व-वकारः [ba-Ba∧kara]
व -व्यञ्जनवर्णभेदः । स च स्पर्शोष्मवर्णयोरन्तःस्थितत्वात्
अन्तःस्थवर्णभेदः अस्योच्चारणस्थानं दन्तोष्टौ “दन्त्याष्ठ्यो
वः स्मृतो बुधैः” शिक्षोक्तेः । अस्योच्चारणे जिह्वा-
ग्रेण दन्तौष्ठयोरीषत्स्पर्शात् ईषत्स्पृष्टता आभ्यन्तर-
प्रयत्नः । बाह्यप्रयत्नाश्चास्य विवारनादघोषा अल्पप्राणश्च ।
अस्य दन्त्यौष्ठ्यत्वात् दन्त्यत्वं क्वचिच्च ओष्ठ्यत्वमाश्रित्य
कार्य्यभेदस्तेन संवुपूर्षतीत्यादौ ओष्ठ्यत्वमाश्रित्य लः
अणपरः । दन्त्यत्वमाश्रित्य च अनुस्वारस्थाने अनुनासिको
बो वा पक्षे अनुस्वारस्थितिः । अस्य मातृकान्यासे
वामस्कन्धे न्यस्यता । काव्यादौ प्रयोगे “व्यसनमथ लवौ” वृ०
र० टी० उक्तेः व्यसनं फलम् । वर्णाभिधाने अस्य वा०
चकशब्दा उक्ता यथा “वो वाणो वारुणी सूक्ष्मा
वरुणो मेदसंज्ञकः । खड्गीशो ज्वालिनी वक्त्रं कलसो
वारिवाचकः । उत्कारी शालिनी शान्ता वातः स्फिक
सागरः शुचिः । इन्द्रधारा च वामांसः करमूलं
च नर्त्तकः । जगद्भाषी सारिणी च देवोऽलिङ्गोऽनिरुद्धकः ।
गिरिराजो निवृत्तात्मा व्यङ्कद्या निन्दिनी करः” अस्य
ध्येयस्वरूपं यथा “वकारं चञ्चलापाङ्गि! कुण्डली
मोक्षमव्ययम । पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा ।
त्रिविन्दुसहितं वर्णमात्मादतत्त्वसंयुतम् । पञ्चदेवमयं
वृर्णं पीतविद्युल्लतोपमम् । चतुर्वर्गप्रदं वर्णं सर्वसिद्धि-
प्रदायकम्” कामधेनुत० “अस्याधिष्ठातृध्येयरूपं यथा “कुन्द-
पुष्पप्रभां देवीं द्विभुजां पङ्कजेक्षणाम् । शुक्लमाल्याम्बर-
धरां रत्नहारोज्ज्वलां पराम् । साधकाभीष्टदां सिद्धा
सिद्धिदां सिद्धसेविताम् । एवं ध्यात्वा वकारं तु तन्मन्त्रं
दशधा जपेत्” वर्णोद्धारतन्त्रम् ।
व पु० वा–ड । १ वायौ २ वरुणे ३ सान्त्वने ४ मन्त्रणे मेदि०
५ राहौ ६ कल्याणे ७ बलवति ८ वसतौ ९ समुद्रे च शब्द-
च० १० व्याघ्रे० ११ वसने १३ शालूके १३ वन्दने च एकाक्षर-
को० । १४ सादृश्ये अव्य० मेदि० “शात्रवं व यशः पपुः”
रघुः । १५ वरुणे न० मेदि० । १६ वरुणवीजे मान्तमव्यवम् ।