ऋग्वेदः – मण्डल १० [सूक्तं १०.१९०- १०.१९१]
Part -1
ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ।
ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥१॥
समुद्रादर्णवादधि संवत्सरो अजायत ।
अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥२॥
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥३॥
‘ऋतम्’ इति तृचमेकोनचत्वारिंशं सूक्तं मधुच्छन्दसः पुत्रस्याघमर्षणस्यार्षमानुष्टुभम् । रात्र्यादीनां भावानां सृष्ट्यादिप्रतिपादकत्वात्तादृग्रूप एवार्थो देवता । तथा चानुक्रान्तम्—-ऋतं माधुच्छन्दसोऽघमर्षणो भाववृत्तमानुष्टुभं तु’ इति । लिङ्गाद्विनियोगोऽवगन्तव्यः ॥
ऋ॒तम् । च॒ । स॒त्यम् । च॒ । अ॒भी॑द्धात् । तप॑सः । अधि॑ । अ॒जा॒य॒त॒ ।
ततः॑ । रात्री॑ । अ॒जा॒य॒त॒ । ततः॑ । स॒मु॒द्रः । अ॒र्ण॒वः ॥१
ऋतमिति सत्यनाम । ऋतं मानसं यथार्थसंकल्पनं सत्यं वाचिकं यथार्थभाषणम् । चकाराभ्यामन्यदपि शास्त्रीयं धर्मजातं समुच्चीयते । तत्सर्वमभीद्धादभितप्ताद्ब्रह्मणा पुरा सृष्ट्यर्थं कृतात्तपसोऽधि । अध्युपर्यर्थे । उपर्यजायत । उदपद्यत । ‘ तपस्तप्त्वेदं सर्वमसृजत ‘ (तै. आ. ८. ६ ) इति श्रुतेः । तपश्चात्र स्रष्टव्यपर्यालोचनलक्षणम् ।’ यस्य ज्ञानमयं तपः’ ( मु. उ. १, १. ९) इति श्रुत्यन्तरात् ॥ अभिपूर्वदिन्धेः कर्मणि निष्ठा । ‘ श्वीदितो निष्ठायाम् ‘ ( पा. सू. ७. २. १४ ) इतीट्प्रतिषेधः। ‘ गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । ‘स्वरितो वानुदात्ते पदादौ ‘ इत्येकादेशः स्वर्यते ॥ यद्वा । अभीद्धादभितः प्रकाशमानात् परमात्मनो मायाधिष्ठानरूपादुपादानभूतादृतं सत्यं चाजायत । ‘जनिकर्तुः प्रकृतिः’ ( पा. सू. १. ४. ३०) इति प्रकृतेरपादानसंज्ञा ॥ ततस्तस्मादेवेश्वराद्रात्री । उपलक्षणमेतदह्रोऽपि । अहश्च रात्रिश्चाजायत ॥ ‘ रात्रेश्चाजसौ ‘ (पा. सू. ४. १. ३१) इति ङीप् । ततस्तस्मादेवेश्वरादर्णवोऽर्णसोदकेन युक्तः समुद्रश्चाजायत । समुद्रशब्दोऽन्तरिक्षोदध्योः साधारण इत्यभिमतार्थस्य प्रकाशनायार्णवशब्देन विशेष्यते । ‘ अर्णसः सलोपश्च'( का. ५. २. १०९. ३ ) इति मत्वर्थीयो वप्रत्ययः सलोपश्च ॥
समुद्रात् । अर्णवात् । अधि । संवत्सरः । अजायत ।
अहोरात्राणि । विऽदधत् । विश्वस्य । मिषतः । वशी ॥२
अर्णवात्समुद्रात्सृष्टादध्यूर्ध्वं संवत्सरः संवत्सरोपलक्षितः सर्वः कालोऽजायत । श्रूयते हि — ‘ सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि कला मुहूर्ताः काष्ठाश्च ‘ (तै. आ. १०. १. २) इति । स चेश्वरोऽहोरात्राण्येतदुपलक्षितानि सर्वाणि भूतजातानि विदधत् कुर्वन् सृजन् ॥ ‘ अभ्यस्तानामादिः । इत्याद्युदात्तत्वम् । ततः समासे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ मिषतो निमिषादियुक्तस्य विश्वस्य सर्वस्य प्राणिजातस्य वशी स्वामी भूत्वा वर्तते ॥
सूर्याचन्द्रमसौ । धाता । यथापूर्वम् । अकल्पयत् ।
दिवम् । च । पृथिवीम् । च । अन्तरिक्षम् । अथो । स्वः ॥३
सूर्याचन्द्रमसौ कालस्य ध्वजभूतौ दिवं च पृथिवीं चान्तरिक्षं च इत्थं त्रिभुवनं स्वः । स्वःशब्दः सुखवाची । दिवो विशेषणम् । सुखरूपां दिवम् । तदेतत्सर्वं धाता विधाता यथापूर्वं पूर्वस्मिन् कल्पे अकल्पयत् सृष्टवान् तथैवागामिन्यपि कल्पे कल्पयिष्यतीत्यर्थः ॥ ॥ ४८ । [सायणभाष्यम्]
Part -2
संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ ।
इळस्पदे समिध्यसे स नो वसून्या भर ॥१॥
सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे संजानाना उपासते ॥२॥
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥३॥
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ॥४॥
‘ संसम्’ इति चतुर्ऋचं चत्वारिंशं सूक्तं संवननस्यार्षम् । ‘ समानो मन्त्रः’ इति तृतीया त्रिष्टुप् शिष्टास्तिस्रोऽनुष्टुभः । प्रथमाया अग्निर्देवता । शिष्टानां संज्ञानम् । अनुक्रम्यते —– संसं चतुष्कं संवननः संज्ञानमाद्याग्नेयी तृतीया त्रिष्टुप् तृतीया त्रिष्टुप् ‘ इति । ‘आनुष्टुभं तु ‘ इति पूर्वमुक्तत्वादवशिष्टानामनुष्टुप्त्वम् । सूक्तविनियोगो लैङ्गिकः ॥
सम्ऽस॑म् । इत् । यु॒व॒से॒ । वृ॒ष॒न् । अग्ने॑ । विश्वा॑नि । अ॒र्यः । आ ।
इ॒ळः । प॒दे । सम् । इ॒ध्य॒से॒ । सः । नः॒ । वसू॑नि । आ । भ॒र॒ ॥१
हे वृषन् कामानां वर्षितः अग्ने “अर्यः ईश्वरस्त्वम् ।’ अर्यः स्वामिवैश्ययोः’ (पा. सू. ३. १. १०३) इति यत्प्रत्ययान्तो निपातितः । ‘ अर्यः स्वाम्याख्यायाम् ‘ ( फि. सू. १. १८) इत्यन्तोदात्तत्वम् । स त्वं “विश्वानि सर्वाणि भूतजातानि “संसम् । ‘प्रसमुपोदः पादपूरणे’ (पा. सू. ८. १. ६) इति समो द्विर्वचनम् । इच्छब्दोऽवधारणे । “आ समन्तात् सं “युवसे मिश्रयसि । देवेषु मध्ये त्वमेव सर्वाणि भूतजातानि वैश्वानरात्मना व्याप्नोषि। नान्य इत्यर्थः । किंच “इळः इडायाः पृथिव्याः “पदे स्थाने उत्तरवेदिलक्षणे । एतद्वा इळायास्पदं यदुत्तरवेदीनाभिः ‘ ( ऐ. ब्रा. १.२८) इति ब्राह्मणम् । तत्र त्वं “समिध्यसे ऋत्विग्भिः संदीप्यसे । “सः तादृशस्त्वं “नः अस्माकं “वसूनि धनानि “आ “भर आहर ॥
सम् । ग॒च्छ॒ध्व॒म् । सम् । व॒द॒ध्व॒म् । सम् । वः॒ । मनां॑सि । जा॒न॒ता॒म् ।
दे॒वाः । भा॒गम् । यथा॑ । पूर्वे॑ । स॒म्ऽजा॒ना॒नाः । उ॒प॒ऽआस॑ते ॥२
हे स्तोतारः यूयं “सं “गच्छध्वम् । संगताः संभूता भवत” ॥ ‘समो गम्यृच्छि” इत्यादिना गमेरात्मनेपदम् ॥ तथा “सं “वदध्वं सह वदत । परस्परं विरोधं परित्यज्यैकविधमेव वाक्यं ब्रूतेति यावत् । ‘ व्यक्तवाचां समुच्चारणे ‘ ( पा. सू. १. ३. ४८) इति वदेरात्मनेपदम्। “वः युष्माकं “मनांसि “सं “जानताम् । समानमेकरूपमेवार्थमवगच्छन्तु ॥ ‘ संप्रतिभ्यामनाध्याने ‘ (पा. सू. १. ३. ४६ ) इति जानातेरात्मनेपदम् ॥ “यथा “पूर्वे पुरातनाः “देवाः “संजानानाः ऐकमत्यं प्राप्ता हविर्भागम् “उपासते यथास्वं स्वीकुर्वन्ति तथा यूयमपि वैमत्यं परित्यज्य धनं स्वीकुरुतेति शेषः ॥
स॒मा॒नः । मन्त्रः॑ । सम्ऽइ॑तिः । स॒मा॒नी । स॒मा॒नम् । मनः॑ । स॒ह । चि॒त्तम् । ए॒षा॒म् ।
स॒मा॒नम् । मन्त्र॑म् । अ॒भि । म॒न्त्र॒ये॒ । वः॒ । स॒मा॒नेन॑ । वः॒ । ह॒विषा॑ । जु॒हो॒मि॒ ॥३
पूर्वोऽर्धर्चः परोक्षकृतः उत्तरः प्रत्यक्षकृतः । “एषाम् एकस्मिन् कर्मणि सह प्रवृत्तानामृत्विजां स्तोतॄणां वा “मन्त्रः स्तुतिः शस्त्राद्यात्मका गुप्तभाषणं वा “समानः एकविधोऽस्तु । तथा “समितिः प्राप्तिरपि “समानी एकरूपास्तु ॥ ‘ केवलमामक° इत्यादिना समानशब्दात् ङीप् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । तथा “मनः मननसाधनमन्तःकरणं चैषां “समानम् एकविधमप्यस्तु । “चित्तं विचारजं ज्ञानं तथा “सह सहितं परस्परस्यैकार्थेनैकीभूतमस्तु । अहं च “वः युष्माकं “समानम् एकविधं “मन्त्रम् “अभि “मन्त्रये । ऐकविध्याय संस्करोमि । तथा “वः युष्माकं स्वभूतेन “समानेन साधारणेन “हविषा चरुपुरोडाशादिना अहं “जुहोमि ॥ तृतीया च होश्छन्दसि’ (पा. सू. २. ३. ३) इति कर्मणि कारके तृतीया ॥ वषट्कारेण हविः प्रक्षेपयामीत्यर्थः ॥
स॒मा॒नी । वः॒ । आऽकू॑तिः । स॒मा॒ना । हृद॑यानि । वः॒ ।
स॒मा॒नम् । अ॒स्तु॒ । वः॒ । मनः॑ । यथा॑ । वः॒ । सुऽस॑ह । अस॑ति ॥४
हे ऋत्विग्यजमानाः “वः युष्माकम् “आकूतिः संकल्पोऽध्यवसायः “समानी एकविधोऽस्तु । तथा “वः युष्माकं “हृदयानि “समाना समानान्येकविधानि सन्तु । तथा “वः युष्माकं “मनः अन्तःकरणम् । प्रत्येकापेक्षयैकवचनम् । तदपि “समानमस्तु । “यथा “वः युष्माकं “सुसह शोभनं साहित्यम् “असति भवति तथा समानमस्त्वित्यन्वयः ॥ अस्तेर्लटि ‘बहुलं छन्दसि’ इति शपो लुगभावः ॥ ॥ ४९ ।। [सायणभाष्यम्]
You must be logged in to post a comment.