Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
    • Supreme Court Case Notes
    • Daily Digest
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
    • Systemic-and-systematic
    • Volume One
05/04/2026
  • Sanskrit Documents

Who is Agni (अग्नि) Devata?

advtanmoy 25/08/2019 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram

अग्निशब्दो (Agni) हि अकारगकारनिशब्दानपेक्षमाणः एतिधातोरुत्पन्नात् अयनशब्दात् अकारमादत्ते । अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते ।

यद्वा । दहतिधातुजन्यात् दग्धशब्दात् गकारमादत्ते । नीः इति नयति धातुः । स च ह्रस्वो भूत्वा परो भवति । ततो धातुत्रयं मिलित्वा अग्निशब्दो भवति ।

तस्य अग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिप्रदर्शनायैषा • अग्निमीळे इति ऋक् भवतीति । तामेतां ऋचं यास्क एवं व्याख्यातवान्—- अग्निमीळेऽग्निं याचामीळिरध्येषणाकर्मा पूजाकर्मा वा पुरोहितो व्याख्यातो यज्ञस्य देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा यो देवः सा देवता होतारं ह्वातारं जुहोतेर्होतेत्यौर्णवाभो रत्नधातमं रमणीयानां धनानां दातृतमम् । (निरु. ७. १५) इति ।

Read Next

  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1
  • Yajnavalkya Shiksha (याज्ञवल्क्य शिक्षा)
  • Batul Nath Sutrani (वातुलनाथ-सूत्राणि): Complete Explanation by Tanmoy Bhattacharyya

 

अग्नि पु० अङ्गति ऊर्द्ध्वं गच्छति अगि–नि नलोपः । अग्नौ

स्वनामप्रसिद्धे तेजोभेदे, तेजसि आकाशाद्वायुर्वायो-
रग्निरग्नेरापोद्भ्यः पृथिवी, इति” श्रुतिः । तत्र
तेजःपदार्थस्तावद्द्विविधः सूक्ष्मः स्थूलश्च । सूक्ष्म-
वायुसंभूतः सूक्ष्मवायुसंभूतः सूक्ष्मः पञ्चीकृतस्तु
स्थूलः “तासां त्रिवृतं त्रिवृतमेकैकां करोतीति”
श्रुतौ त्रिवृत्करणस्य पञ्चीकरणस्याप्युलक्षणत्वम् ।
पञ्चीकरणप्रकारश्च पञ्चीकरणशब्दे वक्ष्यते । तथा
च भूतान्तराष्टमभागमिश्रितेन स्वस्वार्द्धभागेन उत्पन्नः
पञ्चीकृतः । तस्य च पञ्चात्मकत्वेऽपि “वैशेष्यात्तद्वाद
इति” शारीरकोक्तेः भूयस्त्वात् तैजसत्वव्यवहारः ।
सोऽयं स्थूलो वह्निः प्रकारान्तरेण त्रिविधः भौमः

दिव्यः जाठरश्चेति भेदात् । तत्र पार्थिवकाष्ठादि
प्रभवः भौमः महानसाद्यग्निः, जलवाय्वादिभवः दिव्यः
विद्युदुल्कावज्रादिः । उभावपि ऊर्द्ध्वज्वलनस्वभावः । उदरे
भवस्तृतीयः । त्रयोऽप्यमी स्वसंयुक्तपाकदाहप्रकाशन
समर्थाः । सर्व्वेऽप्यमी लोके शास्त्रे च वह्न्यादिशब्देन
व्यवह्नियन्ते तेषां विशेषगुणाः शब्दस्पर्शरूपाणि “योयो-
यावतिथश्चैषां स स तावद्गुणः स्मृतः” इति मनुना
भूतमध्ये तृतीयस्य तेजसः त्रिगुणत्वमुक्तं व्यक्तमुक्तं
महाभारते शब्दः स्पर्शश्च रूपञ्च तेजसोऽथ गुणास्त्रय-
इति “अत एव “वह्नौ भृगभुगध्वनिरिति” पञ्चदश्यामुक्तम्
वह्नेश्च तेजोजलभूम्यात्मकत्वेन लोहितशुक्लरूपत्वम् अत
एव छान्दोग्ये त्रिवृत्करणानन्तरम् वह्नेस्त्रिरूपत्वमुक्तं
यथा “यदग्नेः रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं
तदपां, यत् कृष्ण तदन्नस्येति” विवृतञ्चैतद्भाष्यकृता “यत्त-
द्देवतानां त्रिवृत्करणमुक्तं तस्यैवोदाहरणमुच्यते ।
उदाहरणं नामैकदेशप्रसिद्ध्याशेषप्रसिद्ध्यर्थमुदाह्रियत इति ।
तदेतदाह यदग्नेः त्रिवृत्कृतस्य रोहितं रूपं प्रसिद्धं लोके
तदत्रिवृत्कृतस्य तेजसो रूपमिति विद्धि । तथा यच्छुक्लं
रूपमग्नेः तदपामत्रिवृत्कृतानामेव यत् कृष्णं तस्यैवाग्नेः
रूपं तदन्नस्य पृथिव्या अत्रिवृत्कृताया इति विद्धीति” ।
अत एव तत्तच्छास्त्रकाव्यादिषु वह्नेररुणरूपतया वर्णनं
दृश्यते । अग्निमूर्त्तिध्याने च अरुणरूपत्वमनुपदं दर्शयि-
ष्यते । लोके चारुणत्वेनैव प्रत्यक्षेणासावुपलभ्यते एवञ्च
नैयायिकोक्तं तेजसः शुक्लभास्वररूपत्वं प्रत्यक्षवेदविरुद्धत्वा-
दुपेक्ष्यमेव । तत्र भौमदिव्ययोः प्रायशोलोकसिद्धत्वेन दिव्य-
स्याग्रे दिव्यशब्दे वक्ष्यमाणत्वाच्च जाठरे वह्नौ विशेषो-
ऽभिधीयते । “नाभेरुर्द्धं हृदयादधस्तादामाशयमाचक्षते
तद्गतं सौरं तेजः पित्तमित्याचक्षते” इति भाष्यविवरणे
आनन्दगिरिः वैद्यकवचनत्वेनोवाच । अत एव तस्य कौक्षेय
इति संज्ञा । छान्दोग्ये च “य हृदयस्य नाड्यस्ताः
पिङ्गलाश्चाणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्ये
त्यसौ वा आदित्यः पिङ्गलः एष शुक्ल एष नील एष पीत
एष लोहित इति” । व्याख्यातञ्चैतत् भाष्यकृता ।
“अथ या एता वक्ष्यमाणा हृदयस्य पुण्डरीकाकारस्य ब्रह्मो-
पासनस्थानस्य सम्बन्धिन्यो नाड्यो हृदयमांसपिण्डात्सर्वतो
विनिःसृता आदित्यमण्डलादिरश्मयस्ताश्चैताः पिङ्गलस्य
वर्णविशेषविशिष्टस्याणिम्नः सूक्ष्मरसस्य रसेन पूर्णास्तदाकारा
एव तिष्ठन्ति वर्त्तन्त इत्यर्थः । तथा शुक्लस्य नीलस्य पीतस्य
लोहितस्य च रसस्य पूर्णा इति सर्वत्राध्याहार्य्यम् ।
सैरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेनाल्पेन
सम्पर्कापिङ्गलं भवति, सौरं तेजः पित्ताख्यम् । तदेव
वातभूयस्त्वान्नीलं भवति । तदेव च कफभूयस्त्वाच्छुक्लं,
कफेन समतायां पित्तम्, शोणितबाहुल्येन लोहितम् ।
वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः । कथं भवतीति? श्रुति-
स्त्वाहादित्यसम्बन्धादेव, तत्तेजसो नाड़ीष्वनुगतस्यैते वर्ण
विशेषा” इति । कथमसौ वाऽदित्यः पिङ्गलो”? वर्णत एष
आदित्यः शुक्लोऽप्येष नील एष पीत एष लोहित आदित्य
एव, तस्य चान्नरसस्य धात्वन्तरसम्पर्कवशात् वर्णविशेष”
इत्यानन्दगिरिः । अस्यैवजाठरस्य पिपासाहेतुत्वं छान्दोग्ये
उक्तं यथा “अथ यत्रैतत् पुरुषः पिपासति नाम तेज
एवैतत् पीतं नयते इति” । व्याख्यातञ्च भाष्यकृता द्रवकृतस्या-
शितस्यान्नस्य नेत्र्यः आपोऽन्नशुङ्गं देहं क्लेदयन्त्यः शिथि-
लीकुर्य्युः अब्बाहुल्यात्, यदि तेजसा न शोष्येत ।
नितराञ्च तेजसा शोष्यमाणास्वप्सु देहभावेन परिणममानासु-
पातुमिच्छा पिपासा पुरुषस्य जायते तदा “पुरुषः पिपा-
सति नाम, तदेतदाह “तेज एव तत्तदा पीतमबादि
शोषयत् देहलोहितादिभावेन नयते परिणमयतीति” । तस्य
रसपाकप्रकारमाह योगार्ण्णवे । “आयुष्यं भुक्तमाहारं
स वायुः कुरुते द्विधा संप्रविश्यान्नमध्यन्तु, पृथक् किट्टं
पृथग् जलम् (किट्टम् अन्नमलभेदम्) । अग्नेरूर्द्ध्वं
च संस्थाप्य तदन्नं च जलोपरि । जलस्याधः स्वयं प्राणः
स्थित्वाग्निं धमते शनैः (धमते संधुक्षयति) वायुना
ध्मायमानोऽग्निरत्युष्णं कुरुते जलम् । अन्नं तदुष्णतोयेन
समन्तात् पच्यते पुनः । द्विधा भवति तत् पक्वं पृथक् किट्टं
पृथग् रसम् । रसेन तेन ता नाडीः प्राणः पूरयते पुनः ।
प्रत्यर्पयन्ति सम्पूर्ण्णारसानि ताः समन्तत इति” । एवं
रसपाकोत्तरं धातुपाकोऽभिहितः पदार्थादर्शे । यथा “त्वग-
सृग्मासमेदोऽस्थिमज्जशुक्राणि धातवः । सप्त स्युस्तत्र
चोक्ता त्वक् रक्तजोदरवह्निना । पक्काद्भवेदन्नरसादेवं रक्ता-
दिभिस्तथा । स्वस्वकोशाग्निना पाकात् प्रजायन्ते त्वगा-
दय इति” । एतम्मूलमेव “तस्य षोढा शरीराणि षट् त्वचो
धारयन्ति चेति” याज्ञवल्क्यवचनव्याख्यायां मिताक्षराकृता
स्पष्टमुक्तम् यथा तस्यात्मनोयानि जरायुजाण्डजादीनि
शरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातुपरि-
पाकहेतुभूतषडग्निस्थानयोगित्वेन ।

Read Next

  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1
  • Yajnavalkya Shiksha (याज्ञवल्क्य शिक्षा)
  • Batul Nath Sutrani (वातुलनाथ-सूत्राणि): Complete Explanation by Tanmoy Bhattacharyya

तथाहि अन्नरसोजाठरवह्निना पच्यमानी रक्ततां प्रतिपद्यते, रक्तः स्वकोश
स्थाग्निना पच्यमानं मांसत्वम्, मांसञ्च स्वकोशस्थानलपरि-
पक्कं मेदस्त्वम्, मेदोऽपि स्वकोशवह्निना पक्कमस्थिताम्,
अस्थ्यापि स्वकोशशिखिपरिपक्कं मज्जत्वम्, मज्जापि
स्वकोशपावकपरिपच्यमानं चरमधातुतया परिणमते इति”
जाठरस्य प्रकारान्तरेण पाचनादिदशविधकर्म्मकारित्वात्
दशविधत्वमुक्तं पदार्थादर्शे यथा “भ्राजकोरञ्जकश्चैव क्लेदकः
स्नेहकस्तथा धारको बन्धकस्यैव द्रावकाख्यश्च सप्तमः ।
व्यापकः पाचकश्चैव श्लेष्मको दशधा मत इति” ।
वैद्यकेचास्य चतुर्विधकार्य्यविशेषकारित्वाच्चातुर्विध्यमुक्तम् ।
विषमश्च समस्तीक्ष्णो मन्दश्चेति चतुर्विधः । कफपित्तान
लाधिक्यात् तत्साम्याज्जाठरोऽनलः । विषमो वातजान्
रोगान्, तीक्ष्णः पित्तसमुद्भवान्, करोत्यग्निस्तथामग्दो
विकारान् कफसम्भवान् । समाः समोऽग्निरशितमात्राः
सम्यक् पचत्यसौ” इति ॥ अग्नेरतितीक्ष्णत्वे भस्मकसंज्ञा
स हि सम्यगाहाराभावे शोणितादिधातूनपि पाचयित्वा
आशु देहं नाशयतीति रक्षितः आहस्म । अघिकं कायशब्दे
वक्ष्यते । वाह्यस्य भौमस्याग्नेः कर्म्मविशेषे नामान्युक्तानि
विधानपारिजाते । यथा
“लौकिके पावकोह्यग्निः प्रथमः परिकीर्त्तितः । अग्निस्तु-
मारुतो नाम गर्भाधाने प्रकीर्त्तितः ॥ पुंसवे चमसो नाम
शोभनः शुभकर्म्मसु । (शुङ्गकर्म्मणीति रघु०) । तच्च सीमन्ता-
न्तर्गतकर्म्मभेदः । सीमन्ते ह्यनलो नाम प्रगल्मो
जातकर्म्मणि ॥ पार्थिवो नामकरणे प्राशनेऽन्नस्य वै शुचिः ।
सभ्यनामा तु चूड़ायां ब्रतादेशे समुद्भवः ॥ गोदाने सूर्य्य-
नामा स्यात् केशान्ते याजकः स्मृतः । वैश्वानरो विसर्गे
स्याद्विवाहे वलदः स्मृतः ॥ चतुर्थीकर्म्मणि शिखी
धृतिरग्निस्तथाऽपरे । (अपरे कर्म्मणि) आवसथ्यस्तथा-
धाने वैश्वदेवे तु पावकः । ब्रह्माग्निर्गाहपत्ये स्याद्दक्षिणा-
ग्निरथेश्वरः । विष्णुराहवनीये स्यादग्निहोत्रे त्रयोमताः
लक्षहोमेऽभीष्टदः स्यात् कोटिहोमे महाशनः । एके घृता-
र्चिषां प्राहुरग्निध्यानपरायणाः ॥ रुद्रादौ तु मृड़ो नाम
शान्तिके शुभकृत्तथा । आदिशब्दात् लघुरुद्रशतरुद्रातिरुद्रा-
लक्ष्यन्ते । (पूर्णाहुत्यां मृड़ो नामेति रघु०) । पौष्टिके
वरदश्चैव क्रोधाग्निश्चाभिचारके । वश्यार्थे वशकृत् प्रोक्तो
वनदाहे तु पोषकः । उदरे जठरी नाम क्रव्यादः शवभक्षणे ।
समुद्रे वाडवो ह्यग्निर्लये संवर्त्तकस्तथा ॥ सप्तविंशति-
सख्याता अग्नयः कर्मसु स्मृताः । तं तमाहूय होतव्यं
यो यत्र विहितोऽनलः ॥ अन्यथा विफलं कर्म सर्व्वं तद्राक्ष-
सम्भवेत् । आदित्यादिग्रहाणां च साम्प्रतं ह्यग्निरुच्यते ॥
आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते । धूमकेतु
स्तथा भौमे जठरोऽग्निर्बुधे स्मृतः ॥ वृहम्पतौ शिखी नाम
शुक्रे भवति हाटकः । शनैश्चरे महातेजा राहौ केतौ हुता-
शनः इति ॥” यज्ञादौ तु पञ्च भेदाः “आवसथ्याहवनीयौ
दक्षिणाग्निस्तथैव च । अन्वाहार्य्यो गार्हपत्य इत्येते पञ्च
वह्नयः” इति शा० राघ० । “पञ्चाग्नयो ये च त्रिणाचि-
केता” इति श्रुतिः । अग्नेर्ध्येयरूपं यथा “रुद्रतेजःसमुद्भूतं
द्विमूर्द्धानं द्विनासिकम् । षण्नेत्रं च चतुःश्रोत्रं त्रिपादं सप्त-
हस्तकम् । याम्यभागे चतुर्ह्रस्तं सव्यभागे त्रिहस्तकम् ।
स्रुवं स्रुचञ्च शक्तिं च अक्षमालां च दक्षिणे । तोमरं
व्यजनं चैव घृतपात्रन्तु वामके । बिभ्रतं सप्तभिर्हस्तैर्द्विमुखं
सप्तजिह्वकम् । दक्षिणञ्च चतुर्जिह्वं त्रिजिह्वमुत्तरं मुखम् ।
द्वदशकोटिमूर्त्त्याख्यं द्विपञ्चाशत्कलायुतम् । स्वाहास्वधा-
वषट्कारैरङ्कितं मेषवाहनम् । रक्तमाल्याम्बरधरं रक्तं
पद्मासनस्थितम् ॥ रौद्रं तु वह्निनामानं वह्निमावाह-
याम्यहम्” । इति रुद्रकल्पः । अग्नेर्भौतिकत्वेऽपि कर्म्मा-
ङ्गहोमसाधनतया एवं ध्यातव्यता ।

अग्न्यभिमानिनि चेतनाधिष्ठिते शरीरादावशि उपचारात्
अग्निशब्दप्रयोगः । अग्न्यधिष्ठातरि देवभेदे “अग्निं दूतं
वृणीमहे होतारं विश्ववेदस” मित्यादौ वेदे तस्यैव आह्वान-
पूर्वकोपास्यत्वमुक्तम् । तदधिष्ठितदेहभेदेऽपि, स एव विश्व-
नराज्जन्मासाद्य अग्निलोकाधिपत्यं चकारेति काशीखण्डे
उक्तं तत्कथा वैश्वानरशब्दे वक्ष्यते । अग्निदेवताके कृत्ति-
कानक्षत्रे “अश्वियमदहने” त्यादिना ज्योतिषे कृत्तिका-
नक्षत्रस्य तत्स्वामिकत्वोक्तेः तद्देवताके प्रतिपत्तिथौ वह्ने-
स्तदाधिपत्यं तिथिशब्दे वक्ष्यते । तस्य बहुत्वेऽपि
वेदत्रयभेदेन दक्षिणाग्निगार्हपत्याहवनीयनामतया प्राधान्येन
त्रित्वात् “प्रधानेन व्यपदेशा भवन्तीति” न्यायात्
तत्संख्यासदृशसंख्याके त्रित्वसंख्यान्विते, स्वोदयात् स्वाग्नि-
लब्धं (३०) “यद्भुक्तं भोग्यं रवेस्त्यजेदिति” नीलकण्ठः ।
चित्रकवृक्षे (चिते) स्वर्ण्णे तस्य तत्तेजोजातत्वात्तथा तत्
कथा अग्निरेतःशब्दे वक्ष्यते भल्लातकवृक्षे (भेला) निम्बुक
वृक्षे (नेवु) पित्ते धातौ तस्य तदुत्पन्नत्वात्तथा यथा च
तस्य तदुत्पन्नत्वं तथोक्तं प्राक् । तत्स्वामिके अग्निकोणे
च । एवमग्निवाचकाः सर्वेऽपि शब्दाः कृत्तिकानक्षत्रादौ
वर्त्तन्ते । वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे
भयमिति तिथित० । “हुताशे अग्निकोणे” अनलविधुशता ख्येति” ज्योतिषम् । (अनलः कृत्तिका) एवं यथायथमुदाहार्य्यम् ।

अग्न्यभिमानिनश्च देवाः कुत उत्पन्नाः? कस्मिन् कस्मिन् ।
कर्म्मणि? वा तेषामधिष्ठातृत्वं तदुक्तं भारते ।
अङ्गिराउवाच कुरु पुण्यं प्रजासर्गं भवाग्निस्तिमिरापहः । माञ्च
देव! कृरुष्वाग्ने! प्रथमं पुत्त्रमञ्जसा ॥ तच्छ्रुत्वाऽङ्गिरसो वाक्यं
जातवेदास्तदाऽकरोत् । राजन्! । वृहस्पतिर्नाम तस्याप्यङ्गि-
रसः सुतः । ज्ञात्वा प्रथमजं तन्तु वह्नेराङ्गिरसं सुतम् ।
उपेत्य देवा पप्रच्छुः कारणं तत्र भारत । स तु पृष्ट-
स्तदा देवैस्ततः कारणमब्रवीत् । प्रत्यगृह्णंस्तु देवाश्च
तद्वचोऽङ्गिरसस्तदा । तत्र नानाविधानग्नीन् प्रवक्ष्यामि
महाप्रभान् । कर्म्मभिर्ब्बहुभिः ख्यातान्नानार्थान् ब्राह्मणे-
ष्विह । व० मार्क० स० २१६ अध्या०
ब्रह्नणो यस्तृतीयस्तु पुत्त्रः कुरुकुलोद्वह! । तस्याभवत् शुभा
भार्य्या प्रजास्तस्याञ्च मे शृणु । वृहत्कीर्त्तिर्वृहज्ज्योतिर्वृह-
द्ब्रह्मा वृहन्मनाः । वृहन्मन्त्रो वृहद्भासस्तथा राजन्!
वृहस्पतिः । प्रजासु तासु सर्व्वासु रूपेणाप्रतिमाऽभवत् । देव!
भानुमती नाम प्रथमाऽङ्गिरसः सुता । भूतानामिव सर्वेषां
तस्यां रागस्तदाऽभवत् । रागाद्रागेति यामाहुर्द्वितीया-
ऽङ्गिरसः सुता । यां कपर्द्दिसुतामाहुर्दृश्यादृश्येति देहिनः ।
तनुत्वात् सा सिनीबाली तृतीयाऽङ्गिरसः सुता । पश्यत्य-
र्च्चिष्मती भाभिर्हविर्भिश्च हविष्मती । महामखेष्वाङ्गि-
रसी दोप्तिमत्सु महामते! । महायतीति विख्याता सप्तमी
कथ्यते सुता । यान्तु दृष्ट्वा भगवर्ती जनः कुहुकुहायते ।
एकानंशेति तामाहुः कुहूमङ्गिरसः सुताम् । ३१७ अ०
वृहस्पतेश्चान्द्रमसी भार्य्याऽभूद्या यशस्विनी । अग्नीन्
साऽजनयत् पुत्रान् षडेकाञ्चापि पुत्त्रिकाम् । आहुति-
ष्वेव यस्याग्नेर्हविषाज्यं विधीयते । सोऽग्निर्वृहस्पतेः पुत्त्रः
शंयुर्नाम महाव्रतः । चातुर्म्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः
पशुः । दीप्तो ज्वालैरनेकाभैरग्निरेषोऽथ वीर्य्यवान् ।
शंयीरप्रतिमा भार्य्या सत्याऽसत्याऽथ धर्म्मज! ॥ अग्निस्तस्य
सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः प्रथमेनाज्यभागेन पूज्यते
योऽग्निरध्वरे । अग्निस्तस्य भरद्वाजः प्रथमः पुत्त्र उच्यते
पौर्ण्णमास्येषु सर्वेषु हविषाज्यं स्रुचोद्यतम् । भरतो
नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः । तिस्रः कन्या
भवन्त्यन्या यासां स भरतः पतिः । मरतस्तु सुतस्तस्य
भरत्येका च पुत्त्रिका । भरतो भरतस्याग्नेः पावकस्तु
प्रजापतेः । महानत्यर्थमहितस्तथा भरतसत्तमः । भर-
द्वाजस्य भार्य्या तु वीरा वीरस्य पिण्डदा । प्राहुराज्येन
तस्येज्यां सोमस्येव द्विजाः शनैः । हविषा यो द्वितीयेन
सोमेन सह युज्यते । रथप्रभूरथाध्वानः कुम्भरेताः स
उच्यते । सरंय्वां जनयन् सिद्धिं भानु भाभिः
समावृणोत् । आग्नेयं मानयन्नित्यमाधाने ह्येष षूयते । यस्तु
न च्यवते नित्यं यशसा वर्च्चसा श्रिया । अग्निर्निश्च्य-
वनो नाम पृथिवीं स्तौति केवलम् । विपाप्मा कलुषैर्मुक्तो
विशुद्धश्चार्च्चिषा ज्वलन् । विपापोऽग्निः सुतस्तस्य सत्यः
समयधर्म्मकृत् । अक्रोशतां हि भूतानां यः करीति हि
निष्कृतिम् । अग्निः स निष्कृतिर्नाम शोभयत्यभिसे-
वितः । अनुकूजन्ति येनेह वेदनार्त्ताः स्वयं जनाः ।
तस्य पुत्त्रः स्वनो नाम पावकः स रुजस्करः । यस्तु विश्वस्य
जगतो बुद्धिमाक्रम्य तिष्ठति । तं प्राहुरध्यात्मविदो
विश्वजिन्नामपावकम् । अन्तरग्निः स्मृतो यस्तु भुक्तं पचति
देहिनाम् । स जज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत! ।
ब्रह्मचारी यतात्मा च सततं विपुलव्रताः । ब्राह्मणाः
पूजयन्त्येनं पाकयज्ञेषु पावकम् । पवित्रा गोतमी नाम
नदी यस्याऽभवत् प्रिया । तस्मिन् कर्म्माणि सर्वाणि
क्रियन्ते धर्म्मकर्तृभिः । वडवाग्निः पिबत्यम्भो योऽसौ
परमदारुणः । ऊर्द्ध्वभागूर्द्ध्वभाङ् नाम कविः प्राणाश्रित-
स्तु यः । उदग्धारं हविर्यस्य गृहे नित्यं प्रदीयते ।
ततः स्विष्टं भवेदाज्यं स्विष्टकृत् परमः स्मृतः । यः
प्रशान्तेषु भूतेषु मन्युर्भवति पावकः । क्रुद्धस्य तरसा जज्ञे
मन्यन्ती चाथ पुत्त्रिका । स्वाहेति दारुणा क्रूरा सर्वभूतेषु
तिष्ठति । त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्वन
अतुल्यत्वात् कृतो देवैर्नाभ्रा कामस्तु पावकः । संहर्षा-
द्धारयन् क्रोधं धन्वी स्रग्वी रथे स्थितः समये नाशयेच्छत्रू
नमोघो नाम पावकः । उक्थो नाम महाभाग । त्रिभि-
रुक्थैरभिष्टुतः । महावाचन्त्वजनयत् समाश्वासं हि यं
विदुः । २१८ अ०

Read Next

  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1
  • Yajnavalkya Shiksha (याज्ञवल्क्य शिक्षा)
  • Batul Nath Sutrani (वातुलनाथ-सूत्राणि): Complete Explanation by Tanmoy Bhattacharyya

काश्यपो ह्यथ वाशिष्ठः प्राणश्च प्राणपुत्त्रकः । अग्निरा-
ङ्गिरसश्चैव च्यवनस्त्रिसुवर्च्चकः । अचरत् स तपस्तीव्रं
पुत्त्रार्थे बहुवार्षिकम् । पुत्त्रं लभेयं धर्म्मिष्ठं यशसा
ब्रह्मणा समम् । महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा
त्वथ । जज्ञे तेजो महार्चिष्मान् पञ्चवर्णः प्रभावनः ।
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्य्यनिभौ तथा । त्वङ्नेत्रे
च सुवर्ण्णाभे कृष्णे जद्ध्वे च भारत! । पञ्चवर्णः स तपसा
कृतस्तैः पञ्चभिर्जनैः । पाञ्चजन्यः श्रुतो देवः पञ्चवंश- करस्तु सः । दश वर्षसहस्राणि तपस्तत्वा महातपाः ।
जनयत् पावकं घोरं पितॄणां स प्रजाः सृजत् ।
वृहद्रथन्तरं मूर्द्ध्नो वक्त्राद्वा तरसा हरौ । शिवं नाभ्यां
बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् । बाहुभ्यामनुदात्तौ च
विश्वाभूतानि चैव ह । एतान् दृष्ट्वा ततः पञ्च पितॄणा-
मसृजत् सुतान् । वृहद्रथस्य प्रणिधिः कश्यपस्य
महत्तरः । भानुरङ्गिरसो धीरः पुत्रो वर्च्चस्य सौभरः ।
प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्चविंशतिः । देवान्
यज्ञमुषश्चान्यान् सृजत् पञ्चदशोत्तरान् । सुमीममतिभीमञ्च
भीमं भीमबलाबलम् । एतान् यज्ञमुषः पञ्च देवानां
ह्यसृजत्तपः । सुमित्रं मित्रवन्तञ्च मित्रज्ञं मित्रवर्द्धनम्
मित्रधर्म्माणमित्येतान् देवानभ्यसृजत्तपः । सुरप्रवीरं
वीरञ्च सुरेशं सुरवर्च्चसम् । सुराणामपि हन्तारं पञ्चैतान
सृजत्तपः । त्रिविधं संस्रिता ह्येते पञ्च पञ्च पृथक्
पृथक् । मुष्णन्त्यत्र श्रिता ह्येते स्वर्गतो यज्ञयाजिनः ।
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः । स्पर्द्धया
हव्यवाहानां निघ्नन्त्येते हरन्ति च । द्यां वहिर्वै
तदादानं कुशलैः संप्रवर्त्तितम् । तदेते नोपसर्पन्ति यत्र
चाग्निः स्थितो भवेत् । चिताग्नेरुद्वहन्नाज्यं पक्षाभ्यां
तत् प्रवर्त्तितम् । मन्त्रैः प्रशमिता ह्येते नष्टं मुष्णन्ति
यज्ञियम् । वृहदुकथस्तपसैव पुत्त्रो भूमिमुपाश्रितः ।
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते । रथन्तरश्च
तपसः पुत्त्रोऽग्निः परिपठ्यते । मित्रविन्दाय वै तस्मै
हविरध्वर्य्यवो विदुः । मुमुदे परमप्रीतः सह पुत्त्रैर्महा-
यशाः । २१९ अ०
गुरुभिर्नियमैर्जातो भरतो नाम पावकः । अग्निः पुष्टि-
मतिर्नाम तुष्टः पुष्टिं प्रयच्छति । भरत्येष प्रजाः सर्वा-
स्ततो भरत उच्यते । अग्निर्यश्च शिवो नाम शक्तिपूजा-
परश्च सः । दुःखार्त्तानाञ्च सर्वेषां शिवकृत् सततं शिवः ।
तपसस्तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत् । उद्धर्तुकामो
मतिमान् पुत्त्रो जज्ञे पुरन्दरः । ऊष्मा चैवोष्मणो जज्ञे
सोऽग्निर्भूतेषु लक्ष्यते । अग्मिश्चापि मनुर्नाम प्राजापत्य-
मकारयत् । शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः ।
आवसथ्यं द्विजाः प्राहुर्द्दीप्तमग्निं महाप्रभम् । ऊर्ज्ज-
स्करान् हव्यवाहान् सुवर्णसदृशप्रभान् । ततस्तपो ह्यजनयत्
पञ्च यज्ञसुतानिह । प्रशान्तोऽग्निर्महाभाग । परिश्रान्तो
गवाम्पतिः । असुरान् जनयन् घोरान्मर्त्यांश्चैव
पृथखिधान् । तपसश्च मनुं पुत्त्रं भानुञ्चाप्यङ्गिराः सृजत् ।
वृहद्भानुन्तु तं प्राहुर्ब्राह्मणा वेदपारगाः । भानोर्भार्य्या
सुप्रजा तु वृहद्भासा तु सूर्य्यजा । असृजेतान्तु षट् पुत्त्रान्
शृणु तेषां प्रजाविधिम् । दुर्ब्बलानान्तु भूतानामसून्
यः सम्प्रयच्छति । तमग्निं बलदं प्राहुः प्रथमं भानुतः
सुतम् । यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः ।
अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः । दर्शे च
पौर्ण्णमासे च यस्येह हविरुच्यते । विष्णुर्नामेह योऽग्निस्तु
धृतिमान् नाम सोऽङ्गिराः । इन्द्रेण सहितं यस्य
हविराग्रयणं स्मृतम् । अग्निराग्रयणो नाम भानोरेवान्वयस्तु
सः । चातुर्म्मास्येषु नित्यानां हविषां यो निरग्रहः ।
चतुर्भिः सहितः पुत्त्रैर्भानोरेवान्वयस्तु सः । निशा त्वज-
नयत् कन्यामग्नीषोमावुभौ तथां । भानोरेवाभवद्भार्य्या
सुषुवे पञ्च पावकान् । पूज्यते हविषाग्रेण चातुर्म्मास्येषु
पावकः । पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ।
अस्य लोकस्य सर्व्वस्य यः प्रभुः परिपठ्यते । सोऽग्नि-
र्व्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः । ततः स्विष्टं
भवेदाज्यं स्विष्टकृत् परमस्तु सः । कन्या सा रोहिणी
नाम हिरण्यकशिपोः सुता । कर्म्मणाऽसौ बभौ भार्य्या
स वह्निः स प्रजापतिः । प्राणानाश्रित्य यो देहं प्रवर्त्त
यति देहिनाम् । तस्य सन्निहितो नाम शब्दरूपस्य
साधनः । शुक्लकृष्णगतिर्द्देवो यो बिभर्त्ति हुताशनम् ।
अकल्भषः कल्मषाणां कर्त्ता क्रोधाश्रितस्तु सः । कपिलं
परमर्षिञ्च यम्प्राहुर्यतयः सदा । अग्निः स कपिलो नाम
साङ्ख्ययोगप्रवर्त्तकः । अग्रं यच्छन्ति भूतानां येन भूतानि
नित्यदा । कर्म्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ।
इमानन्यान् समसृजत् पावकान् प्रथितान् भुवि । अग्नि-
होत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्वणान् । संस्पृशेयुर्यदा-
ऽन्योऽन्यं कथश्चिद्वायुनाऽग्नयः । इष्टिरष्टाकपालेन कार्य्या
वै शुचयेऽग्नये । दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा
किल । इष्टिरष्टाकपालेन कार्य्या वै वीतयेऽग्नये ।
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना । इष्टिरष्टा-
कपालेन कार्य्या तु शुचयेऽग्नये । अग्निं रजस्वला वै
स्त्री संस्पृशेदग्निहोत्रिकम् । इष्टिरष्टाकपालेन कार्य्या
दस्युमतेऽग्नये । मृतः श्रूयेत यो जीवः परेयुः पशवो
यदा । इष्टिरष्टाकपालेन कार्य्या सुरमतेऽग्नये । आर्त्तो न
जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः । इष्टिरष्टाकपालेन
कार्य्या स्यादुत्तराग्नये । दर्शञ्च पौर्ण्णमासञ्च यस्य तिष्ठेत्
प्रतिष्ठितम् । इष्टिरष्टाकपालेन कार्य्या रतिकृतेऽग्नये ।

सूतिकाऽग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम् । इष्टि-
रष्टाकपालेन कार्य्या चाग्निमतेऽग्नये । २२० अध्या०
आपस्य दुहिता भार्य्या सहस्य परमा प्रिया । भूपति-
र्भुवभर्त्ता चाजनयत् पावकं परम्! भूतानाञ्चापि सर्वेषां
यं प्राहुः पावकं पतिम् । आत्मा भुवनभर्त्तेति सान्वयेषु
द्विजातिषु । महताञ्चैव भूतानां सर्वेषामिह यः पतिः ।
भगवान् स महातेजा नित्यं चरति पावकः । अग्नि-
र्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते । हुतं वहति यो
हव्यमस्य लोकस्य पावकः । अपां गर्भो महाभागः सत्त्व-
भुग्यो महाद्भुतः । भूपतिर्भुवभर्त्ता च महतः पतिरुच्यते ।
दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् । अग्निष्टोमे
च नियतः क्रतुश्रेष्ठो भरस्य तु । स वह्निः प्रथमो नित्यं
देवैरन्विष्यते प्रभुः । आयान्तं नियतं दृष्ट्वा प्रविवेशार्ण्णवं
भयात् । देवास्तत्रांधिगच्छन्ति मार्गमाणा यथादिशम् ।
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् । देवानां वह हव्यं,
त्वमहं वीर! सुदुर्ब्बलः । अथ त्वं गच्छ मध्वक्षं प्रियमेतत्
कुरुष्व मे । प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् ।
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् । भक्ष्या वै
विवधैर्भावैर्भविष्यथ शरीरिणाम् । अथर्वाणं तथा चापि
हव्यवाहोऽब्रवीद्वचः । अनुनीयमानो हि भृशं
देववाक्याद्धि तेन सः । नैच्छद्वोढुं हविः सर्वं शरीरञ्चापि
सोऽत्यजत् । स तच्छरीरं सन्त्यज्य प्रविवेश धरान्तदा ।
भूमिं स्पृष्टाऽसृजद्धातून् पृथक् पृथगतीव हि । पूयात्
स गन्धं तेजश्च अस्थिभ्यो देवदारु च । श्लेष्मणः स्फटिकं
तस्य पित्तान्मारकतं तथा । यकृत् कृष्णायसं तस्य त्रिभि-
रेष प्रभुः प्रजाः । नखास्तस्याभ्रपटलं शिराजालानि
विद्रुमम् । शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप! । एवं
त्यक्त्वा शरीरञ्च परमे तपसि स्थितः । भृग्वङ्गिरादिभि-
र्भूयस्तपसोत्थापितस्तदा । भृशं जज्ज्वाल तेजस्वी तपसा-
प्यायितः शिखी । दृष्ट्वा ऋषिं भयाच्चापि प्रविवेश
महार्णवम् तस्मिन्नष्टे जगद्भीतमथर्व्वाणमथाश्रितम् ॥ अर्च्चया
मासुरेवैनमथर्व्वाणं सुरादयः । अथर्व्वा त्वसृजल्लोका-
नात्मनालोक्य पावकम् । मिषतां सर्व्वभूतानामुन्ममाथ
महार्णवम् । एवमग्निर्भगवता नष्टः पूर्ब्बमथर्वणा । आहूतः
सर्वभूतानां हव्यं वहति सर्वदा । एवं त्वजनयद्धिष्ण्यान्
वेदीक्तान् विविधान् बहून् । विचरन् विविधान् देशान्
भ्रममाणस्तु तत्र वै । सिन्धुं नदं पञ्चनदं देविकाऽथ
सरस्वती । गङ्गा च शतकुम्भा च सरयूर्गण्डसाह्वया
चर्म्मण्वती सती चैव भेध्या मेधातिथिस्तदा । ताम्रावती
वेत्रवती नद्यस्त्रिस्रोऽथ कौशिकी । तमसा नर्मदा चैव नदी
गोदावरी तथा । वेण्णीपवेण्णा भीमा च वद्धवा चैव भारत ॥
भारती सुप्रयोगा च कावेरी मुर्मुरा तथा । तुङ्गवेणा
कृष्णवेणा कपिला शोण एव च । एता नद्यस्तु धिष्ण्यानां
मातरो याः प्रकीर्त्तिताः । अद्भुतस्य प्रिया भार्य्या तस्य पुत्त्री
विभूरसिः । यावन्तः पावकाः प्रोक्ता सोमास्तावन्त एव तु ॥
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः । अत्रिः
पुत्त्रान् स्रष्टुकामांस्तानेवात्मन्यधारयत् । तस्य तद्व्रह्मणः
कायान्निर्हरन्ति हुताशनाः एवमेते महात्मानः कीर्त्तिता-
स्तेऽग्नयो मया ॥ अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरा-
पहाः । अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्त्तितम् ।
तादृशं विद्धि सर्व्वेषामेको ह्येष हुताशनः । एक एवैष
भगवान् विज्ञेयः प्रथमोऽङ्गिराः । बहुधा निःसृतः
कायात् ज्योतिष्टोमकतुर्य्यथा । इत्येष वंशः सुमहानग्नीनां
कीर्त्तितोमया । योऽर्चितो विविधैर्मन्त्रैर्हव्यं वहति
देहिनाम् । भा० व० मार्क० २२१ अध्या० ।
सास्य देवतेति–ढक् आग्नेयमग्निदेवताके हविरादौ त्रि० ।
अग्निना दृष्टं माम ढक् । आग्नेयं साम । आग्नेयी ऋक्
त्रि० । अग्नये हितं ढक् । आग्नेयमौषधम् त्रि० ।
लौकिकप्रयोगानुसारेण “अङ्गेर्नलोपश्चेति” औणादिकसूत्रेण
अग्निशब्दस्य व्युत्पत्तिर्दर्शिता वैदिकप्रयोगे तु अग्निशब्दस्य
प्रवृत्तिनिमित्तभेदोपयोगिन्यो यास्केन बह्व्यो व्युत्पत्तयो-
दर्शिताः । यथा “अथातोऽनुक्तमिष्यामोऽग्निः पृथिवीस्थानस्तं
प्रथमं व्याख्यास्यामोऽग्निः कस्मादग्रणीर्भवत्यग्रं यज्ञेषु
प्रणीयतेऽङ्गं नयति संनममानोऽक्नोपनो भवतीति स्थौला-
ष्ठीविर्न क्नोपयति न स्नेहयति त्रिभ्य आख्यातेभ्यो जायत
इति” शाकपूणिरितादक्ताद्दग्धाद्वा नीतात्स खल्वेतेरकार-
मादत्ते गकारमनक्तेर्वा दहतेर्वा नीः परस्तस्यैषा भवतीति”
अग्निमीले इति” । अस्यायमर्थः । सामान्येन सर्व-
देवतानां लक्षणस्याभिहितत्वादनन्तरं थतः प्रतिपदं
विशेषेण वक्तव्यत्वमाकाङ्क्षितमतोऽनुक्रमेण वक्ष्यामः । तत्र
पृथिवीलोके स्थितोऽग्निः प्रथमं व्याख्यास्यंते । कस्मात्-
प्रवृत्तिनिमित्तादग्निशब्देन देवताभिधीयत? इति प्रश्नस्या-
ग्रणीरित्यादिकमुत्तरम् । देवसेनामग्रे स्वयं नयतीत्य-
ग्रणीः । एतदेकमग्निशब्दस्य प्रवृत्तिनिमित्तम् ।

तथा च ब्राह्मणान्तरम् । “अग्निर्वै देवानां सेनानीरिति” ।
एतदेवाभिप्रेत्य बह्वृचा मन्त्रब्राह्मणे आमनन्ति । “अग्नि-र्मुखं प्रथमो देवतानामिति” मन्त्रः । “अग्निर्वै देवानामवम
इति” ब्राह्मणम् । तया तैत्रिरीयाश्चामनन्ति । “अग्नि-
रग्रे प्रथमो देवतानामिति” मन्त्रः । “अग्निरवमो देवताना-
मिति” च । वाजमनोयिनस्त्वेवमामनन्ति । “स वा
एषोऽग्रे देवतानामजायत तस्मादग्निर्नामेति” । यज्ञेष्वग्निहो-
त्रेष्टिपशुसोमरूपेष्वग्रं पूर्ब्बदिग्वर्त्याहवनीयदेशं प्रति
गार्हपत्यात्प्रणीयत इति द्वितीयं प्रवृत्तिनिमित्तम् । सन्न-
ममानः सम्यक् स्वयमेव प्रह्वीभगवन्नङ्गं स्वकीयं शरीरं
नयति काष्ठदाहे हविःपाके च प्रेरयतीति तृतीयं प्रवृत्ति-
निमित्तम् । स्थूलाष्ठीविनामकस्य महर्षेः पुत्रो निरुक्त-
कारः कश्चिदक्नोपन इत्यग्निशब्दं निर्वक्ति । तत्र न
क्नोपयतीत्युक्ते न स्नेहयति किन्तु काष्ठादिकं रूक्षयतीत्युक्तं
भवति । शाकपूणिनामको निरूक्तकारो धातुत्रयादग्नि-
शब्दनिष्पत्तिं मन्यते । इतः इण् गतौ इति धातुः ।
अक्तोऽन्जु व्यक्तिम्नक्षणगतिषु इति धातुः । दग्धो दह
भस्मीकरणे इति धातुः । नीतो णीञ् प्रापणे इति 
धातुः ।

अग्निशब्दो ह्यकारगकारनिशब्दानपेक्षमाण एतिधातोरुत्पन्नादयनशब्दादकारमादत्ते । अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते । यद्वा दहति धातुजन्याद्दग्धशब्दाद्गकारमादत्ते । नीरिति नयतिधातुः स च ह्रस्वो भूत्वा परो भवति । ततो धातुत्रयं मिलित्वाग्निशब्दो भवति । यज्ञभूमिं गत्वा स्वकीयमङ्गं नयति काष्ठदाहे हविःपाके च प्रेरयतीति समुदायार्थः । तस्या ग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिदर्शनायैषाग्निमीले इत्यृगभतीति” ऋग्वेदभाष्ये माधवाचार्य्यः एतस्य वैश्यनरादि शब्द प्रवृत्तिनिमित्त दर्शनेनानेकास्तुतयो यास्केन दर्शितास्ताश्च तत्तच्छब्दावसरे दर्शयिष्यन्ते । (वाचस्पत्यम्)

 


Tags: Agni Vedic Devata

Post navigation

Previous: देव – deva
Next: Law of the Sea
Arrest
Sarvarthapedia

Latin Maxims in Criminal Law: Meaning, Usage, and Courtroom Application

Sarvarthapedia
Sarvarthapedia

Research Methodology and Investigation: Concepts, Frameworks, and Emerging Trends

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

IPS Cadre Strength 2025: State-wise Authorised Strength

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)

Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation

Bharatiya Nyaya Sanhita 2023: Sections (1-358), Punishments, and Legal Framework

Bengali Food Culture: History, Traditions, and Class Influences

West Bengal Court-Fees Act, 1970: Fees, Schedules, and Procedures

WB Land Reforms Tribunal Act 1997: History, Features, Provisions, Structure, Powers and Functions

Civil Procedure Law of the Democratic People’s Republic of Korea (1976)

Knowledge Management in the Modern Era: From History to Digital Transformation

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Naresh vs Aarti: Cheque Bouncing Complaint Filed by POA (02/01/2025)
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
Sarvarthapedia, Law and Legal Materials

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

Indian Government

IPS Cadre Strength 2025: State-wise Authorised Strength

Sarvarthapedia

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Education

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates