बुद्धकपालतन्त्र- Buddha Kapal Tantra
Home » Law Library Updates » Law Library » Books » Buddhist & Jaina Texts » बुद्धकपालतन्त्र- Buddha Kapal Tantra
ओं बुद्धकापालिनी ह्रीः
बुद्धकपालतन्त्रे महायोगिनीमते परमरहस्य
चर्यापटल
9 अथातः संप्रवक्ष्यामि चर्यापटलं सुदुर्लभम्।
येन योगी कुरुते सर्व चर्या अत्यन्तवराङ्गना॥१॥
अष्टसिद्धिसमायुक्ता पश्चाच् चर्यां समारभेत्।
यद् यत् सत्त्वाः सिद्ध्यर्थिनो तां तां दापयेत् सदा॥२॥
करे कपालं गृहीत्वा चर्या भ्रमते व्रती। नग्नो मुक्तशिखो भूत्वा यत्र तत्र यदा तदा। एवं चर्या सदा कर्तव्यम्॥३॥
सर्वावरणविनिर्मुक्तं आकाशतुल्यतां गतः। भिक्षाम् अटते प्राज्ञः गृहे गृहे निःसंशयः।
मनोनुकूल सर्वं गृह्णन् तु ध्यानालयः निःसंशयः॥४॥
भिक्षां यदार्थयेद् योगी हृष्टचित्तेन मानसः।
न इति शून्यताभावं ददाति इत् भावनाम्॥५॥
जा इत्य् अनुत्तरम् यानं महामुद्रा स कथ्यते।
जाह इति श्रुतमात्रेण योगी धर्मपरायणः॥६॥
पश्चाद् भक्षयेद् द्रव्यं कपाले तु व्यवस्थितम्।
द्रव्यं भक्षितमात्रेन पतितः सुप्तो महामतिः॥७॥
गृहेऽङ्गणे चैव। च्छारकूटे वृक्षमूले।
यहि तहि यदा तदा। येन तेन हृष्टचेतसा।
ईदृशश् चर्यायोगयुक्तस्य महामुद्रा लभ्यते ध्रुवम्॥८॥
तथा चोक्तं तन्त्रे-
जथा पि तथ पि जह पि तह पि जेन तेन हु बुद्ध।
सैं वि-अप्पे णासि-आ स-अल सहावे शुद्ध॥९॥
इति बुद्धकपालतन्त्रे योगिनीनिरुत्तरे गुह्यातिगुह्यतरे चर्यापटलो नवमः॥॥
10 दिव्यमहौषधिवन्ध्यास्नानविधिपटल
अथातः संप्रवक्ष्यामि सत्त्वार्थैकसुनिश्चयम्।
पटलं हेमकं ध्रुवम्॥१॥
मुक्तिका शुक्तिका चैव राजपट प्रवालस्य च।
येन सत्त्वा धनवतो यान्ति।
आचार्ये प्रसन्ने सन्॥२॥
न त औषध बाह्यम् इत्य् उक्तम्-
न चापि च्छल्ल पल्लवः स च।
न चापि पारदं रसम्।
न गन्धकं नाभ्रकम्।
न ते कान्तवङ्गताम्रकम्।
न चापि अपरलोहस्यापि सिद्धम् औषधम् उत्तमम्॥३॥
ईदृशं वचनं श्रुत्वा वज्रपाणि महाबलः।
प्रणिपत्य पादरजांसि च।
सत्त्वैकदृढभक्तेन साधु देवी इति ब्रुवन्॥४॥
के ते औषधि दिव्या सिद्धिश् च कीदृशी भवेत्।
कथायाहि त्वं महादेवी श्रोतुम् इच्छामि आदरात्॥५॥
कथयाहि त्वं महादेवि।
के ते सिद्धौषधि वराः।
केन सत्त्वो धनवन्तो यान्ति आयुर्वर्धनतत्परम्॥६॥
के ते पठितसिद्ध महौषधी।
पूर्वसेवा नापेक्षन्ति।
केन द्रव्यं बहवो यान्ति वन्ध्या सुतवती भवेत्।
मृतवान् संजीवते न म्रियते पुनः पुनः॥७॥
आह-
अत्रैव गृहे स्थिते।
सिध्यन्ते महौषधी।
स च सिध्यन्ते सुभाजनं दिव्यं
न जानन्ति बाल मोहिताः॥८॥
अज्ञानेनावृता बाला आत्मार्थैकतत्पराः।
कथं सत्त्वार्थ साध्यन्ते हा हा कष्टैकतत्परम्॥९॥
सुभाजने तिष्ठते रसम्।
कर्णिकागूढगोचरे।
नाडि मध्ये रसनी नाम
तिष्ठन्ति दिव्यमहौषधी॥१०॥
लोहं येन हेमतां यान्त्य् एकेनासङ्ख्यं विध्यति।
ईदृशी महौषधी वराम्।
तिष्ठते रसनी तथा॥११॥
संयोगविधिपूर्वेण सिध्यते औषधी वरा।
संयोगं तत्र प्रवक्ष्यामि शृण्वन्तु दृढभक्तितः॥१२॥
सूर्यवती यदा नारी।
तारुण्य कृष्णवर्णा।
श्रुतवती इह तन्त्रे च॥१३॥
निर्लजी निरपेक्षी स्यात् निर्लोभी सत्त्ववत्सली।
तथागतान् सेवयन्ती नित्यं
सुगुप्ता निर्घृणः स च॥१४॥
इमां नारी समागृह्य दिव्यमहौषधि समारभेत्।
अत्यन्तरागिणः पुंसः।
शीघ्रद्रुतिर् भवेद् यस्य स न सिध्यति॥१५॥
ईदृशी महौषधी।
बुद्धानाम् अपि सुदुर्लभा।
ताम् अङ्गनां सेवयेत् प्राज्ञः अत्यन्तवीरचेतसम्॥१६॥
तथा चोक्तम्-
धैर्यं हि परम नायकपदम्। प्रवदन्ति सिद्धाः।
अत एव हि वीरचेतसा कार्यं सुभाजने प्रचोदयेत्॥१७॥
तत्र सूर्यवती नारी हेमकरणसुदुर्लभी।
स्वहृदि चिन्तयेच् चन्द्रं। सिद्धंरसेनालिपितम्।
तत्र ह्रींकारबीजं सर्वद्रव्यैक पूर्वं मेरुराजेन भूषितम्॥१८॥
पश्चात् कार्यं समारभेत् प्राज्ञः सत्त्वार्थैकतत्परः।
सुभाजने निक्षिपयेद् वस्तु
वामे दक्षिणाकुंचितम्॥१९॥
सहपलताम्रं पाशे स्थापयेत् वर्तुलम्। अभावे लोहम् एव च॥२०॥
पश्चात् कर्म समारभेत् प्राज्ञो वीरयोगेन चेतसा।
सुमेरुचन्द्रबीजराजस्य द्रवीभूय निःसंशयः॥२१॥
सुभाजने विश्रमते तत्र च्युतियोगात् खरणम् एव च।
शीघ्रं दिव्यं समागृह्य गुडा लेपयेद् बुधः॥२२॥
लेपितगुडामात्रेण।
अग्निमध्ये निक्षिपयेत्।
पश्चाद् रक्षते प्राज्ञः हेमो भवति निःसंशयः॥२३॥
तस्य मास-म्-एकेन पल शतानि विध्यति।
एवं हेमकरणं दिव्यं
त्रैलोक्ये-म्-अपि दुर्लभम्॥२४॥
अप्रमाणं यदि महौषधि। तदा बुद्धोऽप्य् अप्रमाणः। इदं तन्त्रं महाराज। यद् यद् वस्तु निगदितम्।
सर्वे ते सत्यतां यान्ति बुद्धकापालयोगतः॥२५॥
अयम् अप्रमाणं यः करोति प्राज्ञः श्रुतवन्तो महामतिः।
ते सर्वे नरकं यान्ति यावद् बुद्धैर् न हीयते॥२६॥
चतुराशीतिधर्मस्कन्धसाहस्रं योगिनीनां निरुत्तरम्।
सर्वे ते मिच्छतां यान्ति औषध्यसिद्धमात्रतः॥२७॥
पञ्चानन्तर्यकारिणोऽपि ये सत्त्वा बुद्धधर्मविहेठकाः।
सिध्यन्ते महौषधिं दिव्यं तत्क्षणाद् एव निःसंशयः।
किं पुनर् भावनायुक्तस्य सत्त्वार्थैकतत्परः॥२८॥
सिध्यन्ते औषधीं वराम्।
हेम तारोऽपि जायते।
जीवते कल्पोकोटिं नरः यावद् बुद्धज्ञानम् एव च॥२९॥
अथातः संप्रवक्ष्यामि वन्ध्यानां पुत्रकारणम्।
संयोगेन स्नापितमात्रेण तत्क्षणात् सुतवती भवेत्॥३०॥
स्नानविधिं प्रवक्ष्यामि यथोक्तं पूर्वनायकैः।
पञ्चवर्णरजः कृत्य अथ वा शुक्लम् एव च।
वर्तयेन् मण्डलं घोरं ग्रहणत्रासकारकम्॥३१॥
कलशं चत्वारस् तत्र।
वर्तुलं बृहदुदरम्।
उदकेन पूरयेत् प्राज्ञः वस्त्रेणापि वेष्टयेत्॥३२॥
लिखितं चिह्नम् आत्मानैव रुधिरेण तु।
सा स्त्री या वन्ध्या तस्या एव।
प्रधानधातु संगृह्य
कलशमुखं लेपयेद् विदुः॥३३॥
पश्चाद् भावनापरयुक्तस्य श्रीहेरुकपदे स्थितः।
कृष्णरक्तमहाघोरं वज्रहूंकारसम्भवम्।
प्रलयानलभीषणं घोरहूंकारम्
उच्चारणन् विदुः॥ ३४॥
चतुर्भुजम् एकवक्त्रं च एवम् उच्चारणन् विदुः।
कलशमध्ये भावयेत् प्राज्ञः
नृत्यन्तं गुरुभीषणम्॥३५॥
पश्चाच् चत्वारः पुंसाः खड्गधृता महायशाः।
अत्यन्तक्रोधचेतसा॥३६॥
तत्क्षणात् स्नानमात्रेण ते पुंसा गुरुभीषणाः।
आकाश हन्यन्ते खड्गेन मारयन्ति च॥३७॥
ईदृशो योगयुक्तस्य स्नापिता प्रमदा तथा।
सुतवती भवेद् वन्ध्या बुद्धकापालयोगतः॥३८॥
इति बुद्धकपालतन्त्रे योगिनीनिरुत्तरे गुह्यातिगुह्यतरे
दिव्यमहौषधिवन्ध्यास्नानविधिपटलो दशमः॥॥
(११)
विद्याधरकरणोपदेशनिश्चयपटल
अथातः संप्रवक्ष्यामि पटलं गारुडयोगजम्।
पूर्वोक्तविधानेन मण्डलं वर्तयेद् बुधः॥१॥
हेरुकं निष्पादयेत् प्राज्ञोऽष्टयोगिनी समन्ततः।
पूर्वोक्तचिह्नभुजाद्यैः परं हि वर्ण शुक्लम् एव च।
दिग्योगिनी भवेत् शुक्लं विदिग् रक्तम् एव च॥२॥
पूर्वोक्तविधानैश् च मण्डलं प्रतिष्ठते बुधः।
कलशं चत्वारि चैव पूर्वोक्तचिह्नं लिखेत्॥३॥
पश्चाच् छिष्यम् अनुग्रहेत्।
विद्याधरकरणयोगतः।
पूर्वा विधानेन व्-अध्येषणा दानं गणचक्रम्॥४॥
पश्चान् मण्डलं पूजापयेत्।
अनेनैव मन्त्रेण पुनः शिष्यम् अनुग्रहेत्॥५॥
दष्टक भूतले न किंचिज् जीवापयितुं शक्यते।
त्यक्तं गारुडिकेन कालदष्टं वदन्ति च॥६॥
पश्चात् कर्म समारभेत् प्राज्ञो बुद्धकापालयोगिनः।
आत्मानं हेरुको भूतोऽष्टयोगिनी समन्ततः।
सर्वे ते शुक्लदेहा तु।
विधिवद् योगं तु॥७॥
शालिपिष्टकमयं गृहीत्वा विद्याधरद्वयं कारयेत्।
तस्य हस्ते दापयेत् खड्गम् अत्यन्तसमाहितः॥८॥
तस्य हृदये लिखेन् मन्त्रं यत्र तत्र पत्रे तथा।
महातैलेन कृत्वा मसीं मन्त्रं लिखेद् विदुः॥९॥
मन्त्रः-
ओं बुद्धकापालिनी ह्रीः। ओं कापालवज्रिणी आः। विध्वंसय सर्वनागान्। उत्थापय विध्याधरान्। जीवापय
कालदष्टान्। भो भो भगवति बुद्धकापालिनी सर्वनागक्षयंकरी। हः ह हः स्वाहा॥
विद्याधरस्य हृदयमन्त्रः॥ १०॥
एवं परिपूर्णं कृत्वा पत्र हृदय स्थापयेत्।
अनेन मन्त्रेण पल्लवेन सप्तवारान् अवाहयेत्॥११॥
ओं बुद्धकापालिनी। घट् घट् घड घड ह्रीः ह्रीः हः हः हे हे हं हः॥१२॥
सप्तवारावाहितमात्रेण विद्याधरद्वयम्।
अन्तरीक्षं भूत्वा युध्यन्ति।
एकस्मिन् खण्डखण्डं भूत्वा पतति
दष्टकोत्थति नात्र संशयः॥१३॥
अपरोऽपि करण।
ये दुर्लभाः पद्मोत्स्थालादि।
पञ्चदश पुस्तके न लिखितं
गम्यते गुरुप्रसादतः॥१४॥
इति बुद्धकपालतन्त्रे योगिनीनिरुत्तरे गुह्यातिगुह्यतरे विद्याधरकरणोपदेशनिश्चयपटल एकादशः॥॥
12 नानामन्त्रप्रयोगपटल
अथ वज्रपाणिश् चित्रसेना योगिनी मुहुर् मुहुः प्रणिपत्यैवम्
उवाच-॥१॥
साधु देवी महाप्राज्ञा प्रधानभूतयोगिनी।
उक्तं त्वया यत् प्रयोगं त्रैलोक्येष्व् अपि दुर्लभम्॥२॥
दृष्टा मया सर्वतन्त्राणि ये ते प्रयोगाः सुदुर्लभाः।
इह तन्त्रे त्वया यद् उक्तं सर्वबुद्धैर् न भाषिताः॥३॥
अहो ही सत्त्वार्थतत्परि।
अहो ही सर्वबुद्धसंजननी
अहो ही महामुद्रातत्परि॥४॥
भाषस्व देवि सर्वमन्त्राणां
ये ते प्रयोगाः सुदुर्लभाः।
योगिनो येन चित्रं कुर्वन्ति नानाश्चर्यम् एव च।
प्रथमपटले यद् यद् उक्तं देवि
तत्प्रोयोगं कथयाहि मे॥५॥
ईदृग् वचनं श्रुत्वा चित्रसेना तु योगिनी।
हसिताट्टट्टहासेन। त्रासिताः सर्वदेवाश् च॥६॥
माराः सर्वे प्रपलायन्ति विघ्नाश् च प्रलयं गताः।
आश्चर्यं जिनवरैः सर्वैः अहो हासस्य निश्चयः॥७॥
आह-
ध्वजम् आलम्बितं गृहीत्वा।
मांसं तस्यापि गृह्णाति।
तस्य कटिभागास्थिं तु गृहीत्वा कुण्ड कारयेत्॥८॥
तस्य कापालम् अनु गृह्य तेनैव शिरसा वर्ति दापयेत्।
तस्य तैलेनापूरयेत् कुण्डम् उपरि स्थापयेत्॥९॥
अपरोऽपि कज्जल पातयेत्।
यावत् कज्जल पतति।
योगी बुद्धकापालधरो भूत्वा इमं मन्त्रम् उच्चारयन्॥१०॥
ओं बुद्धकपालिनी धर धर धधर धधर धरापय धरापय शोषय शोषय तापय तापय द्रां द्रां आं मां सां र वां कुरु कुरु भो
भगवति बुद्धकापालस्याज्ञा मा लंघय शीघ्रं कज्जल पत पत पातय पातय ओं ओं आः हूं सुम्भय भो भगवति हूं स्रां फट्॥११॥
ईदृशं मन्त्रराजस्य त्रैलोक्यम् अपि शोषोणम्।
भूतवेताडडाकिन्यः राक्षसाः पिशाचादयः॥१२॥
श्रुतमात्रेण प्रलयं यान्ति।
अन्येऽपि च विघ्नाः सर्व।
तावद् उच्चारयेन् मन्त्रं।
यावत् कज्जलं न पतति च॥१३॥
कज्जलपतितमात्रेण।
द्वयकरेण गृहीत्वा च।
पश्चाद् योगी महाप्राज्ञः केलिमालिनी पिवेतं पुनः॥ १४॥
षोडशाब्दिकां कन्या रूपयौवनकृपावतीम्।
तां कामयेद् योगी सत्त्वार्थैकतत्परः॥१५॥
नग्नी मुक्तशिखी भूत्वा
हाःहोःमन्त्रम् उच्चारयेद् विदुः।
केलिमालिनी पिवापयेत् तत्र पश्चात् क्रीडा समारभेत्॥१६॥
अट्टट्टहासिनो भूत्वा फेत्कारं तु महाकृपा।
कज्जलं तु महादिव्यं वामहस्ते तु स्थापयेत्॥१७॥
पश्चात् शनैः कार्यैः कुर्वाद् योगं विचक्षणः।
तदुद्भवं यद् द्रव्यं पद्मकेशरसम्भवान्॥१८॥
तेनैव कज्जलेन मलनम् अनामिकाङ्गुष्ठेऽस्य च।
कुसुमं दापयेद् वडिकां कारयेद् अष्टोत्तरशतानि॥१९॥
एकैकवटिकां अष्टोत्तरमन्त्रशतेनाभिमन्त्र्य जपेत्-ओं बुद्धकापालिनी ह्री हूं फट्॥ २०॥
अनेन मन्त्रेण कज्जलं तु
महाबाहो त्रैलोक्येष्व् अपि दुर्लभम्।
दुर्लभं सर्वतन्त्रेषु दुर्लभं योगिनीपरम्॥२१॥
अञ्जितकज्जलमात्रेण अनामिकाङ्गुष्ठेन तु।
पश्यते सर्वबुद्धांश् च त्रिसाहस्ररजोपमान्॥२२॥
अशीतिलक्षयोजन।
अधोर्द्धेन पश्यति।
वामहस्तमलितमात्रेण
तत्क्षणाद् एव भद्रको स जायते॥२३॥
तर्ज्जन्याञ्जितमात्रेण पश्यते सचराचरम्।
प्रेतभूतपिशाचानाम् अन्यानि च सिद्धानि च॥२४॥
योजनकोटिसहस्रं तु अधोर्द्धेन पश्यति।
वामहस्ते मलितमात्रेण
स्वस्थो भवति न संशयः॥२५॥
मध्यमेनाङ्जितमात्रेण।
अत्यन्ताश्चर्यकारको भवति।
सप्तताडप्रमाणानि कृष्णज्वालान्तशेखरः।
स्फुटयेत् सर्वमेघानाम् एष कज्जल दुर्लभः॥२६॥
वामहस्तेन मलितमात्रेण मनुष्यतां यान्ति तत्क्षणात्।
वृद्धाङ्गुष्ठेनाञ्जितमात्रेण
कज्जलं तु महात्मनः॥२७॥
प्रतिमां तु लिङ्गपर्वतवृक्षं तु अन्यानि यानि तानि च।
क्रोधदृष्ट्यावलोकितमात्रेण
(२०)
खण्डं सहस्रं तु जायते॥२८॥
पुनर् वामेन मलितमात्रेण स्वस्थो भवति न संशयः।
कनिष्ठाङ्गुष्ठेनाञ्जितमात्रेण
चक्षुरदृश्यो भवति तत्क्षणात्।
बुद्धैर् अपि न दृश्यते॥२९॥
त्रिदशेषु भ्रमेत् प्राज्ञः यद् यद् वस्तुम् इच्छति।
भाण्डारप्रियद्रव्यम् एव च।
हरते तत्क्षणाद् एव कज्जलस्य महात्मनः॥३०॥
ईदृशं कज्जलं प्रयोगं नानाप्रयोगसुदुर्लभम्।
करोत्य् अञ्जनमात्रेण स्वरूपपरिवर्तनं स च॥३१॥
अनेन कज्जलेनैव।
विद्याधरो भवति।
काकोलूकशकुनसर्पश्वान-
-जम्बुकमहाव्याघ्रभल्लू ओतुकः।
तथा मक्षिकाश् च तथा हस्ति गर्दभम् एव च॥३२॥
एवं चित्रं करोति कज्जलेन तु।
सर्वत्र सर्व एव च।
प्रयोगः परम् अत्र दुर्लभाः।
प्रयोगाः पुस्तकेऽलिखिता ज्ञातव्या गुरुप्रसादतः॥३३॥
अथातः संप्रवक्ष्यामि योगम् अतिदुर्लभम्।
(२१)
मन्त्रास्थिसंयोगेन नानाचित्रं करोत्य् असौ॥३४॥
ओं बुद्धकापालिनी ह्रीं ह्रं।
हस्त्यस्थिकेन कर्तव्यं।
मारणं प्रयोगम्॥३५॥
ओं बुद्धकापालिनी खं ह्रीं फट्।
अश्वास्थिकेन कर्तव्यम् उच्चाटनं सुदुर्लभम्॥३६॥
ओं बुद्धकापालिनी त्र्यां ह्रीं ह्रीः।
गो अस्थिकेन कर्तव्यं शत्रुहृदयकीलनम्॥३७॥
ओं बुद्धकापालिनी आः हूं फट्।
श्वानास्थिकेन कर्तव्यं स्तम्भनं च महाविदुः॥३८॥
ओं बुद्धकापालिनी ह्रीः वौषट्।
नरास्थिकेन कर्तव्यम् आकृष्टिः॥३९॥
ओं बुद्धकापालिनी वुं हूं।
गर्दभास्थिकेन कर्तव्यं मोहनम्॥४०॥
ओं बुद्धकापालिनी आं ह्रीः ह्रीः।
उलूकास्थिकेन कर्तव्यं वश्यम्॥४१॥
ओं बुद्धकापालिनी हाः फट् हूं।
शकुनास्थिकीलकेन विद्वेषः॥४२॥
ओं बुद्धकापालिनी ज्रिणी द्रां।
गर्दभास्थिकेन जम्भनः॥४३॥
(२२)
ओं बुद्धकापालिनी धर २ हा हे हो हं हः।
जम्बुकास्थिकेन सङ्ग्रामविजयः॥४४॥
ओं बुद्धकापालिनी रम २ क्रीड २ हं हः।
महिषास्थिकेन रतिक्रीडा द्वादशवर्षा स रात्रौ दिने नरो चित्-
तं न पतति॥४५॥
ओं बुद्धकापालिनी तट २ त्राटय २ मट् स्फट् स्फोटय
उत्पाटय हूं फट्।
सर्पास्थिकेन वृक्षोत्पाटनम्॥४६॥
ओं सुकपालिनी घर २ मट २ त्राटय २ पट २ प्रटापय
२ त्रुट स्फट मोटय २ संक्रामय ह्रीं हूं त्रयां
फट्।
व्याघ्रास्थिकेन पर्वतोत्पाटनम्॥४७॥
ओं बुद्धकापालिनी हे त्रासय मारय घुट घुटिनी
सर्ववनस्पतीनां हृदय ताडय विद्रापय रम २
त्रासय २ भो भगवती अं आं आं तट् २ हूं फट्।
लोहकेन वनस्पतिनिवारणम्॥४८॥
आह-
चित्त्ऽ एक विमल दर्प्पणं
जं चिन्तिजै तं पि पति
विश्वं जाणन्ति वि शुणा।
तहै वि-अप्पेण घेप्पन्ति॥४९॥
(२३)
इति बुद्धकपालतन्त्रे योगिनीनिरुत्तरे गुह्यातिगुह्यतरे नाना-
मन्त्रप्रयोगः पटलो द्वादशमः॥॥
(२४)
13 चित्तविशुद्धिपटल
अथातः संप्रवक्ष्यामि
विशुद्धिपटलं शुद्ध दुर्लभम्॥१॥
भगिनी भागिनी जननी दुहिता भार्या-म्-एव च।
एवं कामयेत् प्राज्ञ महामुद्रां यद् इष्यते॥२॥
डोम्बिनी नर्तकी चैव। धोर्विणी चण्डालिनी चर्मकारिणी स्मृता।
एवं कामयेद् धीमान् पञ्चैते योगिनी वराम्॥३॥
अथातः संप्रवक्ष्यामि अशुद्धचित्तशोधनात्॥४॥
भगिनी भवेत् चक्षुर् भागिनी तु श्रोत्रम् एव च।
जननी भवेद् घ्राणं रसं दुहिता तु एव च।
मनो भवेद् भार्या। पञ्चैते वरा दिव्यां महामुद्राप्रदायिकी॥५॥
नर्तकी भवेन् मोहं द्वेषं डोम्बिनीषु च।
राग भवेद् धोर्वी।
मानं चण्डालिनी ख्याता।
महेर्ष्या चर्मकारी च पञ्चैते वराङ्गना॥६॥
चक्षुषा दृश्यते मोहं शब्दं द्वेषोऽपि जायते।
घ्राणेन भुज्यते रागं रसं मानं तु एव च।
स्पर्शेन जायते ईर्ष्या चित्तस्याशुद्धम् एव च॥७॥
तस्माद् योगी महाप्राज्ञ अत्यन्तयोगचेतसः।
सिद्धिर् न स्याद् भवेत् शुद्ध्या पुनर्जन्मभवान्तरे॥८॥
अभावेन कथं भावो। भावः कीदृशं अभावो भावो भाव्यः कथं भवेत्॥९॥
भगिनी कथं रूपं गौरी श्यामा कृष्णवर्णजाम्।
ईदृशं रूप संयुक्तं शुद्धचित्तो न द्रक्ष्यति॥१०॥
भागिनी कथं श्रूयते शब्दः ध्वनिस् त्रिविधम् एव च।
ईदृशो योगयुक्तस्य शुद्धचित्तो न शृणोति॥११॥
घ्राणं त्रिविधं दृष्ट्वा का या सा जननी सुगुह्यका।
अदृष्टमानसं युक्तं कथं रगोऽपि जायते॥१२॥
स्वजिह्वेन भुञ्जते द्रव्यं षड्रसं स्वाद यादृशी।
स्वादेन भुञ्जते युक्तं स्वादं रूपस्य कीदृशी॥१३॥
मनेन सुखं हर्षम् एव च।
मनः सुखम् उभयविचारणात्।
विचार तत्र न विद्यते॥१४॥
भावे न अभावो अस्ति अभावम् एव च।
भावाभावम् उभयशून्यम्
एते चित्तस्य शुद्धता॥१५॥
अतः परं प्रवक्ष्यामि बाह्यकायशोधनात्॥१६॥
दृष्टियुक्तं भवेत् करुणा मैत्री आलिङ्गनस्य च॥
संगुप्ते योगात्मा मुदिता वराङ्गना तथा।
उभयमेलापकं तत् क्षरणम्
उपेक्षा रसा स्मृता मया॥१७॥
एवंभावयोगयुक्तस्य कथं रागेण बाध्यते।
दर्शनाज् जायते दुःखम् आलिङ्गनात् किंचित् तत्फलम्।
संघर्षणाज् जायते हर्षो विषादं सर्वशेषतः॥१८॥
एवं त्रैधातुक उत्पन्नं हर्षविषाद एतत् फलम्।
संशुद्धचित्तयोगात्मा त्रयवस्तु न बाध्यते॥१९॥
यत् किंचित् खान पानं च सुखावहभोजनं तथा।
तत् सर्वं विण्मूत्रादि प्रकल्पयेत् योगवित् सदा॥२०॥
यत् किंचिद् रतिक्रीडा आलिङ्गनचुम्बनस्य च।
मलनः मर्दनश् चैव महामुद्रा स कथ्यते।
ईदृशो भावयुक्तस्य सिध्यते नात्र संशयः॥२१॥
पञ्च योगिनी बुद्धस्य लक्ष्मीमहामुद्राप्रदायिका।
तां पूजयेद् योगी कामते न च लिप्यते॥२२॥
लेप ईर्ष्यादिसंयुक्तं तस्य दोषैर् न बाध्यते।
स योगी परमं तत्त्वम् भवदोषैर् न लिप्यते॥२३॥
यावन् न विषय उन्मुलि-ऐ ताम बुधतणु केम।
से-अरहि-अनव-अंकुरह तरुसम्पत्ति न जेम॥२४॥
इति बुद्धकपालतन्त्रे योगिनीनिरुत्तरे गुह्यातिगुह्यतरे चित्-
तविशुद्धिपटलः त्रयोदशमः॥॥
14 जापमुद्राध्येषणासर्वतन्त्रनिदानपटल
अथातः संप्रवक्ष्यामि।
चित्रसेनाप्रशस्यपटलम्॥१॥
तथा-
अथ वज्रपाणिप्रभृतयो बोधिसत्त्वाः सुमेरुपरमाणुर-
जसमा योगिन्यः, उत्फुल्ललोचना हृष्टचित्ता चित्रसेना प्रणिपत्ति स्तूयन्त॥२॥
अहो ही भगवती देवी।
सर्वबुद्धानां तु जननी लक्ष्मी घोरा महायशा।
सत्त्वार्थेषु वत्सली॥३॥
महाकृपावती देवी।
महाप्रज्ञा महामुद्रा महार्थफलप्रदायिका॥४॥
बुद्धकापाले महातन्त्रे बुद्धैर् येषां न प्रकाशिता।
गोपिता वज्रधरेणैव बोधिसत्त्वाश् च अगोचराः।
तां भाषिता देवी एक रुतेन प्रकटीकृताः॥५॥
अहो ही महाभाजना देवी सर्वयोगिनीपिण्डीकृता।
ये ते सिद्धं सुदुर्लभम्।
सर्वे तथागतेष्व् अगोचराः।
तां प्रकटीकृता देवी पठिमात्रेण सिध्यति॥६॥
अहो शृण्वन्तु भगवती।
योगिन्यो बोधिसत्त्वाः शृण्वन्तु।
वीतरागा महार्द्धिकाः शृण्वन्तु।
तथागताश् च सर्वबुद्धाः शृण्वन्तु
नागाश् च सदेवमानुषाः॥७॥
अयं तन्त्रराजस्य पाठमात्रेण यत् पुण्यं तत् सर्वपुण्यम्
अनुमोदयन्तु परिणामयन्तु महामुद्रार्थे निर्यातयन्तु बुद्धगुणाकरान्॥८॥
क्षमन्तु मां यत् प्रकटीकृतम्।
गूढार्थं मन्त्राश् च प्रयोगं सुदुर्लभम्। सुगुप्तगोचरस्य च।
प्रकटीकृत्य सत्त्वार्थेन जिनवरैः क्षमन्तु माम्॥९॥
अथातः संप्रवक्ष्यामि मन्त्रजापं महाबलम्।
यद् इच्छेत् सिद्धिं वरां दिव्यां जपेद् बुद्धकापालयोगतः॥१०॥
ओं ह्रीं बुद्ध हूं कापालिनी आः॥
प्रवेशे ओं। निष्काशे ह्रीं। विश्रामे बुद्धः। सुखे हूं।
अस्तमये कापालिनी। उत्थाने आः॥ ११॥
एवंजापं सुदुर्लभम्।
एवं बुद्धकापालयोगतः।
एवंजापं मानयुक्तं सिद्धिर् भवति न संशयः॥१२॥
हृदयमन्त्रः-
ओं बुद्धकापालिनी आः हीः हैः हूं फट्॥१३॥
उपहृदयमन्त्रः-
ओं बुद्धकापालवज्रिणि हौ दुर्जय दुर्लक्षे हूं फट्॥१४॥
अथातः संप्रवक्ष्यामि सेककाले यथा विधिम्।
प्रज्ञा अध्येषते येन शिष्येण दृढभक्तितः॥१५॥
मण्डलपञ्चकं कृत्वा सुगन्धेन तु वस्तुना।
अध्येषयति महादेवी सर्वबुद्धैर् अलंकृता॥१६॥
पिवावयति दिव्यद्रव्यं खाद्य मुख दापयेत्।
पीविता द्रव्य हृष्टचित्तेन मानसः॥१७॥
हर्षिता देवी दृष्ट्वा इदम् वचनम् अब्रवीत्।
संसारपङ्कलग्नोऽहं त्राता भवाहि सुन्दरी॥१८॥
छन्नवासनासंयुक्तं विकल्पं बहुलेन च।
तान् उपशमयस्व देवी महायशा कृपावती॥१९॥
निर्यातयेद् अलंकार तत् सर्वाभरणमण्डिताम्।
पश्चात्
आत्मानं निर्यातयेत् प्राज्ञ दृढभक्तेन चेतसा॥२०॥
नानाखाद्यं नानापेयं तस्य पुरतो निर्यातयेत्।
प्रज्ञा तोषिता येन सर्वबुद्धैः प्रपूजिताः॥२१॥
अत्रैव स्थिते बुद्धा अपरोऽपि सिद्धनायकाः।
तत्रैव तिष्ठन्ति सर्वडाकिन्यः अन्ये ये च कृपाकुलाः॥२२॥
इन्दी यत्थ विलयगौ नट्ट वि अप्पसहाव।
सो हले परमाणन्दगै फुड पुच्छह गुरुपा-अ॥२३॥
तस्मै नमो यदुदयेन समानकालम्
अस्तङ्गतानि विषयैः समम् इन्द्रियाणि।
यश् चाभिनन्दजिनसुन्दरमूर्तिर् एको जागर्ति कोऽपि निभृतं हृदि पण्डितानाम्॥२४॥
इति बुद्धकापालतन्त्रे योगिनीनिरुत्तरे गुह्यातिगुह्यतरे
जापमुद्राध्येषणासर्वतन्त्रनिदानपटलश् चतुर्दशः॥॥
इदम् अवोचत् चित्रसेनायोगिनीप्रभृतयः सर्वयोगिन्यः
वज्रप्राणिप्रभृतिबोधिसत्त्वा सर्वे महाबोधिसत्त्व स्वकस्वके स्थाने विहरन्। तूष्णीभावे व्यवस्थितः॥॥
इति बुद्धकपालतन्त्रे महायोगिनीमते परमरहस्य समाप्तः॥॥