Judicial Dictionary
Names and works
सर्व्वेषां कोषाणामादि अग्निपुराणोक्ताभिधानं । तत्रादौ स्वर्गपातालादिवर्गः । ततोऽव्ययवर्गः । ततो नानार्थवर्गः । ततो भूपुराद्रिवनौषधिसिंहा-
दिवर्गाः । ततो नृब्रह्मक्षत्रविट्शूद्रवर्गाः । शेषे सामान्यानि नामलिङ्गानि सन्तीति मया दृष्टं । अमरसिंहस्तु उक्ताग्निपुराणीयाभिधानस्य कस्यचित्
कस्यचित् वर्गस्य व्यतिक्रमं कृत्वा तत्रोदित-सामान्य-नामलिङ्गानां विशेष्य-निघ्न-वर्गसङ्कीर्णवर्गाविति संज्ञां स्थापयित्वा अन्ते लिङ्गादिसंग्रहवर्गस्य योगं कृत्वा स्वीयकोषं रचितवान् । एवं जटाधरोऽपि अमरकोषस्यानुकरणं कृतवान् । इति विरलप्रचारः ॥
- अमरसिंहकृतं . . नामलिङ्गानुशासनं
- अजयपालकृतः . . नानार्थसंग्रहः
- गदसिंहकृता . . नानार्थध्वनिमञ्जरी
- चक्रपाणिदत्तकृता . . शब्दचन्द्रिका
- जटाधराचार्य्यकृतः . . पर्य्यायनानार्थकोषः
- दण्डाधिनाथकृता . . नानार्थरत्नमाला
- दुर्गादासविद्यावागीशकृता . धातुदीपिका
- धनञ्जयकविकृता . . नाममाला
- धरणिदासब्राह्मणकृतः . सारसंग्रहनामकानेकार्थसमुच्चयः
- बरसिंहकाश्मीरपण्डितकृतः . निर्घण्टुराजः अर्थात् राजनिर्घण्टः
- नारायणदासकविराजकृतः . राजवल्लभः
- पद्मनाभदत्तद्विजकृतः . भूरिप्रयोगः
- पुरुषोत्तमदेवकृतः . . एकाक्षरकोषः
- तत्कृतः . . द्विरूपकोषः
- पुरुषोत्तम देवकृतः . . त्रिकाण्डशेषः
- तत्कृता . . हारावली
- भावमिश्रकृतः . . भावप्रकाशः
- मथुरेशपण्डितकृता . . शब्दरत्नावली
- महेश्वरवैद्यकृतः . . विश्वप्रकाशः
- मेदिनीकरवैद्यकृतः . . नानार्थशब्दकोषः
- रामेश्वरशर्म्मकृता . . शब्दमाला
- रत्नमालाकरवैद्यकृता . आयर्वेदार्णवोत्थितपर्य्यायरत्नमाला
- वोपदेवविप्रकृतः . . कविकल्पद्रुमः
- श्रीनन्दनभट्टाचार्य्यकृतं . वर्णाभिधानं
- श्रीरामशर्म्मकृतः . . उणादिकोषः
- सिद्धान्तकौमुदीसंक्षिप्तसारकारकृते उणादिवृत्ती
- हलायुधभट्टकृता . . अभिधानरत्नमाला
- हेमचन्द्रजैनकृतः . . अभिधानचिन्तामणिः
Note: एतद्भिन्नानेकप्राचीनाभिधानानि सन्ति