गीताशास्त्रं – Gita Shastram
उपोद्घाटः
ओं नारायणः परोऽव्यक्तादण्डमव्यक्त सम्भवम् ।
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥
स भगवान् सृष्ट्वेदं जगत् । तस्य च स्थितिं चिकीर्षुः मरीच्यादीनग्रे सृष्ट्वा प्रजापतीन् प्रवृत्तिलक्षणं धर्मं ग्राहयामास वेदोक्तम् । ततोऽन्यान् च सनकसनन्दनादीनुत्पाद्य निवृत्तिलक्षणं धर्मं ज्ञानवैराग्यलक्षणं ग्राहयामास । द्विविधो हि वेदोक्तो धर्मः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च । जगतः स्थितिकारणम् । प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः स धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोऽर्थिभिरनुष्ठीयमानः ।
दीर्घेण कालेन अनुष्ठातॄणां कामोद्भवाद्धीयमान विवेकज्ञानहेतुकेन अधर्मेण अभिभूयमाने धर्मे, प्रवर्धमाने च अधर्मे, जगतः स्थितिं परिपिपालयिषुः स आदिकर्ता नारायणाख्यो विष्णुर्भौमस्य ब्रह्मणो ब्राह्मणत्वस्य चाभिरक्षणार्थं देवक्यां वसुदेवादंशेन कृष्णः किल सम्बभूव । ब्राह्मणत्वस्य हि रक्षणेन रक्षितः स्याद्वैदिको धर्मः तदधीनत्वाद्वर्णाश्रमभेदानाम् ।
स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नस्त्रिगुणात्मिकां वैष्णवीं स्वां मायां मूलप्रकृतिं वशीकृत्य, अजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन्, स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते । स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं हि धर्मद्वयमर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश गुणाधिकैर्हि गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति । तं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोकशतैरुपनिबबन्ध ।
तदिदं गीताशास्त्रं समस्तवेदार्थसारसङ्ग्रहभूतं दुर्विज्ञयार्थं तदर्थाविष्करणाय अनेकैर्विवृतपद पदार्थ वाक्य वाक्यार्थन्यायमपि अत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमुपलभ्याहं विवेकतोऽर्थ निर्धारणार्थं संक्षेपतो विवरणं करिष्यामि ।
तस्य अस्य गीताशास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रेयसं सहेतुकस्य संसारस्य अत्यन्तोपरमलक्षणम् । तच्च सर्व कर्म सन्न्यास पूर्वकादात्मज्ञान निष्ठारूपाद्धर्माद्भवति । तथा इममेव गीतार्थधर्ममुद्दिश्य भगवतैवोक्तम् । स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने [म.भा. १४.१६.१२] इत्यनुगीतासु । तत्रैव चोक्तं नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी [म.भा. १४.१९.७], यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन् [म.भा. १४.१९.१], ज्ञानं संन्यासलक्षणम् [म.भा. १४.४३.२६] इति च । इहापि चान्ते उक्तमर्जुनाय सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज [गीता १८.६६] इति ।
अभ्युदयार्थोऽपि यः प्रवृत्ति लक्षणो धर्मो वर्णानाश्रमांश्चोद्दिश्य विहितः स देवादिस्थानप्राप्तिहेतुरपि सन्, ईश्वरार्पणबुद्ध्यानुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः । शुद्धसत्त्वस्य च ज्ञाननिष्ठा योग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयस हेतुत्वमपि प्रतिपद्यते । तथा चेममेवार्थमभिसन्धाय वक्ष्यति ब्रह्मण्याधाय कर्माणि [गीता ५.१०], योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये [गीता ५.११] इति ।
इमं द्विप्रकारं धर्मं निःश्रेयस प्रयोजनम् । परमार्थतत्त्वं च वासुदेवाख्यं परब्रह्माभिधेयभूतं विशेषतः अभिव्यञ्जयद्विशिष्टप्रयोजन सम्बन्धाभिधेयवद्गीताशास्त्रम् । यतस्तदर्थ विज्ञानेन समस्त पुरुषार्थसिद्धिः । अतः तद्विवरणे यत्नः क्रियते मया ॥
गीताशास्त्रं भगवत्शङ्कराचार्यकृतभाष्यम्
You must be logged in to post a comment.