तत्त्वबोधः- Tattva Bodha
- साधनचतुष्टयम्
- तत्त्वविवेकः
- शरीरत्रयम्
- ज्ञानेन्द्रियाणि
- कर्मेन्द्रियाणि
- अवस्थात्रयम्
- पञ्चकोशाः
- आत्मन्
- चतुर्विंशतितत्त्वोत्पत्तिप्रकारम्
- जीवेश्वरभेदबुद्धिः
- जीवेश्वरैक्यम्
- जीवन्मुक्तिः
- कर्माणि
वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् । मुमुक्षूणां हितार्थाय तत्त्वबोधोऽभिधीयते ॥
साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः ।
१॥० साधनचतुष्टयम्
साधनचतुष्टयं किम् ?
१॥१ नित्यानित्यवस्तुविवेकः ।
१॥२ इहामुत्रार्थफलभोगविरागः ।
१॥३ शमादिषट्कसम्पत्तिः ।
१॥४ मुमुक्षुत्वं चेति ।
१॥१॥१ विवेकः
नित्यानित्यवस्तुविवेकः कः ?
नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् ।
अयमेव नित्यानित्यवस्तुविवेकः ।
१॥१॥२ वैराग्यम्
विरागः कः ?
इहस्वर्गभोगेषु इच्छाराहित्यम् ।
१॥१॥३ शमादिसाधनसम्पत्तिः का ?
शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति ।
१॥१॥३॥१ शमः
शमः कः ? मनोनिग्रहः ।
१॥१॥३॥२ दमः
दमः कः ? चक्षुरादिबाह्येन्द्रियनिग्रहः ।
१॥१॥३॥३ उपरमः
उपरमः कः ? स्वधर्मानुष्ठानमेव ।
१॥१॥३॥४ तितिक्षा
तितिक्षा का ? शीतोष्णसुखदुःखादिसहिष्णुत्वम् ।
१॥१॥३॥५ श्रद्धा
श्रद्धा कीदृशी ? गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा ।
१॥१॥३॥६ समाधानम्
समाधानं किम् ? चित्तैकाग्रता ।
१॥४ मुमुक्षुत्वम्
मुमुक्षुत्वं किम् ?
मोक्षो मे भूयाद् इति इच्छा ।
एतत् साधनचतुष्टयम् ।
ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति ।
२॥० तत्त्वविवेकः
२॥१ तत्त्वविवेकः कः ?
आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।
२॥२ आत्मा कः ?
स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः
सन् अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन्
यस्तिष्ठति स आत्मा ।
३॥० शरीरत्रयम्
३॥१ स्थूलशरीरं किम् ?
पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगायतनं शरीरम्
अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति
षड्विकारवदेतत्स्थूलशरीरम् ।
३॥२ सूक्ष्मशरीरं किम् ?
अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि
पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं
बुद्धिश्चैका एवं सप्तदशाकलाभिः सह यत्तिष्ठति
तत्सूक्ष्मशरीरम् ।
३॥३ कारणशरीरं किम् ?
अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं
सत्स्वरूप अज्ञानं निर्विकल्पकरूपं यदस्ति
तत्कारणशरीरम् ।
सत्स्वरूपाज्ञानं निर्विकल्पकरूपं यदस्ति
तत्कारणशरीरम् ।
४॥० ज्ञानेन्द्रियाणि
४॥१ श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पञ्च ज्ञानेन्द्रियाणि ।
४॥१॥० ज्ञानेन्द्रियदेवताः
४॥१॥१ श्रोत्रस्य दिग्देवता ।
४॥१॥२ त्वचो वायुः ।
४॥१॥३ चक्षुषः सूर्यः ।
४॥१॥४ रसनाया वरुणः ।
४॥१॥५ घ्राणस्य अश्विनौ ।
इति ज्ञानेन्द्रियदेवताः ।
४॥२ ज्ञानेन्द्रियविषयाः
४॥२॥१ श्रोत्रस्य विषयः शब्दग्रहणम् ।
४॥२॥२ त्वचो विषयः स्पर्शग्रहणम् ।
४॥२॥३ चक्षुषो विषयः रूपग्रहणम् ।
४॥२॥४ रसनाया विषयः रसग्रहणम् ।
४॥२॥५ घ्राणस्य विषयः गन्धग्रहणम् इति ।
५॥० कर्मेन्द्रियाणि
५॥१ वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि ।
५॥१॥० कर्मेन्द्रियदेवताः
५॥१॥१ वाचो देवता वह्निः ।
५॥१॥२ हस्तयोरिन्द्रः ।
५॥१॥३ पादयोर्विष्णुः ।
५॥१॥४ पायोर्मृत्युः ।
५॥१॥५ उपस्थस्य प्रजापतिः ।
इति कर्मेन्द्रियदेवताः ।
५॥२ कर्मेन्द्रियविषयाः
५॥२॥१ वाचो विषयः भाषणम् ।
५॥२॥२ पाण्योर्विषयः वस्तुग्रहणम् ।
५॥२॥३ पादयोर्विषयः गमनम् ।
५॥२॥४ पायोर्विषयः मलत्यागः ।
५॥२॥५ उपस्थस्य विषयः आनन्द इति ।
६॥० अवस्थात्रयम्
अवस्थात्रयं किम् ?
६॥१ जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।
६॥१॥१ जाग्रदवस्था का ?
श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते
इति यत् सा जाग्रदवस्था ।
६॥१॥१॥१ स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते ।
६॥१॥२ स्वप्नावस्था केति चेत् ?
जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम्
तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते
सा स्वप्नावस्था ।
६॥१॥२॥१ सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते ।
६॥१॥३ अतः सुषुप्त्यवस्था का ?
अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति
सुषुप्त्यवस्था ।
६॥१॥३॥१ कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।
७॥० पञ्चकोशाः
७॥१ पञ्च कोशाः के ?
अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति ।
७॥१॥१ अन्नमयः कः ?
अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य
अन्नरूपपृथिव्यां यद्विलीयते तदन्नमयः कोशः
स्थूलशरीरम् ।
७॥१॥२ प्राणमयः कः ?
प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं
प्राणमयः कोशः ।
७॥१॥३ मनोमयः कोशः कः ?
मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स
मनोमयः कोशः ।
७॥१॥४ विज्ञानमयः कः ?
बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स
विज्ञानमयः कोशः ।
७॥१॥५ आनन्दमयः कः ?
एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं
प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः ।
एतत्कोशपञ्चकम् ।
८॥० आत्मन्
मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते
तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं तद्यथा मदीयत्वेन ज्ञातं कटककुण्डलगृहादिकं
स्वस्मद्भिन्नं तथा पञ्चकोशादिकं स्वस्मद्भिन्नं मदीयत्वेन ज्ञातमात्मा न भवति ॥
८॥१ आत्मा तर्हि कः ? सच्चिदानन्दस्वरूपः ।
८॥१॥१ सत्किम् ? कालत्रयेऽपि तिष्ठतीति सत् ।
८॥१॥२ चित्किम् ? ज्ञानस्वरूपः ।
८॥१॥३ आनन्दः कः ? सुखस्वरूपः ।
८॥२ एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् ।
९॥० अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः ।
९॥१ ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति ।
९॥१॥१ ततः आकाशः सम्भूतः ।
९॥१॥२ आकाशाद् वायुः ।
९॥१॥३ वायोस्तेजः ।
९॥१॥४ तेजस आपः ।
९॥१॥५ अद्भ्यः पृथिवी ।
९॥२ ज्ञानेन्द्रियसम्बूति
एतेषां पञ्चतत्त्वानां मध्ये
९॥२॥१ आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् ।
९॥२॥२ वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् ।
९॥२॥३ अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतम् ।
९॥२॥४ जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतम् ।
९॥२॥५ पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् ।
९॥३ अन्तःकरण सम्भूति
एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात्
मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि ।
९॥३॥१ सङ्कल्पविकल्पात्मकं मनः ।
९॥३॥२ निश्चयात्मिका बुद्धिः ।
९॥३॥३ अहंकर्ता अहंकारः ।
९॥३॥४ चिन्तनकर्तृ चित्तम् ।
९॥४ अन्तःकरणदेवताः
९॥४॥१ मनसो देवता चन्द्रमाः ।
९॥४॥२ बुद्धेर्ब्रह्मा ।
९॥४॥३ अहंकारस्य रुद्रः ।
९॥४॥४ चित्तस्य वासुदेवः ।
९॥५ कर्मेन्द्रितसम्भूति
एतेषां पञ्चतत्त्वानां मध्ये
९॥५॥१ आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् ।
९॥५॥२ वायोः राजसांशात् पाणीन्द्रियं सम्भूतम् ।
९॥५॥३ वन्हे राजसांशात् पादेन्द्रियं सम्भूतम् ।
९॥५॥४ जलस्य राजसांशात् उपस्थेन्द्रियं सम्भूतम् ।
९॥५॥५ पृथिव्या राजसांशात् गुदेन्द्रियं सम्भूतम् ।
९॥५॥६ एतेषां समष्टिराजसांशात् पञ्चप्राणाः सम्भूताः ।
९॥६ पञ्चतत्त्वसम्भूति
९॥६॥१ एतेषां पञ्चतत्त्वानां तामसांशात्
पञ्चीकृतपञ्चतत्त्वानि भवन्ति ।
पञ्चीकरणं कथम् इति चेत् ।
९॥६॥२ एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम्
एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक्
तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य
स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं
कार्यम् । तदा पञ्चीकरणं भवति ।
९॥६॥३ एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं
भवति ।
९॥६॥४ एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् ।
१०॥० जीवेश्वरभेदबुद्धिः
१०॥१ स्थूलशरीराभिमानी जीवनामकं ब्रह्मप्रतिबिम्बं भवति ।
स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति ।
१०॥२ अविद्योपाधिः सन् आत्मा जीव इत्युच्यते ।
१०॥३ मायोपाधिः सन् ईश्वर इत्युच्यते ।
१०॥४ एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यन्तं तिष्ठति
तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते ।
१०॥५ तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ।
११॥० जीवेश्वरैक्यम्
ननु साहंकारस्य किंचिदज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य ईश्वरस्य तत्त्वमसीति महावाक्यात्
कथमभेदबुद्धिः स्यादुभयोः विरुद्धधर्माक्रान्तत्वात् । इति चेन्न ।
११॥१ स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः ।
उपाधिविनिर्मुक्तं समाधिदशासंपन्नं शुद्धं चैतन्यं त्वंपदलक्ष्यार्थः ।
११॥२ एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः ।
उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः ।
११॥३ एवं च जीवेश्वरयो चैतन्यरूपेणाभेदे बाधकाभावः ।
१२॥० जीवन्मुक्तिः
एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु
येषां ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः ।
१२॥१ ननु जीवन्मुक्तः कः ?
यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति
दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः
किन्तु असंगः सच्चिदानन्दस्वरूपः प्रकाशरूपः
सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चय
रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥
१२॥२ ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात् ।
१३॥० कर्माणि
कर्माणि कतिविधानि सन्तीति चेत्
१३॥१ आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति ।
१३॥१॥१ ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म
यदस्ति तदागामीत्यभिधीयते ।
१३॥१॥२ सञ्चितं कर्म किम् ?
अनन्तकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं
तिष्ठति तत् सञ्चितं ज्ञेयम् ।
१३॥१॥३ प्रारब्धं कर्म किमिति चेत् ।
इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं
यत्कर्म तत्प्रारब्धं
भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति ।
१३॥२ सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति ।
१३॥३ आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां
नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति ।
१३॥४ किंच ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति
ज्ञानिकृतं आगामि पुण्यं गच्च्हति ।
१३॥५ ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति
ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म
पापात्मकं तद्गच्च्हति ।
१३॥६ तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति ।
तरति शोकमात्मवित् इति श्रुतेः ।
१३॥७ तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा ।
ज्ञानसंप्राप्तिसमये मुक्तोऽसौ विगताशयः । इति स्मृतेश्च ।
इति तत्त्वबोधप्रकरणं समाप्तम् ।