चतसृणाम् पौर्णमासीनाम् हवींषि भवन्ति । चतसृणाम् वै पौर्णमासीनाम् वैश्वदेवम् समासः । अथ यद् अग्निर् मथ्यते । प्रजापतिर् वै वैश्वदेवम् । तस्माद् एतम् दैवम् गर्भम् प्रजनयन्ति । अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् । अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि वाजिनम् नवमम् । तन् नक्षत्रियाम् विराजम् आप्नोति ।
५.२ वैश्वदेवपर्व
अथ यद् अग्नीषोमौ प्रथमौ देवतानाम् यजति । दार्शपौर्णमासिके वा एते देवते । तस्माद् एनौ प्रथमौ यजति । अथ यत् सवितारम् यजति । सविता वै प्रसवानाम् ईशे । सवितृ प्रसूततायै । अथ यत् सरस्वतीम् यजति । वाग् वै सरस्वती । वाचम् एव तत् प्रीणाति । अथ यत् पूषणम् यजति । असौ वै पूषा यो असौ तपति । एतम् एव त प्रीणाति । अथ यन् मरुतः स्व तवसो यजति । घोरा वै मरुतः स्व तवसः । भैषज्यम् एव तत् कुरुते । अथ यद् वैश्वदेवी पयस्या । एते वै सर्वे देवा यद् विश्वे देवाः । सर्वेषाम् एव देवानाम् प्रीत्यै । अथ यद् द्यावा पृथिवीय एक कपालः । प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव । अथ यत् प्रथमजम् गाम् ददाति । प्रथम कर्म ह्य् एतत् । अथ यत् पुरस्ताद् वा उपरिष्टाद् वा शम्योर् वाकस्यान् आवाहितान् वाजिनो यजति । देव अश्वा वै वाजिनः । तान् एव तत् प्रीणाति । अत्र देवाः स अश्वाः प्रीता भवन्ति । अथो ऋतवो वै वाजिनः । ऋतून् एव तत् प्रीणाति । अथ यत् परस्तात् पौर्णमासेन यजते । तथा ह अस्य पूर्व पक्षे वैश्वदेवेन इष्टम् भवति ।
५.३ वरुणप्रघासः
वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ताः सृष्टा अप्रसूता वरुणस्य यवान् जक्षुः । ता वरुणो वरुण पाशैः प्रत्यमुञ्चत् । ताः प्रजाः प्रजापतिम् पितरम् एत्य उपाधावन् । उप तम् यज्ञ क्रतुम् जानीहि येन इष्ट्वा वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः सम्प्रमुच्येमहि इति । तत एतम् प्रजापतिर् यज्ञ क्रतुम् अपश्यद् वरुण प्रघासान् । तम् आहरत् तेन अयजत । तेन इष्ट्वा वरुणम् अप्रीणात् । स प्रीतो वरुणो वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः प्रजाः प्रामुञ्चत् । प्र ह वा अस्य प्रजा वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः सम्प्रमुच्यते य एवम् वेद । अथ यद् अग्निम् प्रणयन्ति । यम् एव अमुम् वैश्वदेवे मन्थन्ति । तम् एव तत् प्रणयन्ति । अथ यन् मथ्यते तस्य उक्तम् ब्राह्मणम् । अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् । अथ यन् नव प्रयाजा नव अनुयाजा नव एतानि हवींषि । तन् नक्षत्रियाम् विराजम् आप्नोति । समानानि पञ्च संचराणि हवींषि भवन्ति पौष्ण अन्तानि वैश्वदेविकानि । तेषाम् उक्तम् ब्राह्मणम् ।
५.४ वरुणप्रघासदेवताः
अथ यद् ऐन्द्राग्नो द्वादश कपालः । प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव । अथो मध्यस्थो वा इन्द्रः । तस्माद् एनम् मध्यतो यजति । अथ यद् वारुणी पयस्या । इन्द्रो वै वरुणः । स उ वै पयो भोजनः । तस्माद् वारुणी पयस्या । अथ यन् मारुती पयस्या । अप्सु वै मरुतः श्रिताः । तस्माद् एनान् पयस्या यजति । आपो हि पयः । अथो इन्द्रस्य वै मरुतः । ऐन्द्रम् पयः । तस्मान् मारुती पयस्या । अथ यत् काय एक कपालः । प्रजापतिर् वै कः । तम् एव तत् प्रीणाति । अथो सुखस्य एव एतन् नामधेयम् कम् इति । सुखम् एव तद् आत्मन् धत्ते । अथ यन् मिथुनौ गावौ ददाति । तत् प्रजात्यै रूपम् । अथ यद् वाजिनो यजति । तेषाम् उक्तम् ब्राह्मणम् । अथ यद् अप्सु वरुणम् यजति । स्व एव एनम् तद् आयतने प्रीणाति । अथ यत् परस्तात् पौर्णमासेन यजते । तथा ह अस्य पूर्व पक्षे वरुण प्रघासैर् इष्टम् भवति ।
५.५ साकमेधः
ऐन्द्रो वा एष यज्ञ क्रतुर् यत् साकमेधाः । तद् यथा महा राजः पुरस्तात् सेनानीकानि प्रत्यूह्य अभयम् पन्थानम् अन्वियात् । एवम् एव एतत् पुरस्ताद् देवता यजति । तद् यथा अदः सोमस्य महा व्रतम् । एवम् एव एतद् इष्टि महा व्रतम् । अथ यद् अग्निम् अनीकवन्तम् प्रथमम् देवतानाम् यजति । अग्निर् वै देवानाम् मुखम् । मुखत एव तद् देवान् प्रीणाति । अथ यन् मध्यंदिने मरुतः सांतपनात् यजति । मध्यंदिने वै संतपति । तस्मान् मध्यंदिने मरुतः सांतपनान् यजति । अथो इन्द्रस्य वै मरुतः । ऐन्द्रो मध्यंदिनः । तस्मान् मध्यंदिने मरुतः सांतपनान् यजति । अथ यत् सायम् गृह मेधीयेन चरन्ति । पुष्टि कर्म वा एतद् यद् गृह मेधीयः । सायम् पोषः । तस्मात् पोषवन्ताव् आज्य भागौ भवतः । यजमानम् एव तत् पोषयति । अथ यत् प्रातः पूर्ण दर्वेण चरन्ति । पूर्वे द्युः कर्मणा एव एतत् प्रातः कर्म उपसंतनोति । अथ य मरुतः क्रीडिनो यजति । इन्द्रस्य वै मरुतः क्रीडिनः । तस्माद् एनान् इन्द्रेण उपसंहितान् यजति । अथ यन् महा इन्द्रम् अन्ततो यजति । अन्तम् वै श्रेष्ठी भजते । तस्माद् एनम् अन्ततो यजति । अथ यद् अग्निम् प्रणयन्ति यन् मथ्यते तस्य उक्तम् ब्राह्मणम् । अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् । अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि स्विष्टकृन् नवमः । तन् नक्षत्रियाम् विराजम् आप्नोति । समानानि षट् संचराणि हवींषि भवन्त्य् ऐन्द्राग्न अन्तानि वारुण प्रघासिकानि । तेषाम् उक्तम् ब्राह्मणम् । अथ यन् महा इन्द्रम् यजति तस्य उक्तम् ब्राह्मणम् । अथ यद् वैश्व कर्मण एक कपालः । असौ वै विष्व कर्मा यो असौ तपति । एतम् एव तत् प्रीणाति । अथ यद् ऋषभम् ददाति । ऐन्द्रो हि यज्ञ क्रतुः ।
५.६ पितृयज्ञः
अथ यद् अपर अह्णे पितृ यज्ञेन चरन्ति । अपक्षय भाजौ वै पितरः । तस्माद् अपर अह्णे पितृ यज्ञेन चरन्ति । तद् आहुर् यद् अपर पक्ष भाजः पितरो अथ कस्माद् एतान् पूर्व पक्षे यजन्ति इति । दैवा वा एते पितरः । तस्माद् एनान् पूर्व पक्षे यजन्ति । अथ यद् एकाम् सामिधेनीम् अन्वाह । सकृद् इव वै पितरः । तस्माद् एकाम् सामिधेनीम् अन्वाह । सा वा अनुष्टुब् भवति । वाग् अनुष्टुप् । पराञ्च उ वै पितरः । तान् एव एतद् वाचा अनुष्टुभा आगमयति । अथ यद् यजमानस्य आर्षेयम् न आह । न इद् यजमानम् प्रवृणजानि इति । अथ एतम् निगदम् अन्वाह तस्य उक्तम् ब्राह्मणम् । अथ यत् सोमम् पितृमन्तम् पितॄन् वा सोमवतः पितॄन् बर्हिषदः पितॄन् अग्निष्व् आत्तान् इत्य् आवाहयति । दैवा वा एते पितरः । तस्माद् एनान् आवाहयति । अथ यद् अग्निम् कव्य वाहनम् आवाहयति । एतत् स्विष्टकृतो वै पितरः । तस्माद् एनम् आवाहयति । न ह एके स्वम् महिमानम् आवाहयन्ति यजमानस्य एष महिमा इति वदन्तः । आवाहयेद् इति त्व् एव स्थितम् । अग्नेर् ह्य् एव एष महिमा ।
५.७ साकमेधपर्वणि बर्हिष्मतामुत्सर्जनम्
अथ यत् प्रयाज अनुयाजेभ्यो बर्हिष्मन्ता उत्सृजति । प्रजा वै बर्हिः । तेन प्रजाम् प्रवृणजानि इति । ते वै षड् भवन्ति । षड् वा ऋतवः । ऋतवः पितरः । पितॄन् एव तत् प्रीणाति । अथ यज् जीवनवन्ताव् आज्य भागौ भवतः । यजमानम् एव तज् जीवयति । अथ यत् तिस्रस् तिस्र एक एकस्य हविषो भवन्ति । त्रीणि वै हवींषि भवन्ति । तेषाम् समवद्यति । तस्मात् तिस्रस् तिस्र एक एकस्य हविषो भवन्ति । अथो देव कर्मणा एव एतत् पितृ कर्म व्यावर्तयति । अथो पराम् उ वै परावतम् पितरो गताः । आह्वयत्य् एव एनान् प्रथमया । द्वितीयया आगमयति । प्र एव तृतीयया यच्छति । अथ यद् अग्निम् कव्य वाहनम् अन्ततो यजति । एतत् स्विष्टकृतो वै पितरः । तस्माद् एनम् अन्ततो यजति । अथ यद् अप उपस्पृशति तस्य उक्तम् ब्राह्मणम् । अथ यद् इडाम् उपहूय अवघ्राय न प्राश्नन्ति । पशवो वै इडा । न इद् यजमानस्य पशुन् प्रवृणजानि इति । अथ यद् अध्वर्युः पितृभ्यो ददाति । पितॄन् एव तत् प्रीणाति । अथ यत् पवित्रवति मार्जयन्ते तस्य उक्तम् ब्राह्मणम् । अथ यद् ऋचम् जपन्ति स्वस्त्ययनम् एव तत् कुर्वते । अथ यद् उदञ्चः परेत्य गार्हपत्या आहवनीया उपतिष्ठन्ते । प्रीत्वा एव तद् देवेष्व् अन्तततो अर्थम् वदन्ते । अथो दक्षिणा संस्थो वै पितृ यज्ञः । तम् एव एतद् उदक् संस्थम् कुर्वन्ति । अथ यत् प्राञ्च उपनिष्क्रम्य आदित्यम् उपतिष्ठन्ते । देव लोको वा आदित्यः । पितृ लोकः पितरः । देव लोकम् एव तत् पितृ लोकाद् अभ्युत्क्रामन्ति । अथ यत् सूक्त वाके यजमानस्य नाम न गृह्णाति । न इद् यजमानम् प्रवृणजानि इति । अथ यत् पत्नी सम्याजैर् न चरन्ति । न इत् पत्न्यः प्रवृणजाम इति । अथ यद् उदञ्चः परेत्य त्र्यम्बकैश् चरन्ति । रुद्रम् एव तत् स्वायाम् दिशि प्रीणन्ति । अथो दक्षिणा संस्थो वै पितृ यज्ञः । तम् एव एतद् उदक् संस्थम् कुर्वन्ति । अथ यद् अन्तत इष्ट्वा इष्ट्या यजते । एतत् संस्था वै साकमेधाः । तस्माद् अन्तत इष्ट्वा इष्ट्या यजते । अथ यत् परस्तात् पौर्णमासेन यजते । तथा ह अस्य पूर्व पक्षे साकमेधैर् इष्टम् भवति ।
५.८ शुनासीर्यपर्व
त्रयोदशम् वा एतन् मासम् आप्नोति यत् शुनासीर्येण यजते । एतावान् वै संवत्सरो यद् एष त्रयोदशो मासः । तद् अत्र एव सर्वः संवत्सर आप्तो भवति । अथ यत् शुनासीरौ यजति । शान्तिर् वै भेषजम् शुना सीरौ । शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते । स यद्य् अग्निर् मथ्यते यद् वैश्वदेवस्य तन्त्रम् तत् तन्त्रम् । यद्य् उ न मथ्यते पौर्णमासम् एव तन्त्रम् भवति । प्रतिष्ठा वै पौर्णमासम् प्रतिष्ठित्या एव । अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् । अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि स्विष्टकृन् नवमः । तन् नक्षत्रियाम् विराजम् आप्नोति । समानानि त्व् एव पञ्च संचराणि हवींषि भवन्ति पौष्ण अन्ताइ वैश्वदेकिकानि । तेषाम् उक्तम् ब्राह्मणम् । अथ यत् शुना सीरौ यजति । तयोर् उक्तम् ब्राह्मणम् । अथ यद् वायुम् यजति । प्राणो वै वायुः । प्राणम् एव तद् आत्मन् धत्ते । अथ यत् सौर्य एक कपालः । असौ वै सूर्यो यो असौ तपति । एतम् एव तत् प्रीणाति । अथ यत् श्वेता दक्षिणा । एतम् एव तत् प्रीणाति । एतस्य एव तद् रूपम् क्रियते ।
५.९ प्रायश्चित्तं प्रतिनिधिश्च
अथ यत् प्रायश्चित्त प्रतिनिधीन् कुर्वन्ति यद् आहुतीर् जुह्वति । स्वस्त्ययनम् एव तत् कुर्वते । यज्ञस्य एव शान्त्यै । यजमानस्य च भिषज्यायै ।
५.१० स्वीयाग्निभिर्यजमानसंस्थापनम्
अथ यत् स्वैर् अग्निभिर् यजमानम् संस्कुर्वन्ति । देव रथो व अग्नयः । देव रथ एव एनम् तत् समारोपयन्ति । स एतेन देव रथेन स्वर्गंल् लोकम् एति । सुकृताम् यत्र लोकः सुकृताम् यत्र लोकः ।
५.१ वैश्वदेवकालः
अथातश् चातुर्मास्यानाम् ।
चातुर्मास्यानि प्रयुञ्जानः फाल्गुन्याम् पौर्णमास्याम् प्रयुङ्क्ते ।
मुखम् वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी ।
मुखम् उत्तरे फल्गू ।
पुच्छम् पूर्वे ।
तद् यथा प्रवृत्तस्य अन्तौ समेतौ स्याताम् ।
एवम् एव एतौ संवत्सरस्य अन्तौ समेतौ ।
तद् यत् फाल्गुन्याम् पौर्णमास्याम् वैश्वदेवेन यजेत ।
मुखत एव तस् संवत्सरम् प्रीणाति ।
अथो भैषज्य यज्ञा वा एते यच् चातुर्मास्यानि ।
तस्माद् ऋतु संधिषु प्रयुज्यन्ते ।
ऋतु संधिषु हि व्याधिर् जायते ।
तानि वा अष्टौ हवींषि भवन्ति ।
अष्टौ वै चतसृणाम् पौर्णमासीनाम् हवींषि भवन्ति ।
चतसृणाम् वै पौर्णमासीनाम् वैश्वदेवम् समासः ।
अथ यद् अग्निर् मथ्यते ।
प्रजापतिर् वै वैश्वदेवम् ।
तस्माद् एतम् दैवम् गर्भम् प्रजनयन्ति ।
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् ।
अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि वाजिनम् नवमम् ।
तन् नक्षत्रियाम् विराजम् आप्नोति ।
५.२ वैश्वदेवपर्व
अथ यद् अग्नीषोमौ प्रथमौ देवतानाम् यजति ।
दार्शपौर्णमासिके वा एते देवते ।
तस्माद् एनौ प्रथमौ यजति ।
अथ यत् सवितारम् यजति ।
सविता वै प्रसवानाम् ईशे ।
सवितृ प्रसूततायै ।
अथ यत् सरस्वतीम् यजति ।
वाग् वै सरस्वती ।
वाचम् एव तत् प्रीणाति ।
अथ यत् पूषणम् यजति ।
असौ वै पूषा यो असौ तपति ।
एतम् एव त प्रीणाति ।
अथ यन् मरुतः स्व तवसो यजति ।
घोरा वै मरुतः स्व तवसः ।
भैषज्यम् एव तत् कुरुते ।
अथ यद् वैश्वदेवी पयस्या ।
एते वै सर्वे देवा यद् विश्वे देवाः ।
सर्वेषाम् एव देवानाम् प्रीत्यै ।
अथ यद् द्यावा पृथिवीय एक कपालः ।
प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव ।
अथ यत् प्रथमजम् गाम् ददाति ।
प्रथम कर्म ह्य् एतत् ।
अथ यत् पुरस्ताद् वा उपरिष्टाद् वा शम्योर् वाकस्यान् आवाहितान् वाजिनो यजति ।
देव अश्वा वै वाजिनः ।
तान् एव तत् प्रीणाति ।
अत्र देवाः स अश्वाः प्रीता भवन्ति ।
अथो ऋतवो वै वाजिनः ।
ऋतून् एव तत् प्रीणाति ।
अथ यत् परस्तात् पौर्णमासेन यजते ।
तथा ह अस्य पूर्व पक्षे वैश्वदेवेन इष्टम् भवति ।
५.३ वरुणप्रघासः
वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ।
ताः सृष्टा अप्रसूता वरुणस्य यवान् जक्षुः ।
ता वरुणो वरुण पाशैः प्रत्यमुञ्चत् ।
ताः प्रजाः प्रजापतिम् पितरम् एत्य उपाधावन् ।
उप तम् यज्ञ क्रतुम् जानीहि येन इष्ट्वा वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः सम्प्रमुच्येमहि इति ।
तत एतम् प्रजापतिर् यज्ञ क्रतुम् अपश्यद् वरुण प्रघासान् ।
तम् आहरत् तेन अयजत ।
तेन इष्ट्वा वरुणम् अप्रीणात् ।
स प्रीतो वरुणो वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः प्रजाः प्रामुञ्चत् ।
प्र ह वा अस्य प्रजा वरुण पाशेभ्यः सर्वस्माच् च पाप्मनः सम्प्रमुच्यते य एवम् वेद ।
अथ यद् अग्निम् प्रणयन्ति ।
यम् एव अमुम् वैश्वदेवे मन्थन्ति ।
तम् एव तत् प्रणयन्ति ।
अथ यन् मथ्यते तस्य उक्तम् ब्राह्मणम् ।
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् ।
अथ यन् नव प्रयाजा नव अनुयाजा नव एतानि हवींषि ।
तन् नक्षत्रियाम् विराजम् आप्नोति ।
समानानि पञ्च संचराणि हवींषि भवन्ति पौष्ण अन्तानि वैश्वदेविकानि ।
तेषाम् उक्तम् ब्राह्मणम् ।
५.४ वरुणप्रघासदेवताः
अथ यद् ऐन्द्राग्नो द्वादश कपालः ।
प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव ।
अथो मध्यस्थो वा इन्द्रः ।
तस्माद् एनम् मध्यतो यजति ।
अथ यद् वारुणी पयस्या ।
इन्द्रो वै वरुणः ।
स उ वै पयो भोजनः ।
तस्माद् वारुणी पयस्या ।
अथ यन् मारुती पयस्या ।
अप्सु वै मरुतः श्रिताः ।
तस्माद् एनान् पयस्या यजति ।
आपो हि पयः ।
अथो इन्द्रस्य वै मरुतः ।
ऐन्द्रम् पयः ।
तस्मान् मारुती पयस्या ।
अथ यत् काय एक कपालः ।
प्रजापतिर् वै कः ।
तम् एव तत् प्रीणाति ।
अथो सुखस्य एव एतन् नामधेयम् कम् इति ।
सुखम् एव तद् आत्मन् धत्ते ।
अथ यन् मिथुनौ गावौ ददाति ।
तत् प्रजात्यै रूपम् ।
अथ यद् वाजिनो यजति ।
तेषाम् उक्तम् ब्राह्मणम् ।
अथ यद् अप्सु वरुणम् यजति ।
स्व एव एनम् तद् आयतने प्रीणाति ।
अथ यत् परस्तात् पौर्णमासेन यजते ।
तथा ह अस्य पूर्व पक्षे वरुण प्रघासैर् इष्टम् भवति ।
५.५ साकमेधः
ऐन्द्रो वा एष यज्ञ क्रतुर् यत् साकमेधाः ।
तद् यथा महा राजः पुरस्तात् सेनानीकानि प्रत्यूह्य अभयम् पन्थानम् अन्वियात् ।
एवम् एव एतत् पुरस्ताद् देवता यजति ।
तद् यथा अदः सोमस्य महा व्रतम् ।
एवम् एव एतद् इष्टि महा व्रतम् ।
अथ यद् अग्निम् अनीकवन्तम् प्रथमम् देवतानाम् यजति ।
अग्निर् वै देवानाम् मुखम् ।
मुखत एव तद् देवान् प्रीणाति ।
अथ यन् मध्यंदिने मरुतः सांतपनात् यजति ।
मध्यंदिने वै संतपति ।
तस्मान् मध्यंदिने मरुतः सांतपनान् यजति ।
अथो इन्द्रस्य वै मरुतः ।
ऐन्द्रो मध्यंदिनः ।
तस्मान् मध्यंदिने मरुतः सांतपनान् यजति ।
अथ यत् सायम् गृह मेधीयेन चरन्ति ।
पुष्टि कर्म वा एतद् यद् गृह मेधीयः ।
सायम् पोषः ।
तस्मात् पोषवन्ताव् आज्य भागौ भवतः ।
यजमानम् एव तत् पोषयति ।
अथ यत् प्रातः पूर्ण दर्वेण चरन्ति ।
पूर्वे द्युः कर्मणा एव एतत् प्रातः कर्म उपसंतनोति ।
अथ य मरुतः क्रीडिनो यजति ।
इन्द्रस्य वै मरुतः क्रीडिनः ।
तस्माद् एनान् इन्द्रेण उपसंहितान् यजति ।
अथ यन् महा इन्द्रम् अन्ततो यजति ।
अन्तम् वै श्रेष्ठी भजते ।
तस्माद् एनम् अन्ततो यजति ।
अथ यद् अग्निम् प्रणयन्ति यन् मथ्यते तस्य उक्तम् ब्राह्मणम् ।
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् ।
अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि स्विष्टकृन् नवमः ।
तन् नक्षत्रियाम् विराजम् आप्नोति ।
समानानि षट् संचराणि हवींषि भवन्त्य् ऐन्द्राग्न अन्तानि वारुण प्रघासिकानि ।
तेषाम् उक्तम् ब्राह्मणम् ।
अथ यन् महा इन्द्रम् यजति तस्य उक्तम् ब्राह्मणम् ।
अथ यद् वैश्व कर्मण एक कपालः ।
असौ वै विष्व कर्मा यो असौ तपति ।
एतम् एव तत् प्रीणाति ।
अथ यद् ऋषभम् ददाति ।
ऐन्द्रो हि यज्ञ क्रतुः ।
५.६ पितृयज्ञः
अथ यद् अपर अह्णे पितृ यज्ञेन चरन्ति ।
अपक्षय भाजौ वै पितरः ।
तस्माद् अपर अह्णे पितृ यज्ञेन चरन्ति ।
तद् आहुर् यद् अपर पक्ष भाजः पितरो अथ कस्माद् एतान् पूर्व पक्षे यजन्ति इति ।
दैवा वा एते पितरः ।
तस्माद् एनान् पूर्व पक्षे यजन्ति ।
अथ यद् एकाम् सामिधेनीम् अन्वाह ।
सकृद् इव वै पितरः ।
तस्माद् एकाम् सामिधेनीम् अन्वाह ।
सा वा अनुष्टुब् भवति ।
वाग् अनुष्टुप् ।
पराञ्च उ वै पितरः ।
तान् एव एतद् वाचा अनुष्टुभा आगमयति ।
अथ यद् यजमानस्य आर्षेयम् न आह ।
न इद् यजमानम् प्रवृणजानि इति ।
अथ एतम् निगदम् अन्वाह तस्य उक्तम् ब्राह्मणम् ।
अथ यत् सोमम् पितृमन्तम् पितॄन् वा सोमवतः पितॄन् बर्हिषदः पितॄन् अग्निष्व् आत्तान् इत्य् आवाहयति ।
दैवा वा एते पितरः ।
तस्माद् एनान् आवाहयति ।
अथ यद् अग्निम् कव्य वाहनम् आवाहयति ।
एतत् स्विष्टकृतो वै पितरः ।
तस्माद् एनम् आवाहयति ।
न ह एके स्वम् महिमानम् आवाहयन्ति यजमानस्य एष महिमा इति वदन्तः ।
आवाहयेद् इति त्व् एव स्थितम् ।
अग्नेर् ह्य् एव एष महिमा ।
५.७ साकमेधपर्वणि बर्हिष्मतामुत्सर्जनम्
अथ यत् प्रयाज अनुयाजेभ्यो बर्हिष्मन्ता उत्सृजति ।
प्रजा वै बर्हिः ।
तेन प्रजाम् प्रवृणजानि इति ।
ते वै षड् भवन्ति ।
षड् वा ऋतवः ।
ऋतवः पितरः ।
पितॄन् एव तत् प्रीणाति ।
अथ यज् जीवनवन्ताव् आज्य भागौ भवतः ।
यजमानम् एव तज् जीवयति ।
अथ यत् तिस्रस् तिस्र एक एकस्य हविषो भवन्ति ।
त्रीणि वै हवींषि भवन्ति ।
तेषाम् समवद्यति ।
तस्मात् तिस्रस् तिस्र एक एकस्य हविषो भवन्ति ।
अथो देव कर्मणा एव एतत् पितृ कर्म व्यावर्तयति ।
अथो पराम् उ वै परावतम् पितरो गताः ।
आह्वयत्य् एव एनान् प्रथमया ।
द्वितीयया आगमयति ।
प्र एव तृतीयया यच्छति ।
अथ यद् अग्निम् कव्य वाहनम् अन्ततो यजति ।
एतत् स्विष्टकृतो वै पितरः ।
तस्माद् एनम् अन्ततो यजति ।
अथ यद् अप उपस्पृशति तस्य उक्तम् ब्राह्मणम् ।
अथ यद् इडाम् उपहूय अवघ्राय न प्राश्नन्ति ।
पशवो वै इडा ।
न इद् यजमानस्य पशुन् प्रवृणजानि इति ।
अथ यद् अध्वर्युः पितृभ्यो ददाति ।
पितॄन् एव तत् प्रीणाति ।
अथ यत् पवित्रवति मार्जयन्ते तस्य उक्तम् ब्राह्मणम् ।
अथ यद् ऋचम् जपन्ति स्वस्त्ययनम् एव तत् कुर्वते ।
अथ यद् उदञ्चः परेत्य गार्हपत्या आहवनीया उपतिष्ठन्ते ।
प्रीत्वा एव तद् देवेष्व् अन्तततो अर्थम् वदन्ते ।
अथो दक्षिणा संस्थो वै पितृ यज्ञः ।
तम् एव एतद् उदक् संस्थम् कुर्वन्ति ।
अथ यत् प्राञ्च उपनिष्क्रम्य आदित्यम् उपतिष्ठन्ते ।
देव लोको वा आदित्यः ।
पितृ लोकः पितरः ।
देव लोकम् एव तत् पितृ लोकाद् अभ्युत्क्रामन्ति ।
अथ यत् सूक्त वाके यजमानस्य नाम न गृह्णाति ।
न इद् यजमानम् प्रवृणजानि इति ।
अथ यत् पत्नी सम्याजैर् न चरन्ति ।
न इत् पत्न्यः प्रवृणजाम इति ।
अथ यद् उदञ्चः परेत्य त्र्यम्बकैश् चरन्ति ।
रुद्रम् एव तत् स्वायाम् दिशि प्रीणन्ति ।
अथो दक्षिणा संस्थो वै पितृ यज्ञः ।
तम् एव एतद् उदक् संस्थम् कुर्वन्ति ।
अथ यद् अन्तत इष्ट्वा इष्ट्या यजते ।
एतत् संस्था वै साकमेधाः ।
तस्माद् अन्तत इष्ट्वा इष्ट्या यजते ।
अथ यत् परस्तात् पौर्णमासेन यजते ।
तथा ह अस्य पूर्व पक्षे साकमेधैर् इष्टम् भवति ।
५.८ सुनासीर्यपर्व
त्रयोदशम् वा एतन् मासम् आप्नोति यत् शुनासीर्येण यजते ।
एतावान् वै संवत्सरो यद् एष त्रयोदशो मासः ।
तद् अत्र एव सर्वः संवत्सर आप्तो भवति ।
अथ यत् शुनासीरौ यजति ।
शान्तिर् वै भेषजम् शुना सीरौ ।
शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते ।
स यद्य् अग्निर् मथ्यते यद् वैश्वदेवस्य तन्त्रम् तत् तन्त्रम् ।
यद्य् उ न मथ्यते पौर्णमासम् एव तन्त्रम् भवति ।
प्रतिष्ठा वै पौर्णमासम् प्रतिष्ठित्या एव ।
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्य भागौ विराजौ सम्याज्ये तस्य उक्तम् ब्राह्मणम् ।
अथ यन् नव प्रयाजा नव अनुयाजा अष्टौ हवींषि स्विष्टकृन् नवमः ।
तन् नक्षत्रियाम् विराजम् आप्नोति ।
समानानि त्व् एव पञ्च संचराणि हवींषि भवन्ति पौष्ण अन्ताइ वैश्वदेकिकानि ।
तेषाम् उक्तम् ब्राह्मणम् ।
अथ यत् शुना सीरौ यजति ।
तयोर् उक्तम् ब्राह्मणम् ।
अथ यद् वायुम् यजति ।
प्राणो वै वायुः ।
प्राणम् एव तद् आत्मन् धत्ते ।
अथ यत् सौर्य एक कपालः ।
असौ वै सूर्यो यो असौ तपति ।
एतम् एव तत् प्रीणाति ।
अथ यत् श्वेता दक्षिणा ।
एतम् एव तत् प्रीणाति ।
एतस्य एव तद् रूपम् क्रियते ।
५.९ प्रायश्चित्तं प्रतिनिधिश्च
अथ यत् प्रायश्चित्त प्रतिनिधीन् कुर्वन्ति यद् आहुतीर् जुह्वति ।
स्वस्त्ययनम् एव तत् कुर्वते ।
यज्ञस्य एव शान्त्यै ।
यजमानस्य च भिषज्यायै ।
५.१० स्वीयाग्निभिर्यजमानसंस्थापनम्
अथ यत् स्वैर् अग्निभिर् यजमानम् संस्कुर्वन्ति ।
देव रथो व अग्नयः ।
देव रथ एव एनम् तत् समारोपयन्ति ।
स एतेन देव रथेन स्वर्गंल् लोकम् एति ।
सुकृताम् यत्र लोकः सुकृताम् यत्र लोकः ।
ब्रह्मा (शूलगव ब्रह्मत्व)
६.१ प्रजापतेस्तपः सृष्टिश्च
प्रजापतिः प्रजाति कामस् तपो अतप्यत । तस्मात् तप्तात् पञ्च अजायन्त । अघिर् वायुर् आदित्यश् चन्द्रमा उषाः पञ्चमी । तान् अब्रवीद् यूयम् अपि तप्यध्वम् इति । ते अदीक्षन्त । तान् दीक्षितांस् तेपानान् उषाः प्राजापत्य अप्सरो रुपम् कृत्वा पुरस्तात् प्रत्युदैत् । तस्याम् एषाम् मनः समपतत् । ते रेतो असिञ्चन्त । ते प्रजापतिम् पितरम् इत्य् अब्रुवन् । रेतो वा असिचामहै तन् नो मामुया भूद् इति । स प्रजापतिर् हिरण्मयम् चमसम् अकरोद् इषु मात्रम् ऊर्ध्वम् एवम् तिर्यञ्चम् । तस्मिन्न् एनत् समसिञ्चत् । तत उदतिष्ठत् सहस्र अक्षः सहस्र पात् । सहस्रेण प्रतिहिताभिः ।
६.२ प्रजापतेस्तपः सृष्टिश्च
स प्रजापतिम् पितरम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । नाम मे कुर्व् इत्य् अब्रवीत् । न वा इदम् अविहितेन नाम्ना अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीद् भव एव इति । यद् भव आपस् तेन । न ह वा एनम् भवो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् आर्द्रम् एव वासः परिदधीत आपो वै न परिचक्षीत इति ।
६.३ प्रजापतेस्तपः सृष्टिश्च
तम् द्वितीयम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । द्वितीयम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् एकेन नाम्ना अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीत् शर्व एव इति । यत् शर्वो अग्निस् तेन । न ह वा एनम् शर्वो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् सर्वम् एव न अश्नीयाद् इति ।
६.४ प्रजापतेस्तपः सृष्टिश्च
तम् तृतीयम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । तृतीयम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् द्वाभ्याम् नामभ्याम् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीत् पशु पतिर् एव इति । यत् पशु पतिर् वायुस् तेन । न ह वा एनम् पशु पतिर् हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । नस य एवम् वेद । तस्य व्रतम् ब्राह्मणम् एव न परिवदेद् इति ।
६.५ प्रजापतेस्तपः सृष्टिश्च
तम् चतुर्थम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । चतुर्थम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् त्रिभिर् नामभिर् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीद् उग्र एव देव इति । यद् उग्रो देव ओषधयो वनस्पतयस् तेन । न ह वा एनम् उग्रो देवो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् स्त्रिया एव विवरम् न ईक्षेत इति ।
६.६ प्रजापतेस्तपः सृष्टिश्च
तम् पञ्चमम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । पञ्चमम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् चतुर्भिर् नामभिर् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीन् महान् एव देव इति । यन् महान् देव आदित्यस् तेन । न ह वा एनम् महान् देवो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् उद्यन्तम् एव एनम् न ईक्षेत अस्तम् यन्तम् च इति ।
६.७ प्रजापतेस्तपः सृष्टिश्च
तम् षष्ठम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । षष्ठम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् पञ्चभिर् नामभिर् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीद् रुद्र एव इति । यद् रुद्रश् चन्द्रमास् तेन । न ह वा एनम् रुद्रो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् विमूर्तम् एव न अश्नीयान् मज्जानम् च इति ।
६.८ प्रजापतेस्तपः सृष्टिश्च
तम् सप्तमम् अभ्यायच्छत् । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । सप्तमम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् षड्भिर् नामभिर् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीद् ईशान एव इति । यद् ईशानो अन्नम् तेन । न ह वा एनम् ईशानो हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् अन्नम् एव इच्छमानम् न प्रत्याचक्षीत इति ।
६.९ प्रजापतेस्तपः सृष्टिश्च
तम् अष्टमम् अभ्यायच्छति । तम् अब्रवीत् कथा मा अभ्यायच्छसि इति । अष्टमम् मे नाम कुर्व् इत्य् अब्रवीत् । न वा इदम् सप्ताभिर् नामभिर् अन्नम् अत्स्यामि इति । स वै त्वम् इत्य् अब्रवीद् अशनिर् एव इति । यद् अशनिर् इन्द्रस् तेन । न ह वा एनम् अशनिर् हिनस्ति । न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन । अथ य एनम् द्वेष्टि । स एव पापीयान् भवति । न स य एवम् वेद । तस्य व्रतम् सत्यम् एव वदेद्द् हिरण्यम् च बिभृयाद् इति । स एषो अष्ट नामा । अष्टधा विहितो महान् देवः । आ ह वा अस्य अष्टमात् पुरुषात् प्रजा अन्नम् अत्ति । वसीयान् वसीयान् ह एव अस्य प्रजायाम् आजायते य एवम् वेद ।
६.१० ब्रह्ममीमांसा तत्कर्म च
प्रजापतिस् तपो अतप्यत । स तपस् तप्त्वा प्राणाद् एव इमंल् लोकम् प्रावृहति । अपानाद् अन्तरिक्ष लोकम् । व्यानाद् अमुंल् लोकम् । स एतांस् त्रींल् लोकान् अभ्यतप्यत । सो अग्निम् एव अस्माल् लोकाद् असृजत । वायुम् अन्तरिक्ष लोकाद् आदित्यम् दिवः । स एतानि त्रीणि ज्योतींष्य् अभ्यतप्यत । सो अग्नेर् एव ऋचो असृजत । वायुर् यजूंष्य् आदित्यात् सामानि । स एताम् त्रयीम् विद्याम् अभ्यतप्यत । स यज्ञम् अतनुत । स ऋचा एव अशंसत् । यजुषा प्राचरत् साम्ना उदगायत् । अथ एतस्या एव त्रय्यै विद्यायै तेजो रसम् प्रावृहत् । एतेषाम् एव वेदानाम् भिषज्यायै । स भूर् इत्य् ऋचाम् प्रावृहत् । भुव इति यजुषाम् स्वर् इति साम्नाम् । तेन दक्षिणतो ब्रह्मा आसीत् । तस्य दक्षिणतो वर्षीयान् उदीचीन प्रवणो यज्ञः संतस्थे । तस्य ह वै दक्षिणतो वर्षीयान् उदीचीन प्रवणो यज्ञः संतिष्ठते । यस्य एवम् विद्वान् ब्रह्मा भवति ।
६.११ ब्रह्ममीमांसा तत्कर्म च
तद् आहुर् यद् ऋचा होता होता भवति यजुषा अध्वर्युर् अध्वर्युः साम्ना उद्गाता उद्गाता केन ब्रह्मा ब्रह्मा भवति इति। यम् एव अमुम् त्रय्यै विद्यायै तेजो रसम् प्रावृहति । तेन ब्रह्मा ब्रह्मा भवति । तद् आहुः किंविदम् किम् छन्दसम् ब्राह्मणम् वृणीत इति । अध्वर्युम् इत्य् एके । स परिक्रमाणाम् क्षेत्रज्ञो भवति इति । छन्दोगम् इत्य् एके । तथा ह अस्य त्रिभिर् वेदैर् हविर् यज्ञाः संस्क्रियन्त इति । बह्वृचम् इति त्व् एव स्थितम् । एतत् परिसरणाव् इतरौ वेदौ । अत्र भूयिष्ठा होत्रा आयत्ता भवन्ति इति । ऋग्भिर् ग्रहा गृह्यन्ते । ऋक्षु सामानि गीयन्ते । तस्माद् बह्वृच एव स्यात् । तद् आहुः कियद् ब्रह्मा यज्ञस्य संस्करोति कियद् अन्य ऋत्विज इति । अर्धम् इति ब्रूयात् । द्वे वै यज्ञस्य वर्तनी । वाचा अन्या संस्क्रियते । मनसा अन्या । सा या वाचा संस्क्रियते । ताम् अन्य ऋत्विजः संस्कुर्वन्ति । अथ या मनसा ताम् ब्रह्मा । तस्माद् यावद् ऋचा यजुषा साम्ना कुर्युः । तूष्णीम् तावद् ब्रह्मा आसीत । अर्धम् हि तद् यज्ञस्य संस्करोति ।
६.१२ ब्रह्ममीमांसा तत्कर्म च
अथ यत्र एनम् ब्रूयुः । ब्रह्मन् प्रचरिष्यामो ब्रह्मन् प्रणेष्यामो ब्रह्मन् प्रस्थास्यामो ब्रह्मन्त् स्तोष्याम इति वा । ओम् इत्य् एतावता प्रसुयात् । एतद्द् ह वा एकम् अक्षरम् त्रयीम् विद्याम् प्रति प्रति । तथा ह अस्य त्रय्या विद्यया प्रसूतम् भवति । ब्रह्मणि वै यज्ञः प्रतिष्ठितः । यद् वै यज्ञस्य स्खलितम् वा उल्बणम् वा भवति । ब्रह्मण एव तत् प्राहुः । तत् स त्रय्या विद्यया भिषज्यति । अथ यद्य् ऋच्य् उल्बणम् स्यात् । चतुर् गृहीतम् आज्यम् गृहीत्वा गार्हपत्ये प्रायश् चित्त आहुतिम् जुहुयाद् भूः स्वाहा इति । तद् ऋचम् ऋचि दधाति । ऋच ऋचे प्रायश् चित्तम् करोति । अथ यदि यजुष्य् उल्बणम् स्यात् । चतुर् गृहीतम् आज्यम् गृहीत्वा अन्वाहार्य पचने प्रायश् चित्त आहुतिम् जुहुयाद्द् हविर् यज्ञ आग्नीध्रिये सौम्ये अध्वरे भुवः स्वाहा इति । तद् यजुर् यजुषि दधाति । यजुषा यजुषे प्रायश् चित्तिम्म् करोति । अथ यदि साम्न्य् उल्बणम् स्यात् । चतुर् गृहीतम् आज्यम् गृहीत्वा आहवनीये प्रायश् चित्त आहुतिम् जुहुयात् स्वः स्वाहा इति । तत् साम सामन् दधाति । साम्ना साम्ने प्रायश् चित्तिम् करोति । अथ यद्य् अविज्ञातम् उल्बणम् स्यात् । चतुर् गृहीतम् आज्यम् गृहीत्वा आहवनीय एव प्राय्श् चित्त आहुतिम् जुहुयाद् भूर् भुवः स्वः स्वाहा इति । एष ह वै यज्ञस्य व्यृद्धिम् समर्धयति य एताभिर् व्याहृतिभिः प्रायश्चित्तिम् करोति । न ह वा उपसृतो ब्रूयान् न अहम् एतद् वेद इत्य् एता व्याहृतीर् विद्वान् । सर्वम् ह वा उ स वेद य एता व्याहृतीर् वेद । तद् यथा ह वै दारुणः श्लेष्म संश्लेषणम् स्यात् परिचर्मण्यम् वा । एवम् एव एता व्याहृतयः सर्वस्यै त्रय्यै विद्यायै संश्लेषिण्यः ।
६.१३ ब्रह्ममीमांसा तत्कर्म च
अथ यद् ब्रह्म सदनात् तृणम् निरस्यति । शोधयत्य् एव एनत् तत् । अथ उपविशति इदम् अहम् अर्वावसोः सदसि सीदामि इति । अर्वावसुर् ह वै देवानाम् ब्रह्मा । तम् एव एतत् पूर्वम् सादयत्य् अरिष्टम् यज्ञम् तनुताद् इति । अथ उपविश्य जपति बृहस्पतिर् ब्रह्मा इति । बृहस्पतिर् ह वै देवानाम् ब्रह्मा । तस्मिन्न् एव एतद् अनुज्ञाम् इच्छते । प्रणीतासु प्रणीयमानासु वाचम् यच्छत्या हविष्कृत उद्वादनात् । एतद् वै यज्ञस्य द्वारम् । तद् एव एतद् अशून्यम् करोति । इष्टे च स्विष्टकृत्या अनुयाजानाम् प्रसवात् । एतद्द् ह वै यज्ञस्य द्वितीयम् द्वारम् । तद् एव एतद् अशून्यम् करोति । अथ यत्र ह तद् देवा यज्ञम् अतन्वत । तत् सवित्रे प्राशित्रम् परिजह्रुः । तस्य पाणी प्रचिच्छेद । तस्मै हिरण्मयौ प्रतिदधुः । तस्माद्द् हिरण्य पाणिर् इति स्तुतः । तद् भगाय परिजह्रुः । तस्य अक्षिणी निर्जघान । तस्माद् आहुर् अन्धो भग इति । तत् पूष्णे परिजह्रुः । तस्य दन्तान् परोवाप । तस्माद् आहुर् अदन्तकः पूषा करम्भ भाग इति । ते देवा ऊचुः ।
६.१४ ब्रह्ममीमांसा तत्कर्म च
इन्द्रो वै देवानाम् ओजिष्ठो बलिष्ठस् तस्मा एनत् परिहरत इति । तत् तस्मै परिजह्रुः । तत् स ब्रह्मणा शमयाम् चकार । तस्माद् आह इन्द्रो ब्रह्मा इति । तत् प्रतीक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति । मित्रस्य एव एन्तत् तच् चक्षुषा शमयति । अथ एन्तत् प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवे अश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् प्रतिगृह्णामि इति । एताभिर् एव एनत् तद् देवताभिः शमयति । तद् व्यूह्य तृणानि प्राग् दण्डम् स्थण्डिले सादयति पृथिव्यास् त्व् आनाभौ सादयाम्य् आदित्या उपस्थ इति । पृथिवी वा अन्नानाम् शमयित्री । शमयत्य् एव एनत् तत् । तत आदाय प्राश्नात्य् अग्नेष् ट्व् आस्येन प्राश्नामि इति । अग्निर् वा अन्नानाम् शमयिता । शमयत्य् एव एनत् तत् । अथ अपो अन्वाचामति शान्तिर् असि इति । शान्तिर् वै भ्षजम् आपः । शान्तिर् एव एषा भेषजम् यज्ञे क्रियते । अथ प्राणान्त् सम्मृशते । तद् यद् एव अत्र प्राणानाम् क्रूरी कृतम् यद् विलिष्टम् तद् एव एतद् आप्याययति तद् भिषज्यति । इन्द्रस्य त्वा जठरे सादयामि इति नाभिम् अन्ततो अभिमृशते । इन्द्रो ह्य् एव एनत् शमयाम् चकार । अथ यत् सावित्रेण जपेन प्रसौति । सविता वै प्रसविता कर्मण एव प्रसवाय ।
६.१५ चातुर्मास्यमहत्त्वम्
प्रजापतिर् ह यज्ञम् ससृजे । सो अग्न्याधेयेन एव रेतो असृजत । देवान् मनुष्यान् असुरान् इत्य् अग्निहोत्रेण । दर्श पूर्ण मासाभ्याम् इन्द्रम् असृजत । तेभ्य एतद् अन्न पानम् ससृजे । एतान् हविर् यज्ञान्त् सौम्यम् अध्वरम् इति । अथो यम् यम् कामम् ऐच्छंस् तम् तम् एतैर् अयनैर् आपुः । अन्नाद्यम् आग्रयणेन । तद् आहुः कस्माद् अयनानि इति । गमनान्य् एव भवन्ति कामस्य कामस्य स्वर्गस्य च लोकस्य । चातुर्मास्यैर् आप्नुवन्त् स्वर्गांल् लोकान्त् सर्वान् कामान्त् सर्वा अष्टीः सर्वम् अमृतत्वम् । स एष प्रजापतिः संवत्सरश् चतुर्विंशो यच् चातुर्मास्यानि । तस्य मुखम् एव वैश्वदेवम् । दर्श पूर्ण मासौ पर्वाणि । अहो रात्राण्य् अस्थि मज्जानानि । बाहू वरुण प्रघासाः । प्राणो अपानो व्यान इत्य् एतास् तिस्र इष्टयः । आत्मा महा हविः । या इमा अन्तर् देवतास् तद् अन्या इष्टीः । सर्वम् वै प्रजापतिः संवत्सरश् चतुर्विंशः । सर्वम् चातुर्मास्यानि । तत् सर्वेण सर्वम् आप्नोति य एवम् वेद य एवम् वेद ।
६.१ प्रजापतेस्तपः सृष्टिश्च
प्रजापतिः प्रजाति कामस् तपो अतप्यत ।
तस्मात् तप्तात् पञ्च अजायन्त ।
अघिर् वायुर् आदित्यश् चन्द्रमा उषाः पञ्चमी ।
तान् अब्रवीद् यूयम् अपि तप्यध्वम् इति ।
ते अदीक्षन्त ।
तान् दीक्षितांस् तेपानान् उषाः प्राजापत्य अप्सरो रुपम् कृत्वा पुरस्तात् प्रत्युदैत् ।
तस्याम् एषाम् मनः समपतत् ।
ते रेतो असिञ्चन्त ।
ते प्रजापतिम् पितरम् इत्य् अब्रुवन् ।
रेतो वा असिचामहै तन् नो मामुया भूद् इति ।
स प्रजापतिर् हिरण्मयम् चमसम् अकरोद् इषु मात्रम् ऊर्ध्वम् एवम् तिर्यञ्चम् ।
तस्मिन्न् एनत् समसिञ्चत् ।
तत उदतिष्ठत् सहस्र अक्षः सहस्र पात् ।
सहस्रेण प्रतिहिताभिः ।
६.२ प्रजापतेस्तपः सृष्टिश्च
स प्रजापतिम् पितरम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
नाम मे कुर्व् इत्य् अब्रवीत् ।
न वा इदम् अविहितेन नाम्ना अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीद् भव एव इति ।
यद् भव आपस् तेन ।
न ह वा एनम् भवो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् आर्द्रम् एव वासः परिदधीत आपो वै न परिचक्षीत इति ।
६.३ प्रजापतेस्तपः सृष्टिश्च
तम् द्वितीयम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
द्वितीयम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् एकेन नाम्ना अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीत् शर्व एव इति ।
यत् शर्वो अग्निस् तेन ।
न ह वा एनम् शर्वो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् सर्वम् एव न अश्नीयाद् इति ।
६.४ प्रजापतेस्तपः सृष्टिश्च
तम् तृतीयम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
तृतीयम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् द्वाभ्याम् नामभ्याम् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीत् पशु पतिर् एव इति ।
यत् पशु पतिर् वायुस् तेन ।
न ह वा एनम् पशु पतिर् हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
नस य एवम् वेद ।
तस्य व्रतम् ब्राह्मणम् एव न परिवदेद् इति ।
६.५ प्रजापतेस्तपः सृष्टिश्च
तम् चतुर्थम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
चतुर्थम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् त्रिभिर् नामभिर् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीद् उग्र एव देव इति ।
यद् उग्रो देव ओषधयो वनस्पतयस् तेन ।
न ह वा एनम् उग्रो देवो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् स्त्रिया एव विवरम् न ईक्षेत इति ।
६.६ प्रजापतेस्तपः सृष्टिश्च
तम् पञ्चमम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
पञ्चमम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् चतुर्भिर् नामभिर् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीन् महान् एव देव इति ।
यन् महान् देव आदित्यस् तेन ।
न ह वा एनम् महान् देवो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् उद्यन्तम् एव एनम् न ईक्षेत अस्तम् यन्तम् च इति ।
६.७ प्रजापतेस्तपः सृष्टिश्च
तम् षष्ठम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
षष्ठम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् पञ्चभिर् नामभिर् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीद् रुद्र एव इति ।
यद् रुद्रश् चन्द्रमास् तेन ।
न ह वा एनम् रुद्रो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् विमूर्तम् एव न अश्नीयान् मज्जानम् च इति ।
६.८ प्रजापतेस्तपः सृष्टिश्च
तम् सप्तमम् अभ्यायच्छत् ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
सप्तमम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् षड्भिर् नामभिर् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीद् ईशान एव इति ।
यद् ईशानो अन्नम् तेन ।
न ह वा एनम् ईशानो हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् अन्नम् एव इच्छमानम् न प्रत्याचक्षीत इति ।
६.९ प्रजापतेस्तपः सृष्टिश्च
तम् अष्टमम् अभ्यायच्छति ।
तम् अब्रवीत् कथा मा अभ्यायच्छसि इति ।
अष्टमम् मे नाम कुर्व् इत्य् अब्रवीत् ।
न वा इदम् सप्ताभिर् नामभिर् अन्नम् अत्स्यामि इति ।
स वै त्वम् इत्य् अब्रवीद् अशनिर् एव इति ।
यद् अशनिर् इन्द्रस् तेन ।
न ह वा एनम् अशनिर् हिनस्ति ।
न अस्य प्रजाम् न अस्य पशून् न अस्य ब्रुवाणम् चन ।
अथ य एनम् द्वेष्टि ।
स एव पापीयान् भवति ।
न स य एवम् वेद ।
तस्य व्रतम् सत्यम् एव वदेद्द् हिरण्यम् च बिभृयाद् इति ।
स एषो अष्ट नामा ।
अष्टधा विहितो महान् देवः ।
आ ह वा अस्य अष्टमात् पुरुषात् प्रजा अन्नम् अत्ति ।
वसीयान् वसीयान् ह एव अस्य प्रजायाम् आजायते य एवम् वेद ।
६.१० ब्रह्ममीमांसा तत्कर्म च
प्रजापतिस् तपो अतप्यत ।
स तपस् तप्त्वा प्राणाद् एव इमंल् लोकम् प्रावृहति ।
अपानाद् अन्तरिक्ष लोकम् ।
व्यानाद् अमुंल् लोकम् ।
स एतांस् त्रींल् लोकान् अभ्यतप्यत ।
सो अग्निम् एव अस्माल् लोकाद् असृजत ।
वायुम् अन्तरिक्ष लोकाद् आदित्यम् दिवः ।
स एतानि त्रीणि ज्योतींष्य् अभ्यतप्यत ।
सो अग्नेर् एव ऋचो असृजत ।
वायुर् यजूंष्य् आदित्यात् सामानि ।
स एताम् त्रयीम् विद्याम् अभ्यतप्यत ।
स यज्ञम् अतनुत ।
स ऋचा एव अशंसत् ।
यजुषा प्राचरत् साम्ना उदगायत् ।
अथ एतस्या एव त्रय्यै विद्यायै तेजो रसम् प्रावृहत् ।
एतेषाम् एव वेदानाम् भिषज्यायै ।
स भूर् इत्य् ऋचाम् प्रावृहत् ।
भुव इति यजुषाम् स्वर् इति साम्नाम् ।
तेन दक्षिणतो ब्रह्मा आसीत् ।
तस्य दक्षिणतो वर्षीयान् उदीचीन प्रवणो यज्ञः संतस्थे ।
तस्य ह वै दक्षिणतो वर्षीयान् उदीचीन प्रवणो यज्ञः संतिष्ठते ।
यस्य एवम् विद्वान् ब्रह्मा भवति ।
६.११ ब्रह्ममीमांसा तत्कर्म च
तद् आहुर् यद् ऋचा होता होता भवति यजुषा अध्वर्युर् अध्वर्युः साम्ना उद्गाता उद्गाता केन ब्रह्मा ब्रह्मा भवति इति।
यम् एव अमुम् त्रय्यै विद्यायै तेजो रसम् प्रावृहति ।
तेन ब्रह्मा ब्रह्मा भवति ।
तद् आहुः किंविदम् किम् छन्दसम् ब्राह्मणम् वृणीत इति ।
अध्वर्युम् इत्य् एके ।
स परिक्रमाणाम् क्षेत्रज्ञो भवति इति ।
छन्दोगम् इत्य् एके ।
तथा ह अस्य त्रिभिर् वेदैर् हविर् यज्ञाः संस्क्रियन्त इति ।
बह्वृचम् इति त्व् एव स्थितम् ।
एतत् परिसरणाव् इतरौ वेदौ ।
अत्र भूयिष्ठा होत्रा आयत्ता भवन्ति इति ।
ऋग्भिर् ग्रहा गृह्यन्ते ।
ऋक्षु सामानि गीयन्ते ।
तस्माद् बह्वृच एव स्यात् ।
तद् आहुः कियद् ब्रह्मा यज्ञस्य संस्करोति कियद् अन्य ऋत्विज इति ।
अर्धम् इति ब्रूयात् ।
द्वे वै यज्ञस्य वर्तनी ।
वाचा अन्या संस्क्रियते ।
मनसा अन्या ।
सा या वाचा संस्क्रियते ।
ताम् अन्य ऋत्विजः संस्कुर्वन्ति ।
अथ या मनसा ताम् ब्रह्मा ।
तस्माद् यावद् ऋचा यजुषा साम्ना कुर्युः ।
तूष्णीम् तावद् ब्रह्मा आसीत ।
अर्धम् हि तद् यज्ञस्य संस्करोति ।
६.१२ ब्रह्ममीमांसा तत्कर्म च
अथ यत्र एनम् ब्रूयुः ।
ब्रह्मन् प्रचरिष्यामो ब्रह्मन् प्रणेष्यामो ब्रह्मन् प्रस्थास्यामो ब्रह्मन्त् स्तोष्याम इति वा ।
ओम् इत्य् एतावता प्रसुयात् ।
एतद्द् ह वा एकम् अक्षरम् त्रयीम् विद्याम् प्रति प्रति ।
तथा ह अस्य त्रय्या विद्यया प्रसूतम् भवति ।
ब्रह्मणि वै यज्ञः प्रतिष्ठितः ।
यद् वै यज्ञस्य स्खलितम् वा उल्बणम् वा भवति ।
ब्रह्मण एव तत् प्राहुः ।
तत् स त्रय्या विद्यया भिषज्यति ।
अथ यद्य् ऋच्य् उल्बणम् स्यात् ।
चतुर् गृहीतम् आज्यम् गृहीत्वा गार्हपत्ये प्रायश् चित्त आहुतिम् जुहुयाद् भूः स्वाहा इति ।
तद् ऋचम् ऋचि दधाति ।
ऋच ऋचे प्रायश् चित्तम् करोति ।
अथ यदि यजुष्य् उल्बणम् स्यात् ।
चतुर् गृहीतम् आज्यम् गृहीत्वा अन्वाहार्य पचने प्रायश् चित्त आहुतिम् जुहुयाद्द् हविर् यज्ञ आग्नीध्रिये सौम्ये अध्वरे भुवः स्वाहा इति ।
तद् यजुर् यजुषि दधाति ।
यजुषा यजुषे प्रायश् चित्तिम्म् करोति ।
अथ यदि साम्न्य् उल्बणम् स्यात् ।
चतुर् गृहीतम् आज्यम् गृहीत्वा आहवनीये प्रायश् चित्त आहुतिम् जुहुयात् स्वः स्वाहा इति ।
तत् साम सामन् दधाति ।
साम्ना साम्ने प्रायश् चित्तिम् करोति ।
अथ यद्य् अविज्ञातम् उल्बणम् स्यात् ।
चतुर् गृहीतम् आज्यम् गृहीत्वा आहवनीय एव प्राय्श् चित्त आहुतिम् जुहुयाद् भूर् भुवः स्वः स्वाहा इति ।
एष ह वै यज्ञस्य व्यृद्धिम् समर्धयति य एताभिर् व्याहृतिभिः प्रायश्चित्तिम् करोति ।
न ह वा उपसृतो ब्रूयान् न अहम् एतद् वेद इत्य् एता व्याहृतीर् विद्वान् ।
सर्वम् ह वा उ स वेद य एता व्याहृतीर् वेद ।
तद् यथा ह वै दारुणः श्लेष्म संश्लेषणम् स्यात् परिचर्मण्यम् वा ।
एवम् एव एता व्याहृतयः सर्वस्यै त्रय्यै विद्यायै संश्लेषिण्यः ।
६.१३ ब्रह्ममीमांसा तत्कर्म च
अथ यद् ब्रह्म सदनात् तृणम् निरस्यति ।
शोधयत्य् एव एनत् तत् ।
अथ उपविशति इदम् अहम् अर्वावसोः सदसि सीदामि इति ।
अर्वावसुर् ह वै देवानाम् ब्रह्मा ।
तम् एव एतत् पूर्वम् सादयत्य् अरिष्टम् यज्ञम् तनुताद् इति ।
अथ उपविश्य जपति बृहस्पतिर् ब्रह्मा इति ।
बृहस्पतिर् ह वै देवानाम् ब्रह्मा ।
तस्मिन्न् एव एतद् अनुज्ञाम् इच्छते ।
प्रणीतासु प्रणीयमानासु वाचम् यच्छत्या हविष्कृत उद्वादनात् ।
एतद् वै यज्ञस्य द्वारम् ।
तद् एव एतद् अशून्यम् करोति ।
इष्टे च स्विष्टकृत्या अनुयाजानाम् प्रसवात् ।
एतद्द् ह वै यज्ञस्य द्वितीयम् द्वारम् ।
तद् एव एतद् अशून्यम् करोति ।
अथ यत्र ह तद् देवा यज्ञम् अतन्वत ।
तत् सवित्रे प्राशित्रम् परिजह्रुः ।
तस्य पाणी प्रचिच्छेद ।
तस्मै हिरण्मयौ प्रतिदधुः ।
तस्माद्द् हिरण्य पाणिर् इति स्तुतः ।
तद् भगाय परिजह्रुः ।
तस्य अक्षिणी निर्जघान ।
तस्माद् आहुर् अन्धो भग इति ।
तत् पूष्णे परिजह्रुः ।
तस्य दन्तान् परोवाप ।
तस्माद् आहुर् अदन्तकः पूषा करम्भ भाग इति ।
ते देवा ऊचुः ।
६.१४ ब्रह्ममीमांसा तत्कर्म च
इन्द्रो वै देवानाम् ओजिष्ठो बलिष्ठस् तस्मा एनत् परिहरत इति ।
तत् तस्मै परिजह्रुः ।
तत् स ब्रह्मणा शमयाम् चकार ।
तस्माद् आह इन्द्रो ब्रह्मा इति ।
तत् प्रतीक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति ।
मित्रस्य एव एन्तत् तच् चक्षुषा शमयति ।
अथ एन्तत् प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवे अश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् प्रतिगृह्णामि इति ।
एताभिर् एव एनत् तद् देवताभिः शमयति ।
तद् व्यूह्य तृणानि प्राग् दण्डम् स्थण्डिले सादयति पृथिव्यास् त्व् आनाभौ सादयाम्य् आदित्या उपस्थ इति ।
पृथिवी वा अन्नानाम् शमयित्री ।
शमयत्य् एव एनत् तत् ।
तत आदाय प्राश्नात्य् अग्नेष् ट्व् आस्येन प्राश्नामि इति ।
अग्निर् वा अन्नानाम् शमयिता ।
शमयत्य् एव एनत् तत् ।
अथ अपो अन्वाचामति शान्तिर् असि इति ।
शान्तिर् वै भ्षजम् आपः ।
शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।
अथ प्राणान्त् सम्मृशते ।
तद् यद् एव अत्र प्राणानाम् क्रूरी कृतम् यद् विलिष्टम् तद् एव एतद् आप्याययति तद् भिषज्यति ।
इन्द्रस्य त्वा जठरे सादयामि इति नाभिम् अन्ततो अभिमृशते ।
इन्द्रो ह्य् एव एनत् शमयाम् चकार ।
अथ यत् सावित्रेण जपेन प्रसौति ।
सविता वै प्रसविता कर्मण एव प्रसवाय ।
६.१५ चातुर्मास्यमहत्त्वम्
प्रजापतिर् ह यज्ञम् ससृजे ।
सो अग्न्याधेयेन एव रेतो असृजत ।
देवान् मनुष्यान् असुरान् इत्य् अग्निहोत्रेण ।
दर्श पूर्ण मासाभ्याम् इन्द्रम् असृजत ।
तेभ्य एतद् अन्न पानम् ससृजे ।
एतान् हविर् यज्ञान्त् सौम्यम् अध्वरम् इति ।
अथो यम् यम् कामम् ऐच्छंस् तम् तम् एतैर् अयनैर् आपुः ।
अन्नाद्यम् आग्रयणेन ।
तद् आहुः कस्माद् अयनानि इति ।
गमनान्य् एव भवन्ति कामस्य कामस्य स्वर्गस्य च लोकस्य ।
चातुर्मास्यैर् आप्नुवन्त् स्वर्गांल् लोकान्त् सर्वान् कामान्त् सर्वा अष्टीः सर्वम् अमृतत्वम् ।
स एष प्रजापतिः संवत्सरश् चतुर्विंशो यच् चातुर्मास्यानि ।
तस्य मुखम् एव वैश्वदेवम् ।
दर्श पूर्ण मासौ पर्वाणि ।
अहो रात्राण्य् अस्थि मज्जानानि ।
बाहू वरुण प्रघासाः ।
प्राणो अपानो व्यान इत्य् एतास् तिस्र इष्टयः ।
आत्मा महा हविः ।
या इमा अन्तर् देवतास् तद् अन्या इष्टीः ।
सर्वम् वै प्रजापतिः संवत्सरश् चतुर्विंशः ।
सर्वम् चातुर्मास्यानि ।
तत् सर्वेण सर्वम् आप्नोति य एवम् वेद य एवम् वेद ।