Bodhi Charya Avatara by Shantideva of Nalanda University (700 CE)
Home » Law Library Updates » Law Library » Books » Buddhist & Jaina Texts » Bodhi Charya Avatara by Shantideva of Nalanda University (700 CE)
बोधिचर्यावतारः
प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः सप्तमः परिच्छेदः अष्टमः परिच्छेदः नवमः परिच्छेदः दशमः परिच्छेदः
LANGUAGE : Sanskrit
RELIGION: Mahāyāna Buddhist
Read Next
AUTHOR: Shantideva
PLACE: Nālandā Monastic University
FIRST BOOK
औं नमो बुद्धाय ।
सुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतोऽखिलांश्च वन्द्यान् ।
सुगतात्मजसंवरावतारं कथयिष्यामि यथागमं समासात् ॥ १.१ ॥
न हि किंचिदपूर्वमत्र वाच्यं न च संग्रथनकौशलं ममास्ति ।
अतएव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं ममेदं ॥ १.२ ॥
Read Next
मम तावदनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः ।
अथ मत्समधातुरेव पश्येदपरोऽप्येनमतोऽपि सार्थकोऽयं ॥ १.३ ॥
क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी ।
यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः ॥ १.४ ॥
रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशं ।
बुद्धानुभावेन तथा कदाचिल्-लोकस्य पुण्येषु मतिः क्षणं स्यात् ॥ १.५ ॥
Read Next
तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरं ।
तज्जीयतेऽन्येन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् ॥ १.६ ॥
कल्पाननल्पान् प्रविचिन्तयद्भिर्दृष्टं मुनीन्द्रैर्हितमेतदेव ।
यतः सुखेनैव सुखं प्रवृद्धमुत्प्लावयत्यप्रमिताञ्जनौघान् ॥ १.७ ॥
भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानि हर्तुकामैः ।
बहुसौख्यशतानि भोक्तुकामैर्न विमोच्यं हि सदैव बोधिचित्तं ॥ १.८ ॥
भवचारकबन्धनो वराकः सुगतानां सुत उच्यते क्षणेन् ।
न नरामरलोकवन्दनीयो भवति स्मोदित एव बोधिचित्ते ॥ १.९ ॥
अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घां ।
रसजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्तसंज्ञं ॥ १.१० ॥
सुपरीक्षितमप्रमेयधीभिर्बहुमूल्यं जगदेकसार्थवाहैः ।
गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णत बोधिचित्तरत्नं ॥ १.११ ॥
कदलीव फलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव ।
सततं फलति क्षयं न याति प्रसवत्येव तु बोधिचित्तवृक्षः ॥ १.१२ ॥
कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन ।
शूराश्रयेणेव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः ॥ १.१३ ॥
युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन ।
यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान् ॥ १.१४ ॥
तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः ।
बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥ १.१५ ॥
गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते ।
तथा भेदोऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः ॥ १.१६ ॥
बोधिप्रणिधिचित्तस्य संसारेऽपि फलं महत् ।
न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः ॥ १.१७ ॥
यतः प्रभृत्यपर्यन्त-सत्त्वधातुप्रमोक्षणे ।
समाददाति तच्चित्तमनिवर्त्येन चेतसा ॥ १.१८ ॥
ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः ।
अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः ॥ १.१९ ॥
इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान् ।
हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः ॥ १.२० ॥
शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन् ।
अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः ॥ १.२१ ॥
किमुताप्रमितं शूलमेकैकस्य जिहीर्षतः ।
अप्रमेयगुणं सत्त्वमेकैकं च चिकीर्षतः ॥ १.२२ ॥
कस्य मातुः पितुर्वापि हिताशंसेयमीदृशी ।
देवतानामृषीणां वा ब्रह्मणां वा भविष्यति ॥ १.२३ ॥
तेषामेव च सत्त्वानां स्वार्थेऽप्येष मनोरथः ।
नोत्पन्नपूर्वः स्वप्नेऽपि परार्थे संभवः कुतः ॥ १.२४ ॥
सत्त्वरत्नविशेषोऽयमपूर्वो जायते कथं ।
यत्परार्थाशयोऽन्येषां न स्वार्थेऽप्युपजायते ॥ १.२५ ॥
जगदानन्दबीजस्य जगद्दुःखौषधस्य च ।
चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयतां ॥ १.२६ ॥
हिताशंसनमात्रेण बुद्धपूजा विशिष्यते ।
किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् ॥ १.२७ ॥
दुःखमेवाभिधावन्ति दुःखनिःसरणाशया ।
सुखेच्छयैव संमोहात्स्वसुखं घ्नन्ति शत्रुवत् ॥ १.२८ ॥
यस्तेषां सुखरङ्काणां पीडितानामनेकशः ।
तृप्तिं पूर्वसुखैः कुर्यात्सर्वाः पीडाश्छिनत्ति च ॥ १.२९ ॥
नाशयत्यपि संमोहं साधुस्तेन समः कुतः ।
कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः ॥ १.३० ॥
कृते यः प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते ।
अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यतां ॥ १.३१ ॥
कतिपयजनसत्रदायकः कुशलकृदित्यभिपूज्यते जनैः ।
क्षणमशनकमात्रदानतः सपरिभवं दिवसार्धयापनात् ॥ १.३२ ॥
किमु निरवधिसत्त्वसंख्यया निरवधिकालमनुप्रयच्छतः ।
गगनजनपरिक्षयाक्षयं सकलमनोरथसंप्रपूरणं ॥ १.३३ ॥
इति सत्त्रपतौ जिनस्य पुत्त्रे कलुषं स्वे हृदये करोति यश्च ।
कलुषोदयसंख्यया स कल्पान्नरकेष्वावसतीति नाथ आह ॥ १.३४ ॥
अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततोऽधिकं फलं ।
महता हि बलेन पापकर्म जिनपुत्त्रेषु शुभं त्वयत्नतः ॥ १.३५ ॥
तेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नं ।
यत्रापकारोऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि ॥ १.३६ ॥
बोधिचर्यावतारे बोधिचित्तानुशंसा नाम प्रथमः परिच्छेदः ॥