भगवन्मानसपूजा – Manaspuja
Home » Law Library Updates » Law Library » Sanskrit Documents » भगवन्मानसपूजा – Manaspuja
श्रीः कृष्णः मानसपूजा
Mental Devotion of Lord Krishna
।।श्रीः।।
हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान्।
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः।।1।।
पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगव न्मणिव्रातभ्राजत्कनकवरपीठं भज हरे।
सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलै र्गृहाणेदं दूर्वाफलजलवदर्ध्यं मुररिपो।।2।।
Read Next
त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं भजस्वेमं पञ्चामृतफलरसाप्लावमघहन्।
द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम्।।3।।
तटिद्वर्णे वस्त्रं भज विजयकान्ताधिहरण प्रलम्बारिभ्रातर्मृदुलमुवीतं कुरु गले।
ललाटे पाटीरं मृगमदयुतं धारय हरे गृहाणेदं माल्यं शतदलतुलस्यादिरचितम्।।4।।
दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं मुखं दीपेनेन्दुप्रभविरजसं देव कलये।
इमौ पाणी वाणीपतिनुत सकर्पूररजसा विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे।।5।।
सदा तृप्तान्नं षड्रसवदखिलव्यञ्जनयुतं सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम्।
यशोदासूनो तत्परमदययाशान सखिभिः प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो।।6।।
Read Next
सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम्।
सपर्यापर्याह्यै कनकमणिजातं स्थितमिदं प्रदीपैरारार्ति जलधितनयाश्लिष्ट रचये।।7।।
विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी युतैश्चैमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे।
तव प्रादक्षिण्यक्त्रमणमघविध्वंसि रचितं चतुर्वारं विष्णो जनिपथगतेश्चान्तविदुषा।।8।।
नमस्कारोऽष्टाङ्गः सकलदुरितध्वंसनपटुः कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त त इयम्।
तव प्रीत्यै भूयादहमपि च दासस्तव विभो कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन्।।9।।
Read Next
सदा सेव्यः कृष्णः सजलघननीलः करतले दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम्।
कदाचित्कान्तानां कुचकलशपत्रालिरचना समासक्तः स्निग्धैः सह शिशुविहारं विरचयन्।।10।।
Author : Unknown