सर्वादिः
सूत्रम् 1.1.27 सर्वादीनि सर्वनामानि
‘सर्वेषां वस्तूनां नामानि दर्श्यन्ते यैः तानि सर्वनामानि’
सर्व-आदीनि सर्वनामानि
Ganapath
सर्व । विश्व । उभ । उभय । डतर । डतम । अन्य । अन्यतर । इतर । त्वत् । त्व । नेम । सम । सिम ।
पूर्वपरावरदक्षिणोत्तरापराधराणिव्यवस्थायामसंज्ञायाम् । (पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर – व्यवस्थायाम् संज्ञायाम् (स्वाभिधेयापेक्षावधिनियमः व्यवस्था)
स्वमज्ञातिधनाख्यायाम् । (स्व, ‘ज्ञातिः’ तथा ‘धनम्’)
अन्तरं बहिर्योगोपसंव्यानयोः ।
त्यद् । तद् । यद् । एतद् । इदम् । अदस् । एक । द्वि । युष्मद् । अस्मद् । भवतु । किम् ॥
List of Words (41)
सर्व, विश्व, उभ, उभय, यतर, ततर, कतर, एकतर, यतम, ततम, कतम, एकतम, अन्य, अन्यतर, इतर, त्वत्, त्व, नेम, सम, सिम, पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर, त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् ।
Kashika
सर्वशब्द आदिर्यषां तानीमानि सर्वादीनि सर्वनामसंज्ञानि भवन्ति। सर्वः, सर्वौ, सर्वे। सर्वस्मै। सर्वस्मात्। सर्वेषाम्। सर्वस्मिन्। सर्वकः। विश्वः, विश्वौ, विश्वे। विश्वस्मै। विश्वस्मात्। विश्वेषाम्। विश्वस्मिन्। विश्वकः। उभ, उभय — उभशब्दस्य सर्वनामत्वे प्रयोजनं सर्वनाम्नस्तृतीया च २.३.२७ इति। उभाभ्यां हेतुभ्यां वसति, उभयोर्हेत्वोर्वसति। उभये। उभयस्मै। उभयस्मात्। उभयेषाम्। उभयस्मिन्। डतर, डतम — कतर। कतम। कतरस्मै। कतमस्मै। इतर, अन्य, अन्यतर — इतरस्मै। अन्यस्मै। अन्यतरस्मै। त्वशब्दोऽन्यवाची स्वरभेदाद् द्विःपठितः। एक उदात्तः, द्वितीयोऽनुदात्तः। केचित् तकारान्तमेकं पठन्ति त्व त्वदिति, द्वावपि चानुदात्ताविति स्मरन्ति। नेम — नेमस्मै। वक्ष्यमाणेन १.१.३३ जसि विभाषा भवति। नेमे, नेमा इति। सम — समस्मै। कथं यथासंख्यमनुदेशः समानाम् १.३.१०, समे देशे यजेतेति? समस्य सर्वशब्दपर्यायस्य सर्वनामसंज्ञेष्यते, न सर्वत्र। सिम — सिमस्मै। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (ग०सू० १)। स्वमज्ञातिधनाख्यायाम् (ग०सू० २)। अन्तरं बहिर्योगोपसंव्यानयोः (ग०सू० ३)। त्यद्। तद्। यद्। एतद्। इदम्। अदस्। एक। द्वि। युष्मद्। अस्मद्। भवतु। किम्। सर्वादिः। सर्वनामप्रदेशाः — सर्वनाम्नः स्मै७.१.१४ इत्येवमादयः॥ (Kashika)
Mahabhashya
सर्वादीनि सर्वनामानि सर्वादीनीति कोऽयं समासः ?
बहुव्रीहिरित्याह।
कोऽस्य विग्रहः ? सर्वशब्द आदिर्येषां तानीमानीति। यद्येवं सर्वशब्दस्य सर्वनामसञ्ज्ञा न प्राप्नोति।
किं कारणम् ? अन्यपदार्थत्वाद् बहुव्रीहेः। बहुव्रीहिरयमन्यपदार्थे वर्तते। तेन यदन्यत् सर्वशब्दात् तस्य सर्वनामसञ्ज्ञा प्राप्नोति। तद्यथा – चित्रगुरानीयतामित्युक्ते यस्य ता गावो भवन्ति स एवानीयते न गावः। नैष दोषः। भवति हि बहुव्रीहौ तद्गुणसंविज्ञानमपि। तद्यथा चित्रवाससमानय, लोहितोष्णीषा ऋत्विजः प्रचरन्तीति। तद्गुण आनीयते तद्गुणाश्च प्रचरन्तीति। इह सर्वनामानीति पूर्वपदात् सञ्ज्ञायामगः इति णत्वं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः। सर्वनामसञ्ज्ञायां निपातनाण्णत्वाभावः। सर्वनामसञ्ज्ञायां निपातनाण्णत्वं न भविष्यति। किमेतन्निपातनं नाम ? अथ कः प्रतिषेधो नाम ? अविशेषेण किंचिदुक्त्वा विशेषेण नेत्युच्यते। तत्र व्यक्तमाचर्यस्याभिप्रायो गम्यते इदं न भवतीति।
निपातनमप्येवंजातीयकमेव। अविशेषेण णत्वमुक्त्वा विशेषेण निपातनं क्रियते। तत्र व्यक्तमाचार्यस्याभिप्रायो गम्यते इदं न भवतीति। ननु च निपातनाच्चाणत्वं स्यात्, यथा प्राप्तं च णत्वम् । किमन्येऽप्येवंविधयो भवन्ति ? (यदि भवन्ति तदा) इको यणचीति यण् स्यात् यथाप्राप्तश्चेक् श्रूयेत ? नैष दोषः। अस्त्यत्र विशेषः। षष्ठ्यात्र निर्देशः क्रियते। षष्ठी च पुनः स्थानिनं निवर्तयति। इह तर्हि कर्तरि शप् दिवादिभ्यः श्यन् इति वचनाच्च श्यन् स्यात्, यथाप्राप्तश्च शप् श्रूयेत। नैष दोषः। शबादेशाः श्यन्नादयः करिष्यन्ते। तत्तर्हि शपो ग्रहणं कर्तव्यम् ? न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम् ? कर्तरि शप् इति। तद्वै प्रथमानिर्दिष्टं, षष्ठीनिर्दिष्टेन चेहार्थः। दिवादिभ्य इत्येषा पञ्चमी शपिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति। प्रत्ययविधिरयम्। न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति। नायं प्रत्ययविधिः। विहितः प्रत्ययः। प्रकृतश्चानुवर्तते।
इह तर्हि अव्ययसर्वनाम्नामकच् प्राक् टेरिति वचनाच्चाकच् स्यात्। यथा प्राप्तश्च कः श्रूयेत। नैष दोषः। नाप्राप्ते हि केऽकजारभ्यते स बाधको भविष्यति। निपातनमप्येवजातीयकमेव। नाप्राप्ते णत्वे निपातनमारभ्यते तद् बाधकं भविष्यति। यदि तर्हि निपातनान्यप्येवंजातीयकानि भवन्ति समस्तते दोषो भवति। इहान्ये वैयाकरणाः समस्तते विभाषा लोपमारभन्ते समोहितततयोर्वेति। सततम्। संततम्। सहितम्। संहितम्। इह पुनर्भवान् निपातनाच्च लोपमिच्छति अपरस्पराः क्रियासातत्ये इति। यथाप्राप्तं चालोपम् – संततमित्येतन्न सिध्यति। कर्तव्योऽत्र यत्नः। बाधकान्येव हि निपातनानि भवन्ति। ॥ संज्ञोपसर्जनप्रतिषेधः । संज्ञोपसर्जनीभूतानां सर्वादीनां प्रतिषेधो वक्तव्यः।
सर्वो नाम कश्चित्। तस्मै सर्वाय देहि। अतिसर्वाय देहि। स कथं कर्तव्यः ? ॥ पाठात् पर्युदासः पठितानां सञ्ज्ञाकरणम् । पाठादेव पर्युदासः कर्तव्यः। शुद्धानां पठितानां सञ्ज्ञा कर्तव्या। सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति। संज्ञोपसर्जनीभूतानि न सर्वादीनि। किमविशेषेण ? नेत्याह। विशेषेण च। किं प्रयोजनम् ? ॥ सर्वाद्यानन्तर्यकार्यार्थम् । सर्वादीनामानन्तर्येण यदुच्यते कार्यं तदपि संज्ञोपसर्जनीभूतानां मा भूदिति। किं प्रयोजनम् ? प्रयोजनं डतरादीनामद्ड्भावे। डतरादीनामद्ड्भावे प्रयोजनम्। अतिक्रान्तमिदं ब्राह्मणकुलं कतरत् अतिकतरं ब्राह्मणकुलमिति। ॥ त्यदादिविधौ च । त्यदादिविधौ च प्रयोजनम्। अतिक्रान्तोयं ब्राह्मणस्तमतितद् ब्राह्मण इति। सञ्ज्ञाप्रतिषेधस्तावन्न वक्तव्यः। उपरिष्टाद् योगविभागः करिष्यते। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम्। ततोऽसञ्ज्ञायाम् इति। सर्वादीनीत्येवं यान्यनुक्रान्तानि असञ्ज्ञायां तानि द्रष्टव्यानि। उपसर्जनप्रतिषेधश्च न कर्तव्यः।
अनुपसर्जनादित्येष योगः प्रत्याख्यायते तमेवमभिसंभन्त्स्यामः। अनुपसर्जन अ अदिति। किमिदम अदिति। अकारात्कारौ शिष्यमाणावनुपसर्जनस्य द्रष्टव्यौ। यद्येवमतियुष्मत् अत्यस्मत् इति न सिध्यति। प्रश्लिष्टनिर्देशोऽयम्। अनुपसर्जन अ अ अदिति। अकारान्तात् अकारात्कारौ शिष्यमाणावनुपसर्जनस्य द्रष्टव्यौ। अथवा अङ्गाधिकारे यदुच्यते गृह्यमाणविभक्तेस्तद् भवति। यद्येवं परमपञ्च- परमसप्त। षड्भ्यो लुक् न प्राप्नोति। नैष दोषः। षट्प्रधान एष समासः। इह तर्हि प्रियसक्थ्ना ब्राह्मणेन। अनङ् न प्राप्नोति। सप्तमीनिर्दिष्टे यदुच्यते, प्रकृतविभक्तौ तद् भवति। यद्येवमतितद् अतितदः। इति अत्वं प्राप्नोति। तच्चापि वक्तव्यम्। न वक्तव्यम्। इह तावद् – अद्ड्डतरादिभ्यः पञ्चभ्यः इति पञ्चमी। अङ्गस्येति षष्ठी। तत्राशक्यं भिन्न विभक्तित्वात् डतरादिभ्य इति पञ्चम्याऽङ्गं विशेषयितुम्।
तत्र किमन्यच्छक्यं विशेषयितुमन्यदतो विहितात्प्रत्ययात् – डतरादिभ्यो यो विहित इति। इहेदानीम् – अस्थिदधिसक्थ्यक्ष्णामनङुदात्त इति। त्यदादीनामो भवतीति। अस्थ्यादीनामित्येषा षष्ठी। अङ्गस्येत्यपि। त्यदादीनामित्यपि षष्ठी। अङ्गस्येत्यपि। तत्र कामचारः, गृह्यमाणेन वा विभक्तिं विशेषयितुमङ्गेन वा। यावता कामचारः, इह तावदस्थिदधिसक्थ्यक्ष्णामनुङुदात्त इत्यङ्गेन विभक्तिं विशेषयिष्यामः। अस्थ्यादिभिरनङम्। अङ्गस्य विभक्तावनङ् भवति अस्थ्यादीनामिति। इहेदानीं त्यदादीनामो भवतीति गृह्यमाणेन विभक्तिं विशेषयिष्यामः। अङ्गेनाकारम् – त्यदादीनां विभक्तावो भवति। अङ्गस्येति। यद्येवमतिसः। अत्वं न प्राप्नोति। नैष दोषः। त्यदादिप्रधान एष समासः। अथवा नेदं सञ्ज्ञाकरणम्। पाठविशेषणमिदम्। सर्वेषां यानि नामानि तानि सर्वादीनि। संज्ञोपसर्जने च विशेषेऽवतिष्ठेते ।
यद्येवं सञ्ज्ञाश्रयं यत् कार्यं तन्न सिध्यति – सर्वनाम्नः स्मै आमि सर्वनाम्नः सुडिति। अन्वर्थग्रहणं तत्र विज्ञास्यते। सर्वेषां यन्नाम तत् सर्वनाम। सर्वनाम्न उत्तरस्य ङेः स्मै भवति। सर्वनाम्न उत्तरस्यामः सुट् भवति। यद्येवं सकलं कृत्स्नं जगदित्यत्रापि प्राप्नोति। एतेषां चापि शब्दानामेकैकस्य स स विषयः। तस्मिंस्तस्मिन् विषये यो यः शब्दो वर्तते तस्य तस्य तस्मिंस्तस्मिन् वर्तमानस्य सर्वनामकार्यं प्राप्नोति। एवं तर्ह्युभयमनेन क्रियते। पाठश्चैव विशेष्यते सञ्ज्ञा च। कथं पुनरेकेन यत्नेनोभयं लभ्यम् ? लभ्यमित्याह। कथम्। एकशेषनिर्देशात्। एकशेषनिर्देशाऽयम् – सर्वादीनि च सर्वादीनि च सर्वादीनि। सर्वनामानि च सर्वनामानि सर्वनामानि। सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति। सर्वेषां यानि च नामानि तानि सर्वादीनि। संज्ञोपसर्जने च विशेषेऽवतिष्ठेते। अथवा – महतीयं सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थे हि सञ्ज्ञाकरणम्। तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम्।
अन्वर्थसञ्ज्ञा यथा विज्ञायेत। सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति। सर्वेषां नामानि इति चातः सर्वनामानि। संज्ञोपसर्जने च विशेषेऽवतिष्ठेते। अथोभस्य सर्वनामत्वे कोऽर्थः ? ॥ उभस्य सर्वनामत्वेऽकजर्थः । उभस्य सर्वनामत्वेऽकचर्थः पाठः क्रियते। उभकौ। किमुच्यतेऽकजर्थ इति। न पुनरन्यान्यपि सर्वनामकार्याणि। ॥ अन्याभावो द्विवचनटाब् विषयत्वात् । अन्येषां सर्वनामकार्याणामभावः। किं कारणम्? द्विवचनटाब्विषयत्वात्। उभशब्दोऽयं द्विवचनटाब्विषयः। अन्यानि च सर्वनामकार्याणि एकवचनबहुवचनेषूच्यन्ते। यदा पुनरुभशब्दो द्विवचनटाब्विषयः, क इदानीमस्यान्यत्र भवति ? ॥ उभयोऽन्यत्र ।
उभयशब्दोऽस्यान्यत्र भवति। उभये देवमनुष्याः। उभयो मणिरिति। किं च स्याद् यद्यत्राकच् न स्यात् ? कः प्रसज्येत। कश्चेदानीं काकचोर्विशेषः? उभशब्दोऽयं द्विवचनटाब्विषय इत्युक्तम्। तत्राकचि सति अकचस्तन्मध्यपतितत्वाच्छक्यते एतद्वक्तुं – द्विवचनपरोऽयमिति। के पुनः सति नायं द्विवचनपरः स्यात्। तत्र द्विवचनपरता वक्तव्या। यथैव तर्हि के सति नायं द्विवचनपरः। एवमाप्यपि सति नायं द्विवचनपरः स्यात्। तत्रापि द्विवचनपरता वक्तव्या। ॥ अवचनादापि तत्परविज्ञानम् ॥। अन्तरेणापि वचनमापि द्विवचनपरोऽयं भविष्यति। किं वक्तव्यमेतत् ? नहि। कथमनुच्यमानं गंस्यते ? एकादेशे कृते द्विवचनपरोऽयमन्तादिवद्भावेन। ॥ अवचनादापि तत्परविज्ञानमिति चेत्केपि तुल्यम् । अवचनादापि तत्परविज्ञानमिति चेत् केपि अन्तरेण वचनं द्विवचनपरो भविष्यति। कथम्? स्वार्थिकाः प्रत्ययाः प्रकृतितोऽविशिष्टा भवन्तीति प्रकृतिग्रहणेन स्वार्थिकानामपि ग्रहणं भवति।
अथ भवतः सर्वनामत्वे कानि प्रयोजनानि ? ॥ भवतोऽकच्छेषात्वानि । भवतोऽकच्छेषात्वानि प्रयोजनानि। अकच्। भवकान्। शेषः- स च भवांश्च भवन्तौ। आत्वम् भवादृगिति। किं पुनरिदं परिगणनमाहोस्विदुदाहरणमात्रम् ? उदाहरणमात्रमित्याह। तृतीयादयोपि दृश्यन्ते। सर्वनाम्नस्तृतीया च। भवता हेतुना। भवतो हेतोरिति ॥२७ ॥