Study Vedas every day; do properly the karma prescribed therein; through that (act), worship the Lord ; give up the thought of doing an act with desire ; shake off the group of sinful deeds; consider the defect in...
Sankaracharya
वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकवन्तः करणैकवन्तः
कौपीनवन्तः खलु भाग्यवन्तः
पञ्चकृतानि भूतानि तत्कार्यं च विराड् भवेत् । स्थूलं शरीरमेतत्स्यादशरीरस्य चात्मनः। अधिदैवतमध्यात्ममधिभूतमिति त्रिधा ।
एकं ब्रह्म विभागेन भ्रमाद्माति न तत्त्वत्तः ॥
कनकधारास्तोत्रम् written by Adi Sankaracharya around 508BCE
महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपि, स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके ।
आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो
भज गोविन्दं भज गोवन्दं भज गोविन्दं मूढमते।
संप्राप्ते संनिहिते काले न हि न हि रक्षति डुकृञ्करणे
अहमानन्दसत्यादिलक्षणः केवलः शिवः।
सदानन्दादिरूपं यत्तेनाहमचलोऽद्वयः-एकोऽपि द्वयवद्भाति यथाकाश उपाधितः।
एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः
नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहंकारः प्राणवर्गो न बुद्धिः।
दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम्
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी
विदिताखिल शास्त्र सुधा जलधे
महितोपनिषत्-कथितार्थ निधे ।
हृदये कलये विमलं चरणं
ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानम् । वेदान्तार्थसारसङ्ग्रहभूतमिदं प्रकरणचतुष्टयम् ओमित्येतदक्षरमित्यादि आरभ्यते । अत एव न पृथक् सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि । यान्येव तु वेदान्ते सम्बन्धाभिधेयप्रयोजनानि, तान्येवेहापि भवितुमर्हन्ति ; तथापि प्रकरणव्याचिख्यासुना सङ्क्षेपतो वक्तव्यानीति मन्यन्ते व्याख्यातारः । तत्र प्रयोजनवत्साधनाभिव्यञ्जकत्वेनाभिधेयसम्बद्धं शास्त्रं पारम्पर्येण विशिष्टसम्बन्धाभिधेयप्रयोजनवद्भवति ।
You must be logged in to post a comment.