सप्त द्वीपा पृथिबी -Sapta Dvipa Prithibi
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Sarvarthapedia Vedic Dictionary » सप्त द्वीपा पृथिबी -Sapta Dvipa Prithibi
जम्बुद्वीपः प्रधानोऽयं प्लक्षः शाल्मलिरेव च ।
कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः ।।
एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः ।
द्वीपाद् द्वीपो महानुक्तः सागरादपि सागरः ।।
क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदकः ।
दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः ।।
पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता ।
द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः ।।
Tags: HINDU CIVILIZATION