RigvedaRigveda Mandala: 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. Rigveda: A Historical Analysis by Shrikant G. Talageri (2000) Rigveda is at least ninety thousand years old, perhaps more: OSHO वेदपारायणविधिः-The method of reciting the Vedas List of the Vedic Rishis ऋग्वेद भाष्यम् – Rig Veda Bhashyam by Sayanacharya Core Hindutva Philosophy in Rig Veda
प्रजापति ४.५३.२/३.८.४.२ दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं॑ द्रा॒पिं प्रति॑ मुञ्चते क॒विः । वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्य॑म् ॥
प्रजापति ९.५.९/६.७.२५.४ त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे । इन्दु॒रिन्द्रो॒ वृषा॒ हरि॒: पव॑मानः प्र॒जाप॑तिः ॥
प्रजापति १०.८५.४३/८.३.२८.३ आ न॑: प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा । अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥
प्रजापति १०.१६९.४/८.८.२७.४ प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभि॑: संविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥
प्रजापति १०.१८४.१/८.८.४२.१ विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु । आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ॥
Samaveda
मयि वर्चो अथो यशो अथो यज्ञस्य यत्पयः । परमेष्ठी प्रजापतिर्दिवि द्याम् इव दृंहतु ॥ ६०२ (sama-602)