ऋग्वेद प्रातिशाख्यम् – श्रीशौनकीयम्
Read also: Atharva Pratisakhyam
अथ प्रथमोध्यायः
प्रथमं पटलम्
अथ प्रथमं पटलम्
अष्टौ समानाक्षराण्यादितस्ततश्चत्वारि सन्ध्यक्षराण्युत्तराणि ।
एते स्वरा ह्यपरो दीर्घवत्प्लुतोऽनुस्वारो व्यञ्जनं वा स्वरो वा १
सर्वः शेषो व्यञ्जनान्येव तेषामाद्याः स्पर्शाः पञ्च ते पञ्चवर्गाः ।
चतस्रोऽन्तस्थास्तत उत्तरेऽष्टा ऊष्माणोऽन्त्या सप्त तेषामघोषाः २
वर्गे वर्गे च प्रथमावघोषौ युवमौ सोष्माणावनुनासिकोऽन्त्यः ।
तस्मादन्यमवसाने तृतीयं गार्ग्य स्पर्शं प्रथमं शाकटायनः ॥ ३
ओजा ह्रस्वाः सप्तमान्ताः स्वराणाम् अन्ये दीर्घा उभये त्वक्षराणि ।
गुरूणि दीर्घाणि यथेतरेषां संयोगानुस्वारपराणि यानि ॥ ४
अनुस्वारो व्यञ्जनम् चाक्षराङ्गं स्वरान्तरे व्यञ्जनान्युत्तरस्य ।
पूर्वस्यानुस्वारविसज्जनीयौ सयोगादिर्वा च परक्रमे द्वे ॥ ५ १
मात्रा ह्रस्वम् तावदवग्रहान्तरं द्वे दीर्घस्तिस्रः प्लुत उच्यते स्वरः ।
अधः स्विदासीदुपरि स्विदासीदर्थे प्लुतिर्भीरिव विन्दतींत्रिः ॥ ६
स्वरभक्तिः पूर्वभागक्षराङ्गं द्राघीयसी सार्धमात्रेतरे च ।
अर्धोनान्या रक्तसज्ञोऽनुनासिकः संयोगस्तु व्यञ्जनसनंनिपातः ॥ ७
कण्ठ्योऽकारः प्रथमपञ्चमौ च द्वा ऊष्मणा केचिदेता उरस्यौ ।
ऋकारल्कारावथ षष्ठ ऊष्मा जिह्वामूलीयाः प्रथमश्च वर्गः ॥ ८
तालव्यावेकारचकारवर्गाविकारैकारौ यकारः शकारः ।
मूर्धन्यौ षकारटकारवर्गौ दन्तमूलीयस्तु तकारवर्गः ॥ ९
सकाररेफलकाराश्च रेफं बर्स्व्यमेके शष ओष्ठ्योऽपवाद्य ।
नासिक्यान् नासिक्ययमानुस्वारान् इति स्थानान्यत्र यमोपदेशः ॥ १० २
जिह्रामूलं तालु चाचार्य आह स्थानं डकारस्य तु वेदमित्रः ।
द्वयोश्चास्य स्वरयोर्मध्यमेत्य सम्पद्यते स डकारो ळकारः ॥ ११
ळहकारतामेति स एव चास्य ढकार सन्नुष्मणा संप्रयुक्तः ।
इळा साळ्हा चात्र निदर्शनानि वीड्वङ्ग इत्येतदवग्रहेण ॥ १२
न्यायैर्मिश्रानपवादान्मतीयात् सर्वशास्त्रार्थं प्रतिकण्ठमुक्तम् ।
स्थानप्रश्लेषोपदेशे स्वराणा ह्रस्वादेशे ह्रस्वदीर्घौ सवर्णौ ॥१३
असावमुमिति तद्धावमुक्तं यथान्तरं पादवच्चैव प्रैषान् ।
प्राक्चानार्षादितिकरणात्पदान्तांस्तद्युक्तानां तेन येऽसंहितानाम् ॥ १४
सामवशा इति चैवापवादान् कुर्वन्ति ये संपदं पादवृत्तयोः ।
अप्रत्याम्नाये पदवञ्च पद्यान् ऋते नतोपाचरितक्रमस्वरान् ॥ १५ ३
अष्टावाद्यानवसानेऽप्रगृह्मानाचार्या आहुरनुनासिकान्स्वरान् ।
तत्त्रिमात्रे शाकल दर्शयन्त्याचार्यशास्त्रापरिलोपहेतवः ॥ १६
ऋकारादयो दश नामिनः स्वराः पूर्वो नन्ता नतिषु नम्यमुत्तरम् ।
सहोपधोऽरिफित एकवर्णवद्विसर्जनीयः स्वरघोषवत्परः ॥ १७
ओकार आमन्त्रितजः प्रगृह्यः पदं चान्योऽपूर्वपदान्तगश्च ।
षष्ठादयश्च द्विवचोऽन्तभाजस्त्रयो दीर्घाः साप्तात्रकौ च पर्वौ ॥ १८
अस्मे युष्मे त्वे अमी च प्रगृह्या उपोत्तमं नानुदात्तं न पद्यम् ।
उकारश्चेतिकरणेन युक्तो राक्तोऽपुक्तो द्राघितः शाकलेन ॥ १९
ऊष्मा रेफी पञ्चमो नामिपूर्वो महोऽपोवर्ज्जमितरो यथोक्तम् ।
अन्तोदात्तमन्तरक्षार्विपर्यये स्पर्शे चोषः प्रत्यये पूर्वपद्यः ॥ २० ४
प्रातर्देवं भार्वधराद्युदात्तं करनुदात्तम्? अबिभस्तदादः ।
स्तः प्रागाथमे तशे कर्दिवे कर् अपस्करत्सारविपूर्वमस्तः ॥ २१
स्वः स्वरितं न समासाङ्गमुत्तरं स्वरादेशोऽपूर्वपदेष्ववर्महः ।
अनर्घर्चान्ते स्वरघोषवत्परमूधर्न रेफेऽरुषासोऽतृणन्मही ॥ २२
वरवरावरिति चैकपादे व्यपपूर्वारयसमासाङ्गयोगे ।
पथ्या मघोनी दिवि चक्षसा मदे पूर्वोऽर्चिषातीतृषामोत्तरेषु न ॥ २३
होतः सनितः पोतर्नेष्टः सोतः सवितर्नेतस्त्वष्टः ।
मातर्जनितर्भ्रातस्त्रातस्थातर्जरितर्धातर्धर्तः ॥ २४
जामातर्दुहितर्दर्तः प्रशास्तरवितः पितः ।
दोषावस्तरवस्पर्तः प्रयन्तश्चेङ्ग्यमुत्तमम् ॥ २५
दीधरभारवरीवरदर्दर् दर्दरदर्धरजागरजीगः ।
वारपुनः पुनरस्परक स्पः सस्वरहः सनुतः सबरस्वाः २६ ५
इति ऋग्वेदप्रातिशाख्ये प्रथमं पटलम्
द्वितीयं पटलम्
अथ द्वितीयं पटलम्
सहिता पदप्रकृतिः पदान्तान् पदादिभिः सन्दधदेति यत्सा ।
कालाव्यवायेन स्वरान्तरं तु विवृत्ति सा वा स्वरभक्तिकाला ॥ १
पदान्तादिष्वेव विकारशास्त्र पदे दृष्टेषु वचनाल्पतीयात् ।
पद पदान्तादिवदेकवर्णं प्रश्लिष्टमच्मानुपूर्व्येण सधीन् ॥ २
एष ख्य स च स्वराश्च पूर्वे भवन्ति व्यञ्जनमुत्तर यदैभ्य ।
तेऽन्वक्षरसधयोऽनुलोमा प्रतिलोमास्तु विपर्यये प एव ॥ ३
तत्र प्रथमास्तुतीयभाव प्रतिलोमेषु नियन्त्यथेतरेषु ।
ऊष्मा परिलुप्यते त्रयाणा स्वरवर्ज न त यत्र तानि पद्या ॥ ४
पुरएता तितउना प्रउग नमउक्तिभिभः ।
अन्तः पदं विवृत्तयो अतोऽन्या पदसंधिषु ॥ ५ १
समानाक्षरे सस्थाने दीर्घमेकमुभे स्वरम् ।
इकारोदय एकारमकारः सोदयस्तथा ॥ ६
उकारोदय ओकारं परेष्वैकारमोजयोः ।
औकारं ग्वमयोरेते प्रश्लिष्टा नाम संधयः ॥ ७
समानाक्षरमन्तस्थां स्वामकण्ठ्यं स्वरोदयम् ।
न समानाक्षरे स्वे स्वे ते क्षैप्राः प्राकृतोदयाः ॥ ८
विसर्ज्जनीयोऽरिफितो दीर्घपूर्वः स्वरोदयः
आकारमुत्तमौ च द्वौ स्वरौ ता पदहत्तयः ॥ ९
ह्रस्वपूर्वस्तु सोऽकारं पूर्वौ चोपोत्तमाक्त्स्वरौ ।
त उद्ग्राहा दीर्घपरा उद्याहपदवृत्तयः ॥ १० २
ओष्ठ्ययोन्योर्भुग्नमनोष्ठ्ये वकारोऽत्रान्तरागमः ।
ऋकार उदये कण्ठ्यावकारं तदुद्ग्राहवत् ॥ ११
उद्ग्राहाणां पूर्वरूपाण्यकारे प्रकृत्या द्वे ओ भवत्येकमाद्यम् ।
प्राच्यपञ्चालपदवृत्तयस्ताः पञ्चालानामोष्ठ्यपूर्वा भवन्ति ॥ १२
अथाभिनिहित सधिरेतैः प्राकृतवैकृतैः ।
एकीभवति पादादिरकारस्तेऽत्र सन्धिजाः १३
अन्तः पादमकाराञ्चेत् संहितायां लघोर्लघु ।
यकाराद्यक्षरं परं वकाराद्यपि वा भवेत् ॥ १४
अन्याद्यपि तथायुक्तमावोऽन्तोपहितात्सतः ।
अयेऽयोऽवेऽव इत्णन्तैरकारः सर्वथा भवन् ॥ १५ ३
व इत्येतेन चा न प्र क्व चित्र सवितेव कः ।
पदैरुपहितेनैतैः सर्वैरेवोदयाः परे ॥ १६
अदादवर्त्रोऽजनयन्ताव्यत्या अभेदयोऽपाष्टिरवन्त्ववीरता ।
अमुमुक्तनममतयेऽनशामहा अव त्वचोऽवीरतेऽवांस्यवोऽरथाः ॥ १७
वासोवायोऽभिभुवे कवष्यः संक्रन्दनो धीजवनः स्वधावः
उत्सादत ऋतावः सगर्भ्यो हिरण्यप्रशृङ्ग इति चोपधाभिः ॥ १८
येऽरा रायोऽध मेऽधायि नोऽहिरग्नेऽभिदासति ।
जायमानोऽभवोऽग्नेऽयं नृतोऽपोंहोऽतिपिप्रति ॥ १९
जम्भयन्तोऽहिं मरुतोऽनुभर्त्री यवसेऽविष्यन्वयुनेऽजनिष्ट ।
वृत्रहत्येऽवीः समरेऽतमाना मरुतोऽमदन्नभितोऽनवन्त ॥ २० ४
ब्रुवतेऽध्वस्तेवसेऽवाचि मेऽरपद्दधिरेऽग्ना नहुषोऽस्मत्पुरोऽभिनत् ।
उष तेऽधां वहतेऽयं यमोऽदितिर्जनुषोऽया सुवितोऽनु श्रियोऽधित ॥ २१
वपुषेऽनु विशोऽयन्त सन्तोऽवद्यानि खेऽनसः ।
भरन्तोऽवस्यवोऽवोऽस्तु बुध्न्योऽजो मायिनोऽधमः ॥ २२
देवोऽनयत्पुरूवसोऽसुरघ्रो भूतोऽभि श्वेतोऽरुषस्तेन नोऽद्य ।
येऽजामयस्तेऽरदकेऽधिवक्ता तेऽवर्धन्त तेऽरुरेणिभिः सदोऽधि ॥ २३
स्वाध्योऽजनयन्धन्वनोऽभिमातीरग्नेऽप दह मनसोऽधि योऽध्वनः ।
योऽह्मस्तेऽविन्दंस्तपसोऽधि न योऽधि पादोऽस्य योऽति ब्राह्मणोऽस्य योऽनयत् ॥ २४
सोऽस्माकं यो द्वेषोभ्योऽन्यकृतेभ्यस्तेभ्योऽकरं पयस्वन्तोऽमृताश्च ।
अन्योऽर्वाकेऽथो इति नोदयेषु पुत्रः पराके च परावतश्च ॥ २५ ५
अन्तः पादं च वयो अन्तरिक्षे वयो अस्याश्रथयो हेतयस्त्रयः ।
वो अन्धसः शयवे अश्विनोभये श्रवो अधि सार्ञ्जयो जामयः पयः ॥ २६
प्रकृत्येतिकरणादौ प्रगृह्याः स्वरेषु चाष्यां प्रथमो यथोक्तम् ।
सहोदयास्ताः प्रगृहीतपदाः सर्वत्रैव त्र्यक्षरान्तास्तु नेवे ॥ २७
आर्ष्यामेव सन्ध्ययकारपूर्वो विवृत्तेश्च प्रत्ययः सन्नुकारः ।
ऊकारादौ स्विति पूषेत्यकारे न चेत्तदेकाक्षरतत्रपूर्वम् ॥ २८
श्रद्धा सम्राज्ञी सुशमी स्वधोती पृथुज्रयी पृथिवीषा मनीषा ।
अया निद्रा ज्या प्रपेति स्वराणां मुख्ये परे पञ्चमषष्ठयोश्च ॥ २९
स्वरे पादादा उदये सचेति ष्वन्तं जोषं चर्षणीश्चर्षणिभ्यः ।
एकारान्तं मित्रयोरस्मदीवन् नमस्युरित्युपधं चेत्यपृक्तम् ॥ ३० ६
एकारौकारपरौ च कण्ठ्यौ लुशादर्वाग् गोतमे चामिनन्त ।
विभ्वा विधर्ता विपन्या कदा या मातेत्यृकारेऽप्यपादादिभाजि ॥ ३१
परुच्छेपे भीषा पथेत्यकार एवां अमिमत्रिषु सा प्लुतोपधा ।
सचादयो या विहिता विवृत्तयः प्लुतोपधान्ता अनुनासिकोपधाः ॥ ३२
सेदु सास्मिन्सेमभि साभिवेगः सेदृभवः सोपमा सौषधीरनु ।
सास्मा अरं सोत नः सेन्द्र विश्वा सेति सास्माकमनवद्य सासि ॥ ३३
सेदग्रे सेदग्निर्वासिष्ठं सास्माकेभिः सेदुग्नः सेमे ।
सैना सनं सेमं सोदञ्च सेमा सोषां सेशे सेदीशे ॥ ३४
नू इत्था ते सानो अव्ये वो अस्मे वासौ वेद्यस्याम् ।
धिष्ण्येमे नू अन्यत्रा चित् पादादौ नू इन्द्रोत्यर्वाक् ॥ ३५
उदू अयान्नजेषितं धनर्च्य शतर्चसं दशोणये दशोण्ये ।
यथोहिषे यथोचिषे दशोणिं स्वरोदयं पिबा इमं रथोळ्ह ॥ ३६
वीरास एतन तमू अकृण्वंस्ततारेव प्रैषयू रोदसीमे ।
धन्वर्णसः सरपसः सचोत प्रधीव वीळू उत सर्तवाजौ ॥ ३७
अश्विनेव पीवोपवसनानां महो आदित्यां उषसामिवेतयः ।
स्तोतव अम्ब्यं च सृजा इयध्यै सचेन्द्र सानो अव्यये स्वधामिता ॥ ३८
गोओपशागोऋजीकप्रवादौ मनीषा आ त्वा पृथिवी उत द्यौः ।
मनीषावस्यू रणया इहाव बृहतीइवेति च यथागृहीतम् ॥ ३९
योनिमारैगगादारैगरौग्दुर्योण आवृणक् ।
हन्त्यासदृप आरुपितमनायुधास आसता ॥ ४० ८
अस्त्वासतो निराविध्यदभ्यादेवं क आसतः ।
न्यावृणङ्गकिरादेवो न्याविध्यदेनमायुनक् ॥ ४१
अहिहन्निरिणक्पथ आयुक्षातामुदावता ।
रिक्थमारैग्य आयुक्त कुरुश्रवणमावृणि ॥ ४२
शुनश्चिच्छेपं निदितं नरा वा शंसं पूषणम् ।
नरा च शंसं दैव्यं ता अनानुपूर्व्यसंहिता ॥ ४३
यतो दीर्घस्ततो दीर्घा विवृत्तयो द्विषंधयस्तूभयतः स्वरस्वराः ।
प्राच्यपञ्चालउपधानिभोदयाः शाकल्यस्य स्थविरस्ये तरा स्थितिः ॥ ४४ ९
इति ऋग्वेदप्रातिशाख्ये द्वितीयं पटलम्
तृतीयं पटलम्
अथ तृतीयं पटलम्
उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः ।
आयामविश्रामाक्षेपैस्त उच्यन्तेऽक्षराश्रयाः ॥ १
एकाक्षरसमावेशे पूर्वयोः स्वरितः स्वरः ।
तस्योदात्ततरोदात्तादर्धमात्रार्धमेव वा ॥ २
अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् ।
उदात्तं वोच्यते किञ्चित्स्वरितं वाक्षरं परम् ॥ ३
उदात्तपूर्वं स्वरितमनुदात्तं पदेऽक्षरम् ।
अतोऽन्यत्स्वरितं स्वारं जात्यमाचक्षते पदे ॥ ४
उभाभ्यां तु परं विद्यात्ताभ्यामुदात्तमक्षरम् ।
अनेकमप्यनुदात्तं न चेत्पूर्वं तथागतात् ॥ ५ १
उदात्तवत्येकीभाव उदात्तं सन्ध्यमक्षरम् ।
अनुदात्तोदये पुनः स्वरितं स्वरितोपधे ॥ ६
इकारयोश्च प्रश्लेषे क्षैप्राभिनिहितेषु च ।
उदात्तपूर्वरुषेषु शाकल्यस्यैवमाचरेत् ॥ ७
माण्डूकेयस्य सर्वेषु प्रश्लिष्टेषु तथा स्मरेत् ।
इत्येकीभाविनां धर्माः परैः प्रथमभाविनः ॥ ८
उदात्तपूर्वं नियतं विवृत्त्या व्यञ्जनेन वा ।
स्वर्यतेऽन्तर्हितं न चेदुदात्तस्वरितोदयम् ॥ ९
वैवृत्ततैरोव्यञ्जनौ क्षैप्राभिनिहितौ च तान् ।
प्रश्लिष्टं च यथासन्धि स्वारानाचक्षते पृथक् ॥ १०
स्वरितादनुदात्तानां परेषां प्रचयः स्वरः ।
उदात्तश्रुतितां यान्त्येकं द्वे वा बहूनि वा ॥ ११
केचित्त्वेकमनेकं वा नियच्छन्त्यन्ततोऽक्षरम् ।
आ वा शेषान्नियुक्तं तूदात्तस्वरितोदयम् ॥ १२
नियमं कारणादेके प्रचयस्वरधर्मवत् ।
प्रचयस्वर आचारः शाकल्यान्यतरेययोः ॥ १३
परिग्रहे त्वनार्षान्तात् तेन वैकाक्षरीकृतात् ।
परेषाम् न्यासमाचारं व्याळिस्तौ चेत्स्वरौ परौ ॥ ४
यथा सन्धीयमानानामनेकीभवतां स्वरः ।
उपदिष्टस्तथा विद्यादक्षराणामवग्रहे ॥ १५ ३
पद्यादींस्तु व्द्युदात्तानामसंहितवदुत्तरान् ।
जात्यवद्वा तथा वान्तौ तनू शचीति पूर्वयोः ॥ १६
त्रिमात्रयोरुत्तरयोरन्त्यापि प्रचयस्वरे ।
मात्रा न्यस्ततरैकेषामुभे व्याळिः समस्वरे ॥ १७
असन्दिग्धान्स्वरान्ब्रूयात् अविकृष्टानकम्पितान् ।
स्वरितं नतिनिर्हण्यान् पूर्वौ नातिविवर्तयेत् ॥ १८
जात्योऽभिनिहितश्चैव क्षैप्रः प्रश्लिष्ट एव च ।
एते स्वाराः प्रकम्पन्ते यत्रोञ्चस्वरितोदयाः ॥ १९ ४
इति ऋग्वेदप्रातिशाख्ये तृतीयं पटलम्
चतुर्थं पटलम्
अथ चतुर्थं पटलम्
स्पर्शाः पूर्वे व्यञ्जनान्युत्तरारायास्थापितानामवशङ्गमम् तत् ।
घोषवत्पराः प्रथमास्तृतीयान् स्वानुत्तमानुत्तमेषूदयेषु ॥ १
सर्वैः प्रथमैरुपधीयमानः शकारः शाकल्यपितुश्छकारम् ।
पदान्तैस्तैरेव तृतीयभूतैस्तेषां चतुर्थानुदयो हकारः ॥ २
विस्याने स्पर्शे उदये मकारः सर्वेषामेवोदयस्योत्तमं स्वम् ।
अन्तस्थासु रेफवर्जं परासु तां तां पदादिष्वनुनासिकां तु ॥ ३
तथा नकार उदये मकारः ञकारं शकारचकारवर्जयोः ।
तकारो जकारलकारयोस्तौ तालव्येऽघोष उदये चकारम् ॥ ४
छकारं तयोरुदयः शकारो न शाकल्यस्य ता वशङ्गमानि ।
रेफोष्मणोरुदययोर्मकारोऽनुस्वारं तत्परिपत्रमाहुः ॥ ५ १
ङकारेऽघोषोष्मपरेनतरैके ककारं टकारनकारयोस्तु ।
आहुः सकारोदययोस्तकारं ञकारे शकारपरे चकारम् ॥ ६
तेऽन्तःपाता अकृतसंहितानामूष्मान्तानां पटलेऽस्मिन्विधानम् ॥
चित्कम्भनेनोष्मलोपः ककुद्मान् सत्वाट्शब्दः परिपन्नापवादः ॥ ७
विसर्जनीय आकारमरेफी घोषवत्परः ।
ओकारं ह्रस्वपूर्व स्तौ सन्धी नियतप्रश्रितौ ॥ ८
सर्वोपधस्तु स्वरघोषवत्परो रेफं रेफी तु पुना रेफसन्धयः ।
रेफोदयो लुप्यते द्राघितोपधा ह्रस्वस्या कामनियता उभाविमौ ॥ ९
अघोषे रेफ्यरेफी चोष्मणां स्पर्श उत्तरे ।
तत्सस्थानमनूष्मपरे तमेवोष्माणमूष्मिणि ॥ १० २
प्रथमोत्तमवर्गीये स्पर्शे वोष्मणि चानते ।
व्यापन्न ऊष्मसन्धिः स विक्रान्तः प्राकृतोपधः ॥ ११
ऊष्मण्यघोषोदये लुप्यते परे नतेऽपि सोऽन्वक्षरसधिर्वक्त्रः ।
अव्यापत्तिः कखषफेषु वृत्ती रेफ स्वर्धूः पूरघोषेष्वविग्रहे ॥ १२
नाक्षा इन्दुः स्वधितीवाह एव भूम्याददेऽहोभिरुषर्वसूयवः ।
आवर्तमोऽहोरात्र्याण्यदो पितो प्रचेता राजन्वर्तनीरहेति च ॥ १३
यथादिष्टं नामिपूर्वः षकारं सकारमन्योऽरिफितः ककारे ।
षकारे च प्रत्ययेऽन्तःपदं तु सर्वत्रैवोपाचरितः स सधिः । १४
अन्तःपादं विग्रहेऽकारपूर्वः पतिशब्दे द्व्यक्षरे पुंस्प्रवादे ।
करं कृतं कृधि करत्करित्यपि परेषु पादान्तगते परीति च ॥ १५ ३
असोऽन्तोऽरेफवतः पारशब्दे परि कृतानि करतीति चैषु ।
अपादान्तीयेष्वपि प्रत्ययेषु वास्तोरित्थेतत्पतिशब्द उत्तरे ॥ १६
आविर्हविर्ज्योतिरित्युत्तरश्चेत् ककारोऽथो पान्तपश्यन्तिशब्दौ ।
इळाया गा नमसो देवयुर्द्रुहो मातुरिळस्तानि पदप्रवादे ॥ १७
पूर्वं पुरः पूरिति पूर्वपद्यान् पदानि चापोद्य नवैतदेवम् ।
अस्या यः सोमो बृहतोऽस्य पूर्व्य उरुज्योतिर्जात इमो वृधोऽन्यः ॥ १८
ब्रह्मणो द्वे त्रातऋतो विदुर्वसुः पशुरेतानि कविशब्द उत्तरे ।
पथिशब्दे जिन्वथश्चेतथोमहः पृथुशब्दे विश्वतो वीळितो रज ॥ १९
कामपोषपूर्धिशब्देषु रायः पादादिरन्तश्च दिवस्परीति च ।
दिवस्पृथिव्या अधमस्पवीष्ट पूर्वं पादादौ यदि सस्पदीष्ट ॥ २० ४
शवसो महः सहस इळायाः पात्वित्येकं पुत्रशब्दे पराणि ।
रायस्खां महस्करथो महस्परं निष्क्रव्यादं निष्कथ निष्पिपर्तन ॥ २१
कबन्धं म्पृथु कण्वासः पुत्रः पातु पथा पयः ।
पायुः पृष्ठं पदं तेषां प्रवादा उदये दिवः ॥ २२
रजसस्पात्यन्तस्पथाः कस्काव्या चतुरस्कर ।
स्वादुष्किल निदस्पातु द्यौष्पितर्वसतिष्कृता ॥ २३
तपोष्पवित्रम् त्रिष्पूत्वी धीष्पीपाय विभिष्पतात् ।
द्यौष्पिता रजसस्पृष्टो ददुष्पज्राय नस्करः ॥ २४
वसुष्कुविन्मनुष्पिता पितुष्पिता पितुष्परि
प्र णस्पुरो मयस्करन् नभस्पयस्त्रयस्परः ॥ २५ ५
नकार आकारोपधः पद्यान्तोऽपि स्वरोदयः ।
लुप्यतेऽज्राञ्जग्रसानाञ्जघन्वान्देवहुतमान् ॥ २६
बद्वधानां इन्द्र सोमांस्तृषाणान् नो देव देवान् ।
हन्त देवां इति चैता आन्यदा पदवृत्तयः ॥ २७
विवृत्त्यभिप्रायेषु च पीवोअन्नां रयिवृधः ।
दधन्वां यो जुजुर्वां यः स्ववां या तु दद्वां वेति ॥ २८
हतं योनौ वचोभिर्यान् युवन्यूंर् वनिषीष्टेति ।
ईकारोकारोपहितो रेफमेषु स्वरेषु च ॥ २९
दस्यूंरको नॄ रभि च ते स्पर्शरेफसन्धयह् ।
नास्मानुपैतावान्स्फुरान् गच्छान् देवानयाड्वहान् ॥ ३० ६
हिरण्यचक्रान्मायावान् घोषांस्तानश्विनाविद्वान् ।
पयस्वान्पुत्राना धेह्या यजीयानपतीनुरोः ॥ ३१
चरति चक्रे चमसांश्च चो चिच् चरसि च्यौत्नश्चतुरश्चिकित्वान् ।
एतेषु सर्वत्र विसर्जनीयवत् दीर्घोपधोऽस्मान् चमसान्पशून्न ॥ ३२
तांस्ते सर्वास्तान्देवांस्त्वं तांस्त्रायस्वावदंस्त्वं च ।
विसर्जनीयम् परेष्विति ते सपर्शोष्मसन्धयः ॥ ३३
नॄंः पतिभ्यो नॄंः प्रणेत्रं नॄंः पात्रं स्वतवांः पायुः ।
सन्धिर्विक्रान्त एवैष न पाहि शृणुधीति च ॥ ३४
नकारस्य लोपरेफोष्मभावे पूर्वस्तत्स्थानादनुनासिकः स्वरः ।
आदिस्वरश्चोत्तरेषां पदेऽपि मांस्पचन्या मांश्चत्वे मंश्चतोश्च ॥ ३५ ७
ईमित्यन्तलोप एषूदयेषु गर्भं गावो वत्स मृजन्ति पृच्यते ।
सखायो विव्याच पुना रिणन्ति रथमित्यन्वक्षरसन्धिरेव सः ॥ ३६
पुरु पृथ्वधि पूर्वेषु शकार उपजायते ।
ह्रस्वे च पर्वपद्यान्ते चन्द्रशब्दे परेऽन्तरा ॥ ३७
परीति पद्ये कृपरे षकारो वनेति रेफः सदशब्द उत्तरे ।
परिष्कृण्वन्ति वेधसोऽस्कृतोषसं शौद्धाक्षराः सन्धय एत उक्ताः ॥ ३८
मेधातिथौ वरुणान्तव्रतान्तौ स्पर्शन्तस्थाप्रत्ययौ निर्ह्रसेते ।
आदित्या देवा वरुणासुरेति येत्यादिषु वयमित्यत्र मित्रा ॥ ३९
या सुप्रतीकं निष्कृतम् पुरोहितिः क्षत्रं दाशति शवसा भिषज्यथः ।
सो चिन्वगस्त्ये दशमे च मण्डले सा न्वीयते सः पलिक्नीर्हिषस्तव ॥ ४०
जुगुक्षतो दुदुक्षन्गा अदुक्षत् दुक्षन् वृधेऽस्य दुक्षतानु दक्षि ।
दक्षन्न पष्पन्दक्षुषोऽभि दक्षत् कृष्णासो दक्षि हियानस्य दक्षोः ४१ ८
इति ऋग्वेदप्रातिशाख्ये चतुर्थं पटलम्
Read more