Advocatetanmoy Law Library

Policy Research and Legal Database

Library Home » Description of unified field in Atharva Veda

Description of unified field in Atharva Veda

image_print

2.1

  1.  वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् ।

     इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥१॥

  2.  प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्।

     त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्॥२॥

  3.  स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा ।

     यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥३॥

  4.  परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य ।

    वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः ॥४॥

  5.  परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम् ।

     यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥५॥

image_print
%d bloggers like this: