Bharata Natya Shastram (भरत नाट्य शास्त्र)
Home » Law Library Updates » Law Library » Sanskrit Documents » Bharata Natya Shastram (भरत नाट्य शास्त्र)
Period 2000-1500 BCE
भरत मुनि का नाट्यशास्त्रट्यशास्त्र (PDF)
[Gandharva Veda]
Bharat Natya Shastram (36 chapters)
A Treatise on Hindu Dramaturgy and Histrionics
नायिका
अथ नायिका त्रिविधा स्वाऽन्या साधारणस्त्रीति । नायकसामान्यगुणैर्भवति यथासम्भवैर्युक्ता । विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।
साऽपि कथिता त्रिविथा मुग्धा मध्या प्रगल्भेति । प्रथमावतीर्णयौवनभ-दनविकारा रतौ वामा । कथिता मृदुश्च माने समधिकल-
ज्जावती मुग्धा । मध्या विचित्रसुरता प्ररूढ़स्मरयौवना ।ईषत्प्रगल्भवचना मध्यमव्रीडिता मता । स्मरान्धा नाढ़-तारुण्या समस्तरतकोविदा । भावोन्नता दरव्रीड़ा प्रगल्भाऽऽक्रान्तनायका । ते धीरा चाप्यधीरा च धीरा-धीरेति षडिविधे । प्रियं सोत्प्रासवक्रोक्त्या मध्या-धीरा दहेद्रुषा । धीराधीरा तु रुदितैरधीरा परुषो-क्तिभिः । प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ।
उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः । धीराधीरा तु सोल्लुण्ठभाषितैः खेदयेदमुम् । तर्जयेत्ताड़येदन्या प्रत्येकं ता अपि द्विधा । कनिष्ठज्येष्ठरूपत्वान्नायक प्रणयं प्रति । मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश कीर्त्तिताः । मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ।
परकीया द्विधा प्रोक्ता परोदा कन्यका तथा । यात्रादि-निरताऽन्योढ़ा कुलटा गलितत्रपा ।
कन्या त्वजातो पयमा सलज्जा नवयौवना । धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका । निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि । वित्तमात्रं समालोक्य सा रामं दर्श- येद् बहिः । काममङ्गीकृतमपि परिक्षीणधनं नरम् । मात्रा निष्क्रामयेदेषा पुनःसन्धानकाङ्क्षया । तस्कराः पण्ड्रकामूर्खाः सुखप्राप्तधनास्तथा । सिङ्गिनश्छन्नका- माद्या आसां प्रायेण वल्लभाः । एषापि मदमायत्ता क्वापि सत्यानुरागिणी । रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् । अवस्थाभिर्भवन्त्यष्टावेताः षोड़शभेदिताः । स्वाधीनभर्तृका तद्वत् खण्डिताऽथाभिसारिका । कलहान्तरिता विगसब्धा प्रोषितमर्तृका । अन्या वासक-सज्जा स्याद्विरहोत्कण्ठिता तथा ।
कान्तोरतिगुणाकृष्टो म जहाति यदन्तिकम् । विचित्रविभ्रमासक्ता सा स्यात् स्ताघीनभर्तृका । पार्श्वमेति प्रियो यस्या अन्यसम्मो-
नचिह्नितः । सा खण्डितेति कथिता धीरैरीर्ष्याकषा-यिता । अभिसारयते कान्तं या मन्मथवशंवदा । स्वयं वाऽभिसरत्येषा धीरैरुक्ताऽमिसारिका । चाटुकारमपि प्राणनाथं रोषादपास्य या । पश्चात्तापमवाप्नोति कलहान्तरिता तु सा । प्रियः कृत्वापि सङ्केतं यस्या नायाति सन्निधिम् । विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता । नानाकार्य्यवशाद् यस्या दूरदेशं गतः पतिः । सा मनोभवदुःखार्त्ता भवेत् प्रोषितभर्तृका । कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि । सा तु वासकसज्जा स्याद्वि-दितप्रियसङ्गमा । आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः । तदनागमदुःखार्त्ता विरहोत्कण्ठिता तु सा । इति साष्टविंशतिशतमुत्तममध्यमाधमस्वरूपतः । चतरधिकाशीतियुतं शतत्रयं नायिकाभेदानां स्यात्” ।
देव्याः शक्तिभेदे “ततोऽष्ट नायिका देव्याः यत्नतः परिपूजयेत् । उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डनायिकाम् । अतिचण्डां च चामुण्डां चण्डां चण्डवतीं तथा” ब्रह्मवै० प्रकृतिख० ६० अ० । ४ कस्तूरीभेदे “चूर्णा-कृतिस्तु खरिका तिलका तिलाभा कौलत्थवीजसदृशी च कुलत्थिकाख्या । स्थूला ततः कियदियं किल पिण्डिका स्यात्तस्याश्च किञ्चिदधिकापि च नायिकैषा.. (Vachaspatyam)
नाट्यभाषा
नाट्यभाषा स्त्री नाट्ये प्रयोक्तव्या पात्रभेदेन भाषा ।
नाटके प्रयोक्तव्ये पात्रभेदेन भाषाभेदे साच सङ्गीतदा० उक्ता नाटकशब्दे दर्शिता विशेषस्तु सा० द० उक्तो यथा पुरुषाणामनीचानां संस्कृतं स्यात् कृतात्मनाम् । शौरसेनी प्रयोक्तव्या तादृशीनाञ्च योषिताम् । आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत् । अत्रोक्ता मागधी भाषा राजान्तःपुरचारिणाम् । चेटानां राजपुत्राणां श्रेष्ठिनां चार्द्धमागधी । प्राच्या विदूषकादीर्ना धूर्त्तानां स्यादवन्तिका । योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् । शकाराणां शकादीनां शाकारीं सम्प्रयो-जयेत् । वाह्लीकभाषा दिव्यानां द्राविड़ी द्रविड़ादिषु । आभीरेषु तथाऽभीरी चाण्डाली पुक्कसादिषु । आभीरी शावरी चापि काष्ठपत्रोपजीविषु । तथैवाङ्गार-कारादौ पैशाची स्यात् पिशाचवाक् । चेटीनामप्य-नीचानामपि स्यात् शौरसेनिका । बालानां षण्डका-नाञ्च नीचग्रहविचारिणाम् ।
उन्मत्तानामातुराणां सैव स्यात् संस्कृतं क्वचित् । ऐश्वर्य्येण प्रमत्तस्य दारि-द्र्योपस्कृतस्य च । भिक्षुबन्धधरादीनां प्राकृतं सम्प्रयो-
जयेत् । संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषूत्तमासु च । देवीमन्त्रिसुतावेश्यास्वपि कैश्चित्तथोदितम् । यद्देशं नीचपात्रन्तु तद्देशं तस्य भाषितम् । कार्य्यतश्चोत्तमा-दीनां कार्य्यो भाषाविपर्य्ययः । योषित्सखीबाल-वेश्याकितवाप्सरसां तथा । वैदग्ध्यार्थं प्रदातव्यं
संस्कृतं चान्तरान्वरा” । नाटकभाषाऽप्यत्र । (वाचस्पत्यम्-श्रीतारानाथ-तर्कवाचस्पति)
“न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला। नासौ योगो न तत्कर्म नाट्येडस्मिन यन्न दृश्यते”