अक्षयतृतीया – Akshya tritiya
अक्षयतृतीया स्त्री कर्म्म० । वैशाखशुक्लपक्षतृतीयायाम् ।
- “वैशाखे मासि राजेन्द्र! शुक्लपक्षे तृतीयिका । अक्षया सा
- तिथिः प्रोक्ता कृत्तिकारोहिणीयुता । तस्यां दानादिकं
- सर्व्वमक्षयं समुदाहृतमिति” । “या शुक्ला कुरुशार्द्दल! वैशाखे
- मासि वै तिथिः । तृतीया साक्षया लोके त्रिदशैरभिवन्दि-
- तेति” च भविष्यपुराणम् । “वैशाखस्य सिते पक्षे तृतीयाऽ-
- क्षयसंज्ञितेति” स्कन्दपुराणम् । – [वाचस्पत्यम्]
-
Tags: Hindu Religion