पूर्णाहुति – Purnahuti
पूर्णाहुतिं जुहोति। सर्वं वै पूर्णं सर्वेणैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य – १४.३.२.२
स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति। मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तन्मनसैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य – १४.३.२.३
पृथिव्यै स्वाहेति पृथिवी वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य – १४.३.२.४
अग्नये स्वाहेति अग्निर्वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य – १४.३.२.५
अन्तरिक्षाय स्वाहेति। अन्तरिक्षं वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य – १४.३.२.६
वायवे स्वाहेति। वायुर्वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य – १४.३.२.७
दिवे स्वाहेति। द्यौर्वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य – १४.३.२.८
सूर्याय स्वाहेति। सूर्यो वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य – १४.३.२.९
दिग्भ्यः स्वाहेति। दिशो वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य – १४.३.२.१०
चन्द्राय स्वाहेति। चन्द्रो वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य – १४.३.२.११
नक्षत्रेभ्यः स्वाहेति। नक्षत्राणि वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य – १४.३.२.१२
अद्भ्यः स्वाहेति। आपो वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य – १४.३.२.१३
वरुणाय स्वाहेति। वरुणो वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भ्भिषज्ज्यति यत्किञ्च विवृढं यज्ञस्य – १४.३.२.१४
नाभ्यै स्वाहा पूताय स्वाहेति। अनिरुक्तमनिरुक्तो वै प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं भिषज्यति – १४.३.२.१५
त्रयोदशैता आहुतयो भवन्ति। त्रयोदश वै मासाः सम्वत्सरस्य सम्वत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं भिषज्यति – १४.३.२.१६
वाचे स्वाहेति। मुखमेवास्मिन्नेतद्दधाति प्राणाय स्वाहा प्राणाय स्वाहेति नासिके एवास्मिन्नेतद्दधाति चक्षुषे स्वाहा चक्षुषे स्वाहेत्यक्षिणी एवास्मिन्नेतद्दधाति श्रोत्राय स्वाहा श्रोत्राय स्वाहेति कर्णावेवास्मिन्नेतद्दधाति – १४.३.२.१७
शतपथब्राह्मणम्काण्डम्- १४