Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
    • Supreme Court Case Notes
    • Daily Digest
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
    • Systemic-and-systematic
    • Volume One
12/04/2026
  • Vedic Sanskrit Culture

Charan Byuha Sutram: Atharva Parisistha (चरणव्यूहः)

The चरणव्यूहः provides information and classifications related to the Vedas, such as the branches of knowledge and the deity associated with each Veda, as well as detailed descriptions of the characteristics and practices of each branch. It also outlines various Vedic rituals, vows, and the importance of understanding the Vedic scriptures. The content emphasizes the significance of Vedic knowledge and the consequences of failing to recognize its importance.
advtanmoy 05/07/2019 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram

(परिशिष्ट ४९. चरणव्यूहः)

(४९,१.१) ओमथातश्चरणव्यूहं व्याख्यास्यामः ॥

(४९,१.२) तत्र चत्वारो वेदा भवन्ति । ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदश्चेति ॥

Read Next

  • Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)
  • मधुमेहस्य लक्षणं चिकित्सा च
  • Yad (यद् )

(४९,१.३) तत्र ऋग्वेदस्यार्थशास्त्रमुपवेदः । यजुर्वेदस्य धनुर्वेदोपवेदः । सामवेदस्य गान्धर्ववेदोपवेदः । ब्रह्मवेदस्यायुर्वेदोपवेदः । अभिचारकार्थशास्त्रमित्युच्यते ॥

(४९,१.४) ऋग्वेद आत्रेयसगोत्रोऽग्निर्देवता । यजुर्वेदः काश्यपसगोत्रो वायुर्देवता । सामवेदो भारद्वाजसगोत्रो विष्णुर्देवता । ब्रह्मवेदो वैतायनसगोत्रो ब्रह्मा देवता ॥ (The Rig Veda is visualised of the Atreya clan, and Agni is the deity. The Yajur Veda is visualised of the clan of Kasyapa and the deity of the air is Vayu. The Sama Veda is the Bharadvaja clan, and Lord Visnu is the deity. The Brahma Veda is of the Vaitayanas clan and Brahma is the deity)

(४९,१.५) अथात ऋग्वेदः पीतवर्णः पद्मपत्त्राक्षः सुविभक्तग्रीवः कुञ्चितकेशश्मश्रुः सुप्रतिष्ठितजानुजङ्घः । प्रमाणेन स वितस्तयः पञ्च ॥

(४९,१.६) तत्र ऋग्वेदस्य सप्त शाखा भवन्ति । तद्यथा । आश्वलायनाः । शाङ्खायनाः । साध्यायनाः । शाकलाः । बाष्कलाः । औदुम्बराः । माण्डूकाश्चेति ॥ (There are seven branches of the Rig Veda.)

Read Next

  • Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)
  • मधुमेहस्य लक्षणं चिकित्सा च
  • Yad (यद् )

(४९,१.७) तेषामध्ययनम् । ऋचां दश सहस्राणि ऋचां पञ्च शतानि च । ऋचामशीतिः पादश्च एतत्पारणमुच्यते ॥

(४९,२.१) तत्र यजुर्वेदस्य चतुर्विंशतिर्भेदा भवन्ति ॥ तद्यथा । काण्वाः । माध्यंदिनाः । जाबालाः । शापेयाः । श्वेताः । श्वेततराः । ताम्रायणीयाः । पौर्णवत्साः । आवटिकाः । परमावटिकाः । हौष्याः । धौष्याः । खाडिकाः । आह्वरकाः । चरकाः मैत्राः । मैत्रायणीयाः । हारितकर्णाः । शालायनीयाः । मर्चकठाः । प्राच्यकठाः । कपिष्ठलकठाः । उपलाः । तैत्तिरीयाश्चेति ॥

(४९,२.२) तेषामध्ययनम् । द्वे सहस्रे शते न्यूने वेदे वाजसनेयके । सकलं परिसंख्यातं ब्राह्मणं तु चतुर्गुणम् ॥

Read Next

  • Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)
  • मधुमेहस्य लक्षणं चिकित्सा च
  • Yad (यद् )

(४९,२.३) अष्टादश शतानि भवन्ति । तान्येव त्रिगुणमधीत्य क्रमपारो भवति । सप्तसु वीराश्चेति ॥

(४९,२.४) शाखास्तिस्रो भवन्ति । तद्यथा । वार्चिकमर्थाध्ययनीयाः । पारश्चर्याः । पारश्रमणीयाः । पारक्रमवटः । क्रमपारश्चेति ॥

(४९,२.५) षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षडङ्गानि ॥ (The six elements of vedas are Siksha, Vyakarana, Kalpa, Nirukta, Chhanda and Astrology)

(४९,२.६) अथ यजुर्वेदः प्रांशुः प्रलम्बजठरः स्थूलगलकपालो रक्तो वर्णेन प्रादेशाः षड्दीर्घत्वेन यजुर्वेदस्यैतद्रूपं भवति ॥

(४९,३.१) तत्र सामवेदस्य शाखासहस्रमासीदनध्यायेष्वधीयानाः सर्वे ते शक्रेण विनिहताः । [प्रविलीनास्]

(४९,३.२) तत्र के चिदवशिष्टाः प्रचरन्ति । तद्यथा । राणायनीयाः । साद्यमुग्राः । कालपाः । महाकालपाः । कौथुमाः । लाङ्गलिकाश्चेति ॥

(४९,३.३) कौथुमानां षड्भेदा भवन्ति । तद्यथा । सारायणीयाः । वातरायणीयाः । वैतधृताः । प्राचीनास्तेजसाः । अनिष्टकाश्चेति ॥

(४९,३.४) तेषामध्ययनम् । अष्टौ सामसहस्राणि सामानि च चतुर्दश । सोह्यानि सरहस्यानि एतत्सामगणं स्मृतम् ॥

(४९,३.५) अथ सामवेदः सुवर्चाः सुगन्धिस्तेजस्वी मृदुवक्ता ब्रह्मण्यः प्रलम्बबाहुर्दुश्चर्मी कृष्णो वर्णेन कातरः स्वरेणेति ॥

(४९,३.६) षडरत्निः प्रमाणेन च स्मृतः । स्तुवन्त्यृषयो ब्रह्मा सामानि तिष्ठति संनिधौ स भगवान् सामवेदो महेश्वरभक्तः ॥

(४९,४.१) तत्र ब्रह्मवेदस्य नव भेदा भवन्ति । तद्यथा । पैप्पलादाः । स्तौदाः । मौदाः । शौनकीयाः । जाजलाः । जलदाः । ब्रह्मवदाः । देवदर्शाः । चारणवैद्याश्चेति ।

(४९,४.२) तेषामध्ययनम् । ऋचां द्वादश सहस्राण्यशीतिस्त्रिशतानि च । पर्यायिकं द्विसहस्राण्यन्यांस्चैवार्चिकान् बहूनित्य्

(४९,४.३) एतद्ग्राम्यारण्यकानि षट्सहस्राणि भवन्ति ॥

(४९,४.४) तत्र ब्रह्मवेदस्याष्टाविंशतिरुपनिषदो भवन्ति । मुण्डका प्रश्नका ब्रह्मविद्या क्षुरिका चूलिका अथर्वशिरो अथर्वशिखा गर्भोपनिषन्महोपनिषद्ब्रह्मोपनिषत्प्राणाग्निहोत्रं माण्डुक्यं नादबिन्दु ब्रह्मबिन्दु अमृतबिन्दु ध्यानबिन्दु तेजोबिन्दु योगशिखा योगतत्त्वं नीलरुद्रः पञ्चतापिनी एकदण्डी संन्यासविधिः अरुणिः हंसः परमहंसः नारायणोपनिषद्वैतथ्यं चेति ॥

(४९,४.५) तत्र गोपथः शतप्रपाठकं ब्राह्मणमासीत्तस्यावशिष्टे द्वे ब्राह्मणे पूर्वमुत्तरं चेति ॥

(४९,४.६) तत्र षडङ्गान्यधीत्य षडङ्गविद्भवति षडङ्गानि भवन्ति, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ॥

(४९,४.७) पञ्च कल्पा भवन्ति । नक्षत्रकल्पो वैतानकल्पस्तृतीयः संहिताविधिः । चतुर्थ आङ्गिरसः कल्पः शान्तिकल्पस्तु पञ्चमः ॥

(४९,४.८) लक्षणग्रन्था भवन्ति । चतुराध्यायिका प्रातिशाख्यं पञ्चपटलिका दन्त्योष्ठविधिर्बृहत्सर्वानुक्रमणी चेति ॥

(४९,४.९) तत्र द्वासप्ततिः परिशिष्टानि भवन्ति कौशिकोक्तानि । कृत्तिकारोहिणी । राष्ट्रसंवर्गः । राजप्रथमाभिषेकः । पुरोहितकर्माणि । पुष्याभिषेकः । पिष्टरात्र्याः कल्पः । आरात्रिकम् । घृतावेक्षणम् । तिलधेनुः । भूमिदानम् । तुलापुरुषः । आदित्यमण्डकः । हिरण्यगर्भः । हस्तिरथः । अश्वरथः । गोसहस्रदानम् । हस्तिदीक्षा । अश्वदीक्षा । वृषोत्सर्गः । इन्द्रोत्सवः । ब्रह्मयागः । स्कन्दयागाः । संभारलक्षणम् । अरणिलक्षणम् । यज्ञपात्रलक्षणम् । वेदिलक्षणम् । कुण्डलक्षणम् । समिल्लक्षणम् । स्रुवलक्षणम् । हस्तलक्षणम् । ज्वालालक्षणम् । लक्षहोमः । काङ्कायनोक्तो बृहल्लक्षहोमः । कोटिहोमः । गणमाला । घृतकम्बलम् । अनुलोमकल्पः । आसुरीकल्पः । उच्छुष्मकल्पः । समुच्चयप्रायश्चित्तानि । ब्रह्मकूर्चविधिः । पैठीनसितडागविधिः । पाशुपतव्रतविधिः । संध्योपासनविधिः । स्नानविधिः । तर्पणविधिः । श्राद्धविधिः । अग्निहोत्रविधिः । उत्तमपटलम् । वर्णपटलम् ।

चन्द्रप्रातिपदिकम् । ग्रहयुद्धम् । ग्रहसंग्रहः । राहुचारः । केतुचारः । ऋतुकेतुलक्षणम् । कूर्मविभागः । मण्डलानि । दिग्दाहलक्षणम् । उल्कालक्षणम् । विद्युल्लक्षणम् । निर्घातलक्षणम् । परिवेषलक्षणम् । भूमिकम्पलक्षणम् । नक्षत्रग्रहोत्पातलक्षणम् । उत्पातलक्षणम् । सद्योवृष्टिलक्षणम् । गोशान्तिः । अद्भुतशान्तिः । स्वप्नाध्यायः । अथर्वहृदयम् ।
भार्गवीयगार्ग्यबार्हस्पत्योशनसाद्भुतानि । महाद्भुतानि बृहत्सर्वानुक्रमणी चेति ॥

(४९,४.१०) तत्र पञ्चदशोपनिषदो भवन्ति । मुण्डका । प्रश्नका । ब्रह्मविद्या । क्षुरिका । चूलिका । अथर्वशिरः । अथर्वशिखा । गर्भोपनिषत् । महोपनिषत् । ब्रह्मोपनिषत् । प्राणाग्निहोत्रम् । माण्डूक्यम् । वैतथ्यम् । अद्वैतम् । अलातशान्तिश्चेति ॥

(४९,४.११) तत्र ब्रह्मवेदेऽष्टादश व्रतानि चरिष्यन् सावित्रीव्रतम् । वेदव्रतम् । वेदोत्तरव्रतम् । मैलव्रतम् । मैलोत्तरव्रतम् । मृगारव्रतम् । रोहितव्रतम् । विषासहिव्रतम् । यमव्रतम् । शान्तिव्रतम् । शिखिव्रतम् । गणव्रतम् । शिरोव्रतम् । शिखाव्रतम् । मरुद्व्रतम् । अधिव्रतम् । अङ्गिरोव्रतम् । पाशुपतव्रतं चरेत् ॥

(४९,४.१२) कृच्छ्रम् । तप्तकृच्छ्रम् । अतिकृच्छ्रम् । सर्वकृच्छ्रम् । मौन्दभायः । तुलापुरुषः । सांतपनम् । महासांतपनं चेति ॥

(४९,५.१) यो वै ब्रह्मवेदेषूपनीतः स सर्ववेदेषूपनितो

(४९,५.२) यो वै ब्रह्मवेदेष्वनुपनीतः स सर्ववेदेष्वनुपनीतः ॥

(४९,५.३) अन्यवेदे द्विजो यो ब्रह्मवेदमधीतुकामः स पुनरुपनेयो

(४९,५.४) देवाश्च ऋषयश्च ब्रह्माणमूचुः ॥

(४९,५.५) को नो [स्मो] ज्येष्ठः । क उपनेता । क आचार्यः । को ब्रह्मत्वं चेति ॥

(४९,५.६) तान् ब्रह्माब्रवीत् ॥

(४९,५.७) अथर्वा वो ज्येष्ठोऽथर्वोपनेताथर्वाचार्योऽथर्वा ब्रह्मत्वं चेति ॥

(४९,५.८) तदप्येतदृचोक्तम् । ब्रह्मज्येष्ठेति एतया ।

(४९,५.९) इति तस्यार्हं ब्रह्मवेदश्चतुर्णां वेदानां साङ्गोपाङ्गानाम् [तम्] सवाकोवाक्यानां सेतिहासपुराणानाम् ॥

(४९,५.१०) अथातो ब्रह्मवेदः कपिलो वर्णेन तीक्ष्णः प्रचण्डः कामरूपी विश्वात्मा जितेन्द्रियः । स तस्मिन् भगवति दुर्वारज्वालः ।

(४९,५.११) क्षुद्रकर्मा स च भगवान् ब्रह्मवेदश्चतुर्मुखो द्विपक्षो दान्तो धर्मी बलवान् प्राज्ञः कृतोत्थापनीयः क्रूरः षड्रात्राणि विमृशी [षड्रात्राणि षड्] वैतायनो गोत्रेण

(४९,५.१२) य एकैकस्मिन् वेदानां नामवर्णगोत्ररूपप्रमाणं च कीर्तयेद्यो विद्वान् जातिस्मरो भवति मृतः स ब्रह्मलोकं गच्छति ॥


Tags: Sanskrit

Post navigation

Previous: Ashuri Kalpa of Atharva Veda
Next: Medha Suktam: Rig Veda [Khila Suktam]
Communism
Sarvarthapedia

Manifesto of the Communist Party 1848: History, Context, and Core Concepts

Arrest
Sarvarthapedia

Latin Maxims in Criminal Law: Meaning, Usage, and Courtroom Application

Religion, Faith, and Beliefs: History, Theology, Politics, and Conflict with Science 

Scientific Principles: Theories, Inventors, Patents, Universities, Industrial Growth and Global Contributions

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

United States of America: History, Government, Economy, and Global Power

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

IPS Cadre Strength 2025: State-wise Authorised Strength

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)

Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Naresh vs Aarti: Cheque Bouncing Complaint Filed by POA (02/01/2025)
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
Sarvarthapedia

Religion, Faith, and Beliefs: History, Theology, Politics, and Conflict with Science 

Sarvarthapedia

Scientific Principles: Theories, Inventors, Patents, Universities, Industrial Growth and Global Contributions

United Kingdom, UK

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

British Slavery and the Church of England: History, Theology, and the Codrington Estates

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates