Jaina Abhishek Paath(अभिषेक पाठ)- Maghanandi Muni
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Humanities » Jaina Abhishek Paath(अभिषेक पाठ)- Maghanandi Muni
अभिषेक पाठ माघनंदि मुनि कृत
पूजन-विधौ
ओं ह्रीं
श्रीमन्नता-मर-शिरस्तट-रत्न-दीप्ति, तोयाव-भासि-चरणाम्बुज-युग्ममीशम् |
अर्हन्त-मुन्नत-पद-प्रदमाभिनम्य, त्वन्मूर्तिषूद्य-दभिषेक-विधिं करिष्ये ||१||
अथ पौर्वाह्णिक/मध्याह्निक/अपराह्णिक-देववन्दनायां पूर्वाचार्यानुक्रमेण सकल-कर्म-क्षयार्थं
भाव-पूजा-वन्दना-स्तव-समेतं श्रीपंचमहागुरुभक्तिपुरस्सरं कायोत्सर्गं करोम्यहम्।
या: कृत्रिमास्तदितरा: प्रतिमा जिनस्य, संस्नापयन्ति पुरुहूत-मुखादयस्ता:|
सद्भाव-लब्धि-समयादि-निमित्त-योगात्, तत्रैव-मुज्ज्वल-धियां कुसुमं क्षिपामि ||२||
जन्मोत्सवादि-समयेषु यदीयकीर्ति, सेन्द्रा: सुराप्तमदवारणगा: स्तुवन्ति |
तस्याग्रतो जिनपते: परया विशुद्ध्या, पुष्पांजलिं मलयजात-मुपाक्षिपेऽहम् ||३||
ओं ह्रीं अभिषेक-प्रतिज्ञायां पुष्पांजलिं क्षिपामि।
श्रीपीठ-क्लृप्ते विशदाक्षतौघै:, श्रीप्रस्तरे पूर्ण-शशांक-कल्पे |
श्रीवर्तके चन्द्रमसीति-वर्तां, सत्यापयन्तीं श्रियमालिखामि ||४||
ओं ह्रीं अर्हं श्री-लेखनं करोमि।
कनकादि-निभं कम्रं पावनं पुण्य-कारणम् |
स्थापयामि परं पीठं जिनस्नापनाय भक्तित: ||५||
ओं ह्रीं श्री स्नपन-पीठ स्थापनं करोमि।
भृंगार-चामर-सुदर्पण-पीठ-कुम्भ-, ताल-ध्वजा-तप-निवारक भूषिताग्रे |
वर्धस्व-नन्द जय-पाठ-पदावलीभि:, कमलासने जिन भवंत-महं श्रयामि ||
वृषभादि-सुवीरांतान् जन्माप्तौ जिष्णुचर्चितान् |
स्थापयाम्यभिषेकाय भक्त्या पीठे महोत्सवम् ||६||
ओं ह्रीं श्री धर्मातीर्थाधिनाथ भगवन्निह (पाण्डुक-शिला) स्नपन-पीठे तिष्ठ! तिष्ठ!
श्रीतीर्थकृत्स्नपन-वर्य-विधौ सुरेंद्र:, क्षीराब्धि-वारिभि-रपूरयदर्थ-कुम्भान् |
तांस्तादृशानिव विभाव्य यथार्हणीयान्, संस्थापये कुसुम-चन्दन-भूषिताग्रान् ||
शातकुम्भीय कुम्भौघान् क्षीराब्धेस्तोय-पूरितान् |
स्थापयामि जिनस्नान-चन्दनादि-सुचर्चितान् ||७||
ओं ह्रीं चतु:कोणेषु स्वस्तये चतु:कलशस्थापनं करोमि।
आनन्द-निर्झर-सुर-प्रमदादि-गानै, र्वादित्र-पूर जय-शब्द-कलप्रशस्तै: |
उद्गीयमान जगती-पति-कीर्तिमेनं, पीठस्थलीं वसु-विधार्चन-योल्लसामि ||८||
ओं ह्रीं स्नपनपीठस्थित-जिनाय अर्घ्यं निर्वपामीति स्वाहा।
कर्म-प्रबन्ध-निगडै-रपि हीनताप्तं, ज्ञात्वापि भक्ति-वशत: परमादि-देवम् |
त्वां स्वीय-कल्मष गणोन्मथनाय देव, शुद्धोदकै-रभिनयामि नयार्थतत्त्वम् ||९||
ओं ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं झ्वीं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते पवित्रतर-जलेन जिनमभिषेचयामि स्वाहा।
तीर्थोत्तम-भवै-नीरै: क्षीर-वारिधि-रूपकै: |
स्नापयामि प्रतिमायां जिनान् सर्वार्थसिद्धिदान् ||१०||
ओं ह्रीं श्री वृषभादिवीरान्तान् जलेन स्नापयाम:।
सकल-भुवन-नाथं तं जिनेन्द्रं सुरेन्द्रै- रभिषव-विधि-माप्तं स्नातकं स्नापयाम: |
यदभिषवन-वारां बिन्दु-रेकोऽपि नृणां, प्रभवति विदधातुं भुक्तिसन्मुक्तिलक्ष्मीम् ||११||
ओं ह्रीं श्रीमन्तं भगवन्तं कृपावन्तं श्रीवृषभादिमहावीरान्त-चतुर्विंशति तीर्थंकर-परम-देवं आद्यानां आद्ये मध्यलोके भरतक्षेत्रे आर्यखण्डे भारतदेशे …प्रदेशे … नाम्निनगरे … मन्दिरे (मण्डपे) …… वीरनिर्वाण-संवत्सरे मासानामुत्तमे मासे …. पक्षे … तिथौ …. वासरे मुन्यार्यिका-श्रावक-श्राविकाणां सकलकर्मक्षयार्थं जलेनाभिषिंचयाम:।।
पानीय-चंदन-सदक्षत-पुष्पपुंज- नैवेद्य-दीपक-सुधूप-फल-व्रजेन |
कर्माष्टक-क्रथन-वीर-मनन्त-शक्तिं संपूजयामि महसां महसां निधानम् ||१२||
ओं ह्रीं अभिषेकान्ते वृषभादिवीरान्तेभ्योऽर्घ्यं निर्वपामीति स्वाहा।
हे तीर्थपा निजयशो-धवली-कृताशा सिद्धौषधाश्च भवदु:ख-महागदानाम् |
सद्भव्य-हृज्जनित-पंक-कबन्ध-कल्पा, यूयं जिना: सतत-शान्तिकरा: भवन्तु ||१३||
ओं ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं झ्वीं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं हं सं क्ष्वीं क्ष्वीं हं स: झं वं ह्र य: स: क्षां क्षीं क्षं क्षें क्षैं क्षों क्षौं क्षं क्ष: क्ष्वीं ह्रां ह्रीं ह्रूं ह्रें ह्रैं ह्रों ह्रौं ह्रं ह्रः ह्रीं द्रां द्रीं नमोऽर्हते भगवते श्रीमते ठ: ठ: इति शान्तिमन्त्रेणाभिषेकं करोमि।
पुष्पांजलिं क्षिपामि
नत्वा मुहु-र्निज-करै-रमृतोपमेयै:, स्वच्छै-र्जिनेन्द्र तव चन्द्र-करावदातै: |
शुद्धांशुकेन विमलेन नितान्त-रम्ये, देहे स्थितान् जल कणान् परिमार्जयामि ||१४||
ओं ह्रीं अमलांशुकेन जिनबिम्ब-मार्जनं करोमि।
स्नानं विधाय भवतोष्ट-सहस्र-नाम्ना-मुच्चारणेन मनसो वचसो विशुद्धिम् |
जिघृक्षु-रिष्टिमिनतेष्ट-तयीं विधातुं, सिंहासने विधि-वदत्र निवेशयामि ||१५||
ओं ह्रीं वेदिकायां सिंहासने जिनबिम्बं स्थापयामि।
जल-गन्धक्षतै:पुष्पैश्चरू-दीप-सुधूपकै |
फलै-रर्घै-जिनमर्चेज्जन्मदुखापहानये ||१६||
ओं ह्रीं सिंहासनस्थित जिनायऽर्घ्यम निर्वपामीति स्वाहा।
मुक्ति-श्रीवनिता-करोदक-मिदं पुण्याड़्कुरोत्पादकम्,
नागेंद्र-त्रिदशेंद्र-चक्र पदवी राज्याभिषेकोदकम् |
सम्यग्ज्ञान-चरित्र-दर्शन-लता संवृद्धि-संपादकं,
कीर्ति-श्री-जय-साधकं जिन- वर स्नानस्य गन्धोदकम् ||१७||
नत्वा परीत्य निज-नेत्र ललाटयोश्च, व्यात्युक्षणेन हरतादघ-संचयं मे |
शुद्धोदकं जिनपते तव पाद-योगाद्, भूयाद्-भवातपहरं धृत-मादरेण ||१८||
पुष्पांजलि
इमे नेत्रे जाते सुकृत-जलसिक्ते-सफलिते,
ममेदं मानुष्यं कृति जनगणादेयमभवत् |
मदीयाद्-भल्लाटादशुभतर-कर्माटन-मभूत,
सदेदृक-पुण्यार्हन् मम भवतु ते पूजन-विधौ ||१९||
।। पुष्पाञ्जलिं क्षिपामि।।