प्रेमपञ्चक- Prem Panchaka
प्रतिभासो वरः कान्तः प्रतीत्योत्पादमात्रकः। न स्यात् यदि मृतैव स्यात् शून्यता कामिनी मता॥१॥ शून्यतातिवरा कान्ता मुर्त्त्या निरुपमा तु या। पृथक् यदि कदाचित् स्यात् बद्धः स्यात् कान्तनायकः॥२॥ दम्पती शङ्कितौ तस्मात् गुरोरुपस्थितौ पुरः। निजप्रीत्या तयोस्तेन साहजं प्रेम कारितम्॥३॥
Home » Law Library Updates » Law Library » Books » Buddhist & Jaina Texts » प्रेमपञ्चक- Prem Panchaka
प्रेमपञ्चक
प्रतिभासो वरः कान्तः प्रतीत्योत्पादमात्रकः।
न स्यात् यदि मृतैव स्यात् शून्यता कामिनी मता॥१॥
शून्यतातिवरा कान्ता मुर्त्त्या निरुपमा तु या।
पृथक् यदि कदाचित् स्यात् बद्धः स्यात् कान्तनायकः॥२॥
दम्पती शङ्कितौ तस्मात् गुरोरुपस्थितौ पुरः।
निजप्रीत्या तयोस्तेन साहजं प्रेम कारितम्॥३॥
वायुसद्गुरुपाण्डित्यमहाकौशलमीदृशम्।
निजाबेधनिरालम्बावुभौ जातावनुत्तरौ॥४॥
सर्व्वलक्षणसम्पूर्णौ चतुर्द्वयविवर्ज्जितौ।
सर्व्वभावस्वभावौ च निःस्वभावौ सदोदितौ॥५॥
॥प्रेमपञ्चकं समाप्तम्॥
Tags: Buddhist Library