परं पदम् – Param Padam
यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वं यतो जगत् ।२२.७४
स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते ।।
यमक्षरात्परतरात्परं प्राहुर्गुहश्रयम्।।२२.७५
आनन्दं परमं व्योम स वै नारायण स्मृतः।.
नित्योदितो निर्विकल्पो नित्यानन्दो नरञ्जनः।।२२.७६
चतुर्व्यूहधरो विष्णुरव्यूहः प्रोच्यते स्वयम्।
परमैत्मा परन्धाम परं व्योम परं पदम्।२२.७७
त्रिपादमक्षरं ब्रह्म तमाहुब्रह्मवादिनः।
स वासुदेवो विश्वात्मा योगात्मा पुरुषोत्तमः।।२२.७८
यस्यांश सम्भवो ब्रह्मा रुद्रोऽपि परमेश्वरः।
स्ववर्णाश्रमधर्मेण पुंसां यः पुरुषोत्तमः ।२२.७९
अकामहतभावेन समाराध्यो न चान्यथा ।
एतावदुक्त्वा भगवान् विश्वामित्रो महातपाः।२२.८०
श्रीकूर्मपुराणे पूर्वविभागे द्वाविशोऽध्यायः
Tags: Hindu Religion