प्रेमपञ्चक- Prem Panchaka

 प्रेमपञ्चक।

प्रतिभासो वरः कान्तः प्रतीत्योत्पादमात्रकः।

न स्यात् यदि मृतैव स्यात् शून्यता कामिनी मता॥१॥

शून्यतातिवरा कान्ता मुर्त्त्या निरुपमा तु या।

पृथक् यदि कदाचित् स्यात् बद्धः स्यात् कान्तनायकः॥२॥

दम्पती शङ्कितौ तस्मात् गुरोरुपस्थितौ पुरः।

निजप्रीत्या तयोस्तेन साहजं प्रेम कारितम्॥३॥

वायुसद्गुरुपाण्डित्यमहाकौशलमीदृशम्।

निजाबेधनिरालम्बावुभौ जातावनुत्तरौ॥४॥

सर्व्वलक्षणसम्पूर्णौ चतुर्द्वयविवर्ज्जितौ।

सर्व्वभावस्वभावौ च निःस्वभावौ सदोदितौ॥५॥

॥प्रेमपञ्चकं समाप्तम्॥

बुद्धकपालतन्त्र- Buddha Kapal Tantra

चर्यापटल

9  अथातः संप्रवक्ष्यामि चर्यापटलं सुदुर्लभम्।

येन योगी कुरुते सर्व चर्या अत्यन्तवराङ्गना॥१॥

अष्टसिद्धिसमायुक्ता पश्चाच् चर्यां समारभेत्।

यद् यत् सत्त्वाः सिद्ध्यर्थिनो तां तां दापयेत् सदा॥२॥

करे कपालं गृहीत्वा चर्या भ्रमते व्रती। नग्नो मुक्तशिखो भूत्वा यत्र तत्र यदा तदा। एवं चर्या सदा कर्तव्यम्॥३॥

सर्वावरणविनिर्मुक्तं आकाशतुल्यतां गतः। भिक्षाम् अटते प्राज्ञः गृहे गृहे निःसंशयः।

Continue Reading

श्रीगुह्यसमाजतन्त्रम्- Sree Guhya Samaj Tantram

श्रीगुह्यसमाजतन्त्रम्

ॐ नमःश्रीवज्रसत्त्वाय

प्रथमः पटलः

एवं मया श्रुतम्। एकस्मिन् समये भगवान् सर्वतथागतकायवाक्चित्तहृदयवज्रयोषिद्भगेषु विजहार। अनभिलाप्यानभिलाप्यैः सर्वबुद्धक्षेत्रसुमेरुपरमाणुरजःसमैर्बोधिसत्त्वैर्महासत्त्वैः। तद्यथा। समयवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। कायवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। वाग्वज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। चित्तवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। समाधिवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। जपवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। पृथिवीवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। अब्वज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। तेजोवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। वायुवज्रणे च नाम बोधिसत्त्वेन महासत्त्वेन। आकाशवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। रूपवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। शब्दवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। गन्धवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। रसवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। स्पर्शवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। धर्मधातुवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन।

एवंप्रमुखैरनभिलाप्यानभिलाप्यैसर्वंर्बुद्धक्षेत्रसुमेरुपरमाणुरजः-समैर्बोधिसत्त्वैर्महासत्त्वैराकाशधातुसमाध्मातैश्च तथागतैः। तद्यथा। अक्षोभ्यवज्रेण च नाम तथागतेन। वैरोचनवज्रेण च नाम तथागतेन। रत्नकेतुवज्रेण च नाम तथागतेन। अमितवज्रेण च नाम तथागतेन। अमोघवज्रेण च नाम तथागतेन।

एवं प्रमुखैः सर्वाकाशधातुसमाध्मातैश्च तथागतैः। तद्यथा। अपि नाम तिलबिम्बमिव परिपूर्णः सर्वाकाशधातुः सर्वतथागतैः संदृश्यते स्म।

Continue Reading

आर्यतारा भट्टारिका नामाष्टोत्तर शतक स्तोत्र -Aryatara bhattarika nanastottara sataka stotram

आर्यताराभट्टारिकानामाष्टोत्तरशतकस्तोत्र

ओं नमः श्रीमदार्यतारायै

श्रीमत्पोतलके रम्ये नानाधातुविराजिते ।
नानाद्रुमलताकीर्णे नानापक्षिनिकूजिते ॥ १
नानानिर्झरझंकारे नानामृगसमाकुले ।
नानाकुसुमजातीभिः समन्तादधिवासिते ॥ २
नानाहृदयफलोपेते षट्पदोद्गीतनिस्वने ।
किन्नरैर्मधुरैर्गीतैर्मत्तवारणसंकुले ॥ ३
सिद्धविद्याधारगणैः गन्धर्वैश्च निनादिते ।
मुनिभिर्वीतरागैश्च सततं संनिषेविते ॥ ४
बोधिसत्वगणैश्चान्यैः दशभूमीश्वरैरपि ।
आयतारादिभिर्देवीविद्याराज्ञीसहस्रकैः ॥ ५

Continue Reading

आर्य तारा स्रग्धरा स्तोत्र- Arya Tara Sragdhara Stotram

आर्यतारास्रग्धरास्तोत्र

ओं नमो भगवत्यै आर्यतारायै

बालार्कालोकताम्रप्रवरसुरशिरश्चारुचूडामणिश्री-
संपत्संपर्करागनातिचिररचितालक्तकव्यक्तभक्ती ।
भक्त्या पादौ तवार्ये करपुटमुकुटातोपभुग्नोत्तमाङ्गस्
तारिण्यापच्छरण्यैर्नवनुतिकुसुमस्रग्भिरभ्यर्चयामि ॥ १

दुर्लङ्घे दुःखवह्नौ विनिपतिततनुर्दुर्भगः कांदिशीकः
किं किं मूढः करोमीत्यसकृदपि कृतारम्भवैयर्थ्यखिन्नः ।
श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मीम्
आलोकाशानिबद्धः परगतिगमनस्त्वां श्रये पापहन्त्रीम् ॥ २

सर्वस्मिन् सत्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता
तन्मध्ये तद्ग्रहेण ग्रहणमुपगतं मादृशस्याप्यवश्यम् ।
सामर्थ्यं चाद्वितीयं सकलजगदघध्वान्ततिग्मांशुबिम्बं
दुःखीवाहं तथापि प्रतपति धिगहो दुष्कृतं दुर्विदग्धम् ॥ ३

Continue Reading

शून्यतासप्ततिः-Sunya Saptati by Nagarjuna

शून्यतासप्ततिः

स्वोपज्ञवृत्त्या समन्विता उत्पादस्थितिभङ्गास्तिनास्तिहीनसमोत्तमम् ।

लौकिकव्यवहारात्तु बुद्धेनोक्तं न तत्त्वतः ॥ १ ॥

आत्मा कश्चिन्न चानात्मा ह्यात्मानात्मेतरश्च न ।
वाच्यः सर्वः स्वभावेन शून्यो निर्वाणसदृशः ॥ २ ॥

हेतुप्रत्ययसामग्रयां सर्वस्यां वा पृथक्पृथक् ।
सर्वभावस्वभावो न तस्माच्छून्यं हि विद्यते ॥ ३ ॥

भावो नोत्पद्यते भावान्नाभावोऽविद्यमानतः ।
सदसन्न विरोधान्न स्थितिभङ्गौ ह्यजातितः ॥ ४ ॥

न जायते यदा जातं नाजातमपि जायते ।
जाताजाताच्च नैवं हि जायमानोऽपि जायते ॥ ५ ॥

फले स्यात्फलवान् हेतुः नास्तित्वेऽहेतुना समः ।
सदसत्त्वे विरोधित्वं त्रैकाल्ये नोपपद्यते ॥ ६ ॥

नैकत्वेऽनेकवृत्तिर्न नोऽनेकत्वे हि नैकता ।
तत्प्रतीत्यसमुत्पन्नभावास्ते ह्यनिमित्तकाः ॥ ७ ॥

द्वादशाङ्गो ह्यनुत्पादः समुत्पादः प्रतीत्यजः ।
एकचित्ते न तद्युक्तं बहुष्वपि न युज्यते ॥ ८ ॥

आत्मा नास्ति न चानात्मा नित्यानित्ये दुःखं सुखम् ।
शुचिर्नाशुचिरप्यस्ति विपर्यासा न सन्त्यतः ॥ ९ ॥

Continue Reading

धर्मसंग्रहः – Dharma-Saṅgraha by Nagarjuna

धर्मसंग्रहः – Dharma-Saṅgraha

॥ नमो रत्नत्रयाय ॥

रत्नत्रयं नमस्कृत्य सर्वसत्त्वहितोदयम् ।
कथ्यते मोहनाशाय धर्मसारसमुच्चयः ॥

१. तत्र प्रथमं तावत्त्रीणि रत्नानि । तथद्या – बुद्धो धर्मः संघश्चेति ॥

२. त्रीणि यानानि ।[तद्यथा -] श्रावकयानम्, प्रत्येकबुद्धयानम्, महायानं चेति ॥

३. पञ्च बुद्धाः । तद्यथा – वैरोचनः, अक्षोभ्यः, रत्नसंभवः, अमिताभः, अमोघसिद्धिश्चेति ॥

४. चतस्रो देव्यः । तद्यथा – रोचनी, मामकी, पाण्डुरा, तारा चेति ॥

५. पञ्च रक्षा । तद्यथा – प्रतिसरा, साहस्रप्रमर्दनी, मारीची, मन्त्रानुसारिणी, शीलवती चेति ॥

६. सप्त तथागताः । तद्यथा – विपश्यी, शिखी, विश्वभूः, क्रकुच्छन्दः, कनकमुनिः, काश्यपः, शाक्यमुनिश्चेति ॥

७. चत्वारो लोकपालाः । तद्यथा – धृतराष्ट्रः, विरूपाक्षः, विरूढकः, कुबेरश्चेति ॥

८. अष्टौ लोकपालाः । तद्यथा – इन्द्रः, यमः, वरणः, कुबेरः, ईशानः, अग्निः, नैरृतः, वायुरिति ॥

९. दश लोकपालाः । अष्टलोकपालाधिकमूर्ध्वं ब्रह्मा अधः कृष्णः ॥

१०. चतुर्दश लोकपालाः । तद्यथा – दशलोकपालसकलम्, चन्द्रः, सूर्यः, पृथ्वी, असुरः ॥

११. दश क्रोधाः । तद्यथा – यमान्तकः, प्रज्ञान्तकः, पद्मान्तकः, विघ्नान्तकः, अचरटर्किराजः, नीलदण्डः, महाबलः, उष्णीषः, चक्रवर्ती, सम्भराजश्चेति ॥

१२. अष्टौ बोधिसत्त्वाः । तद्यथा – मैत्रेयः, गगनगञ्जः, समन्तभद्रः, वज्रपाणिः, मञ्जुश्रीः, सर्वनिवरणविष्कम्भी, क्षितिगर्भः, खगर्भश्चेति ॥

१३. षड्योगिन्यः । तद्यथा – वज्रवाराही, यामिनी, संचारणी, संत्रासनी, चाण्डिका चेति ॥

Continue Reading

अभिधर्मसमुच्चय- Abhidharmasamuccaya by Asanga

अभिधर्मसमुच्चय- Abhidharmasamuccaya

Compendium of Abhidharma by Asanga

Asanga, Abhidharmasamuccaya

नमो बुद्धाय

अथ मूलवस्तुनि त्रिधर्मपरिच्छेदः प्रथमः ।

त्रिधर्मः संग्रहः संप्रयोगोऽन्वयश्च लक्षणे ।
विनिश्चये सत्यधर्मौ प्राप्तिः सांकथ्यमेव च ॥
कति कस्मादुपादानं व्यवस्थानं च लक्षणम् ।
अनुकमार्थदृष्टान्तभेदा ज्ञेयाः समुच्चये ॥

स्कन्धा धातव आयतनानि च कति । स्कन्धाः पञ्च । रूपस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्च ॥ धातवोऽष्टादश । चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर्घ्राणधातुर्गन्धधातुर्घ्राणविज्ञानधातुर्जिव्हाधातू रसधातुर्जिव्हाविज्ञानधातुः कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर्मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च ॥ आयतनानि द्वदश । चक्षुरायतनं रूपायतनं श्रोत्रायतनं शब्दायतनं घ्राणायतनं गन्धायतनं जिव्हायतनं रसायतनं कायायतनं स्प्रष्टव्यायतनं मनआयतनं धर्मायतनं च ॥

Continue Reading

अभिधर्मकोषभाष्य – वसुबन्धु – Abhidharmakosha Bhasyam or Commentary on Abhidharmakosha

अभिधर्मकोषभाष्य – वसुबन्धु

प्रथमं कोशस्थानम्

[००१।०३-००१।०७]
ओं नमो बुद्धाय
यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार ।
तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १.१ ॥

[००१।०८]
शास्त्रं प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभते य इति ।

[००१।०९-००१।१०]
बुद्धं भगवन्तमधिकृत्याह हतमस्यान्धकारमनेन वेति हतान्धकारः ।

[००१।१०]
सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः ।

[००१।१०-००१।११]
अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाधकारम् ।

Continue Reading

अभिधर्मकोश-वसुबन्धु -Abhi dharma kosha-VASUBANDHU

अभिधर्मकोश-Abhidharmakosha

प्रथमं कोशस्थानम्

ओं नमो बुद्धाय

यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार ।
तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १.१ ॥

प्रज्ञामला सानुचराभिधर्मः तत्प्राप्तये यापि च यच्च शास्त्रम् ।
तस्यार्थतोऽस्मिन् समनुप्रवेशात्स चा श्रयोऽस्येत्यभिधर्मकोशम् ॥ १.२ ॥

धर्माणां प्रविचयमन्तरेण नास्ति क्लेशानां यत उपशान्तयेऽभ्युपायः ।
क्लेशैश्च भ्रमति भवार्णवेऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा ॥ १.३ ॥

सास्रवानास्रवा धर्माः संस्कृता मार्गवर्जिताः ।
सास्रवाः आस्रवास्तेषु यस्मात्समनुशेरते ॥ १.४ ॥

अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् ।
आकाशं द्वौ निरोधौ च तत्राकाशमनावृतिः ॥ १.५ ॥

Continue Reading