अद्वैतपञ्चरत्नम्-AdvaitaPachaRatnam
श्रीः अद्वैतपञ्चरत्नम्
श्रीमच्छंकरभगवतः
नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहंकारः प्राणवर्गो न बुद्धिः।
दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम्।।1।।
रज्ज्वज्ञानाद्भाति रज्जौ यथाहिः स्वात्माज्ञानादात्मनो जीवभावः।
आप्तोक्त्याहिभ्रान्तिनाशे स रज्जु र्जीवो नाहं देशिकोक्त्या शिवोऽहम्।।2।।
Read Next
आभातीदं विश्वमात्मन्यसत्यं सत्यज्ञानानन्दरूपे विमोहात्।
निद्रामोहात्स्वप्नवत्तन्न सत्यं शुद्धः पूर्णो नित्य एकः शिवोऽहं।।3।।
नाहं जातो न प्रवृद्धो न नष्टो देहस्योक्ताः प्राकृताः सर्वधर्माः।
कर्तृत्वादिश्चिन्मयस्यास्ति नाहं कारस्यैव ह्यात्मनो मे शिवोऽहम्।।4।।
मत्तो नान्यत्किंचिदत्रास्ति विश्वं सत्यं बाह्यं वस्तु मायोपक्लृप्तम्।
आदर्शान्तर्भासमानस्य तुल्यं। मय्यद्वैते भाति तस्माच्छिवोऽहम्।।5।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अद्वैतपञ्चरत्नं संपूर्णम्।।
Read Next
AdvaitaPachaRatnam