Library Home » Bharat Manjari by Khemendra in Sanskrit

Bharat Manjari by Khemendra in Sanskrit

भारतमञ्जरी – क्षेमेन्द्र

भीष्मपर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ६.१ ॥
आसूर्यकिरणाक्रान्ताज्जगतो जनगोचरात् ।
पुण्यधाम्नि कुरुक्षेत्रे समायातेषु राजसु ॥ ६.२ ॥
एकीभूतेषु सैन्येषु कुरुपाण्डवसंगरे ।
वृद्धबालावशेषासु दिक्षु यातासु शून्यताम् ॥ ६.३ ॥

दारुणेषु निमित्तेषु प्रादुर्भूतेषु सर्वतः ।
मिथो दृष्टिपथं याते पताकाभिर्बलद्वये ॥ ६.४ ॥

सोत्साहं दध्मतुः शङ्खं हृषीकेशधनंजयौ ।
ययोर्गम्भीरघोषेण भुवनानि चकम्पिरे ॥ ६.५ ॥

विषमस्थो न हन्तव्यो न च सेनाविनिर्गतः ।
न निवृत्ते रणे चेति मर्यादां चक्रिरे नृपाः ॥ ६.६ ॥

अत्रान्तरे समभ्येत्य पाराशर्यो मुनीश्वरः ।
विषण्णं मन्दिरगतं धृतराष्ट्रमभाषत ॥ ६.७ ॥

वीराणां भूमिपालानामशेषेऽस्मिन्समागमे ।
क्षत्त्रस्य संक्षयो राजन्विषमः समुपस्थितः ॥ ६.८ ॥

दिव्यं गृहाम नयनं स्वयं युद्धं विलोकय ।
इत्युक्ते मुनिना राजा जगादाकुलिताशयः ॥ ६.९ ॥

भगवान्बन्धुनिधनं नाहं द्रष्टुं समुत्सहे ।
भाव्यस्यावश्यभावित्वान्न च वारयितुं क्षमः ॥ ६.१० ॥

इत्युक्तवति भूपाले संजयं वरदो मुनिः ।
विधाय दिव्यनयनं पुनः क्षितिपमभ्यधात् ॥ ६.११ ॥

अयं ते निखिलं युद्धं कथयिष्यति संजयः ।
नास्य किंचिदविज्ञातं दिव्यदृष्टेर्भविष्यति ॥ ६.१२ ॥

कृतान्तो जृम्भते राज्ञां धृतराष्ट्र तवानयात् ।
दृश्यन्ते दुर्निमित्तानि क्षयकर्णेजपानि यत् ॥ ६.१३ ॥

सौरेण पीडिता गाढं रोहिणी ज्वलिता दिशः ।
विपरीता प्रसूतिश्च कबन्धेनावृतो रविः ॥ ६.१४ ॥

क्रव्यादैरावृतं व्योम मेघा वर्षन्ति शोणितम् ।
किमन्यद्राजमहिषी हा मही न भविष्यति ॥ ६.१५ ॥

प्रदक्षिणशिखो वह्निः प्रसादो मनसस्तथा ।
लक्षव्यक्तं जयस्यैतद्धर्मो यत्रास्ति तत्र सः ॥ ६.१६ ॥

शतान्येकेन जीयन्ते नैको जेयः शतैरपि ।
तरला ह्यसिधारेयं निश्चयो नात्र गण्यते ॥ ६.१७ ॥

इत्युक्त्वान्तर्हिते क्षिप्रं मुनीन्द्रे संजयं नृपः ।
पप्रच्छ द्वीपसंस्थानं स च पृष्ठोऽभ्यभाषत ॥ ६.१८ ॥

राजन्विशाले शीतांशोर्मण्डले दर्पणाकृतौ ।
स्फारं सुदर्शनं द्वीपं निखिलं प्रतिबिम्बितम् ॥ ६.१९ ॥

एकतः पिप्पलाच्छायमन्यतः शशकाकृति ।
द्वीपेऽस्मिन्मण्लाकारे लवणाम्बुधिवेष्टिते ।
कर्णिकेवाम्बुजे प्रांशुर्मध्ये कनकपर्वतः ॥ ६.२० ॥

शयाना भृधराश्चान्ये पार्श्वयोस्तस्य भूभृतः ।
स्थिता हिमालयमुखाः स्पृशन्तः पूर्वपश्चिमम् ॥ ६.२१ ॥

हिमवान्हेमकूटश्च निषदश्चेति दक्षिणे ।
उत्तरे शृङ्गवान्नीलः श्वेतश्चेति महाबलाः ॥ ६.२२ ॥

एषां रत्नविचत्राणामन्तरे वर्षभूमयः ।
कर्मभूर्भारतं वर्षमन्याश्च फलभूमयः ॥ ६.२३ ॥

हरिवर्षमुखेष्वेव प्रजासर्गः स्मरोपमः ।
स्थानं सुकृतिनां यत्र विख्याता गण्डिका इति ॥ ६.२४ ॥

जम्बूखण्डं तथा मेरोरधो यत्फलविस्रुता ।
जाता जम्बूनदी शुभ्रा जाम्बुनदविधायिनी ॥ ६.२५ ॥

उत्तराः कुरवः पीत्वा तामेव गतमृत्यवः ।
दिवस्पृशस्तरेस्तस्य नाम्नेदं द्वीपमुच्यते ॥ ६.२६ ॥

इत्युक्त्वा संजयो गत्वा कुरुक्षेत्रे राणाङ्गणे ।
समेत्य धृतराष्ट्राय शशंय स्वभटक्षयम् ॥ ६.२७ ॥

जम्बूखण्डनिर्माणम् ॥ १ ॥

शृणु राजन्हतानन्तसामन्तः शन्तनोः सुतः ।
विदधे पाण्डुपुत्राणां यथा विजयसंशयम् ॥ ६.२८ ॥

वज्रसूचीमुखाख्याभ्यां प्यूहाभ्यां राजकुञ्जरैः
मिथो व्यूढेष्वनीकेषु गाङ्गेयेनार्जुनेन च ॥ ६.२९ ॥

तस्मिन्क्षत्त्रक्षयक्षेत्रे सर्वक्षत्त्रसमागमे ।
दुर्योधनेऽतिसंरब्धे पृथुसैन्याभिमानिनि ॥ ६.३० ॥

गाङ्गेयशङ्खनादेन समुद्भूते बलार्णवे ।
शङ्खशब्देन पार्थानां पाञ्चजन्यानुयायिना ॥ ६.३१ ॥

पूरिते भुवनाभोगे दिक्षु विस्फूर्जितास्विव ।
सर्वसेनाश्रयः श्रीमान्विजयोऽच्युतसारथिः ॥ ६.३२ ॥

ददर्श कुरुसेनासु गुरुसंबन्धिबान्धवान् ।
निजप्रतापदहने स तेषां शलभायितम् ।
मत्वा जगाद गोविन्दं विषण्णः करुणानिधिः ॥ ६.३३ ॥

अहो वत विमूढानां राज्यलेशे सुखाय नः ।
कृष्ण बन्धुवधेऽप्यस्मिन्ससंरम्भोऽयमुद्यमः ॥ ६.३४ ॥

अवतीर्य सदाचारस्तुतिक्रम्यकुलस्थितिम् ।
कथं गुरुवधप्राप्यां भजेदस्मद्विधऋ श्रियम् ॥ ६.३५ ॥

इत्युक्त्वा सास्रुनयनो बीभत्सुः कृपया रथे ।
करादुत्सृज्य गाण्डीवं निषसाद विषादवान् ॥ ६.३६ ॥

 श्रीमद्भगवद्गीतासु प्रथमोऽध्यायः ॥ २ ॥

तं दृष्ट्वा शोकविवशं जगाद मधुसूदनः ।
अकाण्डे धैर्यसारस्य केयं कातरता तव ॥ ६.३७ ॥

तरस्वी क्षत्रियो मानी प्राणैरपि यशःक्रयी ।
निजां कुलस्थितिं पार्थ न धर्म्यां हातुमर्हसि ॥ ६.३८ ॥

संयुक्तं वा वियुक्तं वा नित्यं देहेन देहिनम् ।
विश्वमायाप्रपञ्चेऽस्मन्कोऽनुशोचति तत्त्वधीः ॥ ६.३९ ॥

सुखाद्यवस्था देहस्य काले काले यथाविधाः ।
देहिनोऽस्य तथा देहाः सतः सत्ताविवर्जिताः ॥ ६.४० ॥

विषयेन्द्रियसंयोगान्क्षयिनो हर्षशोकदान् ।
सहते यो विलुप्तात्मा निर्वाणं तस्य शाश्वतम् ॥ ६.४१ ॥

अजस्य पुराणस्य देहिनोऽस्याविनाशिनः ।
जीर्णपर्णपरावृत्तितुल्येयं देहकल्पना ॥ ६.४२ ॥

आदिमध्यावसानेषु व्यक्ताव्यक्तस्वरूपिणः ।
सत एवास्य सततं न विरामः शरीरिणः ॥ ६.४३ ॥

अयशस्यमतस्त्यक्त्वा संकोचं विपुलाशयः ।
जयाजयौ समं मत्वा विश स्वर्गोन्मुखो रणम् ॥ ६.४४ ॥

आस्थाय यौगिकीं बुद्धिं कर्मबन्धविवर्जितः ।
शुष्कवेदक्रियाहीनं गुणातीतं पदं भुज ॥ ६.४५ ॥

सर्ववेदेषु विदुषामेतदेव प्रयोजनम् ।
जलाशयेषु पूर्णेषु यथा सलिलहारिणाम् ॥ ६.४६ ॥

निःसङ्गः फलसंन्यासी कुरु कर्म सदोदितः ।
परमेश्वरमेवाहि(?)वाणिज्यं हि फलार्थिनाम् ॥ ६.४७ ॥

यदा ते वीतमोहस्य बुद्धिर्यास्यति निर्वृतिम् ।
कृती भविष्यसि तदा श्रुतेष्वर्थेष्वनादरः ॥ ६.४८ ॥

इति ब्रुवाणः पार्थेन स्थितप्रज्ञस्य लक्षणम् ।
पृष्टः समाधिसक्तस्य भगवानित्यभाषत ॥ ६.४९ ॥

ईश्वरादपरो नाहमिति स्वानन्दनिर्भरः ।
निरस्ताखिलसंकल्पः स्थितप्रज्ञोऽभिधीयते ॥ ६.५० ॥

आस्ते कूर्म इवाङ्गानि कामान्संवृत्ययः श्रयम् ।
विषयाध्यानविरहात्स्थितधीर्न स नश्यति ॥ ६.५१ ॥

कष्टैस्तपोभिर्विषयाः शुष्यन्त्येव रसं विना ।
अनादरविरक्तानां सदाप्यध्यात्मदर्शिनाम् ॥ ६.५२ ॥

निद्रार्लुभूतकालेषु प्रबुद्धिस्तिमिरेषु यः ।
स महाब्धिरिवाक्षोभ्यः स्थितिं ब्राह्मीं प्रपद्यते ॥ ६.५३ ॥

 श्रीगीतासु द्वितीयोऽध्यायः ॥ ३ ॥

श्रुत्वैतदर्जुनः कृष्णमुवाचाकुलिताशयः ।
कथमेवं वदन्घोरे समरेऽस्मिन्युनक्षि माम् ॥ ६.५४ ॥

कर्मणः श्रेयसी बुद्धिरित्युक्त्वापि स्वयं विभो ।
कर्म दुर्मतियोग्यं मां प्रशंससि विमोहयन् ॥ ६.५५ ॥

श्रेयो वदेत्युक्तवति श्वेताश्वे केशवोऽब्रवीत् ।
निष्ठा प्रज्ञानकर्मभ्यां मयोक्ता सांख्ययोगयोः ॥ ६.५६ ॥

अनारम्भान्न च त्यागात्कर्मणो मुच्यते जनः ।
श्रोत्रादयो बलादस्य धावन्त्येव स्वकर्मसु ॥ ६.५७ ॥

स्मरन्ति मनसा सर्वं रुद्धकर्मेन्द्रिया अपि ।
मिथ्याचारानत्वसक्ताः(?)कर्मिणो नियतान्तराः ॥ ६.५८ ॥

श्रेयो ह्यकर्मणः कर्म न यज्ञः कर्मणा विना ।
यज्ञशेषाशिनः पुण्यद्रुमाः केवलभोगिनः ॥ ६.५९ ॥

कर्मस्थितोऽपि निःसंज्ञो(सङ्गो) यदा प्राप्नोति मानवः ।
आत्मारामदशास्तुष्ठस्तदा कार्यान्निवर्तते ॥ ६.६० ॥

कर्मणैव गताः सिद्धिं जनकप्रमुखाः पुरा ।
तन्मा कार्यान्निवर्तस्व लोकस्त्वामनुवर्तताम् ॥ ६.६१ ॥

ममापि कृतकृत्यस्य कर्मेदं स्थितिरक्षिणः ।
विनस्यत्यन्यथा लोको मत्प्रमाणविशृङ्खलः ॥ ६.६२ ॥

पात्रं सर्वज्ञयोग्येषु नादरेषु पृथग्जनः ।
तस्मान्नोत्साहयेदेतान्पङ्गून्वेगगतानिव ॥ ६.६३ ॥

युध्यस्व सर्वकर्माणि मयि संन्यस्य निर्वृतः ।
तरन्ति हि तमो घोरं नित्यं मन्मतवर्तिनः ॥ ६.६४ ॥

प्रकृतेरुचितं सर्वं स्वधर्मनिरतः कुरु ।
रागद्वेषौ परित्यज्य प्रियाप्रियसमुद्भवौ ॥ ६.६५ ॥

श्रुत्वैतदर्जुनोऽवादीत्प्रेरितः केन पातकम् ।
चरत्यनीश्वरः प्राणी बलादिव वशीकृतः ॥ ६.६६ ॥

इति पृष्टो हृषीकेशो जगाद जगतां पतिः ।
रजोगुणसमुत्थेन हर्षशोकादिदायिना ॥ ६.६७ ॥

लोकसंहारशीलेन कामेन क्रोधबन्धुना ।
अहंकारेण बलिना घोरेणानेन वैरिणा ॥ ६.६८ ॥

शेवालेनैव सलिलं रजसेवामलं नभः ।
आवृतो मलिनोनात्मा मेघेनैवोदितो रविः ॥ ६.६९ ॥

मनोबुद्धिसमायुक्तं स्थानमिन्द्रियपञ्जरम् ।
यस्य तं दुःसहं शत्रुं कामरूप विनाशय ॥ ६.७० ॥

श्रीगीतासु तृतीयोऽध्यायः ॥ ४ ॥

सूर्येणाप्तः पुरा मत्तो योगोऽयं मनुना ततः ।
य एव कालेनोत्सन्नस्तुभ्यमद्य मयोदितः ॥ ६.७१ ॥

अनेकजन्मसाक्षी त्वं भक्तः सहचरोऽपि मे ।
न तत्स्मृतिपथं यातं किंतु ते प्राक्तनं वपुः ॥ ६.७२ ॥

अहं तु नित्यधरमस्य स्थितये गुप्तये सताम् ।
युगे युगे भवाम्येष विनाशाय दृरात्मनाम् ॥ ६.७३ ॥

अकृतं धर्मकर्तारं कर्मैतन्नावृणोति माम् ।
त्वमप्यसक्तो निष्कामः कुरु कर्म कुलोचितम् ॥ ६.७४ ॥

दुर्ज्ञेयः प्रविभागस्तु कर्माकर्मविकर्मणाम् ।
स्वोचितं फलहीनं च विरुद्धं चेति भेदतः ॥ ६.७५ ॥

कर्मणः फलसंन्यासाद्योऽनुपश्यत्यकर्मताम् ।
जानात्यकर्मणः पापात्कर्म यश्च स बुद्धिमान् ॥ ६.७६ ॥

ज्ञानाग्निना दग्धकर्मा नित्यानन्दो निराश्रयः ।
निराशीर्निरहंकारो यज्वा ब्रह्मणि लीयते ॥ ६.७७ ॥

ब्रह्मार्पणेन ब्रह्मग्नौ हुत्वा ब्रह्ममयं हविः ।
प्राणयज्ञरतो याति ब्रह्म ब्रह्मसमाधिना ॥ ६.७८ ॥

संयमाग्नाविन्द्रियाणि विषयानिन्द्रियानले ।
तत्कर्माण्यात्मयोगाग्नौ हुत्वा यान्ति परां गतिम् ॥ ६.७९ ॥

येऽपि द्रव्यतपोयोगस्वाध्यायज्ञानयाजिनः ।
प्राणापानादिह विषो धृत्वा नाडीषु धारणम् ॥ ६.८० ॥

समर्पयन्ति निखिलं ज्ञानं विगतकल्मषाः ।
ते प्रयान्ति परं धाम यज्ञशिष्टामृताशिनः ॥ ६.८१ ॥

तद्विधाः प्रणिपातेन सेविता ज्ञानिनस्त्वया ।
अयत्नात्त्वां विधास्यन्ति स्वात्मन्यखिलदर्शिनम् ॥ ६.८२ ॥

ज्ञानाग्निना दग्धपापः पवित्रेण भविष्यसि ।
कालेन श्रद्दधानानां स्वयं ज्ञानं प्रसीदति ॥ ६.८३ ॥

नश्यन्ति संशयजुषो मूढा न त्वस्तसंशयाः ।
ज्ञानिनः संशयं त्वस्मात्स्थित्वोत्तिष्ठ विभूतये ॥ ६.८४ ॥

***** श्रीगीतासु चतुर्थोऽध्यायः ॥ ५ ॥ *****

निशम्य तत्पुनः पार्थः पप्रच्छ मधुसूदनम् ।
संन्यासकर्मयोगाभ्यां श्रेयो ब्रूहि जनार्दन ॥ ६.८५ ॥

इति पृष्टोऽवदच्छौरिरुभावेतौ विमुक्तये ।
कर्मयोगस्तु संन्यासाद्विशिष्ट इति मे मतिः ॥ ६.८६ ॥

शृण्वन्तोऽपि वदन्तोऽपि स्पृशन्तोऽपि स्वकर्मणि ।
सक्ता अपि न सज्जन्ति पङ्के रविकरा इव ॥ ६.८७ ॥

तदेव विहितं किंचित्पुंसां सुकृतदुष्कृतम् ।
अज्ञानपिहिते ज्ञाने किं त्वेषा कर्मवासना ॥ ६.८८ ॥

ज्ञानेनोत्सारिता ज्ञानाः परां निष्ठामुपागताः ।
ब्राह्मणे वा श्वपाके वा विबुधाः समदृष्टयः ॥ ६.८९ ॥

बाह्ये सुखे विरक्तानां दुःखजन्मनि नश्वरे ।
अन्तःसुखारामतया परं ज्योतिः प्रसीदति ॥ ६.९० ॥

बहिः स्पर्शान्समुत्सृज्य भ्रूमध्यनिहितेक्षणः ।
नासान्तरे समौ धृत्वा प्राणापानौ विमुक्तये ॥ ६.९१ ॥

कामरागमदद्वेषभयक्रोधविवर्जितः ।
अहन्ता ज्ञानतमसां शान्तिं विन्दत्यमत्सरः ॥ ६.९२ ॥

***** श्रीगीतासु पञ्चमोऽध्यायः ॥ ६ ॥ *****

क्रियावानफलाकाङ्क्षी निजं कर्म करोति यः ।
आरुरुक्षुदशातीतो योगारूढो विमत्सरः ॥ ६.९३ ॥

कूटस्थो ज्ञानतृप्तश्च पश्यत्यात्मानमात्मना ।
समासनः समाकारो निस्तरङ्ग इवोदधिः ॥ ६.९४ ॥

घ्राणाग्रदर्शी शान्तात्मा मामुपैति समाधिना ।
युक्ताहारादिचेष्टस्य नित्यं निष्कम्पचेतसः ॥ ६.९५ ॥

आत्मलाभो भवत्येव त्यक्तकामस्य योगिनः ।
मनः संयम्य पश्यन्ति स्रवत्येतद्यतो यतः ॥ ६.९६ ॥

आत्मानं मां च सर्वत्र ममात्मनि तथाखिलम् ।
मनसश्चञ्चलस्यास्य वैराग्येणैव संयमः ॥ ६.९७ ॥

तथाभ्यासेन बलिना वातस्येव प्रमाथिनः ।
एतदाकर्ण्य कौन्तेयः पुनः पप्रच्छ केशवम् ॥ ६.९८ ॥

लोलत्वान्मनसो देव योगाद्भ्रष्टस्य का गतिः ।
अर्जुनेनेति भगवान्पुनः पृष्टोऽभ्यभाषत ॥ ६.९९ ॥

योगभ्रष्टोऽपि पुरुषः शुभकृत्तु भविष्यति ।
चिरं भुक्त्वा सुखं दिव्यं स कल्याणपुरः सरः ॥ ६.१०० ॥

भोगिनां योगिनां वापि संभूतो महतां कुले ।
पूर्वाभ्यस्तं पुनर्धीमाञ्जन्मभिः प्रतिपद्यते ।
तपो ज्ञानाधिकं योगं तस्माद्योगी भवार्जुन ॥ ६.१०१ ॥

***** श्रीगीतासु षष्ठोऽध्यायः ॥ ७ ॥ *****

मयि न्यस्तमना नित्यं भक्त्या मां वेत्ति मानव ।
अष्टमूर्तिरहं सर्वं जीवभूतश्चराचरे ॥ ६.१०२ ॥

उत्पत्तिस्थितिसंहारकारणं मां विदुर्बुधाः ।
सर्वे मत्प्राणिता भावा मयि सर्वं प्रतिष्ठितम् ॥ ६.१०३ ॥

देवीं मायां दधानं मां न जानाति विमोहितः ।
ये तु जानन्ति मां मायां भवन्ति कृतिनः सदा ॥ ६.१०४ ॥

अर्थी जिज्ञासुरार्तो वा ज्ञानी वा मां प्रपद्यते ।
प्रियः प्रियस्य सततं ज्ञानिनस्त्वस्मि गोचरे ॥ ६.१०५ ॥

अनन्यदेवताभक्ताः श्रद्धावन्तो विसंशयाः ।
वासुदेवः सर्वमिति यजन्ते मां मुमुक्षवः ॥ ६.१०६ ॥

ते ब्रह्माध्यात्मकर्माख्यं साधिभूतं विदन्ति माम् ।
साधिदैवाधियज्ञं च देहव्युपरमेष्वपि ॥ ६.१०७ ॥

***** श्रीगीतासु सप्तमेऽध्यायः ॥ ८ ॥ *****

अच्युतेनेत्यभिहिते शक्रसूनुरभाषत ।
किमेतद्ब्रह्म भगवन्नधियज्ञः किमुच्यते ॥ ६.१०८ ॥

इति पृष्टो हृषीकेशो बभाषे श्वेतवाहनम् ।
अनश्वरं परब्रह्म भावोऽध्यात्मा तथात्मनः ॥ ६.१०९ ॥

निःसङ्गो भवकृत्कर्म नश्वरेष्वधिभूतता ।
अधिदैवोऽहमेवात्र ह्यधियज्ञोऽप्यहं विभुः ॥ ६.११० ॥

अन्तकाले स्मरन्तो मां प्रविशन्त्येव भाविताः ।
पर्यन्ते भावतुल्या हि नृणां जन्मान्तरस्थितिः ॥ ६.१११ ॥

कविं पुराणं शास्तारमणीयांसमणोरपि ।
परस्तात्तमसो नित्यं ये स्मरन्ति रविप्रभम् ॥ ६.११२ ॥

भ्रूमध्ये विहितप्राणा ब्रह्मरन्ध्रविभेदिनः ।
ओमित्येकाक्षरं ब्रह्म जपन्तो यान्ति ते परम् ॥ ६.११३ ॥

ब्रह्मादिभिर्भूतसर्गश्चक्रवत्परिवर्तते ।
परं मां प्रतिपन्नास्ते न भवन्ति भवे पुनः ॥ ६.११४ ॥

वैरञ्चेऽस्मिन्नहोरात्रे भवन्ति न भवन्ति च ।
भूतान्येकस्तु भगवानव्यक्तो न विनश्यति ।
तेजोमयमहः शुक्लो मोक्षायैवोत्तरायणम् ॥ ६.११५ ॥

***** श्रीगीतास्वष्टमोऽध्यायः ॥ ९ ॥ *****

राजगुह्यमिदं चान्यत्पवित्रं शृणु फल्गुण ।
अश्रद्दधानो नाप्नोति मां संसारवशीकृतः ॥ ६.११६ ॥

सर्वकर्तरि भूतानि मयि सन्ति न तेष्वहम् ।
लोकाः स्थिता न स्थिताश्च मयि व्योम्नीव वायवः ॥ ६.११७ ॥

अधिष्ठितैषा प्रकृतिर्मया सूते चराचरम् ।
असक्तं मां न जानन्ति मलिनामोघदर्शिनः ॥ ६.११८ ॥

सर्वं सर्वगतं यज्ञं वेद्यं बीजं भवाभवम् ।
विदन्ति मां सुकुतिनः सर्वकारणकारणम् ॥ ६.११९ ॥

त्रयीधर्मजुषः स्वर्गभोगलाभक्षयाकुलाः ।
न प्राप्नुवन्ति मां शुष्कक्रियापाशवशीकृताः ॥ ६.१२० ॥

मदेकशरणा नित्यं कृतिनोऽनन्ययाजिनः ।
अप्यन्ययोनिसंभूताः स्वयमायान्ति यत्पदम् ॥ ६.१२१ ॥

***** श्रीगीतासु नवमोऽध्यायः ॥ १० ॥ *****

भूयोऽपि मे शृणु सखे प्रीत्या यत्प्रतिबोध्यसे ।
न तत्त्वेनामरगणा मुनयो वा विदन्ति माम् ॥ ६.१२२ ॥

चराचरेऽस्मिन्प्रवरं यद्यत्पश्यसि भूतिमत् ।
तदहं सर्वभूतात्मा न हि किंचिन्मया विना ॥ ६.१२३ ॥

अहं विष्णुरहं सूर्यश्चन्द्रोऽहं मघवानहम् ।
शंकरोऽहं धनेशश्च वह्निः सुरगुरुस्तथा ।
अक्षरोऽहमहं कालो जयोऽहं भूतिरप्यहम् ॥ ६.१२४ ॥

***** श्रीगीतासु दशमोऽध्यायः ॥ ११ ॥ *****

श्रुत्वैतदवदत्पार्थो जाने त्वां सर्वमच्युत ।
किंतु विश्वमयं रूपं द्रष्टुमिच्छमि ते विभो ॥ ६.१२५ ॥

इत्युक्तः पाण्डुपुत्रेण भगवान्कैटभान्तकः ।
विश्वाविष्कारकलया विश्वरूपमदर्शयत् ॥ ६.१२६ ॥

तस्यानन्तशिरोनेत्रसहस्रभुजशालिनः ।
देहे जगन्निवासस्य लीनं विश्वमदृश्यत ॥ ६.१२७ ॥

अतिसूर्याग्निमहसा तेजसा पूरिताम्बरम् ।
दृष्ट्वा पुलकितः पार्थस्तमुवाच कृताञ्जलिः ॥ ६.१२८ ॥

पश्याम्युदग्रगीर्वाणग्रामव्याप्तोरुविग्रहम् ।
त्वां येन पूरितं सर्वमनवच्छिन्नवर्ष्मणा ॥ ६.१२९ ॥

ब्रह्मरुद्रमरुद्वह्निमुनीन्द्रभुजगाकुलम् ।
द्रष्टुं तदेव पर्यन्तरहितं नोत्सहे वपुः ॥ ६.१३० ॥

भीष्मद्रोणमुखान्वीरान्प्रविष्टान्वदनानि ते ।
दंष्ट्रोत्कटानि पश्यामि कालस्येव युगक्षये ॥ ६.१३१ ॥

को भवान्सर्वसंहारारौद्रेण वपुषासूदनः ।
अकाण्डे दग्धुमखिलान्स्वयं लोकान्समुद्यतः ॥ ६.१३२ ॥

इत्युक्तवति कौन्तेये जगाद मधुसूदनः ।
अहं जगत्क्षयोत्क्षोपदीक्षितः क्षितिपान्तकः ॥ ६.१३३ ॥

कुरुसेनाग्रगान्वीरान्पूर्वं विनिहतान्मया ।
हत्वा यशःश्रिया जृष्टमवाप्नुहि कुलोचितम् ॥ ६.१३४ ॥

तच्छ्रुत्वा कालियारातेर्वचः पार्थः कृताञ्जलिः ।
उवाच कम्पितमनाः प्रणतो गद्गदस्वनः ॥ ६.१३५ ॥

कीर्त्या जगन्ति हृष्यन्ति स्तुतया सिद्धचारणैः ।
दीप्त्या द्रवन्ति रक्षांसि स्थाने तव जनार्दन ॥ ६.१३६ ॥

नौमि त्वां जगदावासं विश्वरूपमधोक्षजम् ।
अनन्तं शाश्वतं धाम सर्वात्मानं पुनः पुनः ॥ ६.१३७ ॥

क्षम्यतां तत्सुहृदिति स्वयं यत्प्रणतप्रियः ।
उक्तोऽसि कृष्ण गोविन्द यादवेति पुरा मया ॥ ६.१३८ ॥

उग्रं तदेवं भगवन्दृष्ट्वा रूपमहं महत् ।
चक्रारूढमिवाशेषं पश्यामि निखिलं जगत् ॥ ६.१३९ ॥

प्रसीद दर्शय विभो वपुः सौम्यं तदेव मे ।
शान्तिं मे याति सहसा नान्यता व्यथितं मनः ॥ ६.१४० ॥

इति प्रसादितः कृष्णः प्रणतेन किरीटिना ।
अदर्शयन्निजं रूपं तदेवाथ चतुर्भुजम् ॥ ६.१४१ ॥

देवा अपि न पश्यन्ति ममेदं सर्वगं वपुः ।
इत्युक्त्वाश्वासयामास कौन्तेयं कमलाधवः ॥ ६.१४२ ॥

***** श्रीगीतास्वेकादसोऽध्यायः ॥ १२ ॥ *****

अथार्जुनोऽवदत्कृष्णं ये भक्तास्त्वामुपासते ।
अव्यक्तमक्षरं ये च तेषां केऽधिकयोगिनः ॥ ६.१४३ ॥

पार्थेनेति हरिः पृष्टो विहितानुग्रहोऽवदत् ।
मद्भक्ताः श्रद्धयोपेताः सर्वथा योगिनोऽधिकाः ॥ ६.१४४ ॥

क्लेशेनैव तु मत्प्राप्तिरव्यक्ताक्षरसेवनात् ।
सूक्ष्मस्थूलगतिर्दुःखं तत्त्वज्ञैरप्यवाप्यते ॥ ६.१४५ ॥

मद्भक्तास्त्वचिरादेव प्राप्नुवन्ति परं पदम् ।
अतस्त्वं मन्मना नित्यमनन्यनिरतो भव ॥ ६.१४६ ॥

वशे यदि न ते चित्तमभ्यासेन गृहाण तत् ।
तत्राप्यशक्तो मत्कर्मा सततं श्रेयसे भव ॥ ६.१४७ ॥

अथवा फलसंन्यासं कर्मणां कुरु मत्परः ।
ज्ञानं हि परमाभ्यासाज्ज्ञानाद्ध्यानमिहोत्तमम् ॥ ६.१४८ ॥

ध्यानाच्च फलसंन्यासस्ततः शान्तिर्विशिष्यते ।
अद्वेष्टा करुणासिन्धुः सुखदुःखसमः शमी ॥ ६.१४९ ॥

उदासीनः शुचिर्दक्षः क्षमी भक्तः प्रियो मम ।

***** श्रीगीतासु द्वादशोऽध्यायः ॥ १३ ॥ *****

शरीरं क्षेत्रमित्याहुः क्षेत्रज्ञं मां विदुर्बुधाः ।
क्षेत्रं तत्सविकारं तु माया भूतादि च स्थितम् ॥ ६.१५० ॥

शान्तानां दृष्टदोषाणां ज्ञानिनां न विमोहनम् ।
मानदम्भमदक्रोधत्यागो गुरुनिषेवणम् ॥ ६.१५१ ॥

असक्तिर्नश्वरे नित्यं ज्ञानमज्ञानमन्यथा ।
ज्ञेयं तु मन्मयं ब्रह्म शुद्धं सदसतोः परम् ॥ ६.१५२ ॥

सर्वतः पाणिवदनं सर्वाकारमनामयम् ।
प्रकृतिः पुरुषश्चेति क्षेत्रक्षेत्रज्ञसंगमः ॥ ६.१५३ ॥

प्रकृतिः करणे हेतुर्भोक्ता तु पुरुषः स्मृतः ।
एकस्थानं पृथग्भावं भूतानां योऽनुपश्यति ॥ ६.१५४ ॥

तत्संगमाच्च विस्तारं स याति ब्रह्म शाश्वतम् ।
परमात्मा गुणातीतो नित्यत्वादयमव्ययः ।
भौतिकेऽपि स्थितः काये सर्वव्यापी न लिप्यते ॥ ६.१५५ ॥

***** श्रीगीतासु त्रयोदशोऽध्यायः ॥ १४ ॥ *****

सर्वज्ञानमिदं भूयः श्रूयतां सुरसेवितम् ।
यद्योगो ब्रह्मगर्भेऽस्मिन्संभवन्मूर्तिसंभवः ॥ ६.१५६ ॥

सत्त्वादयस्तदुद्भूता विभान्त्येते गुणास्त्रयः ।
वैचित्र्यादनिशं येषां संसरन्ति शरीरिणः ॥ ६.१५७ ॥

सत्त्वं प्रकाशकं ज्ञेयं यदुत्थैः स्तम्भकं रजः ।
तमो ह्यावरणं मोहप्रमादाद्यस्य संभवः ॥ ६.१५८ ॥

सततं संकरेणैषां न्यूनाधिक्यविभेदतः ।
गुणदोषाश्च दृश्यन्ते ते ते किल शरीरिणाम् ॥ ६.१५९ ॥

मद्भक्ताः शान्तमनसो जीवन्मुक्तिदशां श्रिताः ।
गुणैरेतैः परित्यक्ता भजन्ते सुखमक्षयम् ॥ ६.१६० ॥

***** श्रीकीतासु चतुर्दशोऽध्यायः ॥ १५ ॥ *****

ऊर्ध्वमूलं भवाश्वत्थमाब्रह्मसदनोदितम् ।
लोकान्तरानेकशाखं विचित्रविषयाङ्कुरम् ॥ ६.१६१ ॥

गुणकर्मप्रबुद्धानां शुभाशुभफलोदयम् ।
स्वभावभूमाववृतं जानीते यः स वेदवित् ॥ ६.१६२ ॥

तमसङ्गकुठारेण च्छित्त्वा यान्ति पदं मम ।
निरस्तमोहं वैमल्यादतिसूर्येन्दुपावकम् ॥ ६.१६३ ॥

यदंशो जीवलोकेऽस्मिञ्जीवश्चरति सर्वगः ।
वायुर्गन्धमिवादाय यो यातीन्द्रियवासनाः ॥ ६.१६४ ॥

तद्विधं गुणयुक्तानां सर्वावस्थासु निर्गुणम् ।
पश्यन्ति ज्ञानिनः सर्वजगतां जीवनं परम् ॥ ६.१६५ ॥

भूतसर्गामिवागत्य अक्षरोऽहं सनातनः ।
मन्मया धृतिमन्तो मां भजन्ते पुरुषोत्तमम् ॥ ६.१६६ ॥

***** श्रीगीतासु पञ्चदशोऽध्यायः ॥ १६ ॥ *****

अभीः सत्त्वं शुचिर्ज्ञानं दमो दानं तपः क्रतुः ।
अहिंसाया गुणाश्चान्ये जायन्ते दिव्यसंपदाम् ॥ ६.१६७ ॥

दम्भमानमदक्रोधपारुष्याज्ञानचापलैः ।
आसुरी सूच्यते संपन्मोहसोकविवर्धिनी ॥ ६.१६८ ॥

युक्तोऽपि सततं दिव्यसंपदा मा शुचः सखे ।
आसुरं भावमापन्ना भजन्ते योनिमासुरीम् ॥ ६.१६९ ॥

सत्त्वादिभिर्गुणैर्बद्धो ज्ञायते चेष्टितैर्जनः ।
मनोभोजनमाचारो गुणतुल्यो हि देहिनाम् ॥ ६.१७० ॥

***** श्रीगीतासु षोडशोऽध्यायः ॥ १७ ॥ *****

आकर्ण्यैतदथोवाच फल्गुनः पुनरच्युतम् ।
संन्यासत्यागयोस्तत्वं ज्ञातुमिच्छाम्यहं विभो ॥ ६.१७१ ॥

उक्ते पाण्डुसुतेनेति भगवानभ्यभाषत ।
काम्यकर्मफलत्यागं संन्यासं संप्रचक्षते ॥ ६.१७२ ॥

सर्वकर्मफलत्यागस्त्याग इत्यभिधीयते ।
म(स)त्कर्म न परित्याज्यं त्याज्यं तु विधिगर्हितम् ॥ ६.१७३ ॥

नित्यकर्मपरित्यागो मोहात्तामस उच्यते ।
क्लेशदुःखभयात्त्यागो राजसो निष्फलः स्मृतः ।
कुर्वतामप्यसक्तानां त्यागः सत्त्वोचितो मतः ॥ ६.१७४ ॥

***** श्रीगीतासु सप्तदशोऽध्यायः ॥ १८ ॥ *****

कर्म कर्ता च बुद्धिश्च त्रिविधा गुणभेदतः ।
धृतिः सुखं च त्रैगुण्यात्त्रिविधं देहिनां मतम् ॥ ६.१७५ ॥

यथोक्तसेवी निःसङ्गः कुरु कर्म निजं सखे ।
मद्भक्तो मत्स्तुतिपरः परं पदमवाप्स्यसि ॥ ६.१७६ ॥

इदं भक्ताय ते ज्ञानमुपदिष्टं मया स्वयम् ।
यः श्रोष्यति स संसारदुःखान्यतितरिष्यति ॥ ६.१७७ ॥

कच्चिन्मोहो विनष्टस्ते कच्चिदेतच्छ्रुतं त्वया ।
केशवेनेति कथिते बभाषे शक्रनन्दनः ॥ ६.१७८ ॥

भगवन्वीतमोहोऽहं करिष्ये तव शासनम् ।
उक्त्वेति वीरो गाण्डीवमाचकर्ष रणोत्सुकः ॥ ६.१७९ ॥

***** श्रीगीतास्वंष्टादशोऽध्यायः ॥ १९ ॥ *****

अथोदतिष्ठद्गम्भीरजलदध्वानमन्थरः ।
युयुत्सुं पार्थमालोक्य सैन्यानां हर्षनिःस्वनः ॥ ६.१८० ॥

पूर्वं ततः सुभटकङ्कटपातिखङ्गटाङ्कारनादमुखरेषु बलेषु राज्ञाम् ।
धर्मात्मजः कवचचापशरान्विमुच्य देवव्रताभिमुखमुत्सुकधीः ससर्पः ॥ ६.१८१ ॥

धिग्धिङ्नृपं कृपणचेष्ट मनुष्यसंज्ञं भूरुं युधिष्ठिरमलीककृताभिधानम् ।
याच्ञा कृताञ्जलिरुपैति परान्यदेष शूरास्तदिङ्गितजडाः पृथगित्यवोचन् ॥ ६.१८२ ॥

सोऽप्यच्छकीर्तिरथ भीष्ममुखानुपेत्य प्रह्वः शरीरपणसंश्रितधार्तराष्ट्रान् ।
तत्पादलग्नमुकुटः प्रकटं प्रणम्य लेभे तदाशिषमशेषमहीपजैत्रीम् ॥ ६.१८३ ॥

अभ्याहतं च रणरङ्गमृदङ्गतूर्ये पार्थान्गुणैकरसिको गुणवान्युयुत्सुः ।
अभ्याययौ तव सुतः स्वकुरून्निरस्य धावन्ति तुल्यगुममेव नृणां मनांसि ॥ ६.१८४ ॥

अस्मिन्महाक्षयमुखे करवालपट्टसंरक्षितप्रतिमुखे रणरङ्गनाट्ये ।
व्याकीर्णकीर्तिकुसुमाञ्जलिरर्जुनाग्रनान्दीमिवापठदमन्दधनुर्निनादैः ॥ ६.१८५ ॥

अत्रान्तरे नृपतिचक्रकिरीटकोटिसंपातजातवबुशाकुलविस्फुलिङ्ग ।
जैत्री त्रिशूलकरशिष्यमुनेरुदग्रा गाङ्गेयशातविशिस्वावलिरुल्ललास ॥ ६.१८६ ॥

संत्राससंकुचितनिश्चलकर्णतालदिक्कुञ्जराकलितकम्पितसर्वलोकम् ।
क्षुभ्यत्क्षयाम्बुधरभैरवभीमनादं भीमं निशम्य भयमाविरभूद्भटानाम् ॥ ६.१८७ ॥

अथ भीमं समभ्यायात्स्वयं राजा सुयोधनः ।
भ्रातृभिः सहितो वीरैर्धुनानो विपुलं धनुः ॥ ६.१८८ ॥

ततः प्रवृत्ते संग्रामे दुर्लक्ष्ये शरवृष्टिभिः ।
स्वयं शान्तनवः श्रीमानभ्यधावद्धनंजयम् ॥ ६.१८९ ॥

सात्यकिं कृतवर्मा च ह्यभिमन्युं बृहद्बलः ।
दुःशासनोऽपि नकुलं सहदेवं च दुर्मुखः ॥ ६.१९० ॥

युधिष्ठिरं तथा शल्य आचार्यो द्रुपदात्मजम् ।
सोमदत्तश्च वैराटिं बाह्लिकश्चेदिभूपतिम् ॥ ६.१९१ ॥

रक्षसां प्रवरं वीरं घटोत्कचमलुम्बुसः ।
शिखण्डिनं द्रोणसुतो मत्स्यं प्राग्ज्योतिषेश्वरः ॥ ६.१९२ ॥

कृपः केकयभूपालं द्रुपदं च जयद्रथः ।
सुतसोमं विकर्णश्च भीमसेनसुतं बली ॥ ६.१९३ ॥

चेकितानः विकर्णश्च प्रऐतिविन्ध्यं च सौबलः ।
इरावतश्च विक्रान्तं शतायुः फल्गुणात्मजम् ॥ ६.१९४ ॥

विन्दानुविन्दावावन्त्यौ कुन्तिभोजं यशस्विनम् ।
कौरवो वीरबाहुश्च विराटसुतमुत्तरम् ॥ ६.१९५ ॥

अन्ये च वीरा राजानो राजसिंहाः प्रहारिणः ।
उत्साहसत्त्वसंपन्नाः ससैन्याः यमुपाद्रवन् ॥ ६.१९६ ॥

तेषां कङ्कणरत्नांशुपटलाः करनिर्गताः ।
हेमपुङ्खा शराश्चक्रुर्वह्निव्याप्तं दिगन्तरम् ॥ ६.१९७ ॥

अथोपुङ्खा रजसा गजवाजिरथाकुलम् ।
वीराणां तुमुलं युद्धं निर्मर्यादमवर्तत ॥ ६.१९८ ॥

ततः शिरोभिर्वीराणां पतितोत्फुल्लितैर्मुहुः ।
अमन्दकन्दुकक्रीडा बभूवेव रणश्रियः ॥ ६.१९९ ॥

ततः पाण्डवसैन्येषु भीष्मचापच्युतैः शरैः ।
विदारितेष बहुशः समुत्तस्थौ महारवः ॥ ६.२०० ॥

अथाभिमन्युरभ्येत्य शतमन्युसुतात्मजः ।
भीष्ममभ्याद्रवद्वीरो मिषतां सर्वभूभुजाम् ॥ ६.२०१ ॥

कृतवर्मप्रभृतिभिः सहितं भीष्ममोजसा ।
अयोधयत्स विशिश्वैर्ध्वजमस्य चकर्त च ॥ ६.२०२ ॥

हेमताले निपतिते संरब्धोऽथ पितामहः ।
दिव्यास्रवर्षी सावेगं सौभद्रं समुपाद्रवत् ॥ ६.२०३ ॥

ततो वृकोदरमुखा विनदन्तो महारथाः ।
सानुगं शन्तनुसुतं समन्तात्पर्यवारयन् ॥ ६.२०४ ॥

भीष्मोऽपि सात्यकिं विद्ध्वा ध्वजं पवनजन्मनः ।
उन्ममाथ शराग्रेण हैमं केसरिणं रथात् ॥ ६.२०५ ॥
अत्रान्तरे गिरिप्रांशुमारुह्य मदकुञ्जरम् ।
अयोध्यन्मद्रराजं हृष्टो वैराटिरुत्तरः ॥ ६.२०६ ॥

स कुञ्जरेन्द्रः शल्यस्य पादेन चतुरो हयान् ।
जघानाकृष्य हस्तेन गर्जञ्जलदनिःस्वनः ॥ ६.२०७ ॥

ततो मद्राधिपः क्रुद्धः शक्तिं शक्तिमतां वरः ।
प्रदीप्तां प्राहिणोद्वेगादुत्तरायेषुवर्षिणे ॥ ६.२०८ ॥

स तया भिन्नहृदयः पपात गलितायुधः ।
कर्णिकार इव भ्रष्टः करीन्द्राचलशेखरात् ॥ ६.२०९ ॥

उत्तरं निहतं दृष्ट्वा शङ्खस्तस्यानुजः क्रुधा ।
चकार शल्यमभ्येत्य शरैर्जटिलविग्रहम् ॥ ६.२१० ॥

तस्य शल्योऽथ गदया विदार्य दलशो रथम् ।
उन्ननादाभवन्येन दिशः शकलिता इव ॥ ६.२११ ॥

शङ्खो हताश्वः सहसा फल्गुणस्य रथं ययौ ।
भीष्मोऽथ पाण्डवचमूं व्यगाहत नृपान्तकः ॥ ६.२१२ ॥

मत्स्यकेकयापाञ्चालचेदिसेनासु सर्वशः ।
भीष्मबाणविभिन्नासु सूर्योऽस्तशिखरं ययौ ॥ ६.२१३ ॥

ततो निवृत्ते संग्रामे शिबिराणि नरेश्वराः ।
भेजिरे प्रतिसंसन्तो विपुलं भीष्मविक्रमम् ॥ ६.२१४ ॥

***** प्रथमे युद्धदिवसे उत्तरवधः ॥ २० ॥ *****

दिनान्ते दीर्णपृतनः शोकार्तो धर्मनन्दनः ।
संहारं निजसैन्यानां प्रदध्यौ भीष्मविक्रमम् ॥ ६.२१५ ॥

स राजमध्ये गोविन्दमुवाच करुणाकुलः ।
क्षीयमाणस्य समरे सत्यं श्रेयस्तपो मम ॥ ६.२१६ ॥

अलं युद्धेन मे कृष्ण पृथिवीक्षयकारिणा ।
को मुच्येत रणे प्राप्य भीष्मं भीष्मपराक्रमम् ॥ ६.२१७ ॥

इति ब्रुवाणं राजानमुवाच मधुसूदनः ।
ध्रुवस्ते विजयो राजन्यस्य योद्धा धनंजयः ॥ ६.२१८ ॥

सात्यकिर्द्रुपदः शैब्यः सिखण्डी पञ्च केकयाः ।
सौभद्रश्च रणे क्रुद्धो हन्यादेव गणानपि ॥ ६.२१९ ॥

उक्ते जनार्दनेनेति तीव्रं भीष्मपराक्रमम् ।
मिथः कथयतां तेषां सा जगाम विभावरी ॥ ६.२२० ॥

अथोदिते सहस्रांशौ विहिते पाण्डुनन्दनैः ।
क्रुञ्चव्यूहे महोत्साहैर्व्यूहमन्येऽपि चक्रिरे ॥ ६.२२१ ॥

ततः प्रवृत्ते समरे तीव्रे भीरुभयंकरे ।
हृदयाकम्पने नाज्ञां तालकेतुरदृश्यत ॥ ६.२२२ ॥

गम्भीरधीरसंरम्भो वर्जयन्स पृथग्जनम् ।
चकर्त भूभुजामेव शिरांसि लघुविक्रमः ॥ ६.२२३ ॥

भीष्मेणालोलिते व्यूहे वातोद्धूत इवार्मवे ।
तमभ्यधावत्संरब्धः श्वेताश्वोऽच्युतसारथिः ॥ ६.२२४ ॥

तमापतन्तं विशखैर्भीष्मः क्षिप्रमपूरयत् ।
द्रोणदुर्योधनमुखाः सर्वे चान्ये महारथाः ॥ ६.२२५ ॥

पार्थोऽपि सायकैश्चक्रे समन्तात्कुरुवाहिनीम् ।
तत्पक्षपवनस्फारैर्दीर्णामिव सहस्रधा ॥ ६.२२६ ॥

दुर्योधनप्रेरितोऽथ स्वयं शन्तनुनन्दनः ।
निन्दन्निजं क्षत्रधर्ममभ्यदावद्धनंजयम् ॥ ६.२२७ ॥

निर्विशेषं तयोस्तत्र सुचिरं युध्यमानयोः ।
निरुद्धां शरजालेन नादृश्यन्त दिशो दश ॥ ६.२२८ ॥

न ददर्श तयोः कश्चिदन्तरं क्षिपतोः शरान् ।
धारासारप्रबलयोर्नदतोरिव मेघयोः ॥ ६.२२९ ॥

ततो द्रोणमुखा वीरा धृष्टद्युम्नपुरोगमैः ।
अयुध्यन्ताभवन्येन सुराः पुलकिता दिवि ॥ ६.२३० ॥

भीभसेनः कलिङ्गानां प्रविश्याथ वरुथिनीम् ।
पातयन्कुञ्जरांश्चक्रे निःसंचारां वसुंधराम् ॥ ६.२३१ ॥

भीमनिर्भिन्नमत्तेभकुम्भोद्भूतासृगम्भसाम् ।
प्रवाहैर्ययुराकण्ठं तुरङ्गाः कृच्छगामिनः ॥ ६.२३२ ॥

निहत्य कुञ्जरानीकं कलिङ्गानां प्रहारिणाम् ।
केतुमन्तं नरपतिं जघान सपदानुगम् ॥ ६.२३३ ॥

निःशेषितकलिङ्गस्य भीमसेनस्य नादतः ।
घनगम्भीरनादेन पृथिवी समकम्पत ॥ ६.२३४ ॥

ततो भीष्मः समभ्येत्य दृष्ट्वा दीर्णामनीकिनीम् ।
विधाय विरथं भीमं शैनेयाश्वानपोथयत् ॥ ६.२३५ ॥

दुर्योधनसुतं वीरं लक्ष्मणं शौर्यलक्षणम् ।
अभिमन्युः शितैर्बाणैः क्षिप्रहस्तमपोथयत् ॥ ६.२३६ ॥

गोचरे पतितं पुत्रं सौभद्रस्य प्रमाथिनः ।
दृष्ट्वा दुर्योधनो राजा सानुगः स्वयमाद्रवत् ॥ ६.२३७ ॥

कुरुवीरैः परिवृतं विलोक्य सुतमर्जुनः ।
मण्डलीकृतगाण्डीवस्तूर्णं प्रत्युद्ययौ परान् ॥ ६.२३८ ॥

लाघवादभितस्तस्य सायकाश्चित्रयोधिनः ।
जह्नुः शिरांसि शूराणां फलानीव महीरुहाम् ॥ ६.२३९ ॥

आखण्डलभुवा चण्डगाण्डीवप्रेरितैः शरैः ।
विदारितेष्वनीकेषु विध्वस्तरथसादिषु ॥ ६.२४० ॥

रुधिरेणेव गगने संध्यारागेम पूरिते ।
अवहारं रणे चक्रे वासरान्ते पितामहः ॥ ६.२४१ ॥

***** दितीयो युद्धदिवसः ॥ २१ ॥ *****

अन्येद्युर्गारुडं व्यूहं दृष्ट्वा भीष्मेण कल्पितम् ।
अर्धचन्द्रं प्रतिव्यूहं चक्रिरे पाण्डुनन्दनाः ॥ ६.२४२ ॥

ततः प्रवृते समरे भीरूणां धृतिखण्डने ।
आरूढेव महीव्योम रजसा समलक्ष्यत ॥ ६.२४३ ॥

असृक्प्रवाहैः सहसा प्रशान्ते रेणुमण्डले ।
सुघोरः संप्रहारोऽभून्नृपाणां त्रिदशेक्षितः ॥ ६.२४४ ॥

भीष्मद्रोणमुखैर्वीरैः। फल्गुणप्रमुखा रणे ।
संसक्ताः समदृश्यन्त पूर्वदेवैरिवामराः ॥ ६.२४५ ॥

बाणजालेन महता संहतानां समन्ततः ।
अर्जुनेन निरुद्धासु रिपूणां शस्त्रवृष्टिषु ॥ ६.२४६ ॥

अकम्पितौ कुरुव्यूहे भीमसेनघटोत्कचौ ।
प्रविश्य चक्रतुर्वीरौ व्याकुलां परवाहिनीम् ॥ ६.२४७ ॥

तावभ्यधावत्संरम्भादमर्षी धृतराष्ट्रजः ।
कुर्वन्नाजसमाजेन मौलिरद्नारुणा दिशः ॥ ६.२४८ ॥

हैडम्बबाणनिहता वीरास्तस्य पदानुगाः ।
महावातसमाक्रान्ता द्रुमा इव चकम्पिरे ॥ ६.२४९ ॥

दुर्योधनप्रेरितानां शराणां दीप्ततेजसाम् ।
वृष्टिमभ्युद्गतां घोरां चिच्छेदाशु वृकोदरः ॥ ६.२५० ॥

भीमोत्सृष्टेन पृथुना पृषङ्के(त्के)नाथ कौरवः ।
हृदि विद्धो निमग्नेन मुमोह भृशविह्वलः ॥ ६.२५१ ॥

तस्मिन्सारथिना नीते रथेनाकुलकेतुना ।
दुद्राव सैन्यं तत्सर्वं पश्यतोर्द्रेणभीष्मयोः ॥ ६.२५२ ॥

महारथैर्वारितेऽपि कीर्णे तस्मिन्बलार्णवे ।
प्रत्युद्ययौ समाश्वस्य तूर्णं राजा सुयोधनः ॥ ६.२५३ ॥

पार्थसात्यकिसौभद्रैः स दृष्ट्वा बहुशश्चमूम् ।
विद्रावितां समभ्येत्य पितामहमभाषत ॥ ६.२५४ ॥

दारितं पश्य मे सैन्यं लब्धलक्षैररातिभिः ।
पाण्डुपुत्रेषु कृपया त्वयि माध्यस्थ्यमाश्रिते ॥ ६.२५५ ॥

अलं द्रोमसहायस्य परिस्थातुं पुरस्तव ।
मदभाग्यवशान्न स्याद्यदि पार्थेषु वः कृपा ॥ ६.२५६ ॥

एतत्सुयोधनेनोक्तं श्रुत्वा सुरसरित्सुतः ।
ईषत्स्मितसुधाधौतकपोलफलकोऽवदत् ॥ ६.२५७ ॥

उक्तोऽसि बहुशो राजन्नजेयाः पाण्डवा इति ।
यत्तु शक्यं मया किंचिद्वृद्धेनाद्य करोमि किम् ॥ ६.२५८ ॥

इत्युक्त्वा चापमाकृष्य तालमात्रं महाभुजः ।
मन्दायमाने दिवसे सममभ्युद्ययौ परान् ॥ ६.२५९ ॥

ततो भीष्मरथोदीर्णैः शरैः सूर्यकरप्रभैः ।
विदारितान्यनेकानि तमांसीव क्षयं ययुः ॥ ६.२६० ॥

तोमरेष्वातपत्रेषु शरीरेषु च भूभुजाम् ।
पेतुः पुनरभावाय भीष्मनामाङ्किताः शराः ॥ ६.२६१ ॥

अदृष्टपुङ्खवदनैर्घनश्रेणीकृतैर्मुहुः ।
तत्सायकैरदृश्याभूत्पाण्डवानामनीकिनी ॥ ६.२६२ ॥

तं युध्यमानं दीप्तास्त्रं वर्जयन्तोऽपि संगरे ।
दिक्षु भीष्मसहस्राणि ददृशुः सर्वपार्थिवाः ॥ ६.२६३ ॥

व्रजत्सु राजचक्रेषु भीष्मानलपतङ्गताम् ।
एकेनैकेन बाणेन भिन्नेषु त्रिषु दन्तिषु ॥ ६.२६४ ॥

याते सहस्रधा सैन्ये पाण्डवानां तरस्विनाम् ।
अनयत्फल्गुणरथं गाङ्गेयान्तिकमच्युतः ॥ ६.२६५ ॥

ततोऽभवद्भीष्मशरैर्भास्वरैः सव्यसाचिनः ।
क्षणं पञ्चाननस्येव चारुकाञ्चनपञ्जरः ॥ ६.२६६ ॥

निरुद्धशरसंचारो यत्नेन शतमन्युजः ।
विचित्रैर्विचरन्मार्गैर्युयुधे कृष्णसारथिः ॥ ६.२६७ ॥

तस्यातिमानुषं धैर्यमास्थितस्य पितामहः ।
साधु पुत्रेति संहृष्टः पराक्रममपूजयत् ॥ ६.२६८ ॥

तत्कङ्कपत्त्रिनिर्भिन्नौ कृष्णावेकरथे स्थितौ ।
रक्ताशोकाविवोत्फुल्लौ बभतुः क्षतजोक्षितौ ॥ ६.२६९ ॥

ततो निरन्तरैर्बाणैर्भीष्मकार्मुकनिर्गतैः ।
आक्रान्तभुवनाभोगैर्नादृश्यन्त दिशो दश ॥ ६.२७० ॥

भीष्मे पृथुशरज्वाले कालानल इवोद्यते ।
दुद्राव पाण्डवचमूः पश्चादभिसृता परैः ॥ ६.२७१ ॥

भग्नेषु भटमुख्येषु बभाषे कैटभान्तकः ।
क्व नु मानधना यूयमपारयशसो रणे ।
परित्यज्य कुलाचारं याताः कातरतामिमाम् ॥ ६.२७२ ॥

इत्युक्त्वा तान्समालोक्य विद्रुतानेव केशवः ।
उवाच सात्यकिं वीरं युध्यमानं प्रयत्नतः ॥ ६.२७३ ॥

तिष्ठन्तु यान्तु वा सर्वे सात्यके पृतनाग्रगाः ।
एष स्वयं निहन्म्यद्य सानुगं शन्तनोः सुतम् ॥ ६.२७४ ॥

इत्युक्त्वा चण्डमार्तण्डमण्डलाग्रं सुदर्शनम् ।
स्वयमुद्यम्य कंसारिः स्यन्दनाग्रादवातरत् ॥ ६.२७५ ॥

क्रुद्धस्य तस्य कल्पान्तकरालानलरोचिषः ।
न रूपं सेहिरे द्रष्टुं सुरा अपि दिवि स्थिताः ॥ ६.२७६ ॥

संरम्भोद्भ्रान्तदोर्दण्डविलसत्पीतवाससा ।
शोभां भेजे स नीलाद्रेः सर्पत्संध्याभ्रशालिनः ॥ ६.२७७ ॥

तमन्तकमिवायान्तं जगत्संहारदीक्षितम् ।
धीरः शान्तनवो दृष्ट्वा धुनानो धनुरभ्यधात् ॥ ६.२७८ ॥

एह्येहि भगवन्विष्णो जिष्णो त्रिदशविद्विषाम् ।
चक्रेण मे शिरश्छिन्धि भवक्लेशकृशानुना ॥ ६.२७९ ॥

भवता नाभिजाम्भोजसमुद्धूतस्वयंभुवा ।
हतो जगन्निवासेन धन्यतां यात्वयं जनः ॥ ६.२८० ॥

सिद्धसिन्धुसुतेनेति भाषिते नतमौलिना ।
अवरुह्य रधात्तूर्णमर्जुनः कृष्णमन्वगात् ॥ ६.२८१ ॥

स निष्पीड्य बलात्पादौ पुरस्तात्कालियद्विषः ।
उवाच संहर विभो कोपं विश्वक्षयोचितम् ॥ ६.२८२ ॥

क्षपयामि रिपून्सर्वान्युधि सत्येन ते शपे ।
इति प्रसाद्य तं पार्थो रथमारोपयत्पुनः ॥ ६.२८३ ॥

ततो गाण्डीवघोषेण पाञ्चजन्यरवेण च ।
चक्राते राजचक्राणां कृष्णौ कृष्णाम्बुदभ्रमम् ॥ ६.२८४ ॥

ततो निर्विवरैर्बाणैः शल्यभिरिश्रवःशलाः ।
अवाकिरन्भीष्ममुखाः फल्गुणं शस्त्रवृष्टिभिः ॥ ६.२८५ ॥

तामायुधमहावृष्टिं छित्त्वा सपदि पाण्जवः ।
माहेन्द्रमस्त्रं विदधे सर्वलोकक्षयक्षमम् ॥ ६.२८६ ॥

तस्मिन्नुदीर्णे सहसा महास्त्रे दीप्ततेजसि ।
चण्डवातविकीर्णेव चकम्पे कुरुवाहिनी ॥ ६.२८७ ॥

वध्यमानेषु सैनेषु क्षिप्रं गाण्डीवधन्वना ।
नरनागाश्वदेहोत्था ससर्प रुधिरापगा ॥ ६.२८८ ॥

छत्त्राच्छफेनपटलां चलच्चामरसारसाम् ।
केशशेवालशबलां पिशाचास्तां सिषेविरे ॥ ६.२८९ ॥

घोरे नृपक्षये तस्मिन्वर्तमाने रणोत्सवे ।
संध्यया दिक्षु जातासु शोणितेन भृतास्विव ॥ ६.२९० ॥

यातेऽस्तं चण्डकिरणे प्रत्यग्ररुधिरत्विषि ।
मांसपिण्ड इव ग्रस्ते घोरेण ध्वान्तरक्षसा ॥ ६.२९१ ॥

विध्वस्तचापकवचा विप्रकीर्णरथध्वजाः ।
अवहारमकुर्वन्त पाण्डवाः शस्त्रविक्षताः ॥ ६.२९२ ॥

***** तृतीयो युद्धदिवसः ॥ २२ ॥ *****

पुनः प्रभाते संरब्धा निर्ययुः कुरुपाण्डवाः ।
विनदन्तो महोत्साहा व्याडव्यूहाग्रवर्तिनः ॥ ६.२९३ ॥

अथ प्रवृत्ते समरे पृथिवीक्षयशंसिनि ।
सौभद्रप्रमुखा वीरान्भीष्ममुख्यानयोधयन् ॥ ६.२९४ ॥

ततः शरशतासारसंपूरितदिगन्तरः ।
महारथानतीत्यान्यान्भीष्मोर्ऽजुनमुपाद्रवत् ॥ ६.२९५ ॥

निर्विशेषं तयोः क्षिप्रं पीरयोर्युध्यमानयोः ।
एको द्रोणिमुखान्वीरानभिमन्युरयोधयत् ॥ ६.२९६ ॥

छिन्नवर्मध्वजरथान्स विधाय महारथान् ।
शिरःप्रकरमुच्छिन्नं राज्ञां क्षिप्रमपातयत् ॥ ६.२९७ ॥

द्रोणप्रभृतिभिः सर्वैर्दृष्ट्वा सौभद्रमावृतम् ।
धृष्टद्युम्नश्चमूनाथश्चकर्ताभ्येत्य कौरवान् ॥ ६.२९८ ॥

स हत्वा चामरं शूरः पौरव्यतनयं नृपम् ।
शिरःसंयमनेः कायाज्जहाराकुलकुण्डलम् ॥ ६.२९९ ॥

अत्रान्तरे गजानीकैर्विपुलैश्च गजाधिपः ।
भीमदुर्योधनादिष्टो गदापाणिः समाद्रवत् ॥ ६.३०० ॥

भीमसेनोऽथ रभसादवरुह्य रथाद्गजान् ।
गर्जन्नुरुगदाघातैर्जघान घनविक्रमः ॥ ६.३०१ ॥

गदाप्रहाराभिहतैर्वज्रभिन्नैरिवाचलैः ।
पतद्भिर्मत्तमातङ्गैश्चकम्पे चकितेव भूः ॥ ६.३०२ ॥

निहते कुञ्जरानीके भीमेन भयदायिना ।
तमभ्यधावन्संक्रुद्धाः सर्वे दुर्योधनादयः ॥ ६.३०३ ॥

सुयोधनशराघातमूर्छितोऽथ वृकोदरः ।
समाश्वास्य परानीकं रथेन कुपितोऽविशत् ॥ ६.३०४ ॥

विश्वसंहारसंक्रुद्धं तं कृतान्तमिवोत्थितम् ।
प्राप्यानुजाः कुरुपतेश्चतुर्दश ययुः क्षयम् ॥ ६.३०५ ॥

सेनापतिं सुषेणं च जयसंधं सुलोचनम् ।
भीममुग्रं भीमरथं भीमबाहुमलोलुपम् ॥ ६.३०६ ॥

समं ववित्सुं कटकं दुर्मुखं दुष्प्रदर्शनम् ।
हत्वैनामकरोत्सेनां कौरवाणां सहस्रधा ॥ ६.३०७ ॥

तमभ्यधावन्मत्तेन सुप्रतीकेन दन्तिना ।
गम्भीरघोरघोषेण भगदत्तः सहानुगैः ॥ ६.३०८ ॥

गजोदयाचलरवेः शरैस्तीक्ष्णैरिवांशुभिः ।
प्रतापधाम्नस्तस्यारात्स च कोपारिवाहिनी ॥ ६.३०९ ॥

तत्सायकेन विद्धोऽथ हृदि मर्मावभेदिना ।
ध्वजयष्टिं समालम्ब्य तस्थौ भीमोऽतिमूर्छितः ॥ ६.३१० ॥

ततो घटोत्कचः क्रुद्धो दृष्ट्वा जनकमाकुलम् ।
भगदत्तमभिद्रुत्य घोरां मायां समाददे ॥ ६.३११ ॥

ऐरावणगतः सोऽथ प्रभिन्नैर्दिग्द्विपैः सह ।
अपीडयत्सुप्रतीकं दीप्ताभिः शस्त्रवृष्टिभिः ॥ ६.३१२ ॥

तस्य निर्भिद्यमानस्य कुञ्जरेन्द्रस्य गर्जतः ।
शब्देन तस्थुरालीय सर्वे संकुचिता गजाः ॥ ६.३१३ ॥

घटोत्कचेन संसक्तं दृष्ट्वा प्राग्ज्योतिषेश्वरम् ।
सह द्रोणादिभिर्वीरैर्भीष्मस्तं देशमाद्रवत् ॥ ६.३१४ ॥

घटोत्कचं कालरूपं नदन्तं वीक्ष्य भैरवम् ।
संध्यायां दुर्जयं मत्वा भीष्मस्तं भीमविक्रमम् ॥ ६.३१५ ॥

अवहारं सुसैन्यानां विदधे धीमतां वरः ।
येनाभवन्कालवक्त्रान्निष्क्रान्ता इव कौरवाः ॥ ६.३१६ ॥

***** चतुर्थो युद्धदिवसः ॥ २३ ॥ *****

ततो निशायामभ्येत्य कुरुराजः पितामहम् ।
पप्रच्छ पाण्डुपुत्राणां दुःखितो जयकारणम् ॥ ६.३१७ ॥

तमब्रवीच्छान्तनवो राजन्नुक्तोऽसि सर्वदा ।
देवेन विष्णुना गुप्ता न जेयाः पाण्डवा इति ॥ ६.३१८ ॥

पुरा भूभारशान्त्यर्थं स्वयंभूर्मुनिसंसदि ।
प्रादुर्भूतं स्वयं विष्णुं तुष्टाव सहसां निधिम् ॥ ६.३१९ ॥

जय विश्वेश विश्वात्मन्विश्वक्सेन सुधानिधे ।
अमन्दचिद्धनानन्द संवित्समरसद्युते ॥ ६.३२० ॥

नमस्तुभ्यं जगत्सर्गस्थितिसंहारकारिणे ।
त्रिविक्रमाय महते त्रिगुणाय त्रिमूर्तये ॥ ६.३२१ ॥

नमः प्रचण्डचक्राग्रप्रभाबासुरबाहवे ।
दैत्यान्धकारसंहारकारिणे मोहदारिणे ॥ ६.३२२ ॥

अवतीर्णा भुवं नाथ दानवा ये हतास्त्वया ।
तेषां वधाय दृप्तानां मानुषी तनुमाविश ॥ ६.३२३ ॥

इति स्तुताः पद्मभुवा देवो नारायणः प्रभुः ।
नरेण साकं भूभारशान्त्यै क्षितिमवातरत् ॥ ६.३२४ ॥

स एष कृष्णो भगवाञ्जातो यादवनन्दनः ।
नरश्च विजयो धीरः प्रवरः सर्वधन्विनाम् ॥ ६.३२५ ॥

देवौ कृष्णार्जुनावेतौ न जेयौ त्रिदशैरपि ।
इति ज्ञात्वा शमः पुत्र क्रियतां पाण्डुनन्दनैः ॥ ६.३२६ ॥

***** विश्वेपाख्यानम् ॥ २५ ॥ *****

अथ प्रभाते मकरश्येनव्यूहाग्रवर्तिनः ।
भीष्मभीममुखा युद्धं चक्रिरे पाण्डुनन्दनाः ॥ ६.३२७ ॥

हतानां हन्यमानानां घ्नतां च समरे मिथः ।
पततां तत्र वीराणां निःस्वस्तुमुलोऽभवत् ॥ ६.३२८ ॥

भीमफल्गुणसौभद्रमत्स्यसात्यकिपार्षतैः ।
भीष्ममुख्यैश्च ते सेने भिन्ने संशयमापतुः ॥ ६.३२९ ॥

कबन्धताण्डवश्चण्डे मत्तवेतालसंकुले ।
तस्मिन्नायोधने घोरे भूतानामुत्सवोऽभवत् ॥ ६.३३० ॥

धन्विनां शरजालेन दिवमुत्पततां मुहुः ।
रवौ संछादिते राज्ञां व्यर्थोऽभूच्छस्त्रसंग्रहः ॥ ६.३३१ ॥

बीरेण भूरिश्रवसा संसक्तं वीक्ष्य सात्यकिम् ।
अभ्याद्रबन्धन्विनस्तं देशं सात्यकिसूनवः ॥ ६.३३२ ॥

तेषामापततां पूर्णं सृजतां शरदुर्दिनम् ।
भूरिश्रवाः शिरांस्यारादुश्चकर्त शितैः शरैः ॥ ६.३३३ ॥

हतेषु तेषु कुपितः प्रदीप्तास्त्रो धनंजयः ।
चकार कुरुसेनानां संहारं हरिसारथिः ॥ ६.३३४ ॥

हते लक्षचतुर्भागे भूभुजामनिवर्तिनाम् ।
गाम्डीवधन्वना सैन्यं वासरान्ते न्यवर्तत ॥ ६.३३५ ॥

***** पञ्चमो युद्धदिवसः ॥ २६ ॥ *****

पुनः प्रभाते संनद्धा निर्ययुः कुरुपाण्डवाः ।
अलक्ष्यभेदाव्यूहाभ्यां क्रौञ्चेन मकरेण च ॥ ६.३३६ ॥

ततः प्रमथ्य सहसा भीमसेनोऽरिवाहिनीम् ।
विवेश भृशसंक्रुद्धः समं द्रुपदसूनुना ॥ ६.३३७ ॥

ताभ्यां विदारिते व्यूहे कुपिताः कुरुनन्दनाः ।
विमुखैः कुञ्जरानीकैस्तौ तूर्णं पर्यवारयन् ॥ ६.३३८ ॥

भीमसेनगदाघातनिष्पिष्टवपुषां रणे ।
अभूद्व्यतिकरो घोरः पततां गजयोधिनाम् ॥ ६.३३९ ॥

युध्यमानेषु सैन्येषु भीमेन भुजशालिना ।
अभ्याद्रवत्सानुगस्तं स्वयं राजा सुयोधनः ॥ ६.३४० ॥

छादितं कौरवैर्दृष्ट्वा भीमं विशिखवर्षिभिः ।
विमोहं विदधे तेषां मोहनास्त्रेण पार्षनः ॥ ६.३४१ ॥

द्रोणेन स्वयमभ्येत्य ज्ञानास्त्रेण विनाशिते ।
मोहनास्त्रे कुरुपतिं भीमस्तूर्णमुपाद्रवत् ॥ ६.३४२ ॥

मदान्ध क्वाधुना जीवन्मयि जीवति यास्यसि ।
इत्युक्त्वा ते शरशतैर्वज्रवेगैरवाकिरन् ॥ ६.३४३ ॥

भीमचापच्युतैर्बाणैः सोऽथ कृत्तरथध्वजः ।
हृदि निर्दारितो भेजे मूर्छां व्यथितमानसः ॥ ६.३४४ ॥

अत्रान्तरे भीष्मशरैर्हन्यमानेषु राजसु ।
घोरो बभूव संमर्दः कृतान्तसमरोत्सवः ॥ ६.३४५ ॥

द्रौपदेयेषु वीरेषु युध्यमानेषु कौरवैः ।
अवर्तत रणो घोरो गजवाजिरथक्षयः ॥ ६.३४६ ॥

अथावहारं सैन्यानां चक्रे शन्तनुनन्दनः ।
राजसेवावृते सूर्ये यातेऽस्तं रुधिरारुणे ॥ ६.३४७ ॥

***** षष्ठो युद्धदिवसः ॥ २७ ॥ *****

अन्येद्युर्मण्डलव्यूहे भीष्मेण विहिते स्वयम् ।
युधिष्ठिरः स दुर्भेद्यं वज्रव्यूहमकल्पयत् ॥ ६.३४८ ॥

ततः प्रवृत्ते समरे भीषणे भीष्मपार्थयोः ।
विराट आद्रवद्द्रोणं गरिष्ठं सर्वधन्विनाम् ॥ ६.३४९ ॥

द्रोमस्तं बाणवर्षेण संछाद्य शरवर्षिणम् ।
उन्ननाद धनध्वानो रथमस्य जघान च ॥ ६.३५० ॥

स हताश्वं समुत्सृज्य रथं पुत्रस्य संभ्रमात् ।
आरुरोह हतानीकं शङ्खस्यारूढधन्विनः ॥ ६.३५१ ॥

द्रोणोऽथ तौ पितापुत्रौ विलोक्यैकरथे स्थितौ ।
शङ्खाय प्राहिणोद्धोरं मृत्युदण्डोपमं शरम् ॥ ६.३५२ ॥

स तेन भिन्नहृदयः पपात क्षतजोक्षितः ।
वातेनोन्मथितः शैलादुत्फुल्ल इव किशुकः ॥ ६.३५३ ॥

ततः शिखण्डिनं द्रोणः शरैर्विशिखवर्षिणम् ।
हताश्वे सात्यकिरथं समारूढे शिखण्डिनि ।
अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा तमाद्रवत् ॥ ६.३५४ ॥

मायया युध्यमानं तं गर्जन्तं राक्षसेश्वरम् ।
चकार विमुखं कोपाद्रौर्द्रेणास्त्रेण सात्यकिः ॥ ६.३५५ ॥

शैनेयेन जिते तस्मिन्निरावानर्जुनात्मजः ।
विन्दानुविन्दावभ्यायाज्जम्भारिसमविक्रमः ॥ ६.३५६ ॥

घटोत्कचमथायान्तं कृतान्तमिव भैरवम् ।
अवारयद्गजेन्द्रेण भगदत्तो नृपाग्रणीः ॥ ६.३५७ ॥

वीरं स हत्वा हैडम्बं पाण्डवानामनीकिनीम् ।
दर्पाद्विलोडयामास गजेन्द्रो नलिनीमिव ॥ ६.३५८ ॥

माद्रीसुतौ ततः शल्यं विधाय विरथं शरैः ।
चक्रतुर्विमुखं संख्ये राजचक्रस्य पश्यत ॥ ६.३५९ ॥

स्वयं युधिष्ठिरो राजा नृपं जित्वा श्रुतायुधम् ।
विगाह्य कौरवानीकं विदधे विमुखं शरैः ॥ ६.३६० ॥

चेकितानेन विजिते गौतमे धन्विनां गुरौ ।
भीष्मश्चकार कदनं राज्ञामन्यत्र चार्जुनः ॥ ६.३६१ ॥

युधिष्ठिरगिरा वीक्ष्य भीष्माय समभिद्रवत् ।
शिखण्डिनं मद्रराजो दिव्यैरस्त्रैरवारयत् ॥ ६.३६२ ॥

भीष्मेण हन्यमानेषु भूपालेष्वनिवर्तिषु ।
पार्थेन च त्रिगर्तेषु जगामास्तं दिवाकरः ॥ ६.३६३ ॥

तमोभिरावृते लोके रणे रक्तासवाकुले ।
प्रमत्तैरिव वेतालैः शिबिराणि ययुर्नृपाः ॥ ६.३६४ ॥

***** सप्तमो युद्धदिवसः ॥ २८ ॥ *****

भीष्मेण सागरव्यूहे प्रातर्विरचिते पुनः ।
शृङ्गाटकं महाव्यूहं चक्रे द्रुपदनन्दनः ॥ ६.३६५ ॥

विदीर्णेष्विव सैन्येषु भीष्मचापच्युतैः शरैः ।
बभूवाभिमुखः कोपादेक एव वृकोदरः ॥ ६.३६६ ॥

स हत्वा सारथिं बाणैस्तूर्णं शन्तनुजन्मनः ।
द्रोणस्य च समुद्भ्रान्तपताकं विदधे रथम् ॥ ६.३६७ ॥

लब्धलक्ष्यस्ततो भीमः सप्त दुर्योधनानुजान् ।
जघान मदसंरब्धान्पञ्चानन इव द्विपान् ॥ ६.३६८ ॥

बह्वाशिनं कुण्डधारं विशालाक्षं सुदुर्जयम् ।
महोदरं मण्डितकं सुनाभं च निहत्य तान् ॥ ६.३६९ ॥

विद्राव्य कौरवचमूं ननादास्फालयन्दिशः ।
क्षयाय सर्वजगतां देवै रुद्र इवोदितः ॥ ६.३७० ॥

इरावानथ विक्रान्तो विवेश कुरुवाहिनीम् ।
उलूपी नागललना फल्गुनाद्यमजीजनत् ॥ ६.३७१ ॥

कार्यं समारसाहाय्यं स्वयमित्यर्जुनेन सः ।
उक्तः पुरा सुरपुरे तां युद्धभुवमाययौ ॥ ६.३७२ ॥

रत्नकाञ्चनसंनाहैः स पातालतुरङ्गमैः ।
उह्यमानः शरैश्चक्रे फणिलोकमिवापरम् ॥ ६.३७३ ॥

स गत्वा विपुलानीकान्गान्धारान्हययोधिनः ।
शकुनेस्तनयान्सप्त जघान घनविक्रमान् ॥ ६.३७४ ॥

ततो दुर्योधनादिष्टो मायावी राक्षसाधिपः ।
अलम्बुसः समभ्यायादिरावन्तं रणोत्कटः ॥ ६.३७५ ॥

इरावनथ खङ्गेन छित्त्वा सपदि रक्षसः ।
स निषङ्गं धनुर्दीप्तं ननाद बलिनां वरः ॥ ६.३७६ ॥

ततो मायां समाश्रित्य महतीं मोहनीं नृणाम् ।
युयुधाते समाविश्य तौ नभो भीमविक्रमौ ॥ ६.३७७ ॥

इरावता निजास्त्रौघैर्हन्यमानस्य रक्षसः ।
घोरः समुदभून्नादः सर्वप्राणिभयंकरः ॥ ६.३७८ ॥

अथ साहाय्यकं चक्रुर्भुजङ्गा भुजगीभुवः ।
तद्वमन्तो विषं तीक्ष्णं भोगान्भोगभृतां वराः ॥ ६.३७९ ॥

राक्षसोऽथ भृशं क्रुद्धो रूपमास्थाय गारुडम् ।
भक्षयित्वाखिलान्सर्पान्भीमं स्वं वपुराददे ॥ ६.३८० ॥

मायाविमोहितस्याथ खङ्गेनारादिरावतः ।
जहार राक्षसं कायाच्छिरस्तलकुण्डलम् ॥ ६.३८१ ॥

हते धनंजयसुते हैडम्बः क्रोधमूर्छितः ।
रुराव येन वसुधा चचाल सकुलाचला ॥ ६.३८२ ॥

तमभिद्रुतमालोक्य राजा दुर्योधनः स्वयम् ।
सह सर्वैर्निजानीकैर्महामायमयोधयत् ॥ ६.३८३ ॥

विद्युज्जिह्वं वेगवन्तं महारौद्रं प्रमाथिनम् ।
हैडिम्बानुचरान्घोरान्स जघान निशाचरान् ॥ ६.३८४ ॥

शक्तिं घटोत्कचेनाथ प्रेरितां कुरुभुभूजे ।
महागजेन जग्राह वङ्गानामधिपः पुरः ॥ ६.३८५ ॥

नागे निपतिते तस्मिन्रक्षिते च सुयोधने ।
संहारं पुरुसैन्यानां चकार पिशिताशनः ॥ ६.३८६ ॥

भगदत्तोऽथ विद्राव्य पाण्डवानामनीकिनीम् ।
सुप्रतीकेन नागेन घटोत्कचमयोधयत् ॥ ६.३८७ ॥

तनयं निहतं श्रुत्वा कुपितः शतमन्युजः ।
शिरोभिर्भूमिपालानां दुर्गमां वसुधां व्यधात् ॥ ६.३८८ ॥

भीमोऽपि क्रोधसंतप्तो भ्रातुः पुत्रे निपातिते ।
सुयोधनानुजान्वीरान्प्राहिणोद्यममन्दिरम् ॥ ६.३८९ ॥

अनाधृष्टिं कुण्डलिनं कुण्डभेदिं सुलोचनम् ।
विराटं दीर्घबाहुं च सुबाहुं कनकध्वजम् ॥ ६.३९० ॥

हत्वैतान्कौरवानीकं कबन्धशतसंकुलम् ।
विदधे मत्तवेतालनन्दने दिनसंक्षये ॥ ६.३९१ ॥

विस्रस्तचापकवचे भग्नस्यन्दनकुञ्जरे ।
रणेऽवहारं सैन्यानां ततश्चक्रुर्महारथाः ॥ ६.३९२ ॥

***** अष्टमे युद्धदिवसे इरावद्वधः ॥ २९ ॥ *****

ततो निशायामनुजैः सह राजा सुयोधनः ।
कर्ममानाय्य पार्थानां पराभवमचिन्तयत् ॥ ६.३९३ ॥

वैकर्तनस्तमवदत्क्रियतां मद्वचः सखे ।
शस्त्रं न्यासय गाङ्गेयमहं जेष्यामि पाण्डवान् ॥ ६.३९४ ॥

एष वृद्धो निरीहश्च सपक्षश्च धनंजये ।
त्वया न्यस्तोऽतिभारोऽस्मिन्नविचार्यैव केवलम् ॥ ६.३९५ ॥

एतदाकर्ण्य कर्णोक्तं हर्षात्कर्मशतैरिव ।
उत्थाय भीष्मशिबिरं प्रतस्थे भ्रातृभिः सह ॥ ६.३९६ ॥

मणिदीपसहस्रांशुपिङ्गीकृतदिगन्तरः ।
नक्तं दीप्तौषधिवनः सकुलाद्रिरिवाबभौ ॥ ६.३९७ ॥

रत्नकुण्डलकेयूरकिरीटद्युतिनिर्जिताः ।
पुरो निष्प्रतिभा दीपास्तस्यासंल्लज्जिता इव ॥ ६.३९८ ॥

प्रणतान्दृक्त्रिमोदारैः भूमिपालान्विलोकयन् ।
नामभिर्विक्रभागेन सूचितान्वेत्रिमण्डलैः ॥ ६.३९९ ॥

स बभौ गतिलोलेन हारेण तुहिनात्विषा ।
सुधाकल्लोलजालेन पाददारेण मन्मथः ॥ ६.४०० ॥

श्रीमान्संप्राप्य शिबिरं शुभ्रं शन्तनुजन्मनः ।
शयानं रत्नपर्यङ्के प्रणनाम विलोक्य तम् ॥ ६.४०१ ॥

राज्ञेति पूजितस्तेन कृतासनपरिग्रहः ।
दुर्योधनः क्षणं ध्यात्वा पितामहमभाषत ॥ ६.४०२ ॥

अयं जेता भृगुभुवः कार्मुकप्रमयी तव ।
भुजस्त्रैलोक्यविजये पर्याप्त इति मे मतिः ॥ ६.४०३ ॥

कारुण्यादानृशंस्याद्वा रक्ष्यास्ते यदि पाण्डवाः ।
तत्कर्णमनुजानीहि युद्धाय रणकर्कशम् ॥ ६.४०४ ॥

इत्युक्तः कुरुराजेन मर्मणीव समाहतः ।
प्रभाते द्रक्ष्यसीत्युक्त्वा निःश्वसन्क्ष्मामलोकयत् ॥ ६.४०५ ॥

कौरवोऽपि तमामन्त्र्य निजं शिबिरमाययौ ।
दिशः शबलयन्क्षिप्तं दीपदीप्तौर्विभूषणैः ॥ ६.४०६ ॥

अथ प्रभाते भीष्मेण द्रोणद्रौणिमुखैः सह ।
विहिते सर्वतोभद्रे व्यूहे व्यूहाग्रवर्तिना ॥ ६.४०७ ॥

प्रतिव्यूहेष्वनीकेषु नदद्भिः पाण्डुनन्दनैः ।
अभिमन्युः कुरुचमूरग्रे वीरो व्यदारयत् ॥ ६.४०८ ॥
शरांशुशतदुष्प्रेक्ष्यं निदाघार्कमिवोद्यतम् ।
न सेहिरे तं भूपाला मानिनः संहता अपि ॥ ६.४०९ ॥

दुर्योधनप्रेरितोऽथ रक्षःपतिरलम्बुसः ।
तमभ्यधावद्बिभ्राणो मायां त्रैलोक्यमोहिनीम् ॥ ६.४१० ॥

तस्य नादेन महता जगत्प्रलयशंसिना ।
निपेतुः सहसा योधा बहवो विगतासवः ॥ ६.४११ ॥

द्रौपदेयैः पुरः प्राप्तैः स विधाय रणं क्षणम् ।
अभिमन्युरधं बाणैः समं देहमिवाकरोत् ॥ ६.४१२ ॥

शरनिर्दारितेनाथ विहितां तेन रक्षसा ।
सौभद्रस्तामसीं मायां चिच्छेदार्कास्त्रतेजसा ॥ ६.४१३ ॥

अथ द्रौणिप्रभृतिभिः सात्यकिप्रमुखा युधि ।
संसक्ता गगनं चक्रुर्दिव्यास्त्रदहनाकुलम् ॥ ६.४१४ ॥

अर्जुनो द्रोणमभ्येत्य महास्त्रग्रामदुःसहम् ।
वायव्यास्त्रेण विदधे जगतां क्षोक्षविभ्रमम् ॥ ६.४१५ ॥

समुदीर्य च शैलास्त्रं द्रौणेन क्षपितेऽनले ।
धनंजयः कुरुचमूं शरजालैरपूरयत् ॥ ६.४१६ ॥

भीमभीमगदाघातनिर्भिन्ने गजमण्डले ।
सुस्राव शोणितनदी पताकाफेनमालिनी ॥ ६.४१७ ॥

तस्मिन्नाकुलसंग्रामे वर्तमाने भयंकरे ।
वेतालदत्ततालेषु नृत्यत्सु च्छिन्नमूर्धसु ॥ ६.४१८ ॥

भीष्मः पृथुशरज्वालादुःसहः सुभटेन्धनः ।
जज्वाल चापक्रेङ्कारमन्त्रपूत इवानलः ॥ ६.४१९ ॥

तद्भुजप्रेरिताः क्षिप्रं सायका विविशुर्नुपान् ।
विहङ्गा इव सायाह्ने घनच्छायान्महीरुहान् ॥ ६.४२० ॥

खद्योता इव वृक्षेषु शलभा इव शालिषु ।
भीष्मबाणा नरेन्द्रेषु पेतुर्हंसाः सहःस्विव ॥ ६.४२१ ॥

निकृत्तैश्चामरोष्णीषैश्छन्नाश्च पृथिवीभुजाम् ।
चकार समरे भीष्मः स्वयशोविषदा दिशः ॥ ६.४२२ ॥

राज्ञां शिरोभिः पृथिवीमास्तीर्य पुलकोज्ज्वलः ।
रणलक्ष्म्याः स विदधे केलिपद्माकरानिव ॥ ६.४२३ ॥

शिरस्त्रशरनिर्घर्षजाता वह्निकणा बभुः ।
राज्ञां हतानां भीष्मेण जीवा इव नभश्चराः ॥ ६.४२४ ॥

घनेन शरजालेन ग्रस्ता लोकेन सर्वतः ।
स चक्रे सर्वसैन्यानामकण्डरजनीभ्रमम् ॥ ६.४२५ ॥

विदीर्णे पाण्डवबले छिन्नवर्मरथध्वजे ।
गजानीकेषु भग्नेषु भाघशेषेषु राजसु ॥ ६.४२६ ॥

लज्जामुत्सृज्य यातेषु त्यक्तचापेषु केशवः ।
सत्यसंधं रणे भीष्मं जहीत्यर्जुनमब्रवीत् ॥ ६.४२७ ॥

धनंजयोऽथ निःश्वस्य विषण्णवदनाम्बुजः ।
निन्दन्मुहुः क्षत्त्रधर्मं पितामहमुपाद्रवत् ॥ ६.४२८ ॥

दृषट्वा गाण्डीवधन्वानमुद्यतं शरवर्षिणम् ।
बले तूर्णमुपावृत्ते पुनर्युयुधिरे भटाः ॥ ६.४२९ ॥

भीष्मचापच्युतैर्बाणैश्छादितं वीक्ष्य फल्गुणम् ।
रथमुत्सृज्य कंसारिस्तमधावद्भुजायुधः ॥ ६.४३० ॥

विलोक्य कुपितं भीष्मः स्वयं कृष्ममभिद्रुतम् ।
उवाच धन्यतामानी पुलकालंकृताकृतिः ॥ ६.४३१ ॥

पुण्यभाजामहं धुर्यो भगवन्कृतिनां वरः ।
यस्य त्वं जगतां नाथो वधाय स्वयमुद्यतः ॥ ६.४३२ ॥

इति वादिनि गाङ्गेये रथात्तूर्णं धनंजयः ।
अवरुह्य ततः कृष्णमानिनाय रथं पुनः ॥ ६.४३३ ॥

अथार्जुनशरासारैराकीर्णे कुरुकानने ।
पुनः शान्तनवश्चक्रे संहारं पृथिवीभुजाम् ॥ ६.४३४ ॥

घोरे व्यतिकरे तस्मिन्भग्ने सुभटमण्डले ।
अवहारमकुर्वन्त दिनान्ते पाण्डुनन्दनाः ॥ ६.४३५ ॥

***** नवमो युद्धदिवसः ॥ ३० ॥ *****

ततो राजन्यां विजने धर्मराजो जनार्दनम् ।
जगाद राजकं दृष्ट्वा भिन्नं भीष्मेण दुःखितः ॥ ६.४३६ ॥

पश्य कृष्ण प्रबुद्धेन गाङ्गेयवडवाग्निना ।
सैन्याम्बुधिरपर्यन्ते मम नीतोऽल्पशेषताम् ॥ ६.४३७ ॥

मण्डलीकृतचापस्य सहस्रांशुशतत्विषः ।
भीष्मस्याखण्डलोप्यग्रे सत्यं परिभावास्पदम् ॥ ६.४३८ ॥

अलं राज्येन मे तावदिति वादिनि धर्मजे ।
उवाच शौरिर्योत्स्येऽहं स्वयं शन्तनुनन्दनम् ॥ ६.४३९ ॥

नाकार्य मे भवत्कार्यमुत्सृष्टसमयोऽधुना ।
पालयामि रणे भीष्मं पश्यतां जगतीभुजाम् ॥ ६.४४० ॥

एतदाकर्ण्य कृष्णोक्तं बभाषे पाण्डवाग्रजः ।
न मिथ्यावादिनं कामात्त्वां कुर्यामहमच्युत ॥ ६.४४१ ॥

जयोपायमितो गत्वा भीष्मं पृच्छामि भूतले ।
स हि मामाशिषा पूर्वं वात्सल्यात्समयोजयत् ॥ ६.४४२ ॥

इति निश्चित्य कृष्णेन भ्रातृभिश्च सहाशु कृत् ।
जगाम भीष्मशिबिरं गूढचारी युधिष्ठिरः ॥ ६.४४३ ॥

स प्रमम्यानुजसखः शौर्यराशिं पितामहम् ।
पप्रच्छ विजयोपायं स च पृष्टस्तमब्रवीत् ॥ ६.४४४ ॥

न तं पश्यामि लोकेषु वीरो मां विजयेत यः ।
जयलाभे च युष्माकं मयि जीवति का कथा ॥ ६.४४५ ॥

न विशस्त्रेन संत्रस्ते न स्त्रीपूर्वे ममेषवः ।
पतन्ति तस्मात्क्लीवेन मां घातय शिखण्डिना ॥ ६.४४६ ॥

उक्ते देवव्रतेनेति लज्जाविनमिताननः ।
अकाम इव दुःखेन ययौ स्वशिबिरं नृपः ॥ ६.४४७ ॥

ततः प्रभाते व्यूहेषु सैन्येषु सुभटैर्मिथः ।
शिखण्डिप्रमुखा वीरा परानीकमुपाद्रवन् ॥ ६.४४८ ॥

ततो भीष्मशरश्रेणीलुलिते राजमण्डले ।
शिखण्डी धुतकोदण्डश्चण्डकोपस्तमभ्यधात् ॥ ६.४४९ ॥

तमब्रवीच्छान्तनवः कामं प्रहर पार्षत ।
ननाम भीष्मविशिखाः पतन्त्यनुजने जने ॥ ६.४५० ॥

इति वादिनमभ्येत्य मण्डलीकृतकार्मुकः ।
शिखण्डी निःश्वसन्कोपादापगेयमभाषत ॥ ६.४५१ ॥

जेतारं भार्गवस्यापि जानामि त्वां महौजसम् ।
युधि युध्यस्व वा मा वा न मे जीवन्गमिष्यसि ॥ ६.४५२ ॥

उक्त्वैतद्बाणजालेन पार्षतः समपूरयत् ।
रक्ष्यमाणः समभ्येत्य पश्चाद्गाण्डीवधन्वना ॥ ६.४५३ ॥

भीष्मोऽपि तमनादृत्य विद्ध्वा कृष्णार्जुनौ शरैः ।
विवेश पाण्डवचमूं राजवेणुवनानलः ॥ ६.४५४ ॥

धृष्टद्युम्नमुखैर्वीरैः कौरवाणां तरस्विनाम् ।
दारुणोऽथ प्रहारोऽभूद्रजःपिहितदिड्भुखः ॥ ६.४५५ ॥

ततो द्रोणिप्रभृतयो वीरा द्रोणस्य शासनात् ।
रक्षन्तः समरे भीष्मं धनंजयमयोधयन् ॥ ६.४५६ ॥

ततः शान्तनवो राज्ञां शरैरशनिगौरवैः ।
मौलिरत्नांशुशबलं समुन्मथ्य विरोचनम् ॥ ६.४५७ ॥

आक्रीडमिव कालस्य विधाय कदनं रणे ।
अब्रवीत्कूणितमना दूरादेव युधिष्ठिरम् ॥ ६.४५८ ॥

वधाय कुरु कौन्तेय यत्नं मे नृपतिक्षयात् ।
विषण्णोऽहं भृशं पुत्र रौद्रेणानेन कर्मणा ॥ ६.४५९ ॥

इति वादिनि गाङ्गेये शिथिलीकृतकार्मुके ।
सृञ्जयाः सह पाञ्चालैः सोमकैश्च सहाद्रवन् ॥ ६.४६० ॥

ततः कुरुचमूवीराः पाण्डवानां महारथान् ।
आवार्य भीष्मरक्षायै द्वन्द्वं युद्धानि चक्रिरे ॥ ६.४६१ ॥

अथ गाङ्गेयविशिखैरप्रयत्नोज्झितैरपि ।
अवर्तत महारौद्रो राजजीवितसंक्षयः ॥ ६.४६२ ॥

तमभ्यधावदाकर्णाकृष्टकोदण्डलः ।
शिखण्डी खण्डपरशुप्रभावं फल्गुणेरितः ॥ ६.४६३ ॥

स्वयं दुर्योधनेनाथ प्रेरितां वीक्ष्य वाहिनीम् ।
तस्मिन्स्वभटसंहारे वर्तमाने पितामहः ॥ ६.४६४ ॥

उदीर्य घोरं दिव्यास्त्रमभ्यधावद्धनंजयम् ।
अथार्जुनस्याग्रमेत्य शिखण्डिनि पुरःस्थिते ॥ ६.४६५ ॥

विमाना इव गाङ्गेयो महास्त्रं संजहार तत् ।
ब्रह्मलोकाबिकामेषु युध्यमानेषु राजसु ॥ ६.४६६ ॥

वीराणां भीष्मविशिखैरयुतेषु पतत्सु च ।
दारयन्तं परानीकं तमेत्य वसवोऽब्रुवन् ॥ ६.४६७ ॥

भीष्म संन्यासकालोऽयं तवास्मदभिकाङ्क्षितः ।
ततः श्लथोद्यमे तस्मिन्प्रसन्ने भुवनत्रये ॥ ६.४६८ ॥

अर्जुनप्रमुखाः सर्वे सायकैस्तमपूरयन् ।
छिद्यमानेषु बालेषु तस्य तूर्णं किरीटिना ॥ ६.४६९ ॥

शिखण्डी प्राहिणोत्तस्मै हेमपुङ्खशरावलीम् ।
शैखण्डीं शरमालां तां शैरोषीमिव पेशलाम् ॥ ६.४७० ॥

जग्राह प्रहसन्भीष्मः क्षणं स्थगितकार्मुकः ।
दुर्योधनसमादिष्टान्भीष्मस्य रथरक्षिणः ॥ ६.४७१ ॥

मोहयन्बाणजालेन फल्गुणस्तमवाकिरत् ।
विदार्यमाणो नीरन्ध्रैर्गाण्डीवान्निःसृतैः शरैः ॥ ६.४७२ ॥

दुःशासनं पार्श्वगतं भीष्मः सस्मितमब्रवीत् ।
नैते शिखण्डिनो बाणाः शिलासंघातभेदिनः ॥ ६.४७३ ॥

विशन्ति मम मर्माणि बिलं विषधरा इव ।
एते ते वज्रसंस्पर्शा निवातकवचच्छिदः ॥ ६.४७४ ॥

शरीरहारिणो घोराः किरातरणसाक्षिणः ।
इत्युक्त्वा पाण्डुपुत्राय शक्तिं चिक्षेप शक्तिमान् ॥ ६.४७५ ॥

तां च शक्रसुतस्तूर्णं चकार विशिखैस्त्रिधा ।
सर्वायुधेषु च्छिन्नेषु ततो गाण्डीवधन्वना ॥ ६.४७६ ॥

क्षणाद्बभूव दुर्लक्ष्यो भीष्मो निर्विवरैः शरैः ।
युध्यमानेषु वीरेषु भूताविष्टेष्विवाकुलम् ॥ ६.४७७ ॥

दारुमे तुमुले तस्मिन्निर्विभागे बलद्वये ।
अपराह्णे रथाद्भीष्मः सहस्रांशुरिवापरः ॥ ६.४७८ ॥

अस्पृष्टभूमिर्विशिखैः पपात महसां निधिः ।
तस्मिन्निपतिते वीरे केतौ सर्वधनुष्मताम् ॥ ६.४७९ ॥

महतामपि वीराणां हृदयानि चकम्पिरे ।
ततो निवृत्ते संग्रामे हाहाकारे नभःस्पृशिः ॥ ६.४८० ॥

दिव्यं भेजे निजं भावमलुप्तात्मा पितामहः ।
आकम्पमाने भुवने वागुवाचाशरीरिणी ॥ ६.४८१ ॥

भीष्म कालं प्रतीक्षस्व योगवानुत्तरायणम् ।
सर्वज्ञ धारय प्राणान्स्वच्छन्दनिधनो हृदि ॥ ६.४८२ ॥

श्रुत्वैतत्परमं योगमाससाद सुरव्रतः ।
ततस्त्रिदशवाहिन्या विसृष्ट हंसरूपिणः ॥ ६.४८३ ॥

तमेवार्थं समभ्येत्य मुनयो भीष्ममब्रुवन् ।
स्थितोऽस्मीति च गाङ्गेयो निगद्य यशसां निधिः ॥ ६.४८४ ॥

इरतल्पे गतः सर्वान्कुरून्भीतानसान्त्वयत् ।
प्रणतानथ संप्राप्तान्पुनः कौरवपाण्डवान् ॥ ६.४८५ ॥

अश्रुपूर्णेक्षणानूचे संभाव्य कुरुपुंगवः ।
धारणं लम्बमानस्य शिरसो मे विधीयताम् ॥ ६.४८६ ॥

श्रुत्वैतदुपधानेषु समानीतेषु राजभिः ।
जग्राह शासनात्तस्य त्रिभिः पार्थः शरैः शिरः ॥ ६.४८७ ॥

भीष्मस्तत्कर्मतुष्टोऽथ प्रशशंस धनंजयम् ।
पाण्डवैः क्रियतां संधिरित्युवाच च कौरवम् ॥ ६.४८८ ॥

***** दशमो युद्धदिवसः ॥ ३१ ॥ *****

ततो रजन्यां यातायामुपाविष्टेषु राजसु ।
सेव्यमानो मुनिजनैर्भीष्मो जलमयाचत ॥ ६.४८९ ॥

मणिकाञ्चनचित्रेषु कलशेष्वमलाम्भसः ।
समानीतेषु भूपालैर्व्यधान्मेघास्त्रमर्जुनः ॥ ६.४९० ॥

तदुद्भूतेन पयसा गाङ्गेयस्तेन तर्पितः ।
नरावतारं प्रीतात्मा सादरं तमपूजयत् ॥ ६.४९१ ॥

महारथेषु यातेषु समामन्त्र्यापगासुतम् ।
कर्णः प्रसादयामास तदभ्यर्च्य कृताञ्जलिः ॥ ६.४९२ ॥

तमुवाच प्रसन्नात्मा वीतमन्युः पितामहः ।
भजस्व पार्थेषु शमं वीरास्ते भ्रातरस्तव ॥ ६.४९३ ॥

वैकर्तनस्तदाकर्ण्य जगाद विनताननः ।
जाने सर्वमवश्यं तु भवितव्यमिदं प्रभो ॥ ६.४९४ ॥

किंतु दुर्योधनस्यार्थे सुहृदो मानकारिणः ।
अनुजानीहि मां तात समराय समुद्यतम् ॥ ६.४९५ ॥

इति ब्रुवाणो भीष्मेण सोऽनुज्ञातो वरूथिनीम् ।
प्रययौ कुरुपुत्राणां रथेन घननादिना ॥ ६.४९६ ॥

अथ कुरुवृषबाणामङ्गराजोत्सुकानां परपरिभवदीक्षाभग्नमानादराणाम् ।
पतिहितमनीकं साम्यमाप द्रुतानां सरयपवनपानीकम्पितानां वनानाम् ॥ ६.४९७ ॥
इति श्रीक्षेमेन्द्रविरचितायां भारतमञ्जर्या भीष्मपर्व
॥द्रोणपर्व् ।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ७.१ ॥

सुरव्रतं हतं श्रुत्वा धृतराष्ट्रोऽतिदुःखितः ।
मुहुर्मुहुर्यशोराशिं तमशोचदरिंदमम् ॥ ७.२ ॥

पुनः संग्राममालोक्य समायातोऽथ संजयः ।
पृष्टो वैचित्रवीर्येण वीरसंहारमभ्यधात् ॥ ७.३ ॥

ततो भीष्मेहते राजन्कुरवो भृशदुःखिताः ।
अब्धौ भग्ने प्रवहणे वणिजः पतिता इव ॥ ७.४ ॥

वाञ्छितं समरे शर्म ददृशुः कर्णमागतम् ।
विक्रीताः परदेशेषु स्निग्धं बन्धुमिवापदि ॥ ७.५ ॥

ततो दुर्योधनः शोकं संस्तम्भ्य धृतिसागरः ।
कर्णस्यानुमते चक्रे द्रोणं सेनासु नायकम् ॥ ७.६ ॥

तेनाभिषिक्तो विधिवद्गुरुः सर्वधनुष्मताम् ।
स बभौ शक्तिमान्वीरो महासेन इवापरः ॥ ७.७ ॥

वृद्धस्य स्वयशःशुभ्रं छत्त्रं तस्य व्यरोचत ।
दुग्धोदधेरिव श्रीमच्चन्द्रमण्डलमुद्यतम् ॥ ७.८ ॥

आमुक्तहेमकवचः स दीप्तः किरणैर्बभौ ।
उपस्थितैः कृत्यकाले दिव्यास्त्रैरिव सेवितः ॥ ७.९ ॥

प्रणेता सर्ववीराणां सदृशः प्राज्यतेजसा ।
साक्षादिव धनुर्वेदः संहारस्यागमावधिः ॥ ७.१० ॥

रेजे रथेन रौक्मेन शोणाश्वेन पताकिना ।
संध्याजुषा निर्झरिणा मेरुणेव दिवाकरः ॥ ७.११ ॥

विरराज रथे तस्य शातकौम्भः कमण्डलुः ।
शौर्योष्मणा प्रतिगतः प्रताप इव पिण्डितः ॥ ७.१२ ॥

आकर्णपलितः श्यामो धौरेयः सर्वधन्विनाम् ।
ददौ वरं श्रिया जुष्टः स राज्ञा स्वयमर्थितः ॥ ७.१३ ॥

जीवग्राहं समादाय राजानं ते युधिष्ठिरम् ।
हतेर्जुने प्रदास्यामि पश्यतां सर्वभुभुजाम् ॥ ७.१४ ॥

एतद्गुरुवचो राजा प्रतिगृह्य कृताञ्जलिः ।
विश्राव्य निजसेनासु तूर्यनादोत्सवं व्यधात् ॥ ७.१५ ॥

तच्च धर्मसुतो ज्ञात्वा सह गाण्डीवधन्वना ।
क्रौञ्चव्यूहं समाधाय संनद्धो योद्धुमुद्ययौ ॥ ७.१६ ॥

द्रोमेन शकटव्यूहे निर्मिते भृशसंहते ।
अवर्तत महद्युद्धं वीराणां देहशातनम् ॥ ७.१७ ॥

ततः सृञ्जयपाञ्चालमत्स्यसेनासु दुःसहाः ।
शरीरहारिणः पेतुर्द्रेणनामाङ्किताः शराः ॥ ७.१८ ॥

भिद्यमानेषु सैन्येषु निपतद्गजवाजिषु ।
रक्तकल्लोलिनीवेगैर्नीतेषु स्यन्दनेष्वपि ॥ ७.१९ ॥

युधिष्ठिरमुखान्वीरान्कोपाद्द्रोणमभिद्रुतान् ।
अवारयन्सुसंरब्धान्द्रोणिकर्णकृपादयः ॥ ७.२० ॥

अभिमन्युरथाकृष्य रथात्केशेषु पौरवम् ।
अपातयत्कृपाणेन पश्यतां सर्वधन्विनाम् ॥ ७.२१ ॥

तत्कोपात्खङ्गमादाय जयद्रथमुपागतम् ।
शल्यं च विरथं वीरो विदधे बलिनां वरम् ॥ ७.२२ ॥

ततः शल्यो गदापाणिः पद्भ्यां सौभद्रमाद्रवत् ।
गदया वीरवारिन्या भीमश्च तमवारयत् ॥ ७.२३ ॥

तयोः परस्पराघातकीर्णवह्निकणाकुलम् ।
नृणां विमोहनं घोरं गदायुद्धमवर्तत ॥ ७.२४ ॥

मण्डलानि चरन्तौ तौ समदाविव कुञ्जरौ ।
अभिपत्य पदान्यष्टौ गदाभ्यां जघ्नतुर्मिथः ॥ ७.२५ ॥

गाढप्रहारसंजातमूर्छाविह्वलमानसौ ।
तौ दृष्ट्वा पतितौ वीराः संनिपेतुः प्रहारिणः ॥ ७.२६ ॥

नीते मद्राधिपे तूर्णं रथेन कृतवर्मणा ।
भीमसेनः समादाय कुरुसेनामदारयत् ॥ ७.२७ ॥

कर्णसूनोरथ शरैर्दृषसेनस्य पाण्डवाः ।
आकीर्णान्द्रौपदीपुत्रान्विलोक्य तमुपाद्रवन् ॥ ७.२८ ॥

ततो रुक्मरथो द्रोणः स्वयं पाञ्चालवाहिनीम् ।
प्रविश्य बाणैर्विदधे विप्रकीर्णां सहस्रधा ॥ ७.२९ ॥

शिखण्डिसात्यकिमुखान्स विदार्य महारथान् ।
युधिष्ठिरमभिप्रेक्षुः कुर्वन्नरपतिक्षयम् ॥ ७.३० ॥

युगंधरं व्याघ्रदत्तं सिहसेनं च पार्थिवम् ।
निनाय मृत्युसदन शरैरशनिदारुणैः ॥ ७.३१ ॥

तिष्ठ स्थितोऽह युद्धस्व हतोऽसीति मुहुर्मुहुः ।
द्रोणाग्रे युध्यमानानां भूभुजामभवद्रणः ॥ ७.३२ ॥

द्रोणेन युध्यमानानां निशम्य श्वेतवाहनः ।
कोलाहलं स्वसैन्यानां तूर्णं तं देशमाययौ ॥ ७.३३ ॥

स निहत्यास्त्रजालेन वीरः कुरुवरूथिनीम् ।
विदधे रक्ततटिनीमावर्तहृतकुञ्जराम् ॥ ७.३४ ॥

ततोऽवहारं सैन्यानां पार्थसायकपीडिताः ।
यातेऽस्तं तिग्मकिरणे चक्रिरे कुरुपुंगवाः ॥ ७.३५ ॥
***** द्रोणाभिषेकः प्रथमो युद्धदिवसश्च ॥ १ ॥ *****
निशायां संनिविष्टेषु शिबिरे सर्वराजसु ।
लज्जमान इवाचार्यो दुर्योधनमभाषत ॥ ७.३६ ॥

उक्तमेव मया राजन्रहितं सव्यसाचिना ।
युधिष्ठिरं ग्रहीष्यामि दुर्जयो हि धनंजयः ॥ ७.३७ ॥

इति ब्रुवाणे वैलक्ष्यादाचार्ये राजसंनिधौ ।
त्रिगर्वराजः प्रोवाच कृतवैरः किरीटिना ॥ ७.३८ ॥

वयं संशप्तकगणैर्मालवैस्तुण्डिलैस्तथा ।
वीरैर्मद्रककाम्बोजललितैश्च प्रहारिभिः ॥ ७.३९ ॥

रथायुतैस्त्रिभिः पार्थमाहूय पृथगास्थितः ।
योत्स्यामहे सुप्रकृतैरिति सत्यं शपामहे ॥ ७.४० ॥

इत्युक्ते शपथं कृत्वा त्रिगर्ता वह्निसाक्षिणः ।
प्रत्यूषे निर्ययुर्वीराः सुशर्मप्रमुखा नृपाः ॥ ७.४१ ॥

ते तुरङ्गखरोद्धूतधूलिग्रस्तनभस्तलाः ।
चक्रिरे फल्गुणाह्वानं नादैः प्रलयशंसिभिः ॥ ७.४२ ॥

तान्व्यूहेनार्धचन्द्रेण समे देशे व्यवस्थितान् ।
दृष्ट्वा पार्थस्तदाहूतो युधिष्ठिरमभाषत ॥ ७.४३ ॥

अनुजानातु मामार्यस्त्रिगर्तानां वधं प्रति ।
एते मामभिवाञ्चन्ति योद्धुं संघर्षशालिनः ॥ ७.४४ ॥

अयं ते सत्यजिद्वीरः पाञ्चाल्यः प्रवरो रथः ।
गोप्ता द्रोणाभिसरणे शक्रतुल्यपराक्रमः ॥ ७.४५ ॥

इत्युक्त्वा चण्डगाण्डीवघोषघण्टितदिक्तटः ।
प्रलयाम्भोदसंरब्धस्तान्ययौ कपिकेतनः ॥ ७.४६ ॥

तेऽपि पाण्डवमायान्तं दृष्ट्वा प्रमदनिर्भराः ।
फुल्लसालमिवादृश्यं चक्रुः क्षिप्रं शिलीमुखैः ॥ ७.४७ ॥

ततः शौर्याम्बुधेः फेनमट्टहासं रणश्रियः ।
दध्मौ धनंजयः शङ्खं कन्दं निजयशस्तरोः ॥ ७.४८ ॥

तस्य शब्देन महता तत्सैन्यं भयकारिणा ।
अभून्निवृत्तमातङ्गं स्तिमिताङ्गतुरङ्गमम् ॥ ७.४९ ॥

अथ सायकजालेन जीवमत्स्यापहारिणा ।
त्रिगर्तवाहिनीं पार्थः समन्तात्पर्यवारयत् ॥ ७.५० ॥

ततः संशप्तकगणोत्सृष्टैरविवरैः शरैः ।
पिहिते भुवनाभोगे बभूवाकालशर्वरी ॥ ७.५१ ॥

ततः प्रविदधे त्वाष्ट्रं महास्त्रं वज्रिनन्दनः ।
येनार्जुनसहस्राणि ददृशुस्ते ससंभ्रमाः ॥ ७.५२ ॥

जहाराकर्णकृष्टेन भल्लेन च महौजसः ।
स्फुरन्मौलिप्रभाजालं शिरः कायात्सुधन्वनः ॥ ७.५३ ॥

तत्प्रेषितां शस्त्रवृष्टिं पवनास्त्रेण हारिणा ।
विधूय तच्छिरःपुञ्जैरदृश्यां विदधे महीम् ॥ ७.५४ ॥

छिन्नच्छत्त्रध्वजरथं पतद्भुजभटाननम् ।
त्रिगर्तकदनं पार्थो घोरमायोधनं व्यधात् ॥ ७.५५ ॥
***** संशप्तकयुद्धम् ॥ २ ॥ *****
अस्मिन्क्षणे वैनतेयव्यूहे द्रोणेन निर्मिते ।
व्यूहेन निर्मितार्धेन पाण्डुपुत्राः समुद्ययुः ॥ ७.५६ ॥

ततः प्रवृत्ते संग्रामे क्षये चैव महीभुजाम् ।
धृष्टद्युम्नप्रभृतयो द्रोणमुख्यानयोधयन् ॥ ७.५७ ॥

रजोभिः पिहिते व्योम्नि दिक्षु रुद्धासु सायकैः ।
अविभागममर्यादं घोरं युद्धमवर्तत ॥ ७.५८ ॥

अभिद्रुते ततो द्रोणे धर्मराजजिघृक्षया ।
घोरो हलहलाशब्दः सैन्यानामुदभूत्क्षणम् ॥ ७.५९ ॥

कालाग्नितेजसं वीरं धौरेयं सर्वधन्विनाम् ।
अवारयितुमभ्येत्य सत्यजित्सत्यविक्रमः ॥ ७.६० ॥

युध्यमानं ततो हत्वा वृकं राजसुतं गुरुः ।
शरैः सत्यजितं चक्रे कीर्णांशुमिव भास्करम् ॥ ७.६१ ॥

हेमनामाङ्कितैर्बाणैर्मुहूर्तादथ सत्यजित् ।
दीप्तैरपूरयद्द्रोणं खद्योतैरिव पादपम् ॥ ७.६२ ॥

ततः सत्यजितः कायादाचार्यः शौर्यशालिनः ।
शिरो जहार भल्लेन चण्डताण्डवकुण्डलम् ॥ ७.६३ ॥

निपातिते सत्यजिति प्रवरे सर्वधन्विनाम् ।
विद्रुते धर्मतनये व्यदीर्यते वरूथिनी ॥ ७.६४ ॥
***** सत्यजिद्वधः ॥ ३ ॥ *****
हृत्वानुजं विराटस्य शतानीकं प्रहारिणम् ।
दृढसेनं क्षत्रदेवं वसुदानं च पार्थिवम् ॥ ७.६५ ॥

निघ्नन्रुक्मरथश्चेदिमत्स्यपाञ्चालसृञ्जयान् ।
विदधे रुधिरावर्तैः कृतान्तोद्यानवाहिनीम् ॥ ७.६६ ॥

विद्रुते पाण्डवबले पीडिते द्रोणसायकैः ।
कर्णदुर्योधनमुखा भारद्वाजमपूजयन् ॥ ७.६७ ॥

पुनरावर्तिते सैन्ये भीमेन भुजशालिना ।
संहताः पृथिवीपालाः कोपाद्द्रोणमुपाद्रवन् ॥ ७.६८ ॥

ऋष्यवर्णैर्हयैर्भीमः सात्यकिः स्फाटिकप्रभैः ।
पारावतप्रभैश्चाश्वैर्धृष्टद्युम्नश्चमूपतिः ॥ ७.६९ ॥

नकुलः सहदेवश्च शुकतित्तिरिसप्रभैः ।
अभिमन्युः पिशङ्गाभैः पाण्ड्यैश्च तुहिनप्रभैः ।
दन्तप्रभैः कृष्णवालैः स्वयं राजा युधिष्ठिरः ॥ ७.७० ॥

अन्ये तु विविधच्छायैश्चित्रवर्माम्बरध्वजैः ।
परिवार्य रणे द्रोणं चक्रुर्बाणमयं जगत् ॥ ७.७१ ॥

मृदङ्गनादकौ राज्ञो ध्वजो नन्दोपनन्दकौ ।
दिव्ययन्त्रेण विहितौ बभतुर्धर्मजन्मनः ॥ ७.७२ ॥

धर्मानिलेन्द्राश्विनां च प्रतिमा द्रौपदीभुवाम् ।
तुमुले युध्यमानानां रेजिरे काञ्चनोज्ज्वलाः ॥ ७.७३ ॥

आवृतं द्रोणमालोक्य राजभिः क्रूरया धिया ।
दुर्योधनादयो वीरान्भीममुख्यान्समापतन् ॥ ७.७४ ॥

तेषु शल्यप्रधानेषु युधिष्ठिरपुरोगमैः ।
द्वन्द्वद्धनिषक्तेषु समरोत्सवराजिषु ॥ ७.७५ ॥

कृतबाहौ सुबाहौ च हते वीरे युयुत्सुना ।
वङ्गराजे समातङ्गे भीमसेनेन पातिते ॥ ७.७६ ॥

विद्रुते कौरवबले निहतेष्वभिमानिषु ।
निरालोकेषु लोकेषु रजस्तिमिरमण्डलैः ॥ ७.७७ ॥

प्रेरितो भगदत्तेन संवर्तकघनप्रभः ।
सुप्रतीको मदोद्दामः पाण्डुसेनां व्यगाहत ॥ ७.७८ ॥

दैत्यसंग्रामसाहाय्ये जम्भारिभवनस्थितः ।
ऐरावणघटाबन्धः प्रमाणं यस्य वर्ष्ममः ॥ ७.७९ ॥

शशिशुभ्रैर्नखैरुद्यादेकपात्स क्षणं बभौ ।
स्वमहीपीडनरुषा दष्टः सेषशतैरिव ॥ ७.८० ॥

इतश्चन्द्रार्कमुख्यानां प्रभवः सर्वतेजसाम् ।
इति नक्षत्रमालाभिरुदयाद्रिरिवाश्रितः ॥ ७.८१ ॥

दिग्वारणरणावाप्तिं विना व्यर्थमिदं बलम् ।
इतीव पृथुशूत्कारैर्निःशश्वास मदालसः ॥ ७.८२ ॥

एता आयान्तु वैक्लव्यं मत्प्रतापोष्मणा दिशः ।
इतीव कर्णतालाभ्यां मुहुर्मुहुरवीजयत् ॥ ७.८३ ॥

चण्डीशडमरोच्चण्डडिण्डिमध्वाननिःस्वनैः ।
हेलयोन्मीलयन्किंचिल्लोचने प्रचचाल सः ॥ ७.८४ ॥

भगदत्तास्त्रनिष्कृत्तवीरवक्त्राञ्चितां महीम् ।
गत्वा पदे पदे पश्यन्सस्मार कमलाकरान् ॥ ७.८५ ॥

स वाहिनीं पाण्डवानां प्रविश्य निबिडं गजः ।
गजवाजिरतान्पिंषन्वसाकर्दमिनीं व्यधात् ॥ ७.८६ ॥

मृद्यमानाः करीन्द्रेण ताः सेनाः कौरवद्विषाम् ।
संकोचमापुः सहसा दर्पेणेव विभूतयः ॥ ७.८७ ॥

तेन मन्दरतुल्येन गजेनानीकवारिधेः ।
समाक्रान्तस्य निस्त्रिंशकालकूटच्छटा बभुः ॥ ७.८८ ॥

कुण्डलीकृतशुण्डाग्रः सोऽभ्यधावद्वृकोदरम् ।
आकृष्टं पाशहस्तेन येन तं मेनिरे जनाः ॥ ७.८९ ॥

संशये पतितं भीमं दृष्ट्वा तूर्णं युधिष्ठिरः ।
सह सर्वैर्महीपालैर्भगदत्तं समभ्यधात् ॥ ७.९० ॥

स तैः परिवृतो वीरैर्हत्वा दाशार्णभूपतिम् ।
उन्ममाथ रथं वेगात्सुप्रतीकेन सात्यके ॥ ७.९१ ॥

तस्य शीकरिणा घोरशीत्कृतेनाथ दन्तिनः ।
भीमसेनमुखा दूरं जह्रुस्त्रस्तास्तुरङ्गमान् ॥ ७.९२ ॥

सा सेना भगदत्तेन कुञ्जरस्थेन पीडिता ।
जनता कृनृपेणेव न लेभे शरणं क्वचित् ॥ ७.९३ ॥

गजानां पत्यमानानां रथानां स्फुटतामपि ।
हाहाकारैश्च भीतानां निःस्वनस्तुमुलोऽभवत् ॥ ७.९४ ॥

स्वेषामाक्रन्दमाकर्ण्य वज्रास्त्रेणेन्द्रनन्दनः ।
त्रिगर्तान्सानुगान्हत्वा भगदत्तमथापतत् ॥ ७.९५ ॥

दृष्ट्वा गाण्डीवधन्वानं तार्क्ष्यवत्तर्णमागतम् ।
प्रेरितो भगदत्तेन क्रुद्धोऽदावद्द्विपाधिपः ॥ ७.९६ ॥

तमन्तकमिवायान्तमपसव्येन केशवः ।
रथेन मोघसंरम्भं कृत्वा पुनरभूत्पुरः ॥ ७.९७ ॥

विद्ध्वा शरसहस्रेण पार्थं प्राग्ज्योतिषेश्वरः ।
नारायणास्त्रमसृजत्तच्च जग्राह केशवः ॥ ७.९८ ॥

अर्जुनं रक्षतस्तूर्णं तदस्त्रं कैटभद्विषः ।
निषक्तं वक्षसि प्राप हेमस्रग्दामविभ्रमम् ॥ ७.९९ ॥

तस्मिन्विफलतां याते महास्त्रे दीप्ततेजसि ।
वैलक्ष्यादर्जुनः कृष्णमुवाचास्फालयन्धनुः ॥ ७.१०० ॥

नूनं युद्धेष्वयोग्योऽहं येनास्त्रं धृतवानसि ।
श्रुत्वैतदवदत्पार्थं मानयन्गरुडध्वजः ॥ ७.१०१ ॥

चतुर्मूर्तिमृता पूर्वं पृथिवीवचसा मया ।
वितीर्णं नरकायैतन्निजास्त्रं भूमिसूनवे ॥ ७.१०२ ॥

अमोघमाप्तवांस्तस्माद्देत्यात्सोऽसौ नराधिपः ।
गृहीतं तन्मया दिव्यं जह्येनमधुना नृपम् ॥ ७.१०३ ॥

उक्ते जनार्दनेनेति सव्यसाची सकुञ्जरम् ।
ऊर्ध्ववक्त्रैः शरैः क्षिप्रं भगदत्तमपूरयत् ॥ ७.१०४ ॥

गिरिवर्ष्म गजारूढो बाणैः प्राग्ज्योतिषेश्वरः ।
अदूरविद्रुतामर्त्यविमानमकरोन्नभः ॥ ७.१०५ ॥

ततः कर्णान्तकृष्टेन कुम्भयोः कुञ्जरेश्वरम् ।
आपुच्छगामिना पार्थो नाराचेनाकुलं व्यधात् ॥ ७.१०६ ॥

स फल्गुणेषुनिर्भिन्नः पतिन्द्विरदभूधरः ।
जघान महीतं सेनां पतिताः पातयन्ति यत् ॥ ७.१०७ ॥

क्रुद्धस्ततोर्ऽधचन्द्रेण हृदि विद्धः किरीटिना ।
मुक्ताङ्कुशधनुर्बाणो भगदत्तोऽभवद्व्यसुः ॥ ७.१०८ ॥
***** भगदत्तवधः ॥ ४ ॥ *****
तस्मिन्निपतिते वीरे ककुदे सर्वभूभुजाम् ।
विजये कुरुसेनानामाशाबन्धः श्लथोऽभवत् ॥ ७.१०९ ॥

विद्रुते कौरवानीके सौबलौ वृषकाचलौ ।
गान्धारौ धन्विनां धुर्यै धनंजयमयुध्यताम् ॥ ७.११० ॥

तौ बाणवर्षिणौ पार्थशरेणैकेन संहतौ ।
स्यूतावपातयत्प्रीत्या यातो भारुण्डतामिव ॥ ७.१११ ॥
***** वृषभकाचलवधः ॥ ५ ॥ *****
अनुजौ निहतौ दृष्ट्वा शकुनिः कोपकम्पितः ।
कल्पयन्विपुलां मायां सव्यसाचिनामाद्रवत् ॥ ७.११२ ॥

अस्त्रैश्च क्रूरसत्वैश्च तमोभिश्चभितो वृतः ।
नाकम्पत रणे पार्थस्तस्य मायाशतैरपि ॥ ७.११३ ॥

सौरेणास्त्रेण तन्मायां छित्त्वा कातरमोहिनीम् ।
प्राहिणोत्सायकान्येन शकुनिः प्रययौ भयात् ॥ ७.११४ ॥

यातेर्ऽजुनमयं लोकं मन्यमानेऽथ सौबले ।
न लेभे शरणं त्रासाद्विद्रुता कुरुवाहिनी ॥ ७.११५ ॥

ततो द्रोणः सहानीकैर्युधिष्ठिरजिघृक्षया ।
हरन्वक्त्राणि वीराणां पाञ्चालान्समुपाद्रवत् ॥ ७.११६ ॥

वध्यमानेष्वनीकेषु शोणाश्वेन सहस्रशः ।
रक्तासवमदेनेव चकम्पे वसुधावधूः ॥ ७.११७ ॥

तूर्णं प्रहरत द्रोणं तूर्णं रक्षत संगरे ।
पाण्डवानां परेषां च बभूवेति महाध्वनिः ॥ ७.११८ ॥

पाञ्चालेष्वथ भग्नेषु सृञ्जयेषु च सर्वतः ।
अयोधयत्कुरुचमूं नीलो माहिष्मतीपतिः ॥ ७.११९ ॥

तं दहन्तमनीकानि दिव्यास्त्रैर्वह्नितेजसम् ।
प्रत्युद्ययौ धैर्यनिधिर्द्रैणिरेको धनुर्धरः ॥ ७.१२० ॥

आचार्यसूनुस्तस्याथ वज्रसारेषुवर्षिणः ।
छत्त्रं ध्वजं कार्मुकं च भल्लैश्चिच्छेद निर्व्यथः ॥ ७.१२१ ॥

अवरुह्य रथात्तूर्णं नीलश्चित्रपराक्रमः ।
कृपाणेन शिरो हर्तुं द्रौणेः श्येन इवापतत् ॥ ७.१२२ ॥

भारद्वाजसुतस्तस्य भल्लेनोज्ज्वलकुण्डलम् ।
कान्तं शिरोऽहरत्तारायुगयुक्तमिवोडुपम् ॥ ७.१२३ ॥
***** नीलवधः ॥ ६ ॥ *****
नीले हते पाण्डवानां भग्ने सुभटमण्डले ।
हत्वा संशप्तकान्पार्थो जवार्तां भुवमाययौ ॥ ७.१२४ ॥

भीमफल्गुणसौभद्रमत्स्यचैद्यमुखैस्ततः ।
भिद्यमाने परानीके निःस्वनस्तुमुलोऽभवत् ॥ ७.१२५ ॥

ततः कर्णप्रभृतिभिस्तेषां समरशालिनाम् ।
घोरो बभूत संमर्दः सर्वलोकभयंकरः ॥ ७.१२६ ॥

निर्मर्यादे रणे तस्मिन्रूधिरावर्तदुस्तरे ।
भिन्नां कुरुचमूं दृष्ट्वा कर्णः पार्थमयोधयत् ॥ ७.१२७ ॥

सोर्ऽजुनं पावकास्त्रेण सात्यकिप्रमुखांस्तथा ।
चकार घोरदिग्दाहपिङ्गलानिव भूधरान् ॥ ७.१२८ ॥

ततो धनंजयमुखा हत्वास्त्रैरस्त्रमुत्कटम् ।
कर्णं शरशतैश्चक्रुर्घनवेत्रवनोपमम् ॥ ७.१२९ ॥

शत्रुंजयं विपाटं च वीरं चावरजं शरैः ।
कर्णानुजान्यमपुरं प्राहिणोत्कपिकेतनः ॥ ७.१३० ॥
***** कर्णानुजवधः ॥ ७ ॥ *****
अथ द्रोणमुखाः सर्वे कौरवाणां महारथाः ।
कर्णपार्श्वं समाजग्मुर्दीप्तास्त्रग्रामदुःसहाः ॥ ७.१३१ ॥

ते सात्यकिप्रभृतिभिः संसक्ता धन्विनां वराः ।
चक्रिरे समरं घोरं गजवाजिरथक्षयम् ॥ ७.१३२ ॥

ततोर्ऽजुनशरासारैर्भिन्नेषु भुजशालिषु ।
वासरान्ते न्यवर्तन्त पार्थिवा भृशपीडिताः ॥ ७.१३३ ॥
***** द्वीतीयो युद्धदिवसः ॥ ८ ॥ *****
ततः प्रातः समभ्येत्य गुरुं दुर्योधनोऽब्रवीत् ।
कर्णयन्भृशसंतप्तः पाण्डवानां पराक्रमम् ॥ ७.१३४ ॥

अहो नु पुण्यहीनस्य भवतापि प्रतिश्रुतः ।
वीरो निष्फलतां यातो धर्मजग्रहणे मम ॥ ७.१३५ ॥

शक्तिमन्त प्रणयिनामभिजाता यशस्विनः ।
वृथा मनोरथं कर्तुं शिक्षिता न भवद्विधाः ॥ ७.१३६ ॥

श्रुत्वा सुयोधनेनोक्तं जगाद कलशोद्भवः ।
दुर्ग्रह्यः पाण्डवो राजन्गुप्तो गाण्डीवधन्वना ॥ ७.१३७ ॥

तथाप्यद्य करोम्येष यथाशक्ति हितं तव ।
संशप्तकाः पुनर्यान्तु रतादाकृष्य फल्गुणम् ॥ ७.१३८ ॥

आचार्येणेति गदिते संशप्तकगणाः पुनः ।
समाहूयार्जुनं निन्युर्दक्षिणाशां युयुत्सवः ॥ ७.१३९ ॥

रामशिष्यस्ततो द्रोणः क्षत्रियक्षयदीक्षितः ।
संसारचक्रदुर्भेद्यं चक्रव्यूहं विनिर्ममे ॥ ७.१४० ॥

अरीणामयुते तस्मिन्राजपुत्रायुतं बभौ ।
व्योमनिर्झरिणीस्वच्छपताकालंकृतैर्भुजैः ॥ ७.१४१ ॥

नाभिमन्ये स्वय श्रीमान्राजा तस्थौ सुयोधनः ।
गजानीकेन महता वृतः सर्वैर्महारथैः ॥ ७.१४२ ॥

जयद्रथेन सहितो द्रोणो व्यूहमुखोऽभवत् ।
त्रिंशता त्रिदशाकरैस्तथा दुर्योधनानुजैः ॥ ७.१४३ ॥

तदपारं बलं दृष्ट्वा व्यूहं विक्रमशालिभिः ।
द्रोणनिर्दारितानीकः प्रदध्यौ धर्मनन्दनः ॥ ७.१४४ ॥

स सौभद्रं रणे मत्वा कंसारिसमविक्रमम् ।
बभाषे संनिधौ राज्ञां त्रैलोक्यविजयक्षमम् ॥ ७.१४५ ॥

अभिमन्यो तव पिता यातः संशप्तकान्प्रति ।
तद्वोढुर्महसि धुरं त्वमिमां तद्गुणाधिकः ॥ ७.१४६ ॥

कृष्णोर्ऽजुनो रौक्मिणेयस्त्वं वा वज्रिपराक्रमः ।
प्रगल्भः पञ्चमो नास्ति चक्रव्यूहविभेदिने ॥ ७.१४७ ॥

श्रुत्वैतदूचे सौभद्रः प्रहर्षोत्फुल्ललोचनः ।
एष व्यूहं विदार्याद्य प्रविशामि त्वदाज्ञया ॥ ७.१४८ ॥

निर्गन्तुमनभिज्ञं मामनुयान्तु महारथाः ।
उक्तेर्ऽजुनसुतेनेति युधिष्ठिरमुखैर्नृपैः ॥ ७.१४९ ॥

तथेत्यभिहिते सूतं सौभद्रः समचोदयत् ।
स मुक्तशैश्वो वीरः केसरीव त्रिहायनः ॥ ७.१५० ॥

मन्यमानो रणमुखे वराकं सर्वराजकम् ।
कान्तः कन्कसंनाहो बद्धस्वङ्गो विभूषितः ॥ ७.१५१ ॥

कौतुकात्क्ष्मामिवायातो वीरः सुरकुमारकः ।
अकठोरतराकारो वीरो जरठविक्रमः ॥ ७.१५२ ॥

द्रोणानीकं शरैश्चक्रे क्षुभिताम्भोधिविभ्रमम् ।
ततः प्रवृत्ते समरे महतामपि मोहने ॥ ७.१५३ ॥

विदार्य व्यूहमविशत्सौभद्रस्तीक्ष्णविक्रमः ।
लाघवे सौष्ठवे चित्रे यातमेकमनेकताम् ॥ ७.१५४ ॥

दृष्ट्वा प्रविष्टं तं सर्वे कुरुवीराः समाद्रवन् ।
अयं गृहीतो यातोऽयं हतोऽयं हन्त्ययं बहून् ॥ ७.१५५ ॥

इति राज्ञां निनादोऽबूदभिमन्युरथं प्रति ।
सरत्नमुकुटैः शीर्षैः सप्रासासिशरैः करैः ॥ ७.१५६ ॥

सहेमकवचैः कायैः सकेयूराङ्गदैर्भुजैः ।
तुरङ्गैः कृत्तसारङ्गैर्भिन्नकुम्भैश्च कुम्भिभिः ॥ ७.१५७ ॥

निपतद्भिरविश्रान्तश्छन्नां चक्रे स मेदिनीम् ।
वध्यमानं बलं दृष्ट्वा सौभद्रेण प्रहारिणा ॥ ७.१५८ ॥

तमाद्रवन्ससंरब्धाः द्रौणिकर्णकृपादयः ।
तान्बाणवर्षिणो वीरान्विधाय विमुखाञ्शरैः ॥ ७.१५९ ॥

शिरो जहार भल्लेन सौभद्रोऽश्मकभूपतेः ।
भग्ने ततो कुरुबले द्रोणकर्णकृपाः पुनः ॥ ७.१६० ॥

द्रौणिहार्दिक्यगान्धारशरशल्यबृहद्बलाः ।
भूरिभूरिश्रवश्चित्रदुःशासनसुयोधनाः ॥ ७.१६१ ॥

अन्ये चाभ्येत्य भूपालाः सायकैस्तमवाकिरन् ।
क्षिप्रैः शिलीमुखैस्तेषां संच्छन्नोर्ऽजुननन्दनः ॥ ७.१६२ ॥

वसन्तसमये कान्तः कर्णिकार इवाबभौ ।
तस्य पार्थकुमारस्य कुमारस्येव दानवाः ॥ ७.१६३ ॥

शक्त्या शक्तिमतो युद्धे निर्जितास्ते प्रदुद्रुवुः ।
मद्रराजानुजं हत्वा स तूर्णं भीमविक्रमम् ॥ ७.१६४ ॥

कर्णस्य भ्रातरं शूरं जघान घनगर्जितम् ।
क्रमेणैकैकशो जित्वा संहतांश्च पुनः पुनः ॥ ७.१६५ ॥

कर्णदुःशासनमुखान्स चक्रे भूभुजां क्षयम् ।
परसैन्यान्तरस्थस्य दिक्षु सर्वासु भूमिपाः ॥ ७.१६६ ॥

हेमचापसहस्राणि ददृशुस्तस्य लाघवात् ।
गजवाजिरथानीके दारिते तेन पत्त्रिभिः ॥ ७.१६७ ॥

चामरोष्णीषहासाङ्का प्रससर्पास्रवाहिनी ।
उत्थितेषु कबन्धेषु भग्ने सुभटमण्डले ॥ ७.१६८ ॥

दध्मौ पार्थसुतः शङ्खं दिशः शकलयन्निव ।
अत्रान्तरे पाण्डुसुतान्प्रवेष्टुं व्यूहमुद्यतान् ॥ ७.१६९ ॥

अवारयद्भर्गवराद्दृप्तो राजा जयद्रथः ।
स कृष्णाहरणे पूर्वं विजितस्तैर्महेश्वरात् ॥ ७.१७० ॥

वरं तपः कृशो लेभे तज्जयं फल्गुमं विना ।
स बभौ पाण्डुतनयान्वारयन्सपदानुगान् ॥ ७.१७१ ॥

वेलाचल इवोद्धूतान्वारिवेगान्महोदधेः ।
हैमं वराहं बिभ्राणो ध्वजे वैश्वानरप्रभम् ॥ ७.१७२ ॥

ददाह पाण्डवचमूं सैन्धवो रुद्रतेजसा ।
तेनैकेन निरुद्धेषु प्रसभं पाण्डुसूनुषु ॥ ७.१७३ ॥

अभिमन्युर्विशन्राज्ञामुच्चकर्त शिरोवनम् ।
वृषसेनं स विद्राव्य वीरो वैकर्तनात्मजम् ॥ ७.१७४ ॥

जहार लुलितोष्णीषं काम्बोजनृपतेः शिरः ।
तस्मिन्विमर्दे तुमुले दिक्षु रुद्धासु पांसुभिः ॥ ७.१७५ ॥

असूच्यन्त महीपाला रत्नाभरणरशिमभिः ।
ततो विजयदायादः केसरीव मदद्विपम् ॥ ७.१७६ ॥

जग्राह सत्यश्रवसं राजानमतुलौजसम् ।
अभिमन्योर्वशं याते तस्मिन्भूमिभृतां वरे ॥ ७.१७७ ॥

शल्यात्मजो रुक्मरथस्तं गर्जन्समुपाद्रवत् ।
स तेषां भ्रुकुटीधूमलक्ष्यकोपाग्निसंपदाम् ॥ ७.१७८ ॥

गान्धर्वास्त्रेण सहसा विदधे कीर्तिशेषताम् ।
तेन तुल्यवयोवेशे राजपुत्रशते हते ॥ ७.१७९ ॥

रम्भाकाण्डवने भग्ने प्रभिन्नेनेव दन्तिना ।
विद्रुते भूभुजां चक्रे भग्नामानः सुयोधनः ॥ ७.१८० ॥

निःशश्वास ह्रिया नम्रः सौभद्रशरदारितः ।
ततो दुर्योधनसुतो लक्ष्मणो लक्ष्मणोपमः ॥ ७.१८१ ॥

अभिमन्युं समभ्येत्य प्राहिणोद्विशिखावलीम् ।
लक्ष्मीलताकिसलयं संभोगतरुकन्दरम् ॥ ७.१८२ ॥

तं राजपुत्रं सौभद्रः क्षणं तुल्यमयोधयत् ।
तस्य मुक्तावलीतारापङ्क्तिसेवितमाननम् ॥ ७.१८३ ॥

शशाङ्कमिव भल्लेन कण्ठमूलाज्जहार सः ।
कौरवेन्द्रस्ततः क्रुद्धः प्रिये पुत्रे निपातिते ॥ ७.१८४ ॥

सौभद्रमाद्रवद्वीरः सह सर्वैर्महारथैः ।
नृपवैकर्तन्द्रोणद्रौणिहार्दिक्यगौतमान् ॥ ७.१८५ ॥

शरैर्विद्राव्य तरसा वृन्दारकमपातयत् ।
कोपादापततः सोऽथ कोसलाधिपतेः शिरः ॥ ७.१८६ ॥

बृहद्बलस्य चिच्छेद भल्लेनाकुलकुण्डलम् ।
ततः कर्णमभिद्रुत्य शरैरशनिदारुणैः ॥ ७.१८७ ॥

निनाय संशयतुलां मृत्युदंष्ट्राङ्कुरैरिव ।
निपात्य कर्णसचिवान्राजपुत्रान्प्रहारिणः ॥ ७.१८८ ॥

जघान मार्तिकं भोजं तथा कुञ्जरेकतनम् ।
दौःशासनिं ततः कृत्वा पृषत्केन पराङ्भुखम् ॥ ७.१८९ ॥

विधाय विरथं शल्यं शरजालैरमोहयत् ।
शत्रुंजयं मेघवेगं चन्द्रकेतुं सुवर्चसम् ॥ ७.१९० ॥

सूर्यभासं च हत्वैतान्गान्धाराणां क्षयं व्यधात् ।
विद्राव्य भिन्नसर्वाङ्गं शकुनिं क्षतजोक्षितम् ॥ ७.१९१ ॥

शिरःफलोच्चयं चक्रे राजचूतवनेषु सः ।
हेमपुङ्खेषुजालेन जनकस्पर्धयेव सः ॥ ७.१९२ ॥

चकार कौरवानीकं ज्वलत्स्वाण्डवविभ्रमम् ।
स बभौ बिम्बितो राज्ञां स्वङ्गेषु कवचेषु च ॥ ७.१९३ ॥

एको विश्वक्षयायेव प्रयातो विश्वरूपताम् ।
तं दहन्तमनेकानि दृष्ट्वा शरशतार्चिषम् ॥ ७.१९४ ॥

आचार्यमेत्य राधेयो गाढविद्धः समभ्यधात् ।
बालोऽप्यबालचरितः काकुत्स्थमविक्रमः ॥ ७.१९५ ॥

अशेषं क्षपयत्येष सैन्यं वज्रिसुतात्मजः ।
विधीयतामत्र नीतिर्दुर्जयोऽयमुपेक्षितः ॥ ७.१९६ ॥

त्वदधीना हि युद्धेऽस्मिन्कौरवाणां जयश्रियः ।
श्रुत्वैतत्सस्मितो द्रोणः सूतपुत्रमभाषत ॥ ७.१९७ ॥

सत्यं हिनस्ति पृतनां मुहुर्तेनार्जुनात्मजः ।
अस्य धैर्यममर्यादं दृष्ट्वा प्रौढं च विक्रमम् ॥ ७.१९८ ॥

रोमाञ्जकञ्चुकः कायः कस्य नाम न जायते ।
सकार्मुको न शक्योऽयं सखङ्गरथकङ्कटः ॥ ७.१९९ ॥

सचक्रो वा रणे जेतुं भास्वरैस्त्रिदशैरपि ।
तदस्य क्रियतां यत्नः सर्वायुधविनाशने ॥ ७.२०० ॥

परचक्रान्तरस्थस्य युष्माभिर्यदि शक्यते ।
ततो द्रोणः समाभाष्य कर्णेन सहितो ययौ ॥ ७.२०१ ॥

सौभद्रं द्रावितानीकं सह सर्वैर्महारथैः ।
स तानापततो वीरान्मण्डलीकृतकार्मुकः ॥ ७.२०२ ॥

शरैश्चकार विमुखान्नदीवेगानिवाचलः ।
ततश्चिच्छेद पार्श्वेन कर्णस्तस्यानतं धनुः ॥ ७.२०३ ॥

रथं जघान हार्दिक्यः सारथिं तस्य गौतमः ।
विरथं छिन्नधन्वानं द्रोणमुख्यास्तमाद्रवन् ॥ ७.२०४ ॥

स दीप्तं स्वङ्गमादाय चर्म चानेकतारकम् ।
मण्डलानि चरन्वीरो दुर्लक्ष्यः समपद्यत ॥ ७.२०५ ॥

चरन्तं व्योम्नि बाहुल्यात्सहस्रांशुमिवाभितः ।
पतितं मेनिरे मूर्ध्नि तुल्यं सर्वे महारथाः ॥ ७.२०६ ॥

प्रहारिणः क्षुरप्रेण द्रोणस्तस्याकरोद्द्विधा ।
खङ्गं भिन्नेभकुम्भाग्रसक्तमौक्तिकदन्तुरम् ॥ ७.२०७ ॥

छिन्नखङ्गः समादाय चक्रं विक्रमलाच्छनः ।
स चक्रे राजचक्राणां क्षयं चक्रायुधभ्रमम् ॥ ७.२०८ ॥

ततस्ते संहताः सर्वे द्रोणमुख्या महारथाः ।
तच्चक्रं तिलशश्चक्रुः शरैः संहारशङ्किताः ॥ ७.२०९ ॥

हेमाङ्गदगदापाणिः सोऽथ भीम इवापरः ।
सुबलस्यात्मजं वीरं कालिकेयं जघान सः ॥ ७.२१० ॥

गान्धारराजपुत्राणां स हत्वा सप्तसप्ततिम् ।
नृपान्ब्रह्मवसातीयान्गदयापातयद्दश ॥ ७.२११ ॥

निष्पिष्टकेकयरथो गजानीकं चकार सः ।
वज्रपातविनिर्भिन्नशैलमण्डलसंनिभम् ॥ ७.२१२ ॥

रथं दौःशासनेः साश्वं स निष्पिष्य ससारथिम् ।
गदया गजघातिन्या गदापाणिं तमाद्रवत् ॥ ७.२१३ ॥

मण्डलानि चरन्तौ तावन्योन्यमभिजघ्नतुः ।
गदाभ्यं भीषणाघातजातवह्निकणाकुलौ ॥ ७.२१४ ॥

गुरुप्रहाराभिहतौ पेततुस्तौ महाभुजौ ।
सौभद्रं पतितं दूराद्बाणैर्जघ्नुर्महारथाः ॥ ७.२१५ ॥

सायकाञ्चितसर्वाङ्गं विकीर्णाकुलकुन्तलम् ।
दौःशासनिस्तमुत्थान गदया मूर्ध्न्यताडयत् ॥ ७.२१६ ॥

तस्मिन्निपतिते वीरे वालचूत इवानिलैः ।
वीतशोभमभूत्सर्वं जगदुद्यानमाकुलम् ॥ ७.२१७ ॥

प्रशान्तमपि तं दृष्ट्वा क्षत्रवेणुवनानलम् ।
पुनरुत्तिष्ठतीत्यासीद्भूभुजां हृदयभ्रमः ॥ ७.२१८ ॥

तं दृष्ट्वा चन्द्रवदनं कुमारं भूमिपातितम् ।
व्योमगा मुमुचुर्बाष्पं सुरविद्याधराङ्गनाः ॥ ७.२१९ ॥

बालो लूनधनुष्स्वण्डः श्रान्तो विहतवाहनः ।
हतो महारथैः सर्वैरित्यभूद्दिवि निःश्वनः ॥ ७.२२० ॥

ततः प्रहृष्टैः कुरुभिर्लब्धलक्ष्यैः समन्ततः ।
गर्जद्भिर्निर्जिताः सेना दुद्रुवुर्धर्मनन्दनम् ॥ ७.२२१ ॥
***** तृतीये दिनेऽभिमन्युवधः ॥ ९ ॥ *****
सहस्रपत्त्रनयने सौभद्रे युधि पातिते ।
शोकार्त इव रक्तांशुः पपातास्ताद्रिकन्दरात् ॥ ७.२२२ ॥

ततो युधिष्ठिरमुखाः संमुखं हतमाहवे ।
अशोच्यं शुशुचुः स्नेहाज्जम्भारितनयात्मजम् ॥ ७.२२३ ॥

समाययौ ततो जिष्णुः शिबिरं विमना इव ।
प्रायः पूर्वं मनांस्येव कथयन्ति शुभाशुभम् ॥ ७.२२४ ॥

स निजं सैन्यमालोक्य ध्वस्तच्छायमधोमुखम् ।
भ्रातॄंश्च विषनाराचनिर्भिन्नानिव मर्मसु ॥ ७.२२५ ॥

दिवसप्रोषितं पुत्रं द्रष्टुमुत्कण्ठिताशयः ।
मूकीभूतानिव शुचा तानपृच्छत्ससंभ्रमः ॥ ७.२२६ ॥

कच्चिन्न द्रोणविहितं चक्रव्यूहं ममात्मजः ।
प्रविष्टो निधनं नीतः कुरुभिः कूटयोधिभिः ॥ ७.२२७ ॥

प्रवेशं शिक्षितो व्यूहे मया बालो न निर्गमम् ।
ध्रुवं स निहतः पापौर्वीरो राजीवलोचनः ॥ ७.२२८ ॥

उक्त्वेति शोकदनक्वाथ्यमानो धनंजयः ।
श्रुत्वा तनयवृत्तान्तं मोहात्स्थाणुरिवाभवत् ।
यशोमयीं प्रविष्टोऽसौ वीरः कल्पस्थिरां तनुम् ॥ ७.२२९ ॥

इत्युच्यमानः कृष्णेन लब्धसंज्ञो जगाद सः ।
अहो नु नाभवत्कश्चिन्मत्पुत्रं योऽरिमध्यगम् ॥ ७.२३० ॥

ररक्ष मध्ये युष्माकं मिथ्याशस्त्रपरिग्रहः ।
तं समग्रगुणारामं तनयं रामविक्रमम् ॥ ७.२३१ ॥

द्रक्ष्यामि क्व पुनः कान्तं स्वप्नलब्धमिवेप्सितम् ।
व्यक्तं रिपुभिराकीर्णः पतन्सस्मार मां सुतः ॥ ७.२३२ ॥

स्वस्रीयः केशव त्वां वा लुप्तधैर्योऽथवा न सः ।
हता सुभद्रा रहिता पुत्रेणामृतवर्षिणा ॥ ७.२३३ ॥

सर्वातिशयलावण्यगुणविक्रमशालिना ।
मन्ये तं मन्यते कान्तं तारापतिनिभाननम् ॥ ७.२३४ ॥

नवं मन्मथमायातं दिवि देववधूजनः ।
परिष्वजस्व हा पुत्र क्व यातोऽसि विहाय माम् ॥ ७.२३५ ॥

इत्युक्त्वा मूलनिर्लूनो भुवि ताल इवापतत् ।
प्रतिलभ्य पुनः संज्ञां श्रुत्वा हेतुं जयद्रथम् ॥ ७.२३६ ॥

सुतक्षयप्रकोपाग्निपीतशोकार्णवोऽवदत् ।
हन्ताहं सैन्धवं पापं त्रिदशैरपि रक्षितम् ॥ ७.२३७ ॥

अनस्तनो तिग्मकरे पश्यतां सर्वभूजाम् ।
ये चरन्ति गुरुद्रोहं साधून्परिवदन्ति ये ॥ ७.२३८ ॥

विश्वस्तान्घ्नन्ति ये स्वैरं निक्षेपं भक्षयन्ति ये ।
निन्दन्ति ये स्त्रियं भुक्त्वा ये च शास्त्रार्थवर्जिताः ॥ ७.२३९ ॥

आचरन्ति निषिद्धं ये विहितं च त्यजन्ति ये ।
लोकन्व्रजेयं तत्तुल्यान्हन्या यदि न तं युधि ॥ ७.२४० ॥

असमाप्तेऽह्नि निखिले न हतश्चेज्जयद्रथः ।
तत्प्रवेक्ष्यामि दहनं हूषणानृतशान्तये ॥ ७.२४१ ॥

भुवि वा दिव पाताले मेरुमन्दरकन्दरे ।
अपि स्थितं तं मद्बाणा दारयिष्यन्त्यवारिताः ॥ ७.२४२ ॥

इत्युक्त्वा कोपताम्राक्षः समं कालियविद्विषा ।
दध्मौ शङ्खं मही येन चकम्पे सकुलाचला ॥ ७.२४३ ॥
***** अर्जुनप्रतिज्ञा ॥ १० ॥ *****
अस्मिन्नवसरे चारैर्विज्ञायार्जुनभाषितम् ।
भीतो दुर्योधनायैत्य सैन्धवस्तन्न्यवेदयत् ॥ ७.२४४ ॥

कौरवस्तं समादाय द्रोममभ्येत्य सानुगः ।
प्रतिज्ञामवदद्धोरां सैन्धवे सव्यसाचिनः ॥ ७.२४५ ॥

जयद्रथो वदत्येष दिनमेकमलक्षितः ।
गच्छामि पार्थिवाः सर्वे मां वा रक्षन्तु संहताः ॥ ७.२४६ ॥
इति दुर्योधनेनोक्ते भारद्वाजस्तमब्रवीत् ।
श्वः कर्तास्मि महाव्यूहं दुर्भेद्यं त्रिदशैरपि ॥ ७.२४७ ॥

अहं धनंजयं वीरं वारयिष्यामि सायकैः ।
सैन्धवार्थिनमायान्तं वेलशैल इवोदधिम् ॥ ७.२४८ ॥

उक्ते शोणहयेनेति प्रहृष्टाः कुरुपुंगवाः ।
हतं पार्थममन्यन्त प्रतिज्ञाभङ्गवह्निना ॥ ७.२४९ ॥

अधुनैवाखिलां सेनामेकः क्रुद्धो विनाशयेत् ।
रात्रावित्यर्जुनभयात्कुरवस्तस्थुरुत्थिताः ॥ ७.२५० ॥

अत्रान्तरे पुत्रशोकव्यथाताप्रलापिनीम् ।
सुभद्रां याज्ञसेनीं च शौरिः सान्त्वयितुं ययौ ॥ ७.२५१ ॥

आश्वासिता केशवेन सुभद्रा बाष्पगद्गदम् ।
विललाप मुहुः कण्ठे स्नुषामालम्ब्य मूर्च्छिताम् ॥ ७.२५२ ॥

हा पुत्र नयनानन्द मन्दिरामृतदीधिते ।
क्व नु ते पद्मपत्त्राक्षं द्रक्ष्यामि वदनं पुनः ॥ ७.२५३ ॥

इयं ते मत्स्यदुहिता नवोढा महिषी प्रिया ।
मर्तुमाहितसंकल्पा रक्ष्यते गर्भगौरवात् ॥ ७.२५४ ॥

नाथे पितरि कृष्णे च भीमे च बलिनां वरे ।
रणे रेणुभिरकीर्णः शेषे कथमनाथवत् ॥ ७.२५५ ॥

ब्रह्मण्यानां वदान्यानां यज्वनां पुण्यकर्मिणाम् ।
सदाचारव्रतजुषां गतिमाप्नुहि पुत्रक ॥ ७.२५६ ॥

इति प्रलापमुखरां तां समाश्वास्य माधवः ।
तूर्णं गाण्डीवधन्वानं वीतनिद्रमुपाययौ ॥ ७.२५७ ॥

कृष्णाज्ञया जपपरो विधिवत्परिकल्पिते ।
पवित्रे शयने निद्रां लेभे शक्रसुतस्ततः ॥ ७.२५८ ॥

सोऽपस्यद्व्योमगः स्वप्ने विष्णुना सह संयुतः ।
दिव्यपर्वतमारूढो देवं चन्द्रार्धसेखरम् ॥ ७.२५९ ॥

तं गोविन्दसखो दृष्ट्वा प्रणम्य रचिताञ्जलिः ।
भक्त्या तुष्टाव वरदं वरेण्यं हर्षनिर्भरः ॥ ७.२६० ॥

नमो भवाय भुवनप्रभवाप्यायकारिणे ।
नमः शर्वाय निःशेषदुष्कर्मविषहारिणे ॥ ७.२६१ ॥

नमो रुद्राय दैत्येन्द्रद्रावितेन्द्रभयच्छिदे ।
नमः शिवाय भीमाय श्रीकण्ठाय कपालिने ॥ ७.२६२ ॥

उग्राय श्रेयसां धाम्ने वामार्धायोर्ध्वरेतसे ।
व्यालाकुलाय सेव्याय निष्कलाय कलाभृते ॥ ७.२६३ ॥

त्रिगुणाय त्रिनेत्राय त्र्यम्बकाय त्रिमूर्तये ।
संकल्पकल्पवृक्षाय नमस्तुभ्यं त्रिशूलिने ॥ ७.२६४ ॥

इति रुद्रः स्तुतः स्वप्ने महाभुजगविग्रहम् ।
धनुरस्त्रं च पार्थाय सस्थानकमदर्शयत् ॥ ७.२६५ ॥

पूर्वलब्धं महास्त्रं तद्दृष्ट्वा पाशुपतं जयः ।
मन्त्त्रं च प्राप्य चण्डीशात्कृतकृत्यो व्यबुध्यत ॥ ७.२६६ ॥

ततः प्रभाते कृष्णाय तन्निवेद्य धनंजयः ।
प्रतिज्ञाभारमखिलं हृष्टः स्वल्पममन्यत ॥ ७.२६७ ॥

अथ स्नाताः कृतावश्यकरणीया हुताग्नयः ।
रणाङ्गणं महोत्साहा निर्ययुः कुरुपाण्डवाः ॥ ७.२६८ ॥

ततो व्यूहं व्यधाद्द्रोणः पृथुचक्रपरिष्कृतम् ।
शकटं विकटाटोपं गुप्तं सुभटकोटिभिः ॥ ७.२६९ ॥

महादलं च तन्मध्ये पद्मं नृपतिकेसरम् ।
तुरङ्गरथमातङ्गसहस्रायुतकर्णिकम् ॥ ७.२७० ॥

कृतवर्ममुखैः कृत्वा सूचिव्यूहं तदन्तरे ।
जयद्रथं वृतं वीरैः सूचीपाशे न्यवेदयत् ॥ ७.२७१ ॥

एवं व्यूढेष्वनीकेषु गुरुणाद्भुतकारिणा ।
गाण्डीवधन्वा सेनाग्रे दीप्तकेतुरदृश्यत ॥ ७.२७२ ॥

तस्य चण्डकरस्येव शररश्मिसहस्रिणः ।
सेहिरे न महीपाला द्रष्टुं तेजो महौजसः ॥ ७.२७३ ॥

आकम्पितेऽथ भुवने दुर्निमित्तशताकुले ।
श्वेताश्वे स्यन्दने कृष्णौ शुभ्रौ शङ्खौ प्रदध्मतुः ॥ ७.२७४ ॥

तयोः शब्देन पवनस्कन्दसंघट्टकारिणा ।
अकाण्डप्रलयारम्भसर्वभूतानि मेनिरे ॥ ७.२७५ ॥

ततो मिलितयोस्तूर्णं मिथः सेनासमुद्रयोः ।
व्यालनीलवलतस्वङ्गातरङ्गः संगरोऽभवत् ॥ ७.२७६ ॥

शिरोभिरथ शूराणां बाहुभिश्च सभूषणैः ।
महीमाच्छादयन्पार्थो द्रोणानीकमथाविशत् ॥ ७.२७७ ॥

स प्रणम्य गुरुं वृद्धमनुमान्य प्रसाद्य च ।
पूर्वोत्सृष्टशरं दीप्तैः शरजालैरवाकिरत् ॥ ७.२७८ ॥

ततो जयद्रथाकाङ्क्षी तूर्णमच्युतसारथिः ।
द्रोणं प्रदक्षिणीकृत्य प्रविश्यानिलरंहसा ॥ ७.२७९ ॥

लाघवाद्द्रोणमृत्सृज्य प्रविष्टे श्वेतवाहने ।
चक्ररक्षौ विविशतुर्युधामन्यूत्तमौजसौ ॥ ७.२८० ॥

ततो मन्दरसंरब्धक्षुभिताम्भोधिविभ्रमः ।
व्यूहस्यादीर्यमाणस्य निर्घोषस्तुमुलोऽभवत् ॥ ७.२८१ ॥

प्रसक्तं व्रजतस्तस्य पुरः कुञ्जरभेदिनः ।
बभुः पद्मवनानीव पतितैर्भूभुजां मुखैः ॥ ७.२८२ ॥

वृतो गतो हतो लब्धो हन्त्येष पतिता वयम् ।
इत्यभूद्दारुमः शब्दो यत्र यत्र धनंजयः ॥ ७.२८३ ॥

तूर्णं प्रविशतस्तस्य सिन्धुराजवधेप्सया ।
प्रलयाम्बुधरध्वानधीरोऽभूतस्यन्दन्स्वनः ॥ ७.२८४ ॥

अजय्यं समरे द्रोणं त्यक्त्वा धीमति फल्गुणे ।
प्रविष्टे शरवर्षाभ्रे चकम्पे कुरुकाननम् ॥ ७.२८५ ॥

कृतवर्ममुखान्वीरांस्ततस्तूर्णमभिद्रुतान् ।
जित्वा यवनकाम्बोजं जघान शतमन्युजः ॥ ७.२८६ ॥

द्रोणः पश्चादथाभ्येत्य ब्रह्मास्त्रेण धनंजयम् ।
रुन्धानः समरे चक्रे ज्वालाजालजटं नभः ॥ ७.२८७ ॥

ब्रह्मास्त्रेणैव सहसा हत्वास्त्रं शक्रनन्दनः ।
परिवर्ज्य गुरुं प्रायाद्भोजानीकं मनोजवः ॥ ७.२८८ ॥

विधाय विमुखं भोजं प्रयान्तं सव्यसाचिनम् ।
अभ्युद्ययौ वारिपतेः सुतो राजा श्रुतायुधः ॥ ७.२८९ ॥

शरैस्तेनायुतोत्सृष्टैर्विद्धो धैर्यमहोदधिः ।
रथं हत्वास्य विदधे पार्थः सर्वायुधक्षयम् ॥ ७.२९० ॥

वरुणेन पुरा पित्रा स दत्तामाददे गदाम् ।
अयोधे पातिता मोहात्तमेवैत्य निहन्ति या ॥ ७.२९१ ॥

स तया केशवं मूढो मृत्युदूत्येव घोरया ।
अताडयन्महावेगी विचचाल न चाच्युतः ॥ ७.२९२ ॥

तया प्रतीपमभ्येत्य स निष्पिष्टो नरेश्वरः ।
पपात भग्नकटको वज्रेणेव कुलाचलः ॥ ७.२९३ ॥

सरितस्तनये वीरे वर्णमायाः श्रुतायुधे ।
हते पार्थरथस्याभूदभग्नप्रणया गतिः ॥ ७.२९४ ॥
***** श्रुतायुधवधः ॥ ११ ॥ *****
जयोद्धूतपताकाग्रं व्रजन्तं वानरध्वजम् ।
वेगदीर्घीकृतस्मेरकिरीटाभरणप्रभम् ॥ ७.२९५ ॥

तडितां मण्डलेनेव पिङ्गं गाण्डीवतेजसा ।
राजा सुदक्षिणोऽभ्यायात्काम्बोजः कुरुदक्षिणः ॥ ७.२९६ ॥

तस्यास्त्रवर्षिणस्तूर्णं छित्वा कार्मुकमर्जुनः ।
चकर्त शक्तिं तन्मुक्तां घनघण्टाविराविणीम् ॥ ७.२९७ ॥

सोऽथ पार्थशरासारविशरारुतनुर्नृपः ।
पपात हेममालाङ्को विद्याधर इवाम्बरात् ॥ ७.२९८ ॥
***** सुदक्षिमवधः ॥ १२ ॥ *****
काम्बोजे निहते वीरे भज्यमाने बलार्णवे ।
सहाच्युतायुषा राज्ञा श्रुतायुः पार्थमाद्रवत् ॥ ७.२९९ ॥

श्रुतायुषा तोमरेम शूलेनान्येन चाहतः ।
तुल्यं बाणसहस्रैश्च मुमोह कपिकेतनः ॥ ७.३०० ॥

लब्धसंज्ञोऽथ शक्रास्रं समुदीर्य धनंजयः ।
साश्वसूतौ सुपत्रौ च कथाशेषौ चकार तौ ॥ ७.३०१ ॥
***** श्रुतायुर्वधः ॥ १३ ॥ *****
अङ्गान्वङ्गान्कलिङ्गांश्च दाक्षिणात्यांश्च पाण्डवः ।
हत्वा जघान विपुलं कुञ्जरानीकमाशुगैः ॥ ७.३०२ ॥

दरत्तुरष्कचीनानां म्लेच्छानां च वरूथिनीम् ।
शरैर्निपात्य विदधे घोरां रक्ततरङ्गिणीम् ॥ ७.३०३ ॥

अम्बष्ठाधिपतेश्छित्वा मौलिरत्नोज्जवलं शिरः ।
अवारितगतिर्वीरो विवेशाच्युतसारथिः ॥ ७.३०४ ॥

अथ द्रोणं समभ्येत्य बभाषे कौरवेश्वरः ।
आचार्य पश्य पार्थेन भूभुजां कदनं कृतम् ॥ ७.३०५ ॥

कथं नु लङ्घयेद्वीर वराकस्त्वां पृथासुतः ।
शिष्यानुरोधो यदि ते न स्यात्सरलचेतसः ॥ ७.३०६ ॥

दत्ताभयोऽद्य भवता हेलयैव जयद्रथः ।
प्रवेशितः स्वयं कालकरालवदनोदरे ॥ ७.३०७ ॥

को हि गाण्डीवधन्वानं त्वयापि समुपेक्षितम् ।
चरन्तं मम सैन्येषु सामान्यो वारयिष्यति ॥ ७.३०८ ॥

इत्युक्ते कुरुराजेन भारद्वाजो जगाद तम् ।
तार्क्ष्यवेगो युवा पार्थो वृद्धमुल्लङ्घ्य चागतः ॥ ७.३०९ ॥

व्यूहद्वारे मया रुद्धा भीमसात्यकिपार्षताः ।
प्रविशन्त्येष बीभात्सुं व्रजामि यदि पृष्ठतः ॥ ७.३१० ॥

इदं तु ते करोम्यद्य हितं लोकेषु दुष्करम् ।
भविष्यसि रणे येन देवानामपि दुर्जयः ॥ ७.३११ ॥

घोरे वृत्ररणे रुद्रः सुरेन्द्राय ददौ पुरा ।
दिव्यं मन्त्रमयं वर्म दुर्भेद्यो येन सोऽभवत् ॥ ७.३१२ ॥

तदेतन्मन्त्रसंयुक्तं प्राप्तं गुरुमुखान्मया ।
बध्नामि ब्रह्मसूत्रेण तव शत्रुनिबर्हणम् ॥ ७.३१३ ॥

इत्युक्त्वा तस्य मन्त्रेण भास्वत्कनककङ्कटम् ।
प्रस्थितस्यार्जुनं जेतुं बबन्ध कुरुभूपतेः ॥ ७.३१४ ॥

आमुक्तदिव्यकवचो गुरुणा कौरवेश्वरः ।
गजवाजिरथानीकैः प्रययौ पार्थमोजसा ॥ ७.३१५ ॥

अस्मिन्नवसरे युद्धे व्यूहस्य प्रमुखेऽभवन् ।
द्रोणशल्यशलादीनां धृष्टद्युम्नपुरोगमाः ॥ ७.३१६ ॥

पाण्डवा द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।
सात्यकिर्द्रुपदो मत्स्यः कुन्तिभोजस्च केकयाः ॥ ७.३१७ ॥

वीराश्चान्ये महीपालाः समभिद्रुत्य संहताः ।
दिव्यास्त्रवित्तमा वीरा जलसन्धं नराधिपम् ॥ ७.३१८ ॥

दुःशासनं विकर्णं च चित्रसेनं विविंशतिम् ।
अलायुधं राक्षसेन्द्रमलम्बुममलम्बुसम् ॥ ७.३१९ ॥

बाह्लिकं शकुनिं द्रोणिं वृषसेनं च गौतमम् ।
मुहुर्मुहारथांश्चन्यान्व्यूहगर्भविनिर्गतान् ॥ ७.३२० ॥

अवाकिरन्हेमपुङ्खैर्निजनामाङ्कितैः शरैः ।
मिथो रथाग्रे कुर्वाणा रुधिरावर्तदुर्गमम् ॥ ७.३२१ ॥

ते चक्रुर्विक्रमोदारा घोराभिः शस्त्रवृष्टिभिः ।
कबन्धताण्डवोच्चण्डसंरम्भललिता दिशः ॥ ७.३२२ ॥

अत्रान्तरे श्वेतहयः प्रविशन्कुरुवाहिनीम् ।
चकार निपतच्छत्रुराजहंसावलीसिताम् ॥ ७.३२३ ॥

शराणामर्जुनभुजोत्सृष्टानामाशुगामिनाम् ।
क्रोशद्वयं ययावग्रे स कृष्णप्रेरितो रथः ॥ ७.३२४ ॥

ते हया हेमसंनाहा गाहमाना इवाम्बरम् ।
जवदीर्घैः प्रभाजालैश्चक्रुः पल्लविता दिशः ॥ ७.३२५ ॥

हतो गजो रथश्छिन्नः पतितोऽयं नराधिपः ।
इत्यभून्निःस्वनस्तत्र चेरुर्यत्रार्जुनेषवः ॥ ७.३२६ ॥

विन्दानुविन्दावावन्त्यावभिद्रुत्याथ पाण्डवम् ।
अदृश्यं चक्रतुर्नानाशस्त्रवर्षैः सकेशवम् ॥ ७.३२७ ॥

तयोः पार्थो रथौ हत्वा छित्वा च धनुषी शरैः ।
जहार शिरसी याभ्यां द्विचन्द्रेवाभवन्मही ॥ ७.३२८ ॥
***** विन्दानुविन्दवधः ॥ १४ ॥ *****
ससैन्यो राजपुत्रौ तौ हत्वा विपुलविक्रमौ ।
निजाश्वान्व्यथितान्वीक्ष्य बभाषे कृष्णमर्जुनः ॥ ७.३२९ ॥

कृष्णार्तान्वाजिनः क्लान्तान्दस्युशस्त्रशरक्षतान् ।
पाययोद्धृतशल्यांस्त्वं मुक्त्वैतान्सलिलं विभो ॥ ७.३३० ॥

उक्त्वेति सोऽवतीर्यशु पादचारी नरेश्वरान् ।
इदमन्तरमित्याप्तानेकः सर्वानयोधयत् ॥ ७.३३१ ॥

ततः पार्थास्त्रजालानां तदस्त्राणां च संघशः ।
निघर्षनिःसृतज्वालाकरालमभवन्नभः ॥ ७.३३२ ॥

अर्जुनेन कृते क्षिप्रं शरपञअजरमन्दिरम् ।
तदस्त्रभिन्नवसुधासंजातविमलोदके ॥ ७.३३३ ॥

परिवृत्तान्समाकृष्टशल्यानाघ्रातभूतलान् ।
पाययित्वा हयान्कृष्णो हृष्टान्पुनरयोजयत् ॥ ७.३३४ ॥

ते कृष्णाववहन्वाहा जातद्विगुणरंहसः ।
आरुहन्त इवाकाशं शक्राश्विविजिगीषया ॥ ७.३३५ ॥

अथ स्वल्पावशेषेऽह्नि तूर्णं सैन्धवकाङ्क्षिणः ।
चकम्पे कौरवचमूः सायकैः सव्यसाचिनः ॥ ७.३३६ ॥

विद्रुतेषु नरेन्द्रेषु भग्ने गजघटावने ।
द्रोणानुबद्धकवचः कौरवेन्द्रः समाययौ ॥ ७.३३७ ॥

विलोक्य विपुलानीकं तमायान्तं महौजसम् ।
उवाच कैटभारातिर्निवातकवचान्तकम् ॥ ७.३३८ ॥

अयं स कर्ता दर्पान्धो निकाराणां स्थवीयसाम् ।
प्राप्तो मूलमनर्थानां जह्येनं कुलकण्टकम् ॥ ७.३३९ ॥

इत्युक्ते पुष्कराक्षेण वीरौ जिष्णुसुयोधनौ ।
क्षणं विलोक्य चक्राते सुरेन्द्रनमुचिप्रभम् ॥ ७.३४० ॥

प्रेरिता कुरुराजेन शुभ्रपक्षा किरीटिनम् ।
क्रौञ्चाद्रिमिव हंसाली विवेश विशिखावली ॥ ७.३४१ ॥

गाण्डीवधन्वनो बाणान्वन्ध्यान्दृष्ट्वा सुयोधने ।
किमेतदिति गोविन्दो जगाद पृथुविस्मयः ॥ ७.३४२ ॥

धनंजयस्तमवदत्स्मितधौताधरद्युतिः ।
ज्ञातं कृष्ण मया येन पापोऽयं प्रतिभां श्रितः ॥ ७.३४३ ॥

वर्मास्य गुरुणा बद्धं विद्यया वज्रसंनिभम् ।
प्रतियोगं च जानेऽहं कृत्स्नमेतद्विनाशने ॥ ७.३४४ ॥

इत्युक्त्वास्त्रं महद्दिव्यं कवचोच्छित्तये व्यधात् ।
तच्च दूरान्महास्त्रेण द्रोणपुत्रो व्यदारयत् ॥ ७.३४५ ॥

द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा पाण्डुनन्दनः ।
चक्रे सुयोधनं छिन्नरथसारथिकार्मुकम् ॥ ७.३४६ ॥

हस्तयोश्च शरैरस्य चकाराप्राप्तवर्मणोः ।
लक्ष्याभ्यासमिवासक्तं येनासौ विमुखोऽभवत् ॥ ७.३४७ ॥

ततो द्रौणिप्रभृतयः पार्थं सर्वे महारथाः ।
अभ्याद्रवन्सुसंरब्धा विचित्रकवचध्वजाः ॥ ७.३४८ ॥

शिखिध्वजः कर्णसुतः सीराङ्को मद्रभूपतिः ।
मणिनागध्वजः श्रीमान्स्वयं राजा सुयोधनः ॥ ७.३४९ ॥

भूरिश्रवा यूपकेतुरन्ते च विविधध्वजाः ।
हेमदीप्तायुधधरा घोरं युयुधिरे नृपाः ॥ ७.३५० ॥

तेषामापततां तूर्णं लघुहस्तो धनंजयः ।
चिच्छेद बाणैर्मर्माणि छत्त्राणि च धनूंषि च ॥ ७.३५१ ॥

शरैर्विवर्मणां तेषां पद्मगर्भनिभानि सः ।
बालातपारुणानीव वपूंषि रुधिरैर्व्यधात् ॥ ७.३५२ ॥

वध्यमानेषु वीरेषु जिष्णुना सर्वराजसु ।
वलत्स्वङ्गभुजः कालो ननर्तेव निजोत्सवे ॥ ७.३५३ ॥

अत्रान्तरे धर्मसुतं द्रोणो व्यूहमुखे स्थितः ।
महारथैः परिवृतं जिघृक्षुस्तूर्णमाद्रवत् ॥ ७.३५४ ॥

स कृत्वा मत्स्यपाञ्चालचेदिसृञ्जयकेकयान् ।
अल्पावशेषान्राजानं चकार विरथं शरैः ॥ ७.३५५ ॥

हताश्वं कृत्तचापं च दृष्ट्वा सर्वे युधिष्ठिरम् ।
हृतो हृतो नृप इति स्फारतारं प्रचुक्रुशुः ॥ ७.३५६ ॥

ततः पाण्डुसुतः शक्तिं प्राहिणोत्प्राणहारिणीम् ।
ब्रह्मस्त्रेण च तां द्रोणो भस्मसादकरोत्क्षणात् ॥ ७.३५७ ॥

छिन्नसर्वायुधो विद्धः शरैः कुलिशदारुणैः ।
सह देवरथेनाशु मुक्त्वा द्रोणं ययौ नृपः ॥ ७.३५८ ॥

विद्रुते धर्मतनये भारद्वाजो रुषा ज्वलन् ।
ददाह पाण्डवचमूं शरश्रेणीशिकाशतैः ॥ ७.३५९ ॥

केकयोऽथ बृहत्क्षत्रः पाण्डवानीकनायकः ।
द्रोणानुगं क्षेमधूतिं महीपालमपातयत् ॥ ७.३६० ॥

त्रैगर्तं वीरधन्वानं धृष्टकेतुं महारथम् ।
विधाय च्छिन्नमूर्धानं कबन्धं विदधे क्षणम् ॥ ७.३६१ ॥

निरपत्यं हातमित्रं सहदेवोऽवधीद्युधि ।
सात्यकिर्व्याघ्रदत्तं च राजपुत्रमपातयत् ॥ ७.३६२ ॥

विध्यमानं बलं दृष्ट्वा भारद्वाजसुतः परैः ।
शिरःकूटावसेषाणि पाण्डुसैन्यान्यकल्पयत् ॥ ७.३६३ ॥

राक्षसोऽथ बकभ्राता भीमसेनमलम्बुसः ।
योधयित्वा शरशतैस्तत्सेनां माययावधीत् ॥ ७.३६४ ॥

प्रवर्तितां राक्षसेन भीमो दृष्ट्वासृगापगाम् ।
त्वाष्ट्रेणास्त्रेण तन्मायां छित्वारमजयत्कृती ॥ ७.३६५ ॥

वधाय भीमसेनस्य रक्षस्तत्पुनरागमत् ।
अवारयन्महाकायं महाकायो घटोत्कचः ॥ ७.३६६ ॥

स रथाद्रथमुत्सृज्य कालः काल इवोन्नदन् ।
आकृष्यालम्बुसं वेगान्निष्पिष्य विदधे व्यसुम् ॥ ७.३६७ ॥
***** अलम्बुसवधः ॥ १५ ॥ *****
घटोत्कचेन निहते राक्षसे जम्भविक्रमे ।
भयमाविरभूद्धोरं समरे सर्वभूभुजाम् ॥ ७.३६८ ॥

अत्रान्तरे धर्मसुतो दूरस्थस्य किरीटिनः ।
अशृण्वञ्शङ्खनिर्घोषं किमप्याशङ्कितोऽभवत् ॥ ७.३६९ ॥

भीतोऽभिमन्युवृक्तान्ताद्विषण्णो भ्रातृवत्सलः ।
उवाच सात्यकिं मत्वा स धुर्यं सर्वधन्विनाम् ॥ ७.३७० ॥

सात्यके पश्य बन्धूनां गुरूणां सुहृदां तथा ।
दोर्दर्पस्य च संप्राप्तः कालोऽयमुचितस्तव ॥ ७.३७१ ॥

स ते गुरुः सखा बन्धुः किरीटि शत्रुमध्यगः ।
न ज्ञायते प्रणष्टेऽत्र शङ्खशब्दे कथं स्थितः ॥ ७.३७२ ॥

ऋते त्वामुज्ज्वलाचारं प्रवरं शौर्यशालिनाम् ।
भारः कस्मिन्नसह्योऽयं धुरंधर निधीयताम् ॥ ७.३७३ ॥

पात्रे वितरतां पृथ्वीं रक्षतां शरणागतम् ।
मित्त्रार्थे त्यजतां प्राणान्समानं श्रूयते फलम् ॥ ७.३७४ ॥

धन्या भवद्विधा एव क्रियते यैः स्थिरं यशः ।
पवनाकम्पिकदलीदलालोलैर्निजासुभिः ॥ ७.३७५ ॥

त्वयि यातेर्ऽजुनं द्रष्टुं द्रोणग्रहणजं भयम् ।
भीमपार्षतगुप्तस्य सत्यं मे न भविष्यति ॥ ७.३७६ ॥

उक्त युधिष्ठिरेणेति सात्यकिः सत्वसागरः ।
सज्जोऽभवत्तथेत्युक्त्वा परानीकबिभित्सया ॥ ७.३७७ ॥

स हेमकवचः स्रग्वी शुभ्राश्वं रथमास्थितः ।
दीप्तसंहध्वजः श्रीमान्घननिर्घोषकार्मुकः ॥ ७.३७८ ॥

दाता हुतानलो हृष्टो नृपमान्त्र्य सानुजम् ।
भीमे रक्षां निधायास्य मङ्गलालंकृतो ययौ ॥ ७.३७९ ॥

स भारद्वाजमासाद्य वैनतेय इवाशुगः ।
चक्रे राजभुजङ्गानां क्षणमाकम्पविभ्रमम् ॥ ७.३८० ॥

ततो युद्धमभूद्धोरमाचार्ययुयुधानयोः ।
मोहनं सर्वलोकानां स्कन्दतारकयोरिव ॥ ७.३८१ ॥

द्रोणं स दुर्जयं मत्वा धीमान्सात्यकिरब्रवीत् ।
गुरो शिष्यं तवान्वेष्टुं फल्गुणं प्रस्थितस्य मे ।
अस्मिन्नल्पावशेषेऽह्नि न विघ्नं कर्तुमर्हसि ॥ ७.३८२ ॥

श्रुत्वैतच्चापमाकृष्य बभाषे कुम्भसंभवः ।
न प्रवेष्टुं त्वया शक्यं मयि जीवति सात्यके ॥ ७.३८३ ॥

इति ब्रुवाणं शैनेयो मनो मारुतरंहसा ।
रथेन वञ्चयित्वा तं पराहूतं समाविशत् ॥ ७.३८४ ॥

स व्रजन्दुर्जयाञ्जित्वा कृतवर्ममुखान्रणे ।
घोरान्म्लेच्छान्किरातांश्च काम्बोजांश्च न्यपातयत् ॥ ७.३८५ ॥

सानुगान्पाण्डुतनयान्भेत्तुं व्यूहाग्रमुद्यतान् ।
निर्गत्यावारयन्सर्वान्कृतवर्मा धनुर्धनः ॥ ७.३८६ ॥

जवेन प्रविशन्तं च सात्यकिं सुभटाशनिम् ।
भिन्दानं कुञ्जरघटा रुन्धानं सायकैर्दिशः ॥ ७.३८७ ॥

शस्त्रवृष्टिं तदुत्सृष्टां शरैर्विक्षिप्य सात्यकिः ।
चिच्छेद जलसंधस्य शक्रायुधनिभं धनुः ॥ ७.३८८ ॥

कुपितश्छिन्नचापास्त्रः कृत्वा सर्वायुधव्ययम् ।
सावेगं प्रेरितगजः सोऽथ सात्यकिमाद्रवत् ॥ ७.३८९ ॥

जवादापततस्तस्य शैनेयश्चन्दनोक्षितौ ।
छित्वा भुजौ जहाराशु सरत्नमुकुटं शिरः ॥ ७.३९० ॥

तस्मिन्हते स नागेन्द्रो युयुधानशरार्दितः ।
विद्रुतः कौरवचमूं पिपेषालम्बि कङ्कटः ॥ ७.३९१ ॥
***** जलसंधवधः ॥ १६ ॥ *****
विदार्य मागधानीकं प्रविशन्वृष्णिपुंगवः ।
दुर्योधनमुखान्वीरानयोधयदसंभ्रमः ॥ ७.३९२ ॥

पराङ्मुखीकृताशेषसुभटः सोऽथ मानिनः ।
सुदर्शनस्य नृपतेश्चकर्त रुचिरं शिरः ॥ ७.३९३ ॥

शबरान्यवनान्भोजान्बर्बरांस्ताम्रलिप्तिकान् ।
शकान्मुण्डान्कुविन्दांश्च हरन्दूरान्मतङ्गजान् ॥ ७.३९४ ॥

दस्युसंघांश्च विविधान्स हत्वा क्रूरविक्रमान् ।
चक्रे करभकुट्टाकः क्षितं मस्तिष्ककर्दमाम् ॥ ७.३९५ ॥

दुःशासनोऽथ निशितैर्विद्धः सात्यकिना शरैः ।
विहाय समरं तूर्णं भारद्वाजान्तिकं ययौ ॥ ७.३९६ ॥

तं दृष्ट्वा विह्वलं द्रोणो बभाषे पार्श्वर्तिनम् ।
कोऽयं ते संभ्रमो वीर गत्वा रक्ष यजद्रथम् ॥ ७.३९७ ॥

अहो न सात्यकिशरैर्भिन्नां दृष्ट्वा वरूथिनीम् ।
कृतवैरश्च मानी च योद्धव्ये विद्रुतोऽसि किम् ॥ ७.३९८ ॥

एतत्तावत्कृतं कर्म शैनेयेनातिमानुषम् ।
अतो बहुगुणं वीरौ भीमपार्थौ करिष्यतः ॥ ७.३९९ ॥

नैषा सभा सा पाञ्चाली यत्र त्वं कृष्टवानसि ।
इमाः प्राणपणप्राप्या यशोविक्रमभूमयः ॥ ७.४०० ॥

अद्यापि रोचतां संधिर्युष्माकं पाण्डुनन्दनैः ।
अन्तं न याता वीराणां संप्रत्यर्जुनसायकाः ॥ ७.४०१ ॥

युध्यस्व तूर्णमथवा शात्रवैरपराङ्मुखः ।
भग्नप्रधाना हि चमूर्वार्यमाणापि दीर्यते ॥ ७.४०२ ॥

इति रुक्मरथेनोक्तो वैलभ्यात्क्ष्मां विलोकयन् ।
निघ्नन्साहाय्यकं चक्रे मृत्योरिव जगत्क्षते ॥ ७.४०३ ॥

वीरकेतुं सुधन्वानं चित्रकेतुं च पार्थिवम् ।
तथा चित्रर्थं वीरं पाञ्चालानवधीद्युधि ॥ ७.४०४ ॥

धृष्टद्युम्नस्ततः क्रुद्धः सर्वाभरणभेदिभिः ।
विद्ध्वा द्रोणमसंभ्रान्तः शरैः सेनामदारयत् ॥ ७.४०५ ॥

आचार्यं भृशमाकीर्णं शरैर्मूर्छामुपागतम् ।
खड्गपाणिरभिद्राव्य पार्षतो हन्तुमुद्ययौ ॥ ७.४०६ ॥

लब्धसंज्ञस्ततो द्रोणः शरैरासन्नपातिभिः ।
किष्कुप्रमाणैर्वैतस्तैर्वंशोत्थैस्तमपूरयत् ॥ ७.४०७ ॥

वृश्चिकैरिव तैर्व्याप्तो धृष्टद्युम्नः पराङ्मुखः ।
प्रययौ गुरुणा पश्चाद्दारितः पृथुसायकैः ॥ ७.४०८ ॥

ततः शोणहयः क्रुद्धः पाण्डवानामनीकिनीम् ।
दारयन्भूमिपालानां शिरोभिः क्ष्मामपूरयत् ॥ ७.४०९ ॥

दुःशासनमथायान्तं सात्यकिः शरवर्षिणम् ।
चकार च्छिन्नवर्माणं विरथध्वजसायकम् ॥ ७.४१० ॥

संत्यक्तं विद्रुतैर्म्लेच्छैः प्रहारशकलीकृतैः ।
रक्षन्प्रतिज्ञां भीमस्य विमुखं नावधीद्गतम् ॥ ७.४११ ॥

अत्रान्तरे रुक्मरथो विशन्पाञ्चालवाहिनीम् ।
द्रोणाय प्राहिणोद्दीप्तां शिशुपालसुतो बली ॥ ७.४१२ ॥

तस्य तूर्णं शितैर्बाणैर्गुरुः कृत्वा युधि क्षयम् ।
चकार मौलिरत्नांशुच्छुरितोष्णीषमाननम् ॥ ७.४१३ ॥

धृष्टकेतौ विनिहते जलसंधसुतो बली ।
बाणवर्षी क्षणात्प्राप द्रोणानलपतङ्गताम् ॥ ७.४१४ ॥
***** केकयधृष्टकेतुवधः ॥ १७ ॥ *****

धृष्टद्युम्नसुतं हत्वा कृतवर्माणमाशुगैः ।
द्रोणो जघान पाञ्चालान्हेहयानिव भार्गवः ॥ ७.४१५ ॥

भग्नासु पाण्डुसेनासु घोरे तस्मिन्महाहवे ।
निनिन्द क्रूरवर्माणमाचार्यं व्यथितो जनः ॥ ७.४१६ ॥
***** सात्यकिप्रवेशः ॥ १८ ॥ *****
चिरप्रविष्टे शेनेये शङ्कितो धर्मजः पुनः ।
लम्बमाने रवौ भीमं समभ्येत्याभ्यभाषत ॥ ७.४१७ ॥

यथा न श्रूयते भीम शङ्खशब्दः किरीटिनः ।
तथा मन्ये किमप्यस्य कृतं सर्वैर्महारथैः ॥ ७.४१८ ॥

तं वीरममरारातितमोविध्वंसभास्करम् ।
विना तवानुजं भीम कथं जीवितुमुत्सहे ॥ ७.४१९ ॥

निर्घोषः श्रूयते घोरः पाञ्चजन्यस्य दुःसहः ।
जानेर्ऽजुनवधक्रोधान्माधवो योद्धुमुद्यतः ॥ ७.४२० ॥

तद्गत्वा वीर जानीहि वृत्तान्तं सव्यसाचिनः ।

पश्यामि तिमिराक्रान्ताः कश्मलाभिहतो दिशः ॥ ७.४२१ ॥

उक्ते युधिष्ठिरेणेति तं जगाद वृकोदरः ।
राजन्धनंजये शङ्कां न मिथ्या कर्तुमर्हसि ॥ ७.४२२ ॥

को नाम विबुधारातिवधूवैधव्यदायिनः ।
प्रगल्भते धुरं धत्ते युधि गाण्डीवधन्वनः ॥ ७.४२३ ॥

तथाप्यद्य गृहीत्वाहं शिरसा तव शासनम् ।
चरामि पदवीं जिष्णोर्दारयन्कुरुवाहिनीम् ॥ ७.४२४ ॥

इत्युक्त्वा मारुतसुतः स्यन्दनेनाभ्रनादिना ।
हेमचित्रतनुत्राणः पत्त्रिराज इवाद्रवत् ॥ ७.४२५ ॥

स रुक्मरथमारुह्य रुक्मपुङ्खैः शिलीमुखैः ।
अपूरयत्कुरुवनं रत्नदीप्तैरिवाहिभिः ॥ ७.४२६ ॥

प्रवेष्टुकाममाचार्यस्तमभ्येत्याब्रवीत्ततः ।
मामनिर्जित्य कौन्तेय भेत्तुं शक्या न वाहिनी ॥ ७.४२७ ॥

त्वद्विधैः कुरुराजस्य संरम्भं मा कृथा वृथा ।
इत्युक्त्वा पाण्डवं द्रोणः शरवर्षैरवाकिरत् ॥ ७.४२८ ॥

तद्बाणजालनिर्भिन्नो बभाषे च वृकोदरः ।
यथा त्वं मन्यसे द्रोण नेदानीं नो गुरुर्भवान् ॥ ७.४२९ ॥

पूजयत्यर्जुनो मान्यान्भीमोऽहं पश्य मामिति ।
इत्युक्त्वा प्राहिणोत्तस्मै गदामशनिगौरवाम् ॥ ७.४३० ॥

तया द्रोणपरित्यक्तो रथः शकलतां ययौ ।
अपक्रान्ते क्षणं द्रोणे सानुजं कौरवेश्वरम् ॥ ७.४३१ ॥

शरैरपूरयद्भीमो भीमसायकवर्षिणम् ।
क्षुरप्रोत्कृत्तवदनान्स जघानाथ कौरवान् ॥ ७.४३२ ॥

वृन्दारकं दीर्घनेत्रं सुषेणं दुर्विमोचनम् ।
रौद्रकर्माणमभयं चित्रकान्तिं सुदर्शनम् ॥ ७.४३३ ॥

निपात्यैतान्गदाभिन्नसैन्यश्चक्रे तलस्वनम् ।
विद्रुतं स्वबलं दृष्ट्वा तं द्रोमः पुनराद्रवत् ॥ ७.४३४ ॥

रथेनाकालजलदध्वनिगम्भीरनादिना ।
संप्रहारस्ततः क्षिप्रं दारुणो द्रोणभीमयोः ॥ ७.४३५ ॥

ययौ भार्गवकाकुत्स्थरणस्मरणहेतुताम् ।
स्यन्दनादवरुह्याथ क्रूरकर्मा वृकोदरः ॥ ७.४३६ ॥

चिक्षेप दोर्भ्यामुत्क्षिप्य दूरदूरे रथं गुरोः ।
भग्नचक्रध्वजहयाद्विकीर्णयुगकूबरात् ॥ ७.४३७ ॥

अवप्लुत्य ययौ तस्माद्द्रोणो गरुडविक्रमः ।
अथान्तरं समासाद्य दारयन्वरवारणान् ॥ ७.४३८ ॥

पोथयन्रणसंघातान्विवेश पवनात्मजः ।
पातयन्राजवक्त्राणि पुनः सस्मार मारुतिः ॥ ७.४३९ ॥

निर्लूननालनलिनां कुबेरनलिनीं मुहुः ।
स व्रजन्बोजकाम्बोजान्विजित्य विजयाग्रजः ॥ ७.४४० ॥

विवेशाकुलितं तूर्णं कर्णानीकमनाकुलः ।
तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ ॥ ७.४४१ ॥

आकर्ण्य कार्मुकरवं ननाद प्रमदाकुलः ।
तस्य नादं परिज्ञाय दूरात्कृष्णधनंजयौ ॥ ७.४४२ ॥

मन्दरोद्धूतदुग्धाब्धिघोषौ सङ्खौ प्रदध्मतुः ।
तेन दिक्तटसंघट्टपट्टटाङ्कारशालिना ॥ ७.४४३ ॥

शब्देन साध्वसकृता भुवनानि चकम्पिरे ।
आकर्ण्य कृष्णयोस्तुल्यं शङ्खनादं युधिष्ठिरः ॥ ७.४४४ ॥

हृष्टो मेने समुत्तीर्णमर्जुनं रिपुसागरात् ।
भज्यमानं बलं दृष्ट्वा भीमेन भुजशालिना ॥ ७.४४५ ॥

कोपादभ्याययौ कर्णः कुर्वन्बाणमयं जगत् ।
तमायान्तं शरैर्विद्ध्वा नदत्पवननन्दनः ॥ ७.४४६ ॥

चकार विमुखं कृत्तध्वजस्यन्दनकार्मुकम् ।
भग्ने समिति राधेये धौरेये धैर्यशालिनाम् ॥ ७.४४७ ॥

उवाच द्रोणमागत्य म्लानमानः सुयोधनः ।
अर्जुनस्ते प्रियः शिष्यस्त्वामुल्लङ्घ्य गतो यदि ॥ ७.४४८ ॥

तत्किं प्रविष्टौ प्रसभं युयुधानवृकोदरौ ।
किमन्यद्विधिवैमुख्यं सत्यमस्मासु जृम्भते ॥ ७.४४९ ॥

यत्र वेलामतिक्रान्तो भवान्वीर्यमहोदधिः ।
इत्युक्तः कुरुराजेन बभाषे कुम्भसंभवः ॥ ७.४५० ॥

सैन्यं पुरश्च पश्चाच्च गृहीतं धार्यते कथम् ।
रक्ष्यमाणमितो यत्नात्पुरतः प्रविदीर्यते ॥ ७.४५१ ॥

अवारिता विशन्त्येव सर्वे पाञ्चालसृञ्जयाः ।
सैन्यद्वारमितो यत्नाद्रक्ष्यं सर्वात्मना मया ॥ ७.४५२ ॥

भवान्कर्णमुखैः सार्धमेभिः सर्वैर्महारथैः ।
पार्थसात्यकिभीमानां पर्याप्तः किं न वारणे ॥ ७.४५३ ॥

अस्मिन्मुहूर्तशेषेऽह्नि गत्वा रक्ष जयद्रथम् ।
अधुना तत्पणावेव रणद्यूते जयाजयौ ॥ ७.४५४ ॥

इत्युक्तो गुरुणा राजा गत्वा पाञ्चालनन्दनौ ।
सर्वैश्चकार विरथौ चक्ररक्षौ किरीटिनः ॥ ७.४५५ ॥

अत्रान्तरे पुनः कर्णः समागत्य वृकोदरम् ।
हेमुपुङ्खैः शरैश्चक्रे ज्वलितानलसंनिभम् ॥ ७.४५६ ॥

ततो भीमभुजोत्सृष्टैः पत्त्रिभिर्गिरिभेदिभिः ।
विद्धश्छिन्नायुधरथो रणं तत्याज सूतजः ॥ ७.४५७ ॥

ततो भग्ने कुरुबले नदन्तं वायुनन्दनम् ।
कर्णो मानी समाश्वस्य रथेन पुनराद्रवत् ॥ ७.४५८ ॥

घोरे प्रवृत्ते समरे सुचिरं कर्णभीमयोः ।
बभूव विशिखव्रातैर्नरनागरथक्षयः ॥ ७.४५९ ॥

भीमोऽथ सूतपुत्रस्य च्छित्वा तालोपमं धनुः ।
जघान घननिर्घोषं रथं सह मनोरथैः ॥ ७.४६० ॥

विरथं कर्णमालोक्य युध्यमानं प्रयत्नतः ।
आदिष्टः कुरुराजेन दुर्जयस्तमुपाद्रवत् ॥ ७.४६१ ॥

दुर्योधनानुजं वीरमायान्तं शरवर्षिणम् ।
तं हत्वा विनदन्भीमः शरैः कर्णमपूरयत् ॥ ७.४६२ ॥

पुनः स्यन्दनमास्थाय सूतपूत्रो वृकोदरम् ।
अभ्यधावत्पृथुशरज्वालाजटिलकार्मुकम् ॥ ७.४६३ ॥

तद्बाणदारिततनुः पावनिः कोपकम्पितः ।
गुर्वी गदां विसृज्यास्य निष्पिपेष रथं जवात् ॥ ७.४६४ ॥

भुवि स्थितं शरैर्भिन्नं कर्णं दृष्ट्वा सुयोधनः ।
आदिदेशानुजं कोपाद्दुर्मुखं कर्णगुप्तये ॥ ७.४६५ ॥

वेगात्कौरवमायान्तं तं शस्त्राशनिदुःसहम् ।
रथादपातयद्भीमो निर्भिन्नहृदयं शरैः ॥ ७.४६६ ॥

आरुह्य दुर्मुखरथं कर्णो दुःखानलाकुलः ।
भीमाय प्राहिणोद्बाणाञ्ज्वलितानिव दुःसहान् ॥ ७.४६७ ॥

ततो भीमभुजोत्सृष्टाः सनिःश्वासा इवोरगाः ।
अङ्गराजं विनिर्भिद्य शराः पातालमाविशन् ॥ ७.४६८ ॥

स गाढविद्धो दुद्राव जवव्यालोलकेतुना ।
रथेन कुरुसेनानां धृतिमुन्मूलयन्निव ॥ ७.४६९ ॥

अभ्यधावंस्ततो भीमं पञ्च दुर्योधनानुजाः ।
जगदुः शल्यदुर्ग्राह्याः सदुर्दर्शनदुष्प्रभाः ॥ ७.४७० ॥

युध्यमानान्स तान्बाणैर्महार्हाभरणोज्ज्वलान् ।
अपातयन्महावात इव सेन्द्रायुधान्घनान् ॥ ७.४७१ ॥

हतेषु तेषु राधेयो धुनानो विपुलं धनुः ।

अयोधयत्पुनर्भीमं महाकालेऽप्यसंभ्रमः ॥ ७.४७२ ॥

तस्य भीमो धनुश्छित्वा रथं च गुरुविक्रमः ।
नर्दन्करेऽभ्यो वीराणामायुधानि न्यपातयत् ॥ ७.४७३ ॥

विषमे वर्तमानस्य राधेयस्य सुयोधनः ।
सप्तानुजान्सहायार्थं प्रेषयामास सत्वरम् ॥ ७.४७४ ॥

चित्राक्षश्चित्रवर्मा च चित्रबाणः शरासनः ।
उपचित्रः सचित्रश्च चारुचित्रश्च ते समम् ॥ ७.४७५ ॥

आयान्त एव विमुखास्तुल्याभरणवाससः ।
शरैभर्मिभुजोत्सृष्टैः प्रेताः पेतुर्महीतले ॥ ७.४७६ ॥

तान्वीक्ष्य पतितान्वीरान्क्षीणपुण्यानिव ग्रहान् ।
कर्णोऽस्रुपूर्णनयनो रथमन्यं समाददे ॥ ७.४७७ ॥

क्रोधादधिकसंरम्बो युध्यमानो वृकोदरः ।
तं निर्विकारो विशिखैर्वज्रवेगैरपूरयत् ॥ ७.४७८ ॥

कर्णमाच्छादितं दृष्ट्वा भीमचापच्युतैः शरैः ।
व्यादिदेशानुजान्सप्त तद्गुप्त्यै कौरवेश्वरः ॥ ७.४७९ ॥

चित्रायुधः शत्रुसहः शत्रुः शत्रुंजयस्तथा ।
चित्रासुश्चित्रसेनश्च विकेशश्चेति तान्द्रुतम् ॥ ७.४८० ॥

वीरानभिमुखान्बाणविद्धान्पवननन्दनः ।
उन्ममाथ रताग्रेभ्यः शैलेभ्यः पादपानिव ॥ ७.४८१ ॥

हतेषु राजपुत्रेषु तेषु विक्रमशालिषु ।
भीमकर्णशरैः क्षिप्रं बभूव जनसंक्षयः ॥ ७.४८२ ॥

भीमबाणविनिर्भिन्नः संस्तम्भ्याधिरथिर्व्यथाम् ।
मण्डलीकृतकोदण्डश्चक्रे बाणमयं नभः ॥ ७.४८३ ॥

ततः कर्णशराश्चक्रुर्व्यश्वसूतधनुर्ध्वजम् ।
एकीभूता इव जवाद्भीमं विस्मयकारिणः ॥ ७.४८४ ॥

सर्वायुधानि संरब्धो विरथस्योपसर्पतः ।
वैकर्तनश्चकर्तास्य संवर्तक इवोन्नदन् ॥ ७.४८५ ॥

क्षीणायुधोऽथ द्विरदान्हयांश्च पवनात्मजः ।
प्राहिणोत्सूतपुत्राय शरैश्चिच्छेद तांश्च सः ॥ ७.४८६ ॥

विषमस्थं रणे कर्णो न जघान वृकोदरम् ।
वीरः कुन्तीवचः स्मृत्वा सत्यशीला हि साधवः ॥ ७.४८७ ॥

तं स्पृशन्निव चापेन प्रोवाच विनदन्नृपः ।
महद्भिर्मूढमा युद्धमकृतास्त्रः पुनः कृथाः ॥ ७.४८८ ॥

हंहो बहुभुजो नेयमुचिता तव युद्धभूः ।
मांसास्तिकूटकुट्टाक सूदशालासु शोभसे ॥ ७.४८९ ॥

अथवा भारयोग्यस्य शरीरस्यास्य ते पशोः ।
युक्तास्तूवरकाः स्फीताः कानने लब्धवृत्तयः ॥ ७.४९० ॥

इति ब्रुवाणे राधेये भीमं कृच्छ्रदशाश्रितम् ।
विलोक्य दूरात्कंसारिः फ्लगुणाय न्यवेदयत् ॥ ७.४९१ ॥

ततो मुहूर्तगणने हेमरेखानुकारिणी ।
तूर्णं बाणावली कर्णं गाण्डीवपतिताविशत् ॥ ७.४९२ ॥

खाण्डवानलसंक्रान्तशिखयेव भृतो भृशम् ।
व्याप्तो दुद्राव राधेयो जयोद्धूतध्वजांशुकः ॥ ७.४९३ ॥

***** भीमसेनप्रवेशः ॥ १९ ॥*****
आरूढे सात्यकिरथं कोपतप्ते वृकोदरे ।
कर्णाय प्राहिणोत्पार्थो नाराचं व्योमवर्त्मना ॥ ७.४९४ ॥

वज्रतुल्यं तमायान्तं दारुणं सर्वभूभुजाम् ।
दूरादलक्षितो द्रौणिश्चिच्छेदाशु पतत्रिभिः ॥ ७.४९५ ॥

अथार्जुनो बाणशतैर्द्रेणात्मजमपूरयत् ।
सोऽपि तत्सायकैर्भिन्नः सेनासंगरमाविशत् ॥ ७.४९६ ॥

ततः कनकपृष्ठानां शराणां धनुषां तथा ।
रश्मिभिः कोपरचना रटन्तमिव राजकम् ॥ ७.४९७ ॥

विदारयन्नाससाद सूचिव्यूहं धनंजयः ।
आस्ते महारथैर्गुप्तो यत्र पापो जयद्रथः ॥ ७.४९८ ॥

अत्रान्तरे शरज्वालीञक्षितिपकाननम् ।
अलम्बिषो घनध्वानो गर्जन्सात्यकिमाद्रवत् ॥ ७.४९९ ॥

तं राजवरमायान्तं पूरयन्तं शरैर्दिशः ।
अवारयन्महानीकं सात्यकिः सत्यपौरुषः ॥ ७.५०० ॥
तयोः काञ्चनपुङ्खाभिः शरमालाभिरावृताः ।
सिक्ता वीररसेनेव दिशः पल्लविता बभुः ॥ ७.५०१ ॥

ततश्चकर्त भल्लेन शिरस्तस्याशु सात्यकिः ।
मौलिशोणमणिच्छायाच्छुरितेन समाहरन् ॥ ७.५०२ ॥

निहत्यालम्बिपं वीरं प्रवराणां प्रहारिणाम् ।
शतानि राजपुत्राणां न्यवधीत्पञ्च सात्यकिः ॥ ७.५०३ ॥

क्षपयन्तं कुरुचमूं तं रणे दीप्तविक्रमम् ।
अभ्यधावद्वीरकेतुर्वीरो भूरिश्रवाः स्वयम् ॥ ७.५०४ ॥

तयोर्विचित्रधनुषोः शरदुर्दिनमेघयोः ।
गर्जितं चकिताः सर्वे राजहंसा न सेहिरे ॥ ७.५०५ ॥

तौ मिथः शरसंपातनिर्घर्षणसमुत्थितैः ।
विरेजतुः स्फुलिङ्गौघैः कीटरत्नौरिवाचलौ ॥ ७.५०६ ॥

छित्वा परस्परं चापं स्यन्दनं संप्रमथ्य च ।
खङ्गचर्मधरौ वीरौ युयुधाते चिराय तौ ॥ ७.५०७ ॥

जवादलक्ष्यवपुषोश्चित्रमण्डलचारिणोः ।
तयोः स्थगितसंग्रामा वीराः प्रेक्षकतां ययुः ॥ ७.५०८ ॥

ततः सात्यकिमाकृष्य माल्यवद्भिः शिरोरुहैः ।
हत्वा वक्षसि पादेन सौमदत्तिरपातयत् ॥ ७.५०९ ॥

खड्गेन सात्यकिशिरश्छेत्तुं दृष्ट्वा तमुद्यतम् ।
उवाच सहसा पार्थं संभ्रान्तः कैटभान्तकः ॥ ७.५१० ॥

प्रेषितं धर्मराजेन त्वदर्थं वृष्णिपुंगवम् ।
पश्य शत्रुवशं यातं श्रान्तं सात्यकिमाहवे ॥ ७.५११ ॥

अनित्यौ सर्वथा नूनं सुभटानां जयाजयौ ।
यदिमां सात्यकिरपि प्राप्तः क्लीबोचितां दशाम् ॥ ७.५१२ ॥

एष भूरिश्रवास्तूर्णं खड्गेनाखण्डविक्रमः ।
समुद्यतः शिरो हर्तुं शिष्यस्य तव सात्यकेः ॥ ७.५१३ ॥

उक्ते जनार्दनेनेति प्रहाराभिमुखं भुजम् ।
भल्लेन भूरिश्रवसो जहार कपिकेतनः ॥ ७.५१४ ॥

कृत्ते दूराददृश्येन भुजस्तम्भे किरीटिना ।
कालवक्त्रान्निपतितं सात्यकिं मेनिरे जनाः ॥ ७.५१५ ॥

पतन्स भुवि दोर्दण्डः कङ्कणावलिनिःस्वनः ।
निनादैरिव कौन्तेयं तारतारैरतर्जयत् ॥ ७.५१६ ॥

तस्मिञ्जयद्विपालाने विश्रान्तिसदने क्षितेः ।
प्रतापमन्दिरस्तम्भे भुजे भुवि निपातिते ॥ ७.५१७ ॥

त्यक्त्वा वामकराकृष्टां सात्यकेर्मूर्धजावलीम् ।
उवाचानल्पस
ंकल्पो यूपकेतुर्धनंजयम् ॥ ७.५१८ ॥

अहो वीरव्रतं पार्थ कीदृशं दर्शिनं त्वया ।
येनान्यरणसक्तस्य च्छद्मना मे हतो भुजः ॥ ७.५१९ ॥

उचितं वा तवैवैतन्मन्त्री यस्य जनार्दनः ।
जाता हृद्यार्थलोभेन कूटयुद्धविग्धता ॥ ७.५२० ॥

इत्युक्त्वा वामहस्तेन शरशय्यां विधाय सः ।
उपविश्य विशन्नन्तः सहितः स्वर्शवृत्तिभिः ॥ ७.५२१ ॥

हुत्वा प्राणानलं बाणैर्भ्रुमध्ये निहितेक्षणः ।
तेजः प्रविदधे मूर्ध्नि शशिसूर्यानलोत्तरम् ॥ ७.५२२ ॥

ततो बीभत्सुरवदन्निन्दामुखरितान्नृपान् ।
विह्वलो विषमात्मा च रक्षितः सात्यकिर्मया ॥ ७.५२३ ॥

हन्ता शिष्यस्य सख्युश्च कृत्तहस्तः कृतो यदि ।
तत्र किं नाम मन्यध्वं निर्देषा यूयमाहवे ॥ ७.५२४ ॥

एकोऽभिमन्युर्निहतः समायैः सर्वपार्थिवैः ।
श्रान्तश्छिन्नधनुःखड्गस्तत्किं नाम वदन्ति नः ॥ ७.५२५ ॥

इत्युक्तवति कौन्तेये लब्धसंज्ञोऽथ सात्यकिः ।
ययाचे प्रणतः पूर्वं रणं प्रायजुषो रिपोः ॥ ७.५२६ ॥

खड्गेन यज्ञशीलस्य वीरस्य यशसां निधेः ।
वक्त्रं मुक्तावलीभाभिर्जातहासमिवाहरत् ॥ ७.५२७ ॥

स कृष्णेन च भूपालैर्वार्यमाणेन संभ्रमात् ।
क्रोधादज्ञातवृत्तेन तस्मिन्सात्यकिना हते ॥ ७.५२८ ॥

धिक्शब्दः सर्ववीराणामुत्तस्थौ स्थगिताम्बरः ।
सौमदत्तेश्च चरितं प्रशशंसुः सुरा दिवि ॥ ७.५२९ ॥
***** भूरिश्रवसो वधः ॥ २० ॥ *****
स तेन निर्जितः पूर्वं सोमदत्तोऽतिमन्युना ।
आराध्य तपसा देवं रूद्रं त्रिपुरदारणम् ॥ ७.५३० ॥

लेभे सात्यकिजेतारं भूरिश्रवसमात्मजम् ।
शेखरं सर्ववीराणां वदान्यं बहुयाजिनम् ॥ ७.५३१ ॥

तस्मिन्निपतिते वीरे जयद्रथवधोत्सुकः ।
तूर्णं विवेश श्वेताश्वो निबिडं राजमण्डलम् ॥ ७.५३२ ॥

अस्ताद्रिचूडामणितां गन्तुमिच्छति भास्करे ।
ददर्श सैन्धवं पार्थो गुप्तं सर्वैर्महारथैः ॥ ७.५३३ ॥

आकर्णाञ्चितगाण्डीवस्तं दूराद्दुःसहागमम् ।
दृशैव कोपारुणया तस्य दाहमिवाकरोत् ॥ ७.५३४ ॥

ततो विलुलिते सैन्ये परावृत्त इवाम्बुधौ ।
हतो हतः सिन्धुराजो बभूवेति महास्वनः ॥ ७.५३५ ॥

अथ कर्णकृपद्रौणिदुःशासनसुयोधनाः ।
सह सर्वैर्महीपालैर्धनंजयमयोधयत् ॥ ७.५३६ ॥

तान्विधाय शरैस्तूर्णं द्वस्तवर्मरथध्वजान् ।
पातयन्राजवक्त्राणि जिष्णुः सैन्धवमाद्रवत् ॥ ७.५३७ ॥

जयद्रथोऽपि विजयं विलोक्याच्युतसारथिम् ।
स निष्कृष्यासकृत्तैस्तैः सायकैस्तमपूरयत् ॥ ७.५३८ ॥

ततोऽब्रवीन्मधुरिपुर्दिनान्ते सव्यसाचिनम् ।
छिन्धि सिन्धुपतेः क्षिप्रं शिरो दिव्येन पत्रिणा ॥ ७.५३९ ॥

वृद्धक्षत्त्रः पिता प्रादाद्वरमस्य क्षितौ शिरः ।
पातयिष्यति यस्तुल्यं तस्यापि निपतिष्यति ॥ ७.५४० ॥

समन्तपञ्चकाभ्यर्णे पितास्य तपसि स्थितः ।
तदङ्के पातय रिपोः सिरस्तस्मात्प्रयातु गाम् ॥ ७.५४१ ॥

इत्युक्ते शौरिणा जिष्णुश्छित्त्वा सिन्धुशिरो जवात् ।
शरेण संध्याध्यानस्थजनकाङ्के न्यपातयत् ॥ ७.५४२ ॥

अङ्कादज्ञासवृत्तस्य क्षिपतस्तच्छिरः क्षितौ ।
वृद्धक्षत्त्रस्य सहसा पपाताग्रे निजं शिरः ॥ ७.५४३ ॥

***** जयद्रथवधः ॥ २१ ॥*****
तस्मिन्निपतिते वीरे त्रैलोक्याश्चर्यकारिणा ।
गाण्डीवधन्वना कृष्णो ननादास्फोटयन्दिशः ॥ ७.५४४ ॥

ततो विघटिते व्यूहे कुरुराजवरूथिनी ।
नौरिवाब्धेर्महावातैर्बभ्रामावर्तनर्तिता ॥ ७.५४५ ॥

भीमो ननर्द तं नादं हतं मत्वा जयद्रथम् ।
प्रहृष्टः प्रतिजग्राह नानावाद्यं युधिष्ठिरः ॥ ७.५४६ ॥

अक्षौहिणीः सप्त हत्वा हतः पार्थेन सैन्धवः ।
नूनं न दुर्गं दैवस्य किंचिदित्यूचिरे जनाः ॥ ७.५४७ ॥

निर्विभागे ततो युद्धे प्रवृत्ते नृपतिक्षये ।
द्रोणं कृपं च विदधे शरैर्जिष्णुः पराङ्मुखम् ॥ ७.५४८ ॥

भीमसायकनिर्भिन्नजिह्वाकर्णं(?) च सात्यकिः ।
आरुरोह रथं वीरो वितीर्ण हरिणा निजम् ॥ ७.५४९ ॥

मारुतेरवमानं च कलयञ्शतमन्युजः ।
पुनः प्रतिज्ञां कर्णस्य वृषसेनवधे व्यधात् ॥ ७.५५० ॥

ततो युधिष्ठिरं प्राप्य तौ च सात्यकिफल्गुणौ ।
मिथः शशंसुः प्रमदादभिनन्द्य पराक्रमम् ॥ ७.५५१ ॥

कृष्णावथ परिष्वज्य मानन्दं धर्मनन्दनः ।
तुष्टाव जगतां नाथं विष्णुं विजयकारणम् ॥ ७.५५२ ॥

बाष्पाकुलस्ततो राजा द्रोणमेत्य सुयोधनः ।
ऊचे त्वया कृताश्वासो निहतः स जयद्रथः ॥ ७.५५३ ॥

श्रुत्वैतदवदद्द्रोणो निधनायैव दीक्षितः ।
त्यक्ष्यामि कवचं राजन्नाहत्वा तव वैरिणः ॥ ७.५५४ ॥

आचार्येणेत्यभिहिते सर्वे दुर्योधनानुगाः ।
प्राणहव्ये रणमखे तस्थुराबद्धनिश्चयाः ॥ ७.५५५ ॥

अथांशुमति यातेऽस्तं दिनकृत्कमलत्विषि ।
शोणच्छत्र इवाकृष्टे संध्यारक्तसरित्प्लवैः ॥ ७.५५६ ॥

नक्षत्रैस्तारतरलैः कोपकम्पजुषां रणे ।
हतानां भूभुनां जीवैरिव व्याप्ते नभस्तले ॥ ७.५५७ ॥

तमोभिरावृते व्योम्नि कृपाणवनमेच्कैः ।
दिव्यास्त्रदग्धैर्मातङ्गैरिव त्रिदिवगामिभिः ॥ ७.५५८ ॥

विस्फुरन्मौलिकेयूरहेमसायककार्मुकाः ।
चक्रिरे समरं घोरं दुर्योधनमुखाः परैः ॥ ७.५५९ ॥

अर्जुनध्वानगर्जाभिः सिंहनादैश्च मारुतेः ।
द्रोणकार्मुकनिर्घोषैः पृथिवी समकम्पत ॥ ७.५६० ॥

अश्रान्तं युध्यमानानां कुरुपाण्डवभूभुजाम् ।
बभौ साक्षादिवायाता कालरात्रिर्विभावरी ॥ ७.५६१ ॥

प्रापुस्तमांसि वैपुल्यं खड्गेषु द्विरदेषु च ।
प्रापुस्तमांसि दारिद्र्यं छत्त्रेषु व्यजनेषु च ॥ ७.५६२ ॥

गृध्रभूतोत्सवे तस्मिन्विकराला वसुंधरा ।
अवर्तमानमानेन तमसेव विदारिता ॥ ७.५६३ ॥

दत्तवेतालतालोऽभूदकाण्डधृतिखण्डनः ।
कबन्धोद्दण्डदोर्दण्डताण्डवाडम्बरोत्सवः ॥ ७.५६४ ॥

शिरस्त्रकङ्कटापातिशस्त्रज्वालाजटा बभुः ।
तमःपिशाचसंघानां पिङ्गाः श्मश्रुसटा इव ॥ ७.५६५ ॥

तत्र द्रोणो महास्त्रौघैः क्षपयन्राजमण्डलम् ।
आदीप्तरत्नमुकुटं प्रोच्चकर्त शिनेः शिरः ॥ ७.५६६ ॥

भीमसेनोऽपि कालिङ्गं राजपुत्रं तरस्विनम् ।
रथाद्रथमभिप्लुत्य निजघानाशु मुष्टिना ॥ ७.५६७ ॥

तस्य मुष्टिहतस्याजौ पेतुरस्थीनि भूतले ।
फल्गुन्यश्महतस्येव चिरपक्वस्य शाखिनः ॥ ७.५६८ ॥

कलिङ्गकुलसंहारं कृत्वा तूर्णं वृकोदरः ।
ध्रुवं च जलधारं च राजपुत्रावदारयत् ॥ ७.५६९ ॥

विधाय विमुखं कर्णं भीमो दुर्योधनानुजम् ।
निष्पिपेष पदा हत्वा वीरो दुष्करदुर्मदः ॥ ७.५७० ॥

सोमदत्तस्य तनयं शलं हत्वाथ सात्यकिः ।
तं पुत्रशोकविधुरं चकार विमुखं शरैः ॥ ७.५७१ ॥

दारयन्तं कुरुचमूं सात्यकिं शरवर्षिणम् ।
दिशः संपूरयन्बाणैरश्वत्थामा समाद्रवत् ॥ ७.५७२ ॥

क्षपयन्तमनीकानि दृष्ट्वा रुद्रमिवापरम् ।
निशीथे द्विगुणोत्साहस्तमधावद्धटोत्कचः ॥ ७.५७३ ॥

तस्य नादेन महता दिशः समभिपूरिताः ।
स्फुटिता यत्र दलशस्तदाश्चर्यमिवाभवत् ॥ ७.५७४ ॥

अश्वत्थाम्नि प्रभाधाम्नि बाणोग्रकिरणे रणे ।
कुर्वन्घटोत्कचो रेजे राहुजृम्भाविजृम्भितम् ॥ ७.५७५ ॥

शराणां द्रौणिमुक्तानां दिव्यानां समरे रुचः ।
न कूणितानि नेत्राणि रात्रौ भूतानि सेहिरे ॥ ७.५७६ ॥

अक्षौहिणीं राक्षसानां हैडम्बवशवर्तिनाम् ।
तटायुधानि दलयन्नेको द्रौणिरयोधयत् ॥ ७.५७७ ॥

छित्त्वा घटोत्कटो हृष्टं चक्रं कालानलप्रभम् ।
जघानाञ्जनपर्वाणं तत्पुत्रं घोरविक्रमम् ॥ ७.५७८ ॥

ततो विमोहनीं मायां द्रौणिः क्रुद्धस्य रक्षसः ।
छित्त्वा जघान विसिखैर्धृम्नानुजान्रणे ॥ ७.५७९ ॥

कुन्तिभोजसुतान्हत्वा सहस्राणि प्रहारिणाम् ।
जघान राजपुत्राणां द्रौणिः काल इवाकुलः ॥ ७.५८० ॥

अत्रान्तरे भीमसेनो बाह्लिकाधिपतेः शिरः ।
गदया वीरघातिन्या निष्पिपेषाशु मौलिनः ॥ ७.५८१ ॥

ततो जघान संरब्धान्दश दुर्योधनानुजान् ।
वीरबाहुं दृढरथं नागदन्तमयोभुजम् ॥ ७.५८२ ॥

प्रमाथिनं विरजसं सुहस्तं सुदृढं तथा ।
हत्वैतान्सप्त गान्धारानवधीत्सुबलात्मजान् ॥ ७.५८३ ॥

निघ्नन्तं कौरवचमूं स्वयं युधि युधिष्ठिरम् ।
ऐन्द्रवारुणवायव्यैरस्त्रैर्द्रेणोऽप्ययोधयत् ॥ ७.५८४ ॥

ततः प्रयुक्तं ब्रह्मास्त्रं गुरुणा तज्जिहीर्षया ।
अवारयदसंरम्भो ब्रह्मास्त्रेणैव धर्मजः ॥ ७.५८५ ॥

सानुगैः पाण्डुतनयैर्गजैरिव सरोजिनीम् ।
मृद्यमानां चमूं दृष्ट्वा कर्णमूचे सुयोधनः ॥ ७.५८६ ॥

कर्णाकर्णय संग्रामे जयिभिः पाण्डुसूनुभिः ।
विरावं वध्यमानानां सैन्यानां च तरस्विनाम् ॥ ७.५८७ ॥

तुमुलेऽस्मिन्निरालोके विषमे समुपस्थिते ।
तेजसामाश्रयः शूर त्वमेवैकः परायणम् ॥ ७.५८८ ॥

प्रणयादिति राधेयो भूभुजा स्वयमर्थितः ।
उवाच पाण्डुसेनासु क्षिपन्निव शरवलीः ॥ ७.५८९ ॥

वीरशय्यास्थिते भीष्मे शेखरे सर्वधन्विनाम् ।
राजन्भारः क्रमायातो ममैवायं किमुच्यते ॥ ७.५९० ॥

अद्य वीरव्रतहरं हरस्यापि किरीटिनम् ।
पातयाम्येष समरे शक्त्या वासवदत्तया ॥ ७.५९१ ॥

इत्युक्ते सूतपुत्रेण प्रोवाच प्रहसन्कृपः ।
लोके सूत्यमवीरेऽस्मिन्नेकस्त्वं वीरतां गतः ॥ ७.५९२ ॥

अहो नु मिथ्या राधेय कथितेन तावमुना ।
सततं सर्ववीराणां श्रवणौ बधिरीकृतौ ॥ ७.५९३ ॥

कुतस्त्वमश्रुतोदन्त इवायातः पराक्रमी ।
यदा हतः सिन्धुपतिः कृतवान्न भवांस्तदा ॥ ७.५९४ ॥

दृष्टसारा वयं सर्वे तव पाण्डुसुतस्य च ।
बलानुसारं युध्यस्व वृथा श्लाघां तु मा कृताः ॥ ७.५९५ ॥

इति शारद्वतेनोक्ते कोपाद्वैकर्तनोऽब्रवीत् ।
गर्जन्ति सफलं वीराः प्रावृषेण्या इवाम्बुदाः ॥ ७.५९६ ॥

त्वं तु वृद्ध निराचारो मोहादेवं प्रभाषसे ।
अन्यपक्षाश्रयः को हि बन्दीवान्यान्प्रशंसति ॥ ७.५९७ ॥

ब्रह्मबन्धो पुनर्द्वेषाद्यद्येवमभिधास्यति ।
छेतस्यामि जिह्वां कटुकां तदनेनासिना तव ॥ ७.५९८ ॥

इति कर्णेन संरम्भात्कोपितं वीक्ष्य मातुलम् ।
करवालमथाकृष्य क्रुध्यंस्तं द्रौणिराद्रवत् ॥ ७.५९९ ॥

रुद्रतुल्यं तमायान्तं त्रिजगत्प्रलयक्षमम् ।
न्यवारयत्स्वयं राजा नयवाग्भिः सगौतमम् ॥ ७.६०० ॥

द्रोणिकर्णौ प्रसाद्याथ कुरुराजे रणोन्मुखः ।
विवेश पाण्डवचमूं सह सर्वैर्महारथैः ॥ ७.६०१ ॥

आकर्णाञ्चितकोदण्डमुक्तैः कर्णशरैस्तथा ।
अभूद्यौधिष्ठिरं सैन्यं विप्रकीर्णं समन्ततः ॥ ७.६०२ ॥

शरत्वालाकरालं तं कर्णपावकमुत्कटम् ।
अभ्येत्य पार्थजलदो बाणधाराभिरावृणोत् ॥ ७.६०३ ॥

क्षणादथार्जुनशरच्छिन्नचापरथध्वजः ।
कर्णः कृपस्यारुहोह रथं भग्नमनोरथः ॥ ७.६०४ ॥

दृष्ट्वा दुर्योधनं वीरं युध्यमानमरातिभिः ।
जघान पाञ्चालचमूं द्रौणिराहवदुर्मदः ॥ ७.६०५ ॥

सहस्रशो वध्यमानाः क्षत्रकाननवह्निना ।
पाञ्चाला द्रोणपुत्रेण हतशेषा दिशो ययुः ॥ ७.६०६ ॥

धृष्टद्युम्नं ततो जित्वा वीरं हत्वास्य चानुगान् ।
द्रौणिरायोधनं चक्रे कृतान्तोद्यानविभ्रमम् ॥ ७.६०७ ॥

भीमार्जुनाभ्यां सहितः स्वयं राजा युधिष्ठिरः ।
विद्राव्य कौरवीं सेनां द्रोणशेषामिवाकरोत् ॥ ७.६०८ ॥

सोमदत्तमथायान्तं सात्यकिः पृथुविक्रमम् ।
अयोधवदसंभ्रान्तः कुमार इव तारकम् ॥ ७.६०९ ॥

तद्बाणशतनिर्भिन्नो व्यथां संस्तम्ब्य सात्यकिः ।
शरेणाशनितुल्येन विदार्य तमपातयत् ॥ ७.६१० ॥

ततो द्रोणार्जुनरणे दिव्यास्त्रग्रामदुःसहे ।
बभौ रक्ताम्बरवती कालरात्रीव शर्वरी ॥ ७.६११ ॥

ततः किरीटिप्रमुखैर्द्रैणिकृपेरितैः ।
सैन्यानां भज्यमानानां बभूव भयदो रवः ॥ ७.६१२ ॥

ततो दुर्योधनादेशाद्गाढे तमसि संततैः ।
दीपैर्युयुधिरे वीरा गजाश्वेत्सङ्गसङ्गिभिः ॥ ७.६१३ ॥

ते सेने दीपनिकरैरभितो बभतुः क्षणात् ।
हतानां कणशो यातैस्तेजोभिरिव भूभुजाम् ॥ ७.६१४ ॥

विरेजुस्तान्यनीकानि दीपैः खड्गेषु बिम्बितैः ।
ज्वलितानि वनानीव नक्तमोषधिमण्डलैः ॥ ७.६१५ ॥

दीपदीप्ता नरेन्द्राणां रत्नाभरणरोचिषः ।
तमःकषणपाषाणे हेमलेखा इवाबभुः ॥ ७.६१६ ॥

ततो विमर्दनष्टेषु तेषु दीपेषु संगरे ।
निशीथो यौवनं प्राप वैराण्यपनयैरिव ॥ ७.६१७ ॥

निर्विभागे ततो युद्धे प्रवृत्ते शौर्यशालिनि ।
स्वयं जिते धर्मजेन सानुगे कौरवेश्वरे ॥ ७.६१८ ॥

मृत्युवीथीमपि प्राप्तं सहदेवमवारयत् ।
न जघान रणे कर्णः स्मरन्कुन्तीवचो मुहुः ॥ ७.६१९ ॥

ततः कर्णसुतो वीरो वृषसेनोऽरिवाहिनीम् ।
विवेशास्त्रावलीज्वालालीढक्षत्त्रियकाननः ॥ ७.६२० ॥

विद्रावितेषु वीरेषु वृषसेनेन सायकैः ।
कुपितो द्रौपदो रोषात्कुरुसैन्यं व्यदारयत् ॥ ७.६२१ ॥

वर्तमाने रणे घोरे भारद्वाजस्य पश्यतः ।
धृष्टद्युम्नोऽवधीद्वीरं द्रुमसेनं नराधिपम् ॥ ७.६२२ ॥

ततो दुर्योधनगिरा द्रोणकर्णौ महीभुजाम् ।
कृत्तैः शिरोभिश्चक्राते भुवि पद्माकरानिव ॥ ७.६२३ ॥

धृष्टद्युम्नमुखाञ्जित्वा क्षपितानीकनायकः ।
विद्राव्य पाण्डवचमूं कर्णश्चक्रे नृपक्षयम् ॥ ७.६२४ ॥

तं कर्णं सायकानेन किरन्तं तेजसां निधिम् ।
न सेहिरे परे द्रष्टुं रणे तपनसंभवम् ॥ ७.६२५ ॥

भज्यमानेष्वनीकेषु कर्णेन रणशालिना ।
जयाशा पाण्डुपुत्राणां सकला तनुतां ययौ ॥ ७.६२६ ॥

अथ कृष्णस्य वचनात्कृष्णरात्रौ घटोत्कचः ।
अवधीत्त्वरितं कर्णं कृष्णाकोप इवापतन् ॥ ७.६२७ ॥

तस्मिन्नभ्युद्गते दीप्तश्मश्रुजिह्वाविलोचने ।
वाहिन्यः शतधा जग्मुः प्रतापपतिता इव ॥ ७.६२८ ॥

स तदा जलदच्छायो भ्रुकुटी विद्युदुत्कटः ।
स्फाराभिः शतधाराभिः पार्थः कर्णमपूरयत् ॥ ७.६२९ ॥

आस्थितस्तप्तहेमाङ्गं चतुर्हस्तशतं रथम् ।
सर्वाकारस्य लग्नाग्नेर्नीलाद्रेरुपमाक्षमम् ॥ ७.६३० ॥

दशहस्तपरीणाहं दधानो भासुरं धनुः ।
दावानलप्रज्वलितं महासालमिवानलः ॥ ७.६३१ ॥

विस्फुरत्स्फारमुकुटो दीप्तजाम्बूनदाङ्गदः ।
तमःशैलशिखासज्जो बभौ विघटयन्निव ॥ ७.६३२ ॥

अट्टहासपटुर्नादस्तस्याभूत्तमसामिव ।
तं दृष्ट्वा विकटाज्वालं पाटितानां व्यथारवः ॥ ७.६३३ ॥

विद्रुतेष्वरिसैन्येषु संभोगार्हेषु राजसु ।
राधेयगिरिरेवास्य जग्राह शरदुर्दिनम् ॥ ७.६३४ ॥

अथाङ्गराजरक्षायै जटासुरसुतो बली ।
कौरवेश्वरमामन्त्र्य समभ्यायादलम्बुसः ॥ ७.६३५ ॥

ततस्तस्याभवद्धोरः संप्रहारः प्रहारिणा ।
घटोत्कचेन सश्त्रास्त्रशिलापावकवर्षिणः ॥ ७.६३६ ॥

तयोर्मायामयाश्चर्यकूटप्रकटयोधिनोः ।
ऊर्जितैः शतशो योधा गर्जितैर्व्यसवोऽभवत् ॥ ७.६३७ ॥

रथाद्रथमभिद्रुत्य ततो भैमिरलम्बुसम् ।
दोर्भ्यां मित्त्रमिवालिङ्ग्य गाढगाढमपीडयत् ॥ ७.६३८ ॥

तस्य निष्पीड्यमानस्य निर्ययुः स्रोतसां मुखैः ।
सधूमाः सानलज्वालाः सशब्दं शोणितच्छटाः ॥ ७.६३९ ॥

ततो भुवि विनिष्पिष्य राविणं तं घटोत्कचः ।
उद्धृत्य तच्छिरो वेगाद्दुर्योधनमथाययौ ॥ ७.६४० ॥

तमुवाच हतोऽयं ते मया बन्धुर्निशाचरः ।
प्रियस्य पातय शिरः पुनरेव नृपाधम् ॥ ७.६४१ ॥

उक्त्वैतत्कर्णमभ्यायाद्विनदन्रजनीचरः ।
चण्डानिलसमुद्धूतः कालमेव इवाकुलः ॥ ७.६४२ ॥
***** अलम्बुसवधः ॥ २२ ॥ *****
ततः प्रवृत्ते समरे घोरे राधेयरक्षसोः ।
रामरावणसंग्राममस्मरन्विबुधा दिवि ॥ ७.६४३ ॥

स्तम्भप्रमाणैर्विशखैर्ज्वलितैरुल्मुकैरिव ।
विद्धोऽपि रक्षसा कर्णो न चचाल महाशयः ॥ ७.६४४ ॥

अथ क्रोधविनिर्मुक्तैर्विपुलैः कर्णसायकैः ।
निर्भिन्नो राक्षसश्चक्रं प्राहिणोत्कर्णपावकम् ॥ ७.६४५ ॥

प्रेक्ष्य चायत्सहस्रारं तेजःपिञ्जरिताम्बरम् ।
चकार खण्डशश्चक्रं कर्णः सावेगमाशुगैः ॥ ७.६४६ ॥

ततो घटोत्कचः कोपान्मायां कृत्वा विमोहनीम् ।
पिष्ट्वा सूतध्जरथं विशालमविशन्नभः ॥ ७.६४७ ॥

शान्ततेजोमये वह्नौ तारा तारास्थिसंकुले ।
व्योम श्मशाने तस्यासन्मत्तवेतालकोटयः ॥ ७.६४८ ॥

मुहुर्गजो मुहुः सिंहः क्षणं मेघः क्षणं गिरिः ।
सर्वभूतमहाकायो वर्षन्स विपुलाः शिलाः ॥ ७.६४९ ॥

भुवो वह्निं दिवः शस्त्रं दिग्भ्यो राक्षसमण्डलम् ।
विसृजन्कुरुसेनासु वैकर्तनमयोधयत् ॥ ७.६५० ॥

ततो विधूय तां मायां कर्णो दिव्यास्त्रतेजसा ।
निर्दहन्पाण्डवचमूं रक्षो विव्याध सायकैः ॥ ७.६५१ ॥

हेडिहन्पाण्डव यातुधानान्सहस्रशः ।
कर्णो धनुष्मतां धुर्यो विबभौ रामविक्रमः ॥ ७.६५२ ॥

अष्टाष्टचक्रामशनिं कालजिह्वविभीषणाम् ।
भैमः ससर्ज कर्णाय स्वयं रुद्रेण निर्मिताम् ॥ ७.६५३ ॥

विसृष्टा राक्षसेन्द्रेण शैलसंघप्रमाथिनी ।
सा भस्मसान्महाघोषा रथमाधिरथेर्व्यधात् ॥ ७.६५४ ॥

ततोऽपरं समास्थाय स्यन्दनं सूतनन्दनः ।
पिशाचवदनानन्याञ्जघान पिशिताशिनः ॥ ७.६५५ ॥

विरथः कोपहुतभुग्ज्वालावलयितेक्षणः ।
घटोत्कचो महामायः पुनरन्तरधीयत ॥ ७.६५६ ॥

अत्रान्तरे राक्षसेन्द्रो बकस्य दयितः सखा ।
सुयोधनाभ्यनुज्ञातो बीममायादलायुधः ॥ ७.६५७ ॥

हयानां हस्तिकर्णानां पिशाचमुखवर्चसाम् ।
युक्ते शतेन गम्भीरनिर्घोषे स्यान्दने स्थितम् ॥ ७.६५८ ॥

तं भीमः प्रतिजग्राह संरम्भगुरुगर्जितम् ।
सिद्धमन्त्र इवाकम्पो वीरो वेतालमुत्थितम् ॥ ७.६५९ ॥

आकीर्यमाणो घोरेण शिलशस्त्रस्त्रवर्षिणा ।
राक्षसेन गदां भीमः प्राहिणोत्तद्वधाशया ॥ ७.६६० ॥

तां गदां गदया रक्षो हत्वा जाम्बूनदाङ्गदाम् ।
नदन्नकालजलदध्वानधीरः खमाविशत् ॥ ७.६६१ ॥

अलायुधेन संसक्तं रजन्यां कूटयोधिना ।
भीमं दृष्ट्वा क्षणं कृष्णः संदेहाकुलितोऽभवत् ॥ ७.६६२ ॥

ततः शौरेर्गिरा वीरः प्रवरो रौद्रकर्मणाम् ।
अलायुधं समभ्यायात्त्यक्त्वा कर्णं घटोत्कचः ॥ ७.६६३ ॥

तयोः संरब्धयोर्व्योम्नि संनिपातो घनस्वनः ।
अभूद्भृशं शिलाशस्त्रनिर्घर्षोद्धूतपावकः ॥ ७.६६४ ॥

चिताग्निपङ्गलश्मश्रुजटाभीषणयोस्तयोः ।
दन्तनिष्पेषसंजाताः स्फुलिङ्गा इव बभ्रमुः ॥ ७.६६५ ॥

अग्निकुण्डोपमानाभ्यां कुण्डलाभ्यां विराजितम् ।
अलायुधस्याशु शिरश्चिच्छेद च घटोत्कचः ॥ ७.६६६ ॥
***** अलायुधवधः ॥ २३ ॥ *****
तं हत्वा विनदन्घोरं हैडिम्बो घोरविक्रमः ।
द्रुतं कर्णं समभ्येत्य शिलवर्षैरताडयत् ॥ ७.६६७ ॥

वैकर्तनोऽपि पार्थानां क्षपयित्वा वरूथिनीम् ।
घटोत्कचसंभ्रान्तः शरजालैरपूरयत् ॥ ७.६६८ ॥

अथास्त्रेण रथं हत्वा कर्णस्य रजनीचरः ।
त्रिजगन्मोहनीं मायां समादायाविशन्नभः ॥ ७.६६९ ॥

उल्मुकैरायुधैर्वृक्षैः शिलाभिः पर्वतैस्तथा ।
स जघान महाघोषः कौरवाणामनीकिनीम् ॥ ७.६७० ॥

निशीथे सर्ववीरेषु युध्यमानेषु रक्षसा ।
दुद्रुवुः पृथिवीपाला भग्नस्यन्दनकुञ्जराः ॥ ७.६७१ ॥

संहारे सर्वयोधानां तस्मिन्नतिभयंकरे ।
निष्कम्पः समरे कर्णः सायकैः खमपूरयत् ॥ ७.६७२ ॥

गगने विध्यमानानां शिलानां कर्णमार्गणैः ।
ज्वालाजालजटालानामभूच्चटचटारवः ॥ ७.६७३ ॥

ततः परिघनिस्त्रिंशशतघ्निप्रासमुद्गराः ।
सत्रिशूलगदाचक्रभुसुण्डिशरतोमराः ॥ ७.६७४ ॥

कर्णानने राक्षसेन प्रास्त विषमयोधिना ।
चक्रिरे कौरवानीकं हतं कालशतैरिव ॥ ७.६७५ ॥

विद्रुते च तथा सैन्ये रक्तकुल्यावरोहिनि ।
विद्यमाने निराधारे राधेये धैर्यशालिनि ॥ ७.६७६ ॥

स्वस्तीत्युक्त्वा प्रयातेषु व्योम्नः सिद्धसुरर्षिषु ।
अकम्पत जगत्सर्वं राक्षसेन्द्रस्य मायया ॥ ७.६७७ ॥

युध्यमानं ततो वीरं कर्णमभ्येत्य कौरवः ।
अवदत्सर्वसंहारसंत्रासायासकातरः ॥ ७.६७८ ॥

त्वयार्जुनवधे शक्तिर्धार्यते किमनर्थका ।
अस्मिन्निशीथे को ह्यस्मान्मुच्यते यः पुनर्जयेत् ॥ ७.६७९ ॥

एतदाकर्ण्य राधेयः शक्रदत्तां महाप्रभाम् ।
एकवीरवधायत्तां सुचिरं परिरक्षिताम् ॥ ७.६८० ॥

दारणीं दैत्यसङ्घानामुत्ससर्ज नभस्तले ।
यस्या ज्वालावलीधाम्ना सीमन्तितमिवाभवत् ॥ ७.६८१ ॥

तेजस्विनो राक्षसस्य दृढं वक्षो विदार्य सा ।
जगाम त्रिदिवं दीप्ता प्राणशक्तिरिवापरा ॥ ७.६८२ ॥

दग्धमायस्तदा क्षिप्रं हैडिम्बो मन्दराकृतिः ।
पतन्निर्भिन्नहृदयः पिपेष कुरुवाहिनीम् ॥ ७.६८३ ॥
***** रात्रियुद्धे घटोत्कचवधः ॥ २४ ॥ *****
हते घटोत्कचे वीरे दशकण्ठपराक्रमे ।
प्रहृष्टाः कुरवः कर्णं रामोपममपूजयन् ॥ ७.६८४ ॥

शक्तिहीने ततः कर्णे नदत्कालियसूदनः ।
विष्णो पाण्डवानीके ननर्तानन्दनिर्भरः ॥ ७.६८५ ॥

वलत्पीतांशुकास्तस्य नृत्यतो विबभुर्भुजाः ।
स्फूर्जतिकञ्जल्कपटला वातलोला इव द्रुमाः ॥ ७.६८६ ॥

तमूचे निन्दयन्पार्थो हैडिम्बवधदुःखितः ।
कोऽयं विषादसमये प्रहर्षस्ते जनार्दन ॥ ७.६८७ ॥

श्रुत्वैतदब्रवीत्कृष्णो जितः कर्णोऽधुना सखे ।
हैडिम्बवपुषः प्राणश्चिन्ताचपलचेतसः ॥ ७.६८८ ॥

शक्तिश्च कर्णदोर्दण्डात्समं याता जयाय वः ।
एकलव्यजरासंधशिशुपालादयो मया ॥ ७.६८९ ॥

पुरा युद्धमिदं ज्ञात्वा दुर्जयाः शक्तिभिर्हताः ।
एवमेव रणे कर्णो न जेयस्त्रिदशैरपि ॥ ७.६९० ॥

किं पुनर्घोरया पार्थ शक्त्या वासवदत्तया ।
त्वयि नोत्सृष्टवाञ्शक्तिं सततं मोहितो मया ।
कर्ण प्रतिनिशं पापैः प्रेर्यमाणोऽपि कौरवैः ॥ ७.६९१ ॥

इत्युक्तवति दाशार्हे सिद्धवीरवधार्दिताः ।
निर्विभागं युयुधिरे क्रोधान्धाः कुरुपाण्डवाः ॥ ७.६९२ ॥

हैडिम्बे निहते राजा शोकतप्तो युधिष्ठिरः ।
आश्वासितः केशवेन कुपित्तः कर्णमाद्रवत् ॥ ७.६९३ ॥

नृपैरनुगतः सर्वैः प्रविष्टः कुरुवाहिनीम् ।
अभ्येत्य भगवान्व्यासो धर्मराजमभाषत ॥ ७.६९४ ॥

दिष्ट्या नाधिरथेः शक्त्या कृतं जगदनर्जुनम् ।
अधुना वीर युध्यस्व निःसंरम्भमनाकुलः ॥ ७.६९५ ॥

इतश्चतुर्भिर्दिवसैर्न भविष्यन्ति भूमिपाः ।
धर्मवीर त्जज क्रोधं सदा धर्मानुगो जयः ॥ ७.६९६ ॥

इत्युक्त्वान्तर्हिते व्यासे भीमार्जुनयुधिष्ठिराः ।
चक्रिरे समरं घोरं द्रोणकर्णकृपादिभिः ॥ ७.६९७ ॥

सा कालरात्रिः शूराणामुत्सवो यक्षरक्षसाम् ।
सहस्रयामतां याता त्रियामाबून्महीभुजाम् ॥ ७.६९८ ॥

ततो निद्राकुले सैन्ये शान्ते शस्त्रकृतक्षते ।
दृष्ट्वा जगाद कारुण्याच्छ्वेताश्वो यशसां निधिः ॥ ७.६९९ ॥

मुहुर्तेऽस्मिन्निरालोके खिन्नाः सर्वे महारथाः ।
क्षणं भजन्तु विश्रान्तिं निद्रामुकुलितेक्षणाः ॥ ७.७०० ॥

इत्युक्ते सैनिकाः सर्वे प्रशंसन्तो धनंजयम् ।
क्षणं गजरथस्कन्दनिष्ण्णास्तत्यजुः श्रमम् ॥ ७.७०१ ॥

निःस्यन्दनागतुरगा निस्चलच्छत्रचामराः ।
अङ्कन्यस्तायुधभाटास्ताः सेना निश्चला भभुः ॥ ७.७०२ ॥

अथोद्ययौ व्योमकृपाणपट्टदन्तत्सरुः कान्तिसरिन्मरालः ।
चन्द्रो जगत्कुञ्जरकर्णशङ्खो दिगङ्गनामण्डनदर्पणश्रीः ॥ ७.७०३ ॥

ततः समस्तवीराणां संमुखाहवपातिनाम् ।
यशोभिरिव शीतांशुरंशुभिर्द्यामपूरयत् ॥ ७.७०४ ॥

तुषारहररुचिरैः किरणैरमृतत्विषः ।
चामरैरिव भूपाला वीज्यमानाः क्षणं बभुः ॥ ७.७०५ ॥

शरेष्वङ्कुरितश्चन्द्रः सान्द्रं पल्लवितोमिंषु ।
हरेषु फुल्लितो राज्ञां शङ्खेषु फलितोऽभवत् ॥ ७.७०६ ॥

प्रतिबिम्बगतो रक्ततटिनीषु निशाकरः ।
बभौ संध्यासवेनेव घूर्णमानारुणच्छविः ॥ ७.७०७ ॥

ततः क्षीणे क्षपाकाले ध्वजिनी राजयक्ष्मणि ।
उद्ययौ शोणिताताम्रो भगवान्वासरेश्वरः ॥ ७.७०८ ॥
***** चतुर्थदिवसे रात्रियुद्धम् ॥ २५ ॥ *****
दुर्योधनेन वाक्यल्यैरर्दितः कुम्भसंभवः ।
ततो ददाह दिव्यास्त्रैरनस्त्रज्ञानपि क्रुधा ॥ ७.७०९ ॥

पुनः प्रवृत्ते समरे निर्मर्यादे जगत्क्षये ।
द्रोणेन वध्यमानानामानन्दस्तुमुलोऽभवत् ॥ ७.७१० ॥

तस्मिन्नकालकल्पान्ते रुद्रः किं वापुषामुना ।
संहर्तुमुद्यतो लोकानित्यूचुर्व्योमचारिणः ॥ ७.७११ ॥

चेदिसोमकपाञ्चालमत्स्यकेकयसृञ्जयाः ।
न शर्म लेभिरे वीराः पीडिता द्रोणसायकैः ॥ ७.७१२ ॥

ततो विराटद्रुपदौ भारद्वाजं शितैः शरैः ।
संच्छाद्य चक्रतुः क्षिप्रं विस्मयं तव धन्विनाम् ॥ ७.७१३ ॥

द्रोणोऽथ पार्षतसुतान्हत्वा विपुलविक्रमान् ।
कण्ठाञ्जहार भल्लाभ्यां विराटद्रुपदौ समम् ॥ ७.७१४ ॥
***** विराटद्रुपदवधः ॥ २६ ॥ *****
मत्स्यपाञ्चालसेनासु भग्नासु पवनात्मजः ।
धृष्टद्युम्नमुखैः सार्धं द्रोणानीकमुपाद्रवत् ॥ ७.७१५ ॥

कर्णसौबलहार्दिक्यदुःशासनमुखास्ततः ।
भीमपार्षतसैनेयफल्गुनाद्यानयोधयन् ॥ ७.७१६ ॥

संघट्टः सर्ववीराणां तुमुले संप्रहारिणि ।
आयात्सोल्लोलकीलालकुल्या कल्लोलमालिनी ॥ ७.७१७ ॥

पाञ्चालचेदिमत्स्यानां कुर्वाणां कदनं रणे ।
द्रोणं विलोक्य कंसारिर्बभाषे पाण्डुनन्दनम् ॥ ७.७१८ ॥

जामदग्न्यस्य शिष्योऽयं प्रवृद्धः क्षत्रियानलः ।
दिव्यास्त्रदुःसहशिखः सोढुं नः केन पार्यते ॥ ७.७१९ ॥

सर्वात्मना युध्यमानो दुर्जयः सायुधो गुरुः ।
उद्यतः कर्तुमद्यैव जाने निष्पाण्डवं जगत् ॥ ७.७२० ॥

पुत्रं तु निहतं श्रुत्वा ध्रुवमेष न योत्स्यते ।
तस्माद्युक्तिमुपाश्रित्य जये नीतिर्विधीयताम् ॥ ७.७२१ ॥

श्रुत्वैतदर्जुने कर्णौ पिधायाधोमुखस्थिते ।
कथंचिदभ्युपगमान्मूके पाण्डवभूपतौ ॥ ७.७२२ ॥

अश्वत्थामाभिधं हत्वा गदया मदकुञ्जरम् ।
उच्चैः पुत्रवधं भीमो द्रोणमश्रावयत्पुरः ॥ ७.७२३ ॥

लज्जमानेन भीमेन व्याहृतं भृशमप्रियम् ।
दुर्जयं तनयं मत्वा द्रोणो मेने न तत्तथा ॥ ७.७२४ ॥

स प्रविश्याथ पाञ्चालान्धृष्टद्युम्नजिघांसया ।
जघान वीरयोधानां रथानामयुतानि षट् ॥ ७.७२५ ॥

चेदिपाञ्चालमत्स्यानां ब्रह्मस्त्रेणोग्रविक्रमः ।
प्रयुतान्यदहत्क्रुद्धो द्रोणो रुद्र इवापरः ॥ ७.७२६ ॥

निघ्नन्प्रभद्रकान्वीरान्सोमकाश्च प्रहारिणः ।
चतुर्वर्षशतो दर्पाद्युवेव विचचार सः ॥ ७.७२७ ॥

ऋषयोऽथ समभ्येत्य तं क्रूरतरकारिणम् ।
तस्मादवारयन्घोराल्लोकसंहारवैशसात् ॥ ७.७२८ ॥

मुनिसंघे गते व्योम्ना द्रोणो भीमवचः स्मरन् ।
युधिष्ठिरं शङ्कितधीरपृच्छत्सत्यविक्रमम् ॥ ७.७२९ ॥

गोविन्देनार्थितो यत्नाल्लोकसंहारशान्तये ।
युधिष्ठिरस्तदेवोक्त्वा स्वैरं हस्तीत्यभाषत ॥ ७.७३० ॥

अस्पृशन्तो हया भूमिमवहन्ये युधिष्ठिरम् ।
ते नीचगामिनस्तूर्णमसत्यगुरवोऽभवन् ॥ ७.७३१ ॥

ततः सविषनाराचैर्निर्भिन्न इव मर्मसु ।
निश्चित्यात्मवधं द्रोणश्चित्रार्पित इवाभवत् ॥ ७.७३२ ॥

तं जिह्वादीप्तविशिखो धृष्टद्युम्नोऽवदद्द्रुतम् ।
अहो तनु ब्राह्मणो भूत्वा पिशिताशीव निष्कृपः ।
करोषि कलुषं कर्म निहतेऽपि प्रिये सुते ॥ ७.७३३ ॥

तच्छ्रुत्वा सहसा द्रोणस्त्यक्त्वा चापं सह क्रुधा ।
दत्त्वा सर्वाभयं मौनी ददर्श ज्योतिरान्तरम् ॥ ७.७३४ ॥

तस्य षट्कोशसंघस्य संपुटत्रयपातनात् ।
ब्रह्मरन्ध्रविनिष्क्रान्तं ज्योतिर्व्योम समाविशत् ॥ ७.७३५ ॥

अत्रान्तरे समाकृष्य धृष्टद्युम्नः शिरोरुहैः ।
क्रोधान्धः पाण्डुतनयैर्वार्यमाणोऽपि संभ्रमम् ॥ ७.७३६ ॥

गुरोरकृष्टशस्त्रस्य धाम्नि संक्रान्ततेजसः ।
शिरो जहार खड्गेन धिक्कृतः स्रवराजभिः ॥ ७.७३७ ॥
***** द्रोणवधः ॥ २७ ॥ *****

हते रुक्मरथे वीरे गुरौ सर्वधनुष्मताम् ।
संभ्रान्ता दुद्रुवुः सर्वे कौरवाणां महारथाः ॥ ७.७३८ ॥

भग्नं कुरुबलं दृष्ट्वा शङ्कितो द्रोणनन्दनः ।
किमेतदिति पप्रच्छ साश्रुनेत्रं सुयोधनम् ॥ ७.७३९ ॥

तस्मिन्नधोमुखे दुःखाद्धोरं वक्तुमनीश्वरे ।
तत्प्रेरितः पितृवधं गौतमोऽस्मौ न्यवेदयत् ॥ ७.७४० ॥

श्रुत्वा स वैशसं घोरं छद्मना विहितं गुरौ ।
पाञ्चाल्येन नृशंसेन जज्वाल क्रोधवह्निना ॥ ७.७४१ ॥

तस्य निःश्वसतः कोपात्कालस्येव दिधक्षतः ।
संरम्भः सर्वभूतानां बभूवातिभयंकरः ॥ ७.७४२ ॥

निष्पिष्यपाणिना पाणिं सोऽब्रवीत्साश्रुलोचनः ।
अहो ममापि जनकः केशग्रहणमाप्तवान् ॥ ७.७४३ ॥

घातयित्वा मृषावादी गुरुं राजा बकव्रतः ।
मयि जीवति कौन्तेयः कथं प्राप्स्यति मेदिनीम् ॥ ७.७४४ ॥

अद्य मत्कोपनिर्दग्धे पाण्डुपुत्रे सराजके ।
भार्गवस्य स्मरिष्यन्ति वीराः क्षत्त्रकुलच्छिदः ॥ ७.७४५ ॥

कृत्वाद्य पार्षतपशुं क्रोधाग्नेरुपहारताम् ।
अकृष्णपार्थां पृथिवीमेषोऽहं कर्तुमुद्यतः ॥ ७.७४६ ॥

पुरा मह्यं पिता प्रादादस्त्रं नारायणोदितम् ।
तेनाद्य संहृतांल्लोकान्मया पश्यन्तु खेचराः ॥ ७.७४७ ॥

इत्युक्त्वा संदधे धीप्तं तदस्त्रं नियतः शुचिः ।
येनाश्वत्थदलालोला विचचालजगत्त्रयी ॥ ७.७४८ ॥

ततो ननाद मन्थाद्रिक्षुभिताम्भोधिनिःस्वनम् ।
द्रौणिर्येन दिशः सर्वा ययुः शकलतामिव ॥ ७.७४९ ॥

ततो व्यथितमालोक्य स्वसैन्यं श्वेतवाहनः ।
जगाद धर्मतनयं श्वसन्ननुशयाकुलः ।
व्याजाद्विभवलुब्धेन शिष्येण निहतो गुरुः ॥ ७.७५० ॥

इति प्रलापमुखरे सुरराजसुते गुरोः ।
कोपादाताम्रनयनः प्रोवाच पवनात्मजः ॥ ७.७५१ ॥

न नाम मुनिवत्पार्थ क्षत्त्रियो वक्तुमर्हसि ।
घोरापकारे कः शत्रौ रणे न्यायमुपेक्षते ॥ ७.७५२ ॥

अस्मिन्मम भुजे वीरे गदाप्रणयिनि स्थिते ।
त्वयि कृष्णे च किं नाम द्रौणिश्लाघाभिनन्द्यते ॥ ७.७५३ ॥

इत्युक्ते भीमसेनेन पार्षतोर्ऽजुनमब्रवीत् ।
लोकान्तको विकर्मस्थो ब्रह्मबन्धुर्हतो मया ॥ ७.७५४ ॥

ब्रह्मास्त्रेण हतो येन मुक्तवर्मा पृथग्जनः ।
सर्वोपायैः स हन्तव्योऽसुरवद्विश्वकण्टकः ॥ ७.७५५ ॥

त्वया हतः कथं भीष्मः स च प्राग्ज्योतिषेश्वरः ।
पितुः सखा किमेतेन गहना वीरवृत्तयः ॥ ७.७५६ ॥

धृष्टद्युम्नवचः श्रुत्वा तिर्यग्जिह्मीकृतेक्षणः ।
निःश्वस्य कोपसंतप्तो धिग्धिगित्यर्जुनोऽब्रवीत् ॥ ७.७५७ ॥

लज्जानते धर्मसुते मूकीभूतेषु राजसु ।
सात्यकिः कोपसंतप्तो धृष्टद्युम्नमभाषत ॥ ७.७५८ ॥

बत पाप वयं सर्वे ये गुरुघ्नं पुरः स्थितम् ।
स्वस्तिवत्प्रतिभाषन्ते हन्तव्यं त्वां प्रयत्नतः ॥ ७.७५९ ॥

इत्युक्तवति शैनेये जगाद द्रुपदात्मजः ।
अहो नु परदोषज्ञो निर्देष इव भाषसे ॥ ७.७६० ॥

भूरिश्रवाः प्रायगतः कृत्तबाहुः किरीटिना ।
नृशंस पतिताचार केनान्येन निपातितः ॥ ७.७६१ ॥

नैतद्वाच्यं त्वया भूपो बाणैस्त्वामन्यथा शितैः ।
करोमि शिक्षागुरुभिर्विनयावनिवर्तिनम् ॥ ७.७६२ ॥

इति ब्रुवाणौ संरम्भात्तौ मिथो हन्तुमुद्यतौ ।
नि(न्य)वारयत्कृष्णगिरा भीमसेनः सहानुजैः ॥ ७.७६३ ॥

ततः क्षणात्समावृत्ते कुरुराजबलार्णवे ।
द्रोणात्मजास्त्रपिहिता नालक्ष्यन्त दिशो दश ॥ ७.७६४ ॥

नारायणास्त्रनिःसृतैः प्रदीप्तायुधमण्डलैः ।
बध्यमानाल्पशेषाभूत्पाण्डवानामनीकिनी ॥ ७.७६५ ॥

तस्मिन्नायुधसंघर्षजातज्वालाशताकुले ।
घोरे सुभटसंहारे त्रस्तो राजा युधिष्ठिरः ॥ ७.७६६ ॥

उवाच पार्षतमुखान्वीक्षमाणः किरीटिनम् ।
पलायन्तामितः सर्वे महद्भयमुपस्थितम् ॥ ७.७६७ ॥

माध्यस्थ्यमास्थितो जिष्णुः कोपितो निधनाद्गुरोः ।
येनाभिमन्युर्वृद्धेन व्याजाद्बालो निपातितः ॥ ७.७६८ ॥

सत्यजित्प्रमुखा येन हतास्ते ते महारथाः ।
दुर्भेद्यं कवचं प्रादाद्दिव्यं दुर्योधनाय यः ॥ ७.७६९ ॥

क्रियतां नाधुना युद्धं स्वस्ति पार्थाय धीमते ।
एवं वह्निं प्रवेक्ष्यामि द्रौणिं कालं सहेत कः ॥ ७.७७० ॥

इत्युक्ते धर्मराजेन भुजावुत्क्षिप्य केशवः ।
उच्चैरुवाच भूपालाञ्ज्वलितान्स्त्रतेजसा ॥ ७.७७१ ॥

भो भोः शस्त्रं परित्यज्य रथेभ्यो व्रजत क्षितिम् ।
अस्त्रेणानेन हन्यन्ते न विशस्त्रा भुवि स्थिताः ॥ ७.७७२ ॥

इति ब्रुवाणे संरम्भात्सावेगं कैटभद्विषि ।
भीमो बभाषे भूपालानभयं कर्तुमर्हथ ॥ ७.७७३ ॥

एषोऽहं समयप्रख्यां गदामादाय दंशितः ।
द्रौणिमभ्युद्यतो हन्तुं पश्यन्तु कुरुपाण्डवाः ॥ ७.७७४ ॥

इति गर्जन्तमायान्तं पावनिं द्रोणनन्दनः ।
हसन्मूढोऽयमित्युक्त्वा शरजालैरपूरयत् ॥ ७.७७५ ॥

ततो नारायणास्त्रेण दह्यमानाः समन्ततः ।
अवातरन्वाहनेभ्य शस्त्राण्युत्सृज्य भूमिपाः ॥ ७.७७६ ॥

रथे स्थितं युध्यमानं भीमसेनमसंभ्रमात् ।
अस्त्रज्वालावलीचक्रमेकीभूतं समापतत् ॥ ७.७७७ ॥

प्रजवाग्निशिखाकूटसंघट्टन्तरितं क्षणात् ।
अर्जुनो भीममालोक्य वरुणास्त्रमवासॄजत् ॥ ७.७७८ ॥

नारायणास्त्रदहनैस्तदस्त्रमभितो हतम् ।
मोधीकृतं क्षणेनाभूदप्रयुक्तमिवाम्बरे ॥ ७.७७९ ॥

महास्त्रसंकटे घोरे वर्तमानं वृकोदरम् ।
अवरुह्य रथात्कृष्णौ द्राग्भुजाभ्यां विकृष्य तम् ॥ ७.७८० ॥

शस्त्रं हृत्वा बलाद्वीरं नीत्वाशु स्यन्दनाद्भुवम् ।
वीरौ चित्रोज्ज्वलौ हृष्टौ तस्थातुः कृष्णपाण्डवौ ॥ ७.७८१ ॥

अस्त्रे ततः स्वयं शान्ते प्रसन्ने भुवनत्रये ।
ऊचे दुर्योधनो द्रौणिं पुनरस्त्रं प्रयुज्यताम् ॥ ७.७८२ ॥

द्विष्प्रयोज्यं न दिव्यास्त्रमित्युक्त्वा द्रौणिराकुलः ।
शरैश्वकार पाञ्चालमत्स्यकेकयसंक्षयम् ॥ ७.७८३ ॥

स सात्यकिं पार्षतं च जित्वा विद्राव्य वाहिनीम् ।
जघान पौरवं वीरं राजानं च सुदर्शनम् ॥ ७.७८४ ॥

पाण्डुसैन्येषु भग्नेषु द्रौणिं पश्चादभिद्रुतम् ।
अवारयत्स्वयं क्रुद्धो बाणवर्षैर्धनंजयः ॥ ७.७८५ ॥

प्रादुश्चक्रे ततो घोरं ज्वालावलयिताम्बरम् ।
आग्नेयमस्त्रं लोकानां क्षयाय द्रौणिरुद्यतः ॥ ७.७८६ ॥

अथ काञ्चनसंनाहौरिव सर्वे समावृताः ।
महास्त्रतेजसा व्याप्ताः पेतुर्भूमिभृतां वराः ॥ ७.७८७ ॥

अस्त्रेणाक्षौहिणीं दग्धां वह्निव्याप्तो धनंजयः ।
दृष्ट्वा प्रादुश्चकारोग्रं ब्रह्मास्त्रं तत्प्रशान्तये ॥ ७.७८८ ॥

अस्त्रे तिरोहिते तस्मिन्विमुक्तौ केशवार्जुनौ ।
दृष्ट्वा द्रोणसुतः क्रुद्धो धिगस्त्राणीत्यभाषत ॥ ७.७८९ ॥

अत्रान्तरे ज्ञानसहस्ररश्मिरपारवेदामृतसिन्धुसेतुः ।
सरस्वतीमानसराजहंसः कृष्णोऽप्यकृष्णो मुनिराजगाम ॥ ७.७९० ॥

रथं समुत्सृज्य तमुग्रकर्मा प्रणम्य पप्रच्छ गुरोस्तनूजः ।
अस्त्राणि दिव्यान्यफलानि कस्मात्पार्थे सकृष्णे भगवन्गतानि ॥ ७.७९१ ॥

पृष्टः कोपाकुलेनेति तमुवाच मुनीश्वरः ।
वीरौ कृष्णार्जुनावेतौ नरनारायणावृषी ॥ ७.७९२ ॥

षष्टिं वर्षसहस्राणि तपः कृत्वा पिनाकिनम् ।
नारायणस्तोषयित्वा लेभे तत्तुल्यतां पुरा ॥ ७.७९३ ॥

स एष दुर्जयः कृष्णः स्वयं लिङ्गार्चनव्रतः ।
द्रौणे त्वमपि रुद्रांशस्तस्मान्मा विक्रियां गमः ॥ ७.७९४ ॥

एतद्व्यासवचः श्रुत्वा शान्तमन्युर्गुरोः सुतः ।
धिया रुद्रं नमस्कृत्य देवौ कृष्णावमन्यत ॥ ७.७९५ ॥

ततोऽवहारे सैन्यानां विहिते कुरुपाण्डवैः ।
निवृत्तः समरात्पार्थः पथि व्यासं व्यलोकयत् ॥ ७.७९६ ॥

तं नमस्कृत्य पप्रच्छ भगवन्समरे पुरः ।
दृष्टो मया शूलहस्तः पुरुषो दहनद्युतिः ॥ ७.७९७ ॥

तच्छूलिनःसृतैर्दीप्तैरसंख्यैः शूलमण्डलैः ।
कुरुसेना मया दृष्टा दह्यमाना समन्ततः ॥ ७.७९८ ॥

क्रोशार्धस्पृष्टवसुधो रौद्रो रुद्र इवापरः ।
पृष्टो धनंजयेनेति हृष्ये द्वैपायनोऽब्रवीत् । ७.७९९ ॥

स देवस्त्रिपुरारातिर्गजासुरविमर्दनः ।
रुद्रः कृतान्तदहनस्त्रिजगत्प्रलयक्षमः ॥ ७.८०० ॥

यं नमस्कृत्य वरदं राजन्ते दिवि देवताः ।
अस्तम्भयद्बुजस्तम्भं जम्भारातेः स्मिताननः ॥ ७.८०१ ॥

स्मरहरमसुरारिं तं स्मर स्मेरकान्तिं हरमजरमजय्यं शाश्वतं विश्वरूपम् ।
विषमदृशमनीशं शान्तमीसानमीशं तरुणतरणिमालास्फारतेजःप्रकारम् ॥ ७.८०२ ॥

क्षपितदिनकराक्षं दक्षदीक्षाविघातं भवमभवमभेदं स्वच्छभावोपलभ्यम् ।
शिवमचलमचिन्त्यं बालचन्द्रावतंसं गिरिपरिवृढपुत्रीद्यूतगोष्ठीगरिष्ठम् ॥ ७.८०३ ॥

हत्याग्रहात्परममाग्रहमिन्द्रसूनोः प्रीत्या विधाय मुनिमौलिमणौ प्रयाते ।
भूपाः प्रविश्य शिबिराणि दिनावसाने चक्रुः कथाः प्रवरवीरकथानुबद्धाः ॥ ७.८०४ ॥

इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां द्रोणपर्व

॥कर्णपर्व् ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ८.१ ॥

हते द्रोणे कुरुक्षेत्रे पुनरभ्येत्य संजयः ।
राज्ञे न्यवेदयद्युद्धमाश्चर्यं कर्णपार्थयोः ॥ ८.२ ॥

ततो दुर्योधनः कर्णं चित्तसंकल्पशालिनम् ।
चक्रे द्रौणिगिरा हृष्टः शूरं सेनासु नायकम् ॥ ८.३ ॥

अभिषिक्तो मणिमयैः कलशैर्यशसां निधिः ।
मनोरथसुधावर्षी सोऽभवत्कुरुभूपतेः ॥ ८.४ ॥

विधाय मकरव्यूहं स्थितो वैरिकुलेषु सः ।
चक्रिरे पाण्डवा व्यूहमर्धचन्द्रमतन्द्रितम् ॥ ८.५ ॥

ततः शस्त्रास्त्रसंघर्षकीर्णवह्निकणाकुले ।
घोरे प्रवृत्ते समरे निर्धोषस्तुमुलोऽभवत् ॥ ८.६ ॥

भीमोऽथ कुञ्जरारूढो मत्तमातङ्गमास्थितम् ।
चतुर्दन्तं जघानोग्रं कुलूतनृपतिं रणे ॥ ८.७ ॥

ततः कर्णान्तनिर्मुक्तैः कर्णचापच्युतैः शरैः ।
निर्भिन्नाः कुञ्जराः पेतुश्छिन्नपक्षा इवाचलाः ॥ ८.८ ॥

पार्थसात्यकिपाञ्चालद्रौपदेयशिखण्डिनः ।
कृपद्रौणिमुखैश्चक्रुः परं नवमिवाहरम् ॥ ८.९ ॥

पार्थः संशप्तकान्हत्वा निनाय भ्रातरौ नृपौ ।
दण्डाधारं सदण्डं च दण्डाधारपुरं शरैः ॥ ८.१० ॥

अथ पाण्ड्यः कुरुचमूं दारयञ्जगतीभुजाम् ।
भल्लैः शिरांसि चिच्छेद लब्धलक्ष्यः प्रहारिणाम् ॥ ८.११ ॥

भीष्मद्रोणार्जुनस्पर्धां दर्पज्वरभवां नयः ।
सहते नित्यमात्मानं मन्यमानो बलाधिकम् ॥ ८.१२ ॥

दक्षिणापथनाथेन कर्णाटीस्मितकीर्तिना ।
लाटीनेत्रशितास्त्रेण तेन बाणैर्निपीडिता ॥ ८.१३ ॥

द्रौणिना सूतपूत्रेण सौबलेन कृपेण च ।
वार्यमाणापि दुद्राव कुरुराजवरूथिनी ॥ ८.१४ ॥

तमभ्येत्य जवाद्द्रौणिर्विशिखाशनिवर्षिणम् ।
अयोधयदसंभ्रान्तो जम्भारिरिव शम्बरम् ॥ ८.१५ ॥

तस्य लीलावतीलोललोचनभ्रमराम्बुजम् ।
द्रौणिः शिरो जहाराथ भल्लेनान्देलिकुण्डलम् ॥ ८.१६ ॥

पाण्ड्यसंज्ञे हते वीरे मौलिरत्ने महीभुजाम् ।
पाण्डुसेना न शुशुभे शशिहिनेव शर्वरी ॥ ८.१७ ॥

***** पाण्ड्यवधः ॥ १ ॥ *****
ततो गाढनिषक्तेषु शस्त्रवृष्टिं पिबत्सिव ।
आविष्टेष्विव वीरेषु युधि मानेष्ववारितम् ॥ ८.१८ ॥

मिश्रीभूतेषु भूपानां रथेषु च गजेषु च ।
नष्टालोकेषु लोकेषु वपुर्गाढेन पांसुना ॥ ८.१९ ॥

म्लेच्छराजं महानीकं नकुलः क्रूरयोधिनम् ।
जघान राक्षसाचारं सर्वायुधविशारदम् ॥ ८.२० ॥

विमर्दे निबिडे तस्मिन्नकुलं वधगोचरम् ।
स्मरन्कुन्तीवचः कर्णो नावधीत्सत्यविक्रमः ॥ ८.२१ ॥

ततः कर्णमुखैर्वीरैः कीर्णाः पाञ्चालसॄञ्जयाः ।
न लेभिरे परित्राणं कुरवश्चार्जुनादिभिः ॥ ८.२२ ॥

हतवीरेषु भग्नेषु च्छिन्नध्वजरथेषु च ।
गाढविद्धस्रवद्दन्तिघटानिष्पिष्टपत्तिषु ॥ ८.२३ ॥

अकाण्डताण्डवाविद्धकबन्धाकुलवर्त्मसु ।
विशालशोणितनदीमञ्जत्कुञ्जरवाजिषु ॥ ८.२४ ॥

हतशेषेषु सैन्येषु श्रान्तेषु कुरुपाण्डवाः ।
अवहारं दिनापाये चक्रुः शिथिलकार्मुकाः ॥ ८.२५ ॥

***** प्रथमो युद्धदिवसः ॥ २ ॥ *****

अथ प्रभाते संनद्धे संनिकृष्टे बलद्वये ।
ऊचे दुर्योधनं कर्णः पाण्डुसेनां व्यलोकयन् ॥ ८.२६ ॥

त्वत्प्रसादप्रणयिनो मानस्य विभवस्य च ।
अद्याहमनृणो भूत्वा रणे गच्छामि निर्वृतिम् ॥ ८.२७ ॥

अद्य गाण्डीवधन्वानं हत्वा सारं भवद्द्विषाम् ।
सफलं ते करोम्येष संकल्पं चिरसंभृतम् ॥ ८.२८ ॥

निन्द्यं सर्वात्मना लोके सतां स्वगुणकीर्तनम् ।
किंतु कर्तव्यकालेषु न प्रशंसन्ति मूकताम् ॥ ८.२९ ॥

अहमभ्यधिकः पार्थाद्विद्यया विक्रमेण च ।
एतावदधिकं कृष्णो यदनर्घोऽस्य सारथिः ॥ ८.३० ॥

कृष्णादभ्यधिकः शल्यो विदितः सर्वभूभुजाम् ।
तेन सारथिना जिष्णुं विजेतुमहमुत्सहे ॥ ८.३१ ॥

इति वैकर्तनेनोक्ते हृष्टो राजा सुयोधनः ।
तदेवाभ्येत्य विनयान्मद्रराजमभाषत ॥ ८.३२ ॥

ततो मद्राधिपः क्रुद्धः संरम्भलुलितांशुकः ।
सासूयं वीक्ष्य राधेयं कौरवाधिपमभ्यधात् ॥ ८.३३ ॥

अहो सरलता राजन्नवमानाय केवलम् ।
यदहं दीर्घसंघाभ्यां सारथ्ये गदितस्त्वया ॥ ८.३४ ॥

किमहं पाण्डवान्सर्वान्हन्तुं शक्ते न संगरे ।
नृपं मां सूतपुत्रस्य सूतं कर्तुं यदिच्छसि ॥ ८.३५ ॥

उक्त्वेति सहसा शल्ये सानुगे हन्तुमुद्यते ।
प्रसाद्य तं कुरुपतिर्वक्तुं समुपचक्रमे ॥ ८.३६ ॥

मद्रराज ज संरम्भमस्थाने कर्तुमर्हसि ।
अधिकस्त्वं हि गोविन्दादतोऽस्माभिरिहार्थ्यते ॥ ८.३७ ॥

अर्जुनादधिकः कृष्णः सारथिर्विहितः परैः ।
त्वं कर्णादधिकस्तस्मात्सारथ्ये मा हठं कृथाः ॥ ८.३८ ॥

त्रैलोक्योपप्लवे दैत्यैः प्रजापतिवरोर्जितैः ।
राजतायससौवर्णस्वच्छन्दपुरवासिभिः ॥ ८.३९ ॥

वध्यमानेषु लोकेषु देवाः शक्रपुरोगमाः ।
पुरा पिनाकिनं देवं शंकरं शरणं ययुः ॥ ८.४० ॥

विश्वत्राणाय विश्वेशस्त्रिदशैरर्थितस्ततः ।
सर्वदेवमयं कृत्वा रथं विष्णुं च सायकम् ॥ ८.४१ ॥

उवाच देवान्संनद्धः सारथिः कल्प्यतां मम ।
मत्प्रभावाधिकः कश्चिद्येन हन्तास्मि दानवान् ॥ ८.४२ ॥

ततः शक्रमुखा देवा विचार्य सुचिरं धिया ।
ब्रह्माणं विश्वकर्तारं सारथ्ये पर्यकल्पयन् ॥ ८.४३ ॥

तेनोङ्कारप्रतोदेन गृहीते स्यन्दने हरः ।
एकीभूतान्पुरे दैत्यान्ददाह विशिखाग्निना ॥ ८.४४ ॥

***** त्रिपुरवधोपाख्यानम् ॥ ३ ॥ *****

इति रुद्रस्य धातापि स्वयं सूतोऽभवत्पुरा ।
तथा त्वमपि कर्मस्य नावज्ञां कर्तुमर्हसि ॥ ८.४५ ॥

ऐश्वर्यस्याभिजन्यस्य गुणानां विक्रमस्य च ।
सन्तः फलं हि मन्यन्ते मित्रप्रणयपूरणम् ॥ ८.४६ ॥

उक्ते दुर्योधनेनेति मद्रराजः स्मिताननः ।
स्वच्छन्दवादी सूतोऽहं भविष्यामीत्यभाषत ॥ ८.४७ ॥

***** शल्यसारथ्यस्वीकारः ॥ ४ ॥ *****

ततः स्वकल्पितैः श्वेतैस्तुरङ्गैरिव मातलिः ।
तप्तकाञ्चनसंनाहे कर्णस्य रुचिरे रथे ॥ ८.४८ ॥

जग्राह हेलया शल्यो रश्मिममालां सुशिक्षिताम् ।
प्रतापधाम्नः सूर्यस्य दिवीव गरुडाग्रजः ॥ ८.४९ ॥

युयुत्सुं कर्णमालोक्य धन्विनं शल्यसारथिम् ।
जयं हस्तगतं मेने कुरुराजः सहानुगः ॥ ८.५० ॥

नदस्तु कुरुसैन्येषु शङ्खदुन्दुभिनिःस्वनैः ।
मौर्वीमास्फालयन्कर्णो मद्रराजमभाषत ॥ ८.५१ ॥

अद्य शक्रः सुतं दृष्ट्वा मया निहतमर्जुनम् ।
दिव्यास्त्रेषु दृशः शङ्के सासूयं क्षिपति क्षणात् ॥ ८.५२ ॥

अद्य मद्बाणदलितं पार्थं वीक्ष्य युधिष्ठिरः ।
भीष्मद्रोणवधायासवैफल्यात्परितप्यताम् ॥ ८.५३ ॥

इति ब्रुवाणं राधेयं कर्ण मद्राधिपोऽब्रवीत् ।
मा सूतपुत्र मिथ्यैव प्रलापं शिशुवत्कृथाः ॥ ८.५४ ॥

गन्धर्वसमरे पूर्वं त्वयि धीमति विद्रुते ।
येन त्रैलोक्यवीरेण कौरवाः परिरक्षिताः ॥ ८.५५ ॥

मानिनामात्तशस्त्रभाणां तस्मिन्गोग्रहविग्रहे ।
युष्मद्विधानां सहसा हृता येनांशुकावली ॥ ८.५६ ॥

आखण्डलः सानुचरः खाण्डवे येन निर्जितः ।
तं समुत्सहसे जेतुं कर्ण कर्णोऽसि किं न वा ॥ ८.५७ ॥

इति शल्येन सहसा शल्येनेवार्दितो मुहुः ।
संस्तम्भ्य कोपं राधेयो द्रक्ष्यसीति तमभ्यधात् ॥ ८.५८ ॥

ततो व्यूहेष्वनीकेषु सव्यसाचिरणोत्सुकः ।
अग्रेसरो रथाग्र्याणां कर्णः पप्रच्छ सैनिकान् ॥ ८.५९ ॥

क्वासौ जयद्रथारातिर्वीरो वानरकेतनः ।
तं विना रभसादेते ताम्यन्त्येव ममेषवः ॥ ८.६० ॥

विधत्ते लोचनपथं मम यस्तूर्णमर्जुनम् ।
ददामि तस्मै वासांसि चित्राण्याभरणानि च ॥ ८.६१ ॥

रथान्समत्तमातङ्गान्गाः सुवर्णं पुराणि च ।
कान्ताश्च विविधं चान्यद्द्रविणं यावदिच्छति ॥ ८.६२ ॥

एतदाकर्ण्य सोत्प्रासं बभाषे मद्रभूपतिः ।
हासो दुःखाय जायेत राधेय त्वद्विचेष्टितैः ॥ ८.६३ ॥

मूमूर्षुरिव निष्पुत्रो द्रविणं चिरसंभृतम् ।
अविचार्यैव किं मोहात्परेषु त्यक्तुमिच्छसि ॥ ८.६४ ॥

स्वयमर्जुनमायान्तं वशः सितसटाभरम् ।
द्रष्टासि बाणनखरैः कुरङ्ग इव कातरः ॥ ८.६५ ॥

श्रुत्वैतत्कुपितः कर्णो जगाद भ्रुकुटीमुखः ।
निर्गुणस्त्वं न जानीषे न मां न च धनंजयम् ॥ ८.६६ ॥

अहमेवार्जुनं जाने प्रतिमल्लं पिनाकिनः ।
स च मां वेत्ति तत्त्वेन त्वं मिथ्या तु प्रगल्भसे ॥ ८.६७ ॥

अयं मित्रोपधिः शत्रुः केनापि प्रेषितोऽसि नः ।
कुदेशजस्य वा नैतत्तव कौटिल्यमद्भुतम् ॥ ८.६८ ॥

मद्रकाः कुत्सिताचाराः सत्यशीलार्जवोज्झिताः ।
मानं प्रचक्षते लोके सर्ववेदविदो जनाः ॥ ८.६९ ॥

निर्लज्जाः सर्वगामिन्यो लोभमोहमदाकुलाः ।
अनार्या मद्रिकायास्ताः स्वसारो मातरश्च ते ॥ ८.७० ॥

राधेयेनेति संरम्भाद्भाषितो मद्रभूपतिः ।
उवाच मूढ बहुशो हितमुक्तं न बुध्यसे ॥ ८.७१ ॥

स्मर्तासि विगलद्दर्पो निर्जितः सव्यसाचिना ।
हितोपदेशवाक्यानां शोचन्ननुशयाकुलः ॥ ८.७२ ॥

समुद्रकूलनिलयः पुरा वैश्यो महाधनः ।
बह्वपत्योऽभवद्राज्ञा रक्षितो निरुपद्रवः ॥ ८.७३ ॥

तत्पुत्राणामभूत्काकः सततोच्चिष्टभोजनः ।
पुष्टाङ्गो यो धनाढ्यानां प्रणयी पुत्रवत्प्रियः ॥ ८.७४ ॥

ततः कदाचिदायाता हंसा मानसगामिनः ।
सोऽवदज्जातसंघर्षस्तुल्या यूयं न मे जवे ॥ ८.७५ ॥

जाने पातशतं पूर्णं विडीनोड्डीनभेदतः ।
ज्ञायते तुल्यपातान्मे युष्माकं च तरस्विता ॥ ८.७६ ॥

इत्युच्छिष्टभुजा तेन राजहंसा विवल्गिताः ।
आहूता विहसन्तोऽन्तर्वीरा नो किंचिदूचिरे ॥ ८.७७ ॥

एकस्तु हंसो जलधौ व्रजाव इति संविदा ।
काकेन सार्धं शरवन्निपपात स्मिताननः ॥ ८.७८ ॥

तेन वातजवेनाब्धौ वायसः खे व्रजन्समम् ।
स च क्रोशार्धमात्रेऽभूद्धस्तपक्षोऽतिविह्वलः ॥ ८.७९ ॥

तेनैव भग्नदर्पोऽथ तीरे न्यस्तः कृपावता ।
रक्तष्ठीवी चिरात्प्राप संज्ञां ज्ञातखगान्तरः ॥ ८.८० ॥

***** हंसकाकीयम् ॥ ५ ॥ *****

एवं त्वमपि राधेय कौरवैः परिवारितः ।
अर्जुनं समरे प्राप्य हीनदर्पो भविष्यसि ॥ ८.८१ ॥

श्रुत्वैतन्मद्रराजेन कथितं मर्मदारणम् ।
ऊचे वैकर्तनो वीरः पृथुकोपोऽप्यविक्रियः ॥ ८.८२ ॥

युष्मद्विधानां वचसा जायते न भयं मम ।
पश्यार्जुनं मया शल्य समरे विनिपातितम् ॥ ८.८३ ॥

लक्ष्याभ्यासे मया वत्सः पुरा बाणेन दारितः ।
प्रच्छन्नस्तरुखण्डेन होमधेनोर्द्विजन्मनः ॥ ८.८४ ॥

तच्छापाद्रथचक्रं मे पर्यन्तं साधयिष्यति ।
इत्येतच्छिद्रमेकं मे दुर्जयोऽहमतोऽन्यथा ॥ ८.८५ ॥

त्वं तु केवलयानेन नृपेण वाहिना वृतः ।
मया स्वयं संनिकर्षे द्विजिह्वः कुटिलो वृतः ॥ ८.८६ ॥

मद्रकाणां कुवृत्तानां पापदेशनिवासिनाम् ।
तीर्थाचारविहीनानामधिपोऽसि किमुच्यते ॥ ८.८७ ॥

अभक्ष्यं भुञ्जते नित्यमपातव्यं पिबन्ति ये ।
अगम्यासु रमन्ते च ते मद्रास्तव बान्धवाः ॥ ८.८८ ॥

सर्वसाधारणा योषाः सर्वभक्ष्या द्विजातयः ।
सर्वपातकसंपृक्ता मद्रा येषु भवान्नृपः ॥ ८.८९ ॥

***** मद्रकुत्सनम् ॥ ६ ॥ *****

इति कर्णेन गदिते मद्रराजोऽप्यभाषत ।
कर्ण राजा त्वमङ्गानां मातुल्यत्यागपापिनाम् ॥ ८.९० ॥

विक्रीयन्ते सदा यत्र दाराः पुत्राश्च मानवैः ।
तस्मिन्प्रणेता विषये नैवं मे वक्तुमर्हसि ॥ ८.९१ ॥
***** अङ्गकुत्सनम् ॥ ७ ॥ *****

इत्युक्ते मद्रराजेन चोदितास्ते तुरङ्गमाः ।
दारयन्त इव क्षोणीं जातपक्षा इवोद्ययुः ॥ ८.९२ ॥

अथादृश्यत शुभ्राश्वो जिष्णुरच्युतसारथिः ।
अग्रे समग्रसैन्यानां व्यग्रः शत्रुनिबर्हणे ॥ ८.९३ ॥

ततः प्रवृत्ते वीराणां समरे प्राणहारिणि ।
धनुषां कूजतां शब्दे छादिते तूर्यनिःस्वनैः ॥ ८.९४ ॥

उवाच शल्यो राधेयं धनंजयरणोत्सुकम् ।
पश्य गाण्डीवधन्वानं भिन्दानं कुरुवाहिनीम् ॥ ८.९५ ॥

एते संशप्तकाः पार्थशरश्रेणीशतार्दिताः ।
हतद्विपघटाकूटकुटीषु निभृतं स्थिताः ॥ ८.९६ ॥

पश्यार्जुनशरोत्कृत्तकण्ठानां मौक्तिकावली ।
पतिता भूमिपालानामश्रुमाला इव श्रियः ॥ ८.९७ ॥

इति मद्राधिपेनोक्ते क्व यास्यति धनंजयः ।
मद्बाणगोचरं यातो हर्षादित्यवदन्नृपः ॥ ८.९८ ॥

ततो वैकर्तनशरैः पूरिते भुवनोदरे ।
चकम्पे पाण्डवानीकं वातैरिव महद्वनम् ॥ ८.९९ ॥

धृष्टद्युम्नमुखान्वीरान्कुर्वाणो विरथान्मुहुः ।
अयुतानि क्षणात्कर्णो वीराणामवधीद्दश ॥ ८.१०० ॥

चेदिमागधपाञ्चालसैन्ये भग्ने युधिष्ठिरः ।
महारथैरनुगतः स्वंय राधेयमाद्रवत् ॥ ८.१०१ ॥

राजवल्लभ वाग्युद्धं नेदं यत्र प्रगल्भसे ।
इत्युक्त्वा धर्मतनयः शरैः कर्णमपूरयत् ॥ ८.१०२ ॥

अथ कर्णो नरपतेश्चक्ररक्षौ महारथौ ।
हत्वा शरैरुन्ममाथ ध्वजं चापं चकर्त च ॥ ८.१०३ ॥

ततः शक्तिं निशाताग्रां कालदंष्ट्रामिवोत्कटाम् ।
प्राहिणोत्सूतवृत्राय स निर्ह्नादां युधिष्ठिरः ॥ ८.१०४ ॥

भित्त्वा वैकर्तनः शक्तिं तां घण्टाक्रन्दिनीं मुहुः ।
जातरूपमयं वर्म चकर्त नृपतेः शरैः ॥ ८.१०५ ॥

मुहूर्तं तं समापूर्य च्छिन्नवर्माणमाशुगैः ।
दन्तवर्णाञ्जघानास्य कृष्णबालांस्तुरङ्गमान् ॥ ८.१०६ ॥

विद्रुतं धर्मतनयं दृष्ट्वा क्रोधी वृकोदरः ।
कर्णं पराङ्मुखं चक्रे शरैरशनिदारुणैः ॥ ८.१०७ ॥

दुर्योधनानुजान्वीरानायातान्भ्रातुरज्ञया ।
विदधे विपुलैर्बाणैर्भीमः प्रेतपुराश्रयान् ॥ ८.१०८ ॥

नन्दोपनन्दौ दुर्धर्षं धनुर्ग्राहं महाभुजम् ।
जरासंधं श्रुतर्वाणं दुर्दिनं सनिषङ्गिणम् ॥ ८.१०९ ॥

पाशहस्तं कवचिनं क्रोधं च स महाभुजम् ।
हत्वा प्रविश्य पृतनां नागानीकमपोथयत् ॥ ८.११० ॥

ततः सात्यकिपाञ्चालमाद्रीसुतयुधिष्ठिराः ।
अयोधयन्कर्णमुख्यांस्तस्मिन्सुभटसंक्षये ॥ ८.१११ ॥

वृषसेनमुखैर्वीरैर्भिद्यमाने बलार्णवे ।
उदभूच्चण्डगाण्डीवध्वनिराघट्टिताम्बरः ॥ ८.११२ ॥

हत्वा संशप्तकान्सर्वान्प्रत्यावृत्ते धनंजये ।
आवर्तनर्तितेवाभूत्सहसा कुरुवाहिनी ॥ ८.११३ ॥

भग्ने सुशर्मप्रमुखे पार्थास्त्रैर्नृपमण्डले ।
कर्णः पाण्डवसैन्येषु काललीलायितं व्यधात् ॥ ८.११४ ॥

अयुतानि गजेन्द्राणां सप्त हत्वा तरस्विनाम् ।
तावन्त्येव रथानां च चक्रे भूमिभुजां क्षयम् ॥ ८.११५ ॥

व्याघ्रकेतुं जयं शङ्कुं रुद्रमुग्रायुधं परम् ।
सिंहसेनं रोचमानं शुक्तं चित्रायुधं हरिम् ॥ ८.११६ ॥

देवापिं जिष्णुकर्माणं शलभं चित्रदण्डकौ ।
अन्यांश्च भूमिपान्हत्वा पाञ्चालकदनं व्यधात् ॥ ८.११७ ॥

वध्यमानेऽथ कर्णेन विदीर्णे च सहस्रधा ।
बभूव पाण्डवे सैन्ये घोरो व्यतिकरो नवः ॥ ८.११८ ॥

कर्णेन द्रोणपुत्रेण कृपेण कृतवर्मणा ।
किरीटिना पार्षतेन शैनेयेन शिखण्डिना ॥ ८.११९ ॥

कुपितेन च भीमेन ते सेने प्रविदारिते ।
बभूवतुर्विप्रकीर्णे विध्वस्तकवचायुधे ॥ ८.१२० ॥

दिव्यास्त्रवर्षिणं द्रौणिं दिव्यास्त्रेणैव फल्गुणः ।
जित्वा ददर्श कर्णेन वध्यमानान्महारथान् ॥ ८.१२१ ॥

तमब्रवीन्मधुरिपुर्विस्मितः कर्णाविक्रमात् ।
पश्य कौन्तेय कर्णास्त्रवह्निदग्धां वरूथिनीम् ॥ ८.१२२ ॥

पश्य कालकटाक्षेण लक्षितः सूतनन्दनः ।
कटाक्षेण मदाध्मातः सारथ्ये मां यदैक्षत ॥ ८.१२३ ॥

क्षणेन निखिलां स्यूतां तां सेनां कुरुते नृपः ।
पश्यास्य शरजालेन नीरन्ध्रेणावृता दिशः ॥ ८.१२४ ॥

इत्युक्त्वा केशवस्तूर्णं रथेन घननादिना ।
निनाय शक्रतनयं भीमसेनरथान्तिकम् ॥ ८.१२५ ॥

ततो भीमगिरा ध्यात्वा धर्मराजं धनंजयः ।
कर्णसायकनिर्भिन्नं प्रयातं शिबिरं शनैः ॥ ८.१२६ ॥

निःश्वसन्भृशसंतप्तः केसरीव तलाहतः ।
प्रययौ भ्रातरं द्रष्टुं सह कालियविद्विषा ॥ ८.१२७ ॥

स हेमपुङ्खैर्निर्भिन्नं कर्णनामाङ्कितैः शरैः ।
शयानं धर्मतनयं ददर्श च्छिन्नकङ्कटम् ॥ ८.१२८ ॥

तस्याभिवाद्य चरणौ निषण्णौ केशवार्जुनौ ।
चिन्तासंतापिततनू तस्थतुः क्षणमाकुलौ ॥ ८.१२९ ॥

युधिष्ठिरस्तं विज्ञाय कर्णं हत्वा समागतम् ।
उत्थाय निर्व्यथो हर्षाज्जयादपृथुविस्मयः ॥ ८.१३० ॥

प्रायो निःशेषिताः सेना येनास्त्रदहनेन नः ।
स दिष्ट्या समरे पार्थ त्वया कर्णो निपातितः ॥ ८.१३१ ॥

वीराः स विद्विषां हन्ता धौरेयः सर्वधन्विनाम् ।
रामशिष्यस्त्वया ब्रूहि कथं वैकर्तनो हतः ॥ ८.१३२ ॥

इति पृष्टो नृपतिना बभाषे श्वेतवाहनः ।
युध्यमानस्य सुचिरं द्रौणिना रुद्रतेजसा ॥ ८.१३३ ॥

संशप्तकैश्च विघनोऽभून्मम कर्णनिपातने ।
भीमसेनमवस्थाप्य प्रत्यनीके महाभुजम् ॥ ८.१३४ ॥

प्रहारविक्षतं देव त्वामहं द्रष्टुमागतः ।
अधुना त्वदनुज्ञातः कौरवाणां परायणम् ॥ ८.१३५ ॥

कथाशेषं करोऽप्येष कर्णं कर्णायतैः शरैः ।
इति ब्रुवाणं बिभत्सुं मोघसंकल्पदुःखितः ॥ ८.१३६ ॥

उवाच सायकाकीर्णः कोपतप्तो युधिष्ठिरः ।
भारं विन्यस्य विपुलं भीमसेने धनुर्धरः ॥ ८.१३७ ॥

अपयातोऽसि कर्णस्य सत्यं दृष्ट्वा पराक्रमम् ।
मिथ्यैव कुन्त्या गर्भे त्वं क्षत्रियव्यञ्जनो धृतः ॥ ८.१३८ ॥

पूरकः पुत्रसंख्यायां बाणस्तृणमयो यथा ।
त्रयोदश समास्ते ते संकल्पा विहितास्त्वयि ॥ ८.१३९ ॥

सर्वे प्रयाता वैफल्यमुपकारा इवाधमे ।
क एव नाम जानीते कर्णाद्भीतो धनंजयः ॥ ८.१४० ॥

अपयास्यति संग्रामाद्यो वर्तेत तथा विधिम् ।
एतत्प्रयच्छ कस्मैचिद्गाण्डीवं शौर्यशालिने ॥ ८.१४१ ॥

समरे कर्णसंत्रासं योऽस्माकमपनेष्यति ।
एतदाकर्ण्य बीभत्सुर्मर्मणीव समाहतः ॥ ८.१४२ ॥

एतद्गिरा ददौ खड्गे क्रुद्धः साश्रुलवा दृशः ।
तं कोपसंकटो घोरे दुःखाग्नौ च निरन्तरे ॥ ८.१४३ ॥

पतितं वीक्ष्य गोविन्दः सर्वव्यापी तमभ्यधात् ।
जाने ते हृद्गतं पार्थ येन दोलायसे मुहुः ॥ ८.१४४ ॥

गाण्डीवं वितरान्यस्मै त्वां ब्रूयाद्यः स ते ध्रुवम् ।
वध्य इत्युचिताचार प्रतिज्ञा तव विश्रुता ॥ ८.१४५ ॥

तदर्थमसि कोपान्धो निहन्तुं किंस्विदग्रजम् ।
आत्मानं वा व्रतभ्रंशभयात्खङ्गं निरीक्षसे ॥ ८.१४६ ॥

श्रुयतामत्र सत्येन केवलेन विमुह्यसे ।
धर्माधर्मौ न जानीषे सत्यमात्रदृढव्रतः ॥ ८.१४७ ॥

असत्यं धर्मतां याति सत्यमायात्यधर्मताम् ।
कदाचित्कर्मभेदेन तद्विचार्यं धिया बुधैः ॥ ८.१४८ ॥

धर्मोऽपि गहनः सूक्ष्मो ज्ञायते न यथा तथा ।
पुरा बभूव विपिने बलाको नाम लुब्धकः ॥ ८.१४९ ॥

घोरसत्त्वं कदाचित्स गोब्राह्मणगणान्तकम् ।
हत्वा शरेण सहसा शक्रलोकमवाप्तवान् ॥ ८.१५० ॥

कौशिको नाम विप्रः प्राक्सत्यवाक्यकृतव्रतः ।
विद्रुतान्धनिकान्पृष्टो दस्युभिः क्व गता इति ॥ ८.१५१ ॥

अदर्शयत्सत्यवादी स तान्गुणदयाश्रयान् ।
दृष्टांश्च दस्यवो जघ्नुस्तूर्णं तान्द्रविणाशया ॥ ८.१५२ ॥

कौशिकोऽप्यथ कालेन पतितो नरकं ययौ ।
इत्येवं गहना पार्थ प्रवृत्तिः सत्यधर्मयोः ॥ ८.१५३ ॥

तस्मात्त्वमग्रजे राज्ञि धर्मनिष्ठे युधिष्ठिरे ।
मोहादसांप्रतं किंचिन्न चिन्तयितुमर्हसि ॥ ८.१५४ ॥

श्रुत्वैतत्खड्गमाकृष्य हन्तुमात्मानमुद्यतम् ।
प्रतिज्ञाभङ्गनिर्भिन्नं पार्थं कृष्णोऽब्रवीत्पुनः ॥ ८.१५५ ॥

अवमानेन निहतो गुरुर्भवति सर्वथा ।
भवत्यात्मा च निहतः श्लाघया गुरुसंसदि ॥ ८.१५६ ॥

रक्षन्प्रतिज्ञामज्ञानं निरस्य क्रोधसंभवम् ।
तस्मादेतद्वधायाद्य निवृत्तो भव फल्गुण ॥ ८.१५७ ॥

इत्युक्तवति दाशार्हे तथेत्युक्त्वा धनंजयः ।
भीरुः प्रमादी क्रूरस्त्वमित्युवाच युधिष्ठिरम् ॥ ८.१५८ ॥

मयैकेन हताः सर्वे संहता दैत्यदानवाः ।
धुर्योऽहं कार्मुकभृतामित्यात्मानमुवाच च ॥ ८.१५९ ॥

ततो धर्मसुतं दुःखात्काननं गन्तुमुद्यतम् ।
यत्नात्प्रसादयामास गृहीत्वा चरणौ हरिः ॥ ८.१६० ॥

पार्थं च पादपतितं साश्रुनेत्रं युधिष्ठिरः ।
रुरोध गाढमालिङ्ग्य विगलन्मन्युविप्लवः ॥ ८.१६१ ॥

कृतशौचौ ततो वीरौ धर्मराजधनंजयौ ।
रथावारुह्य संनद्धौ जग्मतुः समराङ्गणम् ॥ ८.१६२ ॥

अथार्जुनशरव्रातकृत्तवक्त्रैर्नरेश्वरैः ।
क्षणं बभूव पतितैः सा कबन्धमयीव भूः ॥ ८.१६३ ॥

अत्रान्तरे भीमसेनो हत्वा दुर्योधनानुजान् ।
दुःशासनं युध्यमानमाससादेभविक्रमम् ॥ ८.१६४ ॥

निष्पिष्य गदया तस्य रथं साश्वायुधध्वजम् ।
आचकर्ष रणे ध्वस्तं तं हिडिम्बापतिर्बलात् ॥ ८.१६५ ॥

प्रियापरिभवं घोरं स्मरन्नथ वृकोदरः ।
प्रकोपराक्षसाविष्टः कोष्णं शोणितमापपौ ॥ ८.१६६ ॥

घोरं तत्कर्म भीमस्य दृष्ट्वा स्रस्तासिकार्मुकाः ।
त्रस्ता महारथाः सर्वे मीलिताक्षाकम्पिरे ॥ ८.१६७ ॥

असृक्प्रसरगर्वितः पुलकदण्डगण्डाननो मदादतिविशृङ्खलः स्खलितपादचारक्रमः ।
बभौ भयदविभ्रमभ्रमितभीमभास्वद्गदः प्रियाचिकुरसंयमोद्यतमतिः समीरात्मजः ॥ ८.१६८ ॥

अपूर्वेणैव विधिना हते दुःशासने तथा ।
महतामपि भूतानामभूत्कण्टकिता तनुः ॥ ८.१६९ ॥

***** ***** दुःशासनवधः ॥ ८ ॥ ***** *****

अत्रान्तरे पाण्डवानां वृषसेनशरार्दिते ।
सैन्ये बभूव निर्घोषः पततां गजवाजिनाम् ॥ ८.१७० ॥

संहता अपि भूपाला भीमसात्यकिरक्षिताः ।
न सेहिरे रणे दीप्तं कर्णसूनोः पराक्रमम् ॥ ८.१७१ ॥

स सात्यकिं भीमसेनं माद्रीपुत्रौ किरीटिनम् ।
धृष्टद्युम्नं नृपाश्चान्यान्वीरस्तुल्यमयोधयत् ॥ ८.१७२ ॥

आश्चर्ययोधिनस्तस्य स्मयमान इवार्जुनः ।
भुजौ शिरश्च चिच्छेद कमलाकमलोपमम् ॥ ८.१७३ ॥

***** वृषसेनवधः ॥ ९ ॥ *****

वृषसेने हते कर्णः पुरो गाण्डीवधन्वना ।
सस्मार साश्रुनयनः सौभद्रं बहुभिर्हतम् ॥ ८.१७४ ॥

अथामर्षाज्यसिक्तेन भ्रुकुटीधूमकेतुना ।
क्रोधाग्निना दह्यमानः कर्णोऽधावद्धनंजयम् ॥ ८.१७५ ॥

मनोरथशताभ्यस्ते प्रवृत्ते समरे तयोः ।
बभूव कौतुकायातसुरसिद्धाकुलं नभः ॥ ८.१७६ ॥

कर्णार्जुनरणे तस्मिन्स्वपुत्रजयशंसिनोः ।
जाते विवादे सहसा दिवि सूर्यसुरेन्द्रयोः। भ्म्ज्_८.१७७ ॥

पृष्टो द्विधा स्थितैर्देवैर्वृषाङ्ककमलोद्भवौ ।
कृष्णो यत्र जयस्तत्रेत्यूचतुर्निश्चितं पुरा ॥ ८.१७८ ॥

अथ गम्भीरनिर्घोषौ शङ्खौ कर्णकिरीटिनौ ।
दध्मतुः शौरिशल्यौ च यैश्चकम्पे जगत्त्रयी ॥ ८.१७९ ॥

ततो धवलपक्षाग्राः स्वयशोभिरिवाङ्किताः ।
वैकर्तनः पाण्डवाय प्राहिणोद्विशिखावलीः ॥ ८.१८० ॥

पार्थध्वजेनाभिहतः कर्णकेतुरकम्पत ।
कृष्णस्य दृक्त्रिभागश्च शल्यं शल्यमिवाविशत् ॥ ८.१८१ ॥

अथार्जुनशरैर्दिक्षु पूर्यमाणासु संततम् ।
बाणपातमतिक्रम्य तस्थुः कौरवसैनिकाः ॥ ८.१८२ ॥

दुर्योधनप्रयुक्तानां राधेयरथरक्षिणाम् ।
महारथानां वक्त्राणि जहाराथ कपिध्वजः ॥ ८.१८३ ॥

असंभ्रान्तस्ततः कर्णो मुष्टिमूले किरीटिनः ।
प्रयुज्यमानमसकृच्चिच्छेद शरमण्डलम् ॥ ८.१८४ ॥

ततो भीमोऽब्रवीत्पार्थमच्युतश्चातिविस्मितः ।
दुर्जयः समरे कर्णः स्थिरो युध्यस्व फल्गुण ॥ ८.१८५ ॥

कैराते खाण्डवे वीर कालकेयवधेऽपि वा ।
योऽभवत्तव संरम्भो गृहाणाभ्यधिकं ततः ॥ ८.१८६ ॥

एतदाकर्ण्य विजयो वेल्लन्मुखरकङ्कणः ।
गाढमाकृष्य गाण्डीवं दिव्यास्त्रैर्द्यामपूरयत् ॥ ८.१८७ ॥

भार्गवास्त्रेण हत्वा तामस्त्रवृष्टिं किरीटिनः ।
तं च भीमं च कृष्णं च कर्णो बाणैरपूरयत् ॥ ८.१८८ ॥

ततः कर्णशरासारैरर्जुनास्त्रैश्च सर्वतः ।
पाण्डुकौरवसेनासु बभूव विपुलः क्षयः ॥ ८.१८९ ॥

अथ सर्पमुखं दीप्तं कीर्णचन्दनशालिनम् ।
अस्त्रं कर्णो महाभोगं प्राहिणोत्सव्यसाचिनः ॥ ८.१९० ॥

विसृष्टे भुजगे तस्मिन्शल्योऽङ्गपतिमभ्यधात् ।
नायं प्राप्नोति पार्थस्य कण्ठं नागस्त्वयेरितः ॥ ८.१९१ ॥

पुनः संधानयोग्यस्ते राधेय यदि मन्यसे ।
अकर्णोऽस्यथ वा कर्णहितवाक्येषु सर्वदा ॥ ८.१९२ ॥

इति तेजोवधायोक्तः शल्येन तपनात्मजः ।
उवाच द्विर्न संधत्ते कर्ण इत्यमलाशयः ॥ ८.१९३ ॥

कर्णच्युतं महाघोरमापतन्तं विषोल्बणम् ।
व्यालं दृष्ट्वा हरिश्चक्रे वपुर्मन्दरगौरवम् ॥ ८.१९४ ॥

जानुभिर्वसुधां याते ततो हयचतुष्टये ।
फणी जग्राह नम्रस्य किरीटाग्रं किरीटिनः ॥ ८.१९५ ॥

किरीटखण्डे पतिते मुक्तारत्नाट्टहासिनि ।
सोऽविशद्वसुधां सर्पो विप्रलब्धो विनिःश्वसन् ॥ ८.१९६ ॥

ततः कृष्णार्जुनौ विध्यन्कालदण्डोपमैः शरैः ।
कर्णः कर्णायतोऽसृष्टैरुन्ननाद हसन्मुहुः ॥ ८.१९७ ॥

अथ शक्रसुतः कोपाद्दिव्यरत्नविराजितम् ।
वर्म चिच्छेद कर्णस्य शरैश्चापूरयद्वपुः ॥ ८.१९८ ॥

खाण्डवे कृतवैरं तं खं व्रजन्तं महोरगम् ।
छित्त्वा षड्भिः शरैः पार्थः कर्णं पुनरताडयत् ॥ ८.१९९ ॥

वैकर्तनेन निहते ब्रह्मास्त्रे शाक्रमर्जुनः ।
प्रादुश्चक्रे विघाताय वज्राशनिशताकुलम् ॥ ८.२०० ॥

हत्वा तमस्त्रं राधेयो ज्यां चिच्छेद किरीटिनः ।
क्षणादभिनवां मौर्वी विदधे च धनंजयः ॥ ८.२०१ ॥

ततो रौद्रं स्फुरज्ज्वालाजटालं संदधेर्ऽजुनः ।
अस्त्रं येनाभवद्व्योम घोरदिग्दाहभीषणम् ॥ ८.२०२ ॥

अत्रान्तरे मही स्वयं रथचक्रं विधेर्वशात् ।
जग्राह समये तस्मिन्नङ्गराजस्य संगरे ॥ ८.२०३ ॥

ततस्तच्चक्रमुद्धर्तुमुद्यतो विषमस्थितः ।
उवाच कर्णः कौन्तेयं मुहूर्तं क्षमतां भवान् ॥ ८.२०४ ॥

उद्धृतेऽस्मिन्मया चक्रे महास्त्रं मुञ्च फल्गुण ।
व्यसनस्थे विशस्त्रे च नहि शूरा भवादृशः ॥ ८.२०५ ॥

एतच्छ्रुत्वावदत्कर्णं हसन्कालियसूदनः ।
दिष्ट्याद्य कर्ण जानीषे धर्मं वीरव्रते स्थितः ॥ ८.२०६ ॥

बहुभिर्निहतो बालः सौभद्रः किं नु विस्मृतः ।
गण्यतां तच्च यत्कृष्णां सभायामुक्तवानसि ॥ ८.२०७ ॥

विषवह्निप्रदानेषु च्छिन्नधर्मः स्मृतस्त्वया ।
नूनं विपदि नीचानां नृपाणां धर्मवृत्तयः ॥ ८.२०८ ॥

उक्ते जनार्दनेनेति मन्युना प्रज्वलन्निव ।
ब्रह्मास्त्रं कर्णविहितं ब्राह्मेण विजयोऽवधीत् ॥ ८.२०९ ॥

आग्नेयमर्जुनोत्सृष्टं वारुणेनाङ्गभूपतिः ।
अस्त्रेणास्त्रं समाहृत्य ग्रस्तचक्रो व्यलम्बत ॥ ८.२१० ॥

अथोन्ममाथ बाणेन ध्वजं कनकभास्वरम् ।
कर्णस्याखण्डलसुतो मनोरथमिवोन्नतम् ॥ ८.२११ ॥

ततोऽञ्जलिकमादाय शरं काञ्चनभूषितम् ।
अभिमन्त्र्य समाकृष्य मृत्युदंष्ट्रासिताननम् ॥ ८.२१२ ॥

रुद्रादयोऽस्त्रगुरवस्तुष्टा मे तपसा यदि ।
तदनेन रिपुं हन्यामित्युक्त्वासृजदर्जुनः ॥ ८.२१३ ॥

निर्भिन्नस्तेन सहसा कण्ठे हारपरिष्कृते ।
राधेयः क्रकचोत्कृत्तहेमताल इवापतत् ॥ ८.२१४ ॥

हते धनुष्मतां धुर्ये कौरवानीकनायके ।
कर्णे द्रुतं ययौ शल्यः शल्ययन्हृदयाननम् ॥ ८.२१५ ॥

प्राप्तं रथेन शून्येन दृष्ट्वा मद्रनरेश्वरम् ।
हतो दुर्योधनः कर्णो जीवतीत्यूचिरे नृपाः ॥ ८.२१६ ॥

दुर्योधनोऽर्जुनशरैरङ्गराजे निपातिते ।
उत्तमाङ्ग इवाज्ञासीन्न किंचिद्विहतोन्द्रियः ॥ ८.२१७ ॥

तेजस्ततस्तरलदीधितिकर्णदेहादभ्युद्गतं तरणिमण्डलमाविवेश ।
येनावकाशविशरारुविमानमासीज्ज्वालाकलापजटिलं क्षणमन्तरिक्षम् ॥ ८.२१८ ॥

इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां कर्णपर्व

॥ शल्यपर्व ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ९.१ ॥

एवं जम्भ इवेन्द्रेण हते कर्णे किरीटिना ।
युद्धं न्यवेदयद्राज्ञे पुनरभ्येत्य संजयः ॥ ९.२ ॥

शेखरे सर्ववीराणामर्थिनां कल्पपादपे ।
हते वैकर्तने राजन्सर्वाशारजनीकृति ॥ ९.३ ॥

तदात्मना गते क्वापि निजजीव इवाकुलः ।
दुर्योधनो निरुच्छ्वासो मेने शून्या दिशो दश ॥ ९.४ ॥

चचार रथिनां मध्ये पाण्डवान्योद्धुमुद्यतः ।
परेणैव शरीरेण परलोकगतो नरः ॥ ९.५ ॥

ततो द्रौणिगिरा कृत्वा शल्यं सेनापतिं नृपः ।
रणं वितर(?)राज्यार्थे विवेश त्रिदशालयम् ॥ ९.६ ॥

रथानामयुतं साग्रं तावदेव च दन्तिनाम् ।
लक्ष्यद्वयं द्वयानां च तिस्रः कोट्यः पदातिनाम् ॥ ९.७ ॥

सैन्यशेषमभूदेतत्कुरुराजस्य संगरे ।
अतोर्ऽधं पाण्डवानां च हतशेषमभूद्बलम् ॥ ९.८ ॥

अस्मिन्नायोधने घोरे राज्ञां संहारमण्डले ।
मस्तिष्ककर्दमलुठत्पत्तिस्यन्दनकुञ्जरे ॥ ९.९ ॥

आकीर्णवक्त्रकमले रङ्गोद्भङ्गरथाङ्गके ।
विस्रस्ताराजंसौघे खङ्गखण्डोत्पलाकुले ॥ ९.१० ॥

केशशेवालजम्बालशेषकीलालपिच्छिले ।
अकालकालकरिणा सरसीव विलोडिते ॥ ९.११ ॥

स्रस्तवराश्वकर्णाङ्के भग्नबाणासनावृते ।
कदलीशकलालोले वने वज्रैरिवाहते ॥ ९.१२ ॥

उत्पलावयवापूर्णव्यक्तशक्त्यासवोदिते ।
उद्यान इव कालस्य कपालचषकाकुले ॥ ९.१३ ॥

पुनः प्रवृत्ते समरे शल्यहार्दिक्यसौवलाः ।
विविशुः पाण्डवचमूं कृपद्रौणिसुयोधनाः ॥ ९.१४ ॥

पार्थपार्षतशैनेयद्रौपदेयशिखण्डिनः ।
जघ्नुस्त्रिगर्तगान्धारकपिनाथवरूथिनीः ॥ ९.१५ ॥

अमर्यादे रणे तस्मिन्क्षीबा इव महारथाः ।
क्रुद्धा युयुधिरे घोरं हतबन्धुसुहृद्गणाः ॥ ९.१६ ॥

सत्यसेनं सुषेणं च चित्रसेनं च कर्णजम् ।
जघान नकुलो वीरान्कर्णतुल्यपराक्रमान् ॥ ९.१७ ॥

ततः शल्येन बलिना गजेनेव सरोजिनी ।
मृद्यमाना सनिर्घोषा चकम्पे पाण्डुवाहिनी ॥ ९.१८ ॥

शल्येन रिपुशल्येना वध्यमानां वरूथिनीम् ।
दृष्ट्वा भीमो गदापाणिर्भीमकोपस्तमाद्रवत् ॥ ९.१९ ॥

स हत्वा गदया तस्य रथं रथशतच्छिदः ।
मुमूर्षोर्दण्डमुद्यम्य तस्थौ काल इवाग्रतः ॥ ९.२० ॥

आदाय मद्रराजोऽपि गदां चामीकराङ्गदाम् ।
भीमं भीमबलः कोपाद्दर्पोद्धतमयोधयत् ॥ ९.२१ ॥

मण्डलानि चरन्तौ तावभिपत्य परस्परम् ।
घातजातस्फुलिङ्गाभ्यां गदाभ्यामभिजघ्नतुः ॥ ९.२२ ॥

तयोर्मूर्च्छितयोः क्षिप्रं मोहात्पतितयोर्भुवि ।
सानुगास्तूर्णमाजग्मुः संरब्धाः कुरुपाण्डवाः ॥ ९.२३ ॥

संज्ञामवाप्य सहसा यथावत्स्थितयोस्तयोः ।
दुर्योधनमुखा वीराः पार्थमुख्यानयोधयन् ॥ ९.२४ ॥

ब्रह्मलोकाभिकामेषु युध्यमानेषु राजसु ।
सुयोधनश्चेकितानमवधीद्भूभुजां वरम् ॥ ९.२५ ॥

मद्रराजस्ततः क्रुद्धः पाण्डूपुत्रान्सहानुगान् ।
अवारयद्बलादेकः पूज्यमानो नभश्चरैः ॥ ९.२६ ॥

शस्त्रवृष्टिं तदुत्सृष्टां छित्त्वा बाणैरसंभ्रमः ।
मुहुर्ताद्विदधे शल्यस्तानदृश्यान्पतत्रिभिः ॥ ९.२७ ॥

छादिते शरजालेन सैन्ये मद्रमहीभुजा ।
क्रुद्धोऽवधीत्सहस्रे द्वे रथानां धर्मनन्दनः ॥ ९.२८ ॥

दृष्ट्वानुगान्हतान्राज्ञा शल्यो युधि युधिष्ठिरम् ।
शिलीमुखशतैः पूर्णमथाशोकमिवाकरोत् ॥ ९.२९ ॥

पीडिते धर्मतनये नकुलः कोपकम्पितः ।
भीमसात्यकिमुख्याश्च शरैः शल्यमवाकिरन् ॥ ९.३० ॥

ततः शरान्धकारेण स्थगयन्भुवनोदरम् ।
उन्ममाथः घनध्वानः शल्यः पार्थवरूथिनीम् ॥ ९.३१ ॥

आकुलः समरे तस्मिञ्जिष्णुर्द्रैणिमयोधयत् ।
दुर्योधनं भीमसेनो नकुलः सुबलात्मजम् ॥ ९.३२ ॥

क्षपिताशेषनृपतेः शल्यस्याथ युधिष्ठिरः ।
छित्त्वायुधानि सर्वाणि तिलशो विदधे रथम् ॥ ९.३३ ॥

अपरं रथमास्थाय मद्रराजः क्रुधा ज्वलन् ।
चकार धर्मतनयं कृत्तचापरथध्वजम् ॥ ९.३४ ॥

भीमसेनोऽथ विरथं दृष्ट्वा राजानमाकुलः ।
चकर्त मद्रराजस्य रथं सर्वायुधैः सह ॥ ९.३५ ॥

खड्गहस्तस्ततः शल्यो निघ्नन्स्यन्दनकुञ्जरान् ।
चचारालक्षिततनुर्मर्गैर्गरुडविक्रमः ॥ ९.३६ ॥

अथ ज्वालायमानेन शोणपट्टेन गुण्ठिताम् ।
भ्राजिष्णुरत्नखचितां मृत्योर्दन्तावलीमिव ॥ ९.३७ ॥

एतदन्तं कुरुबलं युद्धमेवंविधं कुतः ।
इतीव घण्टापटलैः क्रोशन्तीमशनिस्वनाम् ॥ ९.३८ ॥

युधिष्ठिरः सहस्रघ्निं दीप्तां षण्मुखविक्रमः ।
प्राहिणोन्मद्रराजाय शक्तिं शक्तिमतां वरः ॥ ९.३९ ॥

स तया भिन्नहृदयः पपात क्ष्माभृतां वरः ।
श्रोत्रनासास्यविवरस्रवद्रुधिरनिर्झरः ॥ ९.४० ॥

***** शल्यवधः ॥ १ ॥ *****

शल्ये हते कौरवाणामाशा शेषावलम्बने ।
रथिनो दुद्रुवुः सर्वे भग्नमानमनोरथाः ॥ ९.४१ ॥

ततः शल्यानुजः क्रुद्धो विचित्रकवचाभिधः ।
अभ्यायायौ धर्मराजं दारयन्तमनीकिनीम् ॥ ९.४२ ॥

पृषत्कवर्षिणस्तस्य चित्ररत्नोज्ज्वलं शिरः ।
रोहणाद्रेरिवोत्तुङ्गं शृङ्गं चिच्छेद धर्मजः ॥ ९.४३ ॥

तस्मिन्हते भज्यमानां नाथहीनां पताकिनीम् ।
परावृत्य कृपद्रौणिहार्दिक्यास्तूर्णमाययुः ॥ ९.४४ ॥

नदद्भिश्चेदिपाञ्चालैर्लब्धलक्ष्यैर्महारथाः ।
ते मुहूर्तं युयुधिरे प्रयाता बहुतामिव ॥ ९.४५ ॥

ततः स्वामिवधामर्षाद्युधिष्ठिरमभिद्रुतान् ।
हत्वा शेषानहो मद्रानमद्रां पृथिवीं व्यधात् ॥ ९.४६ ॥

अथ भीमो गदापाणिर्निपुणः क्षयकर्मसु ।
निष्पिष्य म्लेच्छान्सर्वांश्च रणं शून्यमिवाकरोत् ॥ ९.४७ ॥

ततः सात्यकिना वीरे सत्यराजे निपातिते ।
स्वयं दुर्योधनोऽभ्येत्य पाण्डुपुत्रानयोधयत् ॥ ९.४८ ॥

न रथो न गजो नाश्वो न योधः पाण्डवेष्वभूत् ।
हैमनामाङ्कितैर्व्याप्तो यो न दुर्योधनेषुभिः ॥ ९.४९ ॥

चकम्पे कुञ्जरकुलं तस्य नाराचवर्षिणः ।
मणिकाञ्चनझाङ्कारतारमौर्वीरवैर्मुहुः ॥ ९.५० ॥

दुर्योधने युध्यमाने लब्धलक्ष्यैररातिभिः ।
आययुर्द्रैणिहार्दिक्यसुशर्मकृपसौबलाः ॥ ९.५१ ॥

घोरे रणव्यतिकरे तेषां निबिडपातिनाम् ।
निरालोकोऽभवल्लोको रजसा संवृते रवौ ॥ ९.५२ ॥

कुञ्जरेन्द्रतटाघातक्षमे रजसि दुःसहे ।
विभागो नाभवत्कश्चित्कल्पापाय इवागते ॥ ९.५३ ॥

क्व द्रौणिः क्व च गान्धारः क्व च राजा सुयोधनः ।
इत्यभूद्विपुलः शब्दः पाण्डुसेनासु सर्वतः ॥ ९.५४ ॥

तस्मिन्मुहूर्ते प्रलयावर्तसंक्रान्तगोचरे ।
जघान मारुतसुतः शेषान्दुर्योधनानुजान् ॥ ९.५५ ॥

महाबाहुं भूरिबलं जैत्रं दुर्दर्शनं शलम् ।
सुनादं च स हत्वा तानुन्ननाद क्षयोचितान् ॥ ९.५६ ॥

ततो मामग्रहीद्वीरः सात्यकिर्विनरले रणे ।
संजयोऽयं मया लब्धो निगद्येति ससंभ्रमम् ॥ ९.५७ ॥

अथार्जुनः सुशर्माणं सपुत्रं सपदानुगम् ।
हत्वा संशप्तकानीकं निःशेषं विशिखैर्व्यधात् ॥ ९.५८ ॥

द्यूते रणाभिधे तस्मिन्सायकाक्षान्क्षिपन्मुहुः ।
सहदेवोर्ऽधचन्द्रेण जहार शकुनेः शिरः ॥ ९.५९ ॥

***** शकुनिवधः ॥ २ ॥ *****

उलूकं तत्सुतं हत्वा गान्धाराणामनीकिनीम् ।
जघान माद्रीतनयो वनवासदशां स्मरन् ॥ ९.६० ॥

अथ निःशेषिते सैन्ये श्रान्तो निहतवाहनः ।
अपसृत्य रणात्प्रायात्पद्भ्यां राजा सुयोधनः ॥ ९.६१ ॥

कृतवर्मकृपद्रौणिशेषे तस्मिन्महारणे ।
क्षणादशेषतां याते भूतवेतालमण्डले ॥ ९.६२ ॥

धृष्टद्युम्नस्य वचसा मां निहन्तुं समुद्यते ।
शैनेये भगवान्व्यासो ररक्ष करुणानिधिः ॥ ९.६३ ॥

ततो दिनान्ते शोकार्तः प्रस्थितोऽहं सुयोधनम् ।
अपश्यं वज्रहृदयं प्रयान्तं चक्रवर्तिनम् ॥ ९.६४ ॥

स पादचारी मां दृष्ट्वा लज्जाकुटिलकन्धरः ।
ऊचे संजयराजानं ब्रूयास्त्वं जनकं मम ॥ ९.६५ ॥

तेन कर्णेन सुहृदा तैश्च वीरैर्विना कृतः ।
ह्रदं प्रविष्टः पुत्रस्ते हीनो दुःशासनादिभिः ॥ ९.६६ ॥

मामित्युक्त्वा स संस्तम्भ्य सलिलं दैत्यमायया ।
ह्रदं विवेश विपुलं प्रौढशोकानलाकुलः ॥ ९.६७ ॥

तं स्तम्भितोरुसलिले सरसि प्रविष्टं ज्ञात्वा गिरा मम गुरोस्तनयः कृपश्च ।
भोजश्च भूपतिशिखामणिलीढपादं लक्ष्मीविलाससदनं शुशुचुस्तमेत्य ॥ ९.६८ ॥

अक्षौहिणीपरिवृतोऽथ विसृज्य गेहं रात्रौ युयुत्सुमखिलैः सह राजदारैः ।
धर्मात्मजस्तमृणशेषमिव प्रदध्यौ दुर्योधनं सह धनंजयभीममुख्यैः ॥ ९.६९ ॥

यत्पादपद्मनखचन्द्रमरीचिमाला माला इव क्षितिभृतां बभुरुत्तमाङ्गे ।
सोऽप्येक एव कुरुराजसुतः पदातिर्यातो धिगास्थिरविलासविकासि दैवम् ॥ ९.७० ॥

यस्या वशाद्बत नतोन्नतभाञ्जि भावचक्राणि हन्त विशरारुदशां विशन्ति ।
संक्रन्दनानि यतिविभ्रममुद्रितानि तस्यै नमोऽस्तु सततं भवितव्यतायै ॥ ९.७१ ॥
इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां शल्यपर्व
॥गदापर्व् ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १०.१ ॥

ततो द्रौणिमुखा वीराः समभ्येत्य रथास्त्रयः ।
ह्रदं प्रविष्टं राजानमूचुर्मानधनं शरैः ॥ १०.२ ॥

राजन्नुत्तिष्ठ संग्रामे जहि शत्रुं धनुर्धर ।
सहास्माभिरयं कालो विक्रमस्य यशोभुवः ॥ १०.३ ॥

इति श्रुत्वा कुरुपतिः प्रशंसंस्तत्पराक्रमम् ।
ऊचे प्रातः समाश्वास्य मम क्षत्रोचिता गतिः ॥ १०.४ ॥

इति तेषां समालापं श्रुत्वा ज्ञात्वा सुयोधनम् ।
शशंसुर्भीमसेनाय लुब्धका धनलुब्धकाः ॥ १०.५ ॥

भीमसेनगिरा राजा ससैन्योऽथ युधिष्ठिरः ।
कृष्णप्रधानैः सहितस्तं देशं तूर्णमाययौ ॥ १०.६ ॥

गर्जद्गजरथानीकैः पार्थान्वीक्ष्य समागतान् ।
नरेन्द्रसूचनभयात्प्रययुर्गौतमादयः ॥ १०.७ ॥

तस्य कृष्णस्य वचसा धर्मसूनुः सुयोधनम् ।
ततः स सलिलान्तःस्थमुवाच क्ष्माभृतां वरः ॥ १०.८ ॥

राजन्रजतकर्पूररजनीपतिसुन्दरम् ।
अहो वीर यशः शुभ्रं भवता मलिनीकृतम् ॥ १०.९ ॥

घातयित्वा नरपतींल्लक्ष्मीकुलगृहान्रणे ।
प्राणरक्षापरो मानी कथं जीवन्न लज्जसे ॥ १०.१० ॥

उत्तिष्ठ युद्धे स्वां लक्ष्मीं त्रिदिवं वा समाप्नुहि ।
लाक्षः समो हि वीराणां विजयो निधनं नु वा ॥ १०.११ ॥

इति यौधिष्ठिरं श्रुत्वा वचो मन्युविषाकुलः ।
प्राह दूर्योधनस्तोये स्तम्भेरमिव श्वसन् ॥ १०.१२ ॥

एवमेतद्यथात्थ त्वं श्रियं निधनमेव मे ।
बन्धुस्वजनहीना तु लक्ष्मीः कस्य मनः स्पृशेत् ॥ १०.१३ ॥

ध्वजिनी वीरहीनेन गोष्ठीव बुधवर्जिता ।
स्वजनेन विना लक्ष्मीः कस्य प्रीणाति मानसम् ॥ १०.१४ ॥

स कर्णः सुहृदामग्र्यः स गुरुः स पितामहः ।
विना तपोवनमहो सुमुनेः कस्य विस्मरेत् ॥ १०.१५ ॥

बन्धुमित्त्रवियुक्तानां भूतयो हि विडम्बनाः ।
अन्धानामिव सौन्दर्यविचित्राश्चित्रमालिकाः ॥ १०.१६ ॥

भुङ्क्ष्व भुक्तां मया पृथ्वीं वीररत्नविवर्जिताम् ।
वैराग्यमुक्ताभरणां जरतीमिव योषितम् ॥ १०.१७ ॥

इत्याकर्ण्य पृथासूनुर्धार्तराष्ट्रमभाषत ।
दिष्ट्या तपोवनरुचिः शान्तोऽसि वसुधापते ॥ १०.१८ ॥

सूच्यग्रमपि न त्याज्यं पाण्डवान्प्रति ते भुवः ।
समग्रां पृथिवीमद्य दातुमिच्छसि कौतुकम् ॥ १०.१९ ॥

उत्तिष्ठ युद्धमेकेन तवास्तु विजितः स चेत् ।
जिताः सर्वे त्वया राजन्मा प्रलापैः कृशो भव ॥ १०.२० ॥

उदतिष्ठन्निशम्यैतत्पार्थवाक्यं नृपः क्रुधा ।
सावलेपं वचः श्रुत्वा न सहन्ते हि मानिनः ॥ १०.२१ ॥

हेमाङ्गदगदापाणिः सुमेरुरिव शृङ्गवान् ।
उत्थितः स बभौ राजा दण्डधार इवापरः ॥ १०.२२ ॥

कृष्णवाक्यात्स संनद्धो गदापाणिर्वृकोदरः ।
तस्य तस्थौ पुरः कृष्णानिकारगणनापरः ॥ १०.२३ ॥

***** दुर्योधनाविर्भावः ॥ १ ॥ *****

अत्रान्तरे हलधरः कुरुपाण्डवसंक्षये ।
बन्धुनाशभयोद्विग्नस्तीर्थयात्रागतः शनैः ॥ १०.२४ ॥

तदाभ्येत्य कुरुक्षेत्रं तावपश्यद्गदायुधौ ।
शिष्ययोः समरं पश्यञ्शृण्वन्निव गिरो मिथः ॥ १०.२५ ॥

स पूजितः कृष्णमुख्यैः पार्थैः शशिशतद्युतिः ।
उपाविशन्नीलवासा हिमवानिव साम्बुदः ॥ १०.२६ ॥

इत्याकर्ण्य कथापध्ये पप्रच्छ जनमेजयः ।
तीर्थयात्रां हलभृतो वैशम्पायनमादरात् ॥ १०.२७ ॥

सोऽब्रवीत्प्रस्तुते युद्धे कुरुपाण्डवभूभुजाम् ।
आमन्त्र्य कृष्णं प्रययौ क्षयाशङ्की प्रलम्बहा ॥ १०.२८ ॥

पुष्पेण निर्गतो रामो द्विजेभ्यः सर्वकामदः ।
सरस्वतीमवाप्याथ प्रभासं शयनेन सः ॥ १०.२९ ॥

यत्र तारापतिं तारा रोहिणीसक्तमानसम् ।
खिन्ना न्यवेदयत्पित्रे तच्छापात्सोऽभवत्क्षयी ॥ १०.३० ॥

क्षणेन शापात्प्रक्षीणे शशलक्ष्मणि यक्ष्मणा ।
सर्वक्षयभयोद्विग्नैर्दैवैर्दिष्टं तदा ययौ ॥ १०.३१ ॥

तत्प्रभासं हसंस्तूर्णं तत्रापि प्राप पूर्णताम् ।
तत्र भराद्वजः स्नात्वा त्रितकूपं समाययौ ॥ १०.३२ ॥

उपेक्षितः पुरा यत्र भ्रातृभ्यां नृपतिस्त्रितः ।
स चक्रे मानसं यज्ञं ततो देवाः समभ्ययुः ॥ १०.३३ ॥

ततो वरात्सकूपोऽभूत्सोमपानफलप्रदः ।
तस्मिन्सरस्वतीतीरे सस्ने रामेण सादरम् ॥ १०.३४ ॥

ततो विनशनं पुण्यं प्राप यत्र सरस्वती ।
शूद्रभीरुकविद्विष्टा विनष्टा दुष्टनाशिनी ॥ १०.३५ ॥

स भूमिकं ततः प्रायाद्बली यत्राप्सरःसखा ।
क्रीडन्ति सुरगन्धर्वा नृत्यगीतविनोदनैः ॥ १०.३६ ॥

दुर्गस्रोतः शङ्खतीर्थं पुण्यं द्वैतवनं तथा ।
अवाप्य नगधन्वानं वसतिर्यत्र वासुकेः ॥ १०.३७ ॥

विवेश नैमिष रामो यत्र प्राची सरस्वती ।
मुनीनां दर्शनं यत्र नैमिषारण्यवासिनाम् ॥ १०.३८ ॥

सप्त सारस्वतं प्रायाद्यत्र चङ्कणको मुनिः ।
ननर्त गात्रादालोक्य निजाच्छाकरसं स्रुतम् ॥ १०.३९ ॥

नृत्यतस्तस्य सावेगं सखेलं वरकाननम् ।
मुनेस्तपःप्रभावेन जगत्सर्वं ननर्त च ॥ १०.४० ॥

देवैरथार्थितोऽभ्येत्य तस्य शम्बरदर्शनात् ।
स्वकरान्निःसृतं भस्म तेनाभून्निर्मदो मुनिः ॥ १०.४१ ॥

तस्मै स्तुतिकृते तुष्टस्तपोवृद्धिं ददौ विभुः ।
सप्तसारस्वते तीर्थे संनिधानं च शंकरः ॥ १०.४२ ॥

कपालमोचनं प्राप तीर्थमौशनसं बलः ।
यत्र जङ्घाग्रहान्मुक्तो मुनिर्घोरान्महोदरः ॥ १०.४३ ॥

राघवेषुनिकृत्तस्य राक्षसस्य शिरः पुरा ।
महोदरस्य जङ्घायां लग्नं किल विसर्पदम् ॥ १०.४४ ॥

सर्वतीर्थनिमग्नोऽपि तत्रैव स्वास्थ्यमाप सः ।
उत्तङ्काश्रममासाद्य पृथूदकमवाप च ॥ १०.४५ ॥

वसिष्ठेन जितः पूर्वं धेनुहृद्ब्रह्मतेजसा ।
राजन्यवंश्यो यत्राप ब्रह्मतां कौशिको मुनिः ॥ १०.४६ ॥

तत्र रामो ददौ भूरि धनं वार्ष्णेयनन्दनः ।
ततः सारस्वते कुञ्जे यत्रेन्द्रो नमुचेर्वधात् ॥ १०.४७ ॥

ब्रह्महत्याकुलो मुक्तस्तं प्राप दारुणं शनैः ।
सोमतीर्थं ततः प्राप यत्रेष्टममृतत्विषा ॥ १०.४८ ॥

तारकख्यो हतो यत्र षण्मुखेन महासुरः ।
स्कन्दाभिषेकात्स्नात्वाथ वह्नितीर्थं समाययौ ॥ १०.४९ ॥

यत्रानलो भृगोः शापान्नष्टोऽभून्निर्वृतः पुनः ।
कौबेरमिन्द्रतीर्थं च यामुनं चाच्युताग्रजः ॥ १०.५० ॥

देवलस्याश्रमं प्राप्य जैजीषव्यः सुयोगवित् ।
यत्र सर्वगतं ब्रह्म देवलाय जगौ मुनिः ॥ १०.५१ ॥

ततः सारस्वतं तीर्थमाससाद हलायुधः ।
अपसरोदर्शनात्पूर्वं शुक्रं निपतितं जले ॥ १०.५२ ॥

दधीचस्य मुनेस्तेन पुत्रं लेभे सरस्वती ।
दधीचस्यास्थिनिचये महेन्द्रायुधतां गते ॥ १०.५३ ॥

अनावृष्ट्यां स तनयस्तया मत्स्याशनैर्वृतः ।
सारस्वतः सुतो वेदान्स सस्मार महामतिः ॥ १०.५४ ॥

दुर्भिक्षकर्षिता नाम विस्मृतेऽध्ययने ततः ।
सर्वेषां मुनिमुख्यानां बभूव गुरुरर्थितः ॥ १०.५५ ॥

तस्मिंस्तीर्थे बलः स्नात्वा ययौ यत्र पुरा वपुः ।
सनत्कुमारी तपसा स्वर्गाय त्यक्तुमुद्यता ॥ १०.५६ ॥

नारदः प्राह नोद्वाहं विना स्वर्गो भवेदिति ।
सा गालवसुतायैव दिनभोग्यां तनुं ददौ ॥ १०.५७ ॥

कृत्वा ललितमाकारं त्रिदिवं च ययौ ततः ।
तत्र स्नात्वा च दत्वा च प्लक्षप्रस्रवणे तथा ॥ १०.५८ ॥

अवाप कारपवनं तीर्थान्यालोकयञ्शनैः ।
नारदात्तत्र शुश्राव कुरुक्षेत्रे नृपक्षयम् ॥ १०.५९ ॥

***** रामतीर्थयात्रा ॥ २ ॥ *****

पृष्टोऽथ धृतराष्ट्रेण संजयो युद्धमब्रवीत् ।
भीमसेनस्य विरथं कौरवस्य च मानिनः ॥ १०.६० ॥

समन्तपञ्चकं गत्वा पद्भ्यामेव सुयोधनः ।
तस्थावकम्पो महतामधिकं धैर्यमापदि ॥ १०.६१ ॥

ततो दुर्योधनोऽवादीद्धर्मपुत्रं सहानुगाः ।
उपविश्य निरीक्षन्तां भवन्तो युध्यमानयोः ॥ १०.६२ ॥

अजातशत्रुः श्रुत्वैतत्सह पाञ्चालसैनिकैः ।
उपाविशत्कृष्णसखः परिवार्य हलायुधम् ॥ १०.६३ ॥

अथ भीमं गदापाणिं बद्धकक्षस्तरस्विनम् ।
आजुहाव वचोयुद्धे प्रवृत्ते कुरुनन्दनः ॥ १०.६४ ॥

ततस्तयोर्गदाघातजाता वह्निकणावली ।
विदधे संभ्रमावृत्तहेमाभरणविभ्रमम् ॥ १०.६५ ॥

सुरैरापूरिते व्योम्नि युद्धदर्शनलालसैः ।
बभूव नाककान्तानां कोऽपि कौतुकविभ्रमः ॥ १०.६६ ॥

आक्षेपे वर्जने मोक्षे राजवृत्तौ निवर्तके ।
धावने समवस्थाने विप्लुते समविप्लुते ॥ १०.६७ ॥

तौ प्रगल्भतया वीरौ चित्रमण्डलचारिणौ ।
सनिर्घोषं महावेगः पार्श्वदेशमताडयत् ॥ १०.६८ ॥

ततो भीमः समाधूय गदामशनिनिःस्वनाम् ।
भ्रामयामास येनाभूद्धोरो घरघरारवः ॥ १०.६९ ॥

ततस्तां प्रहिणोद्भीमो गिरिगुर्वीं गदां जवात् ।
अकम्पितस्ताडितोऽपि पुनर्भीमोऽसृजद्गदाम् ।
पुनर्मोघीकृता राज्ञा सापतत्कम्पितावनिः ॥ १०.७० ॥

अथ वक्षस्तटे भीमः कौरवेण समाहतः ।
न विवेद क्षणं किंचिन्मूर्छाव्याकुलिताशयः ॥ १०.७१ ॥

पाञ्चालसृञ्जयानीके संदेहाकुलिते ततः ।
शनैर्भीमः समाश्वस्य पार्श्वे नृपमताडयत् ॥ १०.७२ ॥

गाढप्रहाराभिहतः पतितः कौरवेश्वरः ।
उत्थाय तूर्णमाहत्य भुवि भीममपातयत् ॥ १०.७३ ॥

अथापतत्सुरोत्सृष्ट पुष्पवृष्टिर्यशःसिता ।
साधुवादावली मूर्धि सूनवे कुरुभूपतेः ॥ १०.७४ ॥

अथोत्थिते भीमसेने परिमृज्याशु शोणितम् ।
कोऽनयोरधिको योद्धा पप्रच्छेत्यर्जुनो हरिम् ॥ १०.७५ ॥

सोऽब्रवीद्बलवान्भीमो भीमवीर्यः किमुच्यते ।
उपदेशे गदायुद्धे किंतु युद्धपराक्रमे ॥ १०.७६ ॥

स प्रयत्नः कुरुपतिर्भीमसेनाद्विलोक्यते ।
तस्मान्न धर्मयुद्धेन भीमः शक्तो निपातने ॥ १०.७७ ॥

मायया निहता दैत्या मायावध्या हि मायिनः ।
ऊरुभङ्गमतो भीमो विदधात्वस्य मायया ॥ १०.७८ ॥

अन्यथा दुर्जयो राजा त्रयोदशसमाव्यधात् ।
एष लोकभयं भीमो(मे) विधाय गदया श्रमम् ॥ १०.७९ ॥

व्यायामचतुरो वेगादूर्ध्वचारी सुयोधनः ।
महाशैलेयभङ्गोऽस्मिन्सुकरश्छिद्रदर्शनात् ॥ १०.८० ॥

उक्ते जनार्दनेनेति भीमश्चिक्षेप भीषणाम् ।
गदां तां कुरुराजोऽपि विलङ्घ्य तमताडयत् ॥ १०.८१ ॥

व्यथां संस्तम्भ्य भीमोऽथ घूर्णमानतनुः क्षणम् ।
गदां रन्ध्रं विचिन्त्यास्मै प्राहिणोत्कनकाङ्गदाम् ॥ १०.८२ ॥

पुष्पायुधपुरोदारहेमाभरणविभ्रमे ।
ऊरुयुग्मे भुजङ्गीव सा पपात महीपतेः ॥ १०.८३ ॥

निर्घातघोरघनघोषगदानिपातनिष्पेषजर्जरतरत्रुटितोरुसंधिः ।
दुर्योधनोऽथ निपपात दिवं विलोक्य वज्रावपातहतपक्ष इवाद्रिराजः ॥ १०.८४ ॥

अक्षौहिणीपतिनरेश्वरमौलिरत्नरश्मिच्छटापटलपाटलपादपीठे ।
अस्मिन्महीपरिवृढे पतिते च भूमौ कैर्निन्दितं न भवभङ्गुरभङ्गि जन्म ॥ १०.८५ ॥

***** गदायुद्धम् ॥ ३ ॥ *****

तस्मिन्नेकादशचमूनाथे भुवि निपातिते ।
चकम्पे लोलतटिनीरशना वसुधावधूः ॥ १०.८६ ॥

बभूव भयदैर्व्याप्तं दुर्निमित्तशतैर्जगत् ।
प्रशंसन्तश्च तद्युद्धं प्रययुर्व्योमचारिणः ॥ १०.८७ ॥

भीमो निकारगणनां कुर्वन्कुरुपतेः शिरः ।
चरणेनास्पृशल्लक्ष्मीविलाससदनं ततः ॥ १०.८८ ॥

तं विलोक्य रुरोदेव पतितं चक्रवर्तिनम् ।
त्वङ्गद्गदाङ्गदच्छिन्नहारमुक्ताश्रुभिर्मही ॥ १०.८९ ॥

भीमं निरस्य गर्जन्तं धर्मराजः सुयोधनम् ।
ऊचे राजंस्तवैवायमनयात्सुहृदां क्षयः ॥ १०.९० ॥

दृष्ट्वा शिरः पदा स्पृष्टं भीमेन जगतीभुजः ।
प्राहोत्तालहलः कोपकरालस्ताललाञ्छनः ॥ १०.९१ ॥

प्रतापतापितरिचोर्यशः शत्रुहृतश्रियः ।
शिरो व्याजहतस्यास्य कः स्पृशेदपशुः पदा ॥ १०.९२ ॥

इत्युक्त्वा क्रोधशिखिना तं भीमं दग्धुमुद्यतम् ।
शमयामास कंसारिस्तैस्तैर्विनयभाषितैः ॥ १०.९३ ॥

विषद्युताग्निदोषाणां प्रभावोऽसीति वादिनम् ।
कृष्णं दुर्योधनोऽवादीत्संस्तम्भ्य रुजमुत्कटाम् ॥ १०.९४ ॥

गोपालबाल मूर्खाणां संज्ञां कृत्वास्मि वञ्चितः ।
त्वया भीष्ममुखा वीरास्ते व्याजैरेव पातिताः ॥ १०.९५ ॥

भुक्तं सुहृद्भिर्विहृतं कान्ताभिर्हुतमग्र्यजैः ।
वधः क्षत्रोचितः प्राप्तः कोऽन्योऽस्ति सदृशो मया ॥ १०.९६ ॥

भ्रूभङ्गेन निवासिता वनभुवं शुष्यन्मुखाः शत्रवो दृष्टा श्रीः स्वयमर्पिताग्र्यसुहृदामुष्णीषहारस्मिता ।
संग्रामेऽप्यपराङ्मुखस्य निधनं दिक्षु प्ररूढं यशः कर्तव्य स्पृहणीयमन्यदिचितं युक्तं किमस्त्यायुषः ॥ १०.९७ ॥
इत्याकर्ण्य वचस्तस्य लज्जिता इव मानिनः ।
नृपैः सह ययुः पार्था नादयन्तो रथैर्जयम् ॥ १०.९८ ॥

अथावरोप्य प्रथमं फल्गुणं मधुसूदनः ।
रथादवातरत्पस्चाज्जज्वाल स रथस्ततः ॥ १०.९९ ॥

द्रोणकर्णास्त्रदग्धोऽयमत्यन्तं ज्वलितो रथः ।
इति पृष्टोऽवदत्पार्थं विस्मितं कालियान्तकः ॥ १०.१०० ॥

श्रुत्वेति संजयाद्राजा दारुणं मोहविह्वलः ।
शुशोच पुत्रान्वाक्यानि विदुरस्य स्मरन्मुहुः ॥ १०.१०१ ॥

ततः कृष्णमुनौ प्राप्ते कुरुवेश्म हरिर्नृपम् ।
गान्धारीं चावदत्प्राप्य विसृष्टोऽजातशत्रुणा ॥ १०.१०२ ॥

याचितोऽपिशमं नैच्छत्कौरवो निजदुर्नयात् ।
न च धर्माच्च्युताः पार्थास्तेन तेन पदं रुषः ॥ १०.१०३ ॥

पुत्रास्ते युवयोरद्य पाण्डुपुत्राः सुरत्विषः ।
युवाभ्यामेव चोक्तं प्राग्यतो धर्मस्ततो जयः ॥ १०.१०४ ॥

इति प्रसाद्य तौ याते वृष्णिवीरेऽम्बिकासुतः ।
मुनावाश्वास्य याते च शेषं पप्रच्छ संजयम् ॥ १०.१०५ ॥

सोऽब्रवीदथ पुत्रस्ते वेष्य(प)मानो महीतले ।
मामूचे पश्य सूदेन माययाहं निपातितः ॥ १०.१०६ ॥

अत्रान्तरे समभ्येत्य द्रौणिहार्दिक्यगौतमाः ।
ददृशुः कौरवपतिं नीतं कालेन तां दशाम् ॥ १०.१०७ ॥

ततो गुरुसुतः कोपाद्विनिष्पिष्य करे करम् ।
निःशेषशत्रुनिधने प्रतिज्ञां निःश्वसन्व्यधात् ॥ १०.१०८ ॥

अथ वीरं तमालिङ्ग्य चक्रे सेनापतिं नृपः ।
न ह्यहंकारशैथिल्यं पर्यन्तेऽप्यभिमानिनाम् ॥ १०.१०९ ॥

प्रलयाम्बुदनिर्घोषं विनद्य द्रोणनन्दनः ।
निशायां तां रुजा राजा विषमामगमद्दशाम् ॥ १०.११० ॥

ततो गौतमहार्दिक्यगुरुपुत्रा महावनम् ।
विविशुः कलयन्तोऽन्तः श्रियः कल्लोललोलताम् ॥ १०.१११ ॥
इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां गदापर्व
॥सौप्तिकपर्व् ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ११.१ ॥

प्रतापधाम्नि यातेऽस्तं रवौ कमलिनीप्रिये ।
शोकावकीर्णकेशेन तमोभिरभवन्मही ॥ ११.२ ॥

क्षयं कालेन नीतेऽह्नि शान्ते संध्याचितानले ।
अस्थिशेषैरिवापूर्णं तारकाभिरभून्नभः ॥ ११.३ ॥

श्यामा प्रत्यग्रदुःखेन प्रसरत्तिमिराञ्जना ।
बभार तारतरलां नक्षत्राश्रुकणावलीम् ॥ ११.४ ॥

घोरे तस्मिन्निशावक्त्रे घोरसत्त्वघने वने ।
श्रमान्निद्रामुपगते कृपे स कृतवर्मणि ॥ ११.५ ॥

ध्यायन्दुर्योधनवधं मन्युहालाहलाकुलः ।
प्रतिज्ञां शत्रुनिधने द्रौणिरेको व्यचिन्तयत् ॥ ११.६ ॥

अत्रान्तरे ददर्शोच्चन्यग्रोधशिखराश्रयम् ।
वध्यमानमुलूकेन वायसानां च मण्डलम् ॥ ११.७ ॥

काकान्कालबलेनैत्य दृष्ट्वा घूकेन पातितान् ।
तामेव पाण्डववधे नीतिं द्रौणिरचिन्तयत् ॥ ११.८ ॥

क्रुधा क्रूरां धियं कृत्वा कृपभोजौ विबोध्य सः ।
उवाच निःश्वसन्दीर्घं दह्यमान इव क्रुधा ॥ ११.९ ॥

राजा राजसहस्राणामेकाकी विषमस्थितिः ।
व्याजादस्मासु जीवत्सु भीमसेनेन पातितः ॥ ११.१० ॥

शस्त्रं वहद्भिर्मिथ्यैव दृष्टोऽस्माभिः स भूतले ।
अश्रुपातप्रतीकाराक्षमैः क्लीबतरैरिव ॥ ११.११ ॥

देशकालौ समाश्रित्य वध्यः सर्वात्मना रिपुः ।
तस्मात्प्रसुप्तानद्यैव सानुगान्हन्मि पाण्डवान् ॥ ११.१२ ॥

श्रुत्वैतत्कूणितमनाः प्रसुप्तवधपातकम् ।
कृपः कृपाकुलो निन्दन्नभाषत सुतं स्वसुः ॥ ११.१३ ॥

धिगेतत्कुत्सितं युद्धं निश्चेष्टो यत्र हन्यते ।
भग्नधैर्येऽपि नो वीराः प्रहरन्ति यशस्विनः ॥ ११.१४ ॥

भवानहं च भोजश्च कर्तारः प्रातरेव तत् ।
पुनर्येन न यास्यामो दुर्योधनवधव्यथाम् ॥ ११.१५ ॥

सुराणामपि पर्याप्ताः संहताः समरे वयम् ।
प्रवेक्ष्यामो वैरिवनं ज्वलिता इव पावकाः ॥ ११.१६ ॥

गौतमेनेत्यभिहिते संमते कृतवर्मणः ।
निःश्वसन्साश्रुन्यनः पुनर्द्रैणिरभाषत ॥ ११.१७ ॥

मायोपमा विदग्धेषु निकृत्याविचरस्तु ये ।
स्पृशन्त्यधर्ममर्यादां न ते तत्फलभागिनः ॥ ११.१८ ॥

अर्जुनेन हतः कर्णः स च शान्तनवो यथा ।
तत्किं न विदितं लोके शेषं वक्तुं न पार्यते ॥ ११.१९ ॥

अधुना स्वस्ति धर्माय रचितोऽस्मै मयाञ्जलिः ।
पराभवमिमं तावन्न सहे मर्मदारणम् ॥ ११.२० ॥

द्रौणिर्दारुणसंकल्पमित्युक्त्वा कृतनिश्चयः ।
रथेन तमसि प्रायाच्छिबिरं कौरवद्विषम् ॥ ११.२१ ॥

कृष्णस्य शासनात्पूर्वं यातेषु शिबिरान्तरम् ।
सह सात्यकिना योधैः पाण्डवेषु विनानुगैः ॥ ११.२२ ॥

कृपभोजावतिक्रम्य जवाद्द्रौणिरुपागतः ।
शिबिरद्वारमासाद्य महद्भूतं व्यलोकयत् ॥ ११.२३ ॥

हरिश्मश्रुजटानेत्रं ज्वालानामिव संचयम् ।
तमसामिव संघातमञ्जनाचलसंनिभम् ॥ ११.२४ ॥

सहस्रशीर्षनयनं सहस्रचरणाद्भुतम्।
सर्पयज्ञोपवीताङ्गं सर्पकेयूरकङ्कणम् ।
भयंकरं भयस्यापि कृतान्तस्येव दैवतम् ॥ ११.२५ ॥

तद्दृष्ट्वा घोरसंरम्भो द्रौणिर्दुर्जयविक्रमः ।
सर्वायुधावली तस्मै प्राहिणौद्धैर्यभूधरः ॥ ११.२६ ॥

तान्यायुधानि सहसा ज्वलितान्येव तेजसा ।
बृम्भमाणं महद्भूतं तदासाद्य क्षयं ययुः ॥ ११.२७ ॥

द्रौणिस्ततस्तदाकारमरीचिभ्यो व्यलोकयत् ।
चक्रायुधसहस्रणि निःसृतानि स विस्मयः ॥ ११.२८ ॥

क्षणाद्ग्रस्तायुधस्तेन गाढानुशयतापितः ।
प्रस्तुतं मलिनं कर्म निनिन्द स्वयमाकुलः ॥ ११.२९ ॥

स रथादवतीर्याथ प्रयतस्त्रिपुरान्तकम् ।
शूलिनं शरणं प्रायात्तत्स्तोत्रमुखराननः ॥ ११.३० ॥

आत्मोपहारं रुद्राय तस्मिन्दातुं समुद्यते ।
ज्वालाकुला हेमवेदी पुरस्तात्प्रत्यदृश्यत ॥ ११.३१ ॥

तदुद्भूतैर्गणैर्घोरैर्नानाप्राणिमुखोदरैः ।
नानाप्रहरणैर्दीप्तैर्व्योम क्षिप्रमपूरयत् ॥ ११.३२ ॥

ततो वेद्यां महावह्नौ ज्वलिते द्रोणनन्दनः ।
भक्त्यात्मानं त्रिनेत्राय निवेद्याभ्यपतत्स्वयम् ॥ ११.३३ ॥

तुष्टोऽथ भगवानेत्य स्वयमन्धकसूदनः ।
तमुवाच स्वमेवांशमुत्तिष्ठाङ्गिरसां वर ॥ ११.३४ ॥

संस्थानाय मयैतावत्कृतं कैटभविद्विषः ।
आत्गानं विद्धि मे कृष्णं स मे बहुमतः सदा ॥ ११.३५ ॥

कालपक्वास्तु पाञ्चाला नैषां रक्षास्ति कुत्रचित् ।
गृहाण खड्गमेतेन दारयैतानशङ्कितः ॥ ११.३६ ॥

इत्युक्त्वा भैरवे दीप्तं खड्गं दत्वा तिरोहिते ।
तदा विकाराद्दुष्प्रेक्ष्यो द्रौणिः शिबिरमाविशत् ॥ ११.३७ ॥

द्वारि भोजकृपौ धृत्वा विद्रुतानां वधाय सः ।
प्रविश्य शयने शुभ्रे धृष्टद्युम्नं व्यलोकयत् ॥ ११.३८ ॥

तारहारांशुनखरं दीप्तकेसरिसंनिभम् ।
घूर्णमानशिखैर्दीपैर्विस्मयादिव वीक्षितम् ॥ ११.३९ ॥

अनेकरणसंमर्दश्रान्तैर्निद्राविमोहितैः ।
अधिष्ठितं बहुभटैर्मुक्तपर्याणवाहनैः ॥ ११.४० ॥

तं दृष्ट्वा कोपशिखिना दह्यमानः स्मरन्पितुः ।
उत्तिष्ठ रे गुरुघ्नेति द्रौणिरुक्त्वा पदास्पृशत् ॥ ११.४१ ॥

बोधितः सहसा तेन संभ्रमस्वीकृतायुधः ।
द्रोणपुत्रं परिज्ञाय चकम्पे द्रुपदात्मजः ॥ ११.४२ ॥

द्रौणिस्तमुत्थितं वेगान्माल्यवद्भिः शिरोरुहैः ।
आकृष्यापातयत्कण्ठे गाढं निष्पीड्य विह्वलम् ॥ ११.४३ ॥

निष्पिष्यमाणः संरम्भाद्रक्तोद्गाराकुलाननः ।
कुपित्वा पादयोर्द्रैणिं नखैर्दन्तैश्च विस्फुरन् ॥ ११.४४ ॥

शस्त्रेण छिन्धि मां तूर्णं मा पदेनेति गद्गदम् ।
कण्ठरुद्धस्वरः श्वासादस्फुटाक्षरमभ्यधात् ॥ ११.४५ ॥

तमब्रवीद्द्रोणसुतः पाप पद्भ्यां निहन्यसे ।
लोकानां शस्त्रपूतानां न पापं गुरुघातिनाम् ॥ ११.४६ ॥

इत्युक्त्वा चरणाघातैर्जर्जरं तमपोथयत् ।
तस्मिन्हते तद्विमर्दशब्देन बुबुधे जनः ॥ ११.४७ ॥

***** धृष्टद्युम्नवधः ॥ १ ॥ *****

ततो द्रौणिं समालेक्य रिपुरक्तच्छटाङ्कितम् ।
पाञ्चाला द्रौपदेयाश्च कालोऽयमिति मेनिरे ॥ ११.४८ ॥

निद्राशेषारुणदृशां शस्त्राण्यानयतां मिथः ।
क्रोशतां वर्म वर्मेति तेषामासीन्महास्वनः ॥ ११.४९ ॥

क्व गजः क्व रथः क्वाश्वः क्व चापं क्व शिलीमुखाः ।
इति ब्रुवाणान्खङ्गेन द्रौणिश्चिच्छेद तान्क्रुधा ॥ ११.५० ॥

हत्वोत्तमौजसं पद्भ्यां कण्ठे कठिनविक्रमः ।
गदाहस्तं युधामन्युं निष्पिपेष विराविणम् ॥ ११.५१ ॥

ततः खङ्गेन शूराणां शिरांसि भुवि पातयन् ।
कालरात्र्याः स विदधे विनोदं कन्दुकैरिव ॥ ११.५२ ॥

कृष्णासुतानापततो द्रौपदेयानसंभ्रमात् ।
चकार करवालेन स कालकवलोचितान् ॥ ११.५३ ॥

प्रतिविन्ध्ये हते वीरे सुतसोमे निपातिते ।
श्रुतकीर्तै शतानीके छिन्ने च श्रुतवर्मणि ॥ ११.५४ ॥

शिखण्डी कृष्टकोदण्डः शरैर्द्रैणिमपूरयत् ।
द्रोणपुत्रोऽपि खड्गेन क्रुद्धस्तं विदधे द्विधा ॥ ११.५५ ॥

***** द्रौपदेयशिखण्डिवधः ॥ २ ॥ *****

कोपादाचार्यपुत्रेण वध्यमानाः प्रभद्रकाः ।
मत्स्यसृञ्जयपाञ्चालाः कालं ददृशुरन्तिके ॥ ११.५६ ॥

असितं रक्तवसनं रक्तमाल्यानुलेपनम् ।
हसन्तं वीक्ष्य तं वीराः संहारं मेनिरे स्फृटम् ॥ ११.५७ ॥

घनान्धकारे वीराणां रथकुञ्जरवाजिनाम् ।
योधानां च क्षयं द्वारि चक्रतुर्भोजगौतमौ ॥ ११.५८ ॥

एवमक्षौहिणीं हत्वा वसारक्तानुलेपनः ।
निर्ययौ रौद्रचरितो द्रौणिर्भैरवविग्रहः ॥ ११.५९ ॥

स गत्वा सहितस्तूर्णं हार्दिक्येन कृपेण च ।
ददर्श भुवि राजानं भग्नशक्तिं सुयोधनम् ॥ ११.६० ॥

वारयन्तं गदाग्रेण मुहुः क्रव्यादमण्डलम् ।
व्यथया मर्मदिन्या भक्षयन्तं वसुंधराम् ॥ ११.६१ ॥

शोणितं वदनोद्वान्तं परिमृज्याशु तस्य ते ।
सर्वपाञ्चलसंहारकथया ववृषुः सुधाम् ॥ ११.६२ ॥

स किंचिच्छेषजीवोऽपि तच्छ्रुत्वा वृत्तकन्धरः ।
पर्यन्तग्रसिताव्यक्तभाषितैः प्रशशंस तान् ॥ ११.६३ ॥

स परिष्वज्य यत्नेन द्रौणिं साश्रुविलोचनम् ।
पुनर्नः संगमः स्वर्गे भूयादित्यवदच्छनैः ॥ ११.६४ ॥

अङ्गे विधाय दयितां स गदां सदैव भुक्तां चिरं वसुमतीमवगूह्य दोर्भ्याम् ।
कर्णावलम्बितबलोद्गतजीवचारो वीरः शनैः सुरवधूप्रणयी बभूव ॥ ११.६५ ॥

***** दुर्योधनस्वर्गगमनम् ॥ ३ ॥ *****

अत्रान्तरे प्रयातायां क्षपायां क्षपितारयः ।
जज्ञिरे पाण्डवाः कर्म दारुणं द्रौणिना कृतम् ॥ ११.६६ ॥

मुक्तान्महाभयात्तस्मात्कृष्णा श्रुत्वा हतान्सुतान् ।
अनुजांश्च सपाञ्चालान्पपात भुवि मूर्च्छिता ॥ ११.६७ ॥

शनकैर्लब्धसंज्ञा सा विलपन्ती सुलोचना ।
पार्थानां शोकविधुरा हृदयानि व्यदारयत् ॥ ११.६८ ॥

यावन्न विशिखैः कृत्तमुत्तमाङ्गं विकर्मणः ।
द्रौणेर्दृष्टं मया तावज्जीवितस्यायमञ्जलिः ॥ ११.६९ ॥

इत्युक्त्वा द्रौपदी दुःखाद्वीक्षमाणा वृकोदरम् ।
नोवाच किंचित्संतापान्मरणे कृतनिश्चया ॥ ११.७० ॥

ततो भीमः प्रियाशोकशूलेनाभ्याहतो हृदि ।
प्रययौ रथमारुह्य द्रोणपुत्रजिघांसया ॥ ११.७१ ॥

व्रजतस्तस्य कालग्नेरिव लोकान्दिधक्षतः ।
धूममालाभ्रमं चक्रे ललाटे भ्रुकुटिः क्षणम् ॥ ११.७२ ॥

रौद्रो रुद्राश्रयो द्रौणिः क्रुद्धश्च पवनात्मजः ।
गच्छामः पृष्ठतस्तस्मादित्यूचे पाण्डवान्हरिः ॥ ११.७३ ॥

ततः किरीटिप्रमुखाः सह सात्यकिना ययुः ।
रथिनः सेषवः सर्वे पाण्डुपुत्रा युयुत्सवः ॥ ११.७४ ॥

ततस्ते द्रौणिमासाद्य प्रसुप्तवधपातकात् ।
ध्वस्तच्छायं क्रियाहीनं कोपेनाकुलतां ययुः ॥ ११.७५ ॥

अभिद्रुते भीमसेने द्रौणिं नकुलसारथौ।
पादचारी घृताभ्यक्तः सरस्वत्यास्तटे क्षणम् ।
अपाण्डवं जगत्कर्तुं ब्रह्मशीर्षास्त्रमाददे ॥ ११.७६ ॥

तद्विनाशाय पार्थोऽपि ब्रह्मास्त्रमसृजत्कृती ।
येनाभवन्दिशो व्याप्ताः कम्पातङ्कतरङ्गिताः ॥ ११.७७ ॥

अत्रान्तरे समभ्यायान्नारदेन सह स्वयम् ।
मुनिः सत्यवतीसूनुर्भगवान्भूतभावनः ॥ ११.७८ ॥

सोऽब्रवीद्द्रोणतनयं जिष्णुं च क्षयशङ्कितः ।
अयं दिव्यास्त्रसंमर्दे हतवीरं जगद्दहेत् ॥ ११.७९ ॥

पार्थ संहर दिव्यास्त्रं त्वं च द्रौणे गिरा मम ।
अकाण्डे मा भवन्त्वेते लोकाः प्रलयभागिनः ॥ ११.८० ॥

इत्युक्ते मुनिना क्षिप्रं संजहारास्त्रमर्जुनः ।
द्रौणिः प्रयोगकुशलो नेशोऽभूदस्त्रसंहृतौ ॥ ११.८१ ॥

ततः प्रज्वलिते लोके व्यथिते सुरमण्डले ।
अभिमन्युवधूगर्भे द्रौणिरस्त्रमपातयत् ॥ ११.८२ ॥

भूयस्तत्प्रतिषेधाय पुत्रसंतानवाञ्छया ।
निन्दन्द्रोणसुतं पार्थस्तदस्त्रं कुपितोऽसृजत् ॥ ११.८३ ॥

ततः कृष्णोऽवदज्जिष्णुं विषण्णं संततिक्षयात् ।
मा शुचो धैर्यजलधे न ते वंशो विनङ्क्ष्यति ॥ ११.८४ ॥

जात्वेनं जीवयिष्यामि दग्धमप्यस्त्रतेजसा ।
उत्तरायाः स्थितं गर्भे सौभद्रतनयं शिशुम् ॥ ११.८५ ॥

इति ब्रुवाणे गोविन्दे पार्थास्त्रे ज्वलिते भुवि ।
उवाच द्रोणतनयं व्यासो देवर्षिणा सह ॥ ११.८६ ॥

त्यज चूडामणिं रक्ष जीवरत्नं महास्त्रतः ।
अशक्तश्च प्रमादी च जानीषे न यथोचितम् ॥ ११.८७ ॥

वत्सराणां सहस्र त्वं विस्ररोगी समाहितः ।
दुर्भिक्षव्यञ्जको दुःखी विजने विचरिष्यसि ॥ ११.८८ ॥

इति शप्तो गुरुसुतः कोपाद्व्यासमभाषत ।
व्यसने पतितः कस्मात्क्षिप्तोऽहं संकटे त्वया ॥ ११.८९ ॥

यत्र यत्र भविष्यामि तत्र तत्र ममानुगः ।
त्वमपि प्रतिशापेन मुने नित्यं भविष्यसि ॥ ११.९० ॥

इत्युक्त्वास्त्रोपहाराय चूडारत्नं वितीर्य सः ।
प्रययौ द्रोणतनयो मुनिश्च मुनिना सह ॥ ११.९१ ॥

ततः प्रशान्ते ब्रह्मास्त्रे पाण्डवाः सह शौरिणा ।
चूडारत्नं समादाय याज्ञसेन्यै न्यवेदयन् ॥ ११.९२ ॥

***** ऐषीकमस्त्रम् ॥ ४ ॥ *****

एवं प्रसाद्य पाञ्चालीं शोकार्ताः पाण्डुनन्दनाः ।
पाञ्चालकदनं घोरं ध्यायन्तो न ययुर्वृतिम् ॥ ११.९३ ॥

संजयेनेति कथिते श्रुत्वा राजाम्बिकासुतः ।
पपात मूर्च्छितो मोहाल्लीनशोकानलः क्षणम् ॥ ११.९४ ॥

तं शीतसलिलापूरैराश्वास्योवाच संजयः ।
मन्त्रिणश्च प्रियान्पुत्राञ्शोचन्तं व्यथितेन्द्रियम् ॥ ११.९५ ॥

स्वप्नमायाविलसितैः पर्यन्ते शोकमोहदैः ।
संसारविभ्रमैर्धीराः स्पृश्यन्ते न मनीषिणः ॥ ११.९६ ॥

देवैन्द्रजालिककृतैश्छायाक्रीडनकैरिव ।
पुत्रैर्धनैश्च दारैश्च न मुह्यन्ति मदाशयाः ॥ ११.९७ ॥

उपेक्षितस्त्वयैवायं दुर्नयाद्बान्धवक्षयः ।
वृत्ते तस्मिन्नमिथ्यैव शोकं कर्तुमिहार्हसि ॥ ११.९८ ॥

प्रभावप्रभवैर्भावैर्मायाविभवभावितैः ।
अभावनिष्ठापर्यन्तैः सतां न क्रियते भ्रमः ॥ ११.९९ ॥

स्वकर्ममुद्रिते लोके नियतौ प्रलयोदधौ ।
कलयामि न कालस्य कश्च तावति वर्तते ॥ ११.१०० ॥

इत्यादि संजयमुखा नृपमुग्रमोहभग्नं स्वयं विहितदुर्नयदृष्टपारम् ।
हेलावलत्कलभच्ञ्चलकर्णताललोलां भवस्थितिकथामसकृत्तमूचुः ॥ ११.१०१ ॥

इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां सौप्तिकपर्व

॥स्त्रीपर्व् ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १२.१ ॥

गान्धारी धृतराष्ट्रश्च राजा व्याकुलमानसौ ।
हतावथ सुतान्द्रष्टुं सोत्कण्ठाविव जग्मतुः ॥ १२.२ ॥

तत्र तौ विलपन्तौ च क्षिपन्तौ च तनुं भुवि ।
भगवानथ चाभ्येत्य पाराशर्यो व्यलोकयत् ॥ १२.३ ॥

स दीनं पतितं भूमौ हतपुत्रं नरेश्वरम् ।
विदुरेण सहोवाच कृष्णेन च कृपाकुलः ॥ १२.४ ॥

अभावः प्राक्च पश्चाच्च देहिनां सततं स्थितः ।
तेषु मध्यविकारेषु कः श्नेहं कर्तुमर्हसि ॥ १२.५ ॥

अपारेऽस्मिन्भवाम्भोधौ भवन्ति न भवन्ति च ।
जलबुद्बुदवत्सर्वे कर्मयोगेन जन्तवः ॥ १२.६ ॥

सत्यं भूभारशान्त्यर्थमजायत सुयोधनः ।
स च यातस्तथा कृत्वा कस्त्वं तस्य स कस्तव ॥ १२.७ ॥

नरेन्द्र मा कृथाः शोकं प्रवृत्तेऽस्मिन्महालये ।
प्रतीपमेति यातानां कणिकापि न पार्षदाम् ॥ १२.८ ॥

आयासाय प्रयासोऽयं शोकव्यसनसंभवः ।
अधुना दुःखवृक्षाणां स्नेहो मूलं निवार्यताम् ॥ १२.९ ॥

नमः कालाय यः कोऽपि विद्यते मृत्युना वृतः ।
कायो वार्धकमायाति स्वयं येन शरीरिणाम् ॥ १२.१० ॥

आत्मापराधात्पुत्रास्ते कालेन कवलीकृताः ।
तस्मान्न पाण्डपुत्रेभ्यः किल्बिषात्क्रोद्धमर्हसि ॥ १२.११ ॥

धर्मनित्याः कृतधियस्ते धर्मेण क्षतास्तव ।
पाण्डवा भ्रातरं स्मृत्वा कालुष्यं तेषु मा कृथाः ॥ १२.१२ ॥

गान्धारीं ब्रूहि सहसा मोहे मज्जति नो यथा ।
एषैवोक्तवती पूर्वं जये धर्मो निबन्धनम् ॥ १२.१३ ॥

इति तेषां गिरा क्षिप्रं समोहं कौरवेश्वरम् ।
द्रष्टुमभ्याययुः पार्था लज्जानम्रशिरोधराः ॥ १२.१४ ॥

आलिलिङ्ग ततो राजा प्रज्ञाचक्षुर्युधिष्ठिरम् ।
भीमं मायामयं पश्चात्कृष्णबुद्ध्या विवर्धितम् ॥ १२.१५ ॥

आययौ मारुतिर्द्वेषाद्भुजाभ्यां तेन पीडितः ।
प्रययौ कणशस्तेन सर्वे विस्मयमाययुः ॥ १२.१६ ॥

धर्मसूनुस्ततो वृद्धां प्रणनाम पतिव्रताम् ।
गान्धारीं भर्तृसादृश्यात्सदा वस्त्रावृतेक्षणाम् ॥ १२.१७ ॥

अधो निपतितस्तस्याः पादयोर्धर्मनन्दनः ।
ददाहाङ्गुष्ठयुगलं दृष्टिकोपानलाकुलः ॥ १२.१८ ॥

ततो हतानां दुःखार्ता वल्लभा जगतीभुजाम् ।
रणमध्यं प्रतिययुर्गान्धारी च स्नुषाकुला ॥ १२.१९ ॥

विलप्य करुणं तत्र विह्वला सुबलात्मजा ।
बभाषे केशवं सास्रा दिव्यदृष्टिः पतिव्रता ॥ १२.२० ॥

पश्यैतान्कृष्ण मत्पुत्रान्सीमन्तिन्यो रणे हतान् ।
शोचन्ति याः पुरा दृष्टा न सूर्येण न चेन्दुना ॥ १२.२१ ॥

पश्यान्तःपुरचारीभिरप्सरोभिरिवावृतः ।
संमुखं निहतः शूरो भग्नोरुस्तनयो मम ॥ १२.२२ ॥

हतनागां हताश्वां च सुयोधनवधूरियम् ।
क्ष्मां सपत्नीमिवालोक्य पश्य मूर्च्छामुपागता ॥ १२.२३ ॥

लब्धसंज्ञा शनैरेषा परिमृज्य रजश्चिरम् ।
राजराजस्य महिषी परिपृच्छति वल्लभम् ॥ १२.२४ ॥

उत्सङ्गे मामिवादाय रत्नांशुकवतीं गदाम् ।
दोर्भ्यां च भुवमालिङ्ग्य कथं सुप्तोऽसि भूपते ॥ १२.२५ ॥

न ते कनकपर्यङ्के विलासशयने वृता ।
अस्मिन्नरपते सुप्ता रक्तक्षीबा कथं शिवा ॥ १२.२६ ॥

एषः दुःशासनः शेते प्रियो रम्यस्तवानुजः ।
निपीतं राक्षसेनेव यस्य भीमेन शोणितम् ॥ १२.२७ ॥

अयं ते दयितः पुत्रो लक्ष्मणः शत्रुणा हतः ।
सजीव इव वक्तुं त्वं नाथ किंचित्समीहते ॥ १२.२८ ॥

दन्तस्तम्भाविव भ्रष्टावनङ्गङ्गनतोरणौ ।
सरलौ पातितावत्य(?) मन्येते कालदन्तिना ॥ १२.२९ ॥

अयं ते मौलिरुचितश्चिरं मूर्ध्नि सुखोषितः ।
रोचिष्णुरिह विभ्रष्टः स्पृष्टः कान्तिपरिक्षयात् ॥ १२.३० ॥

पादाभ्यां रुधिरार्द्राभ्यां रणसंचारिणस्तव ।
वान्तेव सतता पीता राजचूडामणिच्छविः ॥ १२.३१ ॥

लोकपाले त्वयि दिवं याते नन्दनकौतुकात् ।
धन्याभिमानितेवैका कीर्तिस्त्वदनुयायिनी ॥ १२.३२ ॥

भ्राजिष्णुरत्नवलये दोष्णि कर्पूरपाण्डुरे ।
कस्यान्यस्य मही यातु शेषविश्रान्तिनिर्वृतिम् ॥ १२.३३ ॥

यः स कङ्कण्झाङ्कारैर्व्यजनैर्विजितो नृपः ।
क्रव्यादपक्षिवातेने सोऽयमद्यापि वीज्यते ॥ १२.३४ ॥

इति दुर्योधनवधूं क्रोशन्तीं कौरवस्त्रियः ।
समाकृष्य विवेष्टन्ते पतिताः पश्य भूतले ॥ १२.३५ ॥

इतः सुभद्रा सौभद्रं पुत्रकं पुत्रवत्सला ।
परिमार्ष्टि रजोदिग्धं स्तनौ दातुमिवोद्यता ॥ १२.३६ ॥

अङ्के शशाङ्कसदृशं कृत्वेयं पत्युरुत्तरा ।
वदनं बाष्पधाराभिः प्रक्षाल्य परिपृच्छति ॥ १२.३७ ॥

अयि नाथ तथा तत्तदुक्त्वा प्रणयपेशलम् ।
भूमिमालिङ्ग्य किं शेषे प्रियामद्य विहाय माम् ॥ १२.३८ ॥

गाण्डीवधन्वनः पुत्रश्चक्रपाणेः स्वसुः सुतः ।
त्वं शक्रसदृशः शौर्ये कथमेको हतः परैः ॥ १२.३९ ॥

इदं ते वदनं कान्तं कमलाकमलोपमम् ।
नूनमापास्यति स्मेरं धन्यः स्वर्गवधूजनः ॥ १२.४० ॥

नन्वनङ्गतयानङ्गस्त्वय्यभून्नोपमास्पदम् ।
सोऽयमङ्गवधात्कान्त त्वयाद्य सफलीकृतः ॥ १२.४१ ॥

शशाङ्कशङ्कया शङ्के त्वयि त्रिदिवगामिनि ।
करोति तारकापङ्क्तिः कण्ठे मुक्तावलीभ्रमम् ॥ १२.४२ ॥

याहं त्वया नववधूः प्रत्यालापं पुरार्थिता ।
त्वां स्वयं भाष्यमाणां मां कथं न प्रतिभाषसे ॥ १२.४३ ॥

क्व नु सर्वगुणग्रामगणनीयस्य ते गतम् ।
दाक्षिण्यं स्वर्गललनासक्तो यन्मामुपेक्षसे ॥ १२.४४ ॥

पुनः कर्तुमशक्येऽस्मिन्धातुः सौभाग्यवर्णने ।
प्रहृतं त्वच्छरीरे यौर्धिक्तान्दग्धविलोचनान् ॥ १२.४५ ॥

कुसुमायुधतुल्यस्य कुसुमायुधतैव ते ।
नूनं रणेऽभूत्त्वां वीराः सेहिरे कथमन्यथा ॥ १२.४६ ॥

एवं विलापिनीं बालां बलादाकृष्य पुत्रिकाम् ।
विराटपत्न्यो यान्त्येता रुदन्त्यः पत्युरन्तिकम् ॥ १२.४७ ॥

सानुजः स सुतामात्यो विराटनृपतिर्हतः ।
वधूभिरावृतो भूमौ दिवीवाप्सरसां गणैः ॥ १२.४८ ॥

एषा द्रोणशच्छिन्नं सुदोष्णा भर्तुराननम् ।
विलोक्य तारं क्रोशन्ती रुद्धा सख्येव मूर्च्छया ॥ १२.४९ ॥

क्रव्यादलुप्तावयवं पश्य कर्णं वधूजनः ।
परायणं कौरवाणामालिङ्ग्यालिङ्ग्य शोचति ॥ १२.५० ॥

नाम्नि संकीर्तिते यस्य प्रापुर्निद्रां न शत्रवः ।
स त्वमद्य हतः शेषे धिक्कालस्य दुरन्तताम् ॥ १२.५१ ॥

जम्भारिरभवद्यस्य वर्मकुण्डलयाचकः ।
सत्यसंधः कथं कणः कर्णशेषीकृतः खगैः ॥ १२.५२ ॥

निसर्गविसरः सर्गः सर्वथा हतवेधसः ।
कृत्वा यः शक्रतुल्यत्वं न चक्रे कल्पसाक्षिणम् ॥ १२.५३ ॥

इति प्रकीर्णाभरणाः क्रन्दन्त्यः कर्णयोषितः ।
दारयन्ति कुचाभोगं वृषसेनस्य मातरः ॥ १२.५४ ॥

पश्य जामातरं कृष्ण हतं मम जयद्रथम् ।
बाला शोचिति मत्पुत्री न च जानाति शोचितुम् ॥ १२.५५ ॥

एष शल्यो हतः संख्ये रिपुशल्यपराक्रमः ।
शल्यतामधुना यातः पश्यान्तःपुरयोषिताम् ॥ १२.५६ ॥

पश्यास्य कृष्यते जिह्वा मद्रराजस्य वायसैः ।
राधेयस्यैष विदधे युधि तेजोवधं यया ॥ १२.५७ ॥

पश्य द्रोणस्य समरे वह्नेः शान्तार्चिषो यथा ।
संस्कारः क्रियते विप्रैः क्रिमीनुत्सार्य मूर्च्छितान् ॥ १२.५८ ॥

एष भूरिश्रवा वीरः सोमदत्तसुतो हतः ।
महिष्या शोच्यते वीरश्छिन्नबाहुः किरीटिना ॥ १२.५९ ॥

रणयज्ञमहीयूपे यूपध्वजभुजे तव ।
निकृते जिष्णुना मन्ये यशो निर्लूनमात्मनः ॥ १२.६० ॥

लक्ष्मीकरेणुकालाने भूभारभुजगेश्वरे ।
शिवाकृष्टे विरौतीव दोष्णि ते कङ्कणावली ॥ १२.६१ ॥

चन्द्रिकाभरणे हर्म्ये त्वत्प्रेमाभरणाः स्त्रियः ।
आलिलिङ्ग पुरा सोऽयं विलासाभरणो भुजः ॥ १२.६२ ॥

अर्थिकल्पद्रुमे दोष्णि च्छिन्नेऽस्मिञ्शत्रुयोषिताम् ।
वैधव्यदीक्षागुरुतां वीर यास्यति कोऽपरः ॥ १२.६३ ॥

हठकण्ठग्रहः प्रौढः को नाम हरिणीदृशाम् ।
केयूरकान्तिकलिकां कर्णपूरीकरिष्यति ॥ १२.६४ ॥

इति प्रलापिनी वक्ति विह्वला कमलेश्वरम् ।
प्रवरं भूरियशसं भूरिश्रवसमात्मना ॥ १२.६५ ॥

हितोपदेशविद्वेषी शुकुनिः पश्य भक्ष्यते ।
शिवाभिरशिवाचारो वेश्याभिरिव वित्तवान् ॥ १२.६६ ॥

पृथिवी क्षपिता क्षिप्रं क्षुद्रैः कर्णान्तगामिभिः ।
इतः पूर्वमनेनाक्षैरितो बाणैः किरीटिना ॥ १२.६७ ॥

इतः सुदक्षिणस्यैताः प्रियाः काम्बोजभूपतेः ।
हृदयानि प्रलापेन दारयन्त्यश्मनामपि ॥ १२.६८ ॥

सौभद्रशरनिर्भिन्नं राजपुत्रं बृहद्बलम् ।
एताः कोमलकामिन्यः शोतन्ति शशिरोचिषम् ॥ १२.६९ ॥

धृष्टद्युम्नसुता दीप्तहेममालाविभूषिताः ।
भान्त्येते द्रोणनिहता भ्रष्टा विद्याधरा इव ॥ १२.७० ॥

केकयो धृष्टकेतुश्च जयत्सेनश्च मागधः ।
वृद्धश्च राजा द्रुपदः सामात्यसुतबान्धवः ॥ १२.७१ ॥

अलायुधोऽलम्बुसश्च भगदत्तः श्रुतायुधः ।
विन्दानुविन्दावावन्त्यौ जलसंधः सुलोचनः ॥ १२.७२ ॥

प्रवराः पार्थिवाश्चान्ये हता वीराः सहस्रशः ।
लब्धजीवा इवाभान्ति कान्ताभिः परिवारिताः ॥ १२.७३ ॥

शक्तेनापि त्वया कृष्ण यस्मात्कामादुपेक्षिताः ।
सर्वक्षयाद्वा द्वेषाद्वा सर्वज्ञेन च लीलया ॥ १२.७४ ॥

षङ्विंशे वत्सरे प्राप्ते वृष्णीनां समरे मिथः ।
तस्मात्तावापि भविता विपुलो बान्धवक्षयः ॥ १२.७५ ॥

तवाप्यनुचितः कोऽपि वधहेतुर्भविष्यति ।
इत्युक्त्वा तारकरुणं रुरोद सुबलात्मजा ॥ १२.७६ ॥

तामुवाच हसन्कृष्णः स्वेच्छासृष्टलयोदयः ।
विधिनैतत्पुरादिष्टं पुनरुक्तं त्वयोदितम् ॥ १२.७७ ॥

अवश्यभाविनि शुचं क्षयेऽस्मिन्मा वृथा कृथाः ।
अवश्यं क्षत्रियसुते हन्ताहं किल विद्विषाम् ॥ १२.७८ ॥

इत्युक्तवति दाशार्हे धृतराष्ट्रो युधिष्ठिरम् ।
गतिं पप्रच्छ वीराणां परिमाणं च संक्षये ॥ १२.७९ ॥

तमब्रवीद्धर्मराजो लक्षणामधुरं रणे ।
विंशतिश्च सहस्राणि कोट्यः षडधिकाश्च षट् ॥ १२.८० ॥

वीराणां गणनार्हाणामस्मिन्नायोधने हताः ।
अप्रहृष्टा हता ये च ते गन्धर्वपुरं गताः ॥ १२.८१ ॥

भयात्पराङ्मुखा ये च ते यक्षत्वमुपागताः ।
ये त्वखण्डितसत्त्वस्थास्ते ब्रह्मभुवनं श्रिताः ॥ १२.८२ ॥

मेरुपार्श्वं प्रयातास्ते ये पद्भ्यां वाहनैर्हताः ।
प्रसादाल्लोमशस्यैतन्मुनेः पश्यामि दिव्यदृक् ॥ १२.८३ ॥

इत्युक्त्वा धर्मतनयो हतानां जगतीभुजाम् ।
बन्धूनां चादिदेशाशु संस्कारं विभवोचितम् ॥ १२.८४ ॥

इन्द्रसेनमुखाः सूताः संजयो विदुरस्तथा ।
युयुत्सुश्च गिरा तस्य तेषामन्त्यविधौ ययुः ॥ १२.८५ ॥

माल्यैर्वस्त्रैरंलकारैर्भूषितास्ते महारथाः ।
चितानलेषु निहिताः स्वप्रतापमिवाविशन् ॥ १२.८६ ॥

अथोदतिष्ठन्नारीणां संहतानामितस्ततः ।
मिथः कण्ठविलग्नानां करुणो रोदनध्वनिः ॥ १२.८७ ॥

धृतराष्ट्रेण सहितः सानुगोऽथ युधिष्ठिरः ।
अनुयातो नृपस्त्रीभिर्ययौ स्नातुमथापगाम् ॥ १२.८८ ॥

श्रावितः कर्णवृत्तान्तं स मात्रा गूढसंभवम् ।
भ्रात्रे दुःखाद्ददौ तस्मै बाष्पमिश्रां जलाञ्जलिम् ॥ १२.८९ ॥

स यथाविधि बन्धूनां विधाय स्वोचितां क्रियाम् ।
आदिदेश नृपस्त्रीणां क्रियायौ पटमण्डपान् ॥ १२.९० ॥

ता भूमिपालललना सरलायताक्ष्यो नेत्राम्बुनिर्झरविनिर्जिततारहाराः ।
भागीरथीमथ ययुः कलहंसमञ्जुकाञ्चीविराविपुलिनोरुनितम्बबिम्बाः ॥ १२.९१ ॥
इति क्षेमेन्द्रविरचितायां भारतमञ्जर्यां स्त्रीपर्व

॥शान्तिपर्व् ।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १३.१ ॥

कृतोदकं कृताशौचं स्थितं सुरसरित्तटे ।
मुनयोऽभ्याययुर्द्रष्टुं नारदाद्या युधिष्ठिरम् ॥ १३.२ ॥

तेषु प्राप्तासनार्घ्येषु पूजितेषु पुरोधसा ।
प्रीत्या प्रोवाच देवर्षिः पृष्ट्वा नृपमनामयम् ॥ १३.३ ॥

दिष्ट्या विराजसे राजन्कुशली निहताहितः ।
दिष्ट्या शल्यादयो वीरा याता वृत्रसमा क्षयम् ॥ १३.४ ॥

कच्छिन्न बन्धुविरहादवस्थां कातरोचिताम् ।
मोहादालम्ब्य धैर्यघ्नीं विजयं नाभिनन्दसि ॥ १३.५ ॥

इत्युक्ते दिव्यमुनिना निःश्वस्योवाच धर्मजः ।
श्मशानसदृशे राज्ये कोऽस्मिन्मोदेत मादृशः ॥ १३.६ ॥

गुरवः सुहृदः पुत्रा भृत्याः संबन्धिबान्धवाः ।
शरीरशेषैरस्माभिर्घातिता विभवार्थिभिः ॥ १३.७ ॥

यदर्थं राज्यमीहन्ते राजानो हतकण्टकम् ।
ते हताः स्वजनाः सर्वे गतो निष्फलतां श्रमः ॥ १३.८ ॥

इदं दहति मे चेतो यत्कर्णो विनिपातितः ।
स हि मे कथितः कुन्त्या भ्राता तपनसंभवः ॥ १३.९ ॥

पुरा विकारजः क्रोधस्तस्मिन्मम पुरःसरः ।
कुन्त्याः सदृशपादोऽसाविति मार्दवमाययौ ॥ १३.१० ॥

ऐश्वर्यलुब्धैरस्माभिर्निहतः स सहोदरः ।
नरकापरपर्यायं धिग्राज्यमधुना मम ॥ १३.११ ॥

अस्मदर्थे रहो मात्रा याचितः स महायशाः ।
काले काले ररक्षास्मान्पतितान्वधगोचरे ॥ १३.१२ ॥

श्रोतुमिच्छामि भगवंस्तस्य शापो यथाभवत् ।
इति राज्ञा विषण्णेन पृष्टः प्रोवाच नारदः ॥ १३.१३ ॥

युष्मद्देषात्पुरा कर्णो भारद्वाजमयाचत ।
ब्रह्मास्त्रं तच्च न ददौ द्रोणोऽस्मै फल्गुणप्रियात् ॥ १३.१४ ॥

ज्ञातव्यं ब्राह्मणेनैतदित्युक्तस्तेन दुःखितः ।
विप्रवेषं विधायाशु जामदग्न्याश्रमं ययौ ॥ १३.१५ ॥

अन्येवासी भृगुभुवः सोऽथ ब्रह्मास्त्रयाचकः ।
विचचार चिरं धन्वी महेन्द्रगिरिसानुषु ॥ १३.१६ ॥

तं कदाचिद्दिजः कश्चिदज्ञानावाप्तकिल्बिषम् ।
शशापात्यन्तकुपितो होमधेनुनिकारतः ॥ १३.१७ ॥

मोहादपकृतं यस्माद्धोमधेनोर्मम त्वया ।
सक्तस्य शत्रुणा तस्माद्भूस्ते चक्रं ग्रसिष्यति ॥ १३.१८ ॥

इति शप्तः स विप्रेण दह्यमान इवानिशम् ।
आराध्य रामं ब्रह्मास्त्रमवाप विपुलश्रमः ॥ १३.१९ ॥

ततः कदाचित्संजातविस्रमवाप भृगुसंभवः ।
कर्णस्याङ्के शिरः कृत्वा सुष्वाप व्रतकर्षितः ॥ १३.२० ॥

अत्रान्तरे कृमिस्तीक्ष्णदंष्ट्रोष्ठचरणः कृशः ।
अदशद्दारुणः कर्णमलर्को नाम दुःसहः ॥ १३.२१ ॥

गुरुप्रबोधचकितो यावत्सेहे स तद्व्यथाम् ।
तावत्तद्रुधिरासिक्तो निद्रां तत्याज भार्गवः ॥ १३.२२ ॥

किमेतदिति संभ्रान्तः शोणितस्पर्शकूणितः ।
दष्टं राधेयमालोक्य ददर्श विकृताकृतिम् ॥ १३.२३ ॥

रामेण दृष्टमात्रोऽथ भस्मीभूतः कृमिः क्षणात् ।
राक्षसो लोहितग्रीवः प्रदीप्ताक्षो बभूव सः ॥ १३.२४ ॥

सोऽब्रवीद्भृगुभार्यायां चापलादभिलाषुकः ।
गृध्रो नाम सुरारातिः शप्तेऽहं मुनिना पुरा ॥ १३.२५ ॥

तच्छापान्निरयं यातः पापां योनिमिमां विभो ।
त्वत्संदर्शनपर्यन्तां प्रपन्नः क्षपिता च सा ॥ १३.२६ ॥

इत्युक्त्वा राक्षसे याते कर्णं पप्रच्छ भार्गवः ।
कस्त्वं नासि द्विजो नूनं क्षत्त्रस्तीव्रव्यथासहः ॥ १३.२७ ॥

श्रुत्वैतच्चकितः कर्णो निजं तस्मै न्यवेदयत् ।
कुलं नाम च येनाशु तं शशाप रुषा गुरुः ॥ १३.२८ ॥

ब्राह्मणच्चद्मना यस्माद्ब्रह्मास्त्रं प्राप्तवानसि ।
तस्मात्तवैतत्पर्यन्ते विनाशमुपयास्यति ॥ १३.२९ ॥

निरस्तो भार्गवेणेति कर्णः प्राप्य सुयोधनम् ।
युष्मत्संघर्षसौहार्दात्तेनाङ्गेषु कृतः पतिः ॥ १३.३० ॥

चित्राङ्गदस्य तनयां कलिङ्गनृपतेः पुरा ।
तद्बाहुबलमाश्रित्य जहार धृतराष्ट्रजः ॥ १३.३१ ॥

तस्मिन्स्वयंवरे कर्णः कुपितं राजमण्डलम् ।
याते दुर्योधने पूर्वमेको दर्पदयोधयत् ॥ १३.३२ ॥

जित्वा समस्तभूपालाञ्जरासंधं यशोनिधिः ।
संदेहदोलामनयन्नियुद्धेन बलोद्धतः ॥ १३.३३ ॥

जरासंधो ददौ तस्मै मालिनीं नगरीं जितः ।
अन्ये च तत्यजुर्वीरा भागं भागं नरेश्वराः ॥ १३.३४ ॥

वञ्चितः स सुरेन्द्रेण वर्मकुण्डलहारिणा ।
शप्तः पूर्वं द्विजेन्द्रेण गुरुणा भार्गवेन च ॥ १३.३५ ॥

प्राज्ञयामन्त्रितः कुन्त्या गाङ्गेयेन तिरस्कृतः ।
शल्येन तेजसः शान्त्यै श्रावितः परुषा गिरः ॥ १३.३६ ॥

हतः कृष्णधिया धीरो दिव्यास्त्रैः शक्रजन्मना ।
अन्यथा समरे हन्यात्कस्तमूर्जितविक्रमम् ॥ १३.३७ ॥

नारदेनेति कथिते शोकार्तं धर्मनन्दनम् ।
उवाच कुन्ती धैर्येण विधूय तनयव्यथाम् ॥ १३.३८ ॥

रविणाप्यर्थितः संधिं बुबुधे न विधेर्वशात् ।
युष्मद्द्वेषी स सततं मया स्वयमुपेक्षितः ॥ १३.३९ ॥

यातः स सूर्यसदनं संमुखं समरे हतः ।
मा शुचः प्राप्तमधुना भुङ्क्ष्व राज्यमनाकुलः ॥ १३.४० ॥

न लेभे शर्म विपुलान्कर्णस्य कलयन्गुणान् ।
सोऽब्रवीद्गूहनान्मातुरज्ञातोऽस्माभिरग्रजः ॥ १३.४१ ॥

यस्मात्तस्माद्भविष्यन्ति च्छिन्नसत्त्वा सदा स्त्रियः ।
भैक्ष्येण फलमूलैर्वा वृत्तयः सन्त्यवारिताः ॥ १३.४२ ॥

तास्त्यक्ताः कथमस्माभिर्घोरः सर्वक्षयः कृतः ।
लोभाद्धर्मं परित्यज्य प्रज्ञाहीनैरभिक्षवत् ॥ १३.४३ ॥

ध्यात्वास्माभिः कुलाचारं विक्रीता त्रिदिवे गतिः ।
अहो श्वभिरिवास्माभिर्घोरः सर्वक्षयः कृतः ॥ १३.४४ ॥

अङ्गक्षयावधि क्षुद्रैः कलहो विपुलः कृतः ।
मित्त्रबनधुवियोगोग्रग्राहसंसारवारिधिम् ॥ १३.४५ ॥

संगत्यागप्लवो नैष तरामि वितरस्पृहः ।
अर्जुनः पृथिवीं वीरो रक्षत्वस्मासु गौरवात् ॥ १३.४६ ॥

त्यजाम्यायासविरसामेतां कुत्सितजीविकाम् ।
इत्युक्त्वति संतप्ते धर्मपुत्रे धनंजयः ॥ १३.४७ ॥

उवाच कोपताम्राक्षः क्षणमालोकयन्क्षितिम् ।
अहो नु देवशप्तानां दुःखान्यन्ते सुखान्यति ॥ १३.४८ ॥

तत्सर्वेष्वपि शोचन्ति सर्वथा विधिवञ्चिताः ।
हासाय साधुगोष्ठीषु संन्यासोऽयं तवाधुना ॥ १३.४९ ॥

नष्टामर्थयमानस्य प्राप्तां च त्यजतः श्रियम् ।
अवस्थाविपरीतेषु क्लीबकार्येषु मज्जताम् ॥ १३.५० ॥

संन्यासो दीर्घसूत्राणामालस्यमभिधीयते ।
लज्जाकरमतो लोके किमन्यत्प्राज्ञगर्हितम् ॥ १३.५१ ॥

यत्सर्वं त्यजति क्षिप्रं नरः क्षीब इवाम्बरम् ।
अपूर्वमिदमारब्धं भवता व्यसनाधिकम् ॥ १३.५२ ॥

न कदाचिच्छ्रुतोऽस्माभिः किल भिक्षाशनो नृपः ।
क्रमप्राप्तामिमां लक्ष्मीं भज राजन्नविक्रियः ॥ १३.५३ ॥

धनिनामेव धन्यानां यज्ञदानादिकाः क्रियाः ।
यथा हि शोच्यस्त्यक्तार्थो न तथा त्यक्तजीवितः ॥ १३.५४ ॥

व्यसुर्मुहूर्तं निधनो निर्धनस्तु सदा मृतः ।
इमां वसुमतीं राजन्मान्धातृनहुषोपमः ॥ १३.५५ ॥

अवाप्य विविधैर्यज्ञैर्यजस्व बहुदक्षिणैः ।
इति शक्रसुतेनोक्तो धर्मसूनुरभाषत ॥ १३.५६ ॥

श्रोतुमर्हसि मे पार्थ हित्वा ग्राम्यसुखस्पृहाम् ।
शीर्णपर्णलवाहारः समः शान्तप्रियाप्रियः ॥ १३.५७ ॥

स ब्रह्मचारी विपिने कुरङ्गाणां विहारिणाम् ।
धिया न चिन्तये किंचिन्मौनी विगलिताग्रहः ॥ १३.५८ ॥

निराहारो भविष्यामि संसारोच्छित्तये मुनिः ।
इति ब्रुवाणं राजानमभ्यधान्मारुतात्मजः ॥ १३.५९ ॥

बत देव जडस्येव बुद्धिस्ते दुर्ग्रहे दृढा ।
अघातयित्वा पृथिवीं किं नैषा धीस्त्वया कृताः ॥ १३.६० ॥

किं जलाहृतयन्त्रेण निर्दग्धे नगरेऽग्निना ।
राजन्न पश्चिमवयाः सर्वत्यागी न शोभसे ॥ १३.६१ ॥

मधुमासु इवाशोकः सहसा शुष्कपल्लवः ।
पाप्तां पाणपणेनाथ श्रमेण पृथिवीमिमाम् ॥ १३.६२ ॥

त्यजतस्तव सावज्ञं मोहादन्यत्किमुच्यते ।
विधूय विघ्नसंमर्दमास्थाय स चिरान्निधिम् ॥ १३.६३ ॥

पदा क्षिपसि किं राजन्गतं न प्राप्यते पुनः ।
तैस्तैः प्राणपरित्यगैः कान्तमाहृत्य गत्वराम् ॥ १३.६४ ॥

मधुमत्तो यथा शेते तथा त्वं कर्तुमुद्यतः ।
संन्यासविप्रलब्धात्मा न स्थितिं हातुमर्हसि ॥ १३.६५ ॥

मुक्ता वृक्षा न दृश्यन्ते मोक्षश्चेत्त्यक्तकर्मणाम् ।
किं वान्यत्पतिताः सर्वे तदैव व्यसने वयम् ॥ १३.६६ ॥

यदैव त्वं ग्रामकामस्त्वं धात्रा ज्येष्ठः कृतोऽसि नः ।
पुरा वने ग्रामकामस्त्वं ग्रामेऽद्य वनोत्सुकः ॥ १३.६७ ॥

तिष्ठत्यङ्के न च स्कनधे कष्टं बाल इवातुरः ।
सत्त्वशीलाः स्वकर्मस्था मुच्यन्ते गृहमेधिनः ॥ १३.६८ ॥

वने कुरङ्गमातङ्गा न तु दृष्टा दिवं गताः ।
इत्युक्ते बीमसेनेन पुनरूचे धनंजयः ॥ १३.६९ ॥

राजन्नस्ति गृहे मोक्षो धन्यानां विघसाशिनाम् ।
अजातश्मश्रवो बालाः पुरा ब्राह्मणपुत्रकाः ॥ १३.७० ॥

अकाले श्रितवैराग्या वनमेत्य प्रवव्रजुः ।
संजातकरुमस्तेषु पक्षिरूपी पुरंदरः ॥ १३.७१ ॥

प्रशशंस तदभ्यासे गृहस्थान्विघसाशिनः ।
हिरण्मयस्य शुकनेस्ते श्रुत्वा भाषितं द्विजाः ॥ १३.७२ ॥

आत्मानं मेनिरे मूर्खाः प्रहृष्टा विघसाशिनम् ।
शकुनिः सोऽथ तैः पृष्टो जगाद विहसन्निव ॥ १३.७३ ॥

रूक्षाः कृशा मलादिग्धा विपिने कष्टवृत्तयः ।
दुःखैकभागिनो नित्यं न यूयं विघसासिनः ॥ १३.७४ ॥

सायं प्रातर्विभज्यान्नं विधिवद्गृहमेधिनः ।
भृत्यार्थिशेषं येऽश्नन्ति ते धन्या विघसाशिनः ॥ १३.७५ ॥

तेषां पुण्यैरपर्यन्तैर्दिवि लोकाः सनातनाः ।
गृहादाश्रमिणः सर्वे जीवन्त्यभ्रादिव प्रजाः ॥ १३.७६ ॥

एवं ते बोधिता युक्त्वा स्वगरूपेण वज्रिणा ।
वनवासं परित्यज्य द्विजाः स्वगृहमाययुः ॥ १३.७७ ॥

गतिज्ञः सर्वधर्माणामाचार्याणां च तत्त्ववित् ।
त्वमप्येवं महीपाल न स्थितिं त्यक्तुमर्हसि ॥ १३.७८ ॥

अर्जुनेनेति कथिते माद्रीपुत्रावथोचतुः ।
भज राज्यमनायासमिदमुद्धृतकण्टकम् ॥ १३.७९ ॥

साम्राज्यविजयी यज्वा पाहि भूमिपते प्रजाः ।
यमाभ्यामित्यभिहिते प्रिया प्रणयिनी प्रियम् ॥ १३.८० ॥

द्रौपदी धर्मतनयं बभाषे वल्गुवादिनी ।
त्वदाज्ञाकारिणो वीरा भ्रातरस्त्रिदशत्विषः ॥ १३.८१ ॥

अनुत्साहेन ते पश्य लिखन्त्येते मृषा भुवम् ।
यदेतैर्दुष्करं कर्म समरे कृतमोजसा ॥ १३.८२ ॥

तदद्य राज्यभागेन सफलं कर्तुमर्हसि ।
अधोमुखानां श्वसतां निष्फलारम्भदुःखिनाम् ॥ १३.८३ ॥

प्रणयैर्मानयैतेषामभिननद्य पराक्रमम् ।
अक्लीबचरितो राजन्राज्यं निजभुजार्जितम् ॥ १३.८४ ॥

भजस्व विजयोत्थानां न क्लीबाः संपदां पदम् ।
इत्युक्ते कृष्णया जिष्णुः पुनर्नृपमभाषत ॥ १३.८५ ॥

लोकस्य पालनात्सम्यग्राजानः स्वर्गगामिनः ।
स्वधर्मेषु प्रवर्तन्ते राजदण्डभयात्प्रजाः ॥ १३.८६ ॥

मिथो मत्स्या इवाश्नन्ति जना दण्डविवर्जिताः ।
यत्र संनिहितो दण्डः श्यामो लोहितलोचनः ॥ १३.८७ ॥

तत्र वेदैश्च यज्ञैश्च वर्धन्ते धर्मसंपदः ।
तैस्तैस्तपोभिरुचितैर्यत्फलं शान्ततोजसाम् ॥ १३.८८ ॥

तदेव दण्डधारस्य धर्मभ्रातुर्महीभृतः ।
जनकं राज्यविमुखं यियासुं काननं पुरा ॥ १३.८९ ॥

उवाच पत्नी प्रणयान्मधुरं धर्मवादिनी ।
राजन्वने न मोक्षोऽस्ति बन्धो नास्ति गृहेषु च ॥ १३.९० ॥

स्वकर्मणि प्रवृत्तानामपवर्गो विवेकिनाम् ।
अमुण्डितस्पृहा मुण्डा बहिरन्तः कषायिणः ॥ १३.९१ ॥

दम्भधर्मध्वजा लोके कथ्यन्ते धर्मवादिभिः ।
तस्माद्राज्येऽपि भवता वर्तमानेन सर्वदा ॥ १३.९२ ॥

लभ्यः सत्यमसक्तेन सुखिना संसृतिक्षयः ।
इत्युक्तो मैथिलः पत्न्या जीवन्मुक्तदशां श्रितः ॥ १३.९३ ॥

ययावत्यक्तराज्योऽपि परमं धाम शाश्वतम् ।
फल्गुणेनेति कथिते देवस्थाने प्रशंसति ॥ १३.९४ ॥

मुनिः प्रवृत्तधर्मं च कृष्णद्वैपायनोऽब्रवीत् ।
प्रजानां पालनं सम्यक्स्वधर्मस्ते महीपते ॥ १३.९५ ॥

अरण्यगमनं राज्ञामकाले स्थितिविप्लवः ।
सिद्धिं प्रकृतिनो(तो) याताः सुद्युम्नप्रमुखा नृपाः ॥ १३.९६ ॥

तपःक्लेशैरसंस्पृष्ट यथावद्दण्डधारणात् ।
भ्रातरौ प्राड्मुनिवरौ श्रुतिस्मृतिविशारदौ ॥ १३.९७ ॥

अभूतां शङ्खलिखितावाचारनिशितव्रतौ ।
कदाचिदाश्रमे भ्रातुः स्वयमादाय पादपात् ॥ १३.९८ ॥

फलानि लिखितो मोहाद्भुक्तवान्प्रणयादिव ।
तमभ्येत्याब्रवीच्छङ्खो धर्मभ्रंशभयाकुलः ॥ १३.९९ ॥

स्तैन्यमेतन्न जानीषे कस्मात्परफलाशनम् ।
गच्छ पापं कृतं भ्रातः स्वयं राज्ञे निवेदय ॥ १३.१०० ॥

इत्युक्तो लिखितस्तेन सुद्यम्नं वसुधाधिपम् ।
श्रुत्वाचचक्षे दण्डार्थीं स स्वयं फलभक्षणम् ॥ १३.१०१ ॥

तमभ्यधात्क्षितिपतिर्भगवन्विपुलव्रताः ।
यूयं प्रमाणं धर्माणां शुचिर्गच्छ वरान्मम ॥ १३.१०२ ॥

इत्युच्यमानो राज्ञापि दण्डमेव पुनः पुनः ।
सोऽयाचत सदाचारभ्रंशभीरुर्नरेश्वरम् ॥ १३.१०३ ॥

ततस्तस्य करच्छेदमादिदेश महीपतिः ।
छिन्नहस्तः स च ययौ प्रहृष्टो भ्रातुरन्तिकम् ॥ १३.१०४ ॥

तद्गिरा च पुनर्दद्यां स्नात्वा जातकरद्वयः ।
स बभूव तपोयोगात्प्रशान्तानुशयज्वरः ॥ १३.१०५ ॥

सुद्युम्नोऽपि प्रजानाथः सम्यग्दण्डस्य धारणात् ।
तपःसमुचितांल्लोकानवाप यशसां निधिः ॥ १३.१०६ ॥

***** सुद्युम्नोपाख्यानम् ॥ १ ॥ *****
तस्मात्पालय भूपाल क्षत्त्रधर्मे स्थितः प्रजाः ।
क्षयं कालकृतं वीक्ष्य मा च शोके मनः कृथाः ॥ १३.१०७ ॥

भूत्वा भूत्वा प्रलीयन्ते कालेन कलिताः किल ।
लोकाः कालकलाजलैश्चित्रश्चायं भवश्रमः ॥ १३.१०८ ॥

उक्तं सेनजिता राज्ञा पुरा राजन्विवेकिना ।
दुःखे दृढं मनः कुर्यान्नर्तिशोकगदौषधम् ॥ १३.१०९ ॥

शोचतां धृतिहीनानां न शान्तिर्जायते क्वचित् ।
दुःखैरायान्ति दुःखानि धनानीव धनैर्नृणाम् ॥ १३.११० ॥

दृष्ट्वा जगति जन्तूनां काले काले भवाभवम् ।
फलानामिव कालज्ञः कोऽनुशोचति तत्त्वधीः ॥ १३.१११ ॥

जनकेन पुरा पृष्टो जगाद ब्राह्मणोऽश्मकः ।
स्वभावनश्वरान्भावान्न शोचन्ति विवेकिनः ॥ १३.११२ ॥

न कश्चिद्दृश्यतेऽत्येतुं स्थावरेषु चरेषु च ।
शक्तो ह्यायुषि मर्यादां यः कालविहितां भवेत् ॥ १३.११३ ॥

धनमायुः शरीरं च जातिस्तरुणता तथा ।
भजन्ते कालवैचित्र्यान्नानारूपविपर्ययम् ॥ १३.११४ ॥

उच्चा नीचत्वमायान्ति विशीर्यन्ते च संहताः ।
भवन्ति किल कालेन निम्नान्युच्छ्रायवन्ति च ॥ १३.११५ ॥

हीनवंशाः कुलीनत्वं धनिनश्च दरिद्रताम् ।
यान्ति मूर्खाश्च वैदुष्यं दौर्भाग्यं सुभगास्तथा ॥ १३.११६ ॥

स्वल्पायुषश्च राजानो दरिद्राश्च शतायुषः ।
जराभग्नाश्च दृश्यन्ते रसायनविचक्षणाः ॥ १३.११७ ॥

धनिनो व्याधिसंतप्ता दरिद्राश्च निरामयाः ।
आयुर्वेदविदो यान्ति तरुणा एव पञ्चताम् ॥ १३.११८ ॥

मूर्खाः सदाचाररताः पण्डिता धर्मवर्जिताः ।
भवन्ति कालविहतैस्तैस्तैः किल विपर्ययैः ॥ १३.११९ ॥

अपि त्रैलोक्यकर्तारस्चतुर्मुखमुखाः सुराः ।
न हि कालकटाक्षेण लक्षितं रक्षितुं क्षमाः ॥ १३.१२० ॥

श्रीमतां हीनवित्तानां धीमतां जडचेतसाम् ।
तुल्यं निरनुरक्तो हि कालपण्यगृहे क्रयः ॥ १३.१२१ ॥

कालानिलविलोलानां देहिनां भवकानने ।
द्रुमाणामिव जायन्ते मिथो नित्यं गमागमाः ॥ १३.१२२ ॥

अकस्मात्संगतो नाम यद्यकस्माद्विनश्यन्ति ।
शोकः किं तत्र जन्तूनां सततं हि गतागतम् ॥ १३.१२३ ॥

न वियोगेषु संतापः कार्यः किल विवेकिभिः ।
अभावानुभवे भावा भवे हि क्षणभङ्गिनः ॥ १३.१२४ ॥

अश्मकेनेति कथितं कथयित्वा मुनीश्वरः ।
विरराम समालोक्य गाढशोक युधिष्ठिरम् ॥ १३.१२५ ॥

***** अश्मकगीता ॥ २ ॥ *****
अथार्जुनेन प्रणयात्प्रेरितः पुष्करेक्षणः ।
भगवान्कैटभारातिर्धर्मसूनुभाषत ॥ १३.१२६ ॥

विषादं मा वृथा राजञ्शरीरोच्छोषणं कृथाः ।
तेषां हतानां वीराणां न शोकात्पुनरागमः ॥ १३.१२७ ॥

एकेऽद्य प्रातरपरे पश्चादन्ये पुनः परे ।
सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ॥ १३.१२८ ॥

नूनमक्षयमात्मानं मोहात्सर्वोऽभिमन्यते ।
यत्पुरःस्थितनाशोऽपि नष्टञ्शोचति नश्वरः ॥ १३.१२९ ॥

ते जनास्ते प्रभावाश्च ताश्च प्रज्वलिताः श्रियः ।
हेलया किल कालेन प्रापिताः स्मृतिशेषताम् ॥ १३.१३० ॥

सृञ्जयं नाम भूपालं भगवानेष नारदः ।
कृपयाश्वासयन्नूचे पुत्रशोकाकुलं पुरा ॥ १३.१३१ ॥

राजन्प्राप्तावधिं पुत्रं यातं किमनुशोचसि ।
सर्वं जगत्सहास्माभिः पर्यन्ते न भविष्यति ॥ १३.१३२ ॥

मतुत्तः पृथिवीपालः कालेन निधनं गतः ।
यस्यासन्भुवि गीर्वाणा
ः सेन्द्रा यज्ञसभासदाः ॥ १३.१३३ ॥

ववर्ष कनकं यस्मै वत्सरं पाकशासनः ।
अभूद्बृहस्पतिभ्राता संवर्तो यस्य याजकः ॥ १३.१३४ ॥

सुहोत्रश्च महीनाथः कथाशेषत्वमागतः ।
यो यथार्थां वसुमतीं चक्रे काञ्चनवृष्टिभिः ॥ १३.१३५ ॥

बृहद्रथश्च नृपतिर्यातोऽस्तं रथिनां वरः ।
यस्य यज्ञे सुरपतिः सोमं पीत्वा मुदं ययौ ॥ १३.१३६ ॥

शिबिरौशीनरः पृथ्वीमेकच्छत्रां शशास यः ।
स धुर्यः सर्वदात्तॄणां प्रयातः कीर्तिशेषताम् ॥ १३.१३७ ॥

सहस्रेणाश्वमेधानां राजसूयशतेन च ।
ईजे यः सोऽपि भरतः कालेन त्रिदिवं गतः ॥ १३.१३८ ॥

स च दाशराथी रामो दशकण्ठकुलान्तकः ।
यातः पर्यन्तपदवीं गीयमानगुणः सुरैः ॥ १३.१३९ ॥

भगीरथश्च भूपालस्तपसा यस्जाह्नवी ।
अवाप शंकरशिरः स कालस्येच्छया गतः ॥ १३.१४० ॥

सोऽपि स्मृतिदशां प्राप्तो दिलीपः पृथिवीपतिः ।
यूपे हिरण्मये यस्य ननृतुस्त्रिदिवौकसः ॥ १३.१४१ ॥

अयोनिजश्च मांधाता स सर्वविजयी नृपः ।
गतः शक्रादयो देवा यस्यासन्कान्तविक्रमे ॥ १३.१४२ ॥

ययातिरपि कालेन क्ष्मापालः प्रलयं गतः ।
देवासुररणे वीरो यो जघानामरद्विषः ॥ १३.१४३ ॥

यशः शरीरमविशत्सोऽम्बरीषश्च पार्थिवः ।
यस्य शासनमम्लानं नृपा माल्यमिवावहन् ॥ १३.१४४ ॥

शशबिन्दुर्नरपतिः सोऽप्यन्तपदमाश्रितः ।
अभूत्कोटिशतं यस्य पुत्राणां शक्रवर्चसाम् ॥ १३.१४५ ॥

गतो गयश्च नृपतिर्यः काञ्चनमयीं महीम् ।
प्रददौ यस्य संख्यां च यज्ञानां न प्रचक्षते ॥ १३.१४६ ॥

प्रयातो रन्तिदेवश्च यज्ञेषु पशुचर्मभिः ।
स्रुतैः प्रवर्तिता तेन पुण्या चर्मण्वती नदी ॥ १३.१४७ ॥

अतीतः स च भूपालः सगरो येन सागराः ।
षष्ट्या पुत्रसहस्राणां कृतास्तुरगरक्षिणाम् ॥ १३.१४८ ॥

वैन्यश्च यो धनुष्कोट्या पर्वतान्करोत्पृथक् ।
सोऽपि शक्राधिपो राजा प्रियं तत्याज विग्रहम् ॥ १३.१४९ ॥

एते चान्ये च भूपालाः कालेन कवलीकृताः ।
मा शचस्तव मद्वाक्यात्पुत्रः सृञ्जय जीवतु ॥ १३.१५० ॥

इत्युक्त्वा नारदो राज्ञः कनकष्ठीविनं सुतम् ।
तं सहस्रायुषं चक्रे जीवयित्वा कृपानिधिः ॥ १३.१५१ ॥

***** षोडशराजकीयम् ॥ ३ ॥ *****
कथं स काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् ।
पृष्टो धर्मसुतेनेति पुनरुचे चतुर्भुजः ॥ १३.१५२ ॥

सृञ्जयस्य क्षितिपतेस्तथा नारदपर्वतौ ।
देवर्षी तस्थतुर्गेहे मर्त्यलोकविहारिणौ ॥ १३.१५३ ॥

वक्तव्यं हृद्गतं सर्वं मिथस्ताविति संविदम् ।
चक्रतुस्तत्र सहितौ प्रीत्या प्रणयशालिनौ ॥ १३.१५४ ॥

सॄञ्जयस्तत्सपर्यायै कन्यां लावण्यभूषणाम् ।
यथार्थनाम्नीं तनयां सुकुमारीं समादिशत् ॥ १३.१५५ ॥

बालां परिचरन्तीं तां हरिणीहारिलोचनाम् ।
निर्वर्णयन्ननिमिषो नारदोऽबूत्स्मराकुलः ॥ १३.१५६ ॥

तं तस्य हृद्गतं भावं गूहमानस्य लज्जया ।
स्वस्रीयः पर्वतः क्षिप्रं बुबुधे ज्ञानचक्षुषा ॥ १३.१५७ ॥

मर्यादाभ्रंशकुपितः स शशापाथ मातुलम् ।
पतिर्वानररूपोऽस्याः सुकुमार्या भविष्यसि ॥ १३.१५८ ॥

इति तेन रुषा शप्तः कोपात्तमपि नारदः ।
शशापाश्वर्गगो भूयाद्भवानिति सुतं स्वसुः ॥ १३.१५९ ॥

वितीर्णां सृञ्जयेनाथ कन्यां कालेन नारदः ।
तां प्राप्योद्वाहसमये क्षणाच्चासीत्तथविधः ॥ १३.१६० ॥

सापि तद्विधमासाद्य भर्तारं नारदं सती ।
अनन्यमनसा मेने तं नेत्रामृतनिर्झरम् ॥ १३.१६१ ॥

शमयित्वा मिथः शापं प्रशान्ते मन्युविप्लवे ।
प्रीत्या बभूवतुः स्वस्थौ तौ परित्यज्य विक्रियाम् ॥ १३.१६२ ॥

त्यक्तवानररूपं च सुकुमारी पतिव्रता ।
शङ्किता नारदं भेजे चिरेण ज्ञाततत्कथा ॥ १३.१६३ ॥

अतः शेषां कथामेष स्वयं वदतु नारदः ।
इत्युक्त्वा विरते कृष्णे तमपृच्छद्युधिष्ठिरः ॥ १३.१६४ ॥

मुनिस्तेनाब्रवीत्पृष्टस्तथाहं पर्वतानुगः ।
उषित्वा सृञ्जयगृहे परितोषमुपागतः ॥ १३.१६५ ॥

अस्मद्वरात्ततो राज्ञः सृञ्जयस्य सुतो गतः ।
यथार्थं काञ्चनष्ठीवी न सेहे तं शतक्रतुः ॥ १३.१६६ ॥

तं शिशुं जाह्नवीतीरे केलिसक्तं यदृच्छया ।
अघातयत्सुरपतिर्वज्रेण व्याघ्ररूपिणा ॥ १३.१६७ ॥

सृञ्जयस्तं हतं दृष्ट्वा पुत्रं राजीवलोचनम् ।
शुशोच विषमायासमूर्छाविह्वलमानसः ॥ १३.१६८ ॥

प्रलापमुखरं क्ष्मापं तं विलोक्याहमाकुलम् ।
कृपयाजीवयं तस्य स्वर्णष्ठीविनमात्मजम् ॥ १३.१६९ ॥
मद्वरात्स सहस्रायुर्भुक्त्वा वसुमतीमिमाम् ।
कालेन यातस्त्रिदिवं स्थायिनो न हि देहिनः ॥ १३.१७० ॥

***** स्वर्णष्ठीव्युपाख्यानम् ॥ ४ ॥ *****
नारदेनेति कथिते व्यासेनापि मुहुर्मुहुः ।
बोधितो धर्मतनयः शोकार्तः पुनरब्रवीत् ॥ १३.१७१ ॥

लोभान्धं पतितं धिङ्भामस्मिन्किल्बिषसंकटे ।
भोगाशया कृतो येन गुरुबन्धुसुतक्षयः ॥ १३.१७२ ॥

पुनः पुनरिमां हुत्वा वह्नौ पातकिनीं तनुम् ।
क्षयं यास्यति मन्ये नो न भीष्मवधपातकम् ॥ १३.१७३ ॥

इति शोकानलक्रान्तं विलपन्तं युधिष्ठिरम् ।
उवाच लोकस्थितये पराशरसुतो मुनिः ॥ १३.१७४ ॥

संग्रामजीविनां राज्ञां धर्मः शत्रुवधः सदा ।
कृत्वा कुलोचितं कर्म मा विषादं वृथा कृथाः ॥ १३.१७५ ॥

कीर्तनैरनुतापैश्च प्रायश्चित्तैर्महाबलैः ।
दानैस्तीर्थाभिषेकैश्च पापानामस्ति निष्कृतिः ॥ १३.१७६ ॥

निजधर्मपरित्यागात्त्वं तु राजन्सकल्मषः ।
यजस्व हयमेधेन मिथ्या यदि विशङ्कसे ॥ १३.१७७ ॥

प्रजाः पालय विस्रब्धं हतनाथाश्च योषितः ।
निहातारातिपुत्राणां पुत्रवत्पश्य कन्यकाः ॥ १३.१७८ ॥

इति ब्रुवाणो भगवान्राज्ञा पृष्टो मुनिः पुनः ।
उवाच सर्वपापानां प्रशान्तिं शान्तविप्लवः ॥ १३.१७९ ॥

सत्कर्मणामकरणान्निन्दितानां च सेवनात् ।
पश्चात्तापमनासाद्य प्रायश्चित्तं नरोर्ऽहति ॥ १३.१८० ॥

कपाली द्वादश समाश्चरन्भैक्ष्यमसंवृतः ।
ब्रह्महत्याभयात्तीव्राद्व्रतान्ते मुच्यते नरः ॥ १३.१८१ ॥

एतत्तुल्यानि पापानि यज्ञैर्विपुलदक्षिणैः ।
गोसहस्रप्रदानैश्च तरन्ति किल देहिनः ॥ १३.१८२ ॥

सुरापैश्चेर्यत पापं पीत्वाग्निसदृशीं सुराम् ।
वह्निवर्णशिखाशायी मुच्यते गुरुतल्पगः ॥ १३.१८३ ॥

भृगुवह्निनिपातेन महाप्रस्थानकेन च ।
महीदानेन दातॄणां क्षीयते गुरुपातकम् ॥ १३.१८४ ॥

प्रायश्चित्तं न तु स्त्रीणां रजसा संवृता हिताः ।
महौघेनेव वाहिन्यो भवन्ति विमलाशयाः ॥ १३.१८५ ॥

भक्ष्याभक्ष्यविचारेण कार्याकार्यविभेदतः ।
विहिताविहितोदीर्णः सूक्ष्मोऽयं धर्मसंकरः ॥ १३.१८६ ॥

अभिनन्द्य निजं राज्यं स्वीकृत्य प्रकृतीस्तथा ।
गच्छ शान्तनवं भीष्मं स ते धर्मान्प्रवक्ष्यति ॥ १३.१८७ ॥

इति द्वैपायनेनोक्तः कृष्णेन च विबोधितः ।
धृतराष्ट्रं पुरस्कृत्य नगरं सानुगोऽविशत् ॥ १३.१८८ ॥

पूज्यमानः प्रकृतिभिर्गीयमानश्च मागधैः ।
राजधानीं समासाद्य विवेश रुचिरां सभाम् ॥ १३.१८९ ॥

उपस्थितान्स्वयं तत्र ब्राह्मणान्विपुलाशिषः ।
अपूजयत्पुरस्कृत्य धौम्यं धुर्यं पुरोधसाम् ॥ १३.१९० ॥

***** युधिष्ठिरनगरप्रवेशः ॥ ५ ॥ *****
अत्रान्तरे त्रिदण्डाङ्कस्त्रिशिखः कपटो मुनिः ।
सुहृद्दुर्योधनस्यायाच्चार्वाको नाम राश्रसः ॥ १३.१९१ ॥

सोऽब्रवीद्धर्मजं राजन्वच्मि त्वां ब्राह्मणाज्ञया ।
बन्धुमित्त्रद्रुहः किं ते राज्येन ध्वस्ततेजसः ॥ १३.१९२ ॥

इति ब्रुवाणे चार्वाके विषण्णे च युधिष्ठिरे ।
ब्राह्मणास्ते क्रुधाविष्टा जज्ञिरे ज्ञानचक्षुषः ॥ १३.१९३ ॥

सखा दुर्योधनस्यायं चार्वाको नाम राक्षसः ।
उक्त्वेति तं द्विजाश्चक्रुर्हुंकारेणैव भस्मसात् ॥ १३.१९४ ॥

तस्मिन्ब्राह्मणकोपेन निर्दग्धे रजनीचरे ।
उवाच विहसञ्शौरिरमृतं विकिरन्निव ॥ १३.१९५ ॥

अवध्यः सर्वभूतानां तपस्वी वेधसो वरात् ।
एधो ब्राह्मणकोपाग्नेर्बभूवैष निशाचरः ॥ १३.१९६ ॥

सोऽयं दिष्ट्या हतः पापस्तेजसा ब्रह्मवादिनाम् ।
इत्युक्तवति गोविन्दे सभायामुत्सवोऽभवत् ॥ १३.१९७ ॥

***** चार्वाकनिग्रहः ॥ ६ ॥ *****
अथाभिषेको दिव्येन विधिना धर्मजन्मनः ।
अवर्तत हते वृत्रे देवस्येव शतक्रतोः ॥ १३.१९८ ॥

सुमेरुविपुले पीठे परिष्वक्तो जयश्रिया ।
प्रदीपसंध्यारुचिरो दिवाकर इवाबभौ ॥ १३.१९९ ॥

धृत्वा दैवतवत्पूर्वं धृतराष्ट्रं वधूसखम् ।
निधाय मारुतसुतं यौवराज्ये महाभुजम् ॥ १३.२०० ॥

विदुरं मन्त्रकार्येषु दिग्जयेषु धनंजयम् ।
संजयं व्ययचिन्तासु नकुलं सैन्यपालने ॥ १३.२०१ ॥

धौम्यं ब्राह्मणचिन्तासु सहदेवं च संनिधौ ।
उचितेषु च कार्येषु वृद्धामात्यानकल्पयत् ॥ १३.२०२ ॥

***** युधिष्ठिराभिषेकः ॥ ७ ॥ *****
ततः स्तुत्वा हृषीकेशं दुर्योधननिवेशनम् ।
महार्हरत्नरुचिरं ददौ भीमाय धर्मजः ॥ १३.२०३ ॥

वृतं दासीसहस्रैश्च दुःशासनगृहं नृपः ।
अर्जुनाय ददौ रत्नकाञ्चनोदारमन्दिरम् ॥ १३.२०४ ॥

अन्येभ्योऽपि विलभ्यैवं कौरवावसथावलीम् ।
लब्धप्रशमनं चक्रे चक्रायुधमते स्थितः ॥ १३.२०५ ॥

ततो विधाय बन्धूनां राजा श्राद्धं यथाविधि ।
प्रपाकूपनिपानाङ्कास्तेभ्यो धर्मानकल्पयत् ॥ १३.२०६ ॥

अथ प्रभाते भूपालः पूजयित्वाम्बिकासुतम् ।
गान्धरीं स्वां च जननीं प्रणम्य रचिताञ्जलिः ॥ १३.२०७ ॥

विश्रान्तं पुण्डरीकाक्षं स्तितमर्जुनमन्दिरे ।
सानुगः प्रययौ द्रुष्टुं ब्रह्मणमिव वासवः ॥ १३.२०८ ॥

तमासाद्य नभःश्यामं व्याप्तं कौस्तुभकान्तिभिः ।
दिनेशकिरणोदारवासरारम्भविभ्रमम् ॥ १३.२०९ ॥

सुमेरुकूटविकटे निषण्णं कनकासने ।
तत्कान्तिवलयेनेव संवीतं पीतवाससा ॥ १३.२१० ॥

ध्यायन्तं किमपि प्रह्वो जगाद जगतीपतिः ।
तद्दर्शनानन्दसुधां दन्तकान्त्या किरन्निव ॥ १३.२११ ॥

सुखेन कच्चिद्भगवन्व्यतीता तव शर्वरी ।
त्वद्योगनिद्रासरसीविलास्रमरावली ॥ १३.२१२ ॥

इत्युक्तः कमलाकान्तः किमपि ध्यानमास्थितः ।
न जगाद यदा किंचित्तदा राजावदत्पुनः ॥ १३.२१३ ॥

अहो न सर्वभूतात्मन्ध्येयस्त्वं तत्त्वदर्शिनाम् ।
विमलं ध्यानमालम्ब्य विस्मयं विदधासि नः ॥ १३.२१४ ॥

कुशलं जगतां कच्चिदिति वादिनि भूपतौ ।
ईषदुन्मील्य नयने विश्वरूपी तमभ्यधात् ॥ १३.२१५ ॥

शरशय्यागतो भीष्मः प्रवृत्तः स्तोतुमद्य माम् ।
तमहं मनसा यातो मान्यं सर्वमनीषिणाम् ॥ १३.२१६ ॥

स मे बहुमतः श्रीमान्योगिनं चिन्तयामि तम् ।
ये मां स्मरन्ति सततं देहत्यागे स्मरामि तान् ॥ १३.२१७ ॥

उत्तराशाप्रणयितां यातः प्रायो दिवाकरः ।
देवव्रतस्य कालेऽयं मुमुक्षोर्देहमुक्तये ॥ १३.२१८ ॥

श्रुत्वैतद्धर्मतनयः प्रणयावर्तिताञ्जलिः ।
उवाच भगवन्भीष्मस्त्वत्संदर्शनमर्हति ॥ १३.२१९ ॥

तदेहि सर्वे गच्छामस्तं द्रुष्टुं तेजसां निधिम् ।
अशेषसंशयच्छेत्ता स मे ज्ञानं प्रवक्ष्यति ॥ १३.२२० ॥

इत्युक्तो धर्मराजेन सहितः फल्गुणेन च ।
भीमसात्यकिमुख्यैश्च प्रतस्थे स्यन्दने हरिः ॥ १३.२२१ ॥

अस्मिन्नवसरे भीष्मः सर्वैर्मुनिगणैर्वृतः ।
तुष्टाव प्रयतो ध्यात्वा विष्णुं जिष्णुं जगद्धिषाम् ॥ १३.२२२ ॥

संसारमरुसंतापनिर्वाणसुरशाखिने ।
मोहस्तम्भेरमघटाहरये हरये नमः ॥ १३.२२३ ॥

स्फुरत्संविन्मणिशिखां चित्तप्राङ्गनचन्द्रिकाम् ।
प्रपद्ये भगवद्भक्तिमानन्दोद्यानवाहिनीम् ॥ १३.२२४ ॥

फुल्लोल्लसत्समुत्साहशक्तिव्याप्तजगत्त्रयाम् ।
या पूर्वकोटिर्भावानां सत्तां तां वैष्णवीं नमः ॥ १३.२२५ ॥

पवनाघट्टिताम्भोजवनपर्यन्तलम्बिनाम् ।
जलानामिव जन्तूनां स्थैर्यमेको हरिः स्मृतः ॥ १३.२२६ ॥

नमः सूर्यात्मने तस्मै संवित्किरणशालिने ।
हृत्कुशेशयकोशश्रीसमुन्मेषविधायिने ॥ १३.२२७ ॥

नमस्तस्मै यमीक्षन्ते ज्ञानिनो गतमृत्यवः ।
परमं पुरुषं पारे तमसां महसां तथा ॥ १३.२२८ ॥

यज्ञाय यज्ञहविषे यज्ञसोममयात्मने ।
नमः सरस्वतीवाहहंसायाखिलरूपिणे ॥ १३.२२९ ॥

सत्याय धर्मनिधये क्षेत्रज्ञायामृतात्मने ।
सांख्ययोगप्रतिष्ठाय नमो मोक्षैकहेतवे ॥ १३.२३० ॥

घोराय मायानिधये सहस्रशिरसे नमः ।
योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे ॥ १३.२३१ ॥

नमः सलिलरूपाय कारणाय जगत्स्थितौ ।
दुष्टकालाय वलिने जीवाय पवनात्मने ॥ १३.२३२ ॥

कालाय धाम्ने वर्णानां सर्वलोकमयात्मने ।
लोकप्राणाय भूतानां नमो विश्वाय वेधसे ॥ १३.२३३ ॥

तृप्ताय सिंहवपुषे दैत्यसंहारकारिणे ।
वीर्यायानन्तमहसे जगद्भारभृते नमः ॥ १३.२३४ ॥

संसारकर्त्रे मोहाय ज्ञानाय तिमिरच्छिदे ।
अचित्यधाम्ने गुह्याय रुद्राय जटिने नमः ॥ १३.२३५ ॥

शान्ताय शान्तकल्लोलकैवल्यपदशायिने ।
सर्वभावातिरिक्ताय नमः सर्वमयात्मने ॥ १३.२३६ ॥

इन्दीवरवनश्यासमे स्फुरत्किञ्जिल्कविभ्रमे ।
बिभ्राणं वाससी विष्णुं नौमि नेत्ररसायनम् ॥ १३.२३७ ॥

इत्युक्त्वा निर्भरानन्दः प्रणम्य मनसा हरिम् ।
दध्यौ शान्तनवः सास्त्रैः स्तूयमानो महर्षिभिः ॥ १३.२३८ ॥

अथ पाण्डुसुतैः सार्धं रथैर्गम्भीरनादिभिः ।
आययौ सात्यकिसखः संजयाद्यैश्च केशवः ॥ १३.२३९ ॥

आयात्कृष्णः कुरुक्षेत्रं तान्पश्यन्भार्गवह्रदान् ।
युधिष्ठिरायाकथयद्धर्म्यं रामपराक्रमम् ॥ १३.२४० ॥

ततः सुरसरित्सूनुं ददर्श शरशायिनम् ।
सानुगः शौरिरभ्येत्य स्वांशुजालैरिवावृतम् ॥ १३.२४१ ॥

तरुणार्कोपमापात्रं वृद्धं वृद्धेन तेजसा ।
रुद्धं सिंहमिव स्फारशरकाञ्चनपञ्जरे ॥ १३.२४२ ॥

अवरुह्य रथात्कृष्णः सानुगश्च युधिष्ठिरः ।
प्रणम्योपाविशन्सर्वे प्रशंसन्तः पितामहम् ॥ १३.२४३ ॥

ततोऽब्रवीच्छान्तनवं शरश्रेणीवृथाकुलम् ।
सादरं पुण्डरीकाक्षो दृशा निर्वापयन्निवष ॥ १३.२४४ ॥

कञ्चित्ते विमलं ज्ञानं परमं ब्रह्मदर्शनम् ।
वज्राग्रदारुणशरस्यूतस्य न विलुप्यते ॥ १३.२४५ ॥

निधानं गुणरत्नानां शेखरं शौर्यशालिनाम् ।
धन्यता मानिनी मन्ये वहति त्वां वसुंधरा ॥ १३.२४६ ॥

गाढानुशयसंतप्तस्त्वयि वीर शरार्दिते ।
व्यथितो धर्मतनयो न क्वापि लभते धृतिम् ॥ १३.२४७ ॥

सर्वज्ञ धर्मानखिलान्कथयास्मै गिरा मम ।
प्रसन्नकरणज्ञानपटुर्भव गतव्यथः ॥ १३.२४८ ॥

क्षीरोदशायी भगवानित्युक्त्वा गरुडध्वजः ।
करामृतकरालुप्तव्यथं चक्रे सुरव्रतम् ॥ १३.२४९ ॥

अथापतत्पुष्पवृष्टिर्मूर्ध्नि गाङ्गेयकृष्णयोः ।
व्यासनारदमुख्याश्च प्रशशंसुः स्मयेन तौ ॥ १३.२५० ॥

श्वो वक्तास्म्यखिलान्धर्मानित्युक्तेऽथ जनार्दनः ।
जाह्ववीसुतमामन्त्र्य प्रतश्थे पाण्डवैः सह ॥ १३.२५१ ॥

उषित्वा रजनीं शौरिः पार्थाश्च निजवेश्मनि ।
रथैः शान्तनवं द्रुष्टुं प्रातः सर्वे समाययुः ॥ १३.२५२ ॥

ते विहाय रथांस्तूर्णं प्रणिपत्य पितामहम् ।
परिवार्योपविविशुः सेव्यमानं महर्षिभिः ॥ १३.२५३ ॥

ततः पृष्टो हरिर्भीष्मं शान्तव्यथमनामयम् ।
उवाच कथ्यतां दिद्वन्स्वधर्मान्धर्मसूनवे ॥ १३.२५४ ॥
भवत्प्रसादात्स्वर्थोऽहं वक्ष्यामि तव शासनात् ।
किं तु पृच्छतु मां राजा धर्मनिष्ठो युधिष्ठिरः ॥ १३.२५५ ॥

वृत्ते क्षत्रोचिते कार्ये न लज्जा कर्तुमर्हति ।
उक्ते पितामहेनेति कृष्णवाक्याद्युधिष्ठिरः ॥ १३.२५६ ॥

अभ्येत्य भीष्मचरणौ ववन्दे ह्रीनताननः ।
स तेन मूर्ध्न्युपाघ्राय पृच्छ मामिति चोदितः ॥ १३.२५७ ॥

प्रजानां पालने धर्मं पूर्वं पप्रच्छ धर्मजः ।
ततो जगाद गाङ्गेयः प्रणम्य मनसा हरिम् ॥ १३.२५८ ॥

शृणु पुत्र यथा राज्ये विराजन्ते नरेश्वराः ।
परमं संशयस्थानमाधिपत्यं प्रमादिनाम् ॥ १३.२५९ ॥

अतिकङ्कणकेयूरहारं राज्ञां विभूषणम् ।
नित्यं द्विजातिमान्यत्वं प्रजापालनरञ्जनम् ॥ १३.२६० ॥

परमं दैवतं विप्रा निग्रहानुग्रहाय च ।
राज्ञां श्रियो हि तद्वाक्याद्भवन्ति न भवन्ति च ॥ १३.२६१ ॥

जातं ब्राह्मणतः क्षत्त्रं सलिलाच्च हुताशनः ।
शस्त्रं तथाश्मतो यानि क्षत(य)मेते स्वजन्मसु ॥ १३.२६२ ॥

राजवृत्तिरियं पूर्वा यन्न तीव्रं न मार्दवम् ।
रूढिर्विषामृतस्फारैर्भीमः सेव्यश्च सागरः ॥ १३.२६३ ॥

हितैर्मान्यैश्च रक्ष्यन्ते भृत्यैर्नृपतिसंपदः ।
तानेव नाभिमन्यन्ते राजानो हि निरङ्कुशाः ॥ १३.२६४ ॥

सुनयो राजवृत्तीनां विनयो गुणसंपदाम् ।
लावण्यमिव नारीणां विभूषणमकृत्रिमम् ॥ १३.२६५ ॥

स नृपः कमलाकेलिधामकर्णाब्जषट्पदः ।
पिशुनैर्नाभिमन्यन्ते यस्मिन्संभृतवृत्तयः ॥ १३.२६६ ॥

सिद्धये संयतधियां सन्मन्त्रबलशालिनाम् ।
समस्तचित्तग्रहणं योगिनामिव भूभुजाम् ॥ १३.२६७ ॥

मृदुं बालमिवाधैर्यं विनोदरसिकं सदा ।
राजानं हास्यसंपन्नं मन्यन्ते सेवकास्तृणम् ॥ १३.२६८ ॥

नर्मसाचिव्यमाप्तास्ते भूपतेर्लघुचेतसः ।
तां तामुत्क्रम्य मर्यादां वर्तन्ते कामचारिणः ॥ १३.२६९ ॥

राजस्रीसंगमं यान्ति राजतुल्यविभूषणाः ।
सुषिरं कुर्वते राज्यं स्वां स्वनिं मूषिका इव ॥ १३.२७० ॥

हयं रथं गजं वासो राजयोग्यं तथासनम् ।
आरुह्य राज्ञा स्पर्धन्ते विस्मरन्ति च भृत्यताम् ॥ १३.२७१ ॥

बहु दत्तं न मन्यन्ते याचन्ते दुर्लभान्यपि ।
निन्दन्ति स्वाभिचरितं बहिर्मन्त्रं किरन्ति च ॥ १३.२७२ ॥

राजदेयं हरन्तश्च लज्जन्ते निजकर्मसु ।
प्रथयन्ति च मिथ्यैव लोके भूपालवश्यताम् ॥ १३.२७३ ॥

स्वामिना केलिसक्तेन शनकैर्मर्मदर्शिनः ।
किमन्यत्पेशलधिया खेलन्ते राजवल्लभाः ॥ १३.२७४ ॥

मन्त्रैर्भूतानि शाम्यन्ति दानैर्मृत्युर्निवर्तते ।
प्रजानां दलने सक्ता न तु ते राजसंमताः ॥ १३.२७५ ॥

सुसहायः स्थिरारम्भो गूढमन्त्रः सदोद्यतः ।
प्रजाहितोऽप्रमत्तश्च राजा राज्ये विराजते ॥ १३.२७६ ॥

को हि पश्येदिमं लोकं गाढेन तमसा वृतम् ।
राज्ञः शशाङ्कयशसः प्रतापो यदि न स्फुरेत् ॥ १३.२७७ ॥

अवश्यमेकचरणो धर्मोऽस्मिन्कलिकर्दमे ।
प्रस्खलेद्भूमिपालानां विना दण्डावलम्बनम् ॥ १३.२७८ ॥

अराजके पुरा लोके प्रवृत्ते धर्मविप्लवे ।
सुरार्थितेन विधिना नयोपाये प्रवर्तते ॥ १३.२७९ ॥

चतुर्वर्गफले शास्त्रे भागैरात्ते मुनीश्वरैः ।
असृजन्मानसं जिष्णुं तुमुलं विरजं सुतम् ॥ १३.२८० ॥

स नियुक्तो भगवता प्रजानां परिपालने ।
तच्छासनमनादृत्य संन्यासविरतोऽभवत् ॥ १३.२८१ ॥

कीर्यामानोऽपि तत्पुत्रस्तथैव तपसे गतः ।
तत्सुतः कर्दमाख्यश्च विरक्तः काननं ययौ ॥ १३.२८२ ॥

अनङ्गनाम्नस्तत्सूनोस्तनयोऽतिबलस्ततः ।
राजाभून्मृत्युतनयां मुनीनां प्राप यः प्रियाम् ॥ १३.२८३ ॥

वेनं नाम सुतं तस्यां संप्राप्य तपसे ययौ ।
ततः क्रूरोऽभवद्राजा वेनः कोपविषोल्बणः ॥ १३.२८४ ॥

मुनयो मन्त्रपूतैस्तं जघ्नुर्वज्रशितैः कुशैः ।
तस्योरुं दक्षिणं मन्त्रैस्ते निर्मथ्य महर्षयः ॥ १३.२८५ ॥

ह्रस्वं देहं तदुद्भूतं ददृशुर्विकृतं नरम् ।
स तैरुक्तो निषीदेति निषादजनकोऽभवत् ॥ १३.२८६ ॥

वेनस्य दक्षिणं पाणिं निर्मथ्य मुनयः पुनः ।
अपश्यन्वैन्यमुदितं सायुधं शक्रविक्रमम् ॥ १३.२८७ ॥

स दण्डनीतिमासाद्य शशास मुनिशासनात् ।
प्राप्तां रत्नप्रदां साक्षात्पृथ्वीं सगिरिसागराम् ॥ १३.२८८ ॥

तमाविवेश भगवांल्लोकपालसखो हरिः ।
नरदेवा इति ख्यातास्ततः प्रभृति भूमिपाः ॥ १३.२८९ ॥

राजमानगुणे तस्मिन्राजनि क्ष्मां प्रशासति ।
स्वधर्मनिरतास्तस्थुः सम्यग्दण्डभयात्प्रजाः ॥ १३.२९० ॥

तेनेयं विहिता राज्ञां स्थितये दण्डधारता ।
यथा लोकाः प्रकाशन्ते न सूर्येण न चेन्दुना ॥ १३.२९१ ॥

***** राजोत्पत्तिः ॥ ८ ॥ *****
सम्यग्व्यवसिते त्रातुं राज्ञि धर्मपरे प्रजाः ।
स्थितयो न विलुप्यन्ते चातुर्वर्ण्यविभागजाः ॥ १३.२९२ ॥

यथाविधिप्रयातानामाश्रमादाश्रमान्तरम् ।
चातुराश्रम्यविहिता सिद्धिर्विघ्नैर्न हन्यते ॥ १३.२९३ ॥

मांधातुर्नृपतेः पूर्वं यज्ञदर्शनकाङ्क्षिणः ।
शक्ररूपधरो विष्णुर्भगवान्स्वयमाययौ ॥ १३.२९४ ॥

पृष्टो जिज्ञासया तेन स राजा प्रणिपत्य तम् ।
उवाच सर्वधर्माणां प्रतिष्ठिः राजशान्तये ॥ १३.२९५ ॥

राजनीत्या प्रवर्तन्ते खकर्मसु सदा प्रजाः ।
श्रुतिस्मृतिसदाचारे कारणं राजवृत्तयः ॥ १३.२९६ ॥

त्राता धर्मगतस्यास्य यस्मात्किल नरेश्वरः ।
गौरवादात्मतुल्यं तं स्वधर्मस्थममन्यत ॥ १३.२९७ ॥

पिता प्रजानां नृपतिर्जगत्सीदत्यराजकम् ।
वस्तव्यं म्लेच्छमध्येऽपि साधुभिर्न त्वराजके ॥ १३.२९८ ॥

दुर्बलं घ्नन्ति बलिनः सेवन्ते च परस्त्रियः ।
मांसं मिथश्च खादन्ते राष्ट्रे राजविवर्जिते ॥ १३.२९९ ॥

अराजकाः प्रजाः पूर्वं निमग्नाः स्थितिविप्लवे ।
चक्रिरे राजभागार्थं मनुं निमग्नाः स्थितिविप्लवे ।
चक्रिरे राजभागार्थं मनुं वैवस्वतं नृपम् ॥ १३.३०० ॥

राज्ञा सुमनसा पूर्वं कौसल्येन बृहस्पतिः ।
पृष्टो बभाषे लोकानां दण्डधारं परायणम् ॥ १३.३०१ ॥

नाराजकेषु राष्ट्रेषु हव्यं वहति पावकः ।
न च धर्माः प्रवर्तन्ते न च वर्षति वासवः ॥ १३.३०२ ॥

कुतो धनं कुतो दाराः शरीरं च कुतो नृणाम् ।
सर्वदेवमयस्त्राता यावन्न वसुधाधिपः ॥ १३.३०३ ॥

सर्वावलोकने सूर्यः पापानां निग्रहे यमः ।
कुबेरो भरणे राजा प्रायश्चित्तेषु पावकः ॥ १३.३०४ ॥

आच्छेत्ता राजवित्तानां हन्ता मर्षयितापि वा ।
सर्वे प्रयान्ति नरकं यथा ब्रह्मस्वहरिमः ॥ १३.३०५ ॥

यज्वनां धर्मशीलानां वैराग्यन्यस्तकर्मणाम् ।
तुल्यमाप्नोति भूपालः फलं लोकानुपालनात् ॥ १३.३०६ ॥

इति देवगुरोर्वाक्यं निशम्य स महीपतिः ।
चिरं प्रजाः स्वधर्मस्थाः पालयित्वा दिवं ययौ ॥ १३.३०७ ॥

कोशेदुर्गबलादीनां क्षयं शत्रुषु(ष्व)निर्दिशन् ।
अप्रमत्तः सद राजा कुर्यात्संश्रयमात्मनः ॥ १३.३०८ ॥

सर्वतो गुप्तमन्त्राणां गूढप्रणिधिचक्षुषाम् ।
स्वस्थप्रकृतिसाराणां राज्ञां लक्ष्मीरनश्वरा ॥ १३.३०९ ॥

सेवेत धर्मानद्वेषस्त्यजेत्प्रीतिमदारुणः ।
अकर्कशो लभेतार्थान्कामी स्यादमदोद्धतः ॥ १३.३१० ॥

प्रियं वदेददैन्यश्च विक्रान्तश्चाविकत्थनः ।
दयादानमकामश्च पटुः स्यादकटुर्गिराम् ॥ १३.३११ ॥

मैत्त्रः स्यादखलासङ्गी युध्येत न तु बन्धुभिः ।
विद्ध्येत शत्रुन्नानास्त्रैः कुर्यात्सर्वमहिंसकः ॥ १३.३१२ ॥

ज्ञानं दिशेन्न चासत्सु गुणाञ्श्लाघेत नात्मनः ।
हरेदर्थान्न साधुम्भः संश्रयेत न दुर्जनम् ॥ १३.३१३ ॥

दण्डयेन्नाविचारेण मन्त्रसेन्न न संसदि ।
पूरयेन्न कदर्यांस्तु विश्वसेन्न च वैरिषु ॥ १३.३१४ ॥

रक्षेद्दारान्नहीर्ष्यालुः कलावान्स्यादवञ्चकः ।
भजेन कान्ता नात्यन्तमद्यात्साधु न चाहितम् ॥ १३.३१५ ॥

सेवेतार्च्यान्न तु स्तब्धो भवेच्छिष्यो न मायया ।
यजेत देवान्नो दम्भादिच्छेद्भूतिमनिन्दिताम् ॥ १३.३१६ ॥

प्रीतिं भजेन्नातिनयो दक्षश्चारभसो भवेत् ।
आशां सृजेन्न विफलां विभजेत न विष्ठुरम् ॥ १३.३१७ ॥

प्रहर्ता स्तान्न सर्वत्र हन्याच्छत्रून्नशेषकृत् ।
प्रकुप्येन्न त्वदोषेभ्यः पेशलः स्यान्न शत्रुषु ॥ १३.३१८ ॥

एतैर्युक्ताः किल गुणैः पार्थिवाः पृथुवंशजाः ।
यशःशुभ्रा प्रयान्त्येव सततं हारतां श्रियः ॥ १३.३१९ ॥

***** गुणषट्रिंत्रशकाः ॥ ९ ॥ *****
ब्राह्मणाः सर्वदा राज्ञा मूर्ध्नि कार्या बुभूषता ।
ब्राह्मेण तेजसा युक्तं बलं क्षात्रं हि दुःसहम् ॥ १३.३२० ॥

ऐडेन भूभुजा पृष्टः पुरा प्रोवाच मारुतः ।
ब्राह्मणानामियं पृथ्वी धनं वा जातु रक्षितम् ॥ १३.३२१ ॥

अनिवेद्य महीं तस्माद्विप्रेभ्यः पृथिवीपतिः ।
स्वयमप्यर्जितं वीरो न कामाद्भोक्तुमर्हति ॥ १३.३२२ ॥

पुरोधसा ब्राह्मणेन संयुक्तः श्रेयसां नृपः ।
जेता भवति शत्रूणां सर्वलोकाभयंकरः ॥ १३.३२३ ॥

मुचुकुन्दः पुरा राजा विजित्य सकला दिशः ।
ययौ वयस्यं रुद्रस्य कुबेरं जेतुमोजसा ॥ १३.३२४ ॥

ततः प्रवृत्ते समरे गुह्यका बलवत्तराः ।
पृथुना मुचुकुन्दस्य तेजसा च क्षयं ययुः ।
क्षणादलक्ष्यमन्त्रस्य वीरास्ते यक्षराक्षसाः ॥ १३.३२५ ॥

ततः प्राप्ताः कुबेरेण दत्तां वसुमतीं नृपः ।
त्यक्त्वा पराक्रमेणैव स जग्राह बलोत्कटः ॥ १३.३२६ ॥

इति राजबलं ब्रह्मबालानुप्राणितं सदा ।
अभग्नप्रणयां धत्ते त्रैलोक्यविजयश्रियम् ॥ १३.३२७ ॥

***** मुचुकुन्दोपाख्यानम् ॥ १० ॥ *****
ब्राह्मणान्पुरतः कृत्वा प्रजा धर्मेण पालयेत् ।
चतुर्भागहरो राजा प्रजानां पुण्यपापयोः ॥ १३.३२८ ॥

तस्य संवृतमन्त्रस्य प्रजाकार्याणि पश्यतः ।
वदान्यस्यानृशंसस्य क्वचिद्धर्मो न लुप्यते ॥ १३.३२९ ॥

विप्राः पूज्याः सदा राज्ञा यथोक्ताचारवर्तिनः ।
शूद्रवत्क्रूरकर्मार्हा दण्ड्यास्त्वाचारवर्जिताः ॥ १३.३३० ॥

पुरा केकयभूपालो गृहीतो रक्षसा वने ।
आश्वासयन्निजं चेतो जगाद धृतिसागरः ।
न भेतव्यं त्वया चित्त राष्ट्रे मे नास्ति विप्लवः ॥ १३.३३१ ॥

नायज्वा न विकर्मस्थो न पापी न कुलच्युतः ।
विद्यते नगरे कश्चित्क्षत्त्रधर्मे स्थितस्य मे ॥ १३.३३२ ॥

इति ब्रुवाणं नृपतिं स तत्याज निशाचरः ।
सत्यशीलाः स्वधर्मस्था लभन्ते न पराभवम् ॥ १३.३३३ ॥

विश्वसेन् च सर्वत्र न च शङ्केत पार्थिवः ।
विश्वासी चातिशङ्की च सर्वथा विपदां पदम् ॥ १३.३३४ ॥

आप्तेष्वपि न विश्वासः कर्तव्यः किल भूभुजा ।
न शरीराणि चेतांसि स्थिराणि न हि देहिनाम् ॥ १३.३३५ ॥

तस्मात्कोशश्च मन्त्रश्च रक्षणीयः प्रयत्नतः ।
काले काले स्वयं राज्ञा द्रष्टव्यश्चाप्रमादिना ॥ १३.३३६ ॥

पुरा बभाषे भगवान्नारदं गरुडध्वजः ।
वृष्णीनामाह्निकं राज्ञां चिन्ताभरमहं सहे ॥ १३.३३७ ॥

गुणविक्रमसंपन्नाः साभिमाना मता न मे ।
न शृण्वन्ति न मन्यन्ते गिरा मां व्यथयन्निव ॥ १३.३३८ ॥

एतच्छ्रुत्वा सुरमुनिः केशवं प्रत्यभाषत ।
सत्वसारा वहन्त्येव गणकार्यं महाशयाः ॥ १३.३३९ ॥
दानेन क्षमया शक्त्या मार्दवेनार्जवेन च ।
वशे तिष्ठन्ति धीराणां गुणबद्धा महागुणाः ॥ १३.३४० ॥

आर्जवं न तु कोशेषु प्रशंसन्त्यर्थदर्शिनः ।
श्रुत्वैतन्नारदेनोक्तं तथेति हरिरभ्यधात् ॥ १३.३४१ ॥

***** हरिनारदसंवादः ॥ ११ ॥ *****

सर्वात्मना विशुद्धेषु सचिवेषु नरेश्वरः ।
चारैः सदा तदाचारं जानन्कार्याणि निक्षिपेत् ॥ १३.३४२ ॥

कोशाध्यक्षः स्वयं राजा परिरक्ष्यः शुचिः सदा ।
अमात्या न सहन्ते तं गोप्तारं कोशहारिणः ॥ १३.३४३ ॥

कोसलाधिपतेः पूर्वं नगरे क्षेमदर्शिनः ।
मुनिः कालकवृक्षे(क्षी)यो यदृच्छाभ्यागतोऽवसत् ॥ १३.३४४ ॥

पञ्जरे काकमादाय सा राजा सर्वपक्षिणाम् ।
संचरन्बुबुधे सर्वं स्ववृत्तं राजजीविनाम् ॥ १३.३४५ ॥

मन्त्रश्रावमकार्यं च कोशलोपं च मन्त्रिणाम् ।
स निवेद्य सदा राज्ञे प्रत्यक्षं समदर्शयत् ॥ १३.३४६ ॥

ते सर्वे कण्टकं मत्वा संहत्य नृपजीविनः ।
सुप्तं तं वायसं रात्रौ जघ्नुर्बाणेन निर्जने ॥ १३.३४७ ॥

काकं निहतमालोक्य नृपमेत्याब्रवीन्मुनिः ।
स्वस्ति गच्छामि भूपाल भयात्त्वदनुवीविनाम् ॥ १३.३४८ ॥

स तैर्मे निहतः काकः प्राह यो मां भव द्वितम् ।
काको निपतितो दैवान्मदर्थं प्रेरितः शरः ।
विभेद्य पातयामात्यानित्युक्त्वा विरराम सः ॥ १३.३४९ ॥

राजापि तद्गिरा काले शोषयित्वा क्रमेण तान् ।
दानेन भेदयित्वा च चक्रे निष्कण्टकां श्रियम् ॥ १३.३५० ॥

***** काकपञ्जरिका ॥ १२ ॥ *****
तस्मात्क्रमागतं कुर्याद्द्रष्टारं नृपतिर्हितम् ।
भवन्ति यद्भयात्सर्वे कायस्था भिन्नसंहताः ॥ १३.३५१ ॥

दासाधिपशतस्यैको भवेदुपरिचिन्तकः ।
तत्सहस्रस्य चाध्यक्षः सर्वं राज्ञो निवेदयेत् ॥ १३.३५२ ॥

घोषं ग्रामं पुरं राष्ट्रं भक्षयन्त्यधिकारिणः ।
क्रियन्ते यदि न प्राज्ञौरुपर्युपरि चिन्तकाः ।
मलोपदानेनार्हाश्च तीव्रपाकानिवारिणः ॥ १३.३५३ ॥

शीत्कारकमलोत्कारविपर्यस्तलिपिक्रमैः ।
क एषां भृतभस्त्राणां चौर्यस्योद्भासने क्षमः ॥ १३.३५४ ॥

तेषां लुण्ठकवृत्तीनां जृम्भारम्भमृजा जुषाम् ।
नगराण्येव चुलकं गलगर्तगलद्गिराम् ॥ १३.३५५ ॥

तैर्घट्यमानां पृथिवीं रक्षेद्वेतालचेष्टितैः ।
येषां नरकपाकोग्रपर्यन्ते विषमा स्थितिः ॥ १३.३५६ ॥

यौवनाश्वं नरपतिं प्रागुतथ्योऽवदन्मुनिः ।
पृथिवीपालने राजन्कुरु कण्ठकशोधनम् ॥ १३.३५७ ॥

अनाथान्दुर्बलान्रक्षेत्कृपणांश्चानुलेपयेत् ।
राज्ञां हि कृपणाक्रन्दैर्मूलान्नश्यन्ति संपदः ॥ १३.३५८ ॥

अर्थोऽप्यनर्थतां याति भूभुजां जनपीडनात् ।
जनापवादपरशुं सहते श्रीलता कथम् ॥ १३.३५९ ॥

वदान्यः सभ्यवान्वीरः कृतज्ञः सत्यवाक्पटुः ।
अभिजातो भवत्येव प्रजानां सुकृतैर्नृपः ॥ १३.३६० ॥

उतथ्येनेति कथिते मांधाता पृथिवीपतिः ।
तथा शशास यशसा यथा जीवन्निव स्थितः ॥ १३.३६१ ॥
***** उतथ्यगीताः ॥ १३ ॥ *****
उवाच कोसलाधीशं वामदेवः पुरा मुनिः ।
धर्मलोपेन भूपानां क्षीयन्ते सहसा श्रियः ॥ १३.३६२ ॥

सुहृद्भिः प्रणयक्रीतैर्मानक्रीतैर्मनीषिभिः ।
धनक्रीतैस्तथा भृत्यैर्धार्यते श्रीर्महीभुजा ॥ १३.३६३ ॥

शृणोति करुणाक्रन्दं श्रुत्वा च त्रायते भयत् ।
नाविचार्य सृजेद्दण्डं यः स सर्वप्रियो नृपः ॥ १३.३६४ ॥

नातः परतरं किंचिद्राज्ञः किल्बिषकारणम् ।
प्रजा विरक्ततां यान्ति यत्कुभर्तुरिवाबलाः ॥ १३.३६५ ॥

इत्युक्तं वामदेवेन श्रुत्वा स वसुधाधिपः ।
वर्तमानः स्वधर्मेण प्रजानामभवत्प्रियः ॥ १३.३६६ ॥

***** वामदेवगीताः ॥ १४ ॥ *****
विषमस्थैरसंनद्धैः क्षीणसैन्यैर्भयार्दितैः ।
न युध्यते क्षत्रियो यः स धर्मविजयी नृपः ॥ १३.३६७ ॥

तथा मन्ये न शोच्यः श्वा मृतो विण्मूत्रकर्दमे ।
निहतः स्वजनस्याग्रे क्षत्रियः शयने यथा ॥ १३.३६८ ॥

परैर्विदारिते सैन्ये हते भृत्यजने पुरः ।
ये स्वयं क्षेमिणो यान्ति धिक्तान्क्षत्रियपांसनान् ॥ १३.३६९ ॥

यस्य पृष्ठं न पश्यन्ति युध्यमानस्य शत्रवः ।
स हतः स्वर्गमासाद्य शक्रेण स्पर्धते नृपः ॥ १३.३७० ॥

***** विजिगीषमाणवृत्तम् ॥ १५ ॥ *****
अम्बरीषः पुरा राजा यज्वा प्राप्य सुरालयम् ।
सुदेवाख्यं चमूनाथं ददर्शाभ्यधिकं श्रिया ॥ १३.३७१ ॥

उपर्युपरि गच्छन्तं सर्वेषां पुण्यशालिनाम् ।
तं दृष्ट्वा विस्मितः शक्रं पप्राच्छ स महीपतिः ॥ १३.३७२ ॥

यथाधर्मं यथाशास्त्रं पालयित्वा वसुंधराम् ।
इष्ट्वा दत्वा च तप्त्वा च प्राप्तोऽहं त्वत्पुरीमिमाम् ॥ १३.३७३ ॥

मम सेनापतिरयं सुदेवः केन कर्मणा ।
प्रभाभिरभिभूयास्मानुच्चैः सूर्य इव स्थितः ॥ १३.३७४ ॥

इति राज्ञा सुरपतिः पृष्टस्तं प्रत्यभाषत ।
शृणु येनाधिको राजंस्त्वत्तोऽयं पृतनापतिः ॥ १३.३७५ ॥

शस्त्रानले रणमखे रुधिराज्ये धनुःस्रवे ।
कबन्धयूपे कृतिना हुतानेन निजा तनुः ॥ १३.३७६ ॥

सोऽयं विराजते वीरस्तेजसा कृतमण्डलः ।
निष्कम्पः समरे कृत्तस्रस्तानामभयप्रदः ॥ १३.३७७ ॥

श्रुत्वैतद्विस्मितो राजा प्रशंसन्वीरविक्रमान् ।
विस्मितश्च प्रहृष्टश्च मनसा तमपूजयत् ॥ १३.३७८ ॥

***** शक्राम्बरीषसंवादः ॥ १६ ॥*****
पृष्टः पुरा सुरेन्द्रेण राजनीतिं बृहस्पतिः ।
उवाच श्रीर्यथा राज्ञां न करोति तडिद्भ्रमम् ॥ १३.३७९ ॥

वचसा मधुरेणैव कुर्यान्मूलक्षयं रिपोः ।
घोरेण कलहेनाप्तो जघन्यो हि जयः स्मृतः ॥ १३.३८० ॥

संदेहायोद्धृतं शस्त्रं वाग्युद्धं कण्ठशोषणम् ।
शत्रुं हन्यात्प्रियालापैः कुरङ्गमिव लुब्धकः ॥ १३.३८१ ॥

प्रणमेद्देशकालज्ञो बलिनं रिपुमुद्यतम् ।
तमेवापचिते काले हन्यादेष नयक्रमः ॥ १३.३८२ ॥

साम्ना सेवेत बलिनं लुब्धं दानेन साधयेत् ।
भेदेन कुपितामात्यं हीनं दण्डेन पातयेत् ॥ १३.३८३ ॥

प्रमादिनं सहानीकं कोशदुर्गबलोचितम् ।
सर्वोपायविहीनं च तूष्णीं दण्डेन योजयेत् ॥ १३.३८४ ॥

सदा विबुध्येत निजान्विरक्ताननुजीविनः ।
आत्मनस्तांश्च गूहेत च्छिद्रं यच्चिन्तयेदरेः ॥ १३.३८५ ॥

न भाषते वेपते च लक्षितः क्ष्मां निरीक्षते ।
न चतुष्पतिदानेन विरक्तहृदयो जनः ॥ १३.३८६ ॥

गुरुणा कथितं श्रीमान्निशम्यैतत्पुरंदरः ।
आत्मगुप्तः परान्वेषी बभूवावहितः सदा ॥ १३.३८७ ॥
***** इन्द्रबृहस्पतिसंवादः ॥ १७ ॥ *****
दैवादवाप्तो विपदं न शोचेद्वसुधाधिपः ।
अनिर्वेदेन लभ्यन्ते हारिता अपि संपदः ॥ १३.३८८ ॥

मुनिः कालकवृक्षीयः क्ष्माभुजा क्षेमदर्शिना ।
विभ्रष्टेन पुरा पृष्टो जगाद नयकोविदः ॥ १३.३८९ ॥

विद्युद्विलासतरलाः सुराणामपि संपदः ।
राजन्न नित्यमायुश्च यत्कृते श्रियमीहसे ॥ १३.३९० ॥

तथापि यदि ते वाञ्छा स्वे राज्ये शत्रुणा हते ।
गत्वा तमेव सेवस्व मौनं कृत्वा कृताञ्जलिः ॥ १३.३९१ ॥

तावच्च सेवको भूत्वा सर्वथा व्यसनालसम् ।
यावत्कोशे च मित्रे च शनकैरुपचीयसे ॥ १३.३९२ ॥

प्रविश्य च मनः प्रीत्या प्रियवादी यथा तथा ।
प्रोत्साहानामकार्येषु कुर्वीथा दुस्तेरष्वरेः ॥ १३.३९३ ॥

ततस्तं संशयापन्नं द्रुतकोशं प्रमादिनम् ।
तैस्तैरुपायैर्द्रव्यैर्वा कुर्वीथाः क्षणसाधनम् ॥ १३.३९४ ॥

इत्युक्ते मुनिना राजा कुत्सिताचारकूणितः ।
मानी नैतत्करोमीति जगादाभिजनोज्ज्वलः ॥ १३.३९५ ॥

तस्य सत्यवतो भावमुपलभ्य मुनिस्ततः ।
दूतो भूत्वा स्वयं संधौ तस्य शत्रुमयोऽजयत् ॥ १३.३९६ ॥

संधाय मुनिवाक्येन वैदेहः क्षेमदर्शिना ।
विततार सुतां तस्मै विभवं च यथोचितम् ॥ १३.३९७ ॥

***** कालकवृक्षीयम् ॥ १८ ॥ *****
पालयेत्स्वगणं राजा परेषां भेदयेद्गणम् ।
सम्यग्वृत्तेन सत्येन वर्तन्ते हि गणाः सदा ॥ १३.३९८ ॥

गणैर्विजयते राजा चिन्तितैः स्वभृतैस्तथा ।
उपेक्षितैः संहतैश्च तैरेवाशु विपद्यते ॥ १३.३९९ ॥

प्रशाम्यति बहिः कोपो राज्ञां सामादिभिः क्षणात् ।
गूढस्तु वेश्मनीवाग्निर्नान्तः कोपो गणोद्भवः ॥ १३.४०० ॥

***** गणवृत्तम् ॥ १९ ॥ *****
दैवतं पितरो यस्य धर्मो यस्य प्रजाहितम् ।
सम्यग्दण्डो व्रतं यस्य स राजा यज्वनां वरः ॥ १३.४०१ ॥

न सत्यं केवलं सत्यमनृतं न तथानृतम् ।
हितं यत्सर्वलोकस्य तत्सत्यं शेषमन्यथा ॥ १३.४०२ ॥

अनृतेनानृताचारश्चिकित्स्यः किल भूभुजा ।
सत्येन सत्यशीलश्च सेव्यो विभवमिच्छता ॥ १३.४०३ ॥

***** सत्यानृतकम् ॥ २० ॥ *****
याजिनः शुद्धसंकल्पास्त्यागिनः पात्रवर्षिणः ।
त्रातारः सर्वधर्माणं कर्तारः पुण्यकर्मणाम् ॥ १३.४०४ ॥

श्रोतारः साधुवचसां भेत्तारो धनहारिणाम् ।
तरन्ति घोरदुर्गाणि परत्रेह च भूमिपाः ॥ १३.४०५ ॥

सदाचारास्तपोयुक्ताः प्रशान्ताः सत्यवादिनः ।
संतरन्ति च दुर्गाणि नारायणपरायणाः ॥ १३.४०६ ॥

***** दुर्गातितरणम् ॥ २१ ॥ *****
असौम्याः सौम्यचरिता मृदवः क्रूरकारिणः ।
भवन्ति पुरुषा लोके तांश्च बुध्येत भूमिपः ॥ १३.४०७ ॥

पुरा बभूव भूपालः प्रेरकः पूरिकापतिः ।
दारुमः पुरुषः क्षुद्रः पिशिताशनचेष्टितः ॥ १३.४०८ ॥

कालेन पञ्चतां यातः स च प्राप्तः शृगालताम् ।
जन्मान्तरकृतैः पुण्यैर्जातं सस्मार दुःखितः ॥ १३.४०९ ॥

आपन्नः कुत्सितं सर्गं निर्वेदाच्छातमानसः ।
परैरप्याहृतं मांसं नाददे फलभोजनःछ ॥ १३.४१० ॥

श्मशाननिलयं कोपात्तं विलोक्य शुचिव्रतम् ।
ऊत्चुर्गोमायवः सर्वे निन्दन्तस्तद्विचेष्टितम् ॥ १३.४११ ॥

वसतापि श्मशानेऽस्मिन्हारितं जडबुद्धिना ।
त्वया मूढव्रतेनेदं स्वादु मांसरसायनम् ॥ १३.४१२ ॥

विपरीतमिदं सर्वं दुनोति हृदयं सताम् ।
अस्मिन्पितृवने घोरे शृगालो यदमांसभुक् ॥ १३.४१३ ॥

भुङ्क्ष्वेति तैरभिहितः सोऽवदद्विमलाशयः ।
न शीलकारणं जातिर्नाश्रमः पुण्यकारणम् ॥ १३.४१४ ॥

किमाश्रमे प्राणिवधः पातकं न प्रचक्षते ।
मनः शुद्धिकृतं सर्वं प्रमाणं कर्म देहिनाम् ॥ १३.४१५ ॥

इति ब्रुवाणं तं सर्वे विज्ञाय दृढनिश्चयम् ।
नोचुः किंचिदमर्शेन किंत्वतप्यन्त केवलम् ॥ १३.४१६ ॥
ततः कदाचित्तद्वृत्तं श्रुत्वा व्याघ्रोऽभिपत्य तम् ।
उवाच मम साचिव्यं शुद्धात्मा भजतां भवान् ॥ १३.४१७ ॥

गोमायुरथ तच्छ्रुत्वा बभाषे विनयानतः ।
स्वाच्छन्द्यममृतं त्यक्त्वा कः सेवां विकटां श्रयेत् ॥ १३.४१८ ॥

संतोषद्रविणं त्यक्त्वा निरायासमनश्वरम् ।
अभ्यर्थयेत कः सेवां दैव्यातङ्ककलङ्किताम् ॥ १३.४१९ ॥

अथवा यदि निर्बन्धात्तत्करोमि भवद्वचः ।
मयैवेकेन भृत्येन भवितव्यं सदा त्वया ॥ १३.४२० ॥

त्वदेकसंश्रयं भक्त्या न च संघातवासिनम् ।
विनाशयन्ति पिशुना न यथा मां तथा कृथाः ॥ १३.४२१ ॥

एवमुक्त्वा शममयं निष्कामः पूज्यगौरावत् ।
तथेति वादिनस्तस्य व्याघ्रस्यामात्यतां ययौ ॥ १३.४२२ ॥

तमाश्वास्य भुवं नीतमेकं सर्वाधिपं कृतम् ।
व्याघ्रेण वीक्ष्य दुःखाब्धौ पेतुस्तदनुजीविनः ॥ १३.४२३ ॥

व्याघ्राय कल्पितं मांसं निन्युर्गोमायुकेतनम् ।
क्व मांसमिति ते पृष्टा व्याघ्रेण क्षुद्रकारिणः ।
ऊचुश्चौर्येण तन्नीतं शुचिना तव मन्त्रिणा ॥ १३.४२४ ॥

मिथ्याचारं विदित्वा तं दृष्ट्वा मांसं च तद्गृहे ।
क्रोधान्धो हन्तुकामस्तं व्याघ्रः संरम्भमाययौ ॥ १३.४२५ ॥

तमभ्येत्याब्रवीन्माता व्याघ्री पिशुनशङ्किता ।
शुद्धाय तस्मै भृत्याय विमोहात्पुत्र मा क्रुधः ॥ १३.४२६ ॥

बहवः संहता धूर्ताः संमतं सचिवं नवम् ।
मिथ्यादोषेण लिम्पन्ति निर्देषं क्षुद्रपण्डिताः ॥ १३.४२७ ॥

स्वरूपं विकृतो द्वेष्टि शूरं भूरुर्बुधं जडः ।
कुलीनं हीनजन्मा च दुःशीला च पतिव्रताम् ॥ १३.४२८ ॥

एवं विबोधितो मात्रा तत्त्वमन्विष्य चारतः ।
शुद्धं विज्ञाय तं व्याघ्रः प्रसाद्यसीद्विलज्जितः ॥ १३.४२९ ॥

तमब्रवीच्छृगालोऽथ स्वस्ति गच्छाम्यहं विभो ।
विमानितस्त्वया वस्तुं नोत्सहे त्यक्तसंविदा ॥ १३.४३० ॥

गुमवानिति संसत्सु यः स्तुतः साधुभिः पुरा ।
सत्यप्रतिज्ञैर्देषेऽपि न स वाच्योऽन्यथा पुनः ॥ १३.४३१ ॥

भिन्न तथास्मिन्संश्लेषे पुनः प्रीतिः सुदुर्लभा ।
इत्युक्त्वा व्याघ्रमामन्त्र्य गोमायुस्तपसे ययौ ॥ १३.४३२ ॥

स कालेन निराहारः शान्तसंसारवासनः ।
वने कलेवरं त्यक्त्वा त्रिदिवं प्रययौ कृती ॥ १३.४३३ ॥

***** व्याघ्रगोमायुसंवादः ॥ २२ ॥ *****
आस्थाय वैतसीं वृत्तिं देशकालौ समीक्ष्य ये ।
न सन्ति तिष्ठन्त्युच्चैर्वा न ते यान्ति पराभवम् ॥ १३.४३४ ॥

सागरः सरितः सर्वाः पुरा पप्रच्छ कौतुकात् ।
युष्मत्प्रवाहेष्वखिलान्पश्याम्युन्मूलितान्द्रुमान् ॥ १३.४३५ ॥

एते विशन्ति मां वृक्षा हृता कूलंकषैर्जलैः ।
वेतसं न तु पश्यामि कस्मादत्र तटोद्भवम् ॥ १३.४३६ ॥

समुद्रेणेति पृष्ठासु नदीषु प्राह जाह्नवी ।
ह्रियमाणः सदाम्भोभिर्विनमत्येव वेतसः ॥ १३.४३७ ॥

हन्तुं न शक्यास्ते वृक्षा महौघैर्विनमन्ति ये ।
त्रुट्यन्ति त्रासादेवान्ये द्रुमा मूर्खा इवोद्धताः ॥ १३.४३८ ॥

एतद्गाङ्गं वचः श्रुत्वा तथेत्यूचे सरित्पतिः ।
मेने च वैतसीं वृत्तिं श्रेयसे देशकालयोः ॥ १३.४३९ ॥

***** सरित्सागरसंवादः ॥ २३ ॥ *****
राज्ञां धनं निजा बुद्धिर्दाक्ष्यं चोत्साहशालिनाम् ।
अलसा बुद्धिहीनाश्च सर्वथा विपदां पदम् ॥ १३.४४० ॥

उष्ट्रः परेण तपसा प्रजापतिवरात्पुरा ।
आलस्योपहतो ग्रीवामवाप शतयोजनीम् ॥ १३.४४१ ॥

आसने चोपविष्टोऽथ तया पीलुवनेषु सः ।
प्राणयात्रां सदा चक्रे मन्यमानो महत्सुखम् ॥ १३.४४२ ॥

दुर्दिनाभिहते काले कदाचित्तस्य जम्बुकैः ।
क्षुत्क्षामैर्भक्षिता ग्रीवा दीर्घा सा मण्डलीकृता ॥ १३.४४३ ॥

***** उष्ट्रग्रीविकम् ॥ २४ ॥ *****
कुलीनान्विदिताचारान्राजा कर्मसु योजयेत् ।
पदे महति विन्यस्ताः संशयायैव दुर्जनाः ॥ १३.४४४ ॥

उवास श्वा कृपापात्रमाश्रमे कस्यचिन्मुनेः ।
स दृष्ट्वा द्वीपिनं घोरं कदाचिदवदद्भयात् ।
भगवन्नेष मां द्वीपी क्षुधितो हन्तुमागतः ॥ १३.४४५ ॥

पाहि पाहिति तेनोक्तः स मुनिः करुणानिधिः ।
एतत्तुल्यो भवेत्युक्त्वा तं चक्रे द्वीपिविग्रहम् ॥ १३.४४६ ॥

सोऽपि श्वा द्वीपितां प्राप्तस्त्रस्तो व्याघ्रात्पुनर्मुनिम् ।
त्रायस्वेत्यभिधायैव व्याघ्रातां तद्गिरा ययौ ॥ १३.४४७ ॥

सोऽपि मत्तगजाद्भीतः कालेन मदमन्थरात् ।
मुनिना कल्पितां प्रीत्या प्राप्तौ मत्तगजेन्द्रताम् ॥ १३.४४८ ॥

सोऽपि पञ्चाननाद्भीतः करालात्तालकेसरात् ।
यातस्तच्छासनादेव सहसा मृगराजताम् ॥ १३.४४९ ॥

अष्टपादं महादंष्ट्रं दृष्ट्वा शरभमागतम् ।
स विषण्णो मुनिगिरा बभूव शरभः क्षणात् ॥ १३.४५० ॥

कालेन शरभाकारः सर्वप्राणिभयंकरः ।
स जातदर्पः सहसा तं मुनिं हन्तुमुद्ययौ ॥ १३.४५१ ॥

अपध्वस्तस्ततस्तेन मुनिना हुंकृतेन सः ।
स बभूव पुनर्दीनः क्षणादशुचिविग्रहः ॥ १३.४५२ ॥

इत्यविज्ञातशीलेभ्यो हीनेभ्यो वितरञ्श्रियम् ।
कुलाचारमनालोच्य राजा पतति संशये ॥ १३.४५३ ॥

***** श्वऋषिसंवादः ॥ २५ ॥ *****
नयमेवांविधं ज्ञात्वा राजदण्डेन गामिमाम् ।
सर्वकामदुघां वीरः पालयेन्न तु पीडयेत् ॥ १३.४५४ ॥

वसुहोमोऽङ्गनृपतिर्हिमविच्छिखरे पुरा ।
अवदद्यौवनाश्वेन पृष्टो दण्डस्य संभवम् ॥ १३.४५५ ॥

धृतो वर्शसहस्रं प्राङ्भूर्ध्ना गर्भः प्राजासृजा ।
क्षुतेन सहसोऽत्सृष्टः स श्रीमान्क्षुप इत्यभूत् ॥ १३.४५६ ॥

अत्रान्तरे जगत्सर्वमाशासनमयन्त्रणम् ।
निर्मर्यादं विलोक्येदं व्याकुलोऽभूत्प्रजापतिः ॥ १३.४५७ ॥

अथास्य वचसा रुद्रः प्रययौ दण्डतां स्वयम् ।
दंष्ट्री चतुर्भुजो दीप्तः श्यामोष्ठचरणो जटी ॥ १३.४५८ ॥

देवस्तं विष्णवे प्रादाद्विष्णुरङ्गिरसे ददौ ।
सोऽपि शक्रमरीचिभ्यां मरीचिर्भृगवे ततः ॥ १३.४५९ ॥

स मुनिभ्यो ददौ तेऽपि दिक्पतिभ्यो क्षुपाय ते ।
क्षुपश्च मनवे प्रादाद्दण्डं धर्मस्य गुप्तये ॥ १३.४६० ॥

तस्मिन्सम्यक्प्रणिहिते रक्षायै पूततेजसि ।
लभन्ते शाश्वतं वीरा यशः स्वर्गं च भूमिपाः ॥ १३.४६१ ॥

इत्युक्तमङ्गराजेन मांधाता पृथिवीपतिः ।
निशम्योत्फुल्लनयनः सादरं तमपूजयत् ॥ १३.४६२ ॥

***** वसुहोमोपाख्यानम् ॥ २६ ॥ *****
कामलोभोद्भवं पापं राज्ञो ब्राह्ममसेवया ।
पुनश्चाकरणाद्दानात्कीर्तनाच्च विनश्यति ॥ १३.४६३ ॥

त्रयी त्राता ततो धर्मं भजते त्यक्तकिल्विषः ।
इत्यरिष्टेन पृष्टः प्राङ्भुनिः कामर्दकोऽब्रवीत् ॥ १३.४६४ ॥

***** कामन्दारिष्टसंवादः ॥ २७ ॥ *****
शीलमाभरणं राज्ञां सौजन्यं विदुषामिव ।
शीलेन राजते लक्ष्मीर्वसन्तेनेव मञ्जरी ॥ १३.४६५ ॥

राजसूये श्रियं दृष्ट्वा तव द्वेषविपाकुलः ।
दुर्योधनः पुरा पित्रे द्यूते कामं न्यवेदयत् ॥ १३.४६६ ॥

धृतराष्ट्रस्तमवदत्पुत्र मा भव विप्लुतः ।
प्रवर्तन्तां तवाप्यन्ते यज्ञा विपुलसंपदः ॥ १३.४६७ ॥

शीलवान्प्राप्स्यसि सदा लक्ष्मीं पाण्डुसुताधिकः ।
न हि शीलवतः किंचिद्विद्यते भुवि दुर्लभम् ॥ १३.४६८ ॥

शीलं राज्ञां दिशां चनन्द्रस्तारुण्यं बहरिणीदृशाम् ।
मधुमासश्च वृक्षाणां मनोहार्यं विभूषणम् ॥ १३.४६९ ॥

विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं तु निखिलं धनम् ॥ १३.४७० ॥

शीलवित्तोचितं शक्रः प्रदीप्तविभवं पुरा ।
बृहस्पतिपुरः प्रायात्प्रह्लादं ब्राह्मणाकृतिः ॥ १३.४७१ ॥

श्रेयो वदेति विनयाद्दैत्येन्द्रस्तेन शिष्यवत् ।
पृष्टो बभाषे कालेन प्राजाकार्यैकसक्तधीः ॥ १३.४७२ ॥

त्रैलोक्यराज्यं संप्राप्तं मया शीलवता सदा ।
शृणोति विद्या विदुषां कवीनां संशये वचः ॥ १३.४७३ ॥

अनिर्णीतमसंस्पृष्टमनाख्यातमचिन्तितम् ।
सहसा न भजेत्किंचिदपि स्वादु विचारधीः ॥ १३.४७४ ॥

एतदेव हितं विप्र सर्वेषामपि देहिनाम् ।
वरं गृहाण तुष्टोऽहं तव प्रणयसेवया ॥ १३.४७५ ॥

इत्युक्तो दानवेन्द्रेण तुष्टः प्रोवाच वृत्रहा ।
सर्वं देहि निजं मह्यां शीलं शीलवतां वर ॥ १३.४७६ ॥

श्रुत्वैतत्सत्यवाग्दैत्यो ददानीति तमब्रवीत् ।
शक्रोऽपि तद्गिरा प्राप्य प्रययौ द्विजवेशभृत् ॥ १३.४७७ ॥

गते तस्मिन्महोत्साहे छायारूपो वराकृतिः ।
प्रह्लादविग्रहात्तूर्णं निर्ययौ पुरुषो बहिः ॥ १३.४७८ ॥

कोऽसीति पृष्टस्तेनाथ सोऽवदद्दैत्यभूपतिम् ।
वितीर्णोऽद्य त्वया कामादहं शीलाभिधो गुणः ॥ १३.४७९ ॥

उक्त्वेति शक्रं यातेऽस्मिन्नपरो निरगात्ततः ।
सोऽपि पृष्टोऽवदद्दैत्यं धर्मोऽहं शीलमार्गगः ॥ १३.४८० ॥

विनिःसृतस्तृतीयोऽपि सत्यमरमीत्युवाच ताम् ।
अवदद्वित्तमस्मीति चतुर्थोऽप्यथ निर्गतः ।
अहं बलमिति क्षिप्रं निर्यातः पञ्चमोऽवदत् ॥ १३.४८१ ॥

ततः कमलपर्यङ्कस्थिता कमललोचना ।
प्रह्लादवक्रान्निर्गत्य जगाद कमला स्वयम् ॥ १३.४८२ ॥

व्रजाम्यहं हसस्राक्षं यस्ते शिष्योऽभवद्द्विजः ।
तस्मै त्वया वितीर्णं हि शीलं शीलविभूषण ॥ १३.४८३ ॥

शीलादनुगतो धर्मः सत्यं तदनुयायि च ।
यातं वित्तं च तन्मूलं बलं चैतन्निबन्धनम् ॥ १३.४८४ ॥

एतेषु सुरराजस्य प्रविष्टेषु क्रमाद्वपुः ।
शीलाश्रयां श्रियं विद्धि मामपि प्रस्थितां विभो ॥ १३.४८५ ॥

इत्युक्त्वा शक्रसदनं ययौ लक्ष्मीर्विहाय तम् ।
एवं शीलोद्भवाः सर्वा दुर्योधनविभूतयः ॥ १३.४८६ ॥

इत्युक्तोऽप्याम्बिकेयेन न शशाम सुयोधनः ।
पूज्येषु विमुखा मोहात्सर्वथा हि मुमूर्षवः ॥ १३.४८७ ॥

***** शीलवर्णनम् ॥ २८ ॥ *****
एतत्पितामहेनोक्तं श्रुत्वा सर्वं नृपोचितम् ।
स्मृत्वा दुर्योधनकथां निःश्वस्योवाच धर्मजः ॥ १३.४८८ ॥

आशा ममाभूद्विपुला सततं धृतराष्ट्रजे ।
यथा वननिवृत्तेषु सा मास्मासु विधास्यति ॥ १३.४८९ ॥

सर्वथा युद्धरुचिना प्रत्याख्याते जनार्दने ।
आशा विफलतां नीता सा तेन मम संवृता ॥ १३.४९० ॥

तस्माद्वैपुल्यमायातास्तद्भङ्गे दुःसहाः शुचः ।
निवर्तन्ते कथं नाम कथ्यतां मे पितामह ॥ १३.४९१ ॥

पृष्टो युधिष्ठिरेणेति पुनः शान्तनवोऽब्रवीत् ।
आशा सुमहती पार्थ दशा जीवितहारिणी ॥ १३.४९२ ॥

हैहयो राजपुत्रः प्राक्सुमित्रो नाम कानने ।
जवादनुससारैकं कुरङ्गं वेगवत्तरम् ॥ १३.४९३ ॥

समेषु तरुकुञ्जेषु श्वभ्रेषु विषमेषु च ।
मृगानुसारी सुचिरात्स धन्वी क्लममाययौ ॥ १३.४९४ ॥

ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः ।
आशाविनाशसंतप्तो मुनीनामविशत्सभाम् ॥ १३.४९५ ॥

स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् ।
मुनिस्तं वृषभो नाम बभाषे सस्मिताननः ।
राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् ॥ १३.४९६ ॥

भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुताम् ।
विचिन्वन्हृतमश्वेन बदर्याश्रममाययौ ॥ १३.४९७ ॥

ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः ।
आशाविनाशसंतप्तो मुनीनामविशत्सभाम् ॥ १३.४९८ ॥

स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् ।
मुनिस्तं वृषभो नाम बभाषे स स्मिताननः ॥ १३.४९९ ॥

राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् ।
भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुतम् ॥ १३.५०० ॥

तनुर्नाम मुनिस्तत्र प्रांशुः कृशतराकृतिः ।
दुःखान्तेनावदत्पृष्टो मा राजन्विक्लवो भव ॥ १३.५०१ ॥

न विद्यते जनः कश्चिदाशया यो न हीयते ।
न च पश्यामि तं लोके याचकं योऽभिमन्यते ॥ १३.५०२ ॥

कृतघ्नेषु नृशंसेषु कुटिलेष्वलसेषु च ।
आशादौर्वल्यमायान्ति शरदीवाल्पनिम्नगाः ॥ १३.५०३ ॥

धिक्तां कृशतरामाशां कायशोषविधायिनीम् ।
प्रतिश्रुतमसंप्राप्य हृदयात्परिवर्तते ॥ १३.५०४ ॥

पुत्रे मृते वा नष्टे वा पितुरेकात्मजस्य वा ।
आशा दहति गात्राणि सा कृशापि महीयसी ॥ १३.५०५ ॥

वृद्धानां पुत्रलाभेषु नित्यमाशा भवन्ति याः ।
स्थाविरे जीर्णकायानां ताः कृशा अपि दुःसहाः ॥ १३.५०६ ॥

भ्रामयत्याप्तमात्रैव शोषयत्यायती कृशा ।
हन्ति मग्ना जटिल्येव धिगाशां मृत्युदायिनीम् ॥ १३.५०७ ॥

इत्युक्त्वा तनयं राज्ञे स मुनिर्दिव्यलोचनः ।
अदर्शयत्स्वयं चाभूत्प्रकटं धर्मविग्रहः ॥ १३.५०८ ॥

***** ऋषभगीताः ॥ २९ ॥ *****
आशापाशान्परित्यज्य योगीव विजितेन्द्रियः ।
पातुर्महसि कौन्तेय पृथ्वीं पृथुरिवापरः ॥ १३.५०९ ॥

कोशमूलं बलं राज्ञां तस्मिन्क्षीणे यथा तथा ।
अब्राह्मणधनैः कार्यात्तद्वृद्धिर्धर्मसंपदे ॥ १३.५१० ॥

***** राजधर्माः ॥ ३० ॥ *****
वक्तारं सर्वधर्माणां सिद्धसिन्धुसुतं नृपः ।
क्षीणकोशसहायानां वृत्तिं पप्रच्छ भूभुजाम् ॥ १३.५११ ॥

बलिभिर्विजितो राजा भिन्नमन्त्रो निराश्रयः ।
निरुत्साहतया भ्रष्टः किं श्रेयः संश्रयेदिति ॥ १३.५१२ ॥

भीष्मोऽवदन्नरपतिः क्षीणः संधाय वैरिभिः ।
शनैः कोशबलादीनां यत्नात्कुर्याद्विवर्धनम् ॥ १३.५१३ ॥

तूर्णं वर्तेत साम्ना वा त्यक्तात्मा वारणं व्रजेत् ।
उभयोरन्तरे तिष्ठन्दीर्घसूत्रो विनश्यति ॥ १३.५१४ ॥

विपदानां मूलघाती योऽयं कोशापरिक्षयः ।
उत्थानोपहतास्तेन प्रभवन्ति न ताः किल ॥ १३.५१५ ॥

गृध्राः प्रयान्त्येव शवं दग्धमङ्गारकाष्ठकम् ।
न तु दारिद्र्यसंस्पष्टं कश्चित्स्पृशति पूरुषम् ॥ १३.५१६ ॥

अपि क्लिन्नसिराजालं पूतिर्युषितं शवम् ।
न तथा वर्जयन्त्याराद्धनहीनं यथा जनम् ॥ १३.५१७ ॥

विलुप्तविभवोद्भ्रान्तचेतसां विषमे पदे ।
अनश्वरमनाक्रम्यं मर्यादा मानिनां धनम् ॥ १३.५१८ ॥

अप्यनुत्सृष्टमर्यादो दस्युः स्यान्न विशृङ्खलः ।
मर्यादा संपदां धाम मूढता विपदामिव ॥ १३.५१९ ॥

पुरा दस्युपतिर्वीरः कोपव्यो गुरुपूजकः ।
अपरित्यक्तमर्यादः प्राप सिद्धिमनुत्तमाम् ॥ १३.५२० ॥

रक्षिता न्यस्तशस्त्राणां द्विजानां योषितां तथा ।
निःशेषदानवसखः स लेभे विपुलं यशः ॥ १३.५२१ ॥

***** कोपव्यचरितम् ॥ ३१ ॥ *****
न तज्जगति नामास्ति यदनाक्रम्यमापदाम् ।
शरीररक्षा प्रथमं तासां बुद्धिश्च भेषजम् ॥ १३.५२२ ॥

प्राप्तज्ञो दीर्घदर्शी च दीर्घसूक्षत्रश्च सानुगाः ।
बहुपुत्राः पुरा मत्स्या न्यवसन्सलिलाशये ॥ १३.५२३ ॥

स्राव्यमाणो जले तत्र धीर्वरैस्तज्जिघृक्षया ।
दीर्घदर्शी परानूचे गच्छामो मानसान्तरम् ॥ १३.५२४ ॥

इत्यर्थितौ तेन यदा तौ विमोहान्न जग्मतुः ।
दीर्घदर्शी तदा पूर्वं स्वयं प्रायात्सरः परम् ॥ १३.५२५ ॥

ततः स्रुतजले दाशैः कृष्टे मत्स्यकदम्बके ।
ललम्बे कृतकं धाम्नि प्राप्तज्ञो मृतवत्स्वयम् ॥ १३.५२६ ॥

सोऽफालानखिलान्मत्स्यान्हत्वा प्रोतानथापरान् ।
जलान्तरे क्षालंनाय विक्षिपुर्जालजीविनः ॥ १३.५२७ ॥

न्यस्तेषु तेषु निःशङ्खैर्नदीष्वम्भसि धीवरैः ।
अलक्षितो ययौ तूर्णं प्राप्तज्ञो धीमतां वरः ॥ १३.५२८ ॥

अर्धजीवस्तु विचलन्दीर्घसूत्रो महाकृतिः ।
व्यपाद्यत निषादेन लगुडैर्जर्जरीकृतः ॥ १३.५२९ ॥

***** दीर्घदर्शीयम् ॥ ३२ ॥ *****
बहुनां गोचरं यातो वैरिणां विषमे स्थितः ।
कुर्याद्बलाधिकं तेभ्यो मित्रं किंत्वतिशङ्कितः ॥ १३.५३० ॥

न्यग्रोधमूलनिलयः प्रलयो मूषिकः पुराः ।
लोमशं नाम मार्जारं जालबद्धं व्यलोकयत् ॥ १३.५३१ ॥

बद्धे तस्मिन्गताशङ्कः स जिघ्रंश्चपलाननः ।
भक्ष्यं निशि चचाराखुर्विलिखन्नखरैर्महीम् ॥ १३.५३२ ॥

हरितं नाम सोऽपश्यन्नकुलं लोहिताननम् ।
चन्द्रकाख्यमुलूकं च कूजन्तं घोरलोचनम् ॥ १३.५३३ ॥

तौ दृष्ट्वा बलिनौ भीतः संप्राप्ते प्राणसंशये ।
मूषिकः कलयन्सर्वा दिशः क्षणमचिन्तयत् ॥ १३.५३४ ॥

नकुलोलूकभीतोऽहं मार्जारं बलिनां वरम् ।
संशये विषमस्थानां संधिस्त्राणं हि शत्रुणा ॥ १३.५३५ ॥

स निश्चित्येति तत्पाशच्छेदायोद्यतमानसः ।
मार्जारमवदन्नीलकाचकाचरलोचनम् ॥ १३.५३६ ॥

अमित्रो मित्त्रतां याति मित्त्रमायात्यमित्रताम् ।
कालेन तस्माच्छेत्स्यामि पाशं ते मित्त्रतां गतः ॥ १३.५३७ ॥

श्रुत्वैतन्मधुरं हृष्टो मार्जारः सुहृदं व्यधात् ।
गाढमङ्के परिष्वज्य मूषिकं विपदि स्थितः ॥ १३.५३८ ॥

तद्दृष्ट्वा नकुलोलूकौ निराशावाश्वभक्षणे ।
बभूवतुर्भुग्नमुखौ बलवत्प्रीतिशङ्कितौ ॥ १३.५३९ ॥

शनैः शनैर्मुषिकोऽथ चिच्छेद स्नायुबन्धनम् ।
तं तूर्णं तूर्णमित्यूचे मार्जारश्चिरकारिणम् ॥ १३.५४० ॥

स्वार्थमुद्दिश्य लम्बन्ते ये क्षणं प्रीतितन्तुभिः ।
धूर्तांस्तान्कार्यशेषेण यापयेत्कार्ययाचकान् ॥ १३.५४१ ॥

एतद्ध्यात्वा धियैवाखुर्लुब्धकागमनावनधि ।
एकपाशांशशेषं तं चकार नयकोविदः ॥ १३.५४२ ॥

प्रातर्घोरतरे प्राप्ते चण्डाले परिघाभिधे ।
जालनिक्षिप्तनयने सशस्त्रे पाशजीविनि ॥ १३.५४३ ॥

पाशशेषं चकर्ताखुश्छित्वा च बिलमाविशत् ।
यातो व्याधो निराशश्च मार्जारे विद्रुते द्रुतम् ॥ १३.५४४ ॥

तस्मान्म्हाभयान्मुक्तः कालेनाभ्येत्य मूषिकम् ।
अन्तःस्थितं बिलद्वारान्मार्जारः प्रणतोऽवदत् ॥ १३.५४५ ॥

अहं स ते परं मित्त्रमुपकारवशीकृतः ।
भृशमुत्कण्ठितां प्राप्तः सखे निर्गम्यतामितः ॥ १३.५४६ ॥

इति ब्रुवाणं मार्जारं दृष्ट्वा भक्षणदीक्षितम् ।
शुक्लतीक्ष्णाद्रदशनं श्मश्रुसूचीचिताननम् ॥ १३.५४७ ॥

जिघ्रान्तं मुषिकामोदमर्धोन्मीलितलोचनम् ।
उच्चैकपादनिभृतं तमभाषत मूषिकः ॥ १३.५४८ ॥

सौहार्देनोपयुक्तः प्राक्तव चाहं भावंश्च मे ।
गम्यतां स गतः कालो न भूमिर्वञ्चनेष्वहम् ॥ १३.५४९ ॥

यद्भवान्मधुरं वक्ति तन्मह्यं नाद्य रोचते ।
याचकः कार्यकालोऽसावधुना नास्ति संगतम् ॥ १३.५५० ॥

निजप्रयोजनापेक्षापेशलप्रियभाषणण् ।
दुर्बलः क्रूरमनसं धीरः दूरादेवार्यचेतसम् ।
न श्रेयोऽस्ति विरुद्धो हि भोज्यभोक्तृसमागमः ॥ १३.५५१ ॥

कृतज्ञ भवसे मित्त्रं दूरादेवार्यचेतसम् ।
न श्रेयोऽस्ति विरुद्धो हि भोज्यभोक्तृसमागमः ॥ १३.५५२ ॥

निरस्य बहुभिर्वाक्यैर्मार्जारमिति मूषिकः ।
बिलं तत्याजा कालेन दृष्टं धूर्तेन शत्रुणा ॥ १३.५५३ ॥

***** मार्जारमूषिकसंवादः ॥ ३३ ॥ *****
एवमेष नयः प्राज्ञैर्ज्ञातव्यः शत्रुसंधिषु ।
न विश्वसेत्प्रियगिरां विशेषेण कृतागसाम् ॥ १३.५५४ ॥

काम्पिल्ये नगरे पूर्वं ब्रह्मदत्तस्य भूपतेः ।
उवास पूतना नाम विहगी जीवजीविका ॥ १३.५५५ ॥

सा राजभवने जातविस्रम्भाजीजनत्सुतम् ।
तत्पुत्रतुल्यजन्मा च पुत्रोऽभूत्तस्य भूभुजः ॥ १३.५५६ ॥

वितीर्य सागरद्वीपसंजातं सा फलद्वयम् ।
स्वपुत्रं राजुपत्रं च बाल्येऽपि बलिनौ व्यधात् ॥ १३.५५७ ॥

ततः कदाचिद्विहगं शिशुं राजसुतो बली ।
आदाय केलिसंसक्तं चकार गतजीवितम् ॥ १३.५५८ ॥

विलोक्य निहतं पुत्रं समभ्येत्याथ पूतना ।
तुण्डेन राजपुत्रस्य क्रुद्धा नेत्रे व्यदारयत् ।
प्रतिकृत्य निकारेण दुःखिता गन्तुमुद्ययौ ॥ १३.५५९ ॥

व्रजन्तीं ब्रह्मदत्तस्तां हर्म्यादालोक्य संभ्रमात् ।
विदारिताक्षं पुत्रं च जगादाच्छाद्य विक्रियाम् ॥ १३.५६० ॥

अपकारे प्रतिकृते वैरं वैरेण पातितम् ।
कोपः साम्यादपक्रान्तो मा गमः पुत्रि पूतने ॥ १३.५६१ ॥

तच्छ्रुत्वोवाच विहगी नेदानीमस्ति संगतम् ।
कृतप्रतिकृतं वैरमभ्यासाद्द्विगुणं भवेत् ॥ १३.५६२ ॥

श्रुत्वा च गुरुवृद्धेभ्यः पुराणमपि विस्मृतम् ।
सहसा नवतां याति वैरं कोटरवह्निवत् ॥ १३.५६३ ॥

कृतापकारे विश्वासं मोहाद्यो याति बालिशः ।
स विस्मृतात्मा सहसा याति कालविधेयताम् ॥ १३.५६४ ॥

गीतेनेव कुरङ्गाणमामिषेणेव पक्षिणाम् ।
बडिशेनेव मत्स्यानां विश्वासनव्यथा नृणाम् ॥ १३.५६५ ॥

प्रियवाद्यैर्विभिन्नानां संश्लेषः किल दुर्लभः ।
मुक्ताफलानां भग्नानां जतुलेशैर्न संधयः ॥ १३.५६६ ॥

धिक्तं कुदेशः यत्रात्मा न शेतेऽशाङ्कितः सुखम् ।
प्रवादः किल सत्योऽयं यदात्मार्थे महीं त्यजेत् ॥ १३.५६७ ॥

इति ब्रुवाणा सा राज्ञा प्रार्थितापि पुनः पुनः ।
अविश्वासभयात्प्रायात्त्यक्त्वा प्रणयगौरवम् ॥ १३.५६८ ॥

***** ब्रह्मदत्तपूतनासंवादः ॥ ३४ ॥ *****
आपत्काले घृणां त्यक्त्वा कृतस्नेहेषु गौरवैः ।
प्रतिकूलेषु वर्तेत प्रतिकूलतरं धिया ॥ १३.५६९ ॥

राज्ञा शत्रुन्तपाख्येन वृत्तिं नीतिं च भूभुजाम् ।
कणिङ्कनामा नीतिज्ञः पुरा पृष्टोऽब्रवीन्मुनिः ॥ १३.५७० ॥

मूलच्छेदं रिपोः कुर्यादथवा न प्रकोपयेत् ।
अन्यथासौ विनाशाय पादस्पृष्ट इवोरगः ॥ १३.५७१ ॥

जनं विश्वसयेद्वाचा शौचं दम्भेन दर्शयेत् ।
प्रगाणैः शपथैः शास्त्रैः शत्रुं सेवेत शम्बरैः ॥ १३.५७२ ॥

अतीतशान्तये स्नेहै समं जडमनागतैः ।
प्रत्यक्षैरुपपत्रैश्च पिण्डितैः फलवर्जितैः ॥ १३.५७३ ॥

तूलवत्सहसा क्षिप्रं ज्वलेदवसरे क्वचित् ।
मन्दप्रतापो धूमाङ्को न भवेद्द्रुमवह्निवत् ॥ १३.५७४ ॥

प्रयोजनार्थिनः कुर्यादाशाबन्धान्सदा मदा ।
न हि कश्चित्कृते कार्ये कर्तारमनुमन्यते ॥ १३.५७५ ॥

लोकापवादादुद्वेगो मार्दवं चिरकारितम् ।
असंवृत्तिः स्वमन्त्रे वा मूलच्छेदोर्ऽथसंपदाम् ॥ १३.५७६ ॥

प्रसुप्तो बधिरोऽन्धो वा काले स्यात्स्वार्थसिद्धये ।
प्रपातमधुवत्तिष्टेद्दुर्लभः सर्वदेहिनाम् ॥ १३.५७७ ॥

दारुणः स्यान्मुखे स्वादुर्गुडलिप्त इवोपलः ।
विशेदन्तश्च शत्रूणां मधुदिग्ध इव क्षुरः ॥ १३.५७८ ॥

दीर्घमाशामिषं दातुं चिन्तयेज्ज्ञानसंग्रहम् ।
आशां निघ्नैर्नमित्तैश्च हेतुभिश्च तथा वदेत् ॥ १३.५७९ ॥

न यथा रतिमायाति संवत्सरशतैरपि ।
अतृप्तिजनका प्रीतिर्दद्यात्स्वस्यान्तरं नृणाम् ॥ १३.५८० ॥

काकवत्परिशङ्केन नाशयेन्मृगमुग्धताम् ।
चारैर्भवेच्च सर्वज्ञः प्रहरेद्व्यसने रिपौ ॥ १३.५८१ ॥

पूर्वं मायाभिघाती स्याद्धतं शोचेत्स्वबन्धुवत् ।
न कुर्यान्निष्फलं वैरं न हरेदप्यपुष्कलम् ॥ १३.५८२ ॥

दन्तानां शातनं मिथ्या शुष्कास्थिपरिचर्वणम् ।
शृणवद्व्याधिवच्छेषं न शत्रोः परिवर्जयेत् ॥ १३.५८३ ॥

अपि पुत्रं स्वयं हन्यादर्थविघ्नविधायिनम् ।
गृध्रवद्दीर्घदर्शी स्याद्बकवत्कपटव्रतः ॥ १३.५८४ ॥

शार्दूलवन्महोत्साहः कुटिलश्च भुजङ्गवत् ।
भेदनाय सदा कुर्यात्परेषां पौरसान्त्वनम् ॥ १३.५८५ ॥

गणांश्चोपजपेत्पूर्वं धनैराकृष्य वल्लभान् ।
पण्डितैर्वैरमुत्पाद्य न निःशङ्कः सुखं चरेत् ॥ १३.५८६ ॥

एतद्बुद्ध्वैव निखिल ननु सेवेत सज्जनम् ।
सुवेरराजः श्रुत्वैतद्भारद्वाजेन भाषितम् ।
कणिङ्कख्येन मुनिना बभूव नयकोविदः ॥ १३.५८७ ॥

***** कणिङ्कोपाख्यानम् ॥ ३५ ॥ *****
आपदं कालदौरात्म्याद्देवदोषेण वा बुधः ।
संप्राप्तो दैवदिष्टाद्वा धिया वर्तेत संकटे ॥ १३.५८८ ॥

अयमेव सदोपायो भावि कल्याणसंपदाम् ।
त्रिवर्गसाधनं देहं रक्षेदापत्सु यद्बुधः ॥ १३.५८९ ॥

अनावृष्टिहते काले पुरा द्वादशवार्षिके ।
कथाशेषेषु तोयेषु दुर्भिक्षक्षपिते जने ॥ १३.५९० ॥

उत्सन्ने धर्मसंताने शवाकीर्णे महीतले ।
त्यक्त्वाग्निदैवताः सर्वे मुनयो लुप्तसंयमाः ॥ १३.५९१ ॥

बभ्रमुर्नष्टसंकेता निर्दग्धाश्रमकाननाः ।
विश्वामित्रोऽथ विचरन्नवाप श्वपचालयम् ॥ १३.५९२ ॥

कृत्तप्राणिवसाविस्रं शुष्कमांसास्थिभालिकम् ।
आयासनियमावासं श्वचर्मास्तीर्णपक्कणम् ॥ १३.५९३ ॥

शोणितापूर्णपिठरं सरमासङ्गसंकुलम् ।
स्नायुप्रलम्बसंबाधं कङ्कालशकलाकुलम् ॥ १३.५९४ ॥

क्षुत्क्षामकुक्षिस्तत्रापि मुनिर्भिक्षामयाचत ।
अर्थमानोऽपि स यदा ततो लोभेन किंचन ॥ १३.५९५ ॥

तदा कृच्छ्रां दशां यातः पपात भुवि मूर्छितः ।
सोऽचिन्तयदहो कष्टमियमापदुपस्थिता ॥ १३.५९६ ॥

श्वमांसलेशमथवा हरामि निशि चौरवत् ।
प्राणार्थी सर्वमादद्यात्सर्वतः स्थितिविप्लवे ॥ १३.५९७ ॥

आपदि प्राणरक्षा हि धर्मस्य प्रथमाङ्कुरः ।
एतच्चिन्तयतस्तस्य कृष्णरात्रिः प्रवर्तिता ॥ १३.५९८ ॥

श्वपाकवञ्चितानेककाकपक्षैरिवावृता ।
स सक्तिकां स्नायुतत्त्रीं लम्बमानां विचिन्त्य सः ॥ १३.५९९ ॥

कुटीद्वारं शनैः प्राप्य सकम्पो हर्तुमुद्ययौ ।
अन्तः प्रसुप्तो निर्निद्रः श्लेष्मव्यालग्नलोचनः ॥ १३.६०० ॥

वृद्धः श्वजीवी प्रोवाच तं कासोद्धर्घरस्वरः ।
स्नायुराकृष्यते केन नास्मि निद्रावशं गतः ॥ १३.६०१ ॥

एष शस्त्रेण सहसा हन्यते योऽत्र लम्बते ।
विश्वामित्रो निशम्यैतत्तमूचे दुर्बलस्वरः ॥ १३.६०२ ॥

कौशिकोऽहं मुनिः प्राणरक्षायै चौरतां गतः ।
अलब्धभैक्षः क्षुत्क्षामो हराम्येनां श्वजाघनीम् ॥ १३.६०३ ॥

अधर्मो नातुरस्यास्ति घोरं कृच्छ्रं गतस्य च ।
मूलं च जीवो धर्मस्य तस्मिन्नापत्सु रक्ष्यते ॥ १३.६०४ ॥

प्रवर्तन्ते पुनः सर्वाः सदाचारोचिताः क्रियाः ।
इत्युक्तो मुनिना वृद्धः समुत्थाय जगाद सः ॥ १३.६०५ ॥

अहो नु भगवन्प्राणलोभात्पापं प्रशंससि ।
युष्माभिरेव विहितो भक्ष्याभक्ष्येषु निर्णयः ॥ १३.६०६ ॥

स कथं जीवितभ्रंशभयात्पापे प्रवर्तसे ।
न वारयामि ते मांसं वितरामि न ते स्वयम् ॥ १३.६०७ ॥

वक्तासि सर्वधर्माणां मोहान्मा निरयं गमः ।
एतत्स मुनिनाकर्ण्य जगाद प्रस्खलन्मुहुः ॥ १३.६०८ ॥

यस्मिंस्तपश्च सत्यं च स्वज्ञान च प्रतिष्ठितम् ।
शरीरे रक्षिते तस्मिन्सर्वं भवति रक्षितम् ॥ १३.६०९ ॥

अभक्ष्यं भक्षयित्वापि विमुक्तः प्राणसंशयात् ।
व्रततीर्थेषु पुण्येन क्षपयिष्यामि पातकम् ॥ १३.६१० ॥

इत्युक्त्वा तां समादाय ययौ तूर्णं श्वजाघनीम् ।
अस्मिन्नवसरे मेघा ववर्षुः सस्यसंपदः ॥ १३.६११ ॥

इत्येवं प्राणरक्षायै मुनिनाप्यतिगर्हिते ।
श्वमांसे विहिता बुद्धिस्तस्मात्त्रायेत जीवितम् ॥ १३.६१२ ॥

***** विश्वामित्रश्वपचसंवादः ॥ ३६ ॥ *****
धर्मसूनुर्निशम्यैतद्भीष्मं पप्रच्छ विस्मितः ।
पितामह गतिं ब्रूहि शरणागतरक्षिणाम् ॥ १३.६१३ ॥

एतत्पृष्टो नृपतिना प्राह शन्तनुनन्दनः ।
पृष्टः पूर्वं जगादेदं मुचुकुन्देन भार्गवः ॥ १३.६१४ ॥

विपुले दुर्दिनायासे लुब्धकः कानने पुरा ।
शीतसंपिण्डितो रात्रौ मूले सुष्वाप शाखिनः ॥ १३.६१५ ॥

स्कन्दे विटपिनस्तस्य कपोतः कृतसंश्रयः ।
वासरान्तेऽपि नायातां स्मृत्वा भार्यामतप्यत ॥ १३.६१६ ॥

विललाप स संतप्तः प्रियाविरहकातरः ।
कपोती तच्च शुश्राव बद्धा व्याधेन पञ्जरे ॥ १३.६१७ ॥

सा तमूचे सुकृतिनो न प्रयान्ति विषण्णताम् ।
प्रथमं सुकृतमेतच्छरणागतरक्षणम् ॥ १३.६१८ ॥

लुब्धको वृक्षमूलेऽस्मिन्सुप्तो ह्यस्मै यथोचितम् ।
पूजां विधत्स्व शीतार्तः शरणं ह्येष वाञ्छति ॥ १३.६१९ ॥

प्रयस्या वचनं श्रुत्वा लुब्धकं विहगोऽब्रवीत् ।
भद्र मद्गृहमाप्तोऽसि वितरामि तवेप्सितम् ॥ १३.६२० ॥

शीतार्दितस्तदाकर्ण्य लुब्धकस्तमयाचत ।
वह्निं सोऽपि खगस्तूर्णं मानिनाय दिवोऽन्तिकम् ॥ १३.६२१ ॥

तृणपर्णसुसिद्धेऽग्नौ ज्वलिते लुब्धकस्ततः ।
विनष्टशीतः क्षुत्क्षामस्तमयाचत भोजनम् ॥ १३.६२२ ॥

मां भक्षयेति कारुण्यान्निगद्य विहगः स्वयम् ।
विवेश वह्निं तदद्दृष्ट्वा व्याधोऽप्यनुशयं ययौ ॥ १३.६२३ ॥

स त्यक्त्वा कूटयन्त्राणि समुत्पाट्य च पञ्जरम् ।
विरक्तः काननं प्रायाद्विहितानशनव्रतः ॥ १३.६२४ ॥

कपोते त्रिदिवं याते विमानेनार्कवर्चसा ।
भर्तारमनुशोचन्ती कपोती वह्निमाविशत् ॥ १३.६२५ ॥

तस्यां निवसमानायां भर्त्रा सह सुरालये ।
दावानले तनुं त्यक्त्वा लुब्धकोऽपि दिवं ययौ ॥ १३.६२६ ॥

***** लुब्धककपोतीयम् ॥ ३७ ॥ *****
पापमर्जितमज्ञानात्कथं नश्यति देहिनाम् ।
पृष्टो युधिष्ठिरेणेति पुनः शान्तनवोऽब्रवीत् ॥ १३.६२७ ॥

इन्दोताख्यं मुनिवरं राजा पारिक्षितिः पुरा ।
ब्रह्महत्याकुलः प्रायाद्विश्वस्तः शरणं वने ॥ १३.६२८ ॥

मुहुस्तेन निरस्तोऽपि पापसंसर्गभीरुणा ।
निनाय करुणैर्वाक्यैस्तं राजा करुणार्द्रताम् ॥ १३.६२९ ॥

तस्य कीर्तयतः पापं तप्तस्यानुशयाग्निना ।
तीर्थाप्लुतस्य शनकैः स मुनिर्याजकोऽभवत् ॥ १३.६३० ॥

अश्वमेधेन विधिवत्पूतात्मा सोऽथ भूपतिः ।
तारितः किल्बिषाद्धोरादिन्दोतेन कृपालुना ॥ १३.६३१ ॥

***** इन्दोतपारिक्षितीयम् ॥ ३८ ॥ *****
व्ययसायेन बुद्ध्या च निश्चयेन च देहिनः ।
तरन्ति नरकं बालं शुशुचुर्बान्धवाः पुरा ॥ १३.६३२ ॥

तान्समेत्याब्रवीद्गृध्रो गम्यतां त्यज्यतां शिशुः ।
इमामवस्थां पर्यन्ते को नाम न गमिष्यति ॥ १३.६३३ ॥

मा तिष्ठत चिरं घोरे श्मशाने प्रेतबान्धवाः ।
इह मर्त्यसहस्राणि ययुर्यास्यन्ति च क्षयम् ॥ १३.६३४ ॥

श्रुत्वैतद्बालकं त्यक्त्वा शनैस्तान्गन्तुमुद्यताम् ।
उवाच जम्बुकोऽभ्येत्य धिग्युष्मान्निर्घृणाशयान् ॥ १३.६३५ ॥

अहो नु दारुणा यूयं त्यक्त्वा गच्छन्ति ये सुतम् ।
गतासवोऽपि जीवन्ति कदाचित्सुप्तभौतिकाः ॥ १३.६३६ ॥

किंत वो भयं श्मशानेऽस्मिन्यातोऽस्तं न दिवाकरः ।
तिरश्चामपि बालेऽस्मिञ्जायते करुणाकणः ॥ १३.६३७ ॥

शृगालेनेति गदिते पुनः शवभृतश्च तान् ।
गृध्रो जगाद चित्रं वो जम्बुकस्य गिरा भ्रमः ॥ १३.६३८ ॥

जीवरत्नभृतो यूयं काष्ठलोष्ठोपमाकृतेः ।
स्नेहेन पातजीवस्य शिशोः किं यात मूढताम् ॥ १३.६३९ ॥

वनं व्रजत वैराग्यात्तपः कुरुत वा महत् ।
वियोगसारे संसारे सत्यान्नान्यत्परायणम् ॥ १३.६४० ॥

अन्येन वर्त्मना पुत्रः पिता चान्येन गच्छति ।
स्वकर्मभिः परे लोके त्यजत स्नेहविक्रियाम् ॥ १३.६४१ ॥

यान्त्येव वृद्धास्तरुणा बाला गर्भगतास्तथा ।
क्रियते किं विचारोऽस्ति न कालस्य प्रमाथिनः ॥ १३.६४२ ॥

बन्धूनामिदमानृण्यं स्थितिज्ञानं प्रचक्षते ।
मृतः प्रलापं बाष्पं च न शृणोति न पश्यति ॥ १३.६४३ ॥

वत्सराणां सहस्रं मे साग्रं जातस्य वर्तते ।
निर्गतासुर्मया दृष्टः प्रलापैर्नोत्थितः क्वचित् ॥ १३.६४४ ॥

इत्युक्त्वा विरते गृध्रे गोमायुः पुनरब्रवीत् ।
दयां कुरुत कान्तेऽस्मिन्बाले कमललोचने ॥ १३.६४५ ॥

शम्बुकस्य वधात्पूर्वं मृतोऽपि ब्राह्मणात्मजः ।
दशकण्ठद्विषो राज्ये जीवितं प्राप दुर्लभम् ॥ १३.६४६ ॥

कराभ्यां शिशुनानेन वितीर्णं सलिलाञ्जलिम् ।
कदाचित्पास्यति पिता सुकृती परलोकगः ॥ १३.६४७ ॥

भाषिते जम्बुकेनेति गृध्रः पुनरुवाच तान् ।
सन्तः शोकामये नॄणां न प्रशंसन्ति भेषजम् ॥ १३.६४८ ॥

दिनान्ते दारुणतरा भवत्येषा श्मशानभूः ।
कङ्कालमालाकलितैर्भूतवेतालमण्डलैः ॥ १३.६४९ ॥

क्षणेन हि न गीर्यन्ते सहस्राणि भवादृशाम् ।
मा कुरुध्वं प्रयासेऽस्मिन्व्यसने कलहे मतिम् ।
वपुषां जीवितानां च गतानामगमः कुतः ॥ १३.६५० ॥

इति गृध्रस्य वचसा निवृत्तान्वीक्ष्य बान्धवान् ।
उवाचाभ्येत्य गोमायुः पुनः स्वार्थैकपण्डितः ॥ १३.६५१ ॥

अबान्धवेऽस्मिन्नधुना न संसारे मतिर्मम ।
गच्छन्ति काष्ठवत्त्यक्त्वा पुत्रकं यत्र मानुषाः ॥ १३.६५२ ॥

वृद्धः प्रयात्यात्मभयाद्विजने त्यज्यते शिशुः ।
कोऽस्मिन्प्रत्ययमाधत्तां जनः स्वार्थपरे जने ॥ १३.६५३ ॥

इत्यूचतुस्तौ भक्ष्यार्थं क्षुत्क्षामौ गृध्रजम्बुकौ ।
दिवा गृध्रस्य भोज्यं यद्रात्रौ गोमायुकस्य तत् ॥ १३.६५४ ॥

अत्रान्तरे समभ्येत्य भगवानम्बिकासुतः ।
स्वेच्छाविहारी वरदस्तं बालकमजीवयत् ॥ १३.६५५ ॥

शतायुषं स्कन्दवरात्ते ययुः प्राप्य तं सुतम् ।
प्रापतुश्चेश्वरदृशा कुशलं गृध्रजम्बुकौ ॥ १३.६५६ ॥

इत्यनिर्वेदशीलानां धीमतां व्यवसायिनाम् ।
अभीप्सितानि सहसा सिध्यन्तीश्वरशासनात् ॥ १३.६५७ ॥

***** गृध्रगोमायुसंवादः ॥ ३९ ॥ *****
न कुर्याद्बलिना वैरं दुर्बलो दर्पमाश्रितः ।
विनष्टः स्पर्धया वायोर्महाञ्शल्मलिपादपः ॥ १३.६५८ ॥

विस्तीर्णशाखाविपुलः संतप्ताध्वन्यसंश्रयः ।
बभूव हिमवत्प्रस्थे शल्मलिश्चुम्बिताम्बरः ॥ १३.६५९ ॥

पप्रच्छ नारदः प्रीत्या तं यदृच्छागतो मुनिः ।
अहो नु तव नीरन्ध्राः पत्त्रपुष्पफलश्रियः ॥ १३.६६० ॥

मन्ये तव परं मित्त्रं वायुर्येनासि रक्ष्यसे ।
तरवस्तद्बलाक्रान्ता विशीर्यन्ते पतन्ति च ॥ १३.६६१ ॥

श्रुत्वैतदूचे दर्पान्धः शल्मलिः स्कन्दबन्धुरः ।
चित्त्रं मुने न जानीषे बले तुल्यो न मेऽनिलः ॥ १३.६६२ ॥

कत्थनेनेत्यभिहिते बहुशस्तेन शाखिना ।
तदेव नारदो गत्वा पवनाय न्यवेदयत् ॥ १३.६६३ ॥

तद्गिरा क्रोधविधुरः स्फारः प्रलयमारुतः ।
श्वो द्रष्टासीति तं वृक्षं समभ्येत्य तदाब्रवीत् ॥ १३.६६४ ॥

रजन्यामथ संत्रासात्स संचिन्त्यैव शल्मलिः ।
प्रभञ्जनं महावेगं धीमान्खयमशीर्यत ॥ १३.६६५ ॥

ततः प्रातः शकलिताशेषशाखासमाकुलम् ।
अपश्यद्वायुरभ्येत्य विशीर्णं शल्मलिं स्वयम् ॥ १३.६६६ ॥

अहो नु धन्यमन्त्रोऽसि बुद्ध्या त्वं रक्षितस्तरो ।
इत्युक्त्वा विगतक्रोधो वायुः प्रायाद्यथागतम् ॥ १३.६६७ ॥

***** नारदशल्मलिसंवादः ॥ ४० ॥ *****
लोभे एव महत्पापं ज्ञानमेव परं महः ।
दम एव परा शान्तिस्तप एव परं पदम् ॥ १३.६६८ ॥

सत्यमेव परं पुण्यं श्रेयः क्रोधाभिनिग्रहः ।
आनृशंस्यं परो धर्मः सारोऽयं धर्मवादिनाम् ॥ १३.६६९ ॥

***** अध्यायः ॥ ४१ ॥ *****
श्रुतिस्मृतिकृतैस्तैस्तैः प्रायश्चित्तैः शरीरिणाम् ।
कीर्तनात्तीर्थसेवाभिः पापं दानैश्च नश्यति ॥ १३.६७० ॥

ब्रह्महा द्वादश समाः कपालाङ्को व्रतं चरेत् ।
संमुखः खड्गलितो भ्रूणहा मुच्यते युधि ॥ १३.६७१ ॥

ब्राह्मणार्थे हताः पापं तरन्ति गुरुतल्पगाः ।
मुच्यन्ते सर्वपापेभ्यो हयमेधेन भूमिपाः ॥ १३.६७२ ॥

***** प्रायाश्चित्तविधिः ॥ ४२ ॥ *****
धर्मात्मजोपदेशेषु नकुलेन कथान्तरे ।
अथ पृष्टोऽब्रवीद्भीष्मः करवालस्य संभवम् ॥ १३.६७३ ॥

असुराभिहते काले हिमवच्छिखरे पुरा ।
स्वयंभूर्भगवान्खङ्गो धात्रा ध्यातः समाययौ ॥ १३.६७४ ॥

प्रांशुर्नीलोत्पलश्यामो भुवनानि विलोकयन् ।
स बभूव त्रिनेत्रस्य ब्रह्मवाक्यात्कराग्रगः ॥ १३.६७५ ॥

तेन निष्कण्टकं कृत्वा रुद्रो रौद्रेण कतेजसा ।
जगच्छिवाकृतिः पश्चाद्बभूव शशिभूषणः ॥ १३.६७६ ॥

तं खड्गं लेभिरे भूपा मनुप्रभृतयः क्रमात् ।
यस्य धारानिपातेन पुनर्जन्म न देहिनाम् ॥ १३.६७७ ॥

***** खड्गोत्पत्तिः ॥ ४३ ॥ *****
श्रुत्वेति मन्दिरं पार्थो गत्वा भीष्मगिरः स्मरन् ।
विदुरेण कथाश्चक्रे धर्मसर्वस्ववादिना ॥ १३.६७८ ॥

तेषां विदुरषष्ठानां बभूवुर्विविधाः कथाः ।
शुद्धप्रवृत्तधर्माणां धर्मकामार्थसंश्रयाः ॥ १३.६७९ ॥

***** षड्गीताः ॥ ४४ ॥ *****
समभ्येत्याथ पप्रच्छ पुनर्भीष्मं युधिष्ठिरः ।
सौहार्दं केन न चलेदिति पृष्टोऽब्रवीच्च सः ॥ १३.६८० ॥

कृतज्ञैः साधुभिः सभ्यैः कुलीनैरनपायिभिः ।
सतां न नश्यति प्रीतिर्गुणादानैकतत्परैः ॥ १३.६८१ ॥

मित्रद्रुहः कृतघ्नांश्च वर्जयेत्कुटिलाशयान् ।
कृतघ्नतासमं राजन्न हि पश्यामि पातकम् ॥ १३.६८२ ॥

दर्पवान्मलिनाचारो वेदाध्यापनवर्जितः ।
मध्यदेश्योऽसिततनुः शीलाचारपराङ्मुखः ॥ १३.६८३ ॥

गौतमो नाम कलुषो ब्रह्मबन्धुरभूत्पुरा ।
स वसञ्शबरीसक्तः पर्यन्तेषु धनार्थिताम् ।
बिभ्रद्भ्रान्त्वा वसुमतीं सार्थभ्रष्टोऽविशद्वनम् ॥ १३.६८४ ॥

तस्मिन्स्निग्धतरुच्छाये प्रसन्नहरिकुञ्जरे ।
न्यग्रोधपादपस्याग्रे छायार्थी समुपाविशत् ॥ १३.६८५ ॥

नाडीजङ्घाभिधस्तूर्णं बकः सुगतसद्व्रतः ।
विलोक्य तं कृपाविष्टो दुर्गतं विनतोऽब्रवीत् ॥ १३.६८६ ॥

ब्रह्मन्दारिद्र्यमुन्निद्रं तवैतत्प्रदहाम्यहम् ।
सुहृदं मे विरूपाक्षं राक्षसेन्द्रमितो व्रज ॥ १३.६८७ ॥

कार्तिक्यां स हि दातॄणां धुर्यो दास्यति ते धनम् ।
मदीयमिति तच्छ्रुत्वा स गत्वा करुणाकुलात् ॥ १३.६८८ ॥

तस्मात्कनकमासाद्य बहुलं तूर्णमागतः ।
बकं विलोक्य तत्रैव धनतुष्टो व्यचिन्तयत् ॥ १३.६८९ ॥

न ह्येतद्भक्ष्यते हेम वने विगतविक्रिये ।
सांप्रतं बकमेवाद्य पातयामि सुपीवरम् ॥ १३.६९० ॥

इति संचिन्त्य सुचिरं पाथेयार्थी द्विजाधमः ।
हेमभारनतः सुप्तं जघान सरलाशयम् ॥ १३.६९१ ॥

अदर्शनेन तस्याथ खिन्नो राक्षसभूपतिः ।
शङ्काकुलश्चारचक्रं विसृज्य प्राप तं द्विजम् ॥ १३.६९२ ॥

हतं तेन बकं ज्ञात्वा निजग्राह तमुत्कटम् ।
आकाशधुनिफेनैश्च जीवितं प्राप खेचरः ॥ १३.६९३ ॥

अपराधहतं दृष्ट्वा नाडीजङ्घोऽपि गौतमम् ।
अजीवयद्दुराचारं न मन्युरधमे सताम् ॥ १३.६९४ ॥

एवं कृघ्नचरितो गौतमः सुगतव्रतम् ।
जघान पापे पापानां निःशङ्कं रमते मनः ॥ १३.६९५ ॥

न्यासापहारिणो धेनुस्त्रीगुरुब्राह्मणान्तकाः ।
धर्मिष्ठा इव यस्याग्रे स कृतघ्नो विचार्यताम् ॥ १३.६९६ ॥

***** आपद्धर्माः ॥ ४५ ॥ *****
अथ पप्राच्छ धर्मज्ञं धर्मराजः पितामहम् ।
कथं समाश्रयेद्धर्मं विनष्टधनबान्धवः ॥ १३.६९७ ॥

स तेन पृष्टः प्रोवाच शृणु सेनजितं नृपम् ।
पुत्रशोकाकुलं कश्चिज्ज्ञात्वाभ्येत्यावदद्द्विजः ॥ १३.६९८ ॥

अभावायैव जायन्ते भवेऽस्मिन्सर्वजन्तवः ।
शोच्यस्त्वमपि कालेन कथं शोचसि पार्थिव ॥ १३.६९९ ॥

यदृच्छया संगतश्चेत्प्रतियातो यदृच्छया ।
संसाराध्वनि तत्कोऽयं वियोगे मोहविभ्रमः ॥ १३.७०० ॥

जायते क्षणदृष्टेषु स्नेहो दुःखाय देहिनाम् ।
ममायमिति मुग्धानां न स तेषां न तस्य ते ॥ १३.७०१ ॥

शोचन्त्यलुब्धं वाञ्छन्तः प्राप्तं शोचन्ति दुर्भगम् ।
नष्टं शोचन्ति दुःखार्ता जन्तवः सुखिनः कदा ॥ १३.७०२ ॥

धनपुत्रकलत्रेषु न स्निह्यन्ति विपश्चितः ।
अवश्यं विप्रयोगो हि तैः परैश्च नृणां सदा ॥ १३.७०३ ॥

को नाम प्रियसंयोगान्न मन्येतामृतोपमान् ।
मर्मच्छिदो वियोगेषु यदि न स्युर्विषोत्कटाः ॥ १३.७०४ ॥

पिङ्गला दत्तसंकेतं कान्तं वाराङ्गना पुरा ।
अनागतं चिरं ध्यात्वा स्वयमेकाब्रवीन्निशि ॥ १३.७०५ ॥

आगतेनापि किं तेन वियोगे दुःखदायिना ।
भजे कान्तमिहान्तस्थामनश्वरमशोचकम् ॥ १३.७०६ ॥

इति संतोषपीयूषशान्ता शापापवेदना ।
प्रतिबुद्ध्वैव सुष्वाप परमे धाम्नि पिङ्गला ॥ १३.७०७ ॥
***** सेनजिद्गीताः ॥ ४६ ॥ *****
अस्मिन्प्रवाहवद्याति नृणामायुषि किं सुखम् ।
पृष्टो युधिष्ठिरेणेति पुनरूचे पितामहः ॥ १३.७०८ ॥

मेधाविना पुरा पृष्टः पुत्रेणैतद्द्विजः पिता ।
उवाचाध्ययनं कृत्वा ब्रह्मचारी ततो गृही ॥ १३.७०९ ॥

पुत्रैः पितॄणामनुणो भूत्वा पीत्वानिलान्वने ।
मुनिस्तुल्यसुहृद्द्वेष्यः प्रयाति परमं पदम् ॥ १३.७१० ॥

तच्छ्रुत्वोवाच तनयः सर्वमेतदनिन्दितम् ।
श्लाघ्याय श्रेयसे कर्म यदि कालः प्रतीक्षते ॥ १३.७११ ॥

असमाप्तस्वकार्याणामायुः स्वल्पममुद्रितम् ।
अहोरात्रगणैरेव स्रवयेतदलक्षितम् ॥ १३.७१२ ॥

मुहूर्तमपि जन्तूनां कालोऽयं कलिताखिलः ।
सार्थः सुदूरगामीव नार्थितोऽपि विलम्बते ॥ १३.७१३ ॥

क्षणार्धमपि कार्येषु न विलम्बेत पण्डितः ।
न जानीमः कदा कस्मिन्कृतान्तो निपतिष्यति ॥ १३.७१४ ॥

न वात्सल्यान्न कारुण्यान्नोपयोगान्न गौरवात् ।
प्रतीक्षां क्षमते कालः कार्यशेषेषु देहिनाम् ॥ १३.७१५ ॥

मृत्युना यस्य सौहार्दं यो न वेत्त्यायुषोऽवधिम् ।
श्वः कर्तास्मीदमित्येषा वाणी तस्यैव शोभते ॥ १३.७१६ ॥

अहो नु मोहमुग्धस्य लोकस्येयं प्रमादिता ।
यद्बालं मृतमालोक्य वृद्धस्तिष्ठति निर्भयः ॥ १३.७१७ ॥

नवे वयसि भोगार्हे नवेषु विभवेषु च ।
नवोढेषु च दारेषु ह्रियते मृत्युना जनः ॥ १३.७१८ ॥

तस्मात्कुशलमेवादौ कार्यं संसारशान्तये ।
तरत्तरङ्गलोलो हि देहिदेहसमागमः ॥ १३.७१९ ॥

***** पितापुत्रसंवादः ॥ ४७ ॥ *****
धनिनां निर्धनानां च विभागं सुखदुःखयोः ।
पृष्टोऽथ धर्मराजेन पुनः शान्तनवोऽब्रवीत् ॥ १३.७२० ॥

शम्पाको नामवान्विप्रः पुरा धीमानभाषत ।
वितृष्णयातिपीड्यन्ते संतोषोऽमृतनिर्झरः ॥ १३.७२१ ॥

भयानभिज्ञो निश्चिन्तो निद्रावान्रोगवर्जितः ।
निर्धनः सुखितो नित्यं यथावाप्तकृतक्रियः ॥ १३.७२२ ॥

सुखमास्ते सुखं शेते सुखं च प्रतिबुध्यते ।
संतोषवान्निरायासो निरपायो निरामयः ॥ १३.७२३ ॥

धनिनो दर्पपूर्णस्य भ्रूभङ्गाद्वक्रदर्शिनः ।
कुम्भीन्यस्तधनत्राणचिन्तापाण्डुकृशत्विषः ॥ १३.७२४ ॥

चौरो भूपालभीतस्य वृद्ध्यार्थं पापकारिणः ।
अजीर्णरोगग्रस्तस्य ष्ठीविनो भोज्यकाङ्क्षिणः ॥ १३.७२५ ॥

लोभशुष्ककलत्रस्य दुःखैकफलभागिनः ।
स्पर्धाकथैव का नित्यमाकिंचन्यामृताशिभिः ॥ १३.७२६ ॥

मन्यते तावदात्मानं शक्रवैश्रवणोपमम् ।
गृह्यते धनवान्यावन्न दस्युनृपमन्युभिः ॥ १३.७२७ ॥

धनं गमयतां भूरि गृहांश्च सुपरिच्छदान् ।
निर्धनाद्धनिनामेव कृच्छ्राद्दुःखविषूचिका ॥ १३.७२८ ॥

***** शम्पाकगीताः ॥ ४८ ॥ *****
याते वैफल्यमारम्भे किं कुर्याद्द्रविणोत्सुकः ।
एतत्पृष्टः क्षितिभुजा ध्यात्वा शान्तनवोऽवदत् ।
श्रूयतां यद्विनष्टार्थसमये दुःखभेषजम् ॥ १३.७२९ ॥

मङ्किर्नाम द्विजः पूर्वमीहमानोऽसकृद्धनम् ।
प्रयत्नैरपि न प्राप विधिवैमुख्यहेलाय ॥ १३.७३० ॥

क्षीणार्थः सोर्ऽथशेषेण क्रीत्वा चाथ वृषद्वयम् ।
स्वयमुत्कर्षणं चक्रे क्षेत्रे विपुलवाहकः ॥ १३.७३१ ॥

अत्रान्तरे पृथुग्रीवो निद्राभङ्गात्समुत्थितः ।
जहारोष्ट्रो महाकायस्तौ वृषौ स्कन्धलम्बिनौ ॥ १३.७३२ ॥

युगोत्क्षेपाल्लम्ब्यमानौ तौ तेन बलशालिना ।
वृषौ विलोक्य शोकार्तो विललाप द्विजात्मजः ॥ १३.७३३ ॥

अहो नु चित्रवर्णाङ्कौ मम वत्सतरौ प्रियौ ।
कर्षन्विभाति करभो रत्नाढ्याविव भूषणौ ॥ १३.७३४ ॥

इत्युक्त्वा जातनिर्वेदगाढवैराग्यवासनः ।
तृष्णां निनिन्द सहसा प्रशान्तानुशयज्वरः ॥ १३.७३५ ॥

दुःखाय बत जन्तूनां तृष्णा परिभवास्पदम् ।
विप्रलब्धो जनः सर्वो यया शोचत्यहर्निशम् ॥ १३.७३६ ॥

अलब्धं वाञ्छतां वित्तं लब्धं च परिरक्षताम् ।
नष्टं च शोचतां पुंसां कदा दुःखं निवर्तते ॥ १३.७३७ ॥

कामोर्ऽथेषु विपन्मूलं संतोषः परमं सुखम् ।
निष्कामश्च सकामश्च मतौ मे स्वस्थरोगिणौ ॥ १३.७३८ ॥

सधनश्चिन्त्यते राज्ञा दस्युना स्वजनेन च ।
विकलश्चेति लोकेन निर्धनश्च न गण्यते ॥ १३.७३९ ॥

तस्मात्संत्यक्तकामानां संतोषधनशालिनाम् ।
क्षयोदयव्ययायासैर्न चेतः परिभूयते ॥ १३.७४० ॥

इदं लब्धमिदं नष्टमिदं लप्स्ये पुनर्धिया ।
इदं चिन्तयतामेव जीर्णमायुः शरीरिणाम् ॥ १३.७४१ ॥

अधुना लोभमुन्मूल्य स्पृहां दूरे निरस्य च ।
वीतमोहो भवाम्येष मुनिस्तुल्यप्रियाप्रियः ॥ १३.७४२ ॥

त्यागो हि हन्ति व्यसनं तथा हि जनकः पुरा ।
दह्यमानेऽपि नगरे नाभजद्दुःखविक्रियाम् ॥ १३.७४३ ॥

इति ध्यात्वा चिरं मङ्किर्निर्वेदाच्छान्तमानसः ।
आशापाशं परित्यज्य परं पदमवाप्तवान् ॥ १३.७४४ ॥

***** मङ्किगीताः ॥ ४९ ॥ *****
एतद्धर्मसुतः श्रुत्वा पुनः शन्तनुनन्दनम् ।
समभ्यधात्कथं जन्तुर्वीतशोकश्चरेदिति ॥ १३.७४५ ॥

सोऽब्रवीच्छृणु भूपाल प्रह्लादो दानवाधिपः ।
नित्यानन्दं पुरा विप्रमूचे स्वच्छन्दचारिणाम् ॥ १३.७४६ ॥

सुखदुःखशतावर्ते विपुलेऽस्मिन्धनार्णवे ।
अविलुप्तः कथं ब्रह्मन्नित्यतुष्टोऽभिलक्ष्यसे ॥ १३.७४७ ॥

केयं श्लाध्यतरा वृत्तिः को वायं विभवो धियः ।
क्रीडाविहारी लोकेऽस्मिन्यदसक्तो न लिप्यसे ॥ १३.७४८ ॥

इति पृष्टो द्विजस्तेन बभाषे विपुलाशयः ।
तटस्थः सर्वभावेषु नित्यतृप्तश्चराम्यहम् ॥ १३.७४९ ॥

मायाविलसितं सर्वं जानन्संसारविभ्रमम् ।
क्षयोदयेषु भूतानां न दुःखं न सुखं भजे ॥ १३.७५० ॥

आयुषां विभवानां च भावानां च स्वभावतः ।
पश्यन्नसारतामेतान्नानुशोचामि निर्व्यथः ॥ १३.७५१ ॥

भुञ्जानो विविधान्भोगान्निराहारोऽथवा क्वचित् ।
नग्नश्चीराम्बरो वापि महार्हवसनोऽपि वा ॥ १३.७५२ ॥

भुजोपधानः क्ष्माशायी पर्यङ्कशयनोऽपि वा ।
समः शमदमाभ्यां च धराम्याजगरं व्रतम् ॥ १३.७५३ ॥

परावरज्ञो भावानां कूटस्थो विगतस्पृहः ।
त्यक्तमोहभयद्वेषश्चराम्याजगरं व्रतम् ॥ १३.७५४ ॥

पाप्तं गिरत्यजगरः कुरङ्गं महिषं गजम् ।
असंप्राप्तेष्वनुद्वेगं विधत्ते निश्चलस्थितिः ॥ १३.७५५ ॥

एतामाजगरीं वृत्तिमाश्रित्य विमलाशयः ।
न चिन्तयामि सत्त्वस्थो लाभालाभौ सुखासुखे ॥ १३.७५६ ॥

ब्राह्मणेनेति कथितं श्रुत्वा विस्मितमानसः ।
जीवन्मुक्तदशां तस्य प्रह्लादः प्रशशंस ताम् ॥ १३.७५७ ॥

***** प्रह्लादब्राह्मणसंवादः ॥ ५० ॥ *****
एतत्पाण्डुसुतः श्रुत्वा पुनर्भीष्ममभाषत ।
कुलकर्मार्थबुद्धीनां पितामह किमुत्तमम् ॥ १३.७५८ ॥

इति पृष्टो नृपतिना बभाषे जाह्नवीसुतः ।
अतिक्रम्य गुणान्सर्वान्प्रज्ञैवोपरि वर्तते ॥ १३.७५९ ॥

वैश्यौ धनमदाध्मातः स्यन्दनेन पुरा व्रजन् ।
अपातयत्कृशतरं मुनिं वर्त्मनि कश्यपम् ॥ १३.७६० ॥

ललत्कुण्डलगण्डेन स तेन भुवि पातितः ।
शोचन्दरिद्रमात्मानं निश्चयं निधने व्यधात् ॥ १३.७६१ ॥

तं पांसुशायिनं दीनं प्राणत्यागकृतव्रतम् ।
शक्रः शृगालरूपेण कृपया वक्तुमाययौ ॥ १३.७६२ ॥

सोऽवदद्बत संतोषः संसारे नास्ति कस्यचित् ।
मुने यदुज्ज्वलाचारो नात्मानं बहु मन्यसे ॥ १३.७६३ ॥

धन्या मनुष्याः संसारे यैः स्वहस्तेन भुज्यते ।
कण्डूर्निवार्यते कीटकण्टकादिर्विकृष्यते ॥ १३.७६४ ॥

अहो सुकृतिनां राजा त्वं यन्मानुषयोनिजः ।
ब्राह्मणश्च तपस्वी च स्पृहणीयोऽसि कश्यप ॥ १३.७६५ ॥

अहो धन्योऽसि यन्नास्वुर्न मण्डूको न कुक्कुटः ।
न पुक्कसो न चाण्डालो न कुष्टी न जडोऽसि वा ॥ १३.७६६ ॥

दृश्यन्ते दीर्घरोगार्ता दुःखाद्दुःखतरं श्रिताः ।
शोचन्तस्तामसीं योनीं प्रपन्नास्तान्विलोकय ॥ १३.७६७ ॥

मनुष्यः परिपूर्णाङ्गो व्याधिव्यसनवर्जितः ।
ब्राह्मणश्च त्वमुदितस्त्वत्तो धन्यतरोऽस्ति कः ॥ १३.७६८ ॥

असंतोषे मतिं मोहान्मा कृथा विभवाशया ।
प्राप्येन्द्रतामपि जनस्ततोऽप्याधिक्यमीहते ॥ १३.७६९ ॥

तृष्णेयं सतताभ्यासाद्वर्धमाना शरीरिणाम् ।
अन्त्रस्नायुमयी तन्त्री कृष्टेवायाति दीर्घताम् ॥ १३.७७० ॥

तस्मात्स्वधर्मनिरतः स्पृहणीयः कुलोद्गतः ।
परस्य विभवं दृष्ट्वा न कामान्मर्तुमर्हसि ॥ १३.७७१ ॥

अहं कुतार्किको भूत्वा धूमाग्निप्रायवादभृत् ।
वेदद्वेषी नास्तिकश्च पापयोनिमिमां श्रितः ॥ १३.७७२ ॥

अस्मिञ्शरीरे बहुशो निर्विण्णोऽपि भयादहम् ।
न त्यजामि तनुं पाप योनयः सन्त्यतोऽधिकाः ॥ १३.७७३ ॥

इति बुद्ध्या सुरपतिर्वीतशोकं विधाय तम् ।
रूपं च दर्शयित्वास्मै प्रययौ त्रिदशालयम् ॥ १३.७७४ ॥

***** इन्द्रकश्यपसंवादः ॥ ५१ ॥ *****
श्रुत्वैतदूचे कौन्तेयः केन सृष्टमिदं जगत् ।
जीवश्च कीदृशो देहे स च यातः क्व तिष्ठति ॥ १३.७७५ ॥

भीष्मोऽब्रवीदेतदेव पुरा कैलासशेखरे ।
भारद्वाजेन मुनिना पृष्टो भृगुरभाषत ॥ १३.७७६ ॥

पृथिवीपद्मसंस्थस्य मानसस्य प्रजापतेः ।
आकाशः पूर्वसर्गोऽयं विष्णोर्व्यक्ताकृतिस्पृशः ।
वृक्षाणां मानुषाणां च समानं पाञ्चभौतिकम् ॥ १३.७७७ ॥

तेनैवास्मिन्महासर्गे चित्राश्च व्यक्तयः कृताः ।
प्राणापानादिरूपेण वायुना सहितोऽनलः ॥ १३.७७८ ॥

उत्तरे हिमवत्पार्श्वे फलभूमिर्निरामया ।
तां पुण्यकारिणो यान्ति विपरीता विपर्ययम् ॥ १३.७७९ ॥

इहापि लोके दृश्येते सुखहर्षधनादिभिः ।
दारिद्र्यक्लेशदुःखैश्च जन्तूनां शुभदुष्कृते ॥ १३.७८० ॥

***** भृगुभरद्वाजसंवादः ॥ ५२ ॥ *****
अथाब्रवीत्सदाचारो राज्ञा पृष्टः पितामहः ।
प्रातः प्रबुद्धो विजने मलं त्यक्त्वा शुचिः सदा ॥ १३.७८१ ॥

देवपूजारतो होता दाता मोनी च भोजने ।
ऋतुकालाभिगामी च ज्येष्ठानां प्रणतः क्षमी ।
यो नरः स सदाचारः प्राप्नोति पदमुत्तमम् ॥ १३.७८२ ॥

***** आचारविधिः ॥ ५३ ॥ *****
पुनः क्षितिभुजा पृष्टः किमध्यात्मेति सर्ववित् ।
ऊचे शान्तनवस्तत्त्वं ध्यात्वा हृदि सनातनम् ॥ १३.७८३ ॥

क्षेत्रज्ञस्त्रिगुणः क्षेत्रे रश्मिवत्प्रसृतेन्द्रियः ।
असक्तः सक्तवद्भाति च्छन्नो व्यवहितैरपि ॥ १३.७८४ ॥

निवातदीपनिष्कम्पमानसः शान्तधीः समः ।
अयत्नात्तेन्द्रियो मौनी स्थाणुभूतस्तमीक्षते ॥ १३.७८५ ॥

ब्राह्यवृत्तिनिरोधेन मनसो नियमेन च ।
रागशोकभयद्वेषत्यागात्सद्भिः स दृश्यते ॥ १३.७८६ ॥

तडित्तरङ्गतरलं चरत्यारतचञ्चलम् ।
चित्तं वातवदुद्भ्रान्तं भवत्येवासमर्थिनाम् ॥ १३.७८७ ॥

अभ्यासेन समीभूते निस्तरङ्ग इवोदधौ ।
चेतस्यचलतां याते प्रशान्ताशेषविप्लवे ॥ १३.७८८ ॥

प्रकाशतमसोः पारे पुरुषं शाश्वतं शिवम् ।
ध्यानेनात्यन्तसुखदं परं पश्यन्ति योगिनः ॥ १३.७८९ ॥

***** अध्यात्मसंकीर्तनम् ॥ ५४ ॥ *****
एतदाकर्ण्य कौन्तेयः पितामहमभाषत ।
पातकानां फलावाप्तिः कीदृशी गतयश्च काः ॥ १३.७९० ॥

इति पृष्टः क्षितिभुजा गाङ्गेयः पुनरब्रवीत् ।
अभिध्यासदृशी पुंसां फलावाप्तिरपायिनी ॥ १३.७९१ ॥

अहंकारप्रवृत्तानां भौगैश्वर्यसुखार्थिनाम् ।
निरयेष्वेव निलयः कामिनां कामसंनिभः ॥ १३.७९२ ॥

पारिजातलतालोला मन्दारोदारसौरभाः ।
हेमाब्जसरसी रम्या नाकनायकसेविताः ॥ १३.७९३ ॥

वेल्लद्विमानसुलभास्तास्तास्त्रिदशभूमयः ।
नियतावधयः सर्वा निरयः संप्रचक्षते ॥ १३.७९४ ॥

अनादिनिधनं धाम गुणत्रयविवर्जितम् ।
अस्पृष्टं कालकलया निष्कामेनैव लभ्यते ॥ १३.७९५ ॥

प्रयतः संहिताजापी कामरागोञ्झितः पुरा ।
उवास ब्राह्मणः कश्चित्पादे तुहिनभूभृतः ॥ १३.७९६ ॥

तस्य पर्षसहस्रान्ते दिव्यज्ञानस्य जापिनः ।
जपवृद्धिं ददौ तुष्टा सावित्री स्वयमागता ॥ १३.७९७ ॥

अथ कालेन भगवान्धर्मोऽभ्येत्य तमब्रवीत् ।
त्यक्त्वा शरीरमागच्छ दिव्यं दिव्यवपुः पदम् ॥ १३.७९८ ॥

तच्छ्रुत्वा सोऽवदन्नैतां त्यजेऽहं सहजां तनुम् ।
स्वर्गस्पृहा न मे काचिद्द्यौर्मही च समे मम ॥ १३.७९९ ॥

न वाञ्छा न च मे द्वेषः स्वर्गेऽप्यस्त्यवशं मया ।
सर्वथा यदि गन्तव्यं तत्सदेहेन नान्यथा ॥ १३.८०० ॥

इत्युक्ते तेन भगवान्यमो मृत्युश्च तां भुवम् ।
कालश्चाभ्येत्य जगदुर्विप्रं धर्मो यदुक्तवान् ॥ १३.८०१ ॥

अस्मिन्नवसरे श्रीमानिक्ष्वाकुः पृथिवीपतिः ।
तीर्थयात्राप्रसङ्गेन तमाश्रममुपाययौ ॥ १३.८०२ ॥

स तं जापकमभ्येत्य बभाषे तेजसां निधिम् ।
गृहण मे धनं विप्र पात्रं त्वत्सदृशोऽस्ति कः ॥ १३.८०३ ॥

तच्छ्रुत्वा जापकोऽवादीन्निवृत्तोऽहं महीपते ।
प्रवृत्तधर्मनिरता विप्राः पात्रं प्रतिग्रहे ॥ १३.८०४ ॥

समीहितमहं तुभ्यं ददान्येवाविलम्बितम् ।
ब्राह्मणेनेति कथिते जगाद पृथिवीपतिः ॥ १३.८०५ ॥

जपस्यास्य फलं देहि यत्त्वया समुपार्जितम् ।
इत्युक्तो भूभुजा विप्रो गृहाणेति तमभ्यधात् ॥ १३.८०६ ॥

राजावदद्वचोयुद्धैरजेयः सत्त्ववान्भवान् ।
न ममैतज्जपफलं त्वद्दत्तमुपयुज्यते ॥ १३.८०७ ॥

इति ब्रुवाणो विप्रोणाभ्यर्थितोऽपि सकृन्नृपः ।
न तज्जग्राह दाताहं भूभृदित्यभिमानवान् ॥ १३.८०८ ॥

अत्रान्तरे तमभ्येत्य कामक्रोधौ विवादिनौ ।
विरूपौ विकृताकारौ न्यायं पप्रच्छतुर्मुदा ॥ १३.८०९ ॥

एकोऽवदद्धेनुफलं देयमस्मै ददाम्यहम् ।
दत्तं मया पुनर्ग्राह्यं नेत्युवाच तथा परः ॥ १३.८१० ॥

राजा विचार्य सुचिरं तयोर्विवदमानयोः ।
उवाच दीयमानं यो न गृह्णासि जितोऽथ सः ॥ १३.८११ ॥

अथाब्रवीन्नृपं विप्रस्त्वं न गृह्णासि किं मम ।
परोपदेशेष्वथवा सर्वो भवति पण्डितः ॥ १३.८१२ ॥

जापकेनेति गदिते कामक्रोधौ विलोक्य तौ ।
सह भोक्तव्यमित्युक्त्वा जग्राह नृपतिः फलम् ॥ १३.८१३ ॥

ततः स्वर्गे स विबुधे प्राप्ते स ब्रह्मणि स्वयम् ।
विवेश जापकस्त्यागसमाधिं भूभुजा सह ॥ १३.८१४ ॥

प्राणे मनः समावेश्य पश्यन्नासापुटद्वयम् ।
आपूर्य व्योम षट्कोशं प्रकाशेनान्तरं नभः ॥ १३.८१५ ॥

भ्रूमध्यनिहितज्योतिरुद्धाट्य ब्रह्मसंपुटचम् ।
क्षिप्रमुत्क्रान्तसूर्योऽभूदतिसूर्यानलद्युतिः ॥ १३.८१६ ॥

तालुरन्ध्रसमुत्थं तत्तेजो द्विजमहीभुजोः ।
ब्रह्माणमविशत्साक्षात्प्रादेशपुरुषाकृति ॥ १३.८१७ ॥

***** जापकोपाख्यानम् ॥ ५५ ॥ *****
ज्ञानयोग्यस्य वेदानां नियमस्य च भूभुजा ।
फलं स्वर्गं च भूतानां भीष्मः पृष्टोऽब्रवीत्पुनः ॥ १३.८१८ ॥

प्रजापतिर्मनुः पूर्वमेतदूचे बृहस्पतिम् ।
सुखदुःखादिकं कर्म हेयोपादेयलक्षणम् ॥ १३.८१९ ॥

सुखमस्त्यसुखं यस्मात्प्रवृत्तिरिति कर्मणः ।
सुखदुःखोज्झितं ज्ञातं कामरागविवर्जितम् ॥ १३.८२० ॥

श्रौतं कर्म सुखायैव विरुद्धमसुखाय च ।
शुद्धाः समाधिनियमैर्भान्ति दानादिकाः क्रियाः ॥ १३.८२१ ॥

नराः कर्मफलैस्तैस्तैस्तत्तदाकारभेदतः ।
सुखदुःखेषु सीदन्ति रागमोहवशीकृताः ॥ १३.८२२ ॥

मायेयं जगदुत्पत्तिस्थितिसंहारकारिणी ।
कृता महाभूतमयी छायेवाकाशदर्शिनी ॥ १३.८२३ ॥

दृष्ट्वा शरीरान्तरगो मोहाद्यैर्न विलोक्यते ।
स्रधूम इव काष्ठान्तः सदा संनिहितोऽनलः ॥ १३.८२४ ॥

हेम्नीव कटकादित्वं काष्ठे वा सालभञ्जिका ।
आत्मन्येवाखिलं भाति सदप्यसदिव स्थितम् ॥ १३.८२५ ॥

ज्ञानेन गृह्यते ज्ञानं गजेनेव वने गजः ।
तदेवास्य गतिं वेत्ति सर्पपादानिवोरगः ॥ १३.८२६ ॥

***** मनुबृहस्पतिसंवादः ॥ ५६ ॥ *****
स्वरूपं वैष्णवं पृष्टः पार्थेनाथ पितामहः ।
उवाच ज्ञाननयनैः कथितं नारदादिभिः ॥ १३.८२७ ॥

भगवान्पुण्डरीकाक्षः केशवो नाभिपङ्कजात् ।
सृष्ट्वा चतुर्मुखं चक्रे जगन्निखिलमीश्वरः ॥ १३.८२८ ॥

हत्वा मधुमुखान्दैत्यान्विदधे शाश्वतीं स्थितिम् ।
संकर्षणः सर्वहरः प्रलये याति रुद्रताम् ॥ १३.८२९ ॥

सर्गस्थितिविनाशानामित्येष किल कारणम् ।
मृणालीलीलया येन वराहेणोद्धृता मही ॥ १३.८३० ॥

वासुदेवः परं धाम शाश्वतं ध्रुवमव्ययम् ।
निवृत्तधर्माय गुरुः शिष्यायेति न्यवेदयत् ॥ १३.८३१ ॥

विचित्रमायया विष्णोर्मोहिताः किल जन्तवः ।
रागद्वेषमदग्रस्ताः पुनरायान्ति यान्ति च ॥ १३.८३२ ॥

शुक्रशोणितसंभूता यान्ति संसारिणस्ततः ।
तान्मोहयन्ति ललना विपाकविषमभ्रमाः ॥ १३.८३३ ॥

स्त्रियो हि नाम संसारकारामन्दिरशृङ्खलाः ।
रादद्वेषविषादानां संगतिग्रन्थिरज्जवः ॥ १३.८३४ ॥

स्नेहाद्वा क्षयमायान्ति स्वाङ्गजैः कृमिभिः सुतैः ।
जन्तवः संततिमयाः क्लिन्नचर्मलवा इव ॥ १३.८३५ ॥

यतेन्द्रियेच्छा मुच्यन्ते संसाराद्ब्रह्मचारिणः ।
मूलबीजपरिप्लोषा येषु कामो न जायते ॥ १३.८३६ ॥

संकल्पजं वहन्त्येताः सिराः श्वभ्रं मनोवहाः ।
तच्छ्रुष्यति विरागेण येषां ते परमं गताः ॥ १३.८३७ ॥

तृष्णातन्तुरनाद्यन्तो बिसानामिव देहिनाम् ।
सहजोऽन्तःस्थितो हन्तुं निःशेषं च न शक्यते ॥ १३.८३८ ॥

समैर्युक्तसमाचारैर्विशुद्धगगनप्रभम् ।
हृदि नारायणं दृष्ट्वा शान्तिः शान्तैरवाप्यते ॥ १३.८३९ ॥

***** वैष्णवाध्यात्म ॥ ५७ ॥ *****

मोक्षं प्रयातो जनकः कथमित्यथ भूभुजा ।
देवव्रतोऽवदत्पुष्टो मिथिलाधिपतेः कथाम् ॥ १३.८४० ॥

जनकस्याभवत्पूर्वमाचार्यशतसेविनः ।
गुरुः पञ्चशिखो नाम कपिलो ब्रह्मनैष्ठिकः ॥ १३.८४१ ॥

स राजानमुवाचेदमाचार्यशतसंनिधौ ।
स्फुरन्निःसारसंसारविकारपरिहारधीः ॥ १३.८४२ ॥

स गलज्जातिनिर्बन्धः कर्मबद्धोऽप्यवासनः ।
विशरारुसमाहारसर्वग्रहपरिग्रहः ॥ १३.८४३ ॥

अहंकारविकारेषु मूलच्छेदविधायिनाम् ।
अवधानलवादेव भिद्यते भवविभ्रमः ॥ १३.८४४ ॥

मयि सर्वमिदं भाति सर्वत्राहमवस्थितः ।
इत्यसंसारिणामेव सतां वृत्तिर्महीयसी ॥ १३.८४५ ॥

सत्यं संक्षयनिष्ठानां जरामरणधर्मिणाम् ।
क्रमेणेन्द्रियवैकल्याच्छरीरं याति पञ्चधा ॥ १३.८४६ ॥

एते शब्दादयः पञ्च येषु तत्त्वार्थनिश्चयः ।
अव्ययं परमं चक्रं बुद्धिश्चेति परं महत् ॥ १३.८४७ ॥

असम्यग्दर्शिनामेषां दुःखतत्परमन्यथा ।
त्यागा एवं परं तत्त्वं मुक्तानां न्यस्तकर्मणाम् ।
मिथ्याप्रयातचित्तानां फलन्ति हृदयभ्रमाः ॥ १३.८४८ ॥

द्रव्यत्यागः कर्म हन्ति भोगत्यागो व्रतक्रियाम् ।
सुखत्यागस्तपोयोगं सर्वत्यागप्तु शान्तये ॥ १३.८४९ ॥

गुणत्रयविमुक्तोऽसौ क्षेत्रज्ञः शाश्वतोऽव्ययः ।
यैर्दृष्टस्ते न लिप्यन्ते पङ्के शशिकरा इव ॥ १३.८५० ॥

नष्टे फले तोषजुषि क्षीणयोः पुण्यपापयोः ।
अव्यङ्गा गगनाकारा महत्पश्यन्ति सूरयः ॥ १३.८५१ ॥

चरन्मृगः शृङ्गमिव त्वचं वृद्धमिवोरगः ।
पक्षीवोन्मथितं सालं बन्धं मुञ्चति सात्त्विकः ॥ १३.८५२ ॥

इत्याकर्ण्य वचो राजा जनको मिथिलां पुरा ।
दग्धामदग्धां नाज्ञासीत्तृष्णारागविवर्जितः ॥ १३.८५३ ॥

***** जनकराजानं प्रति पञ्चशिखाचार्योपदेशः ॥ ५८ ॥ *****
सुखं किमिति पारथेन भीष्मः पृष्टोऽब्रवीत्पुनः ।
इहामुत्र च दान्तानां सुखं संतोषशालिनाम् ॥ १३.८५४ ॥

दमो धृतिर्दमस्तेजो जमः कीर्तिर्दमो रतिः ।
पुंसां दमप्रसक्तानां शत्रुर्नाम न विद्यते ॥ १३.८५५ ॥

***** दान्ताध्यायः ॥ ५९ ॥ *****
किं तपो वा न वेत्येतदुपवासादिकं व्रतम् ।
पृष्टः प्रोवाच कौन्तेयं पुनः शन्तनुनन्दनः ॥ १३.८५६ ॥

भुञ्जानोऽप्युपवासी स्याद्युक्ताहारो नरः सदा ।
उपवासो हि मूर्खाणां केवलं प्राणशषणम् ॥ १३.८५७ ॥

सदा रतः स्वदारेषु ब्रह्मचारी भवेन्नरः ।
यज्ञोपयुक्तमांसाशी भवेन्मांसविवर्जकः ॥ १३.८५८ ॥

अतिथिद्विजभृत्यानां शेषमश्नाति यः सदा ।
अमृताशी स विज्ञेयः सुरा नाम्नामृताशिनः ॥ १३.८५९ ॥

***** अमृतप्राशिका ॥ ६० ॥ *****
नरः कर्मफले कर्ता किं न वेत्ति क्षमाभुजा ।
भीष्मः पृष्टोऽब्रवीच्छक्रः पुरा प्रह्लादमब्रवीत् ॥ १३.८६० ॥

स्थानाच्च्युतस्त्वं दैत्येन्द्र हतास्ते बान्धवा मया ।
शोकस्थानं कथं स्वस्थो निराकुल इवेक्ष्यसे ॥ १३.८६१ ॥

श्रुत्वेति दैत्यस्तं प्राह शक्र किं कत्थसे वृथा ।
भावाः स्वभावचपलाः पुरुषार्थो निरर्थकः ॥ १३.८६२ ॥

मूर्खो बुद्धिमतां धुर्यः सुरूपो रूपवर्जितः ।
प्रमत्ता नयसंपन्ना यान्त्येते हेतुरत्र कः ॥ १३.८६३ ॥

न हि शोकः सुखभ्रंशे कर्तव्यो वृद्धसेविभिः ।
भवेदभावः सद्भावे भावा भ्रूभङ्गभङ्गुराः ॥ १३.८६४ ॥

इति श्रुत्वा ययौ शक्रस्तत्प्रज्ञानोपदेशतः ।
प्रहृष्टा बुद्धिसाराणामद्वेष्टारो हि साधवः ॥ १३.८६५ ॥

***** शक्रप्रह्लादसंवादः ॥ ६१ ॥ *****
अकालवह्निना दग्धे राज्ञामैश्वर्यकानने ।
किं धैर्यमिति पृष्टोऽथ पार्थेनाह पितामहः ॥ १३.८६६ ॥

भ्रष्टराज्येषु दैत्येषु प्राप्तैश्वर्यः शतक्रतुः ।
पप्रच्छ गत्वा ब्रह्माणं नष्टे वैरोचनं पुरा ॥ १३.८६७ ॥

विभवं लोकपालानामभिभूय निजश्रिया ।
यो बभूव जगन्नाथः स बडिः(लिः) क्वाद्य वर्तते ॥ १३.८६८ ॥

इति पृष्टः सुरेन्द्रेण जगाद कमलोद्भवः ।
शून्यागारे खरो भूत्वा भ्रष्टैश्वर्यो बडिः(लिः) स्थितः ॥ १३.८६९ ॥

श्रुत्वैतन्मुदितः शक्रस्तूर्ण तं द्रष्टुमाययौ ।
ऐरावणं समारुह्य कैलासमिव जङ्गमम् ॥ १३.८७० ॥

स गत्वा शून्यनिलये ददर्श खररूपिणम् ।
तुषाशिनं बलिं को वा विपद्भिर्नैव पीड्यते ॥ १३.८७१ ॥

दृष्ट्वा तमूचे त्रैलोक्यनाथो भूत्वैशासनः ।
त्वमिमां गतिमापन्नः कथं शोच्यां न शोचसि ॥ १३.८७२ ॥

लक्ष्मीविलासहासाच्छं क्व तच्छत्रं क्व चामरम् ।
तालव्यालोलवलयं गीतमप्सरासं क्व तत् ॥ १३.८७३ ॥

ब्रह्मदत्ता क्व सा हेममाला मौलिमतस्तव ।
क्षपास्वपि यया दिक्षु बभुर्बालातपश्रियः ।
अथवा यान्ति चेतांसि महतां सह भूतिभिः ॥ १३.८७४ ॥

अपि स्मरसि किं दैत्य भास्वतस्तव शासनात् ।
अकृष्टपच्या पृथिवी यदभूद्भूरियाजिनः ॥ १३.८७५ ॥

यश्चातपत्रे यात्रायां शीतांशुधवले तव ।
गन्धर्वाणां सहस्राणि ननृतुर्हेममालिनाम् ॥ १३.८७६ ॥

ऐरावणगतस्येति श्रुत्वा शक्रस्य भाषितम् ।
अवुलुप्तमनाः प्राह बडि(लिर्)वामनवञ्चितः ॥ १३.८७७ ॥

तरङ्गतरला लक्ष्मीर्यद्यायाति च याति च ।
कृतमस्माभिरिति कि तत्प्रनृत्यन्ति शत्रवः ॥ १३.८७८ ॥

न शोचामि स्वसत्वस्थो निस्तरङ्ग इवोदधिः ।
दृष्ट्वा कालेन महता कथाशेषीकृताः श्रियः ॥ १३.८७९ ॥

अवश्यं विधिदौरात्म्याद्विपदन्ता हि संपदः ।
लक्ष्मीं विनश्वरः शोचेत्कः कालकवलीकृताम् ॥ १३.८८० ॥

अनतिक्रमणीयोऽयं कालः सर्वत्र जृम्भते ।
तुषैः कल्पितवृत्तिर्यत्प्रयातः स्वरतामहम् ॥ १३.८८१ ॥

विकोशाशापलाशेऽस्मिन्संसारोरुसरोरुहे ।
कालभृङ्गः पिबत्येव जनकिञ्जल्कमञ्जसा ॥ १३.८८२ ॥

जगद्ग्रासगरिष्ठस्य तस्य कालस्य शासनात् ।
स्मृतिशेषदशां शक्र समेष्यति भवानपि ॥ १३.८८३ ॥

किं न विप्लवायन्त्येता हरिण्यः शीघ्रगाः क्षणम् ।
स्फीतफेनसितच्छत्त्रास्तरङ्गिण्यो विभूतयः ॥ १३.८८४ ॥

प्रयाति तरला लक्ष्मीः स्रवत्यायुरलक्षितम् ।
इति वस्तुस्वभावेऽस्मिन्को नु शोचति मद्विधः ॥ १३.८८५ ॥

आयुः केनाक्षयं लब्धं वियोगः कस्य वा प्रियः ।
कस्मिन्वा चपला लक्ष्मीर्निषण्णा चरवीक्षिता ॥ १३.८८६ ॥

अलीकलीलाचटुलैः संगमैर्दृष्टनष्टया ।
अनया सर्वगामिन्या कियन्तो न विडम्बिताः ॥ १३.८८७ ॥

ऐश्वर्यसौरभभरान्गुणभृङ्गसङ्गान्कान्तालतावलयितानभिमानवृक्षान् ।
उत्फुल्लकीर्तिकुसुमान्फलपूरिताशान्सर्वकषो हरति कालमहाप्रवाहः ॥ १३.८८८ ॥

तस्यैतद्वदतः कार्याल्ललनं ललिताकृतिम् ।
ददर्शनिर्गतां शक्रो दृष्ट्वापृच्छच्च विस्मितः ॥ १३.८८९ ॥

लीलाशिखण्डाभरणा का त्वं हरिणलोचने ।
किमर्थमसि निष्क्रान्ता दैत्याधिपतिविग्रहात् ॥ १३.८९० ॥

सा तच्छ्रुत्वावदच्छक्रं त्वामहं समुपस्थिता ।
त्यक्त्वैनं विस्मृताचारमुच्छिष्टस्पृष्टसर्पिषम् ॥ १३.८९१ ॥

अहं सुभटखड्गाग्रधाराजलनिवासिनी ।
कमलापूतमह्गल्या कमलाकरवासिनी ॥ १३.८९२ ॥

एतदुक्त्वा चुर्भिः श्रीर्भूम्यम्भोवह्निवायुषु ।
पादैः संनिधिमादाय सहस्राक्षमुपाययौ ॥ १३.८९३ ॥

***** श्रीसंनिधानम् ॥ ६२ ॥ *****
श्रीविहीनं पुरा शक्रो नमुचिं नाम दानवम् ।
पप्रच्छ शोककालेऽस्मिन्किं न शोचसि दानव ॥ १३.८९४ ॥

इति पृष्टोऽवद्दैत्यो निःस्यन्दोदधिधैर्यभूः ।
नष्टाः शोकेन नश्यन्ति द्विषदानन्ददायिनः ॥ १३.८९५ ॥

शोकदग्धशरीराणां प्ररोहः क्व पुनः श्रियः ।
शोकेन नश्यति प्रज्ञा प्रज्ञानाशो विपत्तये ॥ १३.८९६ ॥

शोकेन स्पृष्टचित्तानां नष्टानामुद्भवः कुतः ।
स्वकृतं भुज्यते कर्म परिपाके शुभाशुभम् ।
सतामम्लानवक्त्राणां नान्तरज्ञास्तु शत्रवः ॥ १३.८९७ ॥

***** शक्रनमुचिसंवादः ॥ ६३ ॥ *****

भूतिमासाद्य शक्रेण बडिः(लिः) स्वपदविच्युतः ।
पुनरेवावदत्पृष्टो व्यसनेऽप्यविलुप्तधीः ॥ १३.८९८ ॥

अवश्यमेव शूराणां स्थितौ जयपराजयौ ।
कर्मायत्तौ न कर्ता त्वं कालप्राप्तमिदं भज ॥ १३.८९९ ॥

कालो न याति यास्यन्ति सहस्राणि भवादृशाम् ।
गन्ता त्वमपि कालेन किं धैर्येण विकत्थसे ॥ १३.९०० ॥

न तल्लोकेषु पश्यामि विचिन्वानोऽपि सूक्ष्मधीः ।
दुष्प्रापं यदयत्नेन न लीढं कालजिह्वया ॥ १३.९०१ ॥

कथावशेषविभवाः कालेन भुवनाधिपाः ।
श्रूयन्ते विहितास्ते ते किं वृथा शक्र माद्यसि ॥ १३.९०२ ॥

शक्तोऽस्मि जेतुं त्वामेकः सानुगं दर्पमोहितम् ।
किंतु न क्षमते कालो वेलेवाब्धेर्बलं मम ॥ १३.९०३ ॥

कालेनायान्ति विपदः कालेनायान्ति संपदः ।
पुंसां स्वकर्ममुद्राणां शोकस्यावसरोऽत्र कः ॥ १३.९०४ ॥

निशम्यैतत्सहस्राक्षो विरतोऽमर्षसाहसात् ।
स तमूचे कालवशं त्वं यथात्थ तथैव तत् ॥ १३.९०५ ॥

यदा लोका भविषअयन्ति निर्मर्यादाः कलिस्पृशः ।
तदा त्वं दारुणैः पाशैर्मुक्तः स्वास्थ्यां गमिष्यसि ॥ १३.९०६ ॥

***** बडि(लि)वासवसंवादः ॥ ६४ ॥ *****

शुभाशुभस्य पृष्टोऽथ पूर्वं रूपं महीभुजा ।
जगाद भीष्मो जन्तूनां विनाशोदयलक्षणम् ॥ १३.९०७ ॥

आकाशतटिनीतीरे पुरा शक्रः सनारदः ।
विलोक्य लक्ष्मीं पप्रच्छ विकासिकमलाननाम् ॥ १३.९०८ ॥

देवि शंस यथा तत्त्वमिहागमनकारणम् ।
इति पृष्टा महेन्द्रेण सावदत्कमलेक्षणा ॥ १३.९०९ ॥

त्यक्त्वा दैत्यानहं शक्र नष्टाचारान्विशृङ्खलान् ।
सुराणां सद्म साधूनां संप्राप्ता तव चान्तिकम् ॥ १३.९१० ॥

असुराः पूर्वमभवन्सदाचारविभूषणाः ।
स्नाता हुताग्नयश्चासन्निजिताः स्त्रीभिरर्चिताः ॥ १३.९११ ॥

दातारो निःस्पृहाः क्षान्ताः प्रभाते घृतदर्शिनः ।
न निशीथे न चोत्सङ्गे दधिसक्तुभुजोऽभवन् ॥ १३.९१२ ॥

अवन्ध्यरतिसर्गाश्च तेनाहं तानभूषयम् ।
अद्य तूत्सन्नमर्यादास्त्यक्तास्ते दुर्मदा मया ॥ १३.९१३ ॥

आयत्ताः पतयः स्त्रीणां शण्टीनामद्य तत्परे ।
प्रत्युत्थानादिकं तांश्च कुर्वन्त्युच्चैर्वदन्ति च ॥ १३.९१४ ॥

तरुणा धूर्तसचिवा वृद्धानां वचनं वयः ।
विडम्बयन्ति दर्पान्धा हेलोल्लोलितकुन्तलाः ॥ १३.९१५ ॥

अशौचोच्छिष्टसूदैश्च विहितं भक्षयन्ति ते ।
गुप्तोद्यानेषु देवार्थिभृत्यस्वजनवर्जिताः ॥ १३.९१६ ॥

धान्यं पयोन्नं विवृतं स्वोच्छिष्टस्पृष्टसर्पिषम् ।
गृहे तेषां न वीक्षन्ते हासकेलिरताः स्त्रियः ॥ १३.९१७ ॥

स्त्रीयोग्यं पुरुषो धत्ते केशांशुकविभूषणम् ।
आचारगतिसंलापं पौरुषं स्त्री बिभर्ति च ॥ १३.९१८ ॥

इत्थं तेषां मदान्धानां वसतिं पापिनामहम् ।
त्यक्त्वान्तिकमवाप्ता त्वां सत्यशीले मं स्थितिः ॥ १३.९१९ ॥

आशा श्रद्धा धृतिः क्षान्तिः कान्तिर्वृत्तिर्जितिर्मतिः ।
युष्मानेव समायाता देव्योऽष्टौ मत्पुरःसराः ॥ १३.९२० ॥

इति ब्रुवाणां तां शक्रः प्राप्य प्रायात्त्रिविष्टपम् ।
निमित्तमेतत्प्रथमं सुभाशुभफलं नृणाम् ॥ १३.९२१ ॥

***** श्रीवासवसंवादः ॥ ६५ ॥ *****

राज्ञा ब्रह्मपदं पृष्टः पुनरूचे पितामहः ।
असितो देवलः पूर्वं जैगीषव्यमभाषत ॥ १३.९२२ ॥

वन्दितो निन्दितश्चासि समस्तुल्यप्रियाप्रियः ।
त्यक्तरागभयद्वेषो लक्ष्यसे केन हेतुना ॥ १३.९२३ ॥

इति पृष्टो मुनीन्द्रेण जैगीषव्यः स्वतन्त्रवित् ।
उवाच शान्तमनसः सत्यं जातमिदं मम ॥ १३.९२४ ॥

विद्यानलसमुद्भूतविवेकव्यस्तविप्लवाः ।
न हृष्यन्ति न शोचन्ति सन्तः संतोषनिर्भराः ॥ १३.९२५ ॥

मानावमानयोस्तुल्या न स्निग्धा न च वैरिणः ।
ममायमिति नो येषामहमस्येति वा क्वचित् ॥ १३.९२६ ॥

मात्सर्यमनुरागो वा निरपायसुखस्पृशाम् ।
सर्वबन्धविनिर्मुक्ता निर्भयाः संचरन्ति ये ।
प्रबुद्धाः स्वप्नमायासु लभन्ते ब्रह्मणः पदम् ॥ १३.९२७ ॥

***** जैगीषव्यसंवादः ॥ ६६ ॥ *****

प्रियः सर्वत्र पूज्यश्च कोऽस्तीति जगतीभुजा ।
भीष्मः पृष्टोऽवदत्कृष्णो यदाहान्धकभूपतिम् ॥ १३.९२८ ॥

एक एवास्ति निखिलप्रियः पूज्यश्च नारदः ।
स्वच्छन्दचारी सुखितः सोद्योगो विजितेन्द्रियः ॥ १३.९२९ ॥

असंनिरुद्धप्रसरो निःसङ्गो बहुसंगतः ।
क्रीडारतिर्जगद्द्रष्टा कामक्रोधविवर्जितः ॥ १३.९३० ॥

श्रुत्वेति पृष्टः पार्थेन भूतानां प्रभवोऽप्ययम् ।
कालस्य च गतिं भीष्मो बभाषे विश्वतत्त्ववित् ॥ १३.९३१ ॥

पुरा शुकेन भगवान्व्यासः पृष्टोऽब्रवीदिदम् ।
सर्गास्थितिं च कालं च यच्च कृत्यं द्विजन्मनाम् ॥ १३.९३२ ॥

सहस्रयुगपर्यन्तेष्वव्यक्तो व्यक्ततां गतः ।
ब्रह्म सृजति शब्दात्तु व्योमादिक्ष्मान्तपञ्चकम् ॥ १३.९३३ ॥

तदुद्भुते पुनः सर्गे कालेनाकाशशेषताम् ।
गते व्योमादि विलयं प्रयात्यव्यक्तसंज्ञके ॥ १३.९३४ ॥

इत्ययं सर्गसंक्षेपः शृणु कृत्यं द्विजन्मनाम् ।
संस्कृतो जातकर्माद्यैर्ब्रह्मचारी भवेद्गृही ॥ १३.९३५ ॥

आत्मानमात्मना पश्यन्वानप्रस्थस्ततो यतिः ।
ब्राह्मं कर्मेति कथितं ज्ञानिनां वृत्तिरुच्यते ॥ १३.९३६ ॥

अनादरविरक्तेच्छो विद्युत्तरलमात्मना ।
पश्यन्नन्तः परं ज्योतिः सर्वव्यापी समीरवत् ॥ १३.९३७ ॥

शून्यस्थानैकनिलयः समो ब्रह्मणि लीयते ।
कर्मणा याति संसारं निःसंसारस्तु विद्यया ॥ १३.९३८ ॥

निजोद्भवविलीनेच्छः संविद्विकचमानसः ।
सततं स्वान्तविश्रान्तः परमामृतमश्नुते ॥ १३.९३९ ॥

***** व्यासशुकसंवादः ॥ ६७ ॥ *****

श्रुत्वेति भीष्मं पप्रच्छ य एते पृथिवीश्वराः ।
याता मृत्युवशं तेषां को मृत्युरिति पाण्डवः ॥ १३.९४० ॥

भीष्मोऽब्रवीत्पुरा प्राह राजानमनुकम्पकम् ।
नारदः पुत्रशोकार्तं शत्रूणां वशमागतम् ॥ १३.९४१ ॥

सर्वमेतद्विधिः सृष्ट्वा प्रजा विपुलतां गताः ।
आवर्तमाने भुवने दृष्ट्वा क्रोधं समाययौ ॥ १३.९४२ ॥

तत्क्रोधाद्दीप्तशिखिना दह्यमानेषु जन्तुषु ।
कृपावांरुयम्बको देवश्चतुर्मुखमयाचत ।
शंभुनाभ्यर्थितो धाता कोपाग्निं संजहार तम् ॥ १३.९४३ ॥

संहृतात्क्रोधदहनात्कन्या कमललोचना ।
उदतिष्ठन्नभःश्यामा रक्ताम्बरविभूषणा ॥ १३.९४४ ॥

उवाच तां ततो ब्रह्मा त्वं शनैः संहर प्रजाः ।
अप्सु प्रतिष्ठिता ह्येषा भूमिर्भारेण मज्जति ॥ १३.९४५ ॥

तच्छ्रुत्वा दारुणं धातुः कृपया नेत्रजं जलम् ।
निजं जग्राह पाणिभ्यां निन्दन्ती जन्म दुःखिता ॥ १३.९४६ ॥

कथं तव सुता देव घोरे कर्मणि मद्विधा ।
योग्या बन्धुवियुक्तानां न सहे दुःखिनां गिरः ॥ १३.९४७ ॥

इत्युक्त्वा विपुलं चक्रे दुष्करं विविधं तपः ।
सा मृत्युः सर्वसंहारभीता कारुण्यशालिनी ॥ १३.९४८ ॥

तस्यै वरं ददौ धाता व्याधयस्तेऽश्रुबिन्दवः ।
भविष्यन्ति जनान्ताय त्वां न ज्ञास्यन्ति मोहिताः ॥ १३.९४९ ॥

इति मृत्युः पुरा सृष्ट्वा ब्रह्मणा सर्वसंहृतिः ।
मा शुचः पृथिवीपाल सा हि कं नोपसर्पति ॥ १३.९५० ॥

***** मृत्युप्रजापतिसंवादः ॥ ६८ ॥ *****

धर्मतत्त्वं पुनः पृष्टो धर्मजेन पितामहः ।
शशंस सारं धर्मस्य सत्यं परहितं तथा ॥ १३.९५१ ॥

गतिर्धर्मस्य विविधा सूक्ष्मा ज्ञातुं न शक्यते ।
विपरीतविचाराणामधर्मो याति धर्मताम् ॥ १३.९५२ ॥

अन्तर्जलतपाः पूर्वमभवज्जाजलिर्मुनिः ।
जटासु यस्य विश्वासात्कुलायाः पक्षिभिः कृताः ॥ १३.९५३ ॥

स दृष्ट्वा पक्षिणां मूर्ध्नि निर्वृत्ताञ्शावकाञ्शनैः ।
बभूव धर्मसंमत्तस्तमूचुरथ राक्षसाः ॥ १३.९५४ ॥

तुलाधरस्य समातामनासाद्यैव किं मुने ।
माद्यसि स्फारतपसां व्ययं कर्तुमिहोद्यतः ॥ १३.९५५ ॥

इति श्रुत्वा समन्विष्य गत्वा वाराणसीं मुनिः ।
तुलाधरं ददर्शाथ मांसविक्रयजीवितम् ॥ १३.९५६ ॥

ज्ञानदृष्ट्या स्वयं ज्ञात्वा तस्यागमनकारणण् ।
तुलाधरोऽब्रवीद्ब्रह्मन्धर्मो हि गगनात्मकः ॥ १३.९५७ ॥

अभीतैः सर्वभूतेभ्यो भूतानामभयप्रदैः ।
असक्तैः कर्मनिपुणैर्धर्मस्यासाद्यते गतिः ॥ १३.९५८ ॥

अहिंसा परमो यज्ञः पुण्यैर्यष्टुं स शक्यते ।
पश्य पापं कृशाप्राप्यं गोपशुप्राणपीडनात् ॥ १३.९५९ ॥

आत्मयज्ञाप्तपुण्यानामात्मतीर्थैकसेविनाम् ।
त्यक्ताभिमानस्पर्धानां नैव शोचन्ति बान्धवाः ॥ १३.९६० ॥

इति मानमहामोहं जाजलेः स तुलाधरः ।
निवार्यासक्तकर्मस्थः प्रययौ परमां गतिम् ॥ १३.९६१ ॥

***** तुलाधरजाजलिसंवादः ॥ ६९ ॥ *****

गीतं विचरव्नुना पूर्वं धर्मऽस्मिन्नेव भूभुजा ।
अहिंसा परमो धर्मः क्रतुश्चाद्रव्यडम्बरः ॥ १३.९६२ ॥

पशुप्राणैर्यजन्त्येते कामात्मानः फलेप्सवः ।
मांसमत्स्यमधुप्रआयं धूर्तैर्भोगाय कल्पितम् ॥ १३.९६३ ॥

लोलुपैर्दम्भगुरुभिः पशुयागोऽधिगम्यते ।
पूज्यो हि भगवान्विष्णुः सोऽद्भिः पुष्पैश्च तुष्यति ॥ १३.९६४ ॥

रलानिं शरीरं नायाति यथा न मरणं भवेत् ।
तथा कर्म प्रवर्तेन शरीरं धर्मसाधनम् ॥ १३.९६५ ॥

***** विचरव्नुगीताः ॥ ७० ॥ *****

कार्याकार्यविमर्शाय राज्ञा पृष्टः पितामहः ।
उवाच चिरकारीति बभूवाङ्गिरसो मुनिः ॥ १३.९६६ ॥

चिरं विचार्य कर्मामि स करोति यदा तदा ।
अलसो दीर्घदर्शी च मूर्खैरिति विडम्ब्यते ॥ १३.९६७ ॥

स कदाचित्स्वयं पित्रा प्रेरितो जननीवधे ।
चिरं निदध्यौ संदेहदोलाविश्लथमानसः ॥ १३.९६८ ॥

अविलङ्घ्यं गुरुवचो दुःसहो जननीवधः ।
इत्यभूद्दुःखकलुषः पतितो धर्मसंशये ॥ १३.९६९ ॥

तावच्चिन्तापरः सोऽभूद्यावत्तस्य पिता स्वयम् ।
पश्चात्तापमनुप्राप्तो निजामाज्ञामवारयत् ॥ १३.९७० ॥

चिरकारी विमर्शेन ररक्षेति स्वयं मुनिः ।
मातरं गुरुवाक्यं च विमर्शो हि शुभास्पदम् ॥ १३.९७१ ॥

***** चिरकारिचरितम् ॥ ७१ ॥ *****

राजा रक्षेत्सदाचारं कथं लोकानपीडयन् ।
इति पृष्टो नरेन्द्रेण पुनः शान्तनवोऽब्रवीत् ॥ १३.९७२ ॥

द्युमत्सेन पुरा पुत्रं साल्वराजो महामतिः ।
बभाषे सत्यवान्नाम वध्यान्वीक्ष्यातिपीडितान् ॥ १३.९७३ ॥

राजन्धर्मगतिः सूक्ष्मा किमेते दस्यवस्त्वया ।
असामर्थ्येन विप्राणां निगृह्यन्ते यथा तथा ॥ १३.९७४ ॥

एकस्य हि वधेनैव ते भार्यापुत्रबान्धवाः ।
हता भवन्ति बहवस्तस्माद्दण्डो विवेच्यते ॥ १३.९७५ ॥

द्युमत्सेनो निशम्येति प्राह दण्ड्यानदण्डयन् ।
राजा क्षिपत्यगाधेऽस्मिन्प्रजा भयमहावटे ॥ १३.९७६ ॥

लघुदण्डाः पुराभूवन्मृदवोऽल्पद्रुहो जनाः ।
अद्य कालविपर्यासाद्वध्यदण्डेऽप्यसंयताः ॥ १३.९७७ ॥

इत्यासीद्राजपुत्रस्य राज्ञश्च परिभाषणम् ।
निवृत्ते च प्रवृत्ते च धर्मे धर्मविदां वर ॥ १३.९७८ ॥

***** द्युमत्सेनोपाख्यानम् ॥ ७२ ॥ *****

निवृत्तं च प्रवृत्तं च धर्मं पृष्टोऽथ भूभुजा ।
व्याजहारोभयोस्तत्त्वं द्रष्टा शन्तनुनन्दनः ॥ १३.९७९ ॥

नहुषस्य पुरा सौरे सत्त्रे गां यूपसंगताम् ।
स्वेच्छाचारो द्विजो योगी विलोक्य कपिलोऽब्रवीत् ॥ १३.९८० ॥

अहो नु हिंसा दुर्वृत्तैर्धर्माय परिकल्पिता ।
परोपघाते नन्दन्ति लुब्धाः कामफलेप्सवः ॥ १३.९८१ ॥

इत्याकर्ण्य द्विजस्तत्र स्यूमरश्मिः प्रविश्य गाम् ।
अवदद्वेदवचनप्रामाण्यं नेष्यते त्वया ॥ १३.९८२ ॥

यजेत दद्यादित्येषा न श्रुता किं श्रुतिः स्मृतिः ।
गार्हस्थ्यलक्षणो धर्मो यज्ञाङ्गो ह्यखिलाश्रयः ॥ १३.९८३ ॥

श्रुत्वेति कपिलः प्राह शुद्धज्ञानमयः क्रतुः ।
तारयत्येव तमसो द्रव्ययागो हि बन्धनम् ॥ १३.९८४ ॥

स्यूमरश्मिर्निशम्यैतत्प्रोवाच क्रियया पुनः ।
विशुद्धेऽचिर्मणौ ज्ञानं प्रतिमामाश्रयेदिति ॥ १३.९८५ ॥

***** गौकापिलीयम् ॥ ७३ ॥ *****

वरं धर्मार्थेकामानां किमिति क्ष्माभुजा पुनः ।
पृष्टोऽब्रवीच्छान्तनवस्त्रिवर्गगतिकोविदः ॥ १३.९८६ ॥

धनार्थी ब्राह्मणः कश्चिद्देवानाराध्य निष्फलः ।
सिषेवे कुण्डधाराख्यं भक्त्या ज्ञानधरं चिरम् ॥ १३.९८७ ॥

तुष्टे तस्मिन्ददर्शाथ स्वप्ने वैश्रवणालये ।
मणिभद्रं धनचयान्वितरन्तं यथोचितम् ॥ १३.९८८ ॥

कुण्डधारस्तमभ्येत्य ब्राह्मणार्थमयाचत ।
कुण्डधारस्य योगेन ब्राह्मणो हितकारिणा ॥ १३.९८९ ॥

वरान्निर्वेदमापन्नो धर्मवांस्तपसे ययौ ।
नभश्चरो दिव्यदृष्टिः सोऽभवत्तपसा कृती ॥ १३.९९० ॥

एवं सारस्त्रिवर्गस्य धर्मः शुभफलप्रदः ।
अर्थकामप्रसक्तानां नृपाणां नरके स्थितिम् ।
निशम्य कुर्यात्को नाम न धर्मोपार्जने मतिम् ॥ १३.९९१ ॥

***** कुण्डधारोपाख्यानम् ॥ ७४ ॥ *****

अहिंसा परमो धर्मो निर्वेदो ज्ञानदेशकः ।
सर्वत्यागः परा शान्तिः कामिनां त्वन्यथाखिलम् ॥ १३.९९२ ॥

असितो देवलः पृष्टो नारदेनाब्रवीत्पुरा ।
अष्टादशात्मकः सोष्मा संगतः पाञ्चभौतिकः ॥ १३.९९३ ॥

क्षेत्रज्ञेन पुनर्याति संगमं वृक्षपक्षिवत् ।
अक्षीणवासनातन्तुर्भिन्नोऽपि न विमुच्यते ॥ १३.९९४ ॥

विच्छिन्नकर्मा निर्द्वन्द्वः पुण्यपापविवर्जितः ।
देही देहवियोगे स्वं ब्रह्म गच्छति निर्गुणः ॥ १३.९९५ ॥

***** नारदासितसंवादः ॥ ७५ ॥ *****

प्रक्षीणवासनाजालो माण्डव्यं जनकोऽब्रवीत् ।
धुर्योऽहमस्मि सुखिनामेक एवार्थवर्जितः ।
दह्यमानेऽपि नगरे यस्य किंचिन्न दह्यते ॥ १३.९९६ ॥

संसारमरुतप्तानां तृष्णामूर्च्छितचेतसाम् ।
भेषजं परमं नाम संतोषामृतवारिदः ॥ १३.९९७ ॥

धनेन वर्धने तृष्णा लावणेनेव वारिणा ।
शोको विवृद्धतृष्णाया गोः शृङ्गमिव वर्धते ॥ १३.९९८ ॥

तां त्यक्त्वा गतसंसर्गो निर्दुःखपदमाश्रितः ।
कूर्माङ्गवत्संहृतेच्छः स्वेच्छाचारी विमुच्यते ॥ १३.९९९ ॥

जनकस्येति वचसा माम्डव्यः स्रस्तसंसृतिः ।
ब्रह्मप्रकाशमविशद्ध्रुवं शान्तमनामयम् ॥ १३.१००० ॥

***** माण्डव्यजनकसंवादः ॥ ७६ ॥ *****

यतेन्द्रियेच्छः संन्यासी निर्भयो जनिताभयः ।
अवज्ञातोऽवधूतश्च शून्याचारोऽप्यनाश्रयः ॥ १३.१००१ ॥

अनिर्विण्णः प्रहृष्टश्च ज्ञाता मौनी च मुच्यते ।
बुध इत्याह हारीतो विशुद्धज्ञानसंश्रयः ॥ १३.१००२ ॥

***** हारीतगीताः ॥ ७७ ॥ *****

भ्रष्टैश्वर्यः पुरा वृत्रः शुक्रं गुरुमभाषत ।
जीवानां कर्मबन्धानां तिष्ठतां पाञ्चभौतिके ।
पर्यायेण भवन्त्येव संपदो विपदस्तथा ॥ १३.१००३ ॥

निःस्पृहोऽस्मि न शोचामि भजे साम्यमनश्वरम् ।
न यास्याम्यधुना रागमवर्णो वर्णसंगमात् ॥ १३.१००४ ॥

इत्युक्त्वा दानवपतिर्यदृच्छोपगतान्मुनेः ।
सनत्कुमारादज्ञासीद्विष्णुं कारणमव्ययम् ॥ १३.१००५ ॥

स विज्ञायाच्युतं देवं प्रययौ परमां गतिम् ।
सोऽयं नारायणः कृष्णः संबन्धी तव पाण्डव ॥ १३.१००६ ॥

***** वृत्रगीताः ॥ ७८ ॥ *****

राज्ञा वृत्रकथां पृष्टः पुनः प्राह पितामहः ।
पुरा वृत्रेण विजितो रणे जम्भनिसूदनः ॥ १३.१००७ ॥

स बोधितो वसिष्ठेन गर्वज्वरविमोहितम् ।
विष्णुतेजो दधद्वज्रं तं जघान महाकृतिम् ॥ १३.१००८ ॥

हतस्य कायाद्वृत्रस्य ब्रह्महत्या विनिर्गता ।
मुक्तकेशी कृशा घोरा मलदिग्धा कपालिनी ॥ १३.१००९ ॥

सा विद्रुतं सहस्राक्षां चिरमन्विष्य सर्वतः ।
विलोक्य कण्ठे जग्राह निश्चलाभयकम्पितम् ॥ १३.१०१० ॥

तं तया गूढमाक्रान्तं चिराय चतुराननः ।
विलोक्य कृपया हत्यां ययाचे शक्रमुक्तये ॥ १३.१०११ ॥

विरता ब्रह्मणो वाक्याद्ब्रह्महत्या सुरेश्वरम् ।
तत्याज स्थितिमासाद्य चतुर्धा घोरदर्शना ॥ १३.१०१२ ॥

योऽग्नौ प्रज्वलिते यत्नान्न बीजादिकमर्पयेत् ।
यः पर्वकाले विटपिच्छेत्ता यश्च रजस्वलाम् ॥ १३.१०१३ ॥

कामयेच्च जले यश्च क्षिपेच्छ्लेष्ममलादिकम् ।
स पदं ब्रह्महत्यायाः स्वयंभूरित्यभाषत ॥ १३.१०१४ ॥

***** वृत्रवधः ॥ ७९ ॥ *****

ज्वरोत्पत्तिं पुनः पृष्टो भीष्मः पार्थमभाषत ।
सुमेरुशृङ्गे भगवान्स्थितो गौरीवपतिः पुरा ।
शुश्राव यज्ञं दक्षस्य देवाकीर्णं प्रजापतेः ॥ १३.१०१५ ॥

अभागार्हेऽसि किं यज्ञेष्विति गौरीगिरा हरः ।
अनाहूतश्चकाराथ दक्षयज्ञक्षये मतिम् ॥ १३.१०१६ ॥

क्रुद्धस्य तस्य लालाटस्वेदवारिकणात्क्षणात् ।
समुद्ययौ ज्वरो दीप्तस्त्रिशिरास्ताम्रलोचनः ॥ १३.१०१७ ॥

ब्रह्मणा दुःसह सोऽथ विन्यस्तः किल भागशः ।
तेषु तेषूत्कटो यत्नादेकः को नु सहेत तम् ॥ १३.१०१८ ॥

संतापं गजकुम्भेषु पर्वतेषु शिलाजतु ।
निर्मोकपट्टं सर्पेषु नीलिकां सलिलेषु च ॥ १३.१०१९ ॥

गोषु खोरकनिःश्वासमूषिरं क्षेत्रभूमिषु ।
पादरोगं तथाश्वेषु नेत्ररोगं पिकेषु च ॥ १३.१०२० ॥

मेषेषु पित्तभेदं च हिक्काश्वासं शुकेषु च ।
शिखाभेदं मयूरेषु श्रमं पञ्चाननेषु च ॥ १३.१०२१ ॥

जन्मन्यन्ते विवाहे च मनुष्येषु ज्वरं तथा ।
बहुधावस्थितं घोरं सततं च प्रचक्षते ॥ १३.१०२२ ॥

रुद्रोऽथ वीरभद्राख्यं ससर्ज गणमुत्कटम् ।
भद्रकालीं तथा देवीं कालानलशिखोपमाम् ॥ १३.१०२३ ॥

तौ गत्वा चक्रतुर्यज्ञं बहुद्रव्यं प्रजापतेः ।
भिन्नभिन्नापविद्धाङ्गं निहत्य मृगरूपिणम् ॥ १३.१०२४ ॥

ततः प्रजापतिः पूर्वं देवाहितविनाशकम् ।
विरूपाक्षमनेकाक्षं त्र्यक्षं यक्षपतिप्रियम् ॥ १३.१०२५ ॥

सर्वात्मना सर्वगतं सर्वाकारमनामयम् ।
तुष्टाव शंकरं दक्षो गूढार्थैर्दिव्यनामभिः ॥ १३.१०२६ ॥

नमो यज्ञाय विज्ञेयतत्त्वानुभवशालिने ।
सर्ववेदमयोङ्कारवाच्याय वृषकेतवे ॥ १३.१०२७ ॥

अनवच्चिन्नरूपाय व्यापिने विश्वमूर्तये ।
सर्वतः पाणिशिरसे नमः सर्वान्तरात्मने ॥ १३.१०२८ ॥

उग्रायोदग्रमहसे शर्वायागर्वशालिने ।
रुद्रायोदग्रयशसे वन्द्यायेन्दुभृते नमः ॥ १३.१०२९ ॥

ततस्तुष्टे भगवति त्र्यम्बके त्रिपुरान्तके ।
फलं यज्ञसहस्रस्य दक्षोऽलभत तद्वरात् ॥ १३.१०३० ॥

***** दक्षयज्ञध्वंसः ॥ ८० ॥ *****

कथं विजितलोकानां भयं मृत्योर्निवर्तते ।
इति प्रृष्टो नरेन्द्रेण व्याजहार पितामहः ॥ १३.१०३१ ॥

नारदेन पुरा पृष्टः समङ्गः सर्वतत्त्ववित् ।
प्राणेन्द्रियजयान्नूनं शोको मृत्युश्च नश्यति ॥ १३.१०३२ ॥

पञ्चेन्द्रियहितं तुष्ट्यै तुष्टिरुत्सेककारिणी ।
उत्सेको विनिपाताय संसारसरणौ सदा ॥ १३.१०३३ ॥

अरागमोहो हृष्टात्मा चराम्यनुपलक्षितः ।
अशोकश्चामृतश्चाहं तेन नारद पश्य माम् ॥ १३.१०३४ ॥

***** समङ्गनारदसंवादः ॥ ८१ ॥ *****

शास्त्रनिःसंशयं श्रेयो राज्ञा पृष्टोऽब्रवीत्पुनः ।
भीष्मो यद्गालवं प्राह नारदः सर्वदर्शिनम् ॥ १३.१०३५ ॥

हिते वर्तेत भूतानामहंकारं परित्यजेत् ।
प्रख्यापयेन्न संसत्सु स्वोत्कर्षं परनिन्दया ॥ १३.१०३६ ॥

पैशुन्यं लौल्यमालस्यं रात्रिचर्यां च वर्जयेत् ।
न दर्पाद्बहुभाषी स्यान्नेन्द्रियाणां हितं चरेत् ॥ १३.१०३७ ॥

नानुशोचेत्सुखभ्रंशे कामयेत न दुर्लभम् ।
जानन्नपि न कुर्वीत कौटिल्यं न च विश्वसेत् ॥ १३.१०३८ ॥

सतां सङ्गे मतिं कुर्यात्सदाचारपुरे वसेत् ।
सहसा संत्यजेत्पापं न कुर्यादनुतापदम् ॥ १३.१०३९ ॥

***** नारदगालवसंवादः ॥ ८२ ॥ *****

मुक्तिः शनैः कथमिति भीष्मः पृष्टोऽब्रवीत्पुनः ।
अरिष्टनेमिः सगरं यद्बभाषे विमुक्तये ॥ १३.१०४० ॥

आशालतावलयितं बद्धमूलमविद्यया ।
न हि पातयितुं शक्तः सुखेन भवपादपम् ॥ १३.१०४१ ॥

को हि जन्मसहस्रोक्तां वासनाभ्यासजां निजाम् ।
प्रीतितं वारयितुं शक्तो ललनाधनबन्धुषु ॥ १३.१०४२ ॥

समारूढः श्रियं कान्तां ललनाम्भोजषटूपदः ।
त्यजेति विषसंकाशं को नाम वचनं पिबेत् ॥ १३.१०४३ ॥

धनपुत्रकलत्रेषु स्वयमेवार्जितेष्वहो ।
अवसन्ना विनश्यन्ति क्षुद्राः क्षौद्ररसेष्विव ॥ १३.१०४४ ॥

शिशूनं वृत्तिमालोक्य व्यस्तां देवेन कल्पिताम् ।
को हि तद्वर्तनादानैरात्मानमवसादयेत् ॥ १३.१०४५ ॥

परिच्छिन्नाशिनः किं ते कोटिभिर्भूमिसंचयैः ।
न पश्यसि मृतः किंचित्कोऽयं सर्वग्रहस्तव ॥ १३.१०४६ ॥

काञ्चने लोष्टशकले पर्यङ्के पांसुसंस्तरे ।
चीनांशुके वल्कले च समानः किल मुच्यते ॥ १३.१०४७ ॥

अन्तवत्कलयन्सर्वं निर्वेदं परमं गतः ।
तटस्थः सर्वभावेषु भवत्येवाभवो नरः ॥ १३.१०४८ ॥

गणयन्दुर्दशामन्ते समानः काञ्चनाश्मनोः ।
अविद्याग्रन्थिभेदेन मुच्यते निर्ममः सुखम् ॥ १३.१०४९ ॥

***** सगरारिष्टनेमिसंवादः ॥ ८३ ॥ *****

अथ शुक्रकथां पृष्टो राज्ञा प्राह सुरव्रतः ।
पुरा योगीश्वरः शुक्रो भृगुसूनुर्धनप्रभोः ।
गुह्यकाधिपतेर्देहं प्रविश्याक्रम्य सर्वतः ॥ १३.१०५० ॥

धनं भूरि जहाराशु तच्च दुःखाद्धनाधिपः ।
पिनाकिने दस्युवृत्तं वयस्याय न्यवेदयत् ॥ १३.१०५१ ॥

कुपितस्त्रिपुरारातिरादाय भृगुनन्दनम् ।
पपौ स चोदरे शंभोर्बभ्राम विपुले चिरम् ॥ १३.१०५२ ॥

स रुद्रधारणावह्निदह्यमानोऽन्तरस्थितः ।
रुद्धेषु सर्वस्रोतःसु तस्य तुष्टाव वल्लभाम् ॥ १३.१०५३ ॥

ततः स शुक्रद्वारेण निर्गतः शुक्रतां ययौ ।
सतीसंरक्षितो लेभे न च वै पूर्ववत्स्थितिम् ॥ १३.१०५४ ॥

***** शुक्रोत्पत्तिः ॥ ८४ ॥ *****

श्रेयः किमिति पृष्टोऽथ पुनराह पितामहः ।
पुरा विदेहाधिपतिं यदुवाच पराशरः ॥ १३.१०५५ ॥

मनोरथो रथो यस्य संयतः शान्तिरश्मिभिः ।
न चरत्यवटे तस्य कर्मणोऽपि सुखं सदा ॥ १३.१०५६ ॥

रत्यै भोगा विमूढानां सा दुःखाय वियोगिनाम् ।
तमसे दुःखमेवैषां बन्धाय महते तमः ॥ १३.१०५७ ॥

सतां भोगवियोगेषु निर्वेदो नाम जायते ।
निर्वेदस्तपसे तेषां तपः संसारशान्तये ॥ १३.१०५८ ॥

सदाचारप्रवृत्तानां यथाशास्त्रानुसारिणाम् ।
स्वकर्मसक्तमनसां स्वयमायान्ति संपदः ॥ १३.१०५९ ॥

***** पराशरगीताः ॥ ८५ ॥ *****

प्रजापतिर्हंसरूपी राज्ञा पृष्टोऽब्रवीत्पुरा ।
क्रोधो मृत्युः कुजन्तूनां स्वसुखाद्यदि निर्गतः ॥ १३.१०६० ॥

दग्धाः क्रोधेन शोचन्ति क्रोधानधा निपतनति च ।
जितक्रोधः शसुखं शेते ग्रस्तरागादिबन्धनः ॥ १३.१०६१ ॥

***** हंसगीताः ॥ ८६ ॥ *****

पृष्टः किमक्षरमिति प्राह भीष्मो नरेश्वरम् ।
भगवाञ्जनकं पूर्वं वसिष्ठो यदभाषत ॥ १३.१०६२ ॥

चतुर्दशविधः सर्गो गुणाः कर्माणि चोदनाः ।
सर्वमेतत्क्षरं विद्यादक्षरं परमं पदम् ॥ १३.१०६३ ॥

अक्षरक्षरसङ्गोऽयं देहिदेहसमागमः ।
देहताम्रकलादाहे हेमवद्दृश्यतेऽभरम् ॥ १३.१०६४ ॥

***** वसिष्ठजनकसंवादः ॥ ८७ ॥ *****
पुनः पृष्टोऽवदद्भीष्मो याज्ञवल्क्यो गुरुः पुरा ।
प्रोवाच शिष्यं जनकं परमाक्षरनिर्णयम् ॥ १३.१०६५ ॥

अध्यात्मचिन्तागन्तव्यमधिभूते च कारणम् ।
गुणत्रयविनिर्मुक्तमक्षरं वेद्यवर्जितम् ॥ १३.१०६६ ॥

सांख्ययोगोदितं शान्तं शाश्वतं ध्रुवमव्ययम् ।
निस्तरङ्गोदधिनिभि युक्ताः पश्यन्ति निर्भयाः ॥ १३.१०६७ ॥

सूर्यप्रसादाद्वदनं प्रविष्टा मे सरस्वती ।
तयास्मि वेदकृद्भूत्वा सारमेव पदं श्रितः ॥ १३.१०६८ ॥

षङ्विशो मुच्यते व्यक्तं प्रलीनं पञ्चविंशके ।
इति गन्धर्वभूपालो विश्वावसुमबोधयत् ॥ १३.१०६९ ॥

***** याज्ञवल्क्यजनकसंवादः ॥ ८८ ॥ *****
तिष्ठन्गृहे को नु मुक्तः पार्थेनेति सुरव्रतः ।
पृष्टो बभाषे सुलभा यदूचे जनकं पुरा ॥ १३.१०७० ॥

त्रिदण्डधारिणी मुक्ता सुलभा नाम भिक्षुकी ।
मिथिलां जनकं द्रष्टुं पुरा प्रायाद्विहायसा ॥ १३.१०७१ ॥

यौवनाभरणं रूपं दधती सा सुमध्यमा ।
ददर्श जनकं कान्ता लावण्यललिताकृतिः ॥ १३.१०७२ ॥

तां विलोक्य सुधासारसिक्ताङ्ग इव मैथिलः ।
चक्रे समुचितां पूजां तस्मै पापासनादिभिः ॥ १३.१०७३ ॥

ततः सुखोषिता तत्र मुक्तात्तरमुपेत्य सा ।
सभायां जनकं चक्रे रश्मिभिः स्वीकृतान्तरम् ॥ १३.१०७४ ॥

नेत्राभ्यां चारुनयना विशन्ती तमलक्षिता ।
अन्तरङ्गा क्षणमभूत्सा सुप्तेव सुधानदी ॥ १३.१०७५ ॥

तद्भावस्पृष्टभावोऽथ बभाषे दन्तकान्तिभिः ।
जनको निर्गुणां कुर्वन्विमुक्तां हारवल्लरीम् ॥ १३.१०७६ ॥

अयि चित्तसुधासिन्धुचन्द्रिका कासि कस्य वा ।
कुतस्त्वमनवद्याङ्गि नयनामृतवर्षिणी ॥ १३.१०७७ ॥

शिष्यः पञ्चशिखस्याहं सांख्यवेदविदो मुनिः ।
विवेकास्त्रविदां श्रेष्ठो मोक्षं प्राप्तो जनाधिपः ॥ १३.१०७८ ॥

किरीटी कङ्कणधरश्छत्त्रव्यजनवाहनः ।
मुण्डितेच्छः शमारण्यो मनः कर्मप्रसादनः ॥ १३.१०७९ ॥

स्वान्तबोधकपालेऽस्मिन्प्लुष्टं पञ्चशिखेन मे ।
ज्ञानबीजस्य सामर्थ्याद्विषयेषु न जायते ॥ १३.१०८० ॥

नैकान्तवासिता शान्त्यै न गेहं बन्धनाय च ।
सर्वत्र विहिता नाम मुक्तिर्निर्लेपचेतसाम् ॥ १३.१०८१ ॥

अन्तःप्रवेशः किमयं त्वया मे योगतः कृतः ।
वर्णगोत्राश्रमादीनां विभेदादेष संकरः ॥ १३.१०८२ ॥

जेतुमिच्छसि चेदस्मान्सिद्धो मानस्तदेष ते ।
अयं स्वशास्त्रदोषश्च तव स्पृशसि यत्परान् ॥ १३.१०८३ ॥

सर्वाङ्गसङ्गं कुरुषे सती भूत्वा न लज्जसे ।
कारणं ब्रूहि सुभगे न मिथ्या वक्तुमर्हसि ॥ १३.१०८४ ॥

इति पृष्टातिपरुषं न धैर्यात्संचचाल सा ।
ईषदुन्नमितैकभ्रूर्हासपल्लविताधरा ॥ १३.१०८५ ॥

सा बभाषे प्रविष्टापि च्छायेव पुरतः स्थिता ।
पूर्वापरहितं वाक्यं नदन्सज्जनसंसदि ।
मुक्तश्च भेदवक्ता चेत्यहो राजन्न राजसे ॥ १३.१०८६ ॥

कासि कस्य कुतो वा त्वं यदेवमभिधीयते ।
तत्र किं न श्रुतं काष्ठजन्तुवद्गुणभौतिकम् ॥ १३.१०८७ ॥

त्रिंशद्गुणकलाकारो व्यक्तो व्यक्तत्वमागतः ।
संघातस्तत्त्वचक्रस्य सोऽयं कस्य न कस्य वा ॥ १३.१०८८ ॥

शुक्रसेकाद्यवस्थास्ता न लक्ष्यन्ते जरावधि ।
दीपस्येवार्चिषो याता यस्य सोऽयं कुतः कथम् ॥ १३.१०८९ ॥

स्वाङ्गैरपि न संबन्धः संबन्धो जगतामिव ।
किमुतात्मनि नात्मानं मुक्तः पश्यसि बिम्बवत् ॥ १३.१०९० ॥

विकल्पं पृच्छतो नैषा मुक्तता तव शोभते ।
समरारावभग्नस्य जयमालेव दन्तिनः ॥ १३.१०९१ ॥

इदं राज्यमपर्यन्तं तिष्ठतस्ते विमुक्तता ।
न मन्येऽहं मरुतटे तप्तस्येव वितृष्णता ॥ १३.१०९२ ॥

चामरैर्लोलयन्त्येव च्छत्त्रैराच्छादयन्ति च ।
विवेकं मदकल्लोलैर्हरन्ति च नृणां श्रियः ॥ १३.१०९३ ॥

हताः सेनाः पुनर्युद्धे राजपुत्रो निपातितः ।
इति साधारणैर्देषैर्भूभुजामेव दुःखिता ॥ १३.१०९४ ॥

धनं कोशे गजाः शाले स्वगृहेषु च मन्त्रिणः ।
शय्याविभागे महिषी त्रियामायां त्वमेककः ॥ १३.१०९५ ॥

अकङ्कणमहारं च शय्यायां वर्तते वपुः ।
उच्छ्वासशेषो विमुखः स्वप्ने धावसि चान्यतः ॥ १३.१०९६ ॥

भिक्षुकी शून्यनिलया शून्येऽस्मिंस्तव विग्रहे ।
निवसामि क्षपामेकां का नु ते नृपते क्षतिः ॥ १३.१०९७ ॥

अस्पृशन्ती वपुस्तेऽहं प्रविष्टा यदि योगतः ।
तत्कथं नृपते मुक्तः स्पर्शं वेत्सि सरागवत् ॥ १३.१०९८ ॥

वर्णसंकरभीरोस्ते कथं पञ्चशिखो गुरुः ।
वृथा तदधुना जातं यत्त्वयोक्तं नरेश्वर ॥ १३.१०९९ ॥

नैवाङ्कुरसमर्थं मे ज्ञानबीजं प्ररोहति ।
विषयेष्विति तद्राजन्स्वयमुक्तं न पश्यसि ॥ १३.११०० ॥

अविभिन्ना वयं सर्वे समाश्रयिसमाश्रयात् ।

तरौ लता तत्र पुष्पं तस्मिन्षट्चरणा इव ॥ १३.११०१ ॥

सर्वात्मना पृथक्त्वं चेदिति भागं विपश्यसि ।
तदेकान्तविभिन्नस्य कस्य केनात्र संकरः ॥ १३.११०२ ॥

स त्वं प्रवृत्तिविमुखो न च प्राप्तो निवृत्तताम् ।
त्रिशङ्कुरिव मध्यस्थो न दिवं न भुवं श्रितः ॥ १३.११०३ ॥

सर्वमेतन्मम न वा यत्सर्वमहमेव वा ।
निष्ठामेतामनासाद्य कथं मुक्तोऽसि पार्थिव ॥ १३.११०४ ॥

इत्यवाप्तोपदेशार्थः सुलभावचसा नृपः ।
न हृष्टो नापहृष्टश्च तूष्णीं नभ इवाभवत् ॥ १३.११०५ ॥

***** सुलभाजनकसंवादः ॥ ८९ ॥ *****
राज्ञा शुकस्य वै
राग्यं भीष्मः पृष्टोऽब्रवीत्पुनः ।
यदुवाच शुकं पुत्रं पराशरसुतो मुनिः ॥ १३.११०६ ॥

पुत्र संसारमरणौ सरतामविवेकिनाम् ।
पश्य शीतातपव्याधिमरणावधिदुःस्थितिम् ॥ १३.११०७ ॥

अस्मिन्शरीरकुसुमे भृङ्गवज्जीविते स्थिते ।
चपलेषु च बावेषु ताटस्थ्यं पुत्र नोचितम् ॥ १३.११०८ ॥

यथा लिखितमेवायुः क्षणरात्रिं दिवं ततः ।

कोटिभिः प्राप्तकालानां मुहूर्तमपि दुर्लभम् ॥ १३.११०९ ॥

वासनाक्षौद्रपटले नानाभावरसाहृते ।
स्वयमुत्पादिते मग्नः क्षुद्रः को नाम मुच्यते ॥ १३.१११० ॥

अपर्याप्तमनःस्वेच्छास्त्यक्त्वा दारान्धनं सुतान् ।
कालव्यालसमाकृष्टा हन्त गच्छन्ति जन्तवः ॥ १३.११११ ॥

असिपत्त्रवनं घोरं तप्ता वैतरणी नदी ।
परत्रोष्णकटाहाश्च सन्ति गेहं न बान्धवाः ॥ १३.१११२ ॥

न यावदेतत्तारुण्यं गलत्यनुपलक्षितम् ।
न यासि यावत्संकोचं जरया तप्तचर्मवत् ॥ १३.१११३ ॥

हिक्काश्वासविपर्यस्तो यावत्स्वप्नविलोचनः ।
कुलालचक्रवद्भ्रान्तो न पश्यसि दिशो दश ॥ १३.१११४ ॥

हिरण्यवर्णां वसुधां यावद्वीक्ष्य विशृङ्खलम् ।
न गच्छसि तमो दीर्घं सूच्यभेद्यमबान्धवः ॥ १३.१११५ ॥

यावच्छुभाशुभाक्रान्तो न हृष्यसि विरौषि वा ।
तावत्समाधिविबुधो विनिवृत्तभवो भव ॥ १३.१११६ ॥

श्रुत्वेत्यवाप्तनिर्वेदः शुकस्त्यक्त्वा स्वमाश्रयम् ।
आमन्त्र्य पितरौ योगी ययौ श्रेयःसमाधये ॥ १३.१११७ ॥

***** यावत्कम् ॥ ९० ॥ *****
कर्ममूलं निशम्याथ नृणां सुकृतदुष्कृतम् ।
राज्ञा शुककथां पष्टः पुनराह पितामहः ॥ १३.१११८ ॥

कर्णिकारवने मेरोः पुरा शीतांशुशेखरः ।
विजहार हरो हारफणिरत्नांशुपिञ्जरः ॥ १३.१११९ ॥

तत्रोग्रतपसा युक्तो व्यासः सत्यवतीसुतः ।
पुत्रकामो वरं प्राप दास्यमीति महेश्वरात् ॥ १३.११२० ॥

ततः कालेन स मुनिर्वह्न्यर्थमरणीं स्वयम् ।
ममन्थाप्सरसं पश्यन्धृताचीमग्रचारिणीम् ॥ १३.११२१ ॥

तस्य शुक्रं पपाताशु शुकीभूतां विलोक्य ताम् ।
अरण्यामरतस्यापि तत्रास्य तनयोऽभवत् ॥ १३.११२२ ॥

अरण्या गर्भसंभूतः सोऽभूद्व्याससुतः शुकः ।
शुक्रः कमण्डलुं यस्मै द्यौश्च दण्डाजिनं ददौ ॥ १३.११२३ ॥

वेदानधीत्य साकारानवाप्य च बृहस्पतेः ।
तपसा ब्रह्मचर्येण मान्योऽभूत्स दिवौकसाम् ॥ १३.११२४ ॥

उपदेशं पितुः प्राप्य तद्गिरा जनकं ययौ ।
मोक्षधर्मार्थनिपुणं द्रष्टुं पद्भ्यां नभश्चरः ॥ १३.११२५ ॥

मेरुवर्षानतिक्रम्य मिथिलां प्रविवेश सः ।
निवार्यमाणोऽप्यक्रोधो द्वाःस्थैः परुषवादिभिः ॥ १३.११२६ ॥

परं जनकराजस्य कक्ष्याद्वयमतीत्य सः ।
मन्त्रिप्रवेशितस्तस्थौ पूजितोऽन्तःपुरे मुनिः ॥ १३.११२७ ॥

ततः पर्यचरन्कान्तास्तमुत्पलविलोचनाः ।
यासां स्मितामृतैः कामः शिवदग्धोऽपि जीवति ॥ १३.११२८ ॥

वराहर्(ह)शयने तत्र योगी ध्यानपरायणः ।
निनाय रात्रिं प्रातश्च नृपो द्रष्टुं तमाययौ ॥ १३.११२९ ॥

गुरोर्व्यासस्य तनयो जनकेन स पूजितः ।
रत्नासनोपविष्टोऽथ पप्राच्छ मिथिलेश्वरम् ॥ १३.११३० ॥

विसृष्टोऽहं भगवता पित्रा व्यासेन तेऽन्तिकम् ।
गुरूपदेशसंबन्धं वद ज्ञानमनामयम् ॥ १३.११३१ ॥

जनकः प्राह शनकैः क्रियासोपानपङ्क्तिभिः ।
आरुह्योच्चैः परं धाम विसुद्धं शुद्धचेतसा ॥ १३.११३२ ॥

ज्ञानानिलहृताशेषविकल्पघनडम्बरः ।
द्वन्द्वत्रियामाविरतौ दृश्यते बोधभास्करः ॥ १३.११३३ ॥

सर्वमात्मनि सर्वत्र तमात्मानं विलोकयन् ।
गुणत्रयविनिर्मुक्तो मुनिश्चरति निर्ममः ॥ १३.११३४ ॥

तस्योत्सृष्टकलङ्कस्य प्रसन्नासक्तचेतसः ।
सर्वत्र विजितो मोक्षः सर्वकर्तृपदस्पृशः ॥ १३.११३५ ॥

स्पृहाग्रन्थिं पुरो मुक्त्वा ततो रागं ततः शुचम् ।
अहंकारपरित्यागाद्योगी ब्रह्ममयो भवेत् ॥ १३.११३६ ॥

सर्वान्तरात्मतां यातः सर्वज्ञपदमास्थितः ।
युक्तो विमिश्रतां याति शैलेषु सलिलेषु च ॥ १३.११३७ ॥

अहमित्येव संसारो नाहमित्येव तत्क्षयः ।
देहमानविरामे च प्राणमानं समाश्रयेत् ॥ १३.११३८ ॥

भावस्नेहं परित्यज्य देहमानं समाश्रयेत् ।
देहमानविरामे च प्राणमानं समाश्रयेत् ॥ १३.११३९ ॥

निरस्य प्राणमानं च विश्वाहंकारमाश्रयेत् ।
शून्यतां चिन्तयेत्पश्चाद्यया ब्रह्मणि लीयते ॥ १३.११४० ॥

इत्यादि मिथिलेन्द्रस्य निशम्य विशदं वचः ।
तमामन्त्र्य कृती प्रायाच्छुकस्तुहिनभूधरम् ॥ १३.११४१ ॥

अत्रान्तरे सुरमुनिर्नारदो द्रष्टुमाययौ ।
हिमाचलं लतालास्यविलासमणिमन्दिरम् ॥ १३.११४२ ॥

विद्याधरघटाजुष्टनिर्झरोदारकन्दरम् ।
हेमपङ्कजिनीकुञ्जकूजन्मञ्जुविहङ्गमम् ॥ १३.११४३ ॥

शुकोऽथ तत्र पितरं शिष्यान्विनयशालिनः ।
अध्यापयन्तमभ्येत्य स्ववृत्तान्त न्यवेदयत् ॥ १३.११४४ ॥

सुमन्तुः पैलसहितो वैशम्पायनजैमिनी ।
ते व्यासशिष्याः प्रमदात्परिषस्वजिरे शुकम् ॥ १३.११४५ ॥
कदाचिदथ यातेषु कृष्णद्वैपायनं गुरुम् ।
वैशंपायनमुख्येषु समामन्त्र्य महीतलम् ॥ १३.११४६ ॥

एक एव शुकस्तस्थौ तत्र ध्यानपरायणः ।
अधीयानः परं ब्रह्म व्यस्तं व्यासेन धीमता ॥ १३.११४७ ॥

अथ प्रवाति पवने कृते चाध्ययने शुकः ।
समीरणगतीस्तास्ताः शुश्राव गुरुणोदिताः ॥ १३.११४८ ॥

दिव्यो वायुः समानाख्यस्तस्योदानः सुतो बली ।
व्यानश्च तस्य तनयः ख्यातोऽपानश्च तत्सुतः ॥ १३.११४९ ॥

तत्संभवः प्राणनामा तेषां सप्त गतिक्रमाः ।
कर्म चैषां बहुविधं नाम्ना सदृशमुच्यते ॥ १३.११५० ॥

प्रवहो नाम तद्रूपो धूमाभ्रप्रेरकोऽनिलः ।
आवहो नाम पवनस्तडिद्विभ्रमकृन्मुनेः ॥ १३.११५१ ॥

जलं वहति मेघेषु यश्चोदीरयति ग्रहान् ।
उद्वहो नाम स ज्ञेयः सर्वसागरघस्मरः ॥ १३.११५२ ॥

विमानवाही देवानां संगर्जः संवहाभिधः ।
व्योमगङ्गाम्बुधर्ता च निवहः पञ्चमोऽनिलः ॥ १३.११५३ ॥

पूरयत्यमृतेनेन्दुं षष्ठः परिवहः स्मृतः ।
अन्त्योऽन्तकृच्च भूतानां घोरो वायुः परावहः ॥ १३.११५४ ॥

स एव वायुर्निःश्वासो वहत्स्वेतेषु नो पते(ठे)त् ।
एतदुक्त्वा नभोगङ्गां कृष्णद्वैपायने गते ॥ १३.११५५ ॥

शुक्रमेकाकिनं प्रीत्या नारदः समुपाययौ ।
आदराद्व्यासतनयस्तं प्रणम्य सुखस्थितम् ॥ १३.११५६ ॥

अपृच्छदैहिकं श्रेयः पृष्टस्तेन स चाब्रवीत् ।
विद्याचक्षुस्तपः सत्यं त्यागरागौ सुखासुखे ॥ १३.११५७ ॥

क्रोधश्च मृत्युरित्येतद्यो वेत्ति न स शोचति ।
अहिंसा धाम धर्मस्य दुःखस्यायतनं स्पृहा ॥ १३.११५८ ॥

सङ्गत्यागः पदं मुक्तेर्भोगाभ्यासो गृहं शुचः ।
विप्रयोगे महाञ्शोषस्तापकृद्यैः प्रजायते ॥ १३.११५९ ॥

आपातरमणीयांस्तान्भावान्साधुर्न चिन्तयेत् ।
बहु मन्येन न धनं संतोषं शममास्थितः ॥ १३.११६० ॥

संसारसारवैचित्र्यं गणयन्बहुबाधकम् ।
न विस्मयं न संतापं वानुरागं भजेत च ॥ १३.११६१ ॥

अलसा दीर्घसूत्राश्च दृश्यन्ते विभवैर्युताः ।
ईहमानाश्च दक्षाश्च न क्वचिद्धनभागिनः ॥ १३.११६२ ॥

अनिच्छतां संततिं च जायन्ते बहवः सुताः ।
लभन्ते पुत्रकामाश्च पातं वा नैव वा सुतम् ॥ १३.११६३ ॥

दुर्जराः सहसा यस्मिञ्जीर्यन्ते क्षिप्रमास्थिताः ।
तस्मिन्नेवोदरे गर्भो मासान्दश विवर्धते ॥ १३.११६४ ॥

व्याधिदग्धा विपद्यन्ते नरा वैद्यशतैर्वृताः ।
रोगानतितरन्त्यन्ये रथ्याकर्दमशायिनः ॥ १३.११६५ ॥

रूपबुद्धिविहीनानां दासाः स्वाकृतयो बुधाः ।
शोचन्त्यन्यत्र विधवा गतभार्यास्तथा क्वचित् ॥ १३.११६६ ॥

इत्येवं विविधां मायां कलयन्नखिलां धिया ।
भवस्वभाववैरी स्यान्न तु सज्जेत पण्डितः ॥ १३.११६७ ॥

नारदेनेति कथितं निशम्य व्यासनन्दनः ।
ध्यायन्संसारसरणिं निर्वेदान्न धृतिं ययौ ॥ १३.११६८ ॥

सर्वत्यागधृतोद्योगः स समामन्त्र्य नारदम् ।
व्यासमेत्य सरित्तीरे ववन्दे हर्षनिर्भः ॥ १३.११६९ ॥

तस्मै निवेद्य विनयान्निर्वेदं गतवासनः ।
प्रदक्षिणीकृत्य गुरुं गन्तुमभ्युद्ययौ शुकः ॥ १३.११७० ॥

क्षणं पुत्र प्रतीक्षख यावत्त्वद्दर्शनामृतैः ।
प्रीणामि निर्भरं चेतस्तमित्यूचे पिता ततः ॥ १३.११७१ ॥

निरक्षेपः स गत्वाथ समारुह्य गिरेः शिरः ।
निःशब्दः स समे देशे सर्वज्ञः समुपाविशत् ॥ १३.११७२ ॥

उल्लङ्घनाक्रमेणैव ग्रन्थिबन्धान्विमुच्य सः ।
तेजस्येकरसे तेजो धृत्वा हेम्नीव काञ्चनम् ॥ १३.११७३ ॥

रविं वायुं जलं भूमिं प्रविश्य गगनं तथा ।
विश्वाविष्कारकलया शून्याशून्यसमाश्रयः ॥ १३.११७४ ॥

विहस्योत्पत्य सहसा सशरीरोऽप्यदेहवत् ।
समीरवदसक्ताङ्गः खे ययौ वैनतेयवत् ॥ १३.११७५ ॥

तं प्राप्तं परमां सिद्धिं देवगन्धर्वयोषितः ।
अवाकिरन्पुष्पवर्षैः सर्वे च व्योमचारिणः ॥ १३.११७६ ॥

सोऽब्रवीद्देवताः सर्वा विचिन्वानस्य मां पितुः ।
प्रलापिनः प्रतिवचो देयं सर्वाभिराश्रमे ॥ १३.११७७ ॥

इत्युक्त्वा स समुल्लङ्घ्य क्षिप्रमष्टविधं तमः ।
त्यक्त्वा रजः सप्तविधं सत्त्वं चोत्सृज्य केवलम् ॥ १३.११७८ ॥

उल्कापातैः स दिग्दाहैः कम्पिते भुवनत्रये ।
निर्व्यञ्जनं निर्गुणं च ब्राह्मं तेजः समाविशत् ॥ १३.११७९ ॥

स व्रजन्विपुलायामं द्विशृङ्गं दिव्यभूधरम् ।
द्विधा व्यधादलग्नाङ्गस्ततो देवाः स्वयं ययुः ॥ १३.११८० ॥

अथ मन्दाकिनीतीरे कचत्काञ्चनपङ्कजे ।
उत्फुल्लोदारमन्दारपारिजातमनोहरे ॥ १३.११८१ ॥

स्नानकेलीरता लोलदृशस्त्रिदशयोषितः ।
हेमकुम्भोपमकुचाः पीनोरुश्रोणिमण्डलाः ॥ १३.११८२ ॥

श्यामरोमलताकान्ततनुमध्या विवाससः ।
वीतरागं शुकं दृष्ट्वा तस्थुर्विस्मयनिश्चलाः ॥ १३.११८३ ॥

तं कामकञ्चुकोत्तीर्णं ताः समुन्मुक्तकञ्चुकाः ।
कान्तं ददृशुरेकाग्रमसंकोचकुञ्चिताः ॥ १३.११८४ ॥

वातस्कन्धानतिक्रम्य याते तस्मिन्सुतप्रियः ।
तमन्वेष्टुं समभ्यायाद्व्यासस्तूर्णं विहायसा ॥ १३.११८५ ॥

हा पुत्रेति पितुर्वाचं श्रुत्वा सर्वान्तरात्मताम् ।
अवाप्तः शुद्धचिन्मात्रो भोःशब्दमकरोच्छुकः ॥ १३.११८६ ॥

शून्याकारस्य शब्देन तस्य प्रतिरवं नगाः ।
चक्रुः सैव स्थितिरभूत्प्रतिश्रुत्वा स भूभृताम् ॥ १३.११८७ ॥

लीने ततः परे धाम्नि शुके तनयवत्सलः ।
व्यासो न्यषीदद्द्युसरित्तीरे हेमशिलातले ॥ १३.११८८ ॥

तं दृष्ट्वाप्सरसो वारिक्रीडासक्ताः परस्परम् ।
गात्रे निधाय वासांसि ह्रिया संकोचमाययुः ॥ १३.११८९ ॥

ततः शोकसमाक्रान्तं तमपि ज्ञानभास्करम् ।
समेत्याश्वास्य विदधे वीतशोकं शिवः स्वयम् ॥ १३.११९० ॥

***** शुकातिपातनम् ॥ ९१ ॥ *****
एक एव परो देवः को वेद्य इति भूभुजा ।
पृष्टोऽब्रवीच्छान्तनवो ध्यात्वा नारायणं हृदि ॥ १३.११९१ ॥

नारदेन पुराभ्येत्य बदर्याश्रममीश्वरः ।
नारायणो दर्शनाय प्रार्थितस्तमभाषत ॥ १३.११९२ ॥

विष्णोरव्यक्तरूपस्य चतुर्धा व्यक्तरूपिणः ।
इच्छामात्रसमुन्मेषो नरश्चाहं च नारद ॥ १३.११९३ ॥

एकायनैरेकदेवैरकव्रतधरैः सदा ।
स विभुर्दृश्यते युक्तैर्ज्ञाननिर्धूतकल्मषैः ॥ १३.११९४ ॥

श्वेतद्वीपमितो गत्वा विष्णुरूपाननामयान् ।
विष्णुध्यानपराञ्शुभ्रान्पश्य श्रीवत्सलक्षणान् ॥ १३.११९५ ॥

इति श्रुत्वा मुनिरभूत्तच्चित्तस्तत्परायणः ।
प्रययौ च परं द्रष्टुं कारणं विष्णुमव्ययम् ॥ १३.११९६ ॥

एकतेन द्वितेनापि त्रितेन च तपस्विना ।
वस्त्रयज्ञसदस्यैर्यः श्वेतद्वीपे पुरा स्तुतः ॥ १३.११९७ ॥

श्वेतद्वीपं समासाद्य नारदो रुचिरान्नरान् ।
ददर्श शशिकर्पूरतुषाररजताप्रभान् ॥ १३.११९८ ॥

तान्प्राणम्य स सत्त्वस्थैर्मनसा तैश्च वन्दितः ।
दिव्यैर्मन्त्रपदैर्विष्णुं तुष्टाव रचिताञ्जलिः ॥ १३.११९९ ॥

ओं जय अजित अव्यय अप्रमेय अनन्त अच्युत अपरिमित अचल अचिन्त्य अप्रतिहत अभव महाविभव निरतिशय निरञ्जन निर्लेप निष्प्रपञ्च निरुपम निर्विकार निर्गुण नित्योदित विश्व विश्वरूप विश्वेश्वर विश्वसमुद्धरण शुद्धसूक्ष्म ध्रुनव शाश्वत शान्त संवित्स्वरूप परमानन्दमन्दिर भक्तिमन्दाकिनीमराल स्वेच्छाशक्तिव्यक्तीकृतनिजप्रसार लक्ष्मीलतावसन्त मधुवधूगण्डपाण्डिताखण्डल कौस्तुभप्रभारचितकमलाकुचकुङ्कुमभङ्ग अपरिष्वङ्गसङ्गमाकुलीकृतस्वर्भानुभामिनीलोक दंष्ट्रेन्दुकलालेखायितवसुधाभिराममहावराह हिरण्यकशिपुकाननदवानल वामनलीलासंपदवामनीकृतसुरैश्वर्य चरणनखमयूखायितस्वर्वाहिनीप्रवाह क्षत्रक्षयाध्वरोद्दीपितकुठारानल दशवदनवदनकन्दुकविनोदानन्दित कालियकुलकमलिनीकुञ्जर रुक्मिणीकपोलदन्तपत्त्रीकृतपाञ्चजन्यप्रभापुर विद्रुमद्रुमायितकैटभरुधिरारुणोरुस्तम्भ ब्रह्मपद्मपद्माकरतुरगमुखखलीनखनखनायमानसामवेदोच्चार ।

इत्यादिभिः स्तुतिशतैर्दिव्यैर्गुह्यैश्च नामभिः ।
नानावर्णं ततोऽपश्यज्जयोतीरूपं सनातनम् ॥ १३.१२०० ॥

जितन्ताद्येन मन्त्रेण स्तूयमानं सितैर्नरैः ।
तं विश्वव्यापिनं दृष्ट्वा कृतकृत्यो ययौ मुनिः ॥ १३.१२०१ ॥

इत्येवं नारदादन्यो न ददर्श तमीश्वरम् ।
सोऽव्यक्तः परमो विष्णुर्भूतानां प्रभवोऽव्ययः ।
अनादिनिधनः शुद्धो वेद्यः सूक्ष्मो निरञ्जनः ॥ १३.१२०२ ॥

***** नारायणीयम् ॥ ९२ ॥ *****
निवृत्तधर्ममाकर्ण्य शान्तये धर्मजन्मना ।
पुनराश्रमिणां धर्मं पृष्टः प्राह सुरव्रतः ॥ १३.१२०३ ॥

गङ्गातीरे द्विजः कश्चिदतिथिं गृहमागतम् ।
किमग्र्यं सर्वधर्माणामित्यपृच्छदुदारधीः ॥ १३.१२०४ ॥

पद्मो नाम महान्नागो नैमिषे गोमतीतटे ।
स जानातीति विप्रेण स पृष्टोऽतिथिरब्रवीत् ॥ १३.१२०५ ॥

ततस्तद्वचसा गत्वा गोमतीतीरमग्र्यजः ।
वारेण सूर्यरथगं न ददर्श भुजङ्गमम् ॥ १३.१२०६ ॥

स्थित्वा तत्र निराहारो दिनानि कतिचिद्द्विजः ।
नागं ददर्श तं प्राप्तं दृष्ट्वा पप्रच्छ कौतुकम् ॥ १३.१२०७ ॥

ब्रूहि तावदिदं नाग त्वया रविरथस्थितौ ।

दिवि दृष्टं किमाश्चर्यं पश्चाद्धर्म प्रवक्ष्यसि ॥ १३.१२०८ ॥

इत्याकर्ण्याब्रवीन्नागो दृष्टं मार्तण्डवर्त्मनि ।
रथस्य चक्रं वारेण बलेन वहता मया ॥ १३.१२०९ ॥

अंशुशाखासहस्रेषु रवेः शकुनयो यथा ।
तिष्ठन्ति देवाः सिद्धाश्च मुनयश्चेति कौतुकम् ॥ १३.१२१० ॥

करैर्गृहीत्वा त्यजति पयो भूमौ प्रविश्य च ।
पश्यत्यलक्षितः सर्वं भगवानिति कौतुकम् ॥ १३.१२११ ॥

स भित्त्वा मण्डलं भानोस्तेजस्येव समाविशत् ।
तेजस्तेजसि संलीनं दृष्ट्वास्माभिर्दिवाकरः ।
पृष्टः कोऽयमिति श्रीमान्हर्षपूर्णोऽब्रवीद्रविः ॥ १३.१२१२ ॥

स भित्त्वा मण्डलं भानोस्तेजस्येव समाविशत् ।
तेजस्तेजसि संलीनं दृष्ट्वास्माभिर्दिवाकरः ।
पृष्टः कोऽयमिति श्रीमान्हर्,पूर्णोऽब्रवीद्रविः ॥ १३.१२१३ ॥

उञ्छवृत्तिरयं सिद्धः कापोतीं वृत्तिमाश्रितः ।
मदीयं धाम यातोऽसावित्येतदपि कौतुकम् ॥ १३.१२१४ ॥

श्रुत्वेति नागाद्विप्रोऽभूत्प्रहर्षविकचाननः ।
अवान्तरकथावाप्तस्वाभिधेयोपदेशवाक् ॥ १३.१२१५ ॥

आमन्त्र्य पन्नगं विप्रो विधाय च्यवनं गुरुम् ।
उञ्छव्रतो ययौ सिद्धिं गीयमानः सुरैर्दिवि ॥ १३.१२१६ ॥

च्यवनान्नारदेनैतत्तस्माज्जम्भलद्विषा ।
शक्राच्च वसुभिस्तेभ्यो मया मत्तस्त्वया श्रुतम् ॥ १३.१२१७ ॥

***** मोक्षधर्माः ॥ ९३ ॥ *****
शमं विविधमाकर्ण्य धर्मराजः पितामहम् ।
बभाषे शोकविवशश्चिन्तयन्बान्धवक्षयम् ॥ १३.१२१८ ॥

अहो बताहं संसारे धुर्यः किल्बिषकारिणाम् ।
सर्वस्वजनसंहारे नीतो दैवेन हेतुताम् ॥ १३.१२१९ ॥

जायेत मादृशः कोऽन्यः सदृशो मम दुष्कृती ।
पितामह शरैर्यस्त्वां घातयित्वा निरीक्षते ॥ १३.१२२० ॥

धन्यः सुयोधनस्तात धिङ्मां पुण्यैर्निराकृतम् ।
बनधूनां त्वत्प्रधानानां यः क्षये साक्षितां गतः ॥ १३.१२२१ ॥

शैशवे क्षौमवसनं यस्याङ्के लडता मया ।
म्लापितं राज्यलुब्धेन स एव निहतो भवान् ॥ १३.१२२२ ॥

श्रुत्वा युधिष्ठिरेणैतद्वक्तुं शन्तनुनन्दनः ।
तमूचे मा कृथाः पुत्र मिथ्यैवानुशयव्यथाम् ॥ १३.१२२३ ॥

परतन्त्रमिदं सर्वं जगत्स्वयमनीश्वरम् ।
स्वकर्ममुद्रितो लोकः प्राप्नोत्येव भवाभवम् ॥ १३.१२२४ ॥

ब्राह्मणी गौतमी नाम पुत्रकं पुत्रवत्सला ।
दष्टं ददर्श सर्पेण गतासुं कानने पुरा ॥ १३.१२२५ ॥

तां दृष्ट्वा पुत्रशोकार्तां लुब्धकोर्ऽजुनकाभिधः ।
बद्ध्वा तं सर्पमादाय जगादाभ्येत्य गौतमीम् ॥ १३.१२२६ ॥

अयं पुत्रस्य ते हन्ता मया बद्धो भुजङ्गमः ।
ब्रूहि यावत्क्षिपाम्येनं वह्नौ शस्त्रेण हन्मि वा ॥ १३.१२२७ ॥

श्रुत्वैतल्लुब्धकवचो विविग्ना प्राह गौतमी ।
वराकः पन्नगो नायमज्ञानाद्वधर्महति ॥ १३.१२२८ ॥

अन्तवन्त्येव भूतानि नियतावधि मुद्रया ।
उपयान्ति स्वयं मृत्युं हन्ता कश्चिन्न कस्यचित् ॥ १३.१२२९ ॥
तस्मादस्मिन्न कोपो मे कुतः कोपेऽपि निग्रहः ।
जड व्याध विमुञ्चैनं हतः कालेन मे सुतः ॥ १३.१२३० ॥

इत्युक्तोऽप्यसकृद्व्याधस्तया सर्पवधे मतिम् ।
न तत्याज यदा कोपात्तदा दीनोऽवदत्फणी ॥ १३.१२३१ ॥

हतोऽयं मृत्युना बालो यो मां प्रेरितवान्स्वयम् ।
अस्वतन्त्रस्य का शक्तिस्तदा ज्ञातिक्रमान्मम ॥ १३.१२३२ ॥

पन्नगेनेत्यभिहिते लुब्धकः पुनरब्रवीत् ।
कारणेन त्वया सर्प नीतोऽयं मृत्युना शिशुः ॥ १३.१२३३ ॥

न हि नाम स्वयं कश्चित्करेणाकृष्य मृत्युना ।
नीतो भवद्विधा यावद्याताः सर्प न हेतुताम् ।
वध्योऽसि सर्वथा तस्माद्विनाशे कारणं शिशोः ॥ १३.१२३४ ॥

इति ब्रुवाणे बहुशः कोपाद्व्याधे भुजङ्गमम् ।
स्वयमनिग्रहान्मृत्युरभ्येत्य तमभाषत ॥ १३.१२३५ ॥

नाहमस्य शिशोर्हन्ता न चायं भुजगो जड ।
प्रेरको भगवान्कालः सर्वं क्षयति संक्षये ॥ १३.१२३६ ॥

कालेन कलितास्ते ते भावास्त्रैलोक्यवर्तिनः ।
स्पृशन्त्यभावपदवीं भवन्ति च पुनः पुनः ॥ १३.१२३७ ॥

इत्युक्ते मृत्युना कालः स्वयमेत्य तमभ्यधात् ।
नाहं न मृत्युर्नो सर्पः प्रभुर्बालनिपातने ॥ १३.१२३८ ॥

स्वकर्मभिरयं लोको लभते निधनोदयौ ।
कर्मसूत्रैर्विचेष्टन्ते नरा यन्त्रमया इव ॥ १३.१२३९ ॥

जायते वर्धते भुङ्क्ते प्रसूते मोदते पुनः ।
जीर्यते क्षीयते वापि न जन्तुः कर्मणा विना ॥ १३.१२४० ॥

इति कालेन कथिते सर्पं तत्याज लुब्धकः ।
पृथग्ययुश्च ते सर्वे नष्टशोका च गैंतमी ॥ १३.१२४१ ॥

इत्येवं स्वकृतैरेव क्षीयन्ते कर्मभिर्जनाः ।
कर्मणा निधनं यातान्मा शुचः पृथिवीधरान् ॥ १३.१२४२ ॥

***** गौतमीसर्पमृत्युलुब्धकसंवादः ॥ ९४ ॥ *****
गृहाश्रमे केन मृत्युर्वर्तमानेन धर्मतः ।
जितः पाण्डुसुतेनेति पृष्टः शान्तनवोऽब्रवीत् ॥ १३.१२४३ ॥

इक्ष्वाकुवंशजो राजा माहिष्मत्यामभूत्पुरा ।
श्रीमान्सुयोधनो नाम स्मरेन्द्रधनदोपमः ॥ १३.१२४४ ॥

तं नर्मदा नदी दृष्ट्वा स्नातं कमललोचनम् ।
अकामयत कामार्ता विलासललिताकृतिम् ॥ १३.१२४५ ॥

तस्यामजीजनत्कन्यां राजा राजीवलोचनाम् ।
कान्तां सुदर्शनां नाम नयनानन्दिदर्शनाम् ॥ १३.१२४६ ॥

तां यौवनवतीं काले भगवान्वीक्ष्य पावकः ।
स्मराकुलो नरपति ययाचे ब्राह्मणाकृतिः ॥ १३.१२४७ ॥

निर्धनावज्ञया तस्मै तां यदा न ददौ नृपः ।
तदा तस्य स यज्ञेऽग्निः प्रायात्कोपाददर्शनम् ॥ १३.१२४८ ॥

ऋत्विग्भिरथ सप्तार्चिर्नियमेन प्रसादितः ।
स्वप्ने जगाद तं मह्यं कन्यैषा दीयतामिति ॥ १३.१२४९ ॥

ततः प्रत्यक्षवपुषे तस्मै राजा सुदर्शनात् ।
प्रहृष्टस्तनयां प्रादात्प्राप्य तत्संनिधिं मखे ॥ १३.१२५० ॥

राज्ञा तेनार्थितोऽद्यापि माहिष्मत्यां हुताशनः ।
आस्ते सदा संनिहितः क्षपयन्सर्वविप्लवान् ॥ १३.१२५१ ॥

सुदर्शनायां नयो बभूवाथ विभावसोः ।
कान्तः सुदर्शनो नाम गुणरत्नमहोदधिः ॥ १३.१२५२ ॥

सुता मोघवतो राज्ञः कान्तां मोघवतीं युवा ।
स लेभे क्षीणावाणस्य नवा शक्तिं मनोभुवः ॥ १३.१२५३ ॥

तया सह कुरुक्षेत्रे गृही धर्मपदे स्थितः ।
चक्रे मृत्युजये यत्नं सोऽर्थिकल्पद्रुमस्तदा ॥ १३.१२५४ ॥

अभग्नप्रणयाः कार्याः सर्वथार्थिमनोरथाः ।
इत्यूचे स सदा जायां धर्मसब्रह्मचारिणीम् ॥ १३.१२५५ ॥

धर्मादच्यवतस्तस्य च्छिद्रपेक्षी सदाभवत् ।
प्रच्छन्नः सर्वतो मृत्युर्न चान्तरमवाप्तवान् ॥ १३.१२५६ ॥

ततः कदाचिदिध्मार्थं स्वयं याते सुदर्शने ।
अतिथिः कश्चिदभ्येत्य तद्भार्यां ब्राह्मणोऽब्रवीत् ॥ १३.१२५७ ॥

आतिथ्यं क्रियतां सुभ्रु राजपुत्रि मम त्वया ।
यदि धर्मः प्रमाणं ते तन्मां भज सुलोचने ॥ १३.१२५८ ॥

इति ब्रुवाणः स तया वारितोऽप्यपैरर्वरैः ।
त्वां निना नार्थये किंचिदित्युवाचासकृद्द्विजः ॥ १३.१२५९ ॥

धर्म्यं ततः सा वचनं स्मृत्वा भर्तुः पतिव्रता ।
तथेत्युक्त्वाकरोत्सर्वं ब्राह्मणस्य समीहितम् ॥ १३.१२६० ॥

अस्मिन्नवसरे गेहद्वारमेत्य सुदर्शनः ।

एहीत्याहूय दयितां सोत्कण्ठोऽपि व्यलम्बत ॥ १३.१२६१ ॥

सा भर्त्रा सहसाहूता न च प्राप्ता द्विजान्तिकम् ।
दोलाविलोलहृदया तस्थौ लज्जाकुला क्षणम् ॥ १३.१२६२ ॥

ततो गृहान्तराद्विप्रः सुदर्शनमभाषत ।
इयं मया तव वधूरर्थितातिथिना रतम् ॥ १३.१२६३ ॥

प्राप्ता नाद्यापि शयनं प्राप्तश्च त्वं गृहाधिपः ।
किमत्र मन्यसे युक्तमित्युक्त्वा विरराम सः ॥ १३.१२६४ ॥

अत्रान्तरे छन्नवपुर्मृत्युरादाय मुद्गरम् ।
लब्धोऽवकाश इत्युक्त्वा बभूवानन्दनिर्भरः ॥ १३.१२६५ ॥

ततः सुदर्शनो विप्रमुवाचाविकृताशयः ।
निःशङ्को मद्गिरा ब्रह्मन्रमस्व मम भार्यया ॥ १३.१२६६ ॥

इत्युक्ते वह्निपुत्रेण गगनात्साधु साध्विति ।
शब्दो बभूव विपुलः सहसा त्रिदिवौकसाम् ॥ १३.१२६७ ॥

अतिथिर्विप्ररूपं स परित्यज्य महाकृतिः ।

उवाच महसां राशिः प्रीत्याभ्येत्य सुदर्शनम् ॥ १३.१२६८ ॥

धर्मोऽहं दम्पती प्राप्तो युवां जिज्ञासुराश्रमे ।
अंखण्डितं च युवयोर्दृष्टं सत्त्वमिदं मया ॥ १३.१२६९ ॥

अधृष्ट तेजसा चेयं त्वद्भार्या केन लङ्घ्यते ।
द्विधात्मानं विभज्यैषा योगेनौघवती नदी ।
भविष्यति क्षितौ पुण्या नित्यं त्वां चानुयास्यति ॥ १३.१२७० ॥

इत्युक्त्वान्तर्दधे धर्मो मृत्युश्च विमुखो ययौ ।
स च वीरो दिवं प्राप सभार्यश्च सुदर्शनः ॥ १३.१२७१ ॥

***** सुदर्शनोपाख्यानम् ॥ ९५ ॥ *****
विश्वामित्रेण संप्राप्तं ब्राह्मण्यं दुर्लभं कथम् ।
पृष्टो युधिष्ठिरेणेति गाङ्गेयः पुनरब्रवीत् ॥ १३.१२७२ ॥

कुशिकस्य पुरा राज्ञः श्रीमान्गाधिः सुतोऽभवत् ।
पुत्री सत्यवती नाम तस्याभून्मृगलोचना ॥ १३.१२७३ ॥

ऋचीकस्तां मुनिवरः शुल्कलभ्यामवाप्तवान् ।
हयानां श्यामकर्णानां सहस्रेणेन्दुवर्चसाम् ॥ १३.१२७४ ॥

स तया शीलशालिन्या यत्नदाराधितो मुनिः ।
याचितस्तु वरं तुष्टः पुत्रं मातुस्तथात्मनः ॥ १३.१२७५ ॥

त्वमश्वत्थं समालिङ्ग्य तव माताप्युदुम्बरम् ।
चरुं च प्राप्य मद्दत्तं पुत्रिणीत्यवदन्मुनिः ॥ १३.१२७६ ॥

वरमेवं समासाद्य हृष्टा मात्रे न्यवेदयत् ।
तद्गिरा व्यत्ययं चक्रे वृक्षयोः पायसे तथा ॥ १३.१२७७ ॥

तच्च ज्ञात्वा मुनिर्जायामुवाच ज्ञानलोचनः ।
त्वन्मातुर्ब्राह्मणः पुत्रः क्षत्रात्मा ते भविष्यति ॥ १३.१२७८ ॥

तच्छ्रुत्वा दुःखसंतप्ता ययाचे सा मुनिं पुनः ।

क्षत्राचारस्तु मे पौत्रो मा पुत्र इति मूर्छिता ॥ १३.१२७९ ॥

एवमस्त्विति तेनोक्ते लेभे सत्यवती सुतम् ।
जमदग्निं सुतश्चास्य रामोऽभूत्क्षत्रियोचितः ॥ १३.१२८० ॥

गाधिपत्नी च कालेन विश्वामित्रमजीजनत् ।
वृक्षपायसयोर्योऽभूद्व्यत्ययाद्ब्राह्मणाग्रणीः ॥ १३.१२८१ ॥

***** विश्वामित्रोत्पत्तिः ॥ ९६ ॥ *****
आनृशंस्यगुणं राज्ञा पुनः पृष्टः सुरव्रतः ।
उवाच कानने पूर्वं घनच्छायोऽभवद्द्रुमः ॥ १३.१२८२ ॥

स विद्धो विषदग्धेन शरेम मृगगामिना ।
लुब्धकेन ययौ शोषं स्पृष्टो दावानलैरिव ॥ १३.१२८३ ॥

तं परित्यज्य यातेषु निष्फलं सर्वपत्रिषु ।
एक एव शुकस्तश्थौ सातं प्रीतिरचञ्चला ॥ १३.१२८४ ॥

निदाघप्लोषपरुषे फलपुम्पविवर्जिते ।
स्थितं तत्र शुकं वीक्ष्य शक्रोऽभ्येत्य तमब्रवीत् ॥ १३.१२८५ ॥

स्वच्छच्छायाफलाद्येषु वृक्षेषु विगतद्युतिः ।
किं त्वयायं श्रितः शाखी त्यक्त्वैनः चर निर्वृतः ॥ १३.१२८६ ॥

अथोवाच शुकः शक्रं नेदं सदृशमुच्यते ।
समाना सुखदुःखेषु सज्जनैः सह संगतिः ॥ १३.१२८७ ॥

यत्रोषितं च भुक्तं च विहृतं च यथासुखम् ।
तस्मिन्कालहतैश्वर्ये पलायन्ते न साधवः ॥ १३.१२८८ ॥

मघवानेतदाकर्ण्य तोषाद्वृक्षं सुधाकणैः ।
चकार सहसोद्दीर्णपत्रपुष्पफलाकुलम् ॥ १३.१२८९ ॥

आनृशंस्यात्स च शुकः प्रययौ परमां गतिम् ।
एवं दाक्षिण्यसदृशो नापरो विद्यते गुणः ॥ १३.१२९० ॥

***** शुकशक्रसंवादः ॥ ९७ ॥ *****
दैवं सपौरुषं राज्ञा भीष्मः पृष्टोऽब्रवीत्पुनः ।
उभयोः संगमः सिद्ध्यै वियोगो निष्फलोऽनयोः ॥ १३.१२९१ ॥

अनुप्तबीजे कृष्टेऽपि दैवं क्षेत्रे करोति किम् ।
पौरुषं कर्म पुरुषैर्यथा यत्र यदा कृतम् ।
तथा तत्र तदाभ्येत्य विसंवादो न दृश्यते ॥ १३.१२९२ ॥

दातॄणां पुण्यशीलानां व्रतिनां सत्यवादिनाम् ।
दृश्यन्ते धन्यतास्तास्ता राज्यस्वर्गतिभूतिभिः ॥ १३.१२९३ ॥

***** दैवपुरुकारीयम् ॥ ९८ ॥ *****
के पूज्या इति पार्थेन पृष्टोऽवादीत्सुरव्रतः ।
सदा द्विजातयः पूज्यास्ते सर्वत्र परायणम् ॥ १३.१२९४ ॥

नरौ जन्मान्तरे पूर्वं कपिजम्बुकतां गतौ ।
जातिस्मरौ ददृशतुः श्मशानं सुहृदौ मिथः ॥ १३.१२९५ ॥

तत्रोचे वानरः प्रेम्णा शृगालं स्विन्नमानसः ।
कर्मणा केन यातोऽसि शवमांसाशितामिति ॥ १३.१२९६ ॥

प्रतिश्रुत्य मया पूर्वं न वितीर्णं द्विजन्मने ।
सार्गालीं योनिमापन्नस्तेनाहमिति सोऽब्रवीत् ॥ १३.१२९७ ॥

एतदेव शृगालेन पृष्ट प्रोवाच वानरः ।
ब्राह्मणानवमन्याहं प्रयान्तः कपितामिति ॥ १३.१२९८ ॥

ब्राह्मणातिक्रमेणैव भजन्ते तामसीं दशाम् ।
तस्मात्सर्वात्मना विप्राः पूज्याः कुशलमिच्छता ॥ १३.१२९९ ॥

***** ब्राह्मणमाहात्म्यम् ॥ ९९ ॥ *****
असवर्णोपदेष्टारः किं न स्युः श्रेयसां पदम् ।
विप्रा इति पुनः पृष्टो राज्ञा शान्तनवोऽब्रवीत् ॥ १३.१३०० ॥

पुरा वने शूद्रमुनेर्ब्रह्मर्षिरभवत्सखा ।
कदाचित्सोऽर्थितः श्राद्धे शूद्रेणागात्तदाश्रमम् ॥ १३.१३०१ ॥

पितृकर्मणि तस्यासौ हव्यकव्योपदेशकृत् ।
पूर्वं शेषां वृसीमेतां कुरुष्वेत्यवदन्मुनिः ॥ १३.१३०२ ॥

ततः कालेन महता क्षपयित्वा कलेवरम् ।
कर्मशेषोपभोगाय तौ जन्मान्तरमापतुः ॥ १३.१३०३ ॥

स सूद्रोऽभूत्क्षितिपतिः स ब्रह्मर्षिः पुरोहितः ।
तस्य राज्ञोऽभवल्लप्तज्ञानो नष्टाखिलस्मृतिः ॥ १३.१३०४ ॥

स्वस्तिपुण्याहवादेषु नृपो जातिस्मरः सताम् ।
सदा जहास तच्चासौ नृपं पप्रच्छ लज्जितः ॥ १३.१३०५ ॥

पृष्टः शपथदानेन भूपतिर्हासकारणम् ।
पुरोहितं रहः प्राह शूद्रोऽहमभवं पुरा ॥ १३.१३०६ ॥

ब्रह्मर्षिश्च भवान्मह्यमुपदेशं व्यधात्सकृत् ।
तेनाद्य सुरवन्द्योऽपि प्राप्तोऽस्यनुचितां दशाम् ॥ १३.१३०७ ॥

श्रुत्वैतत्सहसा स्मृत्वा तपसे स ययौ मुनिः ।
एवं नैवोपदेष्टा स्यादवराणां द्विजोत्तमः ॥ १३.१३०८ ॥

***** गुरूपदिष्टम् ॥ १०० ॥ *****
कः श्रियो भाजनमिति क्ष्माभुजा जाह्नवीसुतः ।
पृष्टः प्राह हरेरग्रे रुक्मिणीं श्रीः पुराभ्यधात् ॥ १३.१३०९ ॥
सुभगेषु प्रगल्भेषु दक्षेषूज्ज्वलकर्मसु ।
जितेन्द्रियेषु वीरेषु प्रीत्या मे शाश्वती स्थितिः ॥ १३.१३१० ॥

उत्सेकलोभसंत्रासदैन्यक्रोधविनाकृताः ।
कृतज्ञाः केलिसदनं सदाचाराः सदा मम ॥ १३.१३११ ॥

पतिव्रतामकलहामलौल्यामकुतूहलाम् ।
अविप्रकीर्णभाण्डां च गतनिद्रां भजे स्त्रियम् ॥ १३.१३१२ ॥

मत्तेषु कुञ्जरेन्द्रेषु हयेषु वृषभेषु च ।
फुल्लारविन्दवृन्देषु शरच्चन्द्रकरेषु च ॥ १३.१३१३ ॥

नदीषु हंसहासासु राजद्राजरणेषु च ।
वनेषु मुनिपुण्येषु यज्ञेषु च वसाम्यहम् ॥ १३.१३१४ ॥

एतच्छ्रुत्वा पुनर्भीष्ममपृच्छत्पाण्डुनन्दनः ।
स्पर्शाधिक्यं किमु स्त्रीणां नृणां वा संगमेष्विति ॥ १३.१३१५ ॥

सोऽब्रवीदभवद्यज्वा भृङ्गाश्वो नाम भूपतिः ।
यशः कुसुमवल्लीषु योऽभूत्संततमाधवः ॥ १३.१३१६ ॥

प्रतिकूलं स शक्तस्य यज्ञमग्निष्टुतं पुनः ।
आजहार जगामास्य शत्रुतां येन वासवः ॥ १३.१३१७ ॥

स कदाचिन्मृगप्रेप्सुर्वाजिना विपिने व्रजन् ।
इन्द्रेण मोहितो वत्स नाज्ञासीत्तृष्णयार्दितः ॥ १३.१३१८ ॥

सोऽपश्यदग्रे विपुलं सरः स्फटिकनिर्मलम् ।
लोलकल्लोलदोलाङ्कं केलिवेश्म हिमत्विषः ॥ १३.१३१९ ॥

तस्मिन्स सहसा स्नातः पाययित्वा तुरङ्गमम् ।
अभवल्ललनारूपः पीनश्रोणिपयोधरः ॥ १३.१३२० ॥

स लज्जादुःखविवशो गत्वाश्वेन निजां पुरीम् ।
निवेद्य निजवृत्तान्तं राज्ये पुत्रशतं व्यधात् ॥ १३.१३२१ ॥

स्त्रीरूपः सोऽथ विजनं त्यक्तराज्यस्तपोवनम् ।
प्रययौ कलयन्नन्तर्विधेरुत्साहवामताम् ॥ १३.१३२२ ॥

तत्र तं कामिनीरूपमकामयत तापसः ।
पतन्ति षट्पदास्तत्र यत्र यत्र सरोजिनी ॥ १३.१३२३ ॥

तस्मादसूत पुत्राणां स शतं बलशालिनाम् ।
कान्तावपुरभून्नित्यं तेषु चात्यन्तवत्सलः ॥ १३.१३२४ ॥

पूर्वपुत्रानथाभ्येत्य पुंस्त्वजातानुवाच सः ।
स्त्रीत्वजातैः सुतैस्तैस्तैर्वसुधा सह भुज्यताम् ॥ १३.१३२५ ॥

तद्गिरा मिश्रतां यातं ततः पुत्रशतद्वयम् ।
बुभुजे भुवमम्लानयशोविक्रमशासनाम् ॥ १३.१३२६ ॥

अत्रान्तरे समभ्येत्य विप्ररूपी शतक्रतुः ।
भेदेन राजपुत्राणां विदधे कलहोदयम् ॥ १३.१३२७ ॥

ततस्ते युधि संनद्धा राज्यहेतोः परस्परम् ।
कृत्वा सैन्यक्षयं घोरं निःशेषाः प्रलयं ययुः ॥ १३.१३२८ ॥

भेदात्प्रयाते निधनं युधि पुत्रशतद्वये ।
भृङ्गाश्वो ललनारूपः शुशोच करुमस्वनम् ॥ १३.१३२९ ॥

तमिन्द्रो ब्राह्मणवपुर्दृष्ट्वा श्रुत्वा च तत्कथाम् ।
प्रलीनमन्युः कारुण्यादुवाच विहसन्मुहुः ॥ १३.१३३० ॥

शक्रोऽहं तव पुत्रास्ते मया विप्रियकारिणः ।
भेदिता नाधुना वैरमापन्ने त्वयि मे नृप ॥ १३.१३३१ ॥

पुत्राणां शतमेकं ते मद्वरादद्य जीवतु ।
यत्त्वमिच्छसि जातं प्राक्पुंसः स्त्रीवपुषोऽथवा ॥ १३.१३३२ ॥

इत्युक्ते देवराजेन भृङ्गाश्वस्तमयाचत ।
जीवितं स्त्रीत्वजातानां पुत्राणां प्रणताननः ॥ १३.१३३३ ॥

तमब्रवीत्सुरपतिः पुंस्त्वजातान्कथं सुतान् ।
त्यक्त्वा स्त्रीत्वप्रजातेषु पुत्रेषु स्निह्यति भवान् ॥ १३.१३३४ ॥

इति पृष्टो मघवता बभाषे स्त्रीवपुर्नृपः ।
स्नेहवात्सल्यरागाणां ललना एव मन्दिरम् ॥ १३.१३३५ ॥

श्रुत्वैतदवदच्छक्रः सर्वे जीवन्तु ते सुताः ।
स्त्रीरूपं तु परित्यज्य पुरुषो भव मद्वरात् ॥ १३.१३३६ ॥

इत्युक्तो पार्थिवोऽवादीत्स्त्रीत्वं नैव त्यजाम्यहम् ।
स्त्रीणां स्पर्शेषु या प्रीतिः सा पुंभिर्लभ्यते कुतः ॥ १३.१३३७ ॥

दैवात्समनुभूयेदं सुचिरं प्रकृतिद्वयम् ।
एतावदेव जानेऽहं यत्प्रीतेर्भाजनं स्त्रियः ॥ १३.१३३८ ॥

कामस्य सारं सुरतं रतस्य स्पर्शामृतं तच्च सुलोचनानाम् ।
सर्वात्मना निर्वृतिजीवशून्यं भवे भवे जीवितमेव कान्ताः ॥ १३.१३३९ ॥

यथार्थमिति तेनोक्तं निशम्य विबुधाधिपः ।
जगाम जीवयित्वास्य प्रीतः पुत्रशतद्वयम् ॥ १३.१३४० ॥

***** भृङ्गाश्वोपाख्यानम् ॥ १०१ ॥ *****
श्रुत्वैतद्धर्मतनयः पुनर्गाङ्गेयमब्रवीत् ।
माहात्म्यं श्रोतुमिच्छामि देवस्य त्रिपुरद्विषः ॥ १३.१३४१ ॥

इति पृष्टो नरेन्द्रेण व्याजहार पितामहः ।
माहात्म्यं देवदेवस्य वक्तुमर्हति केशवः ॥ १३.१३४२ ॥

हरिरेव हरं वेत्ति हरो वेत्ति तथा हरिम् ।
एकैव मूर्तिरनयोः कारणाद्द्वैतमाश्रिता ॥ १३.१३४३ ॥

इति देवव्रतेनोक्ते मुरारिर्ध्रमजन्मना ।
पृष्टः शशाङ्कचूडस्य प्रभावं प्रयतोऽवदत् ॥ १३.१३४४ ॥

पुत्रार्थिनी जाम्बवती प्रिया प्रोवाच मां पुरा ।
प्रद्युम्नसदृशं देव त्वत्तः पुत्रगुणोचितम् ।
प्राप्तुमिच्छामि संकल्पः पूर्यतामेष मे त्वया ॥ १३.१३४५ ॥

इत्युक्तोऽहं दयितया तया बालमृगीदृशा ।
ध्यात्वा मुहूर्तं पुत्रार्थी प्रयातमुपसेवनम् ॥ १३.१३४६ ॥

अथारुह्य गिरेः शङ्के पुरा मुनितपोवनम् ।
अपश्यं तेजसां राशिमुपमन्युं निजाश्रमे ॥ १३.१३४७ ॥

प्रहृष्टं ज्येष्ठवयसं पिनाकिवरभूषितम् ।
दीप्तं तपोभिर्विविधैः पूर्णलावण्यविग्रहम् ॥ १३.१३४८ ॥

प्रशान्तरमणीयेन सत्वेनानन्ददायिना ।
किरन्तं मधुरोदारनिर्वाणामृतवाहिनीम् ॥ १३.१३४९ ॥

तं विलोक्य प्रणम्याहं पूजामादाय तत्कृताम् ।
तत्संभाषणसंजातपरानन्दमयोऽभवम् ॥ १३.१३५० ॥

स मामुवाच प्रणतं प्रीत्या ज्ञानविलोचनः ।
देवं गिरिशमाराध्य तुल्यं पुत्रमवाप्स्यसि ॥ १३.१३५१ ॥

ते ते त्रैलोक्यजयिनः सुकेशिप्रमुकाः पुरा ।
श्रूयन्ते शंकरवरात्प्राप्ताः शक्राधिकं पदम् ॥ १३.१३५२ ॥

पुरास्मिन्व्याघ्रपादस्य महर्षेः पितुराश्रमे ।
सकृदास्वाद्य गोक्षीरं याचिता जननी मया ॥ १३.१३५३ ॥

पयसोऽसंभवान्मात्रा दत्तं पिष्टरसं ततः ।
पीत्वाहं विरसं दुःखादभवं साश्रुलोचनः ॥ १३.१३५४ ॥

अथाब्रवीन्मां जननी वने पुत्र पयः कुतः ।
श्रीकण्ठं न ह्यनाराध्य लभ्यतेऽभिमतं क्वचित् ॥ १३.१३५५ ॥

इति मातुर्वचः श्रुत्वा प्रयातोऽस्मि तपोवने ।
यत्नादकरवं तीव्रं तपो वार्षसहस्रिकम् ॥ १३.१३५६ ॥

नान्यतः प्रार्थये शक्रवरं प्राप्तमपि स्वयम् ।
पीयूषकिरणोत्तंसाद्देवादन्यत्र धूर्जटेः ॥ १३.१३५७ ॥

तेनालं सुरराज्येन किं मोक्षेणापि तेन मे ।
निर्व्याजभक्तिदयितो दाता यस्मिन्न शंकरः ॥ १३.१३५८ ॥

इत्युक्तो बहुशः शक्रो मया भर्गानुरागिणा ।
रूपमैन्द्रं परित्यज्य बभूव वृषभध्वजः ॥ १३.१३५९ ॥

शूलिनं जटिनं देवं वीक्ष्य चन्द्रकलाधरम् ।
अभवं निर्भरानन्दप्रसरद्बाष्पनिर्झरः ॥ १३.१३६० ॥

ततः स्तुतो मया शंभुर्मह्यं क्षीरोदधिं ददौ ।
आदधे चाश्रमे तस्मिन्संकल्पान्मम संनिधिम् ॥ १३.१३६१ ॥

तं त्वमाराध्य वरदं तपसा पार्वतीपतिम् ।
लभख तनयं कृष्ण तस्यात्मा त्वं स वा तव ॥ १३.१३६२ ॥

उक्त्वैवमुपमन्युर्मां दीक्षितं शिवशासने ।
आदिदेश तपोयोगे रहस्यं गृह्यतामिति ॥ १३.१३६३ ॥

मन्त्रेण तद्वितीर्णेन तपसा च समाहितः ।
ततोऽपश्यमहं काले देवं चन्द्रार्धशेखरम् ॥ १३.१३६४ ॥

मेघजालसमारूढं व्योम्नि सोमशतोज्ज्वलम् ।
तं विलोक्याभिनन्द्याहं स्तुत्वा हर्षपरोऽभवम् ॥ १३.१३६५ ॥

ततो यथेप्सितान्दत्त्वा वरान्मह्यं महेश्वरः ।
अन्तर्दधे सुधापूरैरापूर्येव दिशो दशा ॥ १३.१३६६ ॥

अथोपमन्युर्मामेत्य प्रकृष्टं हृष्टमब्रवीत् ।
तण्डिप्रोक्तानि नामानि शृणु माधव धूर्जटेः ॥ १३.१३६७ ॥

तण्डिर्नाम मुनिः पूर्वं गुह्यैर्गीतैः स्वयंभुवा ।
त्रिनेत्रं प्रयतं नाम्नां तुष्टाव दशभिः शतैः ॥ १३.१३६८ ॥

स्थाणो स्थिरस्थिते शंभो शर्व भानो वरप्रद ।
हर रुद्र स्मराराते विश्व विश्वेश्वरेश्वर ॥ १३.१३६९ ॥

भव भर्ग शिवाश्वास भवानीवल्लभ प्रभो ।
शशाङ्कशकलोत्तंस शिव शान्त महेश्वर ॥ १३.१३७० ॥

नमस्तुभ्यं जगत्सर्गास्थितिसंहारकारिणे ।
ब्रह्मोपेन्द्रेन्द्रवपुषे त्रिगुणाय त्रिमूर्तये ॥ १३.१३७१ ॥

इति स्तुतिपदैर्दिव्यैर्वेदप्रोक्तैश्च नामभिः ।
सहस्रसंख्यैः स मुनिस्तुष्टाव शशिशेखरम् ॥ १३.१३७२ ॥

एवमीश्वरसंबद्धाः कृत्वाहं मुनिना कथा ।
अगमं गरुडारूढो द्वारकं हर्षनिर्भरः ॥ १३.१३७३ ॥

जाम्बवत्यास्ततः श्रीमान्वंशमुक्तामणिः सुतः ।
साम्बोऽभवद्गुणान्यस्य जानीषे धर्मनन्दन ॥ १३.१३७४ ॥

इति कृष्णेन कथितं श्रुत्वा भीष्मसभासदः ।

मुनयो मनसा देवं नीलकण्ठं ववन्दिरे ॥ १३.१३७५ ॥

***** मेघवाहनपर्व ॥ १०२ ॥ *****
चपलाः सहचारिण्यः कथं जाया नृणामिति ।
पुनः पृष्टः क्षितिभुजा बभाषे जाह्निवीसुतः ॥ १३.१३७६ ॥

अष्टावक्रो मुनिः पूर्वं विवाहार्थी सुलोचनाम् ।
अपश्यत्सुप्रभां नाम वदन्यस्य मुनेः सुताम् ॥ १३.१३७७ ॥

इन्दुकुन्दाङ्कुराकारसुकुमारतराकृतिम् ।
स तामालोक्य सुमुखीं ययाचे सोत्सुको मुनिम् ॥ १३.१३७८ ॥

तं वदन्योऽवदद्गच्छ विशालां दिशमुत्तराम् ।
अतिक्रम्य कुबेरस्य भवनं भवसेवितम् ॥ १३.१३७९ ॥

ततः प्रतिनिवृत्ताय तुभ्यं दास्यामि सुप्रभाम् ।
इत्युक्तः स वदन्येन प्रतश्ते तां दिशं शनैः ॥ १३.१३८० ॥

ततो हिमाद्रिमुल्लङ्ख्य बाहुदां च महानदीम् ।
अशोके विमले स्नात्वा रुद्राणी कूपमाप्तवान् ॥ १३.१३८१ ॥

स कैलासतटं प्राप्य ददर्श धनदालयम् ।
हेमपङ्कजिनीतीरलसत्कल्पलतावनम् ॥ १३.१३८२ ॥

सादरं पूजितस्तेन राज्ञा वैश्रवणेन सः ।
उवास वत्सरं साग्रं विलासमणिवेश्मसु ॥ १३.१३८३ ॥

चिरमप्सरसां नृत्तैर्गीतैर्गन्धर्वयोषिताम् ।
प्रीतिमासाद्य विपुलामामन्त्र्य धनदं ययौ ॥ १३.१३८४ ॥

तो गिरीन्द्रानुल्लङ्घ्य समां मणिमयीं भुवम् ।
अवतीर्य घनच्छायं पाप रत्नलतावनम् ॥ १३.१३८५ ॥

हेमपुष्करिणीशीते स तस्मिन्दिव्यकानने ।
मणिमौक्तिकजालाङ्गं ददर्शोदारमन्दिरम् ॥ १३.१३८६ ॥

सोऽथ द्वाराग्रमभ्येत्य तस्य वैडूर्यवेश्मनः ।
प्राप्तोऽहमतिथिर्दूरादित्यूचे संश्रयाशया ॥ १३.१३८७ ॥

ततः सप्त विनिर्गत्य कन्याः कमललोचनाः ।
दिव्यभूषणसंपन्नास्तस्यातिथ्यं प्रचक्रिरे ॥ १३.१३८८ ॥

गृहं प्रवेशितस्ताभिर्हेमरत्नासनोज्ज्वलम् ।
ददर्श मणिपर्यङ्के वृद्धां भास्वरभूषणाम् ॥ १३.१३८९ ॥

तया मधुरवादिन्या प्राप्य निर्दिष्टमासनम् ।
गतक्लमः क्षणं तस्थौ मुनिर्विस्मयनिश्चलः ॥ १३.१३९० ॥

दिनान्ते सोऽथ ताः प्राह यान्तु सर्वाः स्वमालयम् ।
एकैव शान्तहृदया परिचर्यां करोतु मे ॥ १३.१३९१ ॥

इत्युक्ते मुनिना सर्वाः प्रययुस्ताः सुलोचनाः ।
एकैव जरती तत्र स्थौ शशिसितांशुका ॥ १३.१३९२ ॥

अष्टावक्रोऽथ सुष्वाप शयने स्पर्शशालिनि ।
वितानालम्बिमन्दारदाम्नि स्वच्छोत्तरच्छदे ॥ १३.१३९३ ॥

द्वितीयशयनाद्वृद्धा समुत्थाय ततः शनैः ।
मुनेः शय्यान्तिकं पायान्निभृता ब्रह्मचारिणः ॥ १३.१३९४ ॥

कम्पमानतनुः साथ शय्यामारुह्य विक्लवा ।
मुनिं शीतापदेशेन निबिडं परिषस्वजे ॥ १३.१३९५ ॥

आलिङ्ग्यमानः स तया तस्थौ काष्ठमिवाचलः ।
परदारपरिष्वङ्गशङ्कासक्तचिताशयः ॥ १३.१३९६ ॥

साथ तं स्पर्शविमुखं प्रणयान्मञ्जुवादिनी ।
उवाच भोगसंकल्पभङ्गं मा मे कृथाः प्रभो ॥ १३.१३९७ ॥

इदं मे रत्नभवनं चारुरत्नलतावनम् ।
त्वदधीनमकस्मान्मे चेतो हि रमते त्वयि ॥ १३.१३९८ ॥

न ते दोषोऽस्ति मत्सङ्गे त्याज्या नैव तु योषितः ।
दुर्गमं नाभिजानन्ति गणयन्ति न च श्रमम् ॥ १३.१३९९ ॥

प्रयान्ति पुरुषानेव रागवागुरया स्त्रियः ।
नैताः कुलानुरोधेन निवर्तन्ते न चेर्ष्यया ॥ १३.१४०० ॥

रामास्वरुद्धप्रसरः सर्वथा मकरध्वजः ।
स्त्री सतीति प्रवादोऽयमेकसक्तेति का कथा ॥ १३.१४०१ ॥

नरान्तरं प्रयान्त्येता निम्नाम्नमिवापगाः ।
मन्मथप्रेरिता नारी विमर्षं भजते कथम् ॥ १३.१४०२ ॥

यासां प्राणपणेनापि वल्लभं सुरतामृतम् ।
इत्यर्थमानोऽपि तया नाब्यनन्दत्स तां मुनिः ॥ १३.१४०३ ॥

अन्येद्युरपि सा रात्रौ तथैव तमभाषत ।
भजस्व स्वयमायातां दुःसहो मे स्मरज्वरः ॥ १३.१४०४ ॥

निषेधो रतिवाञ्छासु निधनं किल योषिताम् ।
इत्युक्त्वा निर्विकारं तं सा दृष्ट्वा पुनरब्ररवीत् ॥ १३.१४०५ ॥

मामुत्तरां दिशं विद्धि स्त्रीवृत्तान्तं प्रदर्शितम् ।
अधुना तां वदन्यस्य गत्वा प्राप्नुहि कन्यकाम् ॥ १३.१४०६ ॥

एतदाकर्ण्य स मुनिस्तामामन्त्र्य सविस्मयः ।
शनैः प्रतिययौ ज्ञानस्त्रीवृत्तो निजमाश्रमम् ॥ १३.१४०७ ॥

ततो वदन्यमभ्येत्य स्त्रीवृत्तान्तं निवेद्य तम् ।
अवापोद्वाहविधिना वितीर्णां तेन सुप्रभाम् ॥ १३.१४०८ ॥

***** अष्टावक्रदिक्संवादः ॥ १०३ ॥ *****
अथ विध्यनुगं श्राद्धं पात्रापात्रक्रमं तथा ।
राज्ञा गतिं च तीर्थं च पृष्टः शान्तनवोऽब्रवीत् ॥ १३.१४०९ ॥

यजेत देवान्पूर्वाह्णे शुचिः शुक्लो जितेन्द्रियः ।
मङ्गलालंकृतं स्रग्वी भोगौः सुद्धैर्मनोरमैः ॥ १३.१४१० ॥

वित्र्यं कर्मापराह्णे तु कुर्यात्प्रयतमानसः ।
तेषु तेषु च कालेषु देशेषु च यताविधि ॥ १३.१४११ ॥

देशकालादिरहितं श्वावलीढं रसच्युतम् ।
कीटकोशास्थिसंस्पृष्टं श्राद्धमश्नन्ति राक्षसाः ॥ १३.१४१२ ॥

उन्मत्ताः कृपणाः काणाः कुष्ठिनो वृषलीवराः ।
चिकित्सका वार्धुषिका गीतनृत्यादिजीविनः ॥ १३.१४१३ ॥

हीनाधिकाङ्गा गुरवो ब्रह्मविक्रयिणोऽनृताः ।
अनग्नयः सत्त्रभुजः क्षत्त्रियाः क्षेत्रजीविनः ॥ १३.१४१४ ॥

पिशुना व्रतहीनाश्च वेदविद्याविवर्जिताः ।
परिहार्याः सदा विपाः श्राद्धाघ्ना हैतुकास्तथा ॥ १३.१४१५ ॥

परस्वहारिणां पुंसां परदाराभिगामिनाम् ।
भग्नव्रतानां लुब्धानां निषिद्धक्रय्यजीविनाम् ॥ १३.१४१६ ॥

वृत्तिच्छेदं सुहृच्छेदं भर्तृच्छेदं च कुर्वताम् ।
विहिताचारहीनानां निरयो निलयोऽक्षयः ॥ १३.१४१७ ॥

करुणापूर्णमनसां त्यागिनां पात्रवर्षिणाम् ।
क्षमावतामाश्रमिणां प्रपाकूपसभाकृताम् ॥ १३.१४१८ ॥

याजिनां तीर्थपूतानां विदुषां सत्यवादिनाम् ।
मद्यमांसविरक्तानां स्वर्गमार्गो निरर्गलः ॥ १३.१४१९ ॥

गौतमेन पुरा पृष्टः सर्वविन्मुनिरङ्गिराः ।
उवाच पुण्यं तीर्थानां तपोयोगेन सस्मितम् ॥ १३.१४२० ॥

चन्द्रभागा वितस्ता च कश्मीरसरितस्तथा ।
मुनितुल्यां गतिं पुंसां प्रयच्छन्त्येव सेविताः ॥ १३.१४२१ ॥

भागीरथीं कौशिकीं च रामणीं नर्मदां तथा ।
प्रयागं नन्दिकुण्डं च विपाशं मानसं सरः ॥ १३.१४२२ ॥

पुण्यतीर्थानि चान्यानि नरः प्राप्य जितेन्द्रियः ।
सर्वतीर्थफलं दाता लभते प्रागुपोषितः ॥ १३.१४२३ ॥

गङ्गा तु सर्वतीर्थानां प्रवरं तीर्थमुच्यते ।
अस्थिमात्रे यया स्पृष्टे नृणां स्वर्गतिरक्षया ॥ १३.१४२४ ॥

न ते देशा न ते शैला न ते जनपदाः क्षितौ ।
पताका यस्य पुण्यस्य जाह्नवी न विभाव्यते ॥ १३.१४२५ ॥

किमपायमयैर्यज्ञैः किं तपोभिः श्रमप्रदैः ।
जह्नुकन्यापयःपूतं यदि पुण्यवतां वपुः ॥ १३.१४२६ ॥

व्योमश्रीमौक्तिकलता श्रीकण्ठोत्तंसमालिका ।
याता स्मृतिपदं येषां भङ्गायैवाखिलैनसाम् ॥ १३.१४२७ ॥

गङ्गाजलेन स्पृष्टानां फलमल्पं सुरालयः ।
शिलोञ्छवृत्तिना पूर्वं सिद्धः पृष्टोऽब्रवीदिति ॥ १३.१४२८ ॥

एतदङ्गिरसा प्रोक्तं निशम्य किल गौतमः ।
स्मृत्वा ववन्दे सानन्दः पुण्यां मन्दाकिनीं मुनिः ॥ १३.१४२९ ॥

***** आङ्गिरसीयम् ॥ १०४ ॥ *****
कथं प्राप्यं मनुष्येण ब्राह्मण्यमिति भूभुजा ।
पृष्टो देवव्रतः प्राह ब्राह्मण्यं दुर्लभं नृप ॥ १३.१४३० ॥

पितुर्नियोगाद्यज्ञार्थं मतङ्गख्यो द्विजन्मनः ।
व्रजन्वाहं प्रतोदेन खरं गाढमताडयत् ॥ १३.१४३१ ॥

गर्दभी व्यथितं दृष्ट्वा पुत्रं दुःखादुवाच तम् ।
ब्राह्मण्यं नास्य तेनैष जातश्चण्डालचेष्टितः ।
वहैनमिति तच्छ्रुत्वा प्रियः पप्रच्छ तां पुनः ॥ १३.१४३२ ॥

तया निवेदितां जातिं निजां ज्ञात्वा स दुःखितः ।
मेरोः शृङ्गादिव श्वभ्रे पतितो विललाप सः ॥ १३.१४३३ ॥

पित्रे निवेद्य तत्पापं मातुः स तपसे वनम् ।
गत्वा ब्राह्मण्यकामोऽभूत्स्थाणुभूतः शतं समाः ॥ १३.१४३४ ॥

शक्रादपि स्वयं प्राप्तान्नैव ब्राह्मण्यमाप्तवान् ।
ततो गत्वा गयां चक्रे सहस्राब्दं परंतपः ॥ १३.१४३५ ॥

पुनः पुनः स तपसा धूमायितजगत्त्रयः ।
इन्द्रादवाप देवत्वं न तु ब्राह्मण्यमुत्तमम् ॥ १३.१४३६ ॥

छन्दोदेव इति ख्यातः स मतङ्गाभिधः पुरा ।
खेचरोऽभून्मृगाक्षीणां पूज्यः परमवल्लभः ॥ १३.१४३७ ॥

***** इन्द्रमातङ्गम् ॥ १०५ ॥ *****
वीतहव्यस्य नृपतेर्ब्राह्मण्यं श्रूयते किल ।
तद्वदेति पुनः पृष्टो राज्ञा प्राह पितामहः ॥ १३.१४३८ ॥

वीतहव्यसुतैः पूर्वं हेहयैर्बलवत्तरैः ।
हर्यश्वो नाम समरे काशिराजो निपातितः ॥ १३.१४३९ ॥

कालेन तस्य पुत्रोऽपि पुनस्तैरेव संगरे ।
स देवः काशिनगरे लब्धलक्ष्यैर्निपातितः ॥ १३.१४४० ॥

तत्सुतोऽपि दिवोदासस्तैरेव युधि निर्जितः ।
भरद्वाजप्रसादात्स लेभे पुत्रं प्रतर्दनम् ॥ १३.१४४१ ॥

स वीतहव्यतनयान्सर्वानभ्येत्य संगरे ।
जघान परमास्त्रज्ञो भरद्वाजवरोऽर्जितः ॥ १३.१४४२ ॥

वीतहव्यो हतसुतः प्रनष्टबलवाहनः ।
प्रतर्दनेनानुसृतः प्रययौ शरणं भृगुम् ॥ १३.१४४३ ॥

भृगोराश्रममासाद्य वीतहव्यवधोद्यतः ।
प्रतर्दनो मुनिं प्राह मुञ्चैनमिति दुर्मदः ॥ १३.१४४४ ॥

तच्छ्रुत्वा क्षत्रियो नेह कश्चित्सर्वे द्विजा वयम् ।
इत्युवाच भृगुर्भीतस्ततोऽसत्यादकम्पत ॥ १३.१४४५ ॥

क्षत्त्राभिधानात्प्रभ्रष्टं शत्रुं ज्ञात्वा प्रतर्दने ।
याते भृगुर्वीतहव्यं सत्यवाग्ब्राह्मणं व्यधात् ॥ १३.१४४६ ॥

***** वीतहव्योपाख्यानम् ॥ १०६ ॥ *****
के प्रणम्या इति पनः पृष्टः शान्तनवोऽब्रवीत् ।
स्वकर्मधर्मनिरता हंसारागविवर्जिताः ॥ १३.१४४७ ॥

प्रणम्या ब्राह्मणा एव पवित्रचरितव्रताः ।
यैषां कोपप्रसादाभ्यां शोषः पोषश्च भूभुजाम् ॥ १३.१४४८ ॥

भूमिदेवाः सदा पूज्या यत्प्रसादाद्धुताशनः ।
हव्यं कव्यं च वहति कृष्णमित्याह नारदः ॥ १३.१४४९ ॥

जेय बलं भये रक्षा भेषजं व्यसनामये ।
परलोकेऽस्तु वो विप्राः शक्रमित्याह शम्बरः ॥ १३.१४५० ॥

***** ब्राह्मणप्रशंसा ॥ १०७ ॥ *****
स्त्रीणां निसर्गलोलानां स्वभावं पाण्डुसूनुना ।
पृष्टो दुर्लक्ष्यचित्तानां व्याजहार पितामहः ॥ १३.१४५१ ॥

स्त्रीस्वभावं पुरा पृष्टा नारदेन सुराङ्गना ।
जगाद पञ्चचूलाख्या यथार्थं शापकम्पिता ॥ १३.१४५२ ॥

स्त्री सती स्त्रीस्वभावं च मादृशी वक्तुमर्हति ।
शासनात्तव भीताहं किंतु वक्ष्यामि तत्त्वतः ॥ १३.१४५३ ॥

संघर्षक्षोभकारिण्यः सोद्वेगाः कलुषाशयाः ।
मत्ता हरन्त्येव वपुर्निम्नगा इव निम्नगाः ॥ १३.१४५४ ॥

अप्यन्विष्टा न लभ्यन्ते संत्यक्ता न त्यजन्ति च ।
वासना इव संसारे मोहनैकरताः स्त्रियः ॥ १३.१४५५ ॥

प्रहसन्ति विषादिन्यो हृष्टाः शोचन्ति हेलया ।
रागिण्योऽपि प्रियं घ्नन्ति को हि तां वेत्ति योषितम् ॥ १३.१४५६ ॥

न कुलेन न मानेन न धनेन न सेवया ।
मर्यादामनुवर्तन्ते ललनाश्चपलाशयाः ॥ १३.१४५७ ॥

सुवेशं सुभगं कान्तं त्यक्त्वा परिचितं चिरम् ।
निन्द्येनादृष्टपूर्वेण रमन्ते स्वेच्छया स्त्रियः ॥ १३.१४५८ ॥

संभाषिताश्चेन्मधुरं सस्मितं चेद्विलोकिताः ।
यन्त्रिताः स्वजनेनापि तदा साध्या न योषितः ॥ १३.१४५९ ॥

अर्थिनामप्यलाभेन दुःखदैन्यश्रमेण वा ।
अकस्मादेव नारीणां सतीत्वं जायते क्वचित् ॥ १३.१४६० ॥

नानापुरुषसंवासहासोल्लासविलासिनीम् ।
वेश्यायोषां निरीक्षन्ते सस्पृहं कुलयोषितः ॥ १३.१४६१ ॥

निषेधादेव नारीणमभिलाषो विवर्धते ।
परसङ्गेष्वपथ्येषु बालानामिव रोगिणाम् ॥ १३.१४६२ ॥

अच्छिन्नप्रसरः कामो नैवासां क्षमते धृतिम् ।
मिथो यावत्प्रवर्तन्ते पुरुषासंभवे स्त्रियः ॥ १३.१४६३ ॥

क्रूंराणां क्षणरागाणां संध्यानामिव योषिताम् ।
सततासन्नदोषाणां धीमान्को नाम विश्वसेत् ॥ १३.१४६४ ॥

सर्वथा न भवत्येव कारुण्यमिव पापिनाम् ।
अनुत्सेक इवाढ्यानामार्जवं हरिणीदृशाम् ॥ १३.१४६५ ॥

उपरोधैर्बहुविधैरपि साध्व्यो नियन्त्रिताः ।
कान्तं पुरुषमालोक्य यान्त्येव सहसार्द्रताम् ॥ १३.१४६६ ॥

सुरशङ्कास्पदमभूत्पुरा वन्द्यो वधूजनः ।
ततः सुरार्थितो धाता कृत्यासर्गाद्व्यधात्स्त्रियः ॥ १३.१४६७ ॥

लज्जां लभन्ते ललनाः पुंसां कौतुकवृद्धये ।
पत्युर्विश्वासनोपायं कृतकं च सतीव्रतम् ॥ १३.१४६८ ॥

नृत्यन्ति शोचन्ति पतन्ति यान्ति हसन्ति गायन्ति वदन्ति यच्च ।
तद्योषितः स्वप्नसमानचेष्टं मायामयं सर्वमसत्यमेव ॥ १३.१४६९ ॥

***** नारदपञ्चचूडासंवादः ॥ १०८ ॥ *****
ताः स्त्रियो लोलमतयः कथं रक्ष्या नरैरिति ।
पृष्टो युधिष्ठिरेणाह पुनस्त्रिपथगासुतः ॥ १३.१४७० ॥

देवशर्मां मुनिः पूर्वं यज्ञार्थं गन्तुमुद्यतः ।
शशास शिष्यं विपुलं बहुमायं शतक्रतुम् ॥ १३.१४७१ ॥

ज्ञात्वा रुचिं शरीरान्तः प्रविश त्वं समीरवत् ।
गात्रैर्गात्राण्यवष्टभ्य तस्यास्तस्थौ स यत्नवान् ॥ १३.१४७२ ॥

अत्रान्तरं समासाद्य सहस्राक्षः समाययौ ।
स ददर्श रुचिं चारुलोचनामचलां पुनः ॥ १३.१४७३ ॥

हेमस्तनोरुजघनां काञ्चनीमिव पुत्रिकाम् ।
आखण्डलमथासाद्य सा संजातमनोभवा ॥ १३.१४७४ ॥

वक्तुं विपुलसंरुद्धा न शशाक सुलोचना ।
आकीर्णहासकुसुमा विलोलालकषटूपदम् ।
लतामिव निवातस्थां सकम्पकरपल्लवाम् ॥ १३.१४७५ ॥

दृष्ट्वा तां विस्मितः शक्रः प्रायाद्विपुलतर्जितः ।
अभ्येत्य देवशर्माथ सर्वं तद्बुबुधे मुनिः ॥ १३.१४७६ ॥

तस्मादवाप्य विपुलस्ततस्तुष्टाद्गुरोर्वरान् ।
चचार कृतकृत्यः क्ष्मां पूज्यमानो नृपैर्द्विजैः ॥ १३.१४७७ ॥

अत्रान्तरे स्वसुर्भर्त्रा रुचिरङ्गमहीभुजा ।
निमन्त्रिता गृहेऽपश्यद्भगिनीं पुष्पभूषिताम् ॥ १३.१४७८ ॥

विसृष्टस्तद्गिरा शिष्यः पुष्पार्थं देवशर्मणा ।
ददर्श मिथुनं षट्च देविनः कितवान्पथि ॥ १३.१४७९ ॥

तेषां विवादे शुश्राव शपथं विपुलार्जितान् ।
स लोकानाप्नुयाद्यश्च प्रचलेत्संविदमिति ॥ १३.१४८० ॥

तच्छ्रुत्वा दुःखितोऽभ्येत्य गुरवे स न्यवेदयत् ।
शङ्कमानो गुरुवधूगात्रसंस्पर्शपातकम् ॥ १३.१४८१ ॥

गुरुस्तमूचे मिथुनमहोरात्रं तदुच्यते ।
ऋतवः षट्च कितवास्ते नृणां कर्मसाक्षिणः ॥ १३.१४८२ ॥

न शक्या रक्षितुं नार्यो रक्षिता च त्वया रुचिः ।
असत्येन तवोदीर्णं तस्मान्नश्यतु पातकम् ॥ १३.१४८३ ॥

इत्येवं रक्षैता पूर्वं विपुलेन गुरोः प्रिया ।
न त्वेता रक्षितुं शक्तः कश्चिल्लोलविलोचनाः ॥ १३.१४८४ ॥

***** विपुलोपाख्यानम् ॥ १०९ ॥ *****
विवाहधर्मं पृष्टोऽथ राज्ञा भीष्णोऽब्रवीत्पुनः ।
कन्या गुणवते देया कुलीनायातिरूपिणे ॥ १३.१४८५ ॥

शूद्रायेव श्रुतिः कन्या हीनाय प्रतिपादिता ।
कुलद्वयं दहत्येव तस्मात्पात्रं विचारयेत् ॥ १३.१४८६ ॥

अशास्त्रोक्तैः परिणयैर्जायते वर्णसंकरः ।
संयोगैर्विषमैः पुंसां पतति व्यसने कुलम् ॥ १३.१४८७ ॥

***** विवाहधर्माः ॥ ११० ॥ *****
दर्शने सहवासे च सतां पृष्टो महीभुजा ।
माहात्म्यं च गवां बीष्मः सर्वज्ञः पुनरब्रवीत् ॥ १३.१४८८ ॥

गङ्गायमुनयोर्मध्ये च्यवनोऽन्तर्जलव्रतः ।
तस्थौ मुनीन्द्रः सुचिरं स्थाणुभूतो महातपाः ॥ १३.१४८९ ॥

आघ्राय पुण्यमामोदं तस्य कारुण्यशालिनः ।
आलीय तस्थुर्गात्रेषु मत्स्या वलयलीलया ॥ १३.१४९० ॥

ततः कालेन महता जालेनाकृष्य धीवराः ।
विपुलं मत्स्यसंघातं तन्मध्ये ददृशुर्मुनिम् ॥ १३.१४९१ ॥

शैवालनालवलितं शङ्खिकङ्कणमालितम् ।
हरिश्मश्रुजटापिङ्गं तेजसामिव संचयम् ॥ १३.१४९२ ॥

तं वीक्ष्य कम्पिताः सर्वे सहसा जालजीविनः ।
निमीलिताक्षं जगदुः प्रसीद भगवन्निति ॥ १३.१४९३ ॥

ततः स करुमाविष्टो मत्स्येषु सहवासिषु ।
निषादानवदत्पश्यन्दृशानुग्रहवाञ्छया ॥ १३.१४९४ ॥

विक्रीय मां विमुच्यन्तां युष्माभिः सलिलौकसः ।
दयिताः सहवासान्मे मत्स्या यूयं च दर्शनात् ॥ १३.१४९५ ॥

इत्युक्ते मुनिना दाशास्तूर्णं गत्वा महीभुजे ।
वेपमानाः स्ववृत्तान्तं नहुषाय न्यवेदयन् ॥ १३.१४९६ ॥

ततः स्वयं स नृपतिः पूजामादाय सत्वरः ।
पुरोहितं पुरस्कृत्य च्यवनं द्रष्टुमाययौ ॥ १३.१४९७ ॥

कृतप्रणामं नहुषं मुनिर्वीक्ष्य कृताञ्जलिम् ।
यथोचितेन मूल्येन मां गृहाणेत्यचोदयत् ॥ १३.१४९८ ॥

धीवरेभ्यः सहस्राणि कोटिकोटिशतानि च ।
राज्यार्धमथवा राज्यं ददानीत्यब्रवीन्नृपः ॥ १३.१४९९ ॥

नैतन्ममोचितं मूल्यं चिन्त्यतां मुनिभिः सह ।
नृपं दाशेषु कारुण्यादित्युवाचासकृन्मुनिः ॥ १३.१५०० ॥

ततो विषण्णं नहुषं शापभीतमधोमुखम् ।
गवि जातो द्विजवरो बभाषे धीमतां वरः ॥ १३.१५०१ ॥

मूल्यं मुनीश्वरस्यास्य तुल्यं गौरेव यत्परम् ।
तस्मादेनं गवा राजन्गृहाण भव निर्वृतः ॥ १३.१५०२ ॥

ब्राह्मणेनेत्यभिहिते प्रहृष्टः पृथिवीपतिः ।
मुक्तये मत्स्यसंघानां गवा जग्राह भार्गवम् ॥ १३.१५०३ ॥

ततो दर्शनवात्सल्याच्च्यवनः करुणानिधिः ।
दाशेभ्यः प्रतिजग्राह धेनुं तत्कुशले स्थितः ॥ १३.१५०४ ॥

मुनीन्द्रेण गृहीतायां विधिवद्गवि धीवराः ।
तद्दृष्टिपातान्मत्स्याश्च सशरीरा दिवं गताः ॥ १३.१५०५ ॥

अमृतायतनं गावः पवित्रा रुद्रमातरः ।
स्मृतिमात्रेण मुष्णन्ति किल्बिषं किल देहिनाम् ॥ १३.१५०६ ॥

***** च्यवनोपाख्यानम् ॥ १११ ॥ *****
कुशिकस्य क्षितिपतेर्जातो विप्रः कथं कुले ।
भृगोर्नृपश्चेति राज्ञा पृष्टोऽवादीत्सुरव्रतः ॥ १३.१५०७ ॥

पुरा
भाविकथाभिज्ञश्च्यवनस्तेजसां निधिः ।
मन्दिरे पूजितस्तस्थौ कुशिकस्य महीपतेः ॥ १३.१५०८ ॥

स भूभुजा सभार्येण परिचर्याव्रते धृते ।
भुक्त्वा सुष्वाप निश्चेष्टः सप्तरात्रत्रयं मुनिः ॥ १३.१५०९ ॥

पादसंवाहनं तस्य निराहारो वधूसखः ।
राजा चकार निभृतो निद्राभङ्गभयाकुलः ॥ १३.१५१० ॥

ततो मुनिः समुत्थाय मौनी गत्वा मनोजवः ।
अन्तर्दधे सभार्येण नृपेणानुसृतः पथि ॥ १३.१५११ ॥

तस्मिन्नन्तर्हिते राजा निराहारोऽतिमूर्च्छितः ।
पतितः क्षणमाश्वास्य विवेश स्वगृहं पुनः ॥ १३.१५१२ ॥

तौ दम्पती ददृशतुर्मूकं काष्ठमिवाचलम् ।
एकपार्श्वेन सुप्तस्य क्षपास्तस्यैकविंशतिम् ।
तस्थतुस्तौ निराहारौ पादसंवाहने पुनः ॥ १३.१५१३ ॥

प्रतिबुद्धोऽथ तैलेन शतपातेन भुभुजा ।
भक्त्या निर्वर्तितस्नानो भेजे सिंहासनं मुनिः ॥ १३.१५१४ ॥

ततो नानाविधं भोज्यं राजयोग्यं स्वयं कृतम् ।
दत्तं राज्ञा सभार्येण ददाह भृगुनन्दनः ॥ १३.१५१५ ॥

पुनरन्तर्हितो भूत्वा पुनः कृत्वास्य संनिधिम् ।
निर्विकारं सभार्यं तं दृष्ट्वाभूद्विस्मितो मुनिः ॥ १३.१५१६ ॥

अविक्रियं निराहारं स राजानं वधूसखम् ।
रथेन सांयुगीनेन वह मामित्यचोदयत् ॥ १३.१५१७ ॥

इत्युक्त्वा दम्पती धृत्वा तौ रथे विचचार सः ।
त्रिकण्ठककषाघातसंजातकृतजोक्षितौ ॥ १३.१५१८ ॥

अदर्शयत्ततश्चित्रहेमवल्लीमनोहरम् ।
स्वर्गं सनन्दनोद्यानं मुनिस्तौ मोहयन्मुहुः ॥ १३.१५१९ ॥

दृष्टनष्टैर्बहुविधैर्मायाचटुलविभ्रमैः ।
मुनिना विहितैर्मोहं दम्पती तौ न जग्मतुः ॥ १३.१५२० ॥

वेपमानौ निराहारौ दूराध्वश्रमकर्षितौ ।
तुष्टश्चिरानमुनिवरो रथान्मुक्त्वा जगाद तौ ॥ १३.१५२१ ॥

प्रीतोऽहं युवयोर्भक्त्या गृह्णीतमधुना वरम् ।
पौत्रस्ते ब्राह्मणो राजन्भविष्यति महातपाः ॥ १३.१५२२ ॥

तद्वंशजैर्विरोधोऽयं भार्गवानामुपस्थितः ।
तस्मात्क्षत्रियविच्छेदधिया त्वं पीडितो मया ॥ १३.१५२३ ॥

गतक्लमो निवृत्तश्च पीयूषैरिव पूरितः ।
भव मद्वचसा धन्यः सभार्यः पृथिवीपते ॥ १३.१५२४ ॥

इत्युक्त्वान्तर्हिते तस्मिंस्तस्य कालेन भूपतेः ।
अजायत कुले श्रीमान्विनश्वामित्रस्तपोनिधिः ॥ १३.१५२५ ॥

भार्गवश्च यथा जातो रामः क्षत्रक्षयोऽर्जितः ।
ऋचीकस्य प्रभावेण तन्मया कथितं पुरा ॥ १३.१५२६ ॥

***** च्यवनकुशिकसंवादः ॥ ११२ ॥ *****
श्रुत्वैतद्भूभुजा पृथ्वीक्षयपातकशङ्किना ।
पुनः पृष्टोऽवदद्भीष्णो दानानां फलमुत्तमम् ॥ १३.१५२७ ॥

तपसा लभ्यते सर्वमाचारेण दमेन च ।
आनृशंस्येन सत्येन दानेन च समीहितम् ॥ १३.१५२८ ॥

दत्त्वा विभूषितां धेनुं कपिलां कांस्यदोहनीम् ।
पृथिवीदानसदृशं फलं प्राप्नोति मानवः ॥ १३.१५२९ ॥

प्रयाति वसुलोकं च तिलधेनुप्रदो नरः ।
कन्याभूमिप्रदः शक्रलोकमासाद्य मोदते ॥ १३.१५३० ॥

भूताभयप्रदानं तु दानानां प्रवरं स्मृतम् ।
निजाभिमतदानं च सर्वकामफलप्रदम् ।
सुवर्णदानेन नृणां क्षीयते किल पातकम् ॥ १३.१५३१ ॥

सर्वं सूते वसुमती धत्ते च निखिलं जगत् ।
ज्ञेयः सर्वप्रदस्तस्माद्दातॄणां भूमिदो वरः ॥ १३.१५३२ ॥

अन्नं शरीरिणां प्राणास्तस्मात्प्राणप्रदोऽन्नदः ।
अन्नदानसमं लोके नास्तीति प्राह नारदः ॥ १३.१५३३ ॥

पानीयदानममृतं प्राणिनां संप्रचक्षते ।
विच्छायतापज्वलिताः परलोके हि भूमयः ॥ १३.१५३४ ॥

तिलप्रदानं शंसन्ति क्षयाय निखिलैनसाम् ।
तुष्टो यमः पुरा विप्रं तिलान्देहीत्यचोदयत् ॥ १३.१५३५ ॥

ब्रह्मस्ववर्जं सर्वस्वं दत्त्वा दुर्गाणि संतरेत् ।
ब्रह्मस्वशल्यं हि नृणां तीव्रपातं प्रचक्षते ॥ १३.१५३६ ॥

द्वारवत्यां महाकूपे पुरा गुल्मतृणावृते ।
कृकलासं महाकायं ददृशुः सर्ववृष्णयः ॥ १३.१५३७ ॥

स तैः पृष्टः समुद्धर्तुमशक्तैरवदच्छनैः ।
नृगोऽहं नृपतिर्ब्रह्मशापाद्यातो दशामिमाम् ॥ १३.१५३८ ॥

विप्रेभ्यो गृहमेधिभ्यो निखर्वाणि पुरा गवाम् ।
हेमकोटिप्रदो दत्त्वा यातोऽहं निर्वृतिं पराम् ॥ १३.१५३९ ॥

ततः कदाचिन्मद्दत्तधेनुं विप्रस्य मन्दिरे ।
निजां चौरहृतां दृष्ट्वा जग्राह ब्राह्मणोऽपरः ॥ १३.१५४० ॥

राज्ञा ममेयं प्राग्दत्ता हृतेयं दस्युना परः ।
एवं विवदमानौ तौ मत्सभामभिजग्मतुः ॥ १३.१५४१ ॥

तद्वृत्तान्तमहं श्रुत्वा प्रार्थना बहुशस्तयोः ।
धनैर्गोभिर्नरैरश्वैर्यत्नादकरवं पृथक् ॥ १३.१५४२ ॥

तथाप्येको न तत्याज गां प्रतिग्रहपालनात् ।
द्वितीयश्च गृहे जातां तां स्नेहभयकातरः ॥ १३.१५४३ ॥

अथ कालेन यातोऽहं धर्मराजनिकेतनम् ।
बहुदानार्जितांल्लोकान्दिव्यानश्रौषमात्मनः ॥ १३.१५४४ ॥

किंतु ब्रह्मस्वविभ्रंशान्ममेमां कृकलासताम् ।
शौरिदर्शनपर्यन्तामादिदेश स्वयं यमः ॥ १३.१५४५ ॥

इति ब्रुवाणः कृष्णस्य दशा विध्वस्तपातकः ।
नृगो जगाम त्रिदिवं त्यक्त्वा तां कृकलासताम् ॥ १३.१५४६ ॥

***** नृगोपाख्यानम् ॥ ११३ ॥ *****
उद्दालकस्य ब्रह्मर्षेः पितुः कोपान्महामुनिः ।
नासिकेताभिधः प्राणांस्तत्याजाभिहतो दृशा ॥ १३.१५४७ ॥

पुत्रं निपतितं दृष्ट्वा शान्तक्रोधो मुनिः शनैः ।
अजीवयन्मन्त्रनिधिः कारुण्यात्साश्रुलोचनः ॥ १३.१५४८ ॥

ततः स्वप्नोत्थित इव प्राप्तजीवो मुनेः सुतः ।
पित्रा पृष्टोऽवदत्सर्वं दृष्टं यद्यममन्दिरे ॥ १३.१५४९ ॥

रत्नस्तम्भशतोदारे पितृराजसभातले ।
अवापं विपुलां पूजां पाद्यमर्ध्यं तथासनम् ॥ १३.१५५० ॥

तत्रापश्यं विमानेषु सूर्येन्दुद्युतिकान्तिषु ।
भास्वराभरणस्मेरान्नरान्सुकृतशालिनः ॥ १३.१५५१ ॥

घृतक्षीरामृतजला दृष्टास्तत्र मयापगाः ।
हेमाब्जपुञ्जकुञ्जाग्रकूजन्मणिविहङ्गमाः ॥ १३.१५५२ ॥

दिव्यान्भोगान्मया दृष्ट्वा पृष्टो वैवस्वतः स्मयात् ।
एताः पीयूषवाहिन्यः केषां स्वेच्छापरिग्रहाः ॥ १३.१५५३ ॥

यमोऽब्रवीद्गोप्रदानामेताः क्षीरघृतापगाः ।
नादत्त्वा पुरुषो धेनुं परमामृतमश्नुते ॥ १३.१५५४ ॥

असंभवे गवां यावत्सलिलेन तिलेन च ।
घृतेन वा कल्पयित्वा धेनुं दद्यात्सुधाशया ॥ १३.१५५५ ॥

गोदानसदृशं लोके दानमन्यन्न विद्यते ।
सादरं मां पुतृपतिर्जगादेति पुनः पुनः ॥ १३.१५५६ ॥

इत्युक्ते नासिकेतेन मुनिर्मुनिशतैर्वृतः ।
गोप्रदानं महत्पुण्यं प्रशशंस मुहुर्मुहुः ॥ १३.१५५७ ॥

***** नासिकेतोपाख्यानम् ॥ ११४ ॥ *****
सर्वलोकानतिक्रम्य गवां लोकः प्रकशते ।
यत्सत्यं निरयायन्ते तत्र स्वर्गसुखश्रियः ॥ १३.१५५८ ॥

गोप्रदा एव गोलोकं प्रायन्ति सुकृतोज्ज्वलाः ।
इत्युवाच पुरा पृष्टः शक्रेण कमलासनः ॥ १३.१५५९ ॥
वसिष्ठाद्य मुनिवरा नृपा दशरथादयः ।
सुराश्च शक्रप्रमुखा गोतुल्यं न प्रचक्षते ॥ १३.१५६० ॥

निवासार्थं पुरा गावः प्रार्थिता बहुशः श्रिया ।
निगद्य चपलासीति प्रददुर्न प्रतिश्रयम् ॥ १३.१५६१ ॥

अभाषत ततो लक्ष्मीर्भवतीभिरनादरात् ।
त्यक्ता निन्द्या भविष्यामि तस्माद्याचे पुनः पुनः ॥ १३.१५६२ ॥

अथादिष्टा श्रियो गोभिर्हेलया गोमये स्थितिः ।
तस्मादेताः परं पुण्यं पवित्रं नास्त्यतः परम् ॥ १३.१५६३ ॥

***** गोप्रदानम् ॥ ११५ ॥ *****
हेमदानं दहत्येवं सर्वपापानि देहिनाम् ।
तेजो हि परमं पुत्र काञ्चनं जातवेदसः ॥ १३.१५६४ ॥

पुराहं जाह्नवीकूले श्राद्धे पिण्डप्रद पितुः ।
अपश्यं शन्तनोः पाणिमुत्थितं रत्नकङ्कणम् ॥ १३.१५६५ ॥

पिण्डो मया कुशेष्वेव तं विलोक्य समर्पितः ।
तुष्टस्तदा मे जनकं स्वप्ने प्रोवाच मामिदम् ॥ १३.१५६६ ॥

शास्त्रानुवर्तिना पुत्र त्वया धन्योऽस्मि सूनुना ।
कनकं देहि विप्रेभ्यो दानानामुत्तमं हि तत् ॥ १३.१५६७ ॥

जामदग्न्यः पुरा रामः कृत्वा निःक्षत्रियं जगत् ।
मुनिभिर्दापितो हेम तस्मात्पापादमुच्यत ॥ १३.१५६८ ॥

तारकोषप्लुता देवाः पुरा शीतांशुशेखरम् ।
स्कन्दोत्पत्तिमयाचन्त कथां विज्ञाय भाविनीम् ॥ १३.१५६९ ॥

ततो गौरीपतिवीर्यं वदने जातवेदसः ।
रतिविघ्नकृतो देवस्तत्याज परमं महः ॥ १३.१५७० ॥

वह्निनाथ धृतो गर्भः श्रीमान्संवत्सरायुतम् ।
गङ्गायां निहितः सापि निदधे तं गिरेस्तटे ॥ १३.१५७१ ॥

स कार्तिकेयो भगवाञ्जातः शरवने शिशुः ।
सुराणां शक्तिमानासीत्सेनानीस्तारकान्तकः ॥ १३.१५७२ ॥

तस्य जन्मनि यत्पूर्वं संजातं जातवेदसः ।
मही वसुमती येन तत्सुवर्णं प्रचक्षते ॥ १३.१५७३ ॥

***** सुवर्णोत्पत्तिः ॥ ११६ ॥ *****
अथ श्राद्धविधिं पृष्टो राज्ञा शान्तनवोऽब्रवीत् ।
तिलप्रदानं विज्ञेयं श्राद्धं मधुघृताप्लुतम् ॥ १३.१५७४ ॥

माषमत्स्यैडशशकच्छागवाराहशाकुनैः ।
पार्षतन्यङ्गुगवयमाहिषैर्वै नवैरपि ॥ १३.१५७५ ॥

मांसैर्विवृद्ध्या मासानां क्रमात्संवत्सरं सदा ।
तृप्तिं पितॄणां श्राद्धेषु वदन्ति श्रुतिकोविदाः ॥ १३.१५७६ ॥

वाघ्रीणसस्य मांसेन द्वादशाब्दमुशन्ति च ।
खङ्गमांसैर्लोहपृष्ठैः कालशाकैस्तथा क्षयम् ॥ १३.१५७७ ॥

न तेषां पितरः शोच्यास्त्रयोदश्यां मधासु च ।
वर्षासु विहितं श्राद्धं पायसे न ससर्पिषा ॥ १३.१५७८ ॥

गायकूपे वटतले छायायां कुञ्जरस्य वा ।
अनन्तं कलयन्त्येव श्राद्धं पुण्यदिनेषु च ॥ १३.१५७९ ॥

विधिनक्षत्रयोगेषु काम्यं श्राद्धं विनिर्दिशेत् ।
सदाचारोर्ऽहति श्राद्धं विप्रो निर्देषविग्रहः ॥ १३.१५८० ॥

वैश्वदेवेन विधिना संस्कृतेनन च वह्निना ।
रक्ष्यते ब्राह्मणैः श्राद्धं विष्णुपूजापुरःसरैः ॥ १३.१५८१ ॥

श्राद्धे निषिद्धं सततं सगुडं लवणत्रयम् ।
अजाजीहिङ्गुसौवीरपलाण्डुलशुनानि च ॥ १३.१५८२ ॥

***** श्राद्धविधिः ॥ ११७ ॥ *****
दातृप्रतिग्रहीतॄणां विशेषं जगतीभुजा ।
पृष्टः सुरसरित्सूनुर्ध्यात्वा पुनरभाषत ॥ १३.१५८३ ॥

अनावृष्टिहते काले पुरा निर्दग्धपादपे ।
अरुन्धतीसखाश्चेरुः शान्ताः सप्तर्षयः क्षितौ ॥ १३.१५८४ ॥

दासः पशुसखो नाम दासी चण्डा च तद्वधूः ।
तानेवानुप्रययतुः क्षुत्तृष्णापरिपीडितौ ॥ १३.१५८५ ॥

राज्ये सुराज्ञः शैब्यस्य गतासुं तनयं ततः ।
मुनयस्ते क्षुधाक्रान्ताः स्थाल्यां पक्तुं समुद्ययुः ॥ १३.१५८६ ॥

अथ राजा वृषादर्भिर्दृष्ट्वा वैश्रवणोपमः ।
व्यग्रान्मुनीन्विषण्णात्मा तानुवाच कृताञ्जलिः ॥ १३.१५८७ ॥

यथेच्छं गृह्यतां मत्तः सर्वं वा विविधं वसु ।
जुगुप्सा जननी वृत्तिर्भवद्भिस्त्यज्यतामियम् ॥ १३.१५८८ ॥

इत्युक्ते भूमिपालेन प्रत्यूचुर्मुनिपुंगवाः ।
तपःक्षयकरो राजन्घोरो राजप्रतिग्रहः ॥ १३.१५८९ ॥

प्रतिग्रहाग्निग्धानां सकृद्ब्राह्मणशाखिनाम् ।
किल्बिषाज्ञानशेषाणां पुनः पुण्यफलं कुतः ॥ १३.१५९० ॥

एतदुक्त्वा परित्यज्य स्तालीं ते काननं ययुः ।
प्राणपीडापणेनापि प्रतिग्रहपराङ्भुखाः ॥ १३.१५९१ ॥

वने तेषां वृषादर्भिः फलान्यौदुम्बराण्यथ ।
मन्त्रिभिर्हेमगर्भाणि कारयित्वाक्षिपत्पुरः ॥ १३.१५९२ ॥

तान्यपि ज्वलितान्येव भीतास्त्यक्त्वा मुनीश्वराः ।
ययुर्मिथः प्रशंसन्तः पुण्यसंतोषशीलताम् ॥ १३.१५९३ ॥

तत्प्रकोपाद्वृषादर्भिर्हुत्वा सपदि पावकम् ।
कृत्यामुत्पाद्य भयदामादिदेश मुनिक्षये ॥ १३.१५९४ ॥

अत्रान्तरे ते मुनयश्चरन्तः कानने सुखम ।
ददृशुः पीवराकारं परिव्राजं शुनःसखम् ॥ १३.१५९५ ॥

विलोक्य तमरुन्धत्या पृष्टास्तत्पुष्टिकारणम् ।
ऊचुर्मुनिवरा नायं क्रियाव्यग्रो यथा वयम् ॥ १३.१५९६ ॥

अग्निहोत्रं न वेदाश्च शास्त्रकन्था न दुःसहा ।
नानेन्धनप्रयत्नश्च न कलत्रं न याचकाः ॥ १३.१५९७ ॥

शुनःसखस्य स्वच्छन्दचारिणः सुखशालिनः ।
शरीरं पीवरमिदं चिन्ताशून्यस्य वर्धते ॥ १३.१५९८ ॥

इत्युक्त्वा तेन संजातसौहार्दा मुनयो वने ।
ददृशुर्नलिनीं फुल्लकमलोत्पलशालिनीम् ॥ १३.१५९९ ॥

वृषादर्भिप्रयुक्ता सा यातुधानीभि(वि)सार्थिनः ।
तत्र तानवदद्धोरा रक्षामि नलिनीमिमाम् ॥ १३.१६०० ॥

निवेद्य निजनामानि गृह्यन्तां तु मृणालिकाः ।
अज्ञातनामधेयानां नेह मत्संनिधौ गतिः ॥ १३.१६०१ ॥

एतदत्रिप्रभृतयः श्रुत्वा ते मुनयः क्रमात् ।
गूढनिर्वचनैस्तैस्तैर्नामान्यस्यै न्यवेदयन् ॥ १३.१६०२ ॥

तुल्याक्षरपदक्षोभं नाम तेषां निरुक्ततः ।
श्रुत्वा निष्प्रतिभा कृत्याभि(वि)सरक्ष्यामवारयत् ॥ १३.१६०३ ॥

शुनःसखोदितं नाम पुनः पप्रच्छ सा यदा ।
तदा क्रुद्धास्तु दण्डेन विदधुस्तां च भस्मसात् ॥ १३.१६०४ ॥

ततः शशिकराकाराः समुद्धृत्य मृणालिकाः ।
तीरे निक्षिप्य मुनयः स्नात्वा चक्रुर्जलक्रियाम् ॥ १३.१६०५ ॥

अथोत्थाय विसाहारसादरास्ते श्रमाकुलाः ।
विसानि तानि नापश्यन्न्यस्तानि नलिनीतटे ॥ १३.१६०६ ॥

परस्परं शङ्किताश्च चक्रिरे शपथं क्रमात् ।
सहसाभिमतोच्छेदो महतामपि दुःसहः ॥ १३.१६०७ ॥

वृथापाको वृथाचारः कूटसाक्षी निषिद्धकृत् ।
दृशंसः कामचरितश्चौरो वेदविवर्जितः ॥ १३.१६०८ ॥

पदा स्पृशतु गां वह्निमप्सु श्लेष्माभियच्छतु ।
परदाराभिगामी च गरदः सोमविक्रयी ।
पिशुनश्चास्त्वसौ येन हृतं नो विसभोजनम् ॥ १३.१६०९ ॥

इत्युक्ते मुनिभिः पश्चात्तानुवाच शुनःसखः ।
याजिने छन्दसां धाम्ने शुद्धाय ब्रह्मचारिणे ॥ १३.१६१० ॥

देयात्स कन्यकां येन हतान्यत्र भि(वि)सानि नः ।
श्रुत्वैतदूचुर्मुनयस्त्वया भाषितमीप्सितम् ॥ १३.१६११ ॥

त्वयैव हृतमस्माकं सर्वथाभि(वि)सभोजनम् ।
इति तेषु ब्रुवाणेषु हसन्प्राह शुनःसखः ॥ १३.१६१२ ॥

मयैवेह विसस्तैन्यं कृतं वो हितकारिणा ।
सा च कृत्या हता घोरो देवोऽहं त्रिदशेश्वरः ॥ १३.१६१३ ॥

इत्युक्त्वा निजमास्थाय रूपं सप्तर्षिभिः सह ।
वेल्लद्विमानमालाङ्कं नाकं नाकपतिर्ययौ ॥ १३.१६१४ ॥

प्रतिग्रहनिवृत्तानामेवमुज्ज्वलचेतसाम् ।
विभात्यलौल्याभरणा वृत्तिः संतोषशालिनाम् ॥ १३.१६१५ ॥

***** विसस्तैन्यम् ॥ ११८ ॥ *****
मुनयः कश्यपमुखा नृपाश्च नहुषादयः ।
शतक्रतुं पुरस्कृत्य तीर्थानि प्रययुः पुरा ॥ १३.१६१६ ॥

ते स्नात्वा पुण्यतीर्थेषु पुष्कराहरिणीं ययुः ।
तत्रागस्त्यमुनिर्न्यस्तं नापश्यन्निजपुष्करम् ॥ १३.१६१७ ॥

ततस्ते शपथं चक्रुः क्रमेण गुरुपातकम् ।
इन्द्रस्तु प्राह धन्योऽस्तु स हृतं येन पुष्करम् ॥ १३.१६१८ ॥

***** पुष्करस्तैन्यम् ॥ ११९ ॥ *****
छत्त्रोपानत्प्रधा(दा)नं च भीष्मः पृष्टो महीभुजा ।
उवाचेह परं पुण्यं परत्र त्राणमिष्यते ॥ १३.१६१९ ॥

जमदग्निः पुरा धन्वी लक्ष्याभ्यासरतो वने ।
ससर्ज सायकश्रेणीं रश्मिमालामिवांशुमान् ॥ १३.१६२० ॥

विसृष्टान्विशिखान्भर्त्रा रेणुका तत्र तद्गिरा ।
आनिनायेन्दुवदना सुकुमारा पुनः पुनः ॥ १३.१६२१ ॥

तां चण्डकिरणस्फारसंतापायासमूर्च्छिताम् ।
स जायां वीक्ष्य मध्याह्ने क्रुद्धः सूर्यमुदैक्षत ॥ १३.१६२२ ॥

ततो दिव्यास्त्रविकटं खे प्रहर्तुं समुद्यतम् ।
रविः प्रसादयामास भयादेत्य कृताञ्जलिः ॥ १३.१६२३ ॥

गतक्रोधस्य तस्याथ छत्त्रमातपवारणम् ।
उपानहौ च प्रददौ प्रीतये वासरेश्वरः ॥ १३.१६२४ ॥

छत्त्रोपानत्प्रधा(दा)नं तद्दानानामुत्तमं स्मृतम् ।
संतापशमनं नॄणामस्मिंल्लोके परत्र च ॥ १३.१६२५ ॥

***** छत्त्रोत्पत्तिः ॥ १२० ॥ *****
तडाककूपदानं च पुण्यं शर्म शरीरिणाम् ।
परत्र मरुसंतप्ते पानीयं किल दुर्लभम् ॥ १३.१६२६ ॥

अपारतिमिरे घोरे परलोके निराश्रये ।
आलोकदुर्लभस्तस्माद्दीपं दद्यान्नरः सदा ॥ १३.१६२७ ॥

प्रीणाति सकलांल्लोकान्सुमनोवलिधूपदः ।
असुरेन्द्रमिति प्राह पुरा शुक्रः कथान्तरे ॥ १३.१६२८ ॥

पुष्पधूपप्रदः स्वर्गे दुर्धर्षो नहुषोऽभवत् ।
आखण्डलस्यासनं च प्रापाखण्डितशासनः ॥ १३.१६२९ ॥

यदा पस्पर्श पादेन सर्पेति मुनिपुंगवम् ।
दृप्तोऽगस्त्यं समाविश्य भृगुणा पातितस्तदा ॥ १३.१६३० ॥

भीमबाहुग्रहकृतो घोराजगररूपिणः ।
अरण्ये भवता यस्य शापमोक्षः पुरा कृतः ॥ १३.१६३१ ॥

***** पुष्पादिदानम् ॥ १२१ ॥ *****
पुनः पृष्टो नृपतिना गतिं ब्रह्मस्वहारिणाम् ।
ऊचे शान्तनवो राजन्ब्रह्मस्वं विषमं विषम् ॥ १३.१६३२ ॥

जातिस्मरः पुरा कश्चिद्राजपुत्रः सकौतुकः ।
कुजातिहेतुं पप्राच्छ चण्डालं सोऽप्यभाषत ॥ १३.१६३३ ॥

श्रूयतां कारणं येन प्राप्तश्चण्डालतामहम् ।
ब्राह्मणस्य पुरा गावो हृताः प्रबलदस्युभिः ॥ १३.१६३४ ॥

तासां रजो यज्ञभूमौ सोममध्येऽपतत्क्वचित् ।
तत्पीत्वा नरकं विप्रा दीक्षितेन सहाययुः ॥ १३.१६३५ ॥

भिक्षापात्रे निपतितं तद्रेणु ब्रह्मचारिणः ।
तद्रेणु तत्स्थितं चान्नं मोहान्मे भक्ष्यतां ययौ ॥ १३.१६३६ ॥

ब्राह्मणः श्रोत्रियश्चाहं ब्रह्मचारी जितेन्द्रियः ।
तेनावस्तामिमां प्राप्तः पश्य ब्रह्मस्वगौरवम् ॥ १३.१६३७ ॥

इत्युक्त्वा क्षत्रियगिरा ब्राह्मणार्थे रणानले ।
हुत्वा शरीरं चण्डालः प्राप पुण्यं पुनर्गतिम् ॥ १३.१६३८ ॥

***** राजन्यचण्डालसंवादः ॥ १२२ ॥ *****
नाना गतीः पुण्यकृतां भीष्मः पृष्टो महीभुजा ।
उवाच कर्मवैचित्र्यात्ते ते लोकाः शरीरिणाम् ॥ १३.१६३९ ॥

गौतमेनाश्रमे पूर्वं शिशुर्हस्ती विवर्धितः ।
होमावशेषपयसा नीवारप्रसवेन च ॥ १३.१६४० ॥

ततो मदजलश्यामकपोलालीनषट्पदः ।
लीलालसः स कालेन बभूवाचलसंनिभः ॥ १३.१६४१ ॥

इध्मदर्भफलाहारी निर्जराश्रमपालकः ।
मुनेः पुत्र इव प्रीत्या स बभूव महागजः ॥ १३.१६४२ ॥

तं प्रवृद्धं तथा नागं स्वयमेत्य शतक्रतुः ।
जहार रूपमास्थाय धृतराष्ट्रस्य भूपतेः ॥ १३.१६४३ ॥

पुनः पुनर्याच्यमानो मुनिना स यदा नृपः ।
न तत्याज गजं दर्पात्तदा तं गौतमोऽवदत् ॥ १३.१६४४ ॥

गत्वा यत्र शरीरान्ते नराः कालवशीकृताः ।
नन्दन्ति शोचन्त्यथवा तत्र दास्यसि मे गजम् ॥ १३.१६४५ ॥

पापात्मानो विशस्यन्ते यत्र तैर्भ्रकुटीमुखैः ।
वैवस्वतसमादिष्टैस्तत्र दास्यसि मे गजम् ॥ १३.१६४६ ॥

समाना भीरवः शूरा दुर्बला बलिनस्तथा ।
यत्र मुग्धा विदग्धाश्च तत्र दास्यति मे गजम् ॥ १३.१६४७ ॥

धनदस्य पुरे रम्ये मेरौ वा नन्दने वने ।
धाम्नि शीतमयूखस्य सहस्रकिरणस्य वा ॥ १३.१६४८ ॥

वरुणास्य सुरेन्द्रस्य सुरभीणां स्वयंभुवः ।
लोके वा दास्यसि गजं न तत्र बलवानसि ॥ १३.१६४९ ॥

एतच्छ्रुत्वावदद्राजा नरकं यान्ति नास्तिकाः ।
नरा व्यामिश्रकर्माणः प्रयान्ति यममन्दिरम् ॥ १३.१६५० ॥

धनदस्य पुरं यान्ति व्रतिनोऽतिथिपूजकाः ।
यष्टारो नन्दनं यान्ति दातारः सोममण्डलम् ॥ १३.१६५१ ॥

खाध्यायिनः सूर्यलोकं नियतास्तीर्थसेविनः ।
यान्ति प्रशान्ताः संसारात्परं धाम स्वयंभुवः ।
नाहं क्वचिद्गमिष्यामि क्व नु दास्यामि ते गजम् ॥ १३.१६५२ ॥

इत्युक्त्वा कुञ्जरं तस्मै दत्त्वा दिव्यां तथा गतिम् ।
स्वं वपुर्दर्शयित्वा च हसन्निन्द्रो ययौ दिवम् ॥ १३.१६५३ ॥

***** हस्तिकूटीयम् ॥ १२३ ॥ *****
सशरीरः पुरा राजा ब्रह्मलोकं भगीरथः ।
ययौ महीगोवृषदः कन्याग्रामपुरप्रदः ॥ १३.१६५४ ॥

सदाचाराः सत्यवन्तो ज्येष्ठशुश्रूषवो नराः ।
गुरुपूजारताः क्षान्ता भवन्तीह शतायुषः ॥ १३.१६५५ ॥

उपवासव्रतजुषां तिथिनक्षत्रयोगतः ।
नियमा दिव्यफलदा जगादेत्यङ्गिराः पुरा ॥ १३.१६५६ ॥

श्रुत्वेति धर्मतनये देहि देहगतिं पुनः ।
प्रष्टुं समुद्यते साक्षाद्बृहस्पतिरथाययौ ॥ १३.१६५७ ॥

स पूजितो मुनिवरैर्भीष्मेण विदुरेण च ।
धृताराष्ट्रेण कृष्णेन भेजे रत्नोज्ज्वलासनम् ॥ १३.१६५८ ॥

युधिष्ठिरोर्ऽचयित्वा तं प्रयातो भीष्मशासनात् ।
पप्रच्छाचारसंसारमरणं देहदेहिनोः ॥ १३.१६५९ ॥

ततोऽब्रवीत्सुरगुरुः शरीरं पाञ्चभौतिकम् ।
पञ्चधा यातमुत्सृज्य स्वप्नवच्चेष्टते नरः ॥ १३.१६६० ॥

देहभङ्गे निरालोकं गत्वा देशमबान्दवम् ।
देही वासनया विद्धस्तत्तद्वेत्ति शुभाशुभम् ॥ १३.१६६१ ॥

त्यक्त्वा कलेवरं जन्तुर्निर्मोकमिव पन्नगः ।
धर्माधर्मयुतो याति सामोद इव मारुतः ॥ १३.१६६२ ॥

तत्तद्भुक्त्वा निराकारः कर्मपुर्यष्टकाशश्रयः ।
भूतैः समागमं याति पुनः शुक्रमुखाच्च्युतः ॥ १३.१६६३ ॥

कर्मभिः शवलैस्तत्र मधुवल्लिप्यते पुनः ।
चक्रवत्पशुकोटीनां लिप्तो भ्राम्यति योनिषु ॥ १३.१६६४ ॥

दत्त्वा च विपुलं दानं मोदते पुण्यवान्सुखी ।
अहिंसया याति दिवं तृष्णया कष्टमश्नुते ॥ १३.१६६५ ॥

गृहीत्वा पतितो विप्रश्चिरं भवति गर्दभः ।
सूकरः कृकवाकुश्च जम्बुकः श्व स जायते ॥ १३.१६६६ ॥

गुरोर्निकारं कृत्वा च भवति श्वा ततो वृकः ।
ततश्च रासभो घोरो नरकावर्तनिर्गतः ॥ १३.१६६७ ॥

पित्रोः कृतापकारश्च श्वा कूर्मः शल्यकस्तथा ।
व्याडो दासश्च भवति क्रमात्कर्मक्षयावधि ॥ १३.१६६८ ॥

भर्तृद्वेषी कपिर्भूत्वा मूषिकः श्वापि जायते ।
निक्षेपहर्ता दुःखाय भ्रान्त्वा योनिशतं शनैः ॥ १३.१६६९ ॥

अमेध्यावर्तकलिले जायते कुत्सितः क्रिमी ।
परनिन्दारतः शार्ङ्गो मत्स्यो विश्वस्तगातकः ॥ १३.१६७० ॥

मृगश्छागोऽथ कीटश्च क्रमाद्भवति दुष्कृती ।
सस्यहर्ता भवत्याखुः क्रोडः कौलेयकस्तथा ॥ १३.१६७१ ॥

क्रव्यादजातिं विविधां भजते पारजायिकः ।
शूद्रो विप्रवधूं गत्वा क्रिमिराखुश्च जायते ॥ १३.१६७२ ॥

कृतघ्नः कालपुरुषैर्नरकेष्वाहतो भृशम् ।
कृमिर्भूत्वा ततो गर्भशतेष्वन्तर्विपद्यते ॥ १३.१६७३ ॥

कृमिस्त्रिःसप्तकृत्वश्च भवति भ्रूणहा नरः ।
मक्षिका भोजनहरो मूषिकश्च यवान्नहृत् ॥ १३.१६७४ ॥

चीरी च ललनस्तेनो दधिहर्ता तथा बकः ।
वर्ही वर्णहरो रक्तवस्त्रहृज्जीवजीवकः ॥ १३.१६७५ ॥

पिप्लस्तैलहरणात्फलस्तैन्यात्पिपीलकः ।
मिष्टान्नचौर्याद्धूकश्च वस्त्रचौर्यात्कपोतकः ।
छच्छुन्दरिर्गन्धहरी मत्स्यो भवति निह्नवी ॥ १३.१६७६ ॥

एवं बहुविधैस्तैस्तैश्चित्रपाकैः कुकर्मभिः ।
तां तां तमोमयीं योनिं संसरन्ति शरीरिणः ॥ १३.१६७७ ॥

***** संसारचक्रम् ॥ १२४ ॥ *****
एवंविधानि पापानि प्रायाश्चित्तैर्विना नृणाम् ।
दानेन किल शाम्यन्ति दानं हि परमा गतिः ॥ १३.१६७८ ॥

अन्नमेव परं प्राणा भूतानाममृतोद्गतिः ।
अन्नदानं महत्तस्मात्पात्रं यत्र न गण्यते ॥ १३.१६७९ ॥

अन्नप्रदः सुधावर्षी जायते धनवान्सदा ।
श्रीमान्पुनर्ददान्यन्नं प्राक्संस्कारधियैव सः ॥ १३.१६८० ॥

लभते पुनरैश्वर्यमित्येव चक्रलीलया ।
परिवर्तिनि कालेऽस्मिन्पुण्यवान्नापचीयते ॥ १३.१६८१ ॥

***** कालचक्रम् ॥ १२५ ॥ *****
इत्युक्त्वा भगवान्साक्षात्पूज्यमानो महर्षिभिः ।
तेजोरञ्जितदिक्चक्रो दिवमाचक्रमे गुरुः ॥ १३.१६८२ ॥

अहिंसालक्षणं धर्मं सर्वभूताभयप्रदम् ।
अजातशत्रुण पृष्टः पुनः शान्तनवोऽब्रवीत् ॥ १३.१६८३ ॥

अमांसभक्षणं नॄणामश्वमेधशतैः समम् ।
मांसं हि जायते घोरान्नान्यत्र वधपातकात् ॥ १३.१६८४ ॥

मांसादेव समुत्पन्नं मांसं मांसमयो नरः ।
तुल्यव्यथेऽस्मिन्संसारे भुञ्जानः किं न लज्जते ॥ १३.१६८५ ॥

कण्टकेनापि संस्पृष्टा यान्ति कामपि विक्रियाम् ।
तेऽपि शस्त्रनिकृत्तस्य पशोरश्नन्ति विग्रहम् ॥ १३.१६८६ ॥

भयमाकम्पनं तीव्रं देहिनां देहसंक्षये ।
दृष्ट्वा को नाम मांसेभ्यः स्पृहां कुर्यादराक्षसः ॥ १३.१६८७ ॥

अमांसाशी जगद्बन्धुः प्राणिनामभयप्रदः ।
प्रयाति निर्भयं धाम पुण्यकारुण्यसागरः ॥ १३.१६८८ ॥

क्रतुर्निर्विघ्नसंभारस्तीर्थमध्वश्रमोञ्झितम् ।
अहिंसा नाम परमं व्रतमत्यक्तभोजनम् ॥ १३.१६८९ ॥

***** अमांसभक्षणम् ॥ १२६ ॥ *****
प्राणाः प्रियतराः पुंसां यैर्हुतास्ते रणानले ।
तद्गतिं कथयेत्युक्तो राज्ञा भीष्मोऽवदत्पुनः ॥ १३.१६९० ॥

एवमेतत्प्रियाः प्राणा दुःखिनामपि देहिनाम् ।
शक्नोति कस्तान्सहसा त्युक्तं सत्त्ववतो विना ॥ १३.१६९१ ॥

सर्वथा जीविताभ्रंशे भीरवो भयविक्लवाः ।
तृणाञ्चितेऽपि नयने मीलयन्त्येव कातराः ॥ १३.१६९२ ॥

पुरा शकटसंत्रासाद्विद्रुतं पथि कीटकम् ।
व्यासो विलोक्य पप्रच्छ सस्मितं ज्ञानलोचनः ॥ १३.१६९३ ॥

अस्मिन्नपि शरीरे ते रक्षार्थं कोऽयमाग्रहः ।
तत्सर्वं मरणं मन्ये तव कुत्सितजीविनः ॥ १३.१६९४ ॥

एतच्छ्रुत्वा मुनिवचस्तं कीटः प्रत्यभाषत ।
नास्ति कायसमं किंचिद्देहिनां वल्लभं विभो ॥ १३.१६९५ ॥

कीटिकाप्रेमबद्धस्य सूक्ष्मकीटकपुत्रिणः ।
विवरान्तरगेहे मे शक्रस्येव सुखं दिवि ॥ १३.१६९६ ॥

स्नेहस्यायतनं प्राणाः कः स्वयं त्यक्तुमीश्वरः ।
मुहूर्तमपि लभ्यन्ते नैते मेरुशतैरपि ॥ १३.१६९७ ॥

शूद्रोऽहं बहुभिः पापैः कीटयोनिमिमां श्रितः ।
पित्रोः शुश्रूषया किंतु मुने जातिं स्मराम्यहम् ॥ १३.१६९८ ॥

तच्छ्रुत्वा करुणाम्भोधिर्भगवान्भूतभावनः ।
तस्मै नृपपदं व्यासो ददौ जन्मान्तरे क्रमात् ॥ १३.१६९९ ॥

विप्रोऽथ तद्गिरा भूत्वा स ययौ परमां गतिम् ।
आपत्सु महतामेव दर्शनं कल्पपादपः ॥ १३.१७०० ॥

तस्मादतिप्रियाः प्राणा यैस्त्यक्ताः संमुखैर्युधि ।
धैर्याब्धयस्ते त्रिदिवे स्पर्धन्ते विबुधाधिपम् ॥ १३.१७०१ ॥

***** कीटकोपाख्यानम् ॥ १२७ ॥ *****
विद्यायास्तपसो वापि दानाद्वा किं विशिष्यते ।
इति पृष्टः क्षितिभुजा बभाषे जाहनवीसुतः ॥ १३.१७०२ ॥

वाराणस्यां पुरा व्यासो मैत्रेयेण निमन्त्रितः ।
भुक्त्वा प्रहृष्टः प्रोवाच कथान्ते तपसां निधिः ॥ १३.१७०३ ॥

तेजः परं तपो नाम दिव्यमेव बलं तपः ।
पश्यन्ति सन्तस्तपसा ज्ञानं हि तपसः फलम् ॥ १३.१७०४ ॥

अस्मिन्भवमहामोहतप्तो व्याप्ते जगत्त्रये ।
विद्यैव परमं चक्षुरक्षुण्णा लोककारणम् ॥ १३.१७०५ ॥

किंतु सर्वमतीत्यैतद्दानमेव विशिष्यते ।
दानात्परं न संसारे देहिनां शर्म विद्यते ॥ १३.१७०६ ॥

अन्नदानैः सुकृतिनः प्रयाताः परमं पदम् ।
मुनिप्राप्यमनायासलीलया सत्त्वशालिनः ॥ १३.१७०७ ॥

अन्नं हविः सुधा पाणास्तद्दाता जीवितप्रदः ।
इत्युक्त्वा मुनिमामन्त्र्य जगाम मुनिपुंगवः ॥ १३.१७०८ ॥

***** मैत्रेयभिक्षा ॥ १२८ ॥ *****
पृष्टोऽथ योषितां राज्ञा सदाचारः पितामहः ।
उवाच सततं स्त्रीणां सदाचारः सतीव्रतम् ॥ १३.१७०९ ॥

कैकेयी सुमना नाम सुरलोकस्थितां पुरा ।
पप्रच्छ शाण्डिलीं दीप्ततेजःपुञ्जजितामराम् ॥ १३.१७१० ॥

सुभगे केन तपसा दानेन चरितेन वा ।
भासि दिव्यविमानेऽस्मिन्ममूर्तेवांशुमतः प्रभा ॥ १३.१७११ ॥

कुतूहलेनेति तया पृष्टा प्रोवाच शाण्डिली ।
नाहं व्रतैर्न संन्यासैर्न दानेन दिवं श्रिता ॥ १३.१७१२ ॥

पूजितः सततं भक्त्या मया दैवतवत्पतिः ।
न हि सन्तः प्रशंसन्ति तपः स्त्रीणामतः परम् ॥ १३.१७१३ ॥

निष्कुटे द्वारि हर्म्ये वा राजमार्गावलोकिनी ।
नाभवं प्रोषिते वापि पत्यौ व्रतविवर्जिता ॥ १३.१७१४ ॥

छायेवानपगा(नुगता) भर्तुः कोपे भीता हितैषिणी ।
भूत्वाहं त्रिदिवं प्राप्ता मनोवाक्कर्मभिः सती ॥ १३.१७१५ ॥

इत्युक्त्वा शाण्डिली प्रायात्ततो निषधमुन्नतम् ।
तस्मात्सतीव्रतादन्यन्नारीणां न परायणम् ॥ १३.१७१६ ॥
***** शाण्डिलीसुमनासंवादः ॥ १२९ ॥ *****
अधिकं प्रीयते किंस्वित्साम्ना दानेन वा जनः ।
पृष्टो युधिष्ठिरेणेति पुनर्देवव्रतोऽब्रवीत् ॥ १३.१७१७ ॥

पुरा वने द्विजः कश्चिद्गृहीतो रक्षसा बलात् ।
सर्वोपायविहीनत्वात्साम्ना मुक्तिमचिन्तयत् ॥ १३.१७१८ ॥

निशाचरस्तमवद्वञ्चनाय वधोद्यतः ।
पाण्डुरो दुर्बलश्चाहं केनैत्कथ्यतामिति ॥ १३.१७१९ ॥

विप्रस्तमूचे नूनं ते दूरीभूतः सुहृज्जनः ।
निःसहायेन चाप्ता श्रीस्त्वया तेनासि पाण्डुरः ॥ १३.१७२० ॥

आराध्यमानो यत्नेन ते व्यक्तमनिमित्ततः ।
विरक्तः स्वजनो यासि तेन वा परिशुष्यसि ॥ १३.१७२१ ॥

त्वत्तो हीनगुणानन्यान्व्यक्ते पश्यसि पूजितान् ।
ऐश्वर्यमानसुभगांस्तेन वा दुर्बलो भवान् ॥ १३.१७२२ ॥

व्यक्तं त्यागी दरिद्रोऽसि गुणैर्नूनं न पूज्यसे ।
प्राज्ञस्य ते