यस्मात्सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते ।
यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः ।
यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् ।
तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१।
यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभम् ।
नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् ।
व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् ।
तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥ १.२।
From Brahmapurana
Hori is the nickname of the Supreme Deity of Sanatan Dharma, his/her other popular names are Vishnu, Narayana and Govinda. People start auspices duties by taking his/her name.
Popular Chanting : Hori Om Tatsat