वज्र – Vazra
वज्र पुंन० वज–रन् । १ हीरके २ इन्द्रस्यास्त्रभेदे च । तच्च
दधीचिमुन्थस्थितो जातम् भाग० ५ । १० अ० उक्तम् २ ब्रालके
३ धात्याम् न० मेदि० ४ काञ्जिके जटा० ५ वज्रपुष्पे शब्दर० ।
६ लौहभेदे ७ अभ्रम्भेदे न० भावप्र० ज्योतिषोक्ते विष्कुम्भादिषु
सप्तविंशतौ योगेषु मध्ये पञ्चदशे योनभेदे च न० ।
९ कोकिलाक्षवृक्षे १० श्वेतकुशे पु० राजनि० । ११ श्रीकृष्णस्य
प्रपौत्रे यदुवंश्ये नृपभेदे च पु० भाग० । १२ सेहुण्डुकवृक्षे
भावप्र० । हीरकवज्रलक्षणादि वृ० स० ८० अ० उक्तं यथा
“रत्नानि बलाद्दैत्याद्दधीचितोऽन्ये वदन्ति जातानि ।
केचिद्भुवः स्वभावाद् वैचित्र्यं प्राहुरुपलानाम् ।
इत्युपक्रमे ।”
“वेण्वातटे विशुद्धं शिरीषकुसुमोपमं च कौशणकम् ।
सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम् । पत्ताम्रं
हिमवति मतङ्गज वल्लपुष्पसङ्काशम् । आपीतं च
कलिङ्गे श्यामं पौण्ड्रेषु सम्भूतम् । ऐन्द्रं षडश्रि-
शुक्लं याम्यं सर्पास्यरूपमसितं च । कदलीकाण्डनिकाशं
वैष्णवमिति सर्वसंस्थानम् । वारुणमबलाग्रह्यापमं भवेत्
कर्णिकारपुष्पनिभम् । शृङ्गाटकसंस्थानं व्याघ्राक्षिनिभ
च हौतभुजम् । व्रायव्यं च यवोपममशोककुसुमप्रभं
समुद्दिष्टम । स्रोतः स्वनिः पकीर्णकमित्याकरसम्भव-
स्त्रिविधः । रक्तं पीतं च शुभ राजन्यानां सितं
द्विजातीनाम् । शैरीषं वैश्यानां शूद्राणां शस्यतेऽसि-
निभम् । सितसर्षपाष्टकं तण्डुलो भवेत्तण्डुलैस्तु
विंशत्या । द्वे लक्षे मूल्यं द्विद्व्यूनिते चैतत् ।
पादत्र्यंशार्धोनं त्रिभागपञ्चांशषोडशांशाश्च । भागश्च पञ्च-
विंशः शतिकः साहस्रिकश्चेति । सर्वद्रव्याभेद्यं लघ्व-
म्भसि तरति रश्मिवत् स्रिग्धम् । तडिदनलशक्रचापोपलं
च वज्रं हितायोक्तम । काकपदमक्षिकाकेशधातुयुक्तानि
शर्कराविद्धम् । द्विग्रणाश्रि दिग्धकलुषत्रस्तविशीर्णानि
न शुभानि । यानि च बुद्बुददलिताग्नचिपिटवासी-
फलप्रदीर्घाणि । सर्व्रेषां चैतेषां मूल्याद्धागोऽष्टमो
हानिः । वज्रं न किञ्चिदपि धारयितव्यमेके पुत्रार्थि-
नीभिरबलाभिरुशन्ति तज्ज्ञाः । शृङ्गाटकत्रिपुटधान्यक-
वतस्थितं यच्छ्रोणीनिभं च शुभदं तनयार्थिनीनाम् ।
स्वजनविभवजीवितक्षयं जनयति वज्रमनिष्टलक्षणम् ।
अशनिविषभयारिनाशनं शुभमुरुभोगकरं च मूभृताम् ।”
ह्नीरकोत्पत्त्यादि गारुड़े ६८ अ० उक्तं यथा
“तस्या(ब्रलस्या)स्थिलेशो निपपात येषु भुवः प्रदेशेषु
कथञ्चिदेव । वज्राणि वज्रायुधनिर्जिगीषोर्भवन्ति नाना-
कृतिमन्ति तेषु । हैसमातङ्गसौराष्ट्राः पौण्ड्रकालिङ्ग-
लोषलाः । वेण्वातटाः मसोवीरा वज्रस्याष्टाविहाकराः ।
आतामा हिमशैलजाश्च शशिभा वेण्वातटीयाः स्मृताः
सौवीरे तुषिताब्जमेघसदृशास्ताम्राश्च सौराष्ट्रजाः ।
कालिङ्गाः कनकावदातरुचिराः पीतप्रभाः कोषले
श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्तपीतप्रभाः ।
अत्यर्थं लघुवर्णतश्च गुणवत् पार्श्वेषु सम्यक् समं रेखा-
विन्दुकलङ्ककाकपदकत्रासादिभिर्वर्जितम् । लोकेऽस्मिन्
परमाणुमात्रमपि यत् वज्रं क्वचिद्दृश्यते तस्मिन्
देव! समाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं वदि ।
वज्रेषु वर्णयुक्त्या देवानामपि परिग्रहः प्रोक्तः ।
वर्णेभ्यश्च विभागः कार्य्यो वर्णाश्रयादेव! । हरित
पीतपिङ्गश्यामाताम्राः स्वभावतो रुचिराः ।
हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वकावर्णाः ।
विप्रस्य शङ्खकुमुदस्फटिकावदातः स्यात् क्षत्त्रियस्य शशबभ्रु
विलोचनाभः । वैश्यस्य कान्तकदलीदलसन्निकाशः
शूद्रस्य धौतकरवालसमानदीप्तिः । द्वौ बज्रवर्णौ पृथिवी-
पतीनां सद्भिः प्रतिष्ठौ न तु सार्वजन्यौ । यः स्याज्जवा
विद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः ।
ईशत्वात् सर्ववर्णानां गुणवत् सार्वचर्णिकम् । कामतो
धारयेद्राजा नत्वन्योऽन्थत् कथञ्चन । अधरोत्तरवृत्त्या हि
यादृक् स्याद्वणसङ्करः । ततः कष्टतरो वज्रो वर्णानां
सङ्करो मतः । न च मार्गविभागमात्रवृत्त्या विदुषा
वज्रपरिग्रहो विधेयः । गुणवद्गुणसम्पदां विभूति-
र्विपरोतो व्यसनोदयस्य हेतुः । एकमपि यस्य शृङ्गं
विदलितमवलोक्यते विशीर्णं वा । गुणवदपि तन्न-
धार्य्यं वज्रं श्रेयोऽर्थिभिर्भवने । स्फुटिताग्निविशीर्ण-
शृङ्कदेसं मलवर्णैः पृषतैरुपेतमध्यम् । न हि वज्रभृतोऽपि
वज्रमाशु श्रियमन्याश्रयलालसां न कुर्य्यात् । थस्यैकदेशः
क्षतजावभासो यद्वा भवेलोहितवर्णचित्रम् । न तन्न
कुर्य्याद्ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जोवितान्तम् ।
कोट्यः पार्श्वानि धाराश्च षड़ष्टौ द्वादशेति च । उत्तुङ्ग-
समतीक्ष्णाग्रा वज्रस्याकरजा गुणाः । षट्कोटिशुद्ध-
ममलं स्फुटतीक्ष्णधारं वर्णान्वितं लघु सुपार्श्वमपेत
दोषम् । इन्द्रायुधांशुविसृतिच्छुरितान्तरीक्षमेवंविधं
भुवि भवेत् सुलभं न वज्रम् । तीक्ष्णाग्रं विमलमपैति
सर्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम् । वृद्धिस्तं
प्रतिदिनमेति यावदायुः श्रीसम्पत्सुतधनधान्यगो,
पशूनाम् । व्यालवह्निविषव्याघ्रतस्कराम्बुभयानि च ।
दूरात्तस्य निवर्त्तन्ते कर्माण्याथर्वणानि च । यदि वज्रमपेत
सर्वदोषं विभृयात्तण्डुलविंशतिं गुरुत्वे । मणिशास्त्र-
विदो वदन्ति तस्य द्विगुणं रूपकलक्षमग्र्यमूल्यम् ।
त्रिमागहीनार्द्धतदर्द्धशेषं त्रयोदशं त्रिंशदतोर्द्धभागाः ।
अशीतिभागोऽथ शतांशभागः सहस्रभागोल्पसमान-
योगः । यत्तण्डुलैर्द्वादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं
प्रदिष्टम् । द्वाभ्यां क्रमाद्धानिमुपागतस्य त्वेकावसानस्य
विनिश्चयोऽयम् । न चापि तण्डुलैरेव वज्राणां धारण-
क्रमः । अष्टाभिः सर्षपैर्गौरेस्तण्डुलं परिकल्पयेत् ।
वत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि । रत्नवर्ग-
समस्तेऽपि तस्य धारणमिष्यते । अनेनापि हि
दोषेण लक्ष्यालक्ष्येण दूषितम् । स्वमूल्यात् दशमं भागं
वज्रं लभति मानवः । प्रकटानेकदोषस्य स्वल्पस्य मह-
तोऽपि वा । स्वमूल्याच्छतशोभागो वज्रस्य न विधी-
यते । स्पृष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते । रत्नानां
प्ररिकर्मार्थं मूल्यं तस्य भवेल्लघु । प्रथमं गुणसम्पदा-
भ्युपेतं प्रतिबद्धं समुपैति तच्च दोषम् । अलमाभरणेन
तस्य राज्ञो गुणहीनोऽपि मणिर्नभूषणाय । नार्य्या
वज्रमधार्य्यं गुणवदपि सुतप्रसूतिमिच्छन्त्या । अन्यत्र
दीर्घचिपिटह्रस्वाद्गुणैर्विमुक्ताच्च । अयसा पुष्परागेण
तथा गोमेदकेन च । वैदूर्य्यस्फटिकाम्याञ्च काचैश्चापि
पृथग्विधैः । प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशलाजनाः ।
परीक्षा तेषु कर्त्तव्या विद्वद्भिः सुपरीक्षकैः । सुक्षारो-
ल्लेखशालाभिस्तेषां कार्य्यं परीक्षणम् । पृथिव्यां
यानि रत्नानि ये चान्ये लोहधातवः । सर्वाणि विलि-
स्वेद्वज्रं तच्च तैर्न विलिख्यते । गुरुता सर्वरत्नानां
गौरवाधारकारणम् । वज्रे तान्वैप्ररीत्येन सूरयः
परिचक्षते । जातिभिरजातिं विलिखन्ति वज्रकुरुविन्दाः ।
वज्रैर्वज्रं विलिखति नान्येन लिख्यते वज्रम् । वज्राणि
मुक्तामणयो याश्च काश्चन जातयः । न तेषां प्रतिबद्धानां
भा भवत्युर्द्ध्वगामिनी । तिर्य्यक्क्षतत्वात् केषाञ्चित्
कथञ्चिद्यदि दृश्यते । तिर्य्यमालिख्यमानानां सा पार्श्वे-
ष्वपि हन्यते । यद्यपि विशीर्णकोटिः सविन्दुरेखान्वितो
विवर्णो वा । तदपि धनधान्यपुत्रान् करोति सेन्द्रा-
युधो वज्रः । सौदामिनीविस्फुरिताभिराम राजा
यथोक्तं कुलिशं दधानः । पराक्रमाक्रान्तपरप्रतापः
समस्तसामन्तभुवं भुनक्ति” । ३ विद्युदग्नौ तन्निबारण-
हेतुर्यथा “प्रचण्डपवनाघाते मेघेषु स्तनितेषु यः ।
त्रिःपठेज्जैमिनीयोऽखि प्राङ्मुखो वाप्युदङ्मुखः । तस्य
मा भूद्भयं घोरं विद्युतीयोऽवसीदति आ० त० धृतब्रह्म-
पुराणम् । “मुनेः कल्याणमित्रस्य जैमिनेश्चापिकीर्त्तनात् ।
विद्युदग्निभयं नास्ति पठिते च गृहोदरे” । “लिखिते
च गृहोदरे” इति वा पाठः । जैमिनिश्च सुमन्तुश्च
वैशम्पायन एव च । पुलस्त्यः पुलहश्चैव पञ्चै ते वज्र-
वारकाः” पुराणम् ।
तत्पर्य्यायादि भावप्र० उक्तं यथा
“हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः ।
स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्त्रियः स्मृतः ।
पीतो वैश्योऽसितः शूद्रश्चतुर्वर्णात्मकश्च सः । रसायने
मतो विप्रः सर्वसिद्धिप्रदायकः । क्षत्त्रियो व्याधिवि-
ध्वंसी जरामृत्युहरः स्मृतः । वैश्यो धनप्रदः प्रोक्त स्तथा देहस्य दार्ढ्यकृत् । शूद्रो नाशयति व्याधीन् वयः
स्तम्भं करोति च । पुंस्त्रीनपुंसकानीह लक्षणीयानि
लक्षणैः । सुवृत्ताः फलसंपूर्णास्तेजोयुक्ता वृहत्तराः ।
पुरुषास्ते समाख्याता रेखाविन्दुविवर्जिताः । रेखाविन्दु
समायुक्ताः षड़श्रास्ते स्त्रियः स्मृताः ।” षड़श्राः
षट्कोणाः । “त्रिकोणाश्च सुदीर्घास्ते विज्ञेयाश्च नपुं-
सकाः । तेषु स्युः पुरुषाः श्रेष्ठा रसबन्धनकारिणः ।
स्त्रियः कृर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः ।
नपुंसकास्त्ववीर्य्या स्युरकामाः सत्त्ववर्जिताः । स्त्रियः
स्त्रीभ्यः प्रदातव्याः क्लीवं क्लीवे प्रयोजयेत् । सर्वभ्यः
सर्वदा देयाः पुरुषाः वीर्य्यवर्द्धनाः । अशुद्धं कुरुते
वज्रं कुष्ठं पार्श्वव्यथान्तथा । पाण्डुताम्पङ्गुरत्वञ्च तस्मात्
संशोध्य मारयेत् ।” तच्छोधनविधिर्यथा
“कुलत्थकोद्रवक्काथे दोलायन्त्रे विपाचयेत् । व्याघ्री-
कन्दगतं वज्रं त्रिदिनं तद्विशुद्ध्यति” । व्याघ्री कण्ट-
कारिका । अन्यः शोधनविधिः । “गृहीत्वाग्निं शुभे
वज्रं व्याघ्रीकन्दोदरे क्षिपेत् । माहिषीविष्ठया लिप्ता
कारीषाग्नौ विपाचयेत् । त्रियामायां चतुर्यामं यामि-
त्यन्तेऽश्वमूत्रके । सेचयेत्पाचयेदेवं सप्तरात्रेण शुद्ध्यति ।”
अथ बज्रस्य मारणविधिः “हिङ्गुसैन्धवसंयुक्ते क्षिपेत्-
काथे कुलत्थजे । तप्तं तप्तं पुनर्वज्रम्भवेद्भस्म त्रिसप्तधा” ।
अन्योऽस्य मारणप्रकारः “मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठा-
म्लवेतसम् । शशदन्तं समम्पिष्ट्वा वज्रीक्षीरेण भेलकम् ।
कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेवहि ।” मारितस्य
वज्रस्य गुणाः “आयुःपुष्टिं बलं वीर्य्यं वर्णं सौख्यं
करोति व । सेवितं सर्वरोगध्नं मृतं वज्रं न संशयः ।”
अभ्रभेदा तद्गुणाश्च भावप्र० उक्ता यथा
“पुरा बधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् । विस्फु-
लिङ्गास्ततस्तस्य गगने परिसर्पिताः । ते निपेतुर्घन-
ध्वानाच्छिखरेषु महीभृताम् । तेभ्य एव समापन्नं
तत्तद्गिरिषु च भ्रकम् । तद्वज्रं वज्रजातत्वादभ्रमम्रर-
घोद्भवात् । गगनात् स्खलितं यस्माद्गगनञ्च ततो मतम् ।
विप्रक्षत्त्रियविट्शूद्रभेदात्तत् स्याच्चतुर्विधम् । क्रमे-
णैषां सितं रक्तं पीतं कृष्णञ्च वर्णतः । प्रशस्यते
सितन्तारं रक्तं तत्तु रसायने । पीतं हेमनि, कृष्णन्तु
गदेषु द्रुतयेऽपि च । पिनाकं दर्दुरं नागं वज्रञ्चेति
चतुर्विधम् । मुञ्चत्यग्नौ विनिःक्षिप्तं पिनाकन्दलसञ्च-
यात् । अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् । दर्दुरं
त्वग्निनिःक्षिप्तं कुरुते दर्दुरध्वनिम् । गोलकान् बहुशः
कृत्वा स स्यान्मृत्युप्रदायकः । नागन्तु नागवद्वह्नौ
फुत्कारं परिमुञ्चति । तद्भक्षितमवश्यन्तु विदधाति
भगन्दरम् । वज्रन्तु वज्रवत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत् ।
सर्वाभ्रेषु वरं वज्रं व्याविबार्द्धक्यमृत्युहृत् । अभ्र-
मुत्तरशैलोत्थं बहुसत्त्वं गुणाधिकम् । दक्षिणाद्रिभवं
स्वल्पसत्त्वमल्पगुणप्रदम् । अभ्र कषायं मधुरं सुशीत-
मायुष्करं धातुविवर्द्धनञ्च । हन्यात् त्रिदोषं व्रणमेह
कुष्ठप्लीहोदरग्रन्थिविषक्रमींश्च । रोगान् हन्ति द्रढ-
यति वपुर्वीर्य्यवृद्धिं विधत्ते तारुण्याढ्यं रमयति
शतं योषितां नित्यमेव । दीर्घायुष्कान् जनयति सुतान्
विक्रमैः सिंहतुल्यान् मृत्योर्मीतिं हरति सततं सेव्यमानं मृताभ्रम् ।
वाचस्पत्यम्