गोपामनि – Gopamani
धर्ता दिवो विभाति तपसस्पृथिव्यामिति। धर्ता ह्येष दिवो विभाति तपसस्पृथिव्यां
धर्ता देवो देवानाममर्त्यस्तपोजा इति धर्ता ह्येष देवो देवानाममर्त्यस्तपोजा वाचमस्मे नियच्छ देवायुवमिति यज्ञो वै वाग्यज्ञमस्मभ्यं प्रयच्छ येन देवान्प्रीणामेत्येवैतदाह – १४.१.४.[८]
अपश्यं गोपामनिपद्यमानमिति। एष वै गोपा य एष तपत्येष हीदं सर्वं गोपायत्यथो न निपद्यते तस्मादाहापश्यं गोपामनिपद्यमानमिति – १४.१.४.[९]
आ च परा च पथिभिश्चरन्तमिति। आ च ह्येष परा च देवैः पथिभिश्चरति स सध्रीचीः स विषूचीर्वसान इति सध्रीचीश्च ह्येष विषूचीश्च दिशो वस्तेऽथो रश्मीनावरीवर्त्ति भुवनेष्वन्तरिति पुनः पुनर्ह्येष एषु लोकेषु वरीवर्त्यमानश्चरति – १४.१.४.[१०]
Read Next
विश्वासां भुवां पते। विश्वस्य मनसस्पते विश्वस्य वचसस्पते सर्वस्य वचसस्पत इत्येतस्य सर्वस्य पत इत्येतद्देवश्रुत्त्वं देव धर्म देवो देवान्पाहीति नात्र तिरोहितमिवास्ति – १४.१.४.[११]
अत्र प्रावीरनु वां देववीतय इति। अश्विनावेवैतदाहाश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहात्र प्रावीरनु वां देववीतय इति – १४.१.४.[१२]
मधु माध्वीभ्यां मधु माधूचीभ्यामिति। दध्यङ्ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगच्छति तस्मादाह मधु माध्वीभ्यां मधु माधूचीभ्यामिति – १४.१.४.[१३]
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा। ऊर्ध्वो अध्वरं दिवि देवेषु धेहीति नात्र तिरोहितमिवास्ति – १४.१.४.[१४]
Read Next
सूर्य=गोपामनि
शतपथब्राह्मणम्काण्डम् १४ अध्यायः१ ब्राह्मण ४