The Purpose of Bhagavad Gita: Sankaracharya Explained
भगवद्गीता द्वितीयोऽध्यायः
भगवत्शङ्कराचार्यकृतभाष्यम्
Circumstances of Arjuna: न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२.९॥
The LordLord Adoni in Hebrew (אָדוֹן) and dominions in Larin. άρχοντας / κύριος in NT gracefully explained:तमुवाच हृषीकेशः प्रहसन्निव भारत । ॥२.१०॥
अत्र च दृष्ट्वा तु पाण्डवानीकमित्यारभ्य यावत्न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह इत्येतदन्तः प्राणिनां शोकमोहादि संसारबीजभूत दोषोद्भवकारण प्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः ।
तथा हि अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजनसंबन्धिबान्धवेषु अहमेतेषां ममैते इत्येवं भ्रान्ति प्रत्यय निमित्तस्नेह विच्छेदादिनिमित्तौ आत्मनः शोकमोहौ प्रदर्शितौ । कथं भीष्ममहं संख्ये इत्यादिना ।
शोकमोहाभ्यां ह्यभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम । परधर्मं च भिक्षाजीवनादिकं कर्तुं प्रववृते । तथा च सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा च स्यात् । स्वधर्मे प्रवृत्तानामपि तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिसंधिपूर्विकैव साहंकारा च भवति । तत्रैवं सति धर्माधर्मोपचयादिष्टानिष्टजन्मसुखदुःखादिप्राप्तिलक्षणः संसारोऽनुपरतो भवति । इत्यतः संसारबीजभूतौ शोकमोहौ । तयोश्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञानात्नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोकानुग्रहार्थमर्जुनं निमित्तीकृत्य आह भगवान् वासुदेवः अशोच्यानित्यादि ।
अत्र केचिदाहुःसर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठामात्रादेव केवलात्कैवल्यं न प्राप्यत एव । किं तर्हि ? अग्निहोत्रादिश्रौतस्मार्तकर्मसहितात्ज्ञानात्कैवल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थ इति । ज्ञापकं चाहुरस्यार्थस्य अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि [गीता २.३३] कर्मण्येवाधिकारस्ते [गीता २.४७], कुरु कर्मैव तस्मात्त्वम् [गीता ४.१५] इत्यादि । हिंसादियुक्तत्वात्वैदिकं कर्म अधर्माय इतीयमप्याशङ्का न कार्या । कथम् ? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षणमत्यन्तं क्रूरमपि स्वधर्म इति कृत्वा नाधर्माय । तदकरणे च ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि [गीता २.३३] इति ब्रुवता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवति इति ।
तदसत् । ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिद्वयाश्रययोः । अशोच्यानित्यादिना भगवता यावत्स्वधर्ममपि चावेक्ष्य इत्येतदन्तेन ग्रन्थेन यत्परमार्थात्मतत्त्वनिरूपणं कृतम्, तत्सांख्यम् । तद्विषया बुद्धिरात्मनो जन्मादिषड्विक्रियाभावादकर्ता आत्मेति प्रकरणार्थनिरूपणाद्या जायते, सा सांख्यबुद्धिः । सा येषां ज्ञानिनामुचिता भवति, ते सांख्याः । एतस्या बुद्धेर्जन्मनः प्राकात्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वभोक्तृत्वाद्यपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठानलक्षणो योगः । तद्विषया बुद्धिः योगबुद्धिः । सा येषां कर्मिणामुचिता भवति ते योगिनः । तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु इति ।
तयोश्च सांख्यबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां सांख्यानां विभक्तां वक्ष्यति पुरा वेदात्मना मया प्रोक्ता इति । तथा च योगबुद्ध्याश्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति कर्मयोगेन योगिनामिति । एवं सांख्यबुद्धिं योगबुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञानकर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्वबुद्ध्याश्रययोः
युगपदेकपुरुषाश्रयत्वासंभवं पश्यता ।
यथा एतद्विभागवचनं तथैव दर्शितं शातपथीये ब्राह्मणे एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्ति [बृहदारण्यकोपनिषद् ४.४.२२] इति सर्वकर्मसंन्यासं विधाय तच्छेषेण किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः [बृहदारण्यकोपनिषद् ४.४.२२] इति । तत्रैव च प्राग्दारपरिग्रहात्पुरुष आत्मो प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनम् । पुत्रं, द्विप्रकारं च वित्तं मानुषं द्विप्रकारं च । तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वित्तं देवलोकप्राप्तिसाधनम् । सोऽकामयत [बृहदारण्यकोपनिषद् १.४.१७] इति अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि । तेभ्यो व्युत्थाय, प्रव्रजन्ति [बृहदारण्यकोपनिषद् ४.४.२२] इति व्युत्थानमात्मानमेव लोकमिच्छतोऽकामस्य विहितम् । तदेतद्विभागवचनमनुपपन्नं स्याद्यदि श्रौतकर्मज्ञानयोः समुच्चयोऽभिप्रेतः स्याद्भगवतः ।
न चार्जुनस्य प्रश्न उपपन्नो भवति ज्यायसी चेत्कर्मणस्ते [गीता ३.१] इत्यादिः । एकपुरुषानुष्ठेयत्वासंभवं बुद्धिकर्मणोः भगवता पूर्वमनुक्तं कथमर्जुनोऽश्रुतं बुद्धा च कर्मणो ज्यायस्त्वं भगवत्यध्यारोपयेन्मृषैव ज्यायसी चेत्कर्मणस्ते मता बुद्धिः इति ।
किं च यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्यातर्जुनस्यापि स उक्त एवेति, यच्छ्राय एतयोरेकं तन्मे ब्रूहि सुनिश्चितमिति कथमुभयोरुपदेशे सति अन्यतरविषय एव प्रश्नः स्यात्? न हि पित्तप्रशमनार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यमित्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनकारणं ब्रूहि इति प्रश्नः संभवति ।
अथार्जुनस्य भगवदुक्तवचनार्थ विवेकानवधारणनिमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम् मया बुद्धिकर्मणोः समुच्चय उक्तः किमर्थमित्थं त्वं भ्रान्तोऽसि इति । न तु पुनः प्रतिवचनमननुरूपं पृष्टादन्यदेव द्वे निष्ठा मया पुरा प्रोक्ता इति वक्तुं युक्तम् ।
नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभागवचनादि सर्वमुपपननम् । किं च क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्म इति जानतः तत्किं कर्मणि घोरो मां नियोजयसि इत्युपालम्भोऽनुपपन्नः ।
तस्माद्गीताशास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयो न केनचिद्दर्शयितुं शक्यः । यस्य त्वज्ञानात्रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नं परमार्थतत्त्वविषयमेकमेवेदं सर्वं ब्रह्म अकर्तृ च इति, तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसंग्रहार्थं यत्नपूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत्प्रवृत्तिरूपं दृश्यते न तत्कर्म येन बुद्धेः समुच्चयः स्यात् । यथा भगवतो वासुदेवस्य क्षत्रधर्मचेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत्तत्फलाभिसंध्यहंकाराभावस्य
तुल्यत्वाद्विदुषः । तत्त्वविन्नाहं करोमीति मन्यते, न च तत्फलमभिसन्धत्ते ।
यथा च स्वर्गादिकामार्थिनोऽग्निहोत्रादि कर्मलक्षणधर्मानुष्ठानाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टाऽपि कामे तदेव अग्निहोत्राद्यनुतिष्ठतोऽपि न तत्काम्यमग्निहोत्रादि भवति । तथा च दर्शयति भगवान् कुर्वन्नपि न लिप्यते न करोति न लिप्यते इति तत्र तत्र ॥
यच्च पूर्वैः पूर्वतरं कृतं कर्मणैव हि संसिद्धिमास्थिता जनकादयः इति, तत्तु प्रविभज्य विज्ञेयम् । तत्कथम् ? यदि तावत्पूर्वे जनकादयः तत्त्वविदोऽपि प्रवृत्तकर्माणः स्युः, ते लोकसंग्रहार्थं गुणा गुणेषु वर्तन्ते इति ज्ञानेनैव संसिद्धिमास्थिताः, कर्मसंन्यासे प्राप्तेऽपि कर्मणा सहैव संसिद्धिमास्थिताः, न कर्मसंन्यासं कृतवन्त इत्यर्थः ।
अथ न ते तत्त्वविदः । ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिम्, ज्ञानोत्पत्तिलक्षणां वा संसिद्धिम्, आस्थिता जनकादय इति व्याख्येयम् । एतमेवार्थं वक्ष्यति भगवान् सत्त्वशुद्धये कर्म कुर्वन्ति इति । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः इत्युक्त्वा सिद्धिं प्राप्तस्य पुनर्ज्ञाननिष्ठां वक्ष्यति सिद्धिं प्राप्तो यथा ब्रह्म इत्यादिना ॥
तस्माद्गीताशास्त्रे केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः न कर्मसमुच्चितातिति निश्चितोऽर्थः । यथा चायमर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥