चतुः श्लोकी भागवत -Chatuh Shloki Bhagwat
Home » Law Library Updates » Law Library » Sanskrit Documents » चतुः श्लोकी भागवत -Chatuh Shloki Bhagwat
श्रीभगवानुवाच –
अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम्।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ १ ॥
ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि।
तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ २ ॥
Read Next
यथा महान्ति भूतानि
भूतेषूच्चावचेष्वनु।
प्रविष्टान्यप्रविष्टानि
तथा तेषु न तेष्वहम् ॥ ३ ॥
एतावदेव जिज्ञास्यं
तत्त्व जिज्ञासुनाऽऽत्मनः।
अन्वयव्यतिरेकाभ्यां यत्
स्यात् सर्वत्र सर्वदा ॥ ४ ॥
Tags: Vedanta