वरुण – varun
वरुण पु० वृ–उनन् । पश्चिमाशापतौ १ जलेशे स्वनामख्याते
देवभेदे अमरः । २ जले मेदि० ३ सूर्य्ये च विश्वः । ५ द्वीप-
भेदे वराहशब्दे दृश्यम् । ६ काशीस्थे नदीभेदे स्त्री ।
काशीस्थनदीभेदस्योत्पत्त्यादिकं वामनपु० ३ अ० उक्तं यथा
“प्रयागे वसते नित्यं योगशायी तु विश्रुतः । चरणाद्द-
क्षिणात्तस्य विनिर्याता सरिद्वरा । विश्रुता वरु(र)णेत्येर्व
सर्वपापहरा शुभा । सव्यात् पादात् द्वितीया च
असिरित्येव विश्रुता । ते उभे च सरित्श्रेष्ठे लोकपूज्ये
बभूवतुः । तयोर्मध्ये तु यो देशस्तत्क्षेत्रं योगशा-
यिनः । त्रैलोक्यप्रभवं तीर्थं सर्वपापप्रमोचनम् । न
तादृशोऽस्ति गगने न भूम्यां न रसातले । तत्रास्ति
नगरी पुण्या ख्याता वाराणसो शुभा” ।
७ स्वनामख्यातवृक्षभेदे पु० अमरः “वरुणः पित्तलो भेदी
श्लेष्मकृच्छ्राश्ममारुतान् । निहन्ति गुल्मवातास्र
क्रिमींश्चीष्णोऽग्निदोपनः । कषायो मधुरस्तिक्तः कटुक्तो
रूक्षको लघुः” भावप्र० ।