Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
    • Supreme Court Case Notes
    • Daily Digest
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
    • Systemic-and-systematic
    • Volume One
06/04/2026

ईश्वरप्रत्यभिज्ञाकारिका-Iswara Pratyavigya karika by Utpaldeva

advtanmoy 28/10/2022 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Shiva Shakti

Home » Law Library Updates » ईश्वरप्रत्यभिज्ञाकारिका-Iswara Pratyavigya karika by Utpaldeva

Isvara Pratyabhijna Karika of Utpaladeva

Saivagama from Kashmir

प्रत्यभिज्ञा

ज्ञानाधिकारः 

प्रथमाह्निकम् – उपोद्धातः


कथञ्चिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन् ।
समस्तसम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि ।।

Read Next

  • Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations
  • Computer Science: From its theoretical origins up to 2026
  • Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे ।
अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ।। १,१.१ ।।

किन्तु मोहवशादस्मिन्दृष्टेऽप्युपलक्षिते ।
शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते ।। १,१.२ ।।

तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया ।
ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ।। १,१.३ ।।

तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती ।
परैपप्युपलक्ष्येत तथान्यज्ञानमूह्यते ।। १,१.४ ।।

Read Next

  • Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations
  • Computer Science: From its theoretical origins up to 2026
  • Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

इति प्रथमाह्निकम् ।

इति ज्ञानाधिकारे प्रथममाह्निकम् ॥

द्वितीयमाह्निकम् ॥

Read Next

  • Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations
  • Computer Science: From its theoretical origins up to 2026
  • Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः ।
साभिलापं विकल्पाख्यं बहुधा नापि तद्द्वयम् ॥ १,२.१ ॥

नित्यस्य कस्य चिद्द्रष्टुस्तस्यात्रानवभासतः ।
अहंप्रतीतिरप्येषा शरीराद्यवसायिनी ॥ १,२.२ ॥

अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी ।
कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः ॥ १,२.३ ॥

सत्याप्यात्मनि दृङ्नाशात्तद्द्वारा दृष्टवस्तुषु ।
स्मृतिः केनाथ यत्रैवानुभवस्तत्पदैव सा ॥ १,२.४ ॥

यतो हि पूर्वानुभव- संस्कारात्स्मृतिसंभवः ।
यद्येवमन्तर्गडुना कोऽर्थः स्यात्स्थायिनात्मना ॥ १,२.५ ॥

ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह् ।
संस्कारात्स्मृइतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः ॥ १,२.६ ॥

ज्ञानं च चित्स्वरूपं चेत्तदनित्यं किमात्मवत् ।
अथापि जडमेतस्य कथमर्थप्रकाशता ॥ १,२.७ ॥

अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः ।
चैतन्यमजडा सैवं जाड्ये नार्थप्रकासता ॥ १,२.८ ॥

क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता ।
नान्यादृष्टेर्न साप्येका क्रमिकैकस्य चोचिता ॥ १,२.९ ॥

तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते ।
नान्यन्नान्योऽस्ति संबन्धः कार्यकारणभावतः ॥ १,२.१० ॥

द्विष्ठस्यानेकरूपत्वात्सिद्धस्यान्यानपेक्षणात् ।
पारतन्त्र्याद्ययोगाच्च तेन कर्तापि कल्पितः ॥ १,२.११ ॥

तृतीयमाह्निकम् ॥

सत्यं किं तु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः ।
जातमप्यात्मनिष्ठं तन्नाद्यानुभववेदकम् ॥ १,३.१ ॥

दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् ।
रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः ॥ १,३.२ ॥

अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः ।
दृष्टालम्बनता भ्रान्त्या तदेतदसमञ्जसम् ॥ १,३.३ ॥

स्मृतितैव कथं तावद्भ्रान्तेश्चार्थस्थितिः कथम् ।
पूर्वानुभवसंकारापेक्षा च किमितीष्यते ॥ १,३.४ ॥

भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः ।
ततोऽजाड्ये निजोल्लेख- निष्ठान्नार्थस्थितिस्ततः ॥ १,३.५ ॥

एवमन्योन्यभिन्नानामपरस्परवेदिनाम् ।
ज्ञानानामनुसंधान- जन्मा नश्येज्जनस्थितिः ॥ १,३.६ ॥

न चेदन्तःकृतानन्त- विश्वरूपो महेश्वरः ।
स्यादेकश्चिद्वपुर्ज्ञान- स्मृत्यपोहनशक्तिमान् ॥ १,३.७ ॥

इति ज्ञानाधिकारे तृतीयमाह्निकम् ॥

चतुर्थमाह्निकम् ॥

स हि पूर्वानुभूतार्थोपलब्धा परतोऽपि सन् ।
विमृशन् स इति स्वैरी स्मरतीत्यपदिश्यते ॥ १,४.१ ॥

भासयेच्च स्वकालेऽर्थात्पूर्वाभासितमामृशन् ।
स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना ॥ १,४.२ ॥

न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम् ।
तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ॥ १,४.३ ॥

नैव ह्यनुभवो भाति स्मृतौ पूर्वोऽर्थवत्पृथक् ।
प्रागन्वभूवमहमित्यात्मारोहणभासनात् ॥ १,४.४ ॥

योगिनामपि भासन्ते न दृशो दर्शनान्तरे ।
स्वसंविदेकमानास्ता भान्ति मेयपदेऽपि वा ॥ १,४.५ ॥

स्मर्यते यद्दृगासीन्मे सैवमित्यपि भेदतः ।
तद्व्याकरणमेवास्या मया दृष्टमिति स्मृतेः ॥ १,४.६ ॥

या च पश्याम्यहमिमं घटोऽयमिति वावसा ।
मन्यते समवेतं साप्यवसातरि दर्शनम् ॥ १,४.७ ॥

तन्मया दृश्यते दृष्टोऽयं स इत्यामृशत्यपि ।
ग्राह्यग्राहकताभिन्नावर्थौ भातः पमातरि ॥ १,४.८ ॥

इति ज्ञानाधिकारे चतुर्थमाह्निकम् ॥

पञ्चमह्निकम् ॥

वर्तमानावभासानां भावानामवभासनम् ।
अन्तःस्थितवतामेव घटते बहिरात्मना ॥ १,५.१ ॥

प्रागिवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना ।
न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता ॥ १,५.२ ॥

भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत् ।
प्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशश्च सिद्ध्यति ॥ १,५.३ ॥

तत्तदाकस्मिकाभासो बाह्यं चेदनुमापयेत् ।
न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुता ॥ १,५.४ ॥

न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात् ।
तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनम् ॥ १,५.५ ॥

स्यादेतदवभासेषु तेष्वेवावसिते सति ।
व्यवहारे किमन्येन बाह्येनानुपपत्तिना ॥ १,५.६ ॥

चिदात्मैव हि देवोऽन्तः- स्थितमिच्छावशाद्बहिः ।
योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥ १,५.७ ॥

अनुमानमनाभात- पूर्वे नैवेष्टमिन्द्रियम् ।
आभातमेव बीजादेराभासाद्धेतुवस्तुनः ॥ १,५.८ ॥

आभासः पुनराभासद्बाह्यस्यासीत्कथं चन ।
अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः ॥ १,५.९ ॥

स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् ।
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥ १,५.१० ॥

स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥ १,५.११ ॥

आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता ।
तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः ॥ १,५.१२ ॥

चितिः प्रत्यवमर्शात्मा परा वाक्स्वरसोदिता ।
स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः ॥ १,५.१३ ॥

सा स्फुरत्ता महासत्ता देशकालाविशेषिनी ।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥ १,५.१४ ॥

आत्मानमत एवायं ज्ञेयीकुर्यात्पृथक्स्थिति ।
ज्ञेयं न तु तदौन्मुख्यात्खण्ड्येतास्य स्वतन्त्रता ॥ १,५.१५ ॥

स्वातन्त्र्यामुक्तात्मानं स्वातन्त्र्यादद्वयात्मनः ।
प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥ १,५.१६ ॥

नाहन्तादिपरामर्श- भेदादस्यानयतात्मनः ।
अहंमृश्यतयाइवास्य सृष्तेस्तिङ्वाच्यकर्मवत् ॥ १,५.१७ ॥

मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा ।
कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः ॥ १,५.१८ ॥

साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा ।
धावनाद्युपपद्येत प्रतिसंधानवर्जितम् ॥ १,५.१९ ॥

घटोऽयमित्यध्यवसा नामरूपातिरेकिणी ।
परेशशक्तिरात्मेव भासते न त्विदन्तया ॥ १,५.२० ॥

केवलं भिन्नसम्वेद्य- देशकालानुरोधतः ।
ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते ॥ १,५.२१ ॥

इति ज्ञानाधिकारे पञ्चममाह्निकम् ॥

षष्ठमाह्निकम् ।।

अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः ।
नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः ॥ १,६.१ ॥

भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः ।
प्रकाशस्येव नान्यस्य भेदिनस्त्ववभासनम् ॥ १,६.२ ॥

तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् ।
तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम् ॥ १,६.३ ॥

चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः ।
देहे बुद्धावथ प्राणे कल्पिते नभसीव वा ॥ १,६.४ ॥

प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात् ।
विकल्प एव स पर- प्रतियोग्यवभासजः ॥ १,६.५ ॥

कादाचित्कावभासे या पूर्वाभासादियोजना ।
संस्कारात्कल्पना प्रोक्ता सापि भिन्नावभासिनि ॥ १,६.६ ॥

तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् ।
भान्तमेवान्त अर्थौघमिच्छया भासयेद्बहिः ॥ १,६.७ ॥

एवं स्मृतौ विकल्पे वाप्यपोहनपरायणे ।
ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम् ॥ १,६.८ ॥

किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि ।
पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु ॥ १,६.९ ॥

स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि ।
यथाभिमतसंस्थानाभासनाद्बुद्धिगोचरे ॥ १,६.१० ॥

अत एव यथाभीष्ट- समुल्लेखावभासनात् ।
ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः ॥ १,६.११ ॥

इति ज्ञानाधिकारे षष्ठमाह्निकम्

सप्तममाह्निकम्

या चैषा प्रतिभा तत्तत्- पदार्थक्रमरूषिता ।
अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥ १,७.१ ॥

तत्तद्विभिन्नसंवित्ति- मुखैरेकप्रमातरि ।
प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते ॥ १,७.२ ॥

देशकालक्रमजुषामर्थानां स्वसमापिनाम् ।
सकृदाभाससाध्योऽसावन्यथा कः समन्वयः ॥ १,७.३ ॥

प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम् ।
कार्यकारणतासिद्धि- हेतुतैकप्रमातृजा ॥ १,७.४ ॥

स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसंभवे ।
पूर्वानुभवसद्भावे साधनं सैव नापरम् ॥ १,७.५ ॥

बाध्यबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम् ।
ज्ञानानामुदियादेक- प्रमातृपरिनिष्ठितेः ॥ १,७.६ ॥

विविक्तभूतलज्ञानं घटाभावमतिर्यथा ।
तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् ॥ १,७.७ ॥

नैवं शुद्धस्थलज्ञानात्सिद्ध्येत्तस्याघटात्मना ।
न तूपलब्धियोग्यस्याप्यत्राभावो घटात्मनः ॥ १,७.८ ॥

विविक्तं भूतलं शश्वद्भावानां स्वात्मनिष्ठितेः ।
तत्कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् ॥ १,७.९ ॥

किं त्वालोकचयोऽन्धस्य स्पर्शो वोष्णादिको मृदुः ।
तत्रास्ति साधयेत्तस्य स्वज्ञानमघटात्मताम् ॥ १,७.१० ॥

पिशाचः स्यादनालोकोऽप्यालोकाभ्यन्तरे यथा ।
अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥ १,७.११ ॥

एवं रूप्यविदाभाव- रूपा शुक्तिमतिर्भवेत् ।
न त्वाद्यरजतज्ञप्तेः स्यादप्रामाण्यवेदिका ॥ १,७.१२ ॥

धर्म्यसिद्धेरपि भवेद्बाधा नैवानुमानतः ।
स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥ १,७.१३ ॥

इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ ।
समलो विमलो वापि व्यवहारोऽनुभूयते ॥ १,७.१४ ॥

इति ज्ञानाधिकारे सप्तममाह्निकम् ॥

अष्टममाह्निकम् ॥

तात्कालिकाक्षसामक्ष्य- सापेक्षाः केवलं क्व चित् ।
आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु ॥ १,८.१ ॥

विशेषोऽर्थावभासस्य सत्तायां न पुनः क्व चित् ।
विकल्पेषु भवेद्भावि- भवद्भूतार्थगामिषु ॥ १,८.२ ॥

सुखादिषु च सौख्यादि- हेतुष्वपि च वस्तुषु ।
अवभासस्य सद्भावेऽप्यतीतत्वात्तथा स्थितिः ॥ १,८.३ ॥

गाढमुल्लिख्यमाने तु विकल्पेन सुखादिके ।
तथा स्थितिस्तथैव स्यात्स्फुटमस्योपलक्षणात् ॥ १,८.४ ॥

भावाभावावभासानां बाह्यतोपाधिरिष्यते ।
नात्मा सत्ता ततस्तेषामान्तराणां सतां सदा ॥ १,८.५ ॥

आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना ।
अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥ १,८.६ ॥

चिन्मयत्वेऽवभासानामन्त एव स्थितिः सदा ।
मायया भासमानानां बाह्यत्वाद्बहिरप्यसौ ॥ १,८.७ ॥

विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथः ।
प्रमात्रैकात्म्यमान्तर्यं ततो भेदो हि बाह्यता ॥ १,८.८ ॥

उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना ।
इच्छातो भर्तुरध्यक्ष- रूपोऽक्षादिभुवां यथा ॥ १,८.९ ॥

तदैक्येन विना न स्यात्संविदां लोकपद्धतिः ।
प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितम् ॥ १,८.१० ॥

स एव विमृशत्त्वेन नियतेन महेश्वरः ।
विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥ १,८.११ ॥

इति ज्ञानाधिकारेऽष्टमाह्निकम् ॥

इति ज्ञानाधिकारः ॥



क्रियाधिकारः 

प्रथममाह्निकम्॥

अत एव यदप्युक्तं क्रिया नैकस्य सक्रमा ।
एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात् ॥ २,१.१ ॥

सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः ।
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥ २,१.२ ॥

कालः सूर्यादिसंचारस्तत्तत्पुष्पादिजन्म वा ।
शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥ २,१.३ ॥

क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः ।
आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥ २,१.४ ॥

मूर्तिवैचित्र्यतो देश- क्रममाभासयत्यसौ ।
क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः ॥ २,१.५ ॥

सर्वत्राभासभेदोऽपि भवेत्कालक्रमाकरः ।
विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् ॥ २,१.६ ॥

देशक्रमोऽपि भावेषु भाति मातुर्मितात्मनः ।
स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु ॥ २,१.७ ॥

किं तु निर्माणशक्तिः साप्येवं विदुष ईशितुः ।
तथा विज्ञातृविज्ञेय- भेदो यदवभास्यते ॥ २,१.८ ॥

इति क्रियाधिकारे प्रथममाह्निकम् ॥

द्वितीयमाह्निकम् ॥

क्रियासंबन्धसामान्यद्रव्यदिक्कालबुद्धयः ।
सत्याः स्थैर्योपयोगाभ्यामेकानेकाश्रया मताः ॥ २,२.१ ॥

तत्रैकमान्तरं तत्त्वं तदेवेन्द्रियवेद्यताम् ।
संप्राप्यानेकतां याति देशकालस्वभावतः ॥ २,२.२ ॥

तद्द्वयालम्बना एता मनोऽनुव्यवसायि सत् ।
करोति मातृव्यापार- मयीः कर्मादिकल्पनाः ॥ २,२.३ ॥

स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि ।
अन्योन्यान्वयरूपैक्य- युजः संबन्धधीपदम् ॥ २,२.४ ॥

जातिद्रव्यावभासानां बहिरप्येकरूपताम् ।
व्यक्त्येकदेशभेदं चाप्यालम्बन्ते विकल्पनाः ॥ २,२.५ ॥

क्रियाविमर्शविषयः कारकाणां समन्वयः ।
अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः ॥ २,२.६ ॥

एवमेवर्थसिद्धिः स्यान्मातुरर्थक्रियार्थिनः ।
भेदाभेदवतार्थेन तेन न भ्रान्तिरीदृशी ॥ २,२.७ ॥

इति क्रियाधिकारे द्वितीयमाह्निकम् ॥

तृतीयमाह्निकम् ॥

इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते ।
वस्तु प्रमाणं तत्सोऽपि स्वाभासोऽभिनवोदयः ॥ २,३.१ ॥

सोऽन्तस्तथाविमर्शात्मा देशकालाद्यभेदिनि ।
एकाभिधानविषये मितिर्वस्तुन्यबाधिता ॥ २,३.२ ॥

यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते ॥ २,३.३ ॥

दीर्घवृत्तोर्ध्वपुरुष- धूमचान्दनतादिभिः ।
यथाभासा विभिद्यन्ते देशकालाविभेदिनः ॥ २,३.४ ॥

तथैव सद्घटद्रव्य- काञ्चनोज्ज्वलतादयः ।
आभासभेदा भिन्नार्थ- कारिणस्ते पदं ध्वनेः ॥ २,३.५ ॥

आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः ।
सामानाधिकरण्येन प्रतिभासादभेदिनाम् ॥ २,३.६ ॥

पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा ।
अविरुद्धावभासानामेककार्या तथैक्यधीः ॥ २,३.७ ॥

तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता ।
तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो मतः ॥ २,३.८ ॥

सा तु देशादिकाध्यक्ष- न्तरभिन्ने स्वलक्षणे ।
तात्कालिकी प्रवृत्तिः स्यादर्थिनोऽप्यनुमानतः ॥ २,३.९ ॥

दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना ।
बाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथापि वा ॥ २,३.१० ॥

भिन्नावभासच्छायानामपि मुख्यावभासतः ।
एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् ॥ २,३.११ ॥

अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया ।
नियता सा हि तेनास्या नाक्रियातोऽन्यता भवेत् ॥ २,३.१२ ॥

रजतैकविमर्शेऽपि शुक्तौ न रजतस्थितिः ।
उपाधिदेशासंवादाद्द्विचन्द्रेऽपि नभोऽन्यथा ॥ २,३.१३ ॥

गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता ।
भावानामित्थमेकत्र प्रमातर्युपपद्यते ॥ २,३.१४ ॥

विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे ।
विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे ॥ २,३.१५ ॥

प्रमातरि पुराणे तु सर्वदा भातविग्रहे ।
किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥ २,३.१६ ॥

अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात् ।
शक्तिप्रकाशेनेशादि- व्यवहारः प्रवर्त्यते ॥ २,३.१७ ॥

इति क्रियाधिकारे तृतीयमाह्निकम् ॥

चतुर्थमाह्निकम् ॥

एष चानन्तशक्तित्वादेवमाभासयत्यमून् ।
भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा ॥ २,४.१ ॥

जडस्य तु न सा शक्तिः सत्ता यदसतः सतः ।
कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥ २,४.२ ॥

यदसत्तदसद्युक्ता नासतः सत्स्वरूपता ।
सतोऽपि न पुनः सत्तालाभेनार्थोऽथ चोच्यते ॥ २,४.३ ॥

कार्यकारणता लोके सान्तर्विपरिवर्तिनः ।
उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥ २,४.४ ॥

एवमेका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः ।
एकस्यैवोभयाकार- सहिष्णोरपपादिता ॥ २,४.५ ॥

बहिस्तस्यैव तत्कार्यं यदन्त यदपेक्षया ।
प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः ॥ २,४.६ ॥

मातैव कारणं तेन स चाभासद्वयस्थितौ ।
कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता ॥ २,४.७ ॥

अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः ।
तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते ॥ २,४.८ ॥

तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया ।
तत्तन्मृदादिसंस्कार- क्रमेण जनयेद्घटम् ॥ २,४.९ ॥

योगिनामपि मृद्बीजे विनैवेच्छावशेन तत् ।
घटादि जायते तत्तत्- स्थिरस्वार्थक्रियाकरम् ॥ २,४.१० ॥

योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते ।
कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः ॥ २,४.११ ॥

भूयस्तत्तत्प्रमात्रेक- वह्न्याभासादितो भवेत् ।
परोक्षादप्यधिपतेर्धूमाभासादि नूतनम् ॥ २,४.१२ ॥

कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात् ।
तदाभासस्तदाभासादेव त्वधिपतेः परः ॥ २,४.१३ ॥

अस्मिन् सतीदमस्तीति कार्यकारणतापि या ।
साप्यपेक्षाविहीनानां जाडानां नोपपद्यते ॥ २,४.१४ ॥

न हि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम् ।
सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प्यते ॥ २,४.१५ ॥

अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः ।
क्रियाकारकभावाख्यो युक्तो भावसमन्वयः ॥ २,४.१६ ॥

परस्परस्वभावत्वे कार्यकारणयोरपि ।
एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता ॥ २,४.१७ ॥

एकात्मनो विभेदश्च क्रिया कालक्रमानुगा ।
तथा स्यात्कर्तृतैवैवं तथापरिणमत्तया ॥ २,४.१८ ॥

न च युक्तं जडस्यैवं भेदाभेदविरोधतः ।
आभासभेदादेकत्र चिदात्मनि तु युज्यते ॥ २,४.१९ ॥

वास्तवेऽपि चिदेकत्वे न स्यादाभासभिन्नयोः ।
चिकीर्षालक्षणैकत्व- परामर्शं विना क्रिया ॥ २,४.२० ॥

इत्थं तथा घटपटाद्याभासजगदात्मना ।
तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया ॥ २,४.२१ ॥

इति क्रियाधिकारे चतुर्थमाह्निकम् ॥

इति क्रियाधिकारः ॥


आगमाधिकारः 

प्रथममाह्निकम् ॥

एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा ।
मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी ॥ ३,१.१ ॥

किं त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः ।
बहिर्भावपरत्वे तु परतः पारमेश्वरम् ॥ ३,१.२ ॥

ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः ।
सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ॥ ३,१.३ ॥

इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् ।
भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् ॥ ३,१.४ ॥

अत्रापरत्वं भावानामनात्मत्वेन भासनात् ।
परताहन्तयाच्छादात्परापरदशा हि सा ॥ ३,१.५ ॥

भेदधीरेव भावेषु कर्तुर्बोधात्मनोऽपि या ।
मायाशक्त्येव सा विद्येत्यन्ये विद्येश्वरा यथा ॥ ३,१.६ ॥

तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका ।
विद्याशक्तिः तिरोधान- करी मायाभिधा पुनः ॥ ३,१.७ ॥

भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते ।
शून्ये बुद्धे शरीरे वा मायाशक्तिर्विजृम्भते ॥ ३,१.८ ॥

यश्च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि ।
माता स मेयः सन् कालादिकपञ्चकवेष्टितः ॥ ३,१.९ ॥

त्रयोविंशतिधा मेयं यत्कार्यकरणात्मकम् ।
तस्याविभागरूप्येकं प्रधानं मूलकारणम् ॥ ३,१.१० ॥

त्रयोदशविधा चात्र बाह्यान्तःकरणावली ।
कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदतः ॥ ३,१.११ ॥

इत्यागमाधिकारे प्रथममाह्निकम् ॥

द्वितीयमाह्निकम् ॥

तत्रैतन्मातृतामात्र- स्थितौ रुद्रोऽधिदैवतम् ।
भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ ॥ ३,२.१ ॥

एष प्रमाता मायान्धः संसारी कर्मबन्धनः ।
विद्याभिज्ञापितैश्वर्यश्चिद्घनो मुक्त उच्यते ॥ ३,२.२ ॥

स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः ।
मायातो भेदिषु क्लेश- कर्मादिकलुषः पशुः ॥ ३,२.३ ॥

स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥ ३,२.४ ॥

भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् ।
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् ॥ ३,२.५ ॥

शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता ।
निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥ ३,२.६ ॥

बोधैकलक्षणैक्येऽपि तेषामन्योन्यभिन्नता ।
तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥ ३,२.७ ॥

शून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः ।
तेषां कार्मो मलोऽप्यस्ति मायीयस्तु विकल्पितः ॥ ३,२.८ ॥

बोधानामपि कर्तृत्व- जुषां कार्ममलक्षतौ ।
भिन्नवेद्यजुषां माया- मलो विद्येश्वराश्च ते ॥ ३,२.९ ॥

देवादीनां च सर्वेषां भविनां त्रिविधं मलम् ।
तत्रापि कार्ममेवैकं मुख्यं संसारकारणम् ॥ ३,२.१० ॥

कलोद्बलितमेतच्च चित्तत्त्वं कर्तृतामयम् ।
अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् ॥ ३,२.११ ॥

मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः ।
शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥ ३,२.१२ ॥

शून्ये बुद्ध्याद्यभावात्मन्यहन्ताकर्तृतापदे ।
अस्फुटारूपसंस्कार- मात्रिणि ज्ञेयशून्यता ॥ ३,२.१३ ॥

साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता ।
जीवनाख्याथवा प्राणेऽहन्ता पुर्यष्टकात्मिका ॥ ३,२.१४ ॥

तावन्मात्रस्थितौ प्रोक्तं सौषुप्त[ं] प्रलयोपमम् ।
सवेद्यमपवेद्यं च मायामलयुतायुतम् ॥ ३,२.१५ ॥

मनोमात्रपथेऽप्यक्ष- विषयत्वेन विभ्रमात् ।
स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥ ३,२.१६ ॥

सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा ।
सृष्टिः साधारणी सर्व- प्रमातॄणां स जागरः ॥ ३,२.१७ ॥

हेया त्रयीयं प्राणादेः प्राधान्यात्कर्तृतागुणे ।
तद्धानोपचयप्राय- सुखदुःखादियोगतः ॥ ३,२.१८ ॥

प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः ।
तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्विव ॥ ३,२.१९ ॥

मध्योर्ध्वगाम्युदानाख्यस्तुर्यगो हुतभुङ्मयः ।
विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः ॥ ३,२.२० ॥

इत्यागमाधिकारे द्वितीयमाह्निकम् ॥

इत्यागमाधिकारः ॥


तत्त्वसंग्रहाधिकारः 

स्वात्मैव सर्वजन्तूनामेक एव महेश्वरः ।
विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः ॥ ४.१ ॥

तत्र स्वसृष्टेदंभागे बुद्ध्यादिग्राहकात्मना ।
अहंकारपरामर्श- पदं नीतमनेन तत् ॥ ४.२ ॥

स्वस्वरूपापरिज्ञान- मयोऽनेकः पुमान्मतः ।
तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः ॥ ४.३ ॥

स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या ।
मायातृतीये ते एव पशोः सत्त्वं रजस्तमः ॥ ४.४ ॥

भेदस्थितः शाक्तिमतः शक्तित्वं नापदिश्यते ।
एषां गुणानां करण- कार्यत्वपरिणामिनाम् ॥ ४.५ ॥

सत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोह् ।
द्वयात्मा तद्रजो दुःखं श्लेषि सत्त्वतमोमयम् ॥ ४.६ ॥

येऽप्यसामयिकेदन्तापरामर्शभुवः प्रभोः ।
ते विमिश्रा विभिन्नाश्च तथा चित्रावभासिनः ॥ ४.७ ॥

ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः ।
तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे ॥ ४.८ ॥

तस्यासाधारणी सृष्टिरीशसृष्ट्युपजीविनी ।
सैषाप्यज्ञतया सत्यैवेशशाक्त्या तदात्मनः ॥ ४.९ ॥

स्वविश्रान्त्युपरोधायाचलया प्राणरूपया ।
विकल्पक्रियया तत्तद्- वर्णवैचित्र्यरूपया ॥ ४.१० ॥

साधारणोऽन्यथा चैशः सर्गः स्पष्टावभासनात् ।
विकल्पहानैकाग्र्यात्क्रमेणेश्वरतापदम् ॥ ४.११ ॥

सर्वो ममायं विभव इत्येवं परिजानतः ।
विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥ ४.१२ ॥

मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते ।
महेश्वरो यथा बद्धः पुन अत्यन्तभेदवत् ॥ ४.१३ ॥

सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः ।
शिवः चिदानन्दघनः परमाक्षरविग्रहः ॥ ४.१४ ॥

एवमात्मानमेतस्य सम्यग्ज्ञानक्रिये तथा ।
जानन् यथेप्सितान् पश्यञ्जानाति च करोति च ॥ ४.१५ ॥

इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा ।
तदत्र निदधत्पदं भुवनकर्तृतामात्मनो विभाव्य शिवतामयीमनिशमाविशन् सिद्ध्यति ॥ ४.१६ ॥

तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा ।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ॥ ४.१७ ॥

जनस्यायत्नसिद्ध्यर्थमुदयाकरसूनुना ।
ईश्वरप्रत्यभिज्ञेयमुत्पलेनोपपादिता ॥ ४.१८ ॥

इति तत्त्वसंग्रहाधिकारः ॥

॥समाप्तेयमीश्वरप्रत्यभिज्ञाकारिका ॥


Tags: Hindu Philosophy Sanskrit Devanagari Shiva

Post navigation

Previous: प्रज्ञापारमिताहृदयसूत्रम् (Pragya Paramita Hridaya Sutram)
Next:  All about Marriage Law by Kautilya (325 BCE)
Communism
Sarvarthapedia

Manifesto of the Communist Party 1848: History, Context, and Core Concepts

Arrest
Sarvarthapedia

Latin Maxims in Criminal Law: Meaning, Usage, and Courtroom Application

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

United States of America: History, Government, Economy, and Global Power

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

IPS Cadre Strength 2025: State-wise Authorised Strength

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)

Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation

Bharatiya Nyaya Sanhita 2023: Sections (1-358), Punishments, and Legal Framework

Bengali Food Culture: History, Traditions, and Class Influences

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Naresh vs Aarti: Cheque Bouncing Complaint Filed by POA (02/01/2025)
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
United Kingdom, UK

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

British Slavery and the Church of England: History, Theology, and the Codrington Estates

USA, America

United States of America: History, Government, Economy, and Global Power

Biblical Basis for Slavery, english slave trade

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates