Hitopadesa
मङ्गलाचरणम्
सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः ।
जाह्नवीफेनलेखेव यन्मूर्ध्नि शशिनः कला ॥ ०.१ ॥
श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु ।
वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥ ०.२ ॥
विद्याप्रशंसा
अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ०.३ ॥
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।
अहार्यत्वादनर्घत्वादक्षयत्वाच्च सर्वदा ॥ ०.४ ॥
संयोजयति विद्यैव नीचगापि नरं सरित् ।
समुद्रमिव दुर्घर्षं नृपं भाग्यमतः परम् ॥ ०.५ ॥
विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वात्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥ ०.६ ॥
विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये ।
आद्या हास्यय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ०.७ ॥
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
कथाच्छलेन बालानां नीतिस्तदिह कथ्यते ॥ ०.८ ॥
मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेव च ।
पञ्चतन्त्रात्तथान्यस्माद्ग्रन्थादाकृष्य लिख्यते ॥ ०.९ ॥
![]()
अथ कथामुखम्
अस्ति भागीरथीतीरे पाटलिपुत्रनामधेयं नगरम् । तत्र सर्वस्वामिगुणोपेतः सुदर्शनो नाम नरपतिरासीत् । स भूपतिरेकदा केनापि पाठ्यमानं श्लोकद्वयं शुश्राव
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ ०.१० ॥
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ०.११ ॥
इत्याकर्ण्यात्मनः पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गगामिनां शास्त्राननुष्ठानेनोद्विग्नमनाः स राजा चिन्तयामास ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।
काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥ ०.१२ ॥
अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः ।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥ ०.१३ ॥
किं च
वरं गर्भस्रावो वरमपि च नैवाभिगमनं
वरं जातः प्रेतो वरमपि च कन्यावजनिता ।
वरं बन्ध्या भार्या वरमपि च गर्भेषु वसतिर्
न वाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः ॥ ०.१४ ॥
स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ०.१५ ॥
अन्यच्च
गुणिगणगणनाऽरम्भे
न पतति कठिनी ससम्भ्रमाद्यस्य ।
तेनाम्बा यदि सुतिनी
वद बन्ध्या कीदृशी भवति ? ॥ ०.१६ ॥
अपि च
दाने तपसि शौर्ये च यस्य न प्रथितं मनः ।
विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥ ०.१७ ॥
अपरं च
वरमेको गुणी पुत्रो न च मूर्खशतैरपि ।
एकश्चन्द्रमस्तमो हन्ति न च तारागणैरपि ॥ ०.१८ ॥
पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् ।
तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः ॥ ०.१९ ॥
तथा चोक्तं
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि राजन् ॥ ०.२० ॥
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ ०.२१ ॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ ०.२२ ॥
यस्य कस्य प्रसूतोऽपि गुणवान् पूज्यते नरः ।
धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥ ०.२३ ॥
हा हा पुत्रक नाधीतं गतास्वेतासु रात्रिषु ।
तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥ ०.२४ ॥
तत्कथमिदानीमेते मम पुत्रा गुणवन्तः क्रियन्ताम् ? यतः
आहारनिद्राभयमैथुनानि सामान्यमेतत्पशुभिर्नराणाम् ।
ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ ०.२५ ॥
यतः
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ ०.२६ ॥
यच्चोच्यते
आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ ०.२७ ॥
किं च
अवश्यं भाविनो भावा भवन्ति महतामपि ।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ ०.२८ ॥
अन्यच्च
यदभावि न तद्भावि भावि चेन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ ०.२९ ॥
एतत्कार्याक्षमाणां केषांचिदालस्यवचनम् । पुरुषकारौत्कार्ष्यमाह
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥ ०.३० ॥
तथा च
पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते ।
तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः ॥ ०.३१ ॥
न दैवमपि संचिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति ॥ ०.३२ ॥
अन्यच्च
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्
दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ०.३३ ॥
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति ।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ ०.३४ ॥
काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः ।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ ०.
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ०.३६ ॥
तथा चोक्तं
माता शत्रुः पिता वैरी येन बालो न पाठितः ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ०.३७ ॥
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ०.३८ ॥
अपरच्च
पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ ।
न शोभते सम्भामध्ये जारगर्भ इव स्त्रियाः ॥ ०.३९ ॥
एतच्चिन्तयित्वा राजा पण्डितसभां कारितवान् । राजोवाचभो भोः पण्डिताः ! श्रूयतां मम वचनम् । अस्ति कश्चिदेवम्भूतो विद्वान् यो मम पुत्राणां नित्यमुन्मार्गगामिनामनधिगतशास्त्राणामिदानीं नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः ? यतः
काचः काञ्चनसंसर्गाद्धत्ते मारकतीर्द्युतीः ।
तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम् ॥ ०.४० ॥
उक्तं च
हीयते हि मतिस्तात हीनैः सह समागमात् ।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ०.४१ ॥
अत्रान्तरे विष्णुशर्मनामा महापण्डितः सकलनीइतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवाब्रवीत्देव महाकुलसम्भूता एते राजपुत्राः । तत्मया नीतिं ग्राहयितुं शक्यन्ते । यतः
नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत् ।
न व्यापारशतेनापि शुकवत्पाठ्यते बकः ॥ ०.४२ ॥
अन्यच्च
अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते ।
आकरे पद्यरागानां जन्म काचमणेः कुतः ॥ ०.४३ ॥
अतोऽहं षण्मासाभ्यन्तरे भवत्पुत्रान्नीतिशास्त्राभिज्ञान् करिष्यामि । राजा सविनयं पुनरुवाच ।
कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ०.४४ ॥
अन्यच्च
यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते ।
तथा सत्सन्निधानेन हीनवर्णोऽपि दीप्यते ॥ ०.४५ ॥
गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्युपेयाः ॥ ०.४६ ॥
तदेतेषामस्मत्पुत्राणां नीतिशास्त्रोपदेशाय भवन्तः प्रमाणमित्युक्त्वा तस्य विष्णुशर्मणो करे बहुमानपुरःसरं पुत्रान् समर्पितवान् ॥
ओ)०(ओ
इ.
मित्रलाभः
अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात्प्रस्तावक्रमेण पण्डितोऽब्रवीत्भो राजपुत्राः शृणुत
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ १.१ ॥
तद्भवतां विनोदाय काककूर्मादीनां विचित्रां कथां कथयिष्यामि । राजपुत्रैरुक्तमार्य ! कथ्यताम् । विष्णुशर्मोवाचशृणुत यूयम् । सम्प्रति मित्रलाभः प्रस्तूयते । यस्यायमाद्यः श्लोकः
असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ १.२ ॥
राजपुत्रा ऊचुःकथमेतत्?
सोऽब्रवीतस्ति गोदावरीतीरे विशालः शाल्मलीतरुः । तत्र नानादिग्देशादागत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिदवसन्नायां रात्रौ अस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि । लघुपतननामा वायसः प्रबुद्धः कृतान्तमिव द्वितीयमटन्तं पाशहस्तं व्याघमपश्यत् । तमालोक्याचिन्तयतद्य प्रातरेवानिष्टदर्शनं जातम् । न जाने किमनभिमतं दर्शयिष्यति । इत्युक्त्वा तदनुसरणक्रमेण व्याकुलश्चलति । यतः
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १.३ ॥
अन्यच्चविषयिणामिदमवश्यं कर्तव्यम् ।
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।
आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥ १.४ ॥
अथ तेन व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः सपरिवारो वियति विसर्पंस्तण्डुलकणानवलोकयामास । ततः कपोतराजस्तण्डुलकणलुब्धान् कपोतान् प्राहकुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः । तन्निरूप्यतां तावत् । भद्रमिदं न पश्यामि प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम् ।
कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्धव्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥ १.५ ॥
कपोता ऊचुःकथमेतत्?
कथा १
सोऽब्रवीतहमेकदा दक्षिणारण्ये चरन्नपश्यमेको वृद्धो व्याघ्रः स्नातः कुशहस्तः सरस्तीरे ब्रूतेभो भो पन्थाः ! इदं सुवर्णकङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित्पान्थेन आलोचितम्भाग्येन एतत्सम्भवति । किन्तु अस्मिनात्मसन्देहे प्रवृत्तिर्न विधेया । यतः
अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा ।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥ १.६ ॥
किन्तु सर्वत्रार्थार्जनप्रवृत्तौ सन्देह एव । तथा चोक्तम्
न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥ १.७ ॥
तन्निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कङ्कणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थोऽवदत्कथं मारात्मके त्वयि विश्वासः ?
व्याघ्र उवाचशृणु रे पान्थ ! प्रागेव यौवनदशायामहमतीव दुर्वृत्त आसम् । अनेकगोमानुषाणां वधाद्मे पुत्रा मृता दाराश्च । वंशहीनश्चाहम् । ततः केनचिद्धार्मिकेणाहमुपदिष्टः । दानधर्मादिकं चरतु भवानिति । तदुपदेशादिदानीमहं स्नानशीलो दाता वृद्धो गलितनखदन्तः न कथं विश्वासभूमिः ? उक्तं च
इज्याऽध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ १.८ ॥
तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥ १.९ ॥
मम चैतावान् लोभविरहः । येन स्वहस्तस्थमपि सुवर्णकङ्कणं यस्मै कस्मैचिद्दातुमिच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः
गतानुगतिको लोकः कुट्टनीमुपदेशिनीम् ।
प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ॥ १.१० ॥
मया च धर्मशास्त्राणि अधीतानि । शृणु
मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा ।
दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥ १.११ ॥
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥ १.१२ ॥
अपरं च
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ १.१३ ॥
अन्यच्च
मातृवत्परदारेषु परद्रव्येषु लोष्ट्रवत् ।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १.१४ ॥
त्वं च अतीवदुर्गतः । तेन तत्तुभ्यं दातुं सयत्नोऽहम् । तथा चोक्तम्
दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ १.१५ ॥
अन्यत्च
दातव्यमिति यद्दानं दीयतेऽनुपकारिणि ।
देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः ॥ १.१६ ॥
तदत्र सरसि स्नात्वा सुवर्णकङ्कणमिदं गृहाण । ततो यावदसौ तद्वचःप्रतीतो लोभात्सरः स्नातुं प्रविष्टः, तावन्महापङ्के निमग्नः पलायितुमक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रोऽवदतहह महापङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि । इत्युक्त्वा शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोऽचिन्तयत्
न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः ॥ १.१७ ॥
किं च
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥ १.१८ ॥
तन्मया भद्रं न कृतम् । यदत्र मारात्मके विश्वासः कृतः । तथा चोक्तम्
नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ १.१९ ॥
अपरं च
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥ १.२० ॥
अन्यच्च
स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी ।
विधुरपि विधियोगाद्ग्रस्यते राहुणासौ
लिखितमपि ललाटे प्रोज्झितं कः समर्थः ॥ १.२१ ॥
इति चिन्तयन्नेवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश्च । अतोऽहं ब्रवीमिकङ्कणस्य तु लोभेनेत्यादि । अत एव सर्वथाविचारितं कर्म न कर्तव्यमिति । यतः
सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत्कृतं
सुदीर्घकालेऽपि न याति विक्रियाम् ॥ १.२२ ॥
एतद्वचनं श्रुत्वा कश्चित्कपोतः सदर्पमाहआः ! किमेवमुच्यते ?
वृद्धस्य वचनं ग्राह्यमापत्काले ह्युपस्थिते ।
सर्वत्रैवं विचारे च भोजनेऽपि प्रवर्तताम् ॥ १.२३ ॥
यतः
शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले ।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ? ॥ १.२४ ॥
यथा चोक्तम्
ईर्ष्यी घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ १.२५ ॥
एतच्छ्रुत्वा तण्डुल्कणलोभेन नभोमण्डलादवतीर्यसर्वे कपोतास्तत्रोपविष्टाः । यतः
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्ताः संयानां च क्लिश्यन्ते लोभमोहिताः ॥ १.२६ ॥
अन्यच्च
लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते ।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ १.२७ ॥
अन्यच्च
असंभवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिना भवन्ति ॥ १.२८ ॥
अनन्तरं ते सर्वे जालनिबद्धा बभूवुः, ततो यस्य वचनात्तत्रावलम्बितास्तं सर्वे तिरस्कुर्वन्ति स्म । यतः,
न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् ।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥ १.२९ ॥
तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाचनायमस्य दोषः, यतः
आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥ १.३० ॥
अन्यच्च
स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः ।
न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ १.३१ ॥
विपत्काले विस्मय एव कापुरुषलक्षणम् । तदत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम्, यतः
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्यपटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ १.३२ ॥
सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ १.३३ ॥
अन्यच्च
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ १.३४ ॥
इदानीमपि एवं क्रियताम्सर्वैरेकचित्तीभूय जालमादाय उड्डीयताम् । यतः
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥ १.३५ ॥
संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ १.३६ ॥
इति विचित्य पक्षिणः सर्वे जालमादाय उत्पतिताः । अनन्तरं च व्याधः सुदूराज्जालापहारकांस्तानवलोक्य पश्चाद्धावितोऽचिन्तयत्
संहतास्तु हरन्त्येते मम जालं विहङ्गमाः ।
यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा ॥ १.३७ ॥
ततस्तेषु चक्षुर्विषयमतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुःस्वामिन् ! किमिदानीं कर्तुमुचितम् ?
चित्रग्रीव उवाच
माता मित्रं पिता चेति स्वभावात्त्रितयं हितम् । कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ १.३८ ॥
तन्मे मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति । सोऽस्माकं पाशांश्छेत्स्यति इत्यालोच्य सर्वे हिरण्यकविवरसमीपं गताः । हिरण्यकश्च सर्वदा अपायशङ्कया शतद्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपातभयाच्चकितः तूष्णीं स्थितः । चित्रग्रीव उवाचसखे हिरण्यक ! कथमस्मान्न सम्भाषसे ?
ततो हिरण्यकस्तद्वचनं प्रत्यभिज्ञाय ससम्भ्रमं बहिर्निःसृत्य अब्रवीताः ! पुण्यवानस्मि प्रियसुहृन्मे चित्रग्रीवः समायातः ।
यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः ।
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ १.३९ ॥
अथ पाशबद्धांश्चैतान् दृष्ट्वा सविस्मयः क्षणं स्थित्वा उवाचसखे ! किमेतत्?
चित्रग्रीव उवाचसखे ! अस्माकं प्राक्तनजन्मकर्मणः फलमेतत् ।
यस्माच्च येन च यथा च यदा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म ।
तस्माच्च तेन च तथा च तदा च तच्च
तावच्च तत्र च विधातृवशादुपैति ॥ १.४० ॥
रागशोकपरीतापबन्धनव्यसनानि च । आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥ १.४१ ॥
एतच्छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरमुपसर्पति । तत्र चित्रग्रीव उवाचमित्र ! मा मैवं कुरु । प्रथममस्मदाश्रितानामेतेषां तावत्पाशांश्छिन्धि । मम पाशं पश्चाच्छेत्स्यसि ।
हिरण्यकोऽप्याहअहमल्पशक्तिः । दन्ताश्च मे कोमलाः । तदेतेषां पाशांश्छेत्तुं कथं समर्थो भवामि ? तत्यावन्मे दन्ता न त्रुट्यन्ति, तावत्तव पाशं छिनद्मि । तदनन्तरमप्येतेषां बन्धनं यावत्शक्यं छेत्स्यामि ।
चित्रग्रीव उवाचअस्त्वेवम् । तथापि यथाशक्ति बन्धनमेतेषां खण्डय ।
हिरण्यकेनोक्तमात्मपरित्यागेन यदाश्रितानां परिरक्षणं तन्न नीतिवेदिनां सम्मतम् । यतः
आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १.४२ ॥
अन्यच्च
धर्मार्थकाममोक्षाणां प्राणाः संस्थितहेतवः ।
तान्निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ १.४३ ॥
चित्रग्रीव उवाचसखे ! नीतिस्तावदीदृश्येव, किन्त्वहमस्मदाश्रितानां दुःखं सोढुं सर्वथासमर्थस्तेनेदं ब्रवीमि । यतः
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ १.४४ ॥
अयमपरश्चासाधारणो हेतुः ।
जातिद्रव्यबलानां च साम्यमेषां मया सह ।
मत्प्रभुत्वफलं ब्रूहि कदा किं तद्भविष्यति ॥ १.४५ ॥
अन्यच्च
विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् ।
तन्मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान् ॥ १.४६ ॥
किं च
मांसमूत्रपुरीषास्थिपूरितेऽत्र कलेवरे ।
विनश्वरे विहायास्थां यशः पालय मित्र मे ॥ १.४७ ॥
अपरं च पश्य
यदि नित्यमनित्येन निर्मलं मलवाहिना ।
यशः कायेन लभ्येत तन्न लब्धं भवेन्नु किम् ॥ १.४८ ॥
यतः
शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् ।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥ १.४९ ॥
इत्याकर्ण्य हिरण्यकः प्रहृष्टमनाः पुलकितः सनब्रवीत्साधु मित्र ! साधु । अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवमुक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आहसखे चित्रग्रीव ! सर्वथात्र जालबन्धनविधौ सति दोषमाशङ्क्य आत्मनि अवज्ञा न कर्तव्या । यतः
योऽधिकाद्योजनशतान् पश्यतीहामिषं खगः ।
स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥ १.५० ॥
अपरं च
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥ १.५१ ॥
अन्यच्च
व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि ।
दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ १.५२ ॥
इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश्चित्रग्रीवोऽपि सपरिवारो यथेष्टदेशान् ययौ, हिरण्यकोऽपि स्वविवरं प्रविष्टः ।
यानि कानि च मित्राणि कर्तव्यानि शतानि च ।
पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः ॥ १.५३ ॥
अथ लघुपतनकनामा काकः सर्ववृत्तान्तदर्शी साश्चर्यमिदमाहअहो हिरण्यक ! श्लाघ्योऽसि, अतोऽहमपि त्वया सह मैत्रीं कर्तुमिच्छामि । अतस्त्वं मां मैत्र्येणानुग्रहीतुमर्हसि । एतच्छ्रुत्वा हिरण्यकोऽपि विवराभ्यन्तरादाहकस्त्वम् ?
स ब्रूतेलघुपतनकनामा वायसोऽहम् । हिरण्यको विहस्याहका त्वया सह मैत्री ? यतः
यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् ।
अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥ १.५४ ॥
अपरं च
भक्ष्यभक्षयोः प्रीतिर्विपत्तेः कारणं मतम् ।
शृगालात्पाशबद्धोऽसौ मृगः काकेन रक्षितः ॥ १.५५ ॥
वायसोऽब्रवीत्कथमेतत्?
हिरण्यकः कथयति
कथा २
अस्ति मगधदेशे चम्पकवती नाम अरण्यानी । तस्यां चिरात्महता स्नेहेन मृगकाकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्टपुष्टाङ्गः केनचित्शृगालेनावलोकितः । तं दृष्ट्वा शृगालोऽचिन्तयताः ! कथमेतन्मांसं सुललितं भक्षयामि ? भवतु, विश्वासं तावदुत्पादयामि इत्यालोच्य उपसृत्याब्रवीत्मित्र ! कुशलं ते ?
मृगेणोक्तम्कस्त्वम् ?
स ब्रूतेक्षुद्रबुद्धिनामा जम्बुकोऽहम् । अत्रारण्ये बन्धुहीनो मृतवतेकाकी निवसामि । इदानीं त्वां मित्रमासाद्य पुनः सबन्धुर्जीवलोकं प्रविष्टोऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यमिति ।
मृगेणोक्तमेवमस्तु ।
ततः पश्चादस्तं गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ । तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति । तौ दृष्ट्वा काकोऽवदत्सखे चित्राङ्ग ! कोऽयं द्वितीयः ?
मृगो ब्रूतेमित्र ! अकस्मादागन्तुना सह मैत्री न युक्ता । तन्न भद्रमाचरितम् । तथा चोक्तम्
अज्ञातकुलशीलस्य वासो देयो न कस्यचित् ।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥ १.५६ ॥
तौ आहतुःकथमेतत्?
काकः कथयति
कथा ३
अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान् पर्कटीवृक्षः तस्य कोटरे दैवदुर्विपाकात्गलितनखनयनो जरद्गवनामा गृध्रः प्रतिवसति । अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात्किंचित्किंचिदुद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावकरक्षां च करोति । अथ कदाचित्दीर्घकर्णनामा मार्जारः पक्षिशावकान् भक्षयितुं तत्रागतः । ततस्तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तैः कोलाहलः कृतः । तच्छ्रुत्वा जरद्गवेन उक्तम्कोऽयमायाति ? दीर्घकर्णो गृध्रमवलोक्य सभयमाहहा हतोऽस्मि यतो
ऽयं मां व्यापादयिष्यति । अथवा
तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम् ॥ १.५७ ॥
अधुनातिसन्निधाने पलायितुमक्षमः । तद्यथा भवितव्यं तथा भवतु, तावत्विश्वासमुत्पाद्यास्य समीपमुपगच्छामीत्यालोच्य तमुपसृत्याब्रवीतार्य ! त्वामभिवन्दे ।
गृध्रोऽवदत्कस्त्वम् ?
सोऽवदत्मार्जारोऽहम् ।
गृध्रो ब्रूतेदूरमपसर नो चेथन्तव्योऽसि मया ।
मार्जारोऽवदत्श्रूयतां तावत्मद्वचनम् । ततो यद्यहं वध्यस्तदा हन्तव्यः । यतः
जातिमात्रेण किं कश्चिद्वध्यते पूज्यते क्वचित् ।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥ १.५८ ॥
गृध्रो ब्रूतेब्रूहि किमर्थमागतोऽसि ?
सोऽवदतहमत्र गङ्गातीरे नित्यस्नायी निरामिषाशी ब्रह्मचारी चान्द्रायणव्रतमाचरंस्तिष्ठामि । युष्मान् धर्मज्ञानरताः प्रेमविश्वासभूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुमिहागतः । भवन्तश्चैतादृशा धर्मज्ञाः, यन्मामतिथिं हन्तुमुद्यताः ? गृहस्थधर्मश्च एषः
अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ १.५९ ॥
किं चयदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावदतिथिः पूज्य एव ।
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ १.६० ॥
अन्यच्च
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ १.६१ ॥
अपरं च
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥ १.६२ ॥
अन्यच्च
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ १.६३ ॥
अन्यच्च
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥ १.६४ ॥
गृध्रोऽवदत्मार्जारो हि मांसरुचिः । पक्षिशावकाश्चात्र निवसन्ति । तेनाहमेव ब्रवीमि । तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते चमया धर्मशास्त्रं श्रुत्वा वीतरागेनेदं दुष्करं व्रतं चान्द्रायणमध्यवसितम् । यतः परस्परं विवदमानानामपि धर्मशास्त्राणामहिंसा परमो धर्मः इत्यत्रैकमत्यम् । यतः
सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये ।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ १.६५ ॥
अन्यच्च
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यधि गच्छति ॥ १.६६ ॥
किं च
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् ।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ १.६७ ॥
अपि च
मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते ।
शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ॥ १.६८ ॥
शृणु पुनः
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते ।
अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत् ॥ १.६९ ॥
एवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षिशावकानाक्रम्य स्वकोटरमानीय प्रत्यहं खादति । अथ येषामपत्यानि खादितानि । तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा । तत्परिज्ञाय मार्जारः कोटरान्निःसृत्य बहिः पलायितः । पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य च गृध्रो व्यापादितः । अतोऽहं ब्रवीमिअज्ञातकुलशीलस्य इत्यादि ।
ओ)०(ओ
इत्याकर्ण्य स जम्बुकः सकोपमाहमृगस्य प्रथमदर्शनदिने भवानपि अज्ञातकुलशील एव आसीत् । तत्कथं भवता सह एतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते ? अथवा
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥ १.७० ॥
अन्यच्च
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ १.७१ ॥
यथा चायं मृगो मम बन्धुस्तथा भवानपि । मृगोऽब्रवीत्कमनेन उत्तरोत्तरेण ? सर्वैरेकत्र विश्रम्भालापैः सुखमनुभवद्भिः स्थीयताम् । यतः
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ।
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥ १.७२ ॥
काकेन उक्तमेवमस्तु । अथ प्रातः सर्वे यथाभिमतदेशं गताः । एकदा निभृतं शृगालो ब्रूतेसखे मृग ! एतस्मिन्नेव वनैकदेशे सस्यपूर्णं क्षेत्रमस्ति । तदहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिनकतिपयेन क्षेत्रपतिना तद्दृष्ट्वा पाशास्तत्र योजिताः । अनन्तरं पुनरागतो मृगः तत्र चरन् पाशैर्बद्धोऽचिन्तयत्को मामितः कालपाशादिव व्याधपाशात्त्रातुं मित्रादन्यः समर्थः ?
अत्रान्तरे जम्बुकस्तत्रागत्य उपस्थितोऽचिन्तयत्फलितस्तावदस्माकं कपटप्रबन्धः । मनोरथसिद्धिरपि बाहुल्यान्मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस्तं दृष्ट्वा उल्लासितो ब्रूतेसखे ! छिन्धि तावन्मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः
आपत्सु मित्रं जानीयाद्रणे शूरमृणे शुचिम् ।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ १.७३ ॥
अपरं च
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ १.७४ ॥
जम्बुकः पाशं मुहुर्मुहुर्विलोक्याचिन्तयत्दृढस्तावदयं बन्धः । ब्रूते चसखे ! स्नायुनिर्मिताः पाशाः, तदद्य भट्टारकवारे कथमेतान् दन्तैः स्पृशामि ? मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत्त्वया वक्तव्यं तत्कर्तव्यमिति । अनन्तरं स काकः प्रदोषका मृगमनागतमवलोक्य इतस्ततोऽन्विष्यन् तथाविधं तं दृष्ट्वा उवाचसखे ! किमेतत्? मृगेणोक्तमवधीरितसुहृद्वाक्यस्य फलमेतत्तथा चोक्तम्
सुहृदां हितकामानां यः शृणोति न भाषितम् ।
विपत्सन्निहिता तस्य स नरः शत्रुनन्दनः ॥ १.७५ ॥
काको ब्रूतेस वञ्चकः क्वास्ते ?
मृगेणोक्तंमन्मांसार्थी तिष्ठत्यत्रैव ।
काको ब्रूतेमित्र ! उक्तमेव मया पूर्वम् ।
अपराधो न मेऽस्तीति नैतद्विश्वासकारणम् ।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ १.७६ ॥
दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम् ।
न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ॥ १.७७ ॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ १.७८ ॥
ततः काको दीर्घं निःश्वस्य उवाचअरे वञ्चक ! किं त्वया पापकर्मणा कृतम् । यतः
संलापितानां मधुरैर्वचोभिर्
मिथ्योपचारैश्च वशीकृतानाम् ।
आशावतां श्रद्दधतां च लोके
किमर्थिनां वञ्चयितव्यमस्ति ॥ १.७९ ॥
अन्यच्च
उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् ।
तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥ १.८० ॥
दुर्जनेन समं सख्यं वैरं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ १.८१ ॥
अथवा स्थितिरियं दुर्जनानाम्
प्राक्पादयोः पतति खादति पृष्ठमांसं
कर्णे फलं किमपि रौति शनैर्विचित्रम् ।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः
सर्वं खलस्य चरितं मशकः करोति ॥ १.८२ ॥
तथा च
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ १.८३ ॥
अथ प्रभाते स क्षेत्रपतिर्लगुडहस्तस्तं प्रदेशमागच्छन् काकेनावलोकितः । तमवलोक्य काकेनोक्तम्सखे मृग ! त्वमात्मानं मृतवत्सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किमपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वमुत्थाय सत्वरं पलायिष्यसे ।
मृगस्तथैव काकवचनेन स्थितः । ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो मृग आलोकितः । अथासौआः ! स्वयं मृतोऽसि ? इत्युक्त्वा मृगं बन्धनात्मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद्दूरे अन्तरिते क्षेत्रपतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरमुत्थाय पलायितः । तमुद्दिश्य तेन क्षेत्रपतिना प्रकोपात्क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम्
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।
अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते ॥ १.८४ ॥
अतोऽहं ब्रवीमिभक्ष्यभक्ष्यकयोः प्रीतिरित्यादि ।
इति मृगवायसशृगालकथा
काकः पुनराह
भक्षितेनापि भवता नाहारो मम पुष्कलः ।
त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥ १.८५ ॥
अन्यच्च
तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम् ।
सतां हि साधुशीलत्वात्स्वभावो न निवर्तते ॥ १.८६ ॥
किं च
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् ।
न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥ १.८७ ॥
हिरण्यको ब्रूतेचपलस्त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम्
मार्जारो महिषो मेषः काकः कापुरुषस्तथा ।
विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नो हितः ॥ १.८८ ॥
किं चान्यत्शत्रुपक्षो भवानस्माकम् । शत्रुणा सन्धिर्न विधेयम् । उक्तं चैतत्
शत्रुणा न हि सन्दध्यात्संश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ १.८९ ॥
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १.९० ॥
यदशक्यं न तच्छक्त्यं यच्छक्त्यं शक्यमेव तत् ।
नोदके शकटं याति न च नौर्गच्छति स्थले ॥ १.९१ ॥
अपरं च
महताप्यर्थसारेण यो विश्वसिति शत्रुषु ।
भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥ १.९२ ॥
लघुपतनको ब्रूतेश्रुतं मया सर्वं, तथापि ममैतावनेव सङ्कल्पः । यत्त्वया सह सौहृद्यमवश्यं करणीयमिति । अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि
मृद्घटवत्सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद्दुर्भेद्यश्चाशु सन्धेयः ॥ १.९३ ॥
किं च
द्रवत्वात्सर्वलोहानां निमित्ताद्मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां सङ्गतः दर्शनात्सताम् ॥ १.९४ ॥
किं च
नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ १.९५ ॥
अन्यच्च
स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् ।
भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः ॥ १.९६ ॥
अन्यच्च
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः ।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥ १.९७ ॥
एतैर्गुणैरुपेतो भवद्=अन्यो मया कः सुहृत्प्राप्तव्यः ? इत्यादि तद्वचनमाकर्ण्य हिरण्यको बहिः निःसृत्याहआप्यायितोऽहं भवतामेतेन वचनामृतेन । तथा चोक्तम्
घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली
न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् ।
प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः
सद्युक्त्या च परिष्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम् ॥ १.९८ ॥
अन्यच्च
रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तया ।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ १.९९ ॥
अनेन वचनक्रमेण ततेकमपि दूषणं त्वयि न लक्ष्यते । यतः
पटुत्वं सत्यवादित्वं कथायोगेन बुद्ध्यते ।
अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥ १.१०० ॥
अपरं च
अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः ।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ १.१०१ ॥
मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यद्दुरात्मनाम् ।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ १.१०२ ॥
तद्भवतु भवतः अभिमतमेव इत्युक्त्वा हिरण्यको मैत्र्यं विधाय भोजनविशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः । वायसोऽपि स्वस्थानं गतः ततःप्रभृति तयोः अन्योऽन्याहारप्रदानेन कुशलप्रश्नैः विश्रम्भालापैश्च कियत्कालोऽतिवर्तने । एकदा लघुपतनको हिरण्यकमाहसखे ! वायसस्य कष्टतरलभ्याहारमिदं स्थानम् । तदेतत्परित्यज्य स्थानान्तरं गन्तुमिच्छामि ।
हिरण्यको ब्रूते
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥ १.१०३ ॥
काको ब्रूतेमित्र ! कापुरुषस्य वचनमेतत् । यतः
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १.१०४ ॥
अन्यच्च
को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतः
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिन्नत्त्यात्मनः ॥ १.१०५ ॥
हिरण्यको ब्रूतेमित्र क्व गन्तव्यम् ? तथा चोक्तम्
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १.१०६ ॥
वायसो ब्रूतेमित्र ! अस्ति सुनिरूपितं स्थानम् ।
हिरण्यकोऽवदत्किं तत्?
वायसः कथयतिअस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिरकालोपार्जितः प्रियसुहृन्मे मन्थराभिधानः कूर्मः सहजधार्मिकः प्रतिवसति । पश्य मित्र !
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ॥ १.१०७ ॥
स च भोजनविशेषैर्मां संवर्धयिष्यति । हिरण्यकोऽप्याहतत्किमत्रावस्थाय मया कर्तव्यम् ? यतः
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः ।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १.१०८ ॥
अपरं च
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ १.१०९ ॥
अपरं च
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ १.११० ॥
अन्यच्च
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ १.१११ ॥
अतो मामपि तत्र नय ।
वायसोऽवदतेवमस्तु ।
अथ वायसस्तेन मित्रेण सह विचित्रालापसुखेन तस्य सरसः समीपं ययौ । ततो मन्थरो दूरादेव लघुपतनकमवलोक्य उत्थाय यथोचितमातिथ्यं विधाय मूषिकस्याप्यतिथिसत्कारं चकार । यतः
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥ १.११२ ॥
तथा
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ १.११३ ॥
अपरं च
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥ १.११४ ॥
वायसोऽवदत्सखे ! मन्थर ! सविशेषपूजामसमि विधेहि, यतोऽयं पुण्यकर्मणां धुरीणः कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराजः । एतस्य गुणस्तुतिं जिह्वासहस्रद्वयेनापि यदि सर्पराजः कदाचित्कर्तुं समर्थः स्यातित्युक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याहभद्र ! आत्मनो निर्जनवनागमनकारणमाख्यातुमर्हसि ?
हिरण्यकोऽवदत्कथयामि, श्रूयताम् ।
कथा ४
अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्टभिक्षान्नसहितं भिक्षापात्रं नागदन्तकेऽवस्थाप्य स्वपिति । अहं च तदन्नमुत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं तस्य प्रियसुहृद्वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नानाकथाप्रसङ्गावस्थितो मम त्रासार्थं जर्जरवंशखण्डेन चूडाकर्णो भूमिमताडयत् । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाचसखे ! किमिति मम कथाविरक्तोऽन्यासक्तो भवान् ? यतः
मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रमदर्शनं च
सदानुरक्तस्य जनस्य लक्ष्म ॥ १.११५ ॥
अदृष्टिदानं कृतपूर्वनाशनम्
आननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृतिर्
विरक्तभावस्य जनस्य लक्षणम् ॥ १.११६ ॥
चूडाकर्णेनोक्तम्भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नमुत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तमवलोक्याहकथमयं मूषिकः स्वल्पबलोऽप्येतावद्दूरमुत्पतति ? तदत्र केनापि कारणेन भवितव्यम् ।
क्षणं विचिन्त्य परिव्राजकेनोक्तम्कारणं चात्र धनबाहुल्यमेव प्रतिभाति । यतः
धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा ।
प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ॥ १.११७ ॥
ततः खनित्रमादाय तेन परिव्राजकेन विवरं खनित्वा चिरसञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निजशक्तिहीनः सत्त्वोत्साहरहितः स्वाहारमप्युत्पादयितुमक्षमः सन्नासं मन्दं मन्दमुपसर्पन् चूडाकर्णेनावलोकितः । ततस्तेनोक्तम्
धनेन बलवान् लोको धनाद्भवति पण्डितः ।
पश्यैनं मूषिकं पापं स्वजातिसमतां गतम् ॥ १.११८ ॥
किं च
अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ १.११९ ॥
अपरं च
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ १.१२० ॥
अपरं च
अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च ।
मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥ १.१२१ ॥
अपरं च
दारिद्र्यान्मरणाद्वापि दारिद्र्यमवरं स्मृतम् ।
अल्पक्लेशेन मरणं दारिद्र्यमतिदुःसहम् ॥ १.१२२ ॥
अन्यच्च
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव
अन्यः क्षणेन भवतीति विचित्रमेतत् ॥ १.१२३ ॥
एतत्सर्वमाकर्ण्य मयालोचितंममान्नावस्थानमयुक्तमिदानीम् । तथा चोक्तम्
अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे ।
मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम् ॥ १.१२४ ॥
अन्यच्च
मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति ।
अपि निर्वाणमायाति नानलो याति शीतताम् ॥ १.१२५ ॥
किं च
कुसुमस्तवकस्येव द्वे वृत्ती तु मनस्विनः ।
सर्वेषां मूर्ध्नि वा तिष्ठेद्विशीर्येत वनेऽथवा ॥ १.१२६ ॥
यच्चान्यस्मै एतद्वृत्तान्तकथनं तदप्यनुचितम् । यतः
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १.१२७ ॥
यच्चात्रैव याच्ञया जीवनं तदप्यतीवगर्हितम् । यतः
वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः ।
नोपचारपरिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥ १.१२८ ॥
अन्यच्च
दारिद्र्याद्ध्रियमेति ह्रीपरिगतः सत्त्वात्परिभ्रश्यते
निःसत्त्वं परिभूयते परिभवान्निर्वेदमापद्यते ।
निर्विण्णः शुचमेति शोकफिहितो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ १.१२९ ॥
किं च
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिर्
वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥ १.१३० ॥
वरं शून्या शाला न च खलु वरो दुष्टवृषभो
वरं वेश्या पत्नी न पुनरविनीता कुलवधूः ।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे
वरं प्राणत्यागो न पुनरधमानामुपगमः ॥ १.१३१ ॥
अपि च
सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम् ।
हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति ॥ १.१३२ ॥
तत्किमहं परपिण्डेन आत्मानं पोषयामि ? कष्टं भोः ! तदपि द्वितीयं मृत्युद्वारम् । अन्यच्च
रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ १.१३३ ॥
इत्यालोच्यापि लोभात्पुनरपि तदीयमन्नं ग्रहीतुं ग्रहमकरवम् । तथा चोक्तम्
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥ १.१३४ ॥
ततोऽहं मन्दं मन्दमुपसर्पंस्तेन वीणाकर्णेन जर्जरवंशखण्डेन ताडितश्चाचिन्तयम्लुब्धो ह्यसन्तुष्टो नियतमात्मद्रोही भवति । तथा च
धनलुब्धो ह्यसन्तुष्टोऽनियतात्माजितेन्द्रियः ।
सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ॥ १.१३५ ॥
सर्वाः सम्पत्तस्यस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य ननु चर्मावृतेव भूः ॥ १.१३६ ॥
अपरं च
सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ १.१३७ ॥
किं च
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ १.१३८ ॥
अपि च
असेवितेश्वरद्वारमदृष्टविरहव्यथम् ।
अनुक्तक्लीबवचनं धन्यं कस्यापि जीवनम् ॥ १.१३९ ॥
न योजनशतं दूरं वाह्यमानस्य तृष्णया ।
सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥ १.१४० ॥
तदत्र अवस्थोचितकार्यपरिच्छेदः श्रेयान् ।
को धर्मो भूतदया किं सौख्यं नित्यमरोगिना जगति ।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ १.१४१ ॥
तथा च
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः ।
अपरिच्छेदकर्तॄणां विपदः स्युः पदे पदे ॥ १.१४२ ॥
तथा हि
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १.१४३ ॥
अपरं च
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् ।
विचार्यं खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ १.१४४ ॥
इत्यालोच्याहं निर्जनवनमागतः । यतः
वरं वनं व्याघ्रगजेन्द्रसेवितं
द्रुमालयः पत्रफलाम्बुभक्षितम् ।
तृणानि शय्या वसनं च वल्कलं
न बन्धुमध्ये धनहीनजीवनम् ॥ १.१४५ ॥
अतः
संसारविषयवृक्षस्य द्वे एव रसवत्फले ।
काव्यामृतरसास्वादः सङ्गमः सज्जनैः सह ॥ १.१४६ ॥
अपरं च
सत्सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् ।
असारे खलु संसारे त्रीणि साराणि भावयेत् ॥ १.१४७ ॥
मन्थर उवाच
अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम्
आयुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवनम् ।
धर्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं
पश्चात्तापहतो जरापरिणतः शोकाग्निना दह्यते ॥ १.१४८ ॥
युष्माभिरतिसञ्चयः कृतः । तस्यायं दोषः । शृणु
उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां परीवाहैवाम्भसाम् ॥ १.१४९ ॥
अन्यच्च
यदधोऽधः क्षितौ वित्तं निचखान मितम्पचः ।
तदधो निलयं गन्तुं चक्रे पन्थानमग्रतः ॥ १.१५० ॥
यतः
निजसौख्यं निरुन्धानो यो धनार्जनमिच्छति ।
परार्थभारवाहीव स क्लेशस्यैव भाजनम् ॥ १.१५१ ॥
तथा चोक्तं
दानोपभोगहीनेन धनेन धनिनो यदि ।
भवामः किं न तेनैव धनेन धनिनो वयम् ॥ १.१५२ ॥
यतः
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश्च रिपून्न याधत्ते ।
श्रुतेन किं यो न च धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥ १.१५३ ॥
अन्यच्च
असम्भोगेन सामान्यं कृपणस्य धनं परैः ।
अस्येदमिति सम्बन्धो हानौ दुःखेन गम्यते ॥ १.१५४ ॥
अपि च
न देवाय न विप्राय न बन्धुभ्यो न चात्मने ।
कृपणस्य धनं याति वह्नितस्करपार्थिवैः ॥ १.१५५ ॥
तथा चोक्तम्
दानं प्रियवाक्सहितं
ज्ञानमगर्वं क्षमान्वितं सौर्यम् ।
त्यागं सहितं च वित्तं
दुर्लभमेतच्चतुर्भद्रम् ॥ १.१५६ ॥
उक्तं च
कर्तव्यः सञ्चयो नित्यं न तु कार्योऽतिसञ्चयः ।
अतिसञ्चयशीलोऽयं धनुषा जम्बुको हतः ॥ १.१५७ ॥
तावाहतुःकथमेतत्?
मन्थरः कथयति
कथा ५
आसीत्कल्याणकटकवास्तव्यो भैरवो नाम व्याधः । स चैकदा मांसलुब्धो धनुरादाय मृगमन्विष्यन् विन्ध्याटवीमध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगमादाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस्तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्यागत्य प्रलयघनघोरगर्जनं कुर्वाणेन स व्याधो मुष्कदेशे हतः छिन्नद्रुम इव पपात । तथा चोक्तम्
जलमग्निर्विषं शस्तं क्षुद्व्याधिः पतनं गिरेः ।
निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते ॥ १.१५८ ॥
अथ तयोः पादास्फालनेन एकः सर्पोऽपि मृतः । अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान्मृतान्मृगव्याधसर्पशूकरानपश्यत् । आलोक्याचिन्तयच्चअहो भाग्यम् ! अद्य महद्भोज्यं मे समुपस्थितम् ।
अथवा
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १.१५९ ॥
मासमेकं नरो याति द्वौ मासौ मृगशूकरौ ।
अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥ १.१६० ॥
ततः प्रथमबुभुक्षायामिदं निःस्वादु कोदण्डलग्नं स्नायुबन्धनं खादामि, इत्युक्त्वा तथाकरोत् । ततश्छिन्ने स्नायुबन्धने द्रुतमुत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतोऽहं ब्रवीमि कर्तव्यः सञ्चयो नित्यमित्यादि । तथा च
यद्ददाति यदश्नाति तदेव धनिनो धनम् ।
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ १.१६१ ॥
किं च
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने ।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥ १.१६२ ॥
यातु, किमिदानीमतिक्रान्तोपवर्णनेन । यतः
नाप्रायमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः ॥ १.१६३ ॥
तत्सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः
शास्त्राण्यधीत्यापि भवन्ति मूर्खा
यस्तु क्रियावान् पुरुषः स विद्वान् ।
सुचिन्तितं चौषधमातुराणां
न नाममात्रेण करोत्यरोगम् ॥ १.१६४ ॥
अन्यच्च
न स्वल्पमप्यध्यवसायभीरोः
करोति विज्ञानविधिर्गुणं हि ।
अन्धस्य किं हस्ततलस्थितोऽपि
प्रकाशयत्यर्थमिह प्रदीपः ॥ १.१६५ ॥
तदत्र सखे दशातिशेषेण शान्तिः करणीया । एतदप्यतिकष्टं त्वया न मन्तव्यम् ।
सुखमापतितं सेव्यं दुःखमापतितं तथा ।
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ॥ १.१६६ ॥
अपरं च
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः ।
सोद्योगं नरमायान्ति विवशाः सर्वसम्पदः ॥ १.१६७ ॥
अपि च
उत्साहसंपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥ १.१६८ ॥
विशेषतश्च
विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं
समायुक्तोऽप्यर्थैः परिभवपदं याति कृपणः ।
स्वभावादुद्भूतां गुणसमुदयावाप्तिविषयां
द्युतिं सैंहीं श्वा किं धृतकनकमालोऽपि लभते ॥ १.१६९ ॥
किं च
धनवानिति हि मदस्ते किं गतविभवो विषादमुपयासि ।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ १.१७० ॥
अन्यच्च
वृत्त्यर्थं नातिचेष्टते सा हि धात्रैव निर्मिता ।
गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ १.१७१ ॥
अपि च सखे शृणु
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः ।
मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥ १.१७२ ॥
अपरं च सतां रहस्यं शृणु, मित्र !
जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु ।
मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः ॥ १.१७३ ॥
अपरं च
धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १.१७४ ॥
यतः
यथाआमिषमाकाशे पक्षिभिः श्वापदैर्भुवि ।
भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ १.१७५ ॥
अन्यच्च
राजतः सलिलादग्नेश्चोरतः स्वजनादपि ।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ १.१७६ ॥
तथा हि
जन्मनि क्लेशबहुले किं नु दुःखमतः परम् ।
इच्छासम्पद्यतो नास्ति यच्चेच्छा न निवर्तते ॥ १.१७७ ॥
अन्यच्च भ्रातः शृणु
धनं तावदसुलभं लब्धं कृच्छ्रेण पाल्यते ।
लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥ १.१७८ ॥
सा तृष्णा चेत्परित्यक्ता को दरिद्रः क ईश्वरः ।
तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥ १.१७९ ॥
अपरं च
यद्यदेव हि वाञ्छेत ततो वाञ्छा प्रवर्तते ।
प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते ॥ १.१८० ॥
किं बहुना, विश्रम्भालापैर्मयैव सहात्र कालो नीयताम् । यतः
आम्रणान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः ।
परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥ १.१८१ ॥
इति श्रुत्वा लघुपतनको ब्रूतेधन्योऽसि मन्थर ! सर्वथा आश्रयणीयोऽसि । यतः
सन्त एव सतां नित्यमापदुद्धरणक्षमाः ।
गजानां पङ्कमग्नानां गजा एव धुरन्धराः ॥ १.१८२ ॥
अपरं च
श्लाघ्यः स एको भुवि मानवानां
स उत्तमः सत्पुरुषः स धन्यः ।
यस्यार्थिनो वा शरणागता वा
नाशाविभङ्गा विमुखाः प्रयान्ति ॥ १.१८३ ॥
तदेवं ते स्वेच्छाहारविहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म । अथ कदाचित्चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः । तत्पश्चादायान्तं भयहेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश्च विवरं गतः, काकोऽपि उड्डीय वृक्षाग्रमारूढः । ततो लघुपतनकेन सुदूरं निरूप्य भयहेतुर्न कोऽप्यवलम्बितः । पश्चात्तद्वचनादागत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तंभद्र मृग ! कुशलं ते ? स्वेच्छया उदकाद्याहारोऽनुभूयताम् । अत्रावस्थानेन वनमिदं सनाथीक्रियताम्
।
चित्राङ्गो ब्रूतेलुब्धकत्रासितोऽहं भवतां शरणमागतः । ततश्च, भवद्भिः सह मित्रत्वमिच्छामि । भवन्तश्च अनुकम्पयन्तु मैत्र्येण । यतः
लोभाद्वाथ भयाद्वापि यस्त्यजेच्छरणागतम् ।
ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥ १.१८४ ॥
हिरण्यकोऽप्यवदत्मित्रत्वं तावदस्माभिः सह, अयत्नेन निष्पन्नं भवतः । यतः
औरसं कृतसम्बन्धं तथा वंशक्रमागतम् ।
रक्षकं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ १.१८५ ॥
तदत्र भवता स्वगृहनिर्विशेषेण स्थीयताम् । तच्छ्रुत्वा मृगः सानन्दो भूत्वा कृतस्वेच्छाहारः पानीयं पीत्वा जलासन्नवटतरुच्छायायामुपविष्टः ।
अथ मन्थरो ब्रूतेसखे मृग ! केन त्रासितोऽसि ? अस्मिन्निर्जने वने कदाचित्किं व्याधाः सञ्चरन्ति ?
मृगेणोक्तमस्ति कलिङ्गविषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजयव्यापारक्रमेण आगत्य चन्द्रभागानदीतीरे समावेशितकटको वर्तते, प्रातश्च तेनात्रागत्य कर्पूरसरः समीपे भवितव्यमिति व्याधानां मुखात्किंवदन्ती श्रूयते । तदत्रापि प्रातरवस्थानं भयहेतुकमित्यालोच्य यथा कार्यं तथा आरभ्यताम् ।
तच्छ्रुत्वा कूर्मः सभयमाहमित्र ! जलाशयान्तरं गच्छामि ।
काकमृगावपि उक्तवन्तौमित्र ! एवमस्तु !
हिरण्यको विमृश्याब्रवीत्पुनर्जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतोऽस्य का विधा ?
अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम् ।
स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ १.१८६ ॥
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
काकी कनकसूत्रेण कृष्णसर्पमघातयत् ॥ १.१८७ ॥
तद्यथा
कथा ६
अस्ति ब्रह्मारण्ये कर्प्¨ऊरतिलको नाम हस्ती । तमवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म । यद्ययं केनाप्युपायेन मिर्यते, तदास्माकमेतेन देहेन मासचतुष्टयस्य स्वेच्छाभोजनं भवेत् । ततस्तन्मध्यादेकेन वृद्धशृगालेन प्रतिज्ञा कृता । मया बुद्धिप्रभावादस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा साष्टाङ्गपातं प्रणम्योवाचदेव ! दृष्टिप्रसादं कुरु ।
हस्ती ब्रूतेकस्त्वम् ? कुतः समायातः ?
सोऽवदत्जम्बुकोऽहं सर्वैर्वनवासिभिः पशुभिर्मिलित्वा भवत्सकाशं प्रस्थापितः । यद्विना राज्ञा स्थातुं न युक्तम् । तदत्राटवीराज्येऽभिषेक्तुं भवान् सर्वस्वामिगुणोपेतो निरूपितः । यतः
कुलाचारजनाचारैरतिशुद्धः प्रतापवान् ।
धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि ॥ १.१८८ ॥
अपरं च पश्य
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।
राजन्यसति लोकेऽस्मिन् कुतो भार्या कुतो धनम् ॥ १.१८९ ॥
अन्यच्च
पर्जन्य इव भूतानामाधारः पृथिवीपतिः ।
विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ १.१९० ॥
किं च
नियतविषयवर्ती प्रायशो दण्डयोगाज्
जगति परवशेऽस्मिन् दुर्लभः साधुवृत्तेः ।
कृशमपि विकलं वा व्याधितं वाधनं वा
पतिमपि कुलनारी दण्डभीत्याभ्युपैति ॥ १.१९१ ॥
तद्यथा लग्नवेला न चलति तथा कृत्वा सत्वरमागम्यतां देवेन । इत्युक्त्वा उत्थाय चलितः । ततोऽसौ राज्यलाभाकृष्टः कर्पूरतिलकः शृगालदर्शितवर्त्मना धावन्महापङ्के निमग्नः । हस्तिनोक्तम्सखे शृगाल ! किमधुना विधेयम् ? महापङ्के पतितोऽहं म्रिये । परावृत्य पश्य !
शृगालेन विहस्योक्तम्देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात्मद्विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलमेतत् । तदनुभूयतामशरणं दुःखम् । तथा चोक्तम्
यदासत्सङ्गरहितो भविष्यसि भविष्यसि ।
यदासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥ १.१९२ ॥
ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षितः । अतोऽहं ब्रवीमिउपायेन हि यच्छक्यमित्यादि ।
ओ)०(ओ
ततस्तद्धितवचनमवधीर्य महता भयेन विमुग्ध इव मन्थरस्स्तज्जलाशयमुत्सृज्य प्रचलितः । तेऽपि हिरण्यकादयः स्नेहादनिष्टं शङ्कमानास्तमनुजग्मुः । ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्योऽस्मीत्यभिधाय भ्रमणक्लेशात्क्षुत्पिपासाकुलः स्वगृहाभिमुखं प्रयातः । अथ ते मृगवायसमूषिकाः परं विषादमुपगताः तमनुगच्छन्ति स्म । ततो हिरण्यको विलपति
एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य ।
तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥ १.१९३ ॥
स्वभावजं तु यन्मित्रं भाग्येनैवाभिजायते ।
तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ १.१९४ ॥
अपि च
न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे ॥ १.१९५ ॥
इति मुहुः विचिन्त्य प्राहअहो मे दुर्दैवम् । यतः
स्वकर्मसन्तानविचेष्टितानि
कालान्तरावर्तिशुभाशुभानि ।
इहैव दृष्टानि मयैव तानि
जन्मान्तराणीव दशान्तराणि ॥ १.१९६ ॥
अथवा इत्थमेवैतत् ।
कायः संनिहितापायः सम्पदः पदमापदाम् ।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ १.१९७ ॥
पुनर्विमृश्याह
शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १.१९८ ॥
किं च
मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः
पात्रं यत्सुखदुःखयोः सममिदं पुण्यात्मना लभ्यते ।
ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास्
ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥ १.१९९ ॥
इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकावाहयावदयं व्याधो वनान्न निःसरति, तावन्मन्थरं मोचयितुं यत्नः क्रियताम् ।
तावूचतुःसत्वरं यथाकार्यमुपदिश ।
हिरण्यको ब्रूतेचित्राङ्गो जलसमीपं गत्वा मृतमिवात्मानं निश्चेष्टं दर्शयतु । काकश्च तस्योपरि स्थित्वा चञ्च्वा किमपि विलिखतु । नूनमनेन लुब्धकेन मृगमांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् ।
ततश्चित्राङ्गलघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोरधस्तादुपविष्टः सन् तथाविधं मृगमपश्यत् । ततः कच्छपं जलसमीपे निधाय कर्तरिकामादाय प्रहृष्टमना मृगान्तिकं चलितः । अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । छिन्नबन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत्तरुतलमायाति तावत्कूर्ममपश्यन्नचिन्तयतुचितमेवैतत्
ममासमीक्ष्यकारिणः । यतः
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥ १.२०० ॥
ततोऽसौ स्वकर्मवशान्निराशः कटकं प्रविष्टः । मन्थरादयश्च सर्वे मुक्तापदः स्वस्थानं गत्वा यथासुखमास्थिताः ।
अथ राजपुत्रैः सानन्दमुक्तम्सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् ।
विष्णुशर्मोवाचएतद्भवतामभिलषितमपि सम्पन्नम् । अपरमपीदमस्तु
मित्रं यान्तु च सज्जना जनपदैर्लक्ष्मीः समालभ्यतां
भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः ।
आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः
कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूडामणिः ॥ १.२०१ ॥
ओ)०(ओ
इइ.
सुहृद्भेदः
अथ राजपुत्रा ऊचुःार्य ! मित्रलाभः श्रुतस्तावदस्माभिः । इदानीं सुहृद्भेदं श्रोतुमिच्छामः ।
विष्णुशर्मोवाचसुहृद्भेदं तावच्छृणुत, यस्यायमाद्यः श्लोकः
वर्धमानो महान् स्नेहो मृगेन्द्रवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ २.१ ॥
राजपुत्रैरुक्तम्कथमेतत्?
विष्णुशर्मा कथयतिअस्ति दक्षिणापथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम वणिग्निवसति । तस्य प्रचुरेऽपि वित्तेऽ परान् बन्धूनतिसमृद्धान् समीक्ष्य पुनरर्थवृद्धिः करणीयेति मतिर्बभूव । यतः,
अधोऽधः पश्यतः कस्य महिमा नोपचीयते ।
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ २.२ ॥
अपरं च
ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् ।
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥ २.३ ॥
अन्यच्च
अव्यवसायिनमलसं दैवपरं सहसाच्च परिहीणम् ।
प्रमदेव हि वृद्धपतिं नेच्छत्यवगूहितुं लक्ष्मीः ॥ २.४ ॥
किं च
आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् ।
सन्तोषो भीरुत्वं षड्व्याघाता महत्त्वस्य ॥ २.५ ॥
यतः
सम्पदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ २.६ ॥
अपरं च
निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम् ।
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ॥ २.७ ॥
तथा चोक्तम्
अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ।
रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ २.८ ॥
यतोऽलब्धमिच्छतोऽर्थयोगादर्थस्य प्राप्तिरेव । लब्धस्याप्यरक्षितस्य निधेरपि स्वयं विनाशः । अपि च, अवर्धमानश्चार्थः काले स्वल्पव्ययोऽप्यञ्जनवत्क्षयमेति । नौपभुज्यमानश्च निष्प्रयोजन एव सः । तथा चोक्तम्
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश्च रिपून्न बाधते ।
श्रुतेन किं यो न च धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥ २.९ ॥
यतः,
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ २.१० ॥
दानोपभोगरहिता दिवसा यस्य यान्ति वै ।
स कर्मकारभस्त्रेव श्वसन्नपि न जीवति ॥ २.११ ॥
इति संचिन्त्य नन्दकसजीवकनामानौ वृषभौ धुरि नियोज्य शकटं नानाविधद्रव्यपूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति । अन्यच्च
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् ।
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥ २.१२ ॥
यतः
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ २.१३ ॥
अथ गच्छतस्तस्य सुदुर्गनाम्नि महारण्ये सञ्जीवको भग्नजानुर्निपतितः । तमालोक्य वर्धमानोऽचिन्तयत्
करोतु नाम नीतिज्ञो व्यवसायमितस्ततः ।
फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥ २.१४ ॥
किन्तु
विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम् ।
तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिर्विधीयताम् ॥ २.१५ ॥
इति संचिन्त्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायमन्यं वृषभमेकं समानीय धुरि नियोज्य चलितः । ततः संजीवकोऽपि कथं कथमपि खुरत्रये भरं कृत्वोत्थितः । यतः
निमग्नस्य पयोराशौ पर्वतात्पतितस्य च ।
तक्षकेणापि दष्टस्य आयुर्मर्माणि रक्षति ॥ २.१६ ॥
नाकाले मिर्यते जन्तुर्विद्धः शरशतैरपि ।
कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति ॥ २.१७ ॥
अरक्षितं तिष्ठति दैवरक्षितं
सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽपि वने विसर्जितः
कृतप्रयत्नोऽपि गृहे न जीवति ॥ २.१८ ॥
ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहारविहारं कृत्वारण्यं भ्राम्यन् हृष्टपुष्टाङ्गो बलवन्ननाद । तस्मिन् वने पिङ्गलकनामा सिंहः स्वभुजोपार्जितराज्यसुखमनुभवन्निवसति । तथा चोक्तम्
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ॥ २.१९ ॥
स चैकदा पिपासाकुलितः पानीयं पातुं यमुनाकच्छमगच्छत् । तेन च तत्र सिंहेनाननुभूतपूर्वकमकालघनगर्जितमिव संजीवकनर्दितमश्रावि । तच्छ्रुत्वा पानीयमपीत्वा सचकितः परिवृत्य स्वस्थानमागत्य किमिदमित्यालोचयंस्तूष्णीं स्थितः । स च तथाविधः करटकदमनकाभ्यामस्य मन्त्रिपुत्राभ्यां दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकमाहसखे करटक ! किमित्ययमुदकार्थी स्वामी पानीयमपीत्वा सचकितो मन्दं मन्दमवतिष्ठते ।
करटको ब्रूतेमित्र दमनक ! अस्मन्मतेनास्य सेवैव न क्रियते । यदि तथा भवति तर्हि किमनेन स्वामिचेष्टानिरूपेणास्माकम् । यतोऽनेन राज्ञा विनापराधेन चिरमवधीरिताभ्यामावाभ्यां महद्दुःखमनुभूतम् ।
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् ।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ २.२० ॥
अपरं च
शीतवातातपक्लेशान् सहन्ते यान् पराश्रिताः ।
तदंशेनापि मेधावी तपस्तप्त्वा मुखी भवेत् ॥ २.२१ ॥
अन्यच्च
एतावज्जन्मसाफल्यं देहिनामिह देहिषु ।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा ॥ २.२२ ॥
अपरं च
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
इति वित्रस्तसारङ्गनेत्रया को न वञ्चितः ॥ २.२३ ॥
किं च
अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् ।
आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ २.२४ ॥
किं च
या प्रकृत्यैव चपला निपतत्यशुचावपि ।
स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥ २.२५ ॥
अपरं च
मौनान्मूर्खः प्रवचनपटुर्बातुलो जल्पको वा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः ।
धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ २.२६ ॥
विशेषतश्च
प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ॥ २.२७ ॥
दमनको ब्रूतेमित्र सर्वथा मनसापि नैतत्कर्तव्यम्, यतः
कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः ।
अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥ २.२८ ॥
अन्यच्च
कुतः सेवाविहीनानां चामरोद्धूतसम्पदः ।
उद्दण्डधवलच्छत्रं वाजिवारणवाहिनी ॥ २.२९ ॥
करटको ब्रूतेतथापि किमनेनास्माकं व्यापारेण । यतोऽव्यापारेषु व्यापारः सर्वथा परिहरणीयः । पश्य
अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निधनं याति कीलोत्पटीव वानरः ॥ २.३० ॥
दमनकः पृच्छतिकथमेतत्?
करकटः कथयति
कथा १
अस्ति मगधदेशे धर्मारण्यसंनिहितवसुधायां शुभदत्तनाम्ना कायस्थेन विहारः कर्तुमारब्धः । तत्र करपत्रदार्यमाणैकस्तम्भस्य कियद्दूरस्फाटितस्य काष्ठखण्डद्वयमध्ये कीलकः सूत्रधारेण निहितः । तत्र बलवान् वानरयूथः क्रीडन्नागतः । एको वानरः कालप्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनन्तरं स च सहजचपलतया महता प्रयत्नेन तं कीलकमाकृष्टवान् । आकृष्टे च कीलके चूर्णिताण्डद्वयः पञ्चत्वं गतः । अतोऽहं ब्रवीमिअव्यापरेषु व्यापारमित्यादि ।
दमनको ब्रूतेतथापि स्वामिचेष्टानिरूपणं सेवकेनावश्यं करणीयम् ।
करटको ब्रूतेसर्वस्मिन्नधिकारे य एव नियुक्तः प्रधानमन्त्री स करोतु । यतोऽनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्या । पश्य
पराधिकारचर्चा यः कुर्यात्स्वामिहितेच्छया ।
स विषीदति चीत्काराद्गर्दभस्ताडितो यथा ॥ २.३१ ॥
दमनकः पृच्छतिकथमेतत्?
करटको ब्रूते
कथा २
अस्ति वाराणस्यां कर्पूरपटको नाम रजकः । स रात्रौ गाढनिद्रायां प्रसुप्तः । तदनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति । कुक्कुरश्चोपविष्टोऽस्ति । अथ गर्दभः श्वानमाहसखे ! भवतस्तावदयं व्यापारः । तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ।
कुक्कुरो ब्रूतेभद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वमेव किं न जानासि यथा तस्याहर्निशं गृहरक्षां करोमि । यतोऽयं चिरान्निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहारदाने मन्दादरः । यतो विना विधुरदर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति ।
गर्दभो ब्रूतेशृणु रे बर्बर !
याचते कार्यकाले यः स किंभृत्यः स किंसुहृत् ।
कुक्कुरो ब्रूते
भृत्यान् सम्भाषयेद्यस्तु कार्यकाले स किंप्रभुः ॥ २.३२ ॥
यतः
आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने ।
पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ २.३३ ॥
ततो गर्दभः सकोपमाहअरे दुष्टमते ! पापीयांस्त्वं यद्विपत्तौ स्वामिकार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति, तन्मया कर्तव्यम् । यतः
पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् ।
स्वामिनं सर्वभावेन परलोकममायया ॥ २.३४ ॥
इत्युक्त्वातीव चीत्कारशब्दं कृतवान् । ततः स रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वमगमत् । अतोऽहं ब्रवीमिपराधिकारचर्चामित्यादि । पश्य, पशूनामन्वेषणमेवास्मन्नियोगः । स्वनियोगचर्चा क्रियताम् । किन्त्वद्य तया चर्चया न प्रयोजनम् । यत आवयोर्भक्षितशेषाहारः प्रचुरोऽस्ति ।
दमनकः सरोषमाहकथमाहारार्थी भवान् केवलं राजानं सेवते ? एतदयुक्तमुक्तं त्वया । यतः
सुहृदामुपकारकारणाद्
द्विषतामप्यपकारकारणात् ।
नृपसंश्रय इष्यते बुधैर्
जठरं को न बिभर्ति केवलम् ॥ २.३५ ॥
जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः ।
सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥ २.३६ ॥
अपि च
यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु ।
काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥ २.३७ ॥
पश्य
पञ्चभिर्याति दासत्वं पुराणैः कोऽपि मानवः ।
कोऽपि लक्षैः कृती कोऽपि लक्षैरपि न लभ्यते ॥ २.३८ ॥
अन्यच्च
मनुष्यजातौ तुल्यायां भृत्यत्वमतिगर्हितम् ।
प्रथमो यो न तन्नापि स किं जीवत्सु गण्यते ॥ २.३९ ॥
तथा चोक्तं
वाजिवारणलोहानां काष्ठपाषाणवाससाम् ।
नारीपुरुषतोयानामन्तरं हदहन्तरम् ॥ २.४० ॥
तथा हि स्वल्पमप्यतिरिच्यते
स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थिकं
श्वा लब्ध्वा परितोषमेति न भवेत्तस्य क्षुधः शान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ २.४१ ॥
अपरं च, सेव्यसेवकयोरन्तरं पश्य
लाङ्गूलचालनमधश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ २.४२ ॥
किं च
यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्
विज्ञानविक्रमयशोभिरभज्यमानम् ।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ २.४३ ॥
अपरं च
यो नात्मजे न च गुरौ न च भृत्यवर्गे
दीने दयां न कुरुते न च बन्धुवर्गे ।
किं तस्य जीवितफलेन मनुष्यलोके
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ २.४४ ॥
अपरमपि
अहितहितविचारशून्यबुद्धेः
श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य ।
उदरभरणमात्रकेवलेच्छोः
पुरुषपशोश्च पशोश्च को विशेषः ॥ २.४५ ॥
करटको ब्रूतेआवां तावदप्रधानौ । तदाप्यावयोः किमनया विचारणया ।
दमनको ब्रूतेकियता कालेनामात्याः प्रधानतामप्रधानतां वा लभन्ते, यतः
न कस्यचित्कश्चिदिह स्वभावाद्
भवत्युदारोऽभिमतः खलो वा ।
लोके गुरुत्वं विपरीततां वा
स्वचेष्टितान्येव नरं नयन्ति ॥ २.४६ ॥
किं च
आरोप्यते शिला शैले यत्नेन महता यथा ।
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ २.४७ ॥
यात्यधोऽधः व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः ।
कूपस्य खनिता यद्वत्प्राकारस्येव कारकः ॥ २.४८ ॥
तद्भद्रम् । स्वयत्नायत्तो ह्यात्मा सर्वस्य ।
करटको ब्रूतेअथ भवान् किं ब्रवीति ?
स आहअयं तावत्स्वामी पिङ्गलकः कुतोऽपि कारणात्सचकितः परिवृत्योपविष्टः ।
करटको ब्रूते
उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ २.४९ ॥
आकाररिङ्गतैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकारेण लक्ष्यतेऽन्तर्गतं मनः ॥ २.५० ॥
अत्र भयप्रस्तावे प्रज्ञाबलेनाहमेनं स्वामिनमात्मीयं करिष्यामि । यतः
प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् ।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥ २.५१ ॥
करटको ब्रूतेसखे त्वं सेवानभिज्ञः । पश्य
अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते ।
आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥ २.५२ ॥
दमनको ब्रूतेभद्र ! कथमहं सेवानभिज्ञः ? पश्य
किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥ २.५३ ॥
यतः
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ २.५४ ॥
अन्यच्च
कोऽत्रेत्यहमिति ब्रूयात्सम्यगादेशयेति च ।
आज्ञामवितथां कुर्याद्यथाशक्ति महीपतेः ॥ २.५५ ॥
अपरं च
अल्पेच्छुर्धृतिमान् प्राज्ञश्छायेवानुगतः सदा ।
आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥ २.५६ ॥
करटको ब्रूतेकदाचित्त्वामनवसरप्रवेशादवगम्यते स्वामी ।
स चाहअस्त्वेवम् । तथाप्यनुजीविना स्वामिसांनिध्यमवश्यं करणीयम् ।
यतः
दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम् ।
कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते ॥ २.५७ ॥
पश्य
आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा ।
प्रायेण भूमिपतयः प्रमदालताश्च यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ २.५८ ॥
करटको ब्रूतेअथ तत्र गत्वा किं वक्ष्यति भवान् ।
स आहशृणु ! किमनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि ।
करटको ब्रूतेकिं तज्ज्ञानलक्षणम् ।
दमनको ब्रूतेशृणु
दूरादवेक्षणं हासः सम्प्रश्नेष्वादरो भृशम् ।
परोक्षेऽपि गुणश्लाघा स्मरणं प्रियवस्तुषु ॥ २.५९ ॥
असेवके चानुरक्तिर्दानं सप्रियभाषणम् ।
अनुरक्तस्य चिह्नानि दोषेऽपि गुणसङ्ग्रहः ॥ २.६० ॥
अन्यच्च
कालयापनमाशानां वर्धनं फलखण्डनम् ।
विरक्तेश्वरचिह्नानि जानीयान्मतिमान्नरः ॥ २.६१ ॥
एतज्ज्ञात्वा यथा चायं ममायत्तो भविष्यति । तथा वदिष्यामि ।
अपायसं दर्शनजां विपत्तिम्
उपायसन्दर्शनजां च सिद्धिम् ।
मेधाविनो नीतिविधिप्रयुक्तां
पुरः स्फुरन्तीमिव दर्शयन्ति ॥ २.६२ ॥
करटको ब्रूतेतथाप्यप्राप्ते प्रस्तावे न वक्तुमर्हसि, यतः
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ २.६३ ॥
दमनको ब्रूतेमित्र ! मा भैषीः ! नाहमप्राप्तावसरं वचनं वदिष्यामि । यतः
आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
अपृष्टोऽपि हितान्वेषी ब्रूयात्कल्याणभाषितम् ॥ २.६४ ॥
यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस्तदा मन्त्रित्वमेव ममानुपपन्नम् । यतः
कल्पयति येन वृत्तिं येन च लोके प्रशस्यते ।
स गुणस्तेन गुणिना रक्ष्यः संवर्धनीयश्च ॥ २.६५ ॥
तद्भद्र ! अनुजानीहि माम् । गच्छामि ।
करटको ब्रूतेशुभमस्तु । शिवास्ते पन्थानः । यथाभिलषितमनुष्ठीयतामिति ।
ततो दमनको विस्मित इव पिङ्गलकसमीपं गतः । अथ दूरादेव सादरं राज्ञा प्रवेशितः साष्टाङ्गप्रणिपातं प्रणिपत्योपविष्टः । राजाहचिराद्दृष्टोऽसि ।
दमनको ब्रूतेयद्यपि मया सेवकेन श्रीमद्देवपादानां न किंचित्प्रयोजनमस्ति, तथापि प्राप्तकालमनुजीविना सांनिध्यमवश्यं कर्तव्यमित्यागतोऽस्मि । किं च
दन्तस्य निर्घर्षणकेन राजन्
कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां
किमङ्गवाक्पाणिमता नरेण ॥ २.६६ ॥
यद्यपि चिरेणावधीरितस्य देवपादैर्मे बुद्धिनाशः शक्यते, तदपि न शङ्कनीयम् । यतः
कदर्थितस्यापि च धैर्यवृत्तेर्
बुद्धेर्विनाशो नहि शङ्कनीयः ।
अधःकृतस्यापि तनूनपातो
नाधः शिखा याति कदाचिदेव ॥ २.६७ ॥
देव ! तत्सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः
मणिर्लुठति पादेषु काचः शिरसि धार्यते ।
यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ २.६८ ॥
अन्यच्च
निर्विशेषो यदा राजा समं सर्वेषु वर्तते ।
तदोद्यमसमर्थानामुत्साहः परिहीयते ॥ २.६९ ॥
किं च
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।
नियोजयेत्तथैवैतांस्त्रिविधेष्वेव कर्मसु ॥ २.७० ॥
यतः
स्थान एव निज्योज्यन्ते भृत्याश्चाभरणानि च ।
नहि चूडामणिः पादे नूपुरं शिरसा कृतम् ॥ २.७१ ॥
अपि च
कनकभूषणसङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते ।
न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ॥ २.७२ ॥
अन्यच्च
मुकुटे रोपिता काचश्चरणाभरणे मणिः ।
नहि दोषो मणेरस्ति किन्तु साधोरविज्ञता ॥ २.७३ ॥
पश्य
बुद्धिमाननुरक्तोऽयमयं शूर इतो भयम् ।
इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ २.७४ ॥
तथा हि
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ २.७५ ॥
अन्यच्च
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि ॥ २.७६ ॥
यतः
अवज्ञानाद्राज्ञो भवति मतिहीनः परिजनस्
ततस्तत्प्रामाण्याद्भवति न समीपे बुधजनः ।
बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती
विपन्नायां नीतौ सकलमवशं सीदति जगत् ॥ २.७७ ॥
अपरं च
जनं जनपदा नित्यमर्चयन्ति नृपार्चितम् ।
नृपेणावमतो यस्तु स सर्वैरवमन्यते ॥ २.७८ ॥
किं च
बालादपि गृहीतव्यं युक्तमुक्तं मनीषिभिः ।
रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥ २.७९ ॥
पिङ्गलकोऽवदत्भद्र दमनक ! किमेतत्? त्वमस्मदीयप्रधानामात्यपुत्र इयन्तं कालं यावत्कुतोऽपि खलवाक्यान्नागतोऽसि । इदानीं यथाभिमतं ब्रूहि ।
दमनको ब्रूतेदेव ! पृच्छामि किंचित् । उच्यताम् । उदकार्थी स्वामी पानीयमपीत्वा किमिति विस्मित इव तिष्ठति ।
पिङ्गलकोऽवदत्भद्रमुक्तं त्वया । किन्त्वेतद्रहस्यं वक्तुं काचिद्विश्वासभूमिर्नास्ति । तथापि निभृतं कृत्वा कथयामि । शृणु, सम्प्रति वनमिदमपूर्वसत्त्वाधिष्ठितमतोऽस्माकं त्याज्यम् । अनेन हेतुना विस्मितोऽस्मि । तथा च श्रुतो मयापि महानपूर्वशब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् ।
दमनको ब्रूतेदेव ! अस्ति तावदयं महान् भयहेतुः । स शब्दोऽस्याभिरप्याकर्णितः । किन्तु स किं मन्त्री यः प्रथमं भूमित्यागं पश्चाद्युद्धं चोपविशति अस्मिन् कार्यसन्देहे भृत्यानामुपयोग एव ज्ञातव्यः । यतः
बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः ।
आपन्निकषपाषाणे नरो जानाति सारताम् ॥ २.८० ॥
सिंहो ब्रूतेभद्र ! महती शङ्का मां बाधते ।
दमनकः पुनराह स्वगतमन्यथा राज्यसुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां सम्भाषसे ? प्रकाशं ब्रूतेदेव ! यावदहं जीवामि तावद्भयं न कर्तव्यम् । किन्तु करटकादयोऽप्याश्वास्यन्तां यस्मादापत्प्रतीकारकाले दुर्लभह्पुरुषसमवायः ।
ततस्तौ दमनककरटकौ राज्ञा सर्वस्वेनापि पूजितौ भयप्रतीकारं प्रतिज्ञाय चलितौ । करटको गच्छन् दमनकमाहसखे ! किं शक्त्यप्रतीकारो भयहेतुरशक्यप्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथमयं महाप्रसादो गृहीतः ? यतोऽनुपकुर्वाणो न कस्याप्युपायनं गृह्णीयाद्विशेषतो राज्ञः । पश्य
यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ २.८१ ॥
तथा हि
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥ २.८२ ॥
दमनको विहस्याहमित्र ! तूष्णीमास्यताम् । ज्ञातं मया भयकारणम् । बलीवर्दनर्दितं तत् । वृषभाश्चास्माकमपि भक्ष्याः । किं पुनः सिंहस्य ।
करटको ब्रूतेयद्येवं तदा किं पुनः स्वामित्रासस्तत्रैव किमिति नापनीतः ।
दमनको ब्रूतेयदि स्वामित्रासस्तत्रैव मुच्यते तदा कथमयं महाप्रसादलाभः स्यात् । अपरं च
निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन ।
निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद्दधिकर्णवत् ॥ २.८३ ॥
करटकः पृच्छतिकथमेतत्?
दमनकः कथयति
कथा ३
अस्त्युत्तरपथेऽर्बुदशिखरनाम्नि पर्वते दुर्दान्तो नाम महाविक्रमः सिंहः । तस्य पर्वतकन्दरमधिशयानस्य केसराग्रं कश्चिन्मूषिकः प्रत्यहं छिनत्ति । ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकमलभमानोऽचिन्तयत्
क्षुद्रशत्रुर्भवेद्यस्तु विक्रमान्नैव लभ्यते ।
तमाहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः ॥ २.८४ ॥
इत्यालोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्णनामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्वकन्दरे स्थापितः । अनन्तरं तद्भयान्मूषिकोऽपि विलान्न निःसरति । तेनासौ सिंहोऽक्षतकेशरः सुखं स्वपिति । मूषिकशब्दं यदा यदा शृणोति, तदा तदा मांसाहारदानेन तं बिडालं संवर्धयति ।
आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः ।
पृथक्शय्या च नारीणामशस्त्रविहितो वधः ॥ २.८५ ॥
ततो देशव्यवहारानभिज्ञः संजीवकः सभयमुपसृत्य साष्टाङ्गपातं करटकं प्रणतवान् । तथा चोक्तम्
मतिरेव बलाद्गरीयसी यदभावे करिणामियं दशा ।
इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ २.८६ ॥
अथ संजीवकः साशङ्कमाहसेनापते ! किं मया कर्तव्यम् । तदभिधीयताम् ।
करटको ब्रूतेवृषभ ! अत्र कानने तिष्ठसि । अस्मद्देवपादारविन्दं प्रणय ।
संजीवको ब्रूतेतदभयवाचं मे यच्छ । गच्छामि ।
करटको ब्रूतेशृणु रे बलीवर्द ! अलमनया शङ्कया । यतः
प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।
अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥ २.८७ ॥
अन्यच्च
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणलानि सर्वतः ।
समुच्छ्रितानेव तरून् प्रबाधते
महान्महत्येव करोति विक्रमम् ॥ २.८८ ॥
ततस्तौ संजीवकं कियद्दूरे संस्थाप्य पिङ्गलकसमीपं गतौ । ततो राजा सादरमवलोकितौ प्रणम्योपविष्टौ । राजाहत्वया स दृष्टः ?
दमनको ब्रूतेदेव ! दृष्टः । किन्तु यद्देवेन ज्ञातं तत्तथा । महानेवासौ देवं द्रष्टुमिच्छति । किन्तु महाबलोऽसौ ततः सज्जीभूयोपविश्य दृश्यताम् । शब्दमात्रादेव न भेतव्यम् । तथा चोक्तम्
शब्दमात्रान्न भेतव्यमज्ञात्वा शब्दकारणम् ।
शब्दहेतुं परिज्ञाय कुट्टनी गौरवं गता ॥ २.८९ ॥
राजाहकथमेतत्?
दमनकः कथयति
कथा ४
अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्यं नगरम् । तच्छिखरप्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जनप्रवादः श्रूयते । एकदा घण्टामादाय पलायमानः कश्चिच्चौरो व्याघ्रेण व्यापादितः । तत्पाणिपतिता घण्टा वानरैः प्राप्ता । वानरास्तां घण्टामनुक्षणं वादयन्ति । ततो नगरजनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घण्टारवश्च श्रूयते । अनन्तरं घण्टाकर्णः कुपितो मनुष्यान् खादति घण्टां च वादयतीत्युक्त्वा सर्वे जना नगरात्पलायिताः । ततः करालया नाम कुट्टन्या विमृश्यानवरोऽयं घण्टानादः
। तत्किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितःदेव ! यदि कियद्धनोपक्षयः क्रियते, तदाहमेनं घण्टाकर्णं साधयामि ।
ततो राजा तस्यै धनं दत्तम् । कुट्टन्या मण्डलं कृत्वा तत्र गणेशादिपूजागौरवं दर्शयित्वा स्वयं वानरप्रियफलान्यादाय वनं प्रविश्य फलान्याकीर्णानि । ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च घण्टां गृहीत्वा नगरमागता सर्वजनपूज्याभवत् । अतोऽहं ब्रवीमिशब्दमात्रान्न भेतव्यमित्यादि । ततः संजीवकमानीय दर्शनं कारितवन्तौ । पश्चात्तत्रैव परमप्रीत्या निवसति ।
ओ)०(ओ
अथ कदाचित्तस्य सिंहस्य भ्राता स्तब्धकर्णनामा सिंहः समागतः । तस्यातिथ्यं कृत्वा सिंहमुपवेश्य पिङ्गलकस्तदाहाराय पशुं हन्तुं चलितः । अत्रान्तरे संजीवको वदतिदेव ! अद्य हतमृगाणां मांसानि क्व ?
राजाहदमनककरटकौ जानीतः ।
संजीवको ब्रूतेज्ञायतां किमस्ति नास्ति वा ?
सिंहो विमृश्याहनास्त्येव तत् ।
संजीवको ब्रूतेकथमेतावन्मांसं ताभ्यां खादितम् ?
राजाहखादितं व्ययितमवधीरितं च । प्रत्यहमेष क्रमः ।
संजीवको ब्रूतेकथं श्रीमद्देवपादानामगोचरेणैव क्रियते ?
राजाहमदीयागोचरेणैव क्रियते ।
अथ संजीवको ब्रूतेनैतदुचितम् । तथा चोक्तम्
नानिवेद्य प्रकुर्वीत भर्तुः किंचिदपि स्वयम् ।
कार्यमापत्प्रतीकारादन्यत्र जगतीपते ॥ २.९० ॥
अन्यच्च
कमण्डलूपमोऽमात्यस्तनुत्यागी बहुग्रहः ।
नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥ २.९१ ॥
स ह्यमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत् ।
कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥ २.९२ ॥
किं चार्थैर्न कुलाचारैः सेवतामेति पूरुषः ।
धनहीनः स्वपत्न्यापि त्यज्यते किं पुनः परैः ॥ २.९३ ॥
एतच्च राज्ञः प्रधानं दूषणम्
अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः ।
मोषणं दूरसंस्थानां कोषव्यसनमुच्यते ॥ २.९४ ॥
यतः
क्षिप्रमायतमनालोच्य व्ययमानः स्ववाञ्छया ।
परिक्षीयत एवासौ धनी वैश्रवणोपमः ॥ २.९५ ॥
स्तब्धकर्णो ब्रूतेशृणु भ्रातः चिराश्रितादेतौ दमनककरटकौ सन्धिविग्रहकार्याधिकारिणौ च कदाचिदर्थाधिकारे न नियोक्तव्यौ । अपरं च नियोगप्रस्तावे यन्मया श्रुतं तत्कथ्यते ।
ब्राह्मणः क्षत्रियो बन्धुर्नाधिकारे प्रशस्यते ।
ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति ॥ २.९६ ॥
नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् ।
सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञातिभावतः ॥ २.९७ ॥
अपराधेऽपि निःशङ्को नियोगी चिरसेवकः ।
स स्वामिनमवज्ञाय चरेच्च निरवग्रहः ॥ २.९८ ॥
उपकर्ताधिकारस्थः स्वापराधं न मन्यते ।
उपकारं ध्वजीकृत्य सर्वमेव विलुम्पति ॥ २.९९ ॥
उपंशुक्रीडितोऽमात्यः स्वयं राजायते यतः ।
अवज्ञा क्रियते तेन सदा परिचयाद्ध्रुवम् ॥ २.१०० ॥
अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ २.१०१ ॥
सदामत्यो न साध्यः स्यात्समृद्धः सर्व एव हि ।
सिद्धानामयमादेशः ऋद्धिश्चित्तविकारिणी ॥ २.१०२ ॥
प्राप्तार्थग्रहणं द्रव्यपरीवर्तोऽनुरोधनम् ।
उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ २.१०३ ॥
नियोग्यर्थग्रहोपायो राज्ञा नित्यपरीक्षणम् ।
प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः ॥ २.१०४ ॥
निपीडिता वमन्त्युच्चैरन्तःसारं महीपतेः ।
दुष्टव्रणा इव प्रायो भवन्ति हि नियोगिनः ॥ २.१०५ ॥
मुहुर्नियोगिनी बाध्या वसुधारा महीपते ।
सकृत्किं पीडितं स्नानवस्त्रं मुञ्चेद्धृतं पयः ॥ २.१०६ ॥
एतत्सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् ।
सिंहो ब्रूतेअस्ति तावदेवम् । किन्त्वेतौ सर्वथा न मम वचनकारिणौ ।
स्तब्धकर्णो ब्रूतेएतत्सर्वमनुचितं सर्वथा । यतः
आज्ञाभङ्गकरान् राजा न क्षमेत सुतानपि ।
विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च ॥ २.१०७ ॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टेन्द्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ २.१०८ ॥
अपरं च
तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृपवल्लभात् ।
नृपतिर्निजलोभाच्च प्रजा रक्षेत्पितेव हि ॥ २.१०९ ॥
भ्रातः ! सर्वथास्मद्वचनं क्रियताम् । व्यवहारोऽप्यस्माभिः कृत एव । अयं संजीवकः सस्यभक्षकोऽर्थाधिकारे नियुज्यताम् ।
एतद्वचनात्तथानुष्ठिते सति तदारभ्य पिङ्गलकसंजीवकयोः सर्वबन्धुपरित्यागेन महता स्नेहेन कालोऽतिवर्तते । ततोऽनुजीविनामप्याहारदाने शैथिल्यदर्शनाद्दमनककरटकावन्योन्यं चिन्तयतः । तदाह दमनकः करटकम्मित्र ! किं कर्तव्यम् ? आत्मकृतोऽयं दोषः । स्वयं कृतेऽपि दोषे परिदेवनमप्यनुचितम् । तथा चोक्तम्
स्वर्णरेखामहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका ।
आदित्सुश्च मणिं साधुः स्वदोषाद्दुःखिता इमे ॥ २.११० ॥
करटको ब्रूतेकथमेतत्?
दमनकः कथयति
कथा ५
अस्ति काञ्चनपुरनाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा कश्चिन्नापितो वध्यभूमिं नीयमानः कन्दर्पकेतुनाम्ना परिव्राजकेन साधुद्वितीयकेन नायं हन्तव्यः इत्युक्त्वा वस्त्राञ्चलेन धृतः । राजपुरुषा ऊचुःकिमिति नायं वध्यः ।
स आहश्रूयताम् । स्वर्णरेखामहं स्पृष्ट्वा इत्यादि पठति ।
त आहुःकथमेतत्?
परिव्राजकः कथयतिअहं सिंहलद्वीपस्य भूपतेर्जीमूतकेतः पुत्रः दन्दर्पकेतुर्नाम । मध्ये चतुर्दश्यामाविर्भूतकल्पतरुतले रत्नावलीकिरणकबूतरपर्यङ्कस्थिता सर्वालङ्कारभूषिता लक्ष्मीरिव वीनां वादयन्ती कन्या काचिद्दृश्यते इति । ततोऽहं पोतव्णिजमादाय पोतमारुह्य तत्र गतः । अनन्तरं तत्र गत्वा पर्यङ्केऽधमग्रा तथैव सावलोकिता । ततस्तल्लावण्यगुणाकृष्टेन मयापि तत्पश्चाज्झम्पो दत्तः । तदनन्तरं कनकपत्तनं प्राप्य सुवर्णप्रासादे तथैव पर्यङ्के स्थिता विद्याधरीभिरुपास्यमाना मयालोकिता । तथाप्यहं दूरादेव दृष्ट्वा सखीं प्रस्थाप्य सादरं सम्भाषितः
। तत्सख्या च मया पृष्टया समाख्यातमेषा कन्दर्पकेलिनाम्नो विद्याधरचक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकवर्तनं स्वचक्षुषागत्य पश्यति, स एव पितुरगोचरोऽपि मां परिणेष्यतीति मनसः सङ्कल्पः । तदेनां गान्धर्वविवाहेन परिणयतु भवान् ।
अथ तत्र वृत्ते गन्धर्वविवाहे तथा सह रममाणस्तत्राहं तिष्ठामि । तत एकदा रहसि तयोक्तम्स्वामिन् ! स्वेच्छया सर्वमिदमुपभोक्तव्यम् । एषा चित्रगता स्वर्णरेखा नाम विद्याधरी न कदाचित्स्प्रष्टव्या । पश्चादुपजातकौतुकेन मया स्वर्णरेखा स्वहस्तेन स्पृष्टा । तथा चित्रतयाप्यहं चरणपद्मेन ताडित आगत्य स्वराष्ट्रे पतितः ।
अथ दुःखितोऽहं परिव्रजितः पृथिवीं परिभ्राम्यन्निमां न्गरीमनुप्राप्तः । अत्र चातिकान्ते दिवसे गोपगृहे सुप्तः सन्नपश्यम् । प्रदोषसमये पशूनां पालनं कृत्वा स्वगेहमागतो गोपः स्ववधूं दूत्या सह किमपि मन्त्रयन्तीमपश्यत् । ततस्तां गोपीं ताडयित्वा स्तम्भे बद्ध्वा सुप्तः । ततोऽर्धरात्रे एतस्य नापितस्य वधूर्दूती पुनस्तां गोपीमुपेत्यावदत्तव विरहानलदग्धोऽसौ स्मरशरजर्जरितो मुमूर्षुरिव वर्तते । तथा चोक्तम्
रजनीचरनाथेन खण्डिते तिमिरे निशि ।
यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ॥ २.१११ ॥
तस्य तादृशीमवस्थामवलोक्य परिक्लिष्टमनास्त्वामनुवर्तितुमागता । तदहमत्रात्मानं बद्ध्वा तिष्ठामि । त्वं तत्र गत्वा तं सन्तोष्य सत्वरमागमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुद्धोऽवदतिदानीं त्वां पापिष्ठां जारान्तिकं नयामि । ततो यदासौ न किंचिदपि ब्रूते तदा क्रुद्धो गोपःदर्पान्मम वचसि प्रत्युत्तरमपि न ददासि इत्युक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो निद्रामुपगतः । अथागत्य गोपी दूतीमपृच्छत्का वार्ता ?
दूत्योक्तम्पश्य माम् । मुखमेव वार्तां कथयति ।
अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता । इयं च दूती तां छिन्ननासिकां गृहीत्वा स्वगृहं प्रविश्य स्थिता । ततः प्रातरेवानेन नापितेन स्ववधूः क्षुरभाण्डं याचिता सती क्षुरमेकं प्रादात् । ततोऽसमग्रभाण्डे प्राप्ते समुपजातकोपोऽयं नापितस्तं क्षुरं दूरादेव गृहे क्षिप्तवान् । अथ कृतार्तरायेयं मे नासिकानेन छिन्नेत्युक्त्वा धर्माधिकारिसमीपमेतमानीतवती । सा च गोपी तेन गोपेन पुनः पृष्टोवाचअरे पाप ! को मां महासती विरूपयितुं समर्थः । मम व्यवहारमकल्मषमष्टौ लोकपाला एव जानन्ति,
यतः
आदित्यचन्द्रावनिलानलश्च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम् ॥ २.११२ ॥
अतथ्यान्यपि तथ्यानि दर्शयन्ति हि पेशलाः ।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ २.११३ ॥
उत्पन्नेषु च कार्येषु मतिर्यस्य न हीयते ।
स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ॥ २.११४ ॥
करटकः पृच्छतिकथमेतत्?
कथा ६
दमनकः कथयतिअस्ति द्वारवत्यां पुर्यां कस्यचिद्गोपस्य वधूर्बन्धकी । सा ग्रामस्य दण्डनायकेन तत्पुत्रेण च समं रमते । तथा चोक्तम्
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ २.११५ ॥
न दानेन न मानेन नार्जवेन न सेवया ।
न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ॥ २.११६ ॥
यतः
गुणाश्रयं कीर्तियुतं च कान्तं
पतिं रतिज्ञं सधनं युवानम् ।
विहाय शीघ्रं वनिता व्रजन्ति
नरान्तरं शीलगुणादिहीनम् ॥ २.११७ ॥
अपरं च
न तादृशीं प्रीतिमुपैति नारी
विचित्रशय्या शयितापि कामम् ।
यथा हि दूर्वादिविकीर्णभूमौ
प्रयाति सौख्यं परकान्तिसङ्गात् ॥ २.११८ ॥
अथ कदाचित्सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति । अथ दण्डनायकोऽपि रन्तुं तत्रागतः । तमायान्तं दृष्ट्वा तत्पुत्रं कुसूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति । अनन्तरं तस्य भर्ता गोपो गोष्ठात्समागतः । तमवलोक्य गोप्योक्तम्दण्डनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ । तथा तेनानुष्ठिते गोपेन गृहमागत्य पृष्ठाकेन कार्येण दण्डनायकः समागत्यात्र स्थितः ?
सा ब्रूतेअन्यं केनापि कार्येण पुत्रस्योपरि क्रुद्धः । स च मार्यमाणोऽप्यत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्पित्रा चान्विष्यात्र न दृष्टः । अत एवायं दण्डनायकः क्रुद्ध एव गच्छति ।
ततः सा तत्पुत्रं कुषुलाद्बहिष्कृत्य दर्शितवती । तथा चोक्तम्
आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥ २.११९ ॥
अतोऽहं ब्रवीमिउतपन्नेष्वपि कार्येषु इत्यादि ।
करटको ब्रूतेअस्त्वेवम् । किन्त्वनयोर्महानन्योग्न्यनिसर्गोपजातस्नेह कथं भेदयितुं शक्यः ?
दमनको ब्रूतेउपायः क्रियताम् । तथा चोक्तम्
उपायेन जयो यादृग्रिपोस्तादृङ्न हेतिभिः ।
उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥ २.१२० ॥
करटकः पृच्छतिकथमेतत्?
दमनकः कथयति
कथा ७
कस्मिंश्चित्तरौ वायसदम्पती निवसतः । तयोश्चापृत्यानि तत्कोटरावस्थितेन कृष्णसर्पेण खादितानि । ततः पुनर्गर्भवती वायसी वायस्माहनाथ ! त्यज्यतामयं वृक्षः । अत्रावस्थितकृष्णसर्पेणावयोः सन्ततिः सततं भक्ष्यते । यतः
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥ २.१२१ ॥
वायसो ब्रूतेप्रिये ! न भेतव्यम् । वारं वारं मवैतस्य सोढः । इदानीं पुनर्न क्षन्तव्यः ।
वायस्याहकथमेतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः ।
वायसो ब्रूतेअलमनया शङ्कया । यतः
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ २.१२२ ॥
वायसी विहस्याहकथमेतत्?
वायसः कथयति
कथा ८
अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वन्नास्ते । ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तःमृगेन्द्र ! किमर्थमेकदा बहुपशुघातः क्रियते । यदि प्रसादो भवति तदा वयमेव भवदाहाराय प्रत्यहमेकैकं पशुमुपढौकयामः ।
ततः सिंहेनोक्तम्यद्येतदभिमतं भवतां तर्हि भवतु तत् ।
ततःप्रभृत्येकैकं पशुमुपकल्पितं भक्षयन्नास्ते । अथ कदाचिद्वृद्धशशकस्य वारः समायातः । सोऽचिन्तयत्
त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया ।
पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥ २.१२३ ॥
तन्मन्दं मन्दं गच्छामि । ततः सिंहोऽपि क्षुधापीडितः कोपात्तमुवाचकुतस्त्वं विलम्ब्य समागतोऽसि ।
शशकोऽब्रवीत्देव ! नाहमपराधी । आगच्छन् पथि सिंहान्तरेण बलाद्धृतः । तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुमत्रागतोऽसिम् ।
सिंहः सकोपमाहसत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति ।
ततः शशकस्तं गृहीत्वा गभीरकूपं दर्शयितुं गतः । तत्रागत्य स्वयमेव पश्यतु स्वामीत्युक्त्वा तस्मिन् कूपजले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् । ततोऽसौ क्रोधाध्मातो दर्पात्तस्योपर्यात्मानं निक्षिप्य पञ्चत्वं गतः । अतोऽहं ब्रवीमि बुद्धिर्यस्य इत्यादि ।
वायस्याहश्रुतं मया सर्वम् । सम्प्रति यथा कर्तव्यं ब्रूहि ।
वायसोऽवदतत्रासन्ने सरसि राजपुत्रः प्रत्यहमागत्य स्नाति । स्नानसमये मदङ्गादवतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि ।
अथ कदाचित्स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम् । अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैस्तत्र तरुकोटरे कृष्णसर्पो दृष्टो व्यापादितश्च । अतोऽहं ब्रवीमिउपायेन हि यच्छक्यमितेन हि यच्छक्यमित्यादि ।
करटको ब्रूतेयद्येवं तर्हि गच्छ । शिवास्ते सन्तु पन्थानः ।
ततो दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योवाचदेव ! आत्यन्तिकं किमपि महाभयकारि कार्यं मन्यमानः समागतोऽस्मि । यतः
आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः ॥ २.१२४ ॥
अन्यच्च
भोगस्य भाजनं राजा न राजा कार्यभाजनम् ।
राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते ॥ २.१२५ ॥
तथा हि पश्य । अमात्यानामेष क्रमः ।
वरं प्राणपरित्यागः शिरसा वापि कर्तनम् ।
न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम् ॥ २.१२६ ॥
पिङ्गलकः सादरमाहअथ भवान् किं वक्तुमिच्छति ।
दमनको ब्रूतेदेव ! संजीवकस्तवोपयसदृशव्यवहारीव लक्ष्यते । तथा चास्मत्सन्निधाने श्रीमद्देवपादानां शक्तित्रयनिन्दां कृत्वा राज्यमेवाभिलषति ।
एतच्छ्रुत्वा, पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः । दमनकः पुनराहदेव ! सर्वामात्यपरित्यागं कृत्वैक एवायं यत्त्वां सर्वाधिकारी कृतः । स एव दोषः । यतः
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः ।
सा स्त्रीस्वभावादसहा भरस्य
तयोर्द्वयोरेकतरं जहाति ॥ २.१२७ ॥
अपरं च
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात्श्रयते मदः स च मदालस्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥ २.१२८ ॥
अन्यच्च
विषदग्धस्य भक्तस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ २.१२९ ॥
किं च
यः कुर्यात्सचिवायत्तां श्रियं तद्व्यसने सति ।
सोऽन्धवज्जगतीपालः सीदेत्सञ्चारकैर्विना ॥ २.१३० ॥
सर्वकार्येषु स्वेच्छातः प्रवर्तते । तदत्र प्रमाणं स्वामी । एतं च जानाति ।
न सोऽस्ति पुरुषो लोके यो न कामयते श्रियम् ।
परस्य युवतिं रम्यां सादरं नेक्षतेऽत्र कः ॥ २.१३१ ॥
सिंहो विमृश्याहभद्र ! यद्यप्येवं तथापि संजीवकेन सह मम महान् स्नेहः । पश्य
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ।
अशेषदोषदुष्टोऽपि कायः कस्य न वल्लभः ॥ २.१३२ ॥
अन्यच्च
अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः ।
दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥ २.१३३ ॥
दमनकः पुनरे एवाहदेव ! स एवातिदोषः, यतः
यस्मिन्नेवाधिकं चक्षुरारोहयति पार्थिवः ।
सुतेऽमात्येऽप्युदासीने स लक्ष्म्याश्रीयते जनः ॥ २.१३४ ॥
शृणु देव !
अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः ॥ २.१३५ ॥
त्वया च मूलभृत्यानपास्यायमागन्तुकः पुरस्कृतः । एतच्चानुचितं कृतम् । यतः
मूलभृत्यान् परित्यज्य नागन्तून् प्रतिमानयेत् ।
नातः परतरो दोषो राज्यभेदकरो यतः ॥ २.१३६ ॥
सिंहो ब्रूतेकिमाश्चर्यम् । मया यदभयवाचं दत्त्वानीतः संवर्धितश्च तत्कथं मह्यं द्रुह्यति ।
दमनको ब्रूतेदेव !
दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः ।
स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ २.१३७ ॥
अपरं च
स्वेदितो मर्दितश्चैव रञ्जुभिः परिवेष्टितः ।
मुक्तो द्वादशभिर्वर्षैः श्वपुच्छः प्रकृतिं गतः ॥ २.१३८ ॥
अन्यच्च
वर्धनं वा सम्मानं खलानां प्रीतये कुतः ।
फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ २.१३९ ॥
अतोऽहं ब्रवीमि
अपृष्टस्तस्य न ब्रूयाद्यश्च नेच्छेत्पराभवम् ।
एष एव सतां धर्मो विपरीतोऽसतां मतः ॥ २.१४० ॥
तथा चोक्तम्
स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं
सा स्त्री यातुविधायिनी स मतिमान् यः सद्भिरभ्यर्च्यते ।
सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते
तन्मित्रं यत्कृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ २.१४१ ॥
यदि सञ्जीवकव्यसनादितोऽविज्ञापितोऽपि स्वामी न निवर्तते, तदीदृशे भृत्ये न दोषः । तथा च
नृपः कामासक्तो गणयति न कार्ये न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव ।
ततो मानध्मातः स पतति यदा शोकगहने
तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्यविनयम् ॥ २.१४२ ॥
पिङ्गलकः स्वगतम्
न परस्यापराधेन परेषां दण्डमाचरेत् ।
आत्मनावगतं कृत्वा बध्नीयात्पूजयेच्च वा ॥ २.१४३ ॥
तथा चोक्तम्
गुणदोषावनिश्चित्य विधिनं ग्रहनिग्रहे ।
स्वनाशाय यथा न्यस्तो दर्पात्सर्पमुखे करः ॥ २.१४४ ॥
प्रकाशं ब्रूतेतदा संजीवकः किं प्रत्यादिश्यताम् ।
दमनकः ससम्भ्रममाहदेव ! मा मैवम् । एतावता मन्त्रभेदो जायते । तथा ह्युक्तम्
मन्त्रबीजमिदं गुप्तं रक्षणीयं यथा तथा ।
मनागपि न भिद्येत तद्भिन्नं न प्ररोहति ॥ २.१४५ ॥
किं च
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ २.१४६ ॥
तदवश्यं समारब्धं महता प्रयत्नेन सम्पादनीयम् । किं च
मन्त्रो योधः इवाधीरः सर्वाङ्गैः संवृतैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ २.१४७ ॥
यद्यसौ दृष्टदोषोऽपि दोषान्निवत्यं सन्धातव्यस्तदतीवानुचितम् । यतः
सकृद्दुष्टं तु यो मित्रं पुनः सन्धातुमिच्छति ।
स मृत्युरेव गृह्णाति गर्भमश्वतरी यथा ॥ २.१४८ ॥
अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः ।
पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ २.१४९ ॥
सिंहः पृच्छतिकथमेतत्?
दमनकः कथयति
कथा ९
दक्षिणसमुद्रतीरे टिट्टिभदम्पती निवसतः । तत्र चासन्नप्रसदा टिट्टिभी भर्तारमाहनाथ ! प्रसवयोग्यस्थानं निभृतमनुसन्धीयताम् ।
टिट्टिभोऽवदत्भार्ये, नन्विदमेव स्थानं प्रसूतियोग्यम् ।
सा ब्रूतेसमुद्रवेलया व्याप्यते स्थानमेतम् ।
टिट्टिभोऽवदत्किमहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः ।
टिट्टिभी विहस्याहस्वामिन् ! त्वया समुद्रेण च महदन्तरम् । अथवा
पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः ।
अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ॥ २.१५० ॥
अपि च
अनुचितकार्यारम्भः स्वजनविरोधो बलीयसा स्पर्धा ।
प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥ २.१५१ ॥
ततः कृच्छ्रेण स्वामिवचनात्मा तत्रैव प्रसूता । एतत्सर्वं श्रुत्वा समुद्रेणापि यच्छक्तिज्ञानार्थं तदण्डान्यवहृतानि । ततष्टिट्टिभी शोकार्ता भर्तारमाहनाथ ! कष्टमापतितम् । तान्यण्डानि मे नष्टानि ।
टिट्टिभोऽवदत्प्रिये ! मा भैषीः इत्युक्त्वा पक्षिणां मेलकं कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा सकलवृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्देव, समुद्रेणाहं स्वगृहावस्थितो विनापराधनेनैव निगृहीतः ।
ततस्तद्वचनमाकर्ण्य गरुत्मना प्रभुर्भगवान्नारायणः सृष्टिस्थितिप्रलयहेतुर्विज्ञप्तः । स समुद्रमण्डदानायादिदेश । ततो भगवदाज्ञां मौलौ निधाय समुद्रेण तान्यण्डानि टिट्टिभाय समर्पितानि । अतोऽहं ब्रवीमिअङ्गाङ्गिभावमज्ञात्वा इत्यादि ।
राजाहकथमसौ ज्ञातव्यो द्रोहबुद्धिरिति ।
दमनको ब्रूतेयदासौ सदर्पः शृङ्गाग्रप्रहरणाभिमुखश्चकितमिवागच्छति तदा ज्ञास्यति स्वामी । एवमुक्त्वा संजीवकसमीपं गतः । तत्र गतश्च मन्दं मन्दमुपसर्पन् विस्मितमिवात्मानमदर्शयत् । संजीवकेन सादरमुक्तम्भद्र ! कुशलं ते ।
दमनको ब्रूतेअनुजीविनां कुतः कुशलम् । यतः
सम्पत्तयः पराधीनाः सदा चित्तमनिर्वृत्तम् ।
स्वजीइवितेऽप्यविश्वासस्तेषां ये राजसेवकाः ॥ २.१५२ ॥
अन्यच्च
कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रिया ।
कः कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं
को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ २.१५३ ॥
संजीवकेनोक्तम्सखे ! ब्रूहि किमेतत्?
दमनक आहकिं ब्रवीमि मन्दभाग्यः । पश्य
मज्जन्नपि पयोराशौ लब्ध्वा सर्पावलम्बनम् ।
न मुञ्चति न चादत्ते तथा मुग्धोऽस्मि सम्प्रति ॥ २.१५४ ॥
यतः
एकत्र राजविश्वासो नश्यत्यन्यत्र बान्धवः ।
किं करोमि क्व गच्छामि पतितो दुःखसागरे ॥ २.१५५ ॥
इत्युक्त्वा दीर्घः निःश्वस्योपविष्टः । संजीवको ब्रूतेमित्र ! तथापि सविस्तरं मनोगतमुच्यताम् ।
दमनकः सुनिभृतमाहयद्यपि राजविश्वासो न कथनीयस्तथापि भवानस्मदीयप्रत्ययादागतः । मया परलोकार्थिनावश्यं तव हितमाख्येयम् । शृणु, अयं स्वामी तवोपरि विकृतबुद्धी रहस्युक्तवान् संजीवकमेव हत्वा स्वपरिवारं तर्पयामि ।
एतच्छ्रुत्वा संजीवकः परं विषादमगमत् । दमनकः पुनराहअलं विषादेन । प्राप्तकालकायमनुष्ठीयताम् । संजीवकः क्षणं विमृश्याह स्वगतम्सुष्ठु खल्विदमुच्यते । किं वा दुर्जनचेष्टितं न वेत्येतद्व्यवहारान्निर्णेतुं न शक्यते । यतः
दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा ।
कृपणानुसारि च धनं देवो गिरिजलधिवर्षी च ॥ २.१५६ ॥
कश्चिदाश्रयसौन्दर्याद्धत्ते शोभामसज्जनः ।
प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ २.१५७ ॥
आराध्यमानो नृपतिः प्रयत्नान्न तोषमायाति किमत्र चित्रम् ।
अयं त्वपूर्वप्रतिमाविशेषो यः सेव्यमानो रिपुतामुपैति ॥ २.१५८ ॥
तदयमशक्यर्थः प्रमेयः, यतः
निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनस्तु यस्य वै
कथं जनस्तं परितोषयिष्यति ॥ २.१५९ ॥
किं मयापकृतं राज्ञः । अथवा निर्निमित्तापकारिणश्च भवन्ति राजानः ।
दमनको ब्रूतेएवमेतत् । शृणु
विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कैश्चित्
साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति ।
चित्रं चित्रं किमथ चरितं नैकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ २.१६० ॥
अन्यच्च
कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ २.१६१ ॥
किं च
चन्दनतरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः ।
गुणघातिनश्च भोगे खला न च सुखान्यविघ्नानि ॥ २.१६२ ॥
मूलं भुजङ्गैः कुसुमानि भृङ्गैः
शाखाः प्लवङ्गैः शिखराणि भल्लैः ।
नास्त्येव तच्चन्दनपादपस्य
यन्नाश्रितं दुष्टतरैश्च हिंस्रैः ॥ २.१६३ ॥
अयं तावत्स्वामी वाचि मधुरो विषहृदयो ज्ञातः । यतः
दूरादुच्छ्रितपाणिराद्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः ।
अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः
को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥ २.१६४ ॥
तथा हि
पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे
निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्त्यै सृणिः ।
इत्थं तद्भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता
मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥ २.१६५ ॥
संजीवकः पुनर्निःश्वस्यकष्टं भोः ! कथमहं सस्यभक्षकः सिंहेन निपातयितव्यः ? यतः
ययोरेव समं वित्तं ययोरेव समं बलम् ।
तयोर्विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ॥ २.१६६ ॥
अयुद्धे हि यदा पश्येन्न काञ्चिधितमात्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ २.१७० ॥
अपरं च
भूम्येकदेशस्य गुणान्वितस्य
भृत्यस्य वा बुद्धिमतः प्रणाशः ।
भृत्यप्रणाशो मरणं नृपाणां
नष्टापि भूमिः सुलभा न भृत्याः ॥ २.१७७ ॥
दमनको ब्रूतेस्वामिन् ! कोऽयं नूतनो न्यायो यदरातिं हत्वा सन्तापः क्रियते ? तथा चोक्तम्
पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत् ।
प्राणच्छेदकरा राज्ञा हन्तव्या भूतिमिच्छता ॥ २.१७८ ॥
अपि च
धर्मार्थकामतत्त्वज्ञो नैकान्तकरुणो भवेत् ।
नहि हस्तस्थमप्यन्नं क्षमावान् भक्षितुं क्षमः ॥ २.१७९ ॥
किं च
क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् ।
अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ २.१८० ॥
अपरं च
राज्यलोभादहङ्कारादिच्छतः स्वामिनः पदम् ।
प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ॥ २.१८१ ॥
अन्यच्च
राजा घृणी ब्राह्मणः सर्वभक्षी
स्त्री चावज्ञा दुष्प्रकृतिः सहायः ।
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
त्याज्या इमे यश्च कृतं न वेत्ति ॥ २.१८२ ॥
विशेषतश्च
सत्यानृता च परुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुररत्नधनागमा च
वाराङ्गनेव नृपनीतिरनेकरूपा ॥ २.१८३ ॥
इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिमापन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्टमनाः विजयतां महाराजः शुभमस्तु सर्वजगतामित्युक्त्वा यथासुखमवस्थितः ।
विष्णुशर्मोवाचसुहृद्भेदः श्रुतस्तावद्भवद्भिः ।
राजपुत्रा ऊचुःभवत्प्रसादाच्छ्रुतः । सुखिनो भूता वयम् ।
विष्णुशर्माब्रवीतपरमपीदमस्तु
सुहृद्भेदस्तावद्भवतु भवतां शत्रुनिलये
खलः कालाकृष्टः प्रलयमुपसर्पत्वहरहः ।
जनो नित्यं भूयात्सकलसुखसम्पत्तिवसतिः
कथारम्भे रम्भ्ये सततमिह बालोऽपि रमताम् ॥ २.१८४ ॥
इति हितोपदेशे सुहृद्भेदो नाम द्वितीयः
कथासङ्ग्रहः समाप्तः
ओ)०(ओ
इइइ.
विग्रहः
अथ पुनः कथारम्भकाले राजपुत्रा ऊचुःार्य ! राजपुत्रा वयम् । तद्विग्रहं श्रोतुं नः कुतूहलमस्ति । विष्णुशर्मणोक्तम्यदेवं भवद्भ्यो रोचते तत्कथयामि । विग्रहः श्रूयतां, यस्यायमाद्यः श्लोकः
हंसैः सह मयूराणां विग्रहे तुल्यविक्रमे ।
विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारिमन्दिरे ॥ ३.१ ॥
राजपुत्रा ऊचुःकथमेतत्? विष्णुशर्मा कथयति
अस्ति कर्पूरद्वीपे पद्मकेलिनामधेयं सरः । तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति । स च सर्वैर्जलचरैः पक्षिभिर्मिलित्वा पक्षिराज्येऽभिषिक्तः । यतः
यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा ।
अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ ३.२ ॥
अपरं च
प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् ।
वर्धनाद्रक्षणं श्रेयस्तदभावे सदप्यसत् ॥ ३.३ ॥
एकदासौ राजहंसैः सुविस्तीर्णकमलपर्यङ्के सुखासीनः परिवारपरिवृतस्तिष्ठति । ततः कुतश्चिद्देशादागत्य दीर्घमुखो नाम बकः प्रणम्योपविष्टः । राजोवाचदीर्घमुख ! दशान्तरादागतोऽसि । वार्तां कथय ।
स ब्रूतेदेव ! अस्ति महती वार्ता । तामाख्यातुकाम एव सत्वरमागतोऽहम् । श्रूयताम्
अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश्चरद्भिः पक्षिभिरहं दग्धारच्यमध्ये चरन्नवलोकितः । पृष्टश्चकस्त्वम् ? कुतः समागतोऽसि ?
तदा मयोक्तम्कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरोऽहं, कौतुकाद्देशान्तरं द्रष्टुमागतोऽस्मि । एतच्छ्रुत्वा पक्षिभिरुक्तमनयोर्देशयोः को देशो भद्रतरो राजा च ?
ततो मयोक्तमाः किमेवमुच्यते महदन्तरम् । यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश्च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ । अस्मद्देशे गम्यताम् ।
ततोऽस्मद्वचनमाकर्ण्य सर्वपक्षिणः सकोपा बभूवुः । तथा चोक्तम्
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ।
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ ३.४ ॥
अन्यच्च
विद्वानेवोपदेष्टव्यो नाविद्वांस्तु कदाचन ।
वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः ॥ ३.५ ॥
राजोवाचकथमेतत्?
दीर्घमुखः कथयति
कथा १
अस्ति नर्मदातीरे पर्वतोपत्यकायां विशालः शाल्मलीतरुः । तत्र निर्मितनीडकोडे पक्षिणः सुखेन निवसन्ति । अथैकदा वर्षासु नीलपटैरिव जलधरपटलैरावृते नभस्तले । धारासारैर्महती वृष्टिर्बभूव । ततो वानरांश्च तरुतलेऽवस्थितान् शीताकुलान् कम्पमानानवलोक्य, कृपया पक्षिभिरुक्तम्भो भो वानराः ! शृणुत
अस्माभिर्निर्मिता नीडाश्चञ्चुमात्राहृतैस्तृणैः ।
हस्तपादादिसंयुक्ता यूयं किमवसीदथ ॥ ३.६ ॥
तच्छ्रुत्वा वानरैर्जातामर्षैरालोचितमहो ! निर्वातनीडगर्भावस्थिताः सुखिनः पक्षिणोऽस्मान्निन्दन्ति । तद्भवतु तावद्वृष्टेरुपशमः ।
अनन्तरं शान्ते पानीयवर्षे तैर्वानरैर्वृक्षमारुह्य, सर्वे नीडा भग्नाः, तेषामण्डानि चाधः पातितानि । अतोऽहं ब्रवीमि विद्वानेवोपदेष्टव्यः इत्यादि ।
राजोवाचततस्तैः पक्षिभिः किं कृतम् ?
बकः कथयतिततस्तैः पक्षिभिः कोपादुक्तम्केनासौ राजहंसो राजा कृतः ?
ततो मयोपजातकोपेनोक्तमयं युष्मदीयो मयूरः केन राजा कृतः ?
एतच्छ्रुत्वा ते पक्षिणो मां हन्तुमुद्यताः । ततो मयापि स्वविक्रमो दर्शितः । यतः
अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ ३.७ ॥
राजा विहस्याह
आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् ।
अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥ ३.८ ॥
सुचिरं हि चरन्नित्यं क्षेत्रे सत्यमबुद्धिमान् ।
द्वीपिचर्मपरिच्छन्नो वाग्दोषाद्गर्दभो हतः ॥ ३.९ ॥
बकः पृच्छतिकथमेतत्?
राजा कथयति
कथा २
अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभोऽतिभारवहनाद्दुर्बलो मुमूर्षुरिवाभवत् । ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यकसमीपे सस्यक्षेत्रे विमुक्तः । ततो दूरात्तमवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः सत्वरं पलायन्ते ।
अथैकदा केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन धनुष्काण्डं सज्जीकृत्यानतकायेनैकान्ते स्थितम् । तं च दूराद्दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्टसस्यभक्षणजातबलो गर्दभोऽयमिति मत्वोच्चैः शब्दं कुर्वाणस्तदभिमुखं धावितः । ततस्तेन सस्यरक्षकेण चीत्कारशब्दाद्गर्दभोऽयमिति निश्चित्य, लीलयैव व्यापादितः । अतोऽहं ब्रवीमिसुचिरं हि चरन्नित्यमित्यादि ।
दीर्घमुखो ब्रूतेततः पश्चात्तैः पक्षिभिरुक्तमरे पापा दुष्टबक ! अस्माकं भूमौ चरन्नस्माकं स्वामिनमधिक्षिपसि । तन्न क्षन्तव्यमिदानीम् । इत्युक्त्वा सर्वे मां चञ्चुभिर्हत्वा, सकोपा ऊचुःपश्य रे मूर्ख ! स हंसस्तव राजा सर्वथा मृदुः । तस्य राज्याधिकारो नास्ति । यत एकान्तमृदुः करतलस्थमप्यर्थं रक्षितुमक्षमः । स कथं पृथिवीं शास्ति ? राज्यं वा तस्य किम् ? त्वं च कूपमण्डूकः । तेन तदाश्रयमुपदिशसि । शृणु
सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
यदि दैवात्फलं नास्ति च्छाया केन निवार्यते ॥ ३.१० ॥
अन्यच्च
हीनसेवा न कर्तव्या कर्तव्यो महदाश्रयः ।
पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते ॥ ३.११ ॥
अन्यच्च
महानप्यल्पतां याति निर्गुणे गुणविस्तरः ।
आधाराधेयभावेन गजेन्द्र इव दर्पणे ॥ ३.१२ ॥
किन्तु
अजा सिंहप्रसादेन वने चरति निर्भयम् ।
राममासाद्य लङ्कायां लेभे राज्यं विभीषणः ॥ ३.१३ ॥
विशेषतश्च
व्यपदेशेऽपि सिद्धिः स्यादतिशक्ते नराधिपे ।
शशिनो व्यपदेशेन शशकाः सुखमासते ॥ ३.१४ ॥
मयोक्तम्कथमेतत्?
पक्षिणः कथयन्ति
कथा ३
कदाचिद्वर्षास्वपि वृष्टेरभावात्तृषार्तो गजयूथो यूथपतिमाहनाथ ! कोऽभ्युपायोऽस्माकं जीवनाय ? नास्ति क्षुद्रजन्तूनामपि निमज्जनस्थानम् । वयं च निमज्जनस्थानाभावान्मृताः । अन्धा इव किं कुर्मः ? क्व यामः ?
ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्तीरावस्थिताः क्षुद्रशशका गजपादाहतिभिश्चूर्णिताः । अनन्तरं शिलीमुखो नाम शशकश्चिन्तयामासअनेन गजयूथेन पिपासाकुलितेन प्रत्यहमत्रागन्तव्यम् । ततो विनष्टमस्मत्कुलम् ।
ततो विजयो नाम वृद्धशशकोऽवदत्मा विषीदत । मयात्र प्रतीकारः कर्तव्यः । ततोऽसौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितम्कथं मया गजयूथनाथसमीपे स्थित्वा वक्तव्यम् । यतः
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ।
पालयन्नपि भूपालः प्रहसन्नपि दुर्जनः ॥ ३.१५ ॥
अतोऽहं पर्वतशिखरमारुह्य यूथनाथं संवादयामि । तथानुष्ठिते सति यूथनाथ उवाचकस्त्वम् ? कुतः समायातः ?
स ब्रूतेशशकोऽहम् । भगवता चन्द्रेण भवदन्तिकं प्रेषितः ।
यूथपतिराहकार्यमुच्यताम् ।
विजयो ब्रूते
उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
सदैवावध्यभावेन यथार्थस्य हि वाचकः ॥ ३.१६ ॥
तदहं तदाज्ञया ब्रवीमि, शृणु । यदेते चन्द्रसरोरक्षकाः शशकास्त्वया निःसारितास्तदनुचितं कृतम् । ते शशकाश्चिरमस्माकं रक्षिताः । अत एव मे शशाङ्क इति प्रसिद्धिः ।
एवमुक्तवति दूते यूथपतिर्भयादिदमाहप्रणिधे ! इदमज्ञानतः कृतम् । पुनर्न तत्र गमिष्यामि ।
दूत उवाचयद्येवं तदत्र सरसि कोपात्कम्पमानं भगवन्तं शशाङ्कं प्रणम्य, प्रसाद्य च गच्छ ।
ततस्तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चन्द्रबिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः । उक्तं च तेनदेव ! अज्ञानादनेनापराधः कृतः । ततः क्षम्यताम् । नैवं वारान्तरं विधास्यते । इत्युक्त्वा प्रस्थापितः । अतो वयं ब्रूमःव्यपदेशेऽपि सिद्धिः स्यातिति ।
ओ)०(ओ
ततो मयोक्तम्स एवास्मत्प्रभू राजहंसो महाप्रतापोऽतिस्मर्थः । त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यमिति । तदाहं तैः पक्षिभिःदुष्ट ! कथमस्मद्भूमौ चरसि इत्यभिधाय राज्ञश्चित्रवर्णस्य समीपं नीतः । ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्देव ! अवधीयताम् । एष दुष्टोऽस्मद्देशे चरन्नपि देवपादानधिक्षिपति ।
राजाहकोऽयम् ? कुतः समायातः ?
ते ऊचुःहिरण्यगर्भनाम्नो राजहंसस्यानुचरः कर्पूरद्वीपादागतः ।
अथाहं गृध्रेण मन्त्रिणा पृष्टःकस्तत्र मुख्यो मन्त्री ? इति ।
मयोक्तम्सर्वशास्त्रार्थपारगः शर्वज्ञो नाम चक्रवाकः ।
गृध्रो ब्रूतेयुज्यते । स्वदेशजोऽसौ । यतः
स्वदेशजं कुलाचारविशुद्धमुपधाशुचिम् ।
मन्त्रज्ञमवसनिनं व्यभिचारविवर्जितम् ॥ ३.१७ ॥
अधीतव्यवहारार्थं मौलं ख्यातं विपश्चितम् ।
अर्थस्योत्पादकं चैव विदध्यान्मन्त्रिणं नृपः ॥ ३.१८ ॥
अत्रान्तरे शुकेनोक्तम्देव ! कर्पूरद्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव । तत्रापि देवपादानामेवाधिपत्यम् । ततो राज्ञाप्युक्तमेवमेव । यतः
राजा मत्तः शिशुश्चैव प्रमदा धनगर्वितः ।
अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यतेऽपि यत् ॥ ३.१९ ॥
ततो मयोक्तम्यदि वचनम्मात्रेणैवाधिपत्यं सिद्ध्यति । तदा जम्बूद्वीपेऽप्यस्मत्प्रभोर्हिरण्यगर्भस्य स्वाम्यमस्ति ।
शुको ब्रूतेकथमत्र निर्णयः ?
मयोक्तंसङ्ग्राम एव ।
राज्ञा विहस्योक्तम्स्वस्वामिनं गत्वा सज्जीकुरु ।
तदा मयोक्तम्स्वदूतोऽपि प्रस्थाप्यताम् ।
राजोवाचकः प्रयास्यति दौत्येन ? यत एवम्भूतो दूतः कार्यः
भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी ।
ब्राह्मणः परमर्मज्ञो दूतः स्यात्प्रतिभानवान् ॥ ३.२० ॥
गृध्रो वदतिसन्त्येव दूता बहवः, किन्तु ब्राह्मण एव कर्तव्यः । यतः,
प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति ।
कालिमा कालकूटस्य नापैतीश्वरसङ्गमात् ॥ ३.२१ ॥
राजाहततः शुक एव व्रजतु । शुक ! त्वमेवानेन सह तत्र गत्वास्मदभिलषितं ब्रूहि ।
शुको ब्रूतेयथाज्ञापयति देवः । किन्त्वयं दुर्जनो बकः । तदनेन सह न गच्छामि । तथा चोक्तम्
खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत्सीतां बन्धनं स्यान्महोदधेः ॥ ३.२२ ॥
अपरं च
न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् ।
काकसङ्गाद्धतो हंसस्तिष्ठन् गछंश्च वर्तकः ॥ ३.२३ ॥
राजोवाचकथमेतत्?
शुकः कथयति
कथा ४
अस्त्युज्जयिनीवर्त्मप्रान्तरे प्लक्षतरुः । तत्र हंसकाकौ निवसतः । कदाचित्ग्रीष्मसमये परिश्रान्तः कश्चित्पथिकस्तत्र तरुतले धनुष्काण्डं संनिधाय सुप्तः । तत्र क्षणान्तरे तन्मुखाद्वृक्षच्छायापगता । ततः सूर्यतेजसा तन्मुखं व्याप्तमवलोक्य, तद्वृक्षस्थितेन पुण्यशीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता । ततो निर्भरनिद्राशुखिना पथिभ्रमणपरिश्रान्तेन पान्थेन मुखव्यादानं कृतम् ।
अथ परसुखमसहिष्णुः स्वभावदौर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावदसौ पान्थ उत्थायोर्ध्वं निरीक्षते, तावत्तेनावलोकितो हंसः काण्डेन हतो व्यापादितः । अतोऽहं ब्रवीमिन स्थातव्यमिति ।
ओ)०(ओ
देव ! वर्तककथामपि कथयामि । श्रूयताम्
कथा ५
एकत्र वृक्षे काकवर्तुकौ सुखं निवसतः । एकदा भगवतो गरुडस्य यात्राप्रसङ्गेन सर्वे पक्षिणः समुद्रतीरं गताः । ततः काकेन सह वर्तकश्चलितः । अथ गच्छतो गोपालस्य मस्तकावस्थितदधिभाण्डाद्वारं वारं तेन काकेन दधि खाद्यते । ततो यावदसौ दधिभाण्डं भूमौ निधायोर्ध्वमवलोकते, तावत्तेन काकवर्तकौ दृष्टौ । ततस्तेन दृष्टः काकः पलायितः । वर्तकः स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तो व्यापादितः । अतोऽहं ब्रवीमिन गन्तव्यमित्यादि ।
ओ)०(ओ
ततो मयोक्तम्भ्रातः शुक ! किमेवं ब्रवीषि ? मां प्रति यथा श्रीमद्देवपादास्तथा भवानपि । शुकेनोक्तमस्त्वेवम् । किन्तु,
दुर्जनैरुच्यमानानि संमतानि प्रियाण्यपि ।
अकालकुसुमानीव भयं संजनयन्ति हि ॥ ३.२४ ॥
दुर्जनत्वं च भवतो वाक्यादेव ज्ञातम् । यदनयोर्भूपालयोर्विग्रहे भवद्वचनमेव निदानम् । पश्य
प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति ।
रथकारो निजां भार्यां सजारां शिरसाकरोत् ॥ ३.२५ ॥
राज्ञोक्तम्कथमेतत्?
शुकः कथयति
कथा ६
अस्ति यौवनश्रीनगरे मन्दमतिर्नाम रथकारः । स च स्वभार्यां बन्धकीं जानाति । किन्तु जारेण समं स्वचक्षुषा नैकस्थाने पश्यति । ततोऽसौ रथकारः अहमन्यं ग्रामं गच्छामीत्युक्त्वा चलितः । स कियद्दूरं गत्वा पुनरागत्य पर्यङ्कतले स्वगृहे निभृतं स्थितः । अथ रथकारो ग्रामान्तरं गत इत्युपजातविश्वासः स जारः सन्ध्याकाल एवागतः । पxचात्तेन जारेण समं तस्मिन् पर्यङ्के निर्भरं क्रीडन्ती, पर्यङ्कतलस्थितस्य भर्तुः किञ्चिदङ्गस्पर्शात्स्वामिनं मायाविनं विज्ञाय, मनसि सा विषण्णाभवत् ।
ततो जारेणोक्तम्किमिति त्वमद्य मया सह निर्भरं न रमसे ? विस्मितेव प्रतिभासि मे त्वम् ।
अथ तयोक्तमनभिज्ञोऽसि । योऽसौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सोऽद्य ग्रामान्तरं गतः । तेन विना सकलजनपूर्णोऽपि ग्रामो मां प्रत्यरण्यवत्प्रतिभाति । किं भावि ? तत्र परस्थाने किं खादितवान् ? कथं वा प्रसुप्तः ? इत्यस्मद्धृदयं विदीर्यते ।
जारो ब्रूतेतव किमेवंविधा स्नेहभूमी रथकारः ?
बन्धक्यवदत्रे बर्बर ! किं वदसि ? शृणु
परुषाण्यपि या प्रोक्ता दृष्टा या क्रोधचक्षुषा ।
सुप्रसन्नमुखी भर्तुः सा नारी धर्मभाजनम् ॥ ३.२६ ॥
अपरं च
नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ ३.२७ ॥
अन्यच्च
भर्ता हि परमं नार्या भूषणं भूषणैर्विना ।
एषा विरहिता तेन शोभनापि न शोभते ॥ ३.२८ ॥
त्वं च जारः पापमतिः, मनोलौल्यात्पुष्पताम्बूलसदृशः कदाचित्सेव्यसे, कदाचिन्न सेव्यसे च । स च पुनर्मे स्वामी , मां विक्रेतुं, देवेभ्यो, ब्राह्मणेभ्यो वा दातुमीश्वरः । किं बहुना ? तस्मिन् जीवति जीवामि । तन्मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते । यतः
तिस्रः कोट्योऽर्धकोटी च यानि लोमानि मानवे ।
तावत्कालं वसेत्स्वर्गे भर्तारं योऽनुगच्छति ॥ ३.२९ ॥
अन्यच्च
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् ।
तद्वद्भर्तारमादाय स्वर्गलोके महीयते ॥ ३.३० ॥
अपरं च
चितौ परिष्वज्य विचेतनं पतिं
प्रिया हि या मुञ्चति देहमात्मनः ।
कृत्वापि पापं शतलक्षमप्यसौ
पतिं गृहीत्वा सुरलोकमाप्नुयात् ॥ ३.३१ ॥
यतः
यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ ३.३२ ॥
एतत्सर्वं श्रुत्वा मन्दमतिः स रथकारःधन्योऽहं यस्येदृशी प्रियवादिनी, स्वामिवत्सला च भार्या इति मनसि निधाय, तां खट्वां स्त्रीपुरुषसहितां मूर्ध्नि कृत्वा सानन्दं ननर्त । अतोऽहं ब्रवीमि प्रयक्षेऽपि कृते दोषे इत्यादि ।
ओ)०(ओ
अतोऽहं तेन राज्ञा यथाव्यवहारं सम्पूज्य प्रस्थापितः । शुकोऽपि मम पश्चादागच्छन्नास्ते । एतत्सर्वं परिज्ञाय यथाकर्तव्यमनुसन्धीयताम् ।
चक्रवाको विहस्याहदेव ! बकेन तावद्देशान्तरमपि गत्वा यथाशक्ति राजकार्यमनुष्ठितम् । किन्तु देव स्वभाव एष मूर्खानाम् । यतः,
शतं दद्यान्न विवदेदिति विज्ञस्य संमतम् ।
विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम् ॥ ३.३३ ॥
राजाहअलमनेनातीतोपालम्भनेन । प्रस्तुतमनुसन्धीयताम् ।
चक्रवाको ब्रूतेदेव ! विजने ब्रवीमि । यतः,
वर्णाकारप्रतिध्वानैर्नेत्रवक्त्रविकारतः ।
अप्यूहन्ति मनो धीरास्तस्माद्रहसि मन्त्रयेत् ॥ ३.३४ ॥
ततो राजा मन्त्री च तत्र स्थितौ अन्येऽन्यत्र गताः । चक्रवाको ब्रूतेदेव ! अहमेवं जानाम्कस्याप्यस्मन्नियोगिनः प्रेरणया बकेनेदमनुष्ठितम् । यतः, वेद्यानामातु ¦