Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
28/03/2026
  • Sanskrit Documents

Hitopadesa by Narayan Acharya

विद्या और शिक्षा का महत्व बताया गया है। विद्या से व्यक्ति को धन, सम्मान और धर्म प्राप्त होता है। बुद्धिमान व्यक्ति अपनी शिक्षा से मृत्यु के कारणों से बच सकता है और समाज में प्रतिष्ठा प्राप्त कर सकता है। शिक्षा के माध्यम से व्यक्ति का विनम्रता और पात्रता बढ़ती है, जिससे वह सुख और समृद्धि हासिल कर सकता है। चतुर सुत्रधार की कहानियों के माध्यम से मित्रता, कल्याण और नीतिगत सलाह दी गई है। अंत में, राजा ज्ञानियों से सलाह लेकर अपने पुत्रों का मार्गदर्शन करने की इच्छा व्यक्त करता है।
advtanmoy 30/10/2018 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram

Hitopadesa

मङ्गलाचरणम्

सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः ।
जाह्नवीफेनलेखेव यन्मूर्ध्नि शशिनः कला ॥ ०.१ ॥

श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु ।
वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥ ०.२ ॥

Read Next

  •  Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1
  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1
  • Batul Nath Sutrani (वातुलनाथ-सूत्राणि): Complete Explanation by Tanmoy Bhattacharyya

विद्याप्रशंसा

अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ०.३ ॥

सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।
अहार्यत्वादनर्घत्वादक्षयत्वाच्च सर्वदा ॥ ०.४ ॥

संयोजयति विद्यैव नीचगापि नरं सरित् ।
समुद्रमिव दुर्घर्षं नृपं भाग्यमतः परम् ॥ ०.५ ॥

Read Next

  •  Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1
  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1
  • Batul Nath Sutrani (वातुलनाथ-सूत्राणि): Complete Explanation by Tanmoy Bhattacharyya

विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वात्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥ ०.६ ॥

विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये ।
आद्या हास्यय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ०.७ ॥

यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
कथाच्छलेन बालानां नीतिस्तदिह कथ्यते ॥ ०.८ ॥

Read Next

  •  Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1
  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1
  • Batul Nath Sutrani (वातुलनाथ-सूत्राणि): Complete Explanation by Tanmoy Bhattacharyya

मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेव च ।
पञ्चतन्त्रात्तथान्यस्माद्ग्रन्थादाकृष्य लिख्यते ॥ ०.९ ॥

Lawline

अथ कथामुखम्

अस्ति भागीरथीतीरे पाटलिपुत्रनामधेयं नगरम् । तत्र सर्वस्वामिगुणोपेतः सुदर्शनो नाम नरपतिरासीत् । स भूपतिरेकदा केनापि पाठ्यमानं श्लोकद्वयं शुश्राव

अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ ०.१० ॥

यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ०.११ ॥

इत्याकर्ण्यात्मनः पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गगामिनां शास्त्राननुष्ठानेनोद्विग्नमनाः स राजा चिन्तयामास ।

कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।
काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥ ०.१२ ॥

अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः ।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥ ०.१३ ॥

किं च
वरं गर्भस्रावो वरमपि च नैवाभिगमनं
वरं जातः प्रेतो वरमपि च कन्यावजनिता ।
वरं बन्ध्या भार्या वरमपि च गर्भेषु वसतिर्
न वाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः ॥ ०.१४ ॥

स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ०.१५ ॥

अन्यच्च
गुणिगणगणनाऽरम्भे
न पतति कठिनी ससम्भ्रमाद्यस्य ।
तेनाम्बा यदि सुतिनी
वद बन्ध्या कीदृशी भवति ? ॥ ०.१६ ॥

अपि च
दाने तपसि शौर्ये च यस्य न प्रथितं मनः ।
विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥ ०.१७ ॥

अपरं च
वरमेको गुणी पुत्रो न च मूर्खशतैरपि ।
एकश्चन्द्रमस्तमो हन्ति न च तारागणैरपि ॥ ०.१८ ॥

पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् ।
तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः ॥ ०.१९ ॥

तथा चोक्तं
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि राजन् ॥ ०.२० ॥

को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ ०.२१ ॥

ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ ०.२२ ॥

यस्य कस्य प्रसूतोऽपि गुणवान् पूज्यते नरः ।
धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥ ०.२३ ॥

हा हा पुत्रक नाधीतं गतास्वेतासु रात्रिषु ।
तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥ ०.२४ ॥

तत्कथमिदानीमेते मम पुत्रा गुणवन्तः क्रियन्ताम् ? यतः

आहारनिद्राभयमैथुनानि सामान्यमेतत्पशुभिर्नराणाम् ।
ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ ०.२५ ॥

यतः
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ ०.२६ ॥

यच्चोच्यते
आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ ०.२७ ॥

किं च
अवश्यं भाविनो भावा भवन्ति महतामपि ।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ ०.२८ ॥

अन्यच्च
यदभावि न तद्भावि भावि चेन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ ०.२९ ॥

एतत्कार्याक्षमाणां केषांचिदालस्यवचनम् । पुरुषकारौत्कार्ष्यमाह
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥ ०.३० ॥

तथा च
पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते ।
तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः ॥ ०.३१ ॥

न दैवमपि संचिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति ॥ ०.३२ ॥

अन्यच्च
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्
दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ०.३३ ॥

यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति ।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ ०.३४ ॥

काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः ।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ ०.

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ०.३६ ॥

तथा चोक्तं
माता शत्रुः पिता वैरी येन बालो न पाठितः ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ०.३७ ॥

रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ०.३८ ॥

अपरच्च
पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ ।
न शोभते सम्भामध्ये जारगर्भ इव स्त्रियाः ॥ ०.३९ ॥

एतच्चिन्तयित्वा राजा पण्डितसभां कारितवान् । राजोवाचभो भोः पण्डिताः ! श्रूयतां मम वचनम् । अस्ति कश्चिदेवम्भूतो विद्वान् यो मम पुत्राणां नित्यमुन्मार्गगामिनामनधिगतशास्त्राणामिदानीं नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः ? यतः

काचः काञ्चनसंसर्गाद्धत्ते मारकतीर्द्युतीः ।
तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम् ॥ ०.४० ॥

उक्तं च
हीयते हि मतिस्तात हीनैः सह समागमात् ।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ०.४१ ॥

अत्रान्तरे विष्णुशर्मनामा महापण्डितः सकलनीइतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवाब्रवीत्देव महाकुलसम्भूता एते राजपुत्राः । तत्मया नीतिं ग्राहयितुं शक्यन्ते । यतः

नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत् ।
न व्यापारशतेनापि शुकवत्पाठ्यते बकः ॥ ०.४२ ॥

अन्यच्च
अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते ।
आकरे पद्यरागानां जन्म काचमणेः कुतः ॥ ०.४३ ॥

अतोऽहं षण्मासाभ्यन्तरे भवत्पुत्रान्नीतिशास्त्राभिज्ञान् करिष्यामि । राजा सविनयं पुनरुवाच ।

कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ०.४४ ॥

अन्यच्च
यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते ।
तथा सत्सन्निधानेन हीनवर्णोऽपि दीप्यते ॥ ०.४५ ॥

गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्युपेयाः ॥ ०.४६ ॥

तदेतेषामस्मत्पुत्राणां नीतिशास्त्रोपदेशाय भवन्तः प्रमाणमित्युक्त्वा तस्य विष्णुशर्मणो करे बहुमानपुरःसरं पुत्रान् समर्पितवान् ॥

ओ)०(ओ

इ.
मित्रलाभः

अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात्प्रस्तावक्रमेण पण्डितोऽब्रवीत्भो राजपुत्राः शृणुत

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ १.१ ॥

तद्भवतां विनोदाय काककूर्मादीनां विचित्रां कथां कथयिष्यामि । राजपुत्रैरुक्तमार्य ! कथ्यताम् । विष्णुशर्मोवाचशृणुत यूयम् । सम्प्रति मित्रलाभः प्रस्तूयते । यस्यायमाद्यः श्लोकः

असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ १.२ ॥

राजपुत्रा ऊचुःकथमेतत्?

सोऽब्रवीतस्ति गोदावरीतीरे विशालः शाल्मलीतरुः । तत्र नानादिग्देशादागत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिदवसन्नायां रात्रौ अस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि । लघुपतननामा वायसः प्रबुद्धः कृतान्तमिव द्वितीयमटन्तं पाशहस्तं व्याघमपश्यत् । तमालोक्याचिन्तयतद्य प्रातरेवानिष्टदर्शनं जातम् । न जाने किमनभिमतं दर्शयिष्यति । इत्युक्त्वा तदनुसरणक्रमेण व्याकुलश्चलति । यतः

शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १.३ ॥

अन्यच्चविषयिणामिदमवश्यं कर्तव्यम् ।
उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ।
आयुषः खण्डमादाय रविरस्तं गमिष्यति ॥ १.४ ॥

अथ तेन व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः सपरिवारो वियति विसर्पंस्तण्डुलकणानवलोकयामास । ततः कपोतराजस्तण्डुलकणलुब्धान् कपोतान् प्राहकुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः । तन्निरूप्यतां तावत् । भद्रमिदं न पश्यामि प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम् ।

कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्धव्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥ १.५ ॥

कपोता ऊचुःकथमेतत्?
कथा १

सोऽब्रवीतहमेकदा दक्षिणारण्ये चरन्नपश्यमेको वृद्धो व्याघ्रः स्नातः कुशहस्तः सरस्तीरे ब्रूतेभो भो पन्थाः ! इदं सुवर्णकङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित्पान्थेन आलोचितम्भाग्येन एतत्सम्भवति । किन्तु अस्मिनात्मसन्देहे प्रवृत्तिर्न विधेया । यतः

अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा ।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥ १.६ ॥

किन्तु सर्वत्रार्थार्जनप्रवृत्तौ सन्देह एव । तथा चोक्तम्

न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥ १.७ ॥

तन्निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कङ्कणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थोऽवदत्कथं मारात्मके त्वयि विश्वासः ?

व्याघ्र उवाचशृणु रे पान्थ ! प्रागेव यौवनदशायामहमतीव दुर्वृत्त आसम् । अनेकगोमानुषाणां वधाद्मे पुत्रा मृता दाराश्च । वंशहीनश्चाहम् । ततः केनचिद्धार्मिकेणाहमुपदिष्टः । दानधर्मादिकं चरतु भवानिति । तदुपदेशादिदानीमहं स्नानशीलो दाता वृद्धो गलितनखदन्तः न कथं विश्वासभूमिः ? उक्तं च

इज्याऽध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ १.८ ॥

तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥ १.९ ॥

मम चैतावान् लोभविरहः । येन स्वहस्तस्थमपि सुवर्णकङ्कणं यस्मै कस्मैचिद्दातुमिच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः

गतानुगतिको लोकः कुट्टनीमुपदेशिनीम् ।
प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ॥ १.१० ॥

मया च धर्मशास्त्राणि अधीतानि । शृणु

मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा ।
दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥ १.११ ॥

प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥ १.१२ ॥

अपरं च
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ १.१३ ॥

अन्यच्च
मातृवत्परदारेषु परद्रव्येषु लोष्ट्रवत् ।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १.१४ ॥

त्वं च अतीवदुर्गतः । तेन तत्तुभ्यं दातुं सयत्नोऽहम् । तथा चोक्तम्

दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ १.१५ ॥

अन्यत्च
दातव्यमिति यद्दानं दीयतेऽनुपकारिणि ।
देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः ॥ १.१६ ॥

तदत्र सरसि स्नात्वा सुवर्णकङ्कणमिदं गृहाण । ततो यावदसौ तद्वचःप्रतीतो लोभात्सरः स्नातुं प्रविष्टः, तावन्महापङ्के निमग्नः पलायितुमक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रोऽवदतहह महापङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि । इत्युक्त्वा शनैः शनैरुपगम्य तेन व्याघ्रेण धृतः स पान्थोऽचिन्तयत्

न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः ॥ १.१७ ॥

किं च
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥ १.१८ ॥

तन्मया भद्रं न कृतम् । यदत्र मारात्मके विश्वासः कृतः । तथा चोक्तम्

नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ १.१९ ॥

अपरं च
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥ १.२० ॥

अन्यच्च
स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी ।
विधुरपि विधियोगाद्ग्रस्यते राहुणासौ
लिखितमपि ललाटे प्रोज्झितं कः समर्थः ॥ १.२१ ॥

इति चिन्तयन्नेवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश्च । अतोऽहं ब्रवीमिकङ्कणस्य तु लोभेनेत्यादि । अत एव सर्वथाविचारितं कर्म न कर्तव्यमिति । यतः

सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत्कृतं
सुदीर्घकालेऽपि न याति विक्रियाम् ॥ १.२२ ॥

एतद्वचनं श्रुत्वा कश्चित्कपोतः सदर्पमाहआः ! किमेवमुच्यते ?

वृद्धस्य वचनं ग्राह्यमापत्काले ह्युपस्थिते ।
सर्वत्रैवं विचारे च भोजनेऽपि प्रवर्तताम् ॥ १.२३ ॥

यतः
शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले ।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ? ॥ १.२४ ॥

यथा चोक्तम्
ईर्ष्यी घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ १.२५ ॥

एतच्छ्रुत्वा तण्डुल्कणलोभेन नभोमण्डलादवतीर्यसर्वे कपोतास्तत्रोपविष्टाः । यतः

सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्ताः संयानां च क्लिश्यन्ते लोभमोहिताः ॥ १.२६ ॥

अन्यच्च
लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते ।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ १.२७ ॥

अन्यच्च
असंभवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिना भवन्ति ॥ १.२८ ॥

अनन्तरं ते सर्वे जालनिबद्धा बभूवुः, ततो यस्य वचनात्तत्रावलम्बितास्तं सर्वे तिरस्कुर्वन्ति स्म । यतः,

न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् ।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥ १.२९ ॥

तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाचनायमस्य दोषः, यतः

आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥ १.३० ॥

अन्यच्च
स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः ।
न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ १.३१ ॥

विपत्काले विस्मय एव कापुरुषलक्षणम् । तदत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यताम्, यतः

विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्यपटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ १.३२ ॥

सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ १.३३ ॥

अन्यच्च
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ १.३४ ॥

इदानीमपि एवं क्रियताम्सर्वैरेकचित्तीभूय जालमादाय उड्डीयताम् । यतः

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥ १.३५ ॥

संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ १.३६ ॥

इति विचित्य पक्षिणः सर्वे जालमादाय उत्पतिताः । अनन्तरं च व्याधः सुदूराज्जालापहारकांस्तानवलोक्य पश्चाद्धावितोऽचिन्तयत्

संहतास्तु हरन्त्येते मम जालं विहङ्गमाः ।
यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा ॥ १.३७ ॥

ततस्तेषु चक्षुर्विषयमतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुःस्वामिन् ! किमिदानीं कर्तुमुचितम् ?

चित्रग्रीव उवाच
माता मित्रं पिता चेति स्वभावात्त्रितयं हितम् । कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ १.३८ ॥

तन्मे मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति । सोऽस्माकं पाशांश्छेत्स्यति इत्यालोच्य सर्वे हिरण्यकविवरसमीपं गताः । हिरण्यकश्च सर्वदा अपायशङ्कया शतद्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपातभयाच्चकितः तूष्णीं स्थितः । चित्रग्रीव उवाचसखे हिरण्यक ! कथमस्मान्न सम्भाषसे ?

ततो हिरण्यकस्तद्वचनं प्रत्यभिज्ञाय ससम्भ्रमं बहिर्निःसृत्य अब्रवीताः ! पुण्यवानस्मि प्रियसुहृन्मे चित्रग्रीवः समायातः ।

यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः ।
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ १.३९ ॥

अथ पाशबद्धांश्चैतान् दृष्ट्वा सविस्मयः क्षणं स्थित्वा उवाचसखे ! किमेतत्?

चित्रग्रीव उवाचसखे ! अस्माकं प्राक्तनजन्मकर्मणः फलमेतत् ।

यस्माच्च येन च यथा च यदा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म ।
तस्माच्च तेन च तथा च तदा च तच्च
तावच्च तत्र च विधातृवशादुपैति ॥ १.४० ॥

रागशोकपरीतापबन्धनव्यसनानि च । आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥ १.४१ ॥

एतच्छ्रुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरमुपसर्पति । तत्र चित्रग्रीव उवाचमित्र ! मा मैवं कुरु । प्रथममस्मदाश्रितानामेतेषां तावत्पाशांश्छिन्धि । मम पाशं पश्चाच्छेत्स्यसि ।

हिरण्यकोऽप्याहअहमल्पशक्तिः । दन्ताश्च मे कोमलाः । तदेतेषां पाशांश्छेत्तुं कथं समर्थो भवामि ? तत्यावन्मे दन्ता न त्रुट्यन्ति, तावत्तव पाशं छिनद्मि । तदनन्तरमप्येतेषां बन्धनं यावत्शक्यं छेत्स्यामि ।

चित्रग्रीव उवाचअस्त्वेवम् । तथापि यथाशक्ति बन्धनमेतेषां खण्डय ।

हिरण्यकेनोक्तमात्मपरित्यागेन यदाश्रितानां परिरक्षणं तन्न नीतिवेदिनां सम्मतम् । यतः

आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १.४२ ॥

अन्यच्च
धर्मार्थकाममोक्षाणां प्राणाः संस्थितहेतवः ।
तान्निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ १.४३ ॥

चित्रग्रीव उवाचसखे ! नीतिस्तावदीदृश्येव, किन्त्वहमस्मदाश्रितानां दुःखं सोढुं सर्वथासमर्थस्तेनेदं ब्रवीमि । यतः

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ १.४४ ॥

अयमपरश्चासाधारणो हेतुः ।

जातिद्रव्यबलानां च साम्यमेषां मया सह ।
मत्प्रभुत्वफलं ब्रूहि कदा किं तद्भविष्यति ॥ १.४५ ॥

अन्यच्च
विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् ।
तन्मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान् ॥ १.४६ ॥

किं च
मांसमूत्रपुरीषास्थिपूरितेऽत्र कलेवरे ।
विनश्वरे विहायास्थां यशः पालय मित्र मे ॥ १.४७ ॥

अपरं च पश्य
यदि नित्यमनित्येन निर्मलं मलवाहिना ।
यशः कायेन लभ्येत तन्न लब्धं भवेन्नु किम् ॥ १.४८ ॥

यतः
शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् ।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥ १.४९ ॥

इत्याकर्ण्य हिरण्यकः प्रहृष्टमनाः पुलकितः सनब्रवीत्साधु मित्र ! साधु । अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवमुक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आहसखे चित्रग्रीव ! सर्वथात्र जालबन्धनविधौ सति दोषमाशङ्क्य आत्मनि अवज्ञा न कर्तव्या । यतः

योऽधिकाद्योजनशतान् पश्यतीहामिषं खगः ।
स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥ १.५० ॥

अपरं च
शशिदिवाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥ १.५१ ॥

अन्यच्च
व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि ।
दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ १.५२ ॥

इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश्चित्रग्रीवोऽपि सपरिवारो यथेष्टदेशान् ययौ, हिरण्यकोऽपि स्वविवरं प्रविष्टः ।

यानि कानि च मित्राणि कर्तव्यानि शतानि च ।
पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः ॥ १.५३ ॥

अथ लघुपतनकनामा काकः सर्ववृत्तान्तदर्शी साश्चर्यमिदमाहअहो हिरण्यक ! श्लाघ्योऽसि, अतोऽहमपि त्वया सह मैत्रीं कर्तुमिच्छामि । अतस्त्वं मां मैत्र्येणानुग्रहीतुमर्हसि । एतच्छ्रुत्वा हिरण्यकोऽपि विवराभ्यन्तरादाहकस्त्वम् ?

स ब्रूतेलघुपतनकनामा वायसोऽहम् । हिरण्यको विहस्याहका त्वया सह मैत्री ? यतः

यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् ।
अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥ १.५४ ॥

अपरं च
भक्ष्यभक्षयोः प्रीतिर्विपत्तेः कारणं मतम् ।
शृगालात्पाशबद्धोऽसौ मृगः काकेन रक्षितः ॥ १.५५ ॥

वायसोऽब्रवीत्कथमेतत्?

हिरण्यकः कथयति

कथा २

अस्ति मगधदेशे चम्पकवती नाम अरण्यानी । तस्यां चिरात्महता स्नेहेन मृगकाकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्टपुष्टाङ्गः केनचित्शृगालेनावलोकितः । तं दृष्ट्वा शृगालोऽचिन्तयताः ! कथमेतन्मांसं सुललितं भक्षयामि ? भवतु, विश्वासं तावदुत्पादयामि इत्यालोच्य उपसृत्याब्रवीत्मित्र ! कुशलं ते ?

मृगेणोक्तम्कस्त्वम् ?

स ब्रूतेक्षुद्रबुद्धिनामा जम्बुकोऽहम् । अत्रारण्ये बन्धुहीनो मृतवतेकाकी निवसामि । इदानीं त्वां मित्रमासाद्य पुनः सबन्धुर्जीवलोकं प्रविष्टोऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यमिति ।

मृगेणोक्तमेवमस्तु ।

ततः पश्चादस्तं गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ । तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति । तौ दृष्ट्वा काकोऽवदत्सखे चित्राङ्ग ! कोऽयं द्वितीयः ?
मृगो ब्रूतेमित्र ! अकस्मादागन्तुना सह मैत्री न युक्ता । तन्न भद्रमाचरितम् । तथा चोक्तम्

अज्ञातकुलशीलस्य वासो देयो न कस्यचित् ।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥ १.५६ ॥

तौ आहतुःकथमेतत्?

काकः कथयति
कथा ३

अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान् पर्कटीवृक्षः तस्य कोटरे दैवदुर्विपाकात्गलितनखनयनो जरद्गवनामा गृध्रः प्रतिवसति । अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात्किंचित्किंचिदुद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावकरक्षां च करोति । अथ कदाचित्दीर्घकर्णनामा मार्जारः पक्षिशावकान् भक्षयितुं तत्रागतः । ततस्तमायान्तं दृष्ट्वा पक्षिशावकैर्भयार्तैः कोलाहलः कृतः । तच्छ्रुत्वा जरद्गवेन उक्तम्कोऽयमायाति ? दीर्घकर्णो गृध्रमवलोक्य सभयमाहहा हतोऽस्मि यतो
ऽयं मां व्यापादयिष्यति । अथवा

तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम् ॥ १.५७ ॥

अधुनातिसन्निधाने पलायितुमक्षमः । तद्यथा भवितव्यं तथा भवतु, तावत्विश्वासमुत्पाद्यास्य समीपमुपगच्छामीत्यालोच्य तमुपसृत्याब्रवीतार्य ! त्वामभिवन्दे ।

गृध्रोऽवदत्कस्त्वम् ?

सोऽवदत्मार्जारोऽहम् ।

गृध्रो ब्रूतेदूरमपसर नो चेथन्तव्योऽसि मया ।

मार्जारोऽवदत्श्रूयतां तावत्मद्वचनम् । ततो यद्यहं वध्यस्तदा हन्तव्यः । यतः

जातिमात्रेण किं कश्चिद्वध्यते पूज्यते क्वचित् ।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥ १.५८ ॥

गृध्रो ब्रूतेब्रूहि किमर्थमागतोऽसि ?

सोऽवदतहमत्र गङ्गातीरे नित्यस्नायी निरामिषाशी ब्रह्मचारी चान्द्रायणव्रतमाचरंस्तिष्ठामि । युष्मान् धर्मज्ञानरताः प्रेमविश्वासभूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुमिहागतः । भवन्तश्चैतादृशा धर्मज्ञाः, यन्मामतिथिं हन्तुमुद्यताः ? गृहस्थधर्मश्च एषः

अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ १.५९ ॥

किं चयदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावदतिथिः पूज्य एव ।

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ १.६० ॥

अन्यच्च
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ १.६१ ॥

अपरं च
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥ १.६२ ॥

अन्यच्च
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ १.६३ ॥

अन्यच्च
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥ १.६४ ॥

गृध्रोऽवदत्मार्जारो हि मांसरुचिः । पक्षिशावकाश्चात्र निवसन्ति । तेनाहमेव ब्रवीमि । तच्छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते चमया धर्मशास्त्रं श्रुत्वा वीतरागेनेदं दुष्करं व्रतं चान्द्रायणमध्यवसितम् । यतः परस्परं विवदमानानामपि धर्मशास्त्राणामहिंसा परमो धर्मः इत्यत्रैकमत्यम् । यतः

सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये ।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ १.६५ ॥

अन्यच्च
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यधि गच्छति ॥ १.६६ ॥

किं च
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् ।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ १.६७ ॥

अपि च
मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते ।
शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ॥ १.६८ ॥

शृणु पुनः
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते ।
अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत् ॥ १.६९ ॥

एवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षिशावकानाक्रम्य स्वकोटरमानीय प्रत्यहं खादति । अथ येषामपत्यानि खादितानि । तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा । तत्परिज्ञाय मार्जारः कोटरान्निःसृत्य बहिः पलायितः । पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य च गृध्रो व्यापादितः । अतोऽहं ब्रवीमिअज्ञातकुलशीलस्य इत्यादि ।

ओ)०(ओ

इत्याकर्ण्य स जम्बुकः सकोपमाहमृगस्य प्रथमदर्शनदिने भवानपि अज्ञातकुलशील एव आसीत् । तत्कथं भवता सह एतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते ? अथवा

यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥ १.७० ॥

अन्यच्च
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ १.७१ ॥

यथा चायं मृगो मम बन्धुस्तथा भवानपि । मृगोऽब्रवीत्कमनेन उत्तरोत्तरेण ? सर्वैरेकत्र विश्रम्भालापैः सुखमनुभवद्भिः स्थीयताम् । यतः
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ।
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥ १.७२ ॥

काकेन उक्तमेवमस्तु । अथ प्रातः सर्वे यथाभिमतदेशं गताः । एकदा निभृतं शृगालो ब्रूतेसखे मृग ! एतस्मिन्नेव वनैकदेशे सस्यपूर्णं क्षेत्रमस्ति । तदहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिनकतिपयेन क्षेत्रपतिना तद्दृष्ट्वा पाशास्तत्र योजिताः । अनन्तरं पुनरागतो मृगः तत्र चरन् पाशैर्बद्धोऽचिन्तयत्को मामितः कालपाशादिव व्याधपाशात्त्रातुं मित्रादन्यः समर्थः ?

अत्रान्तरे जम्बुकस्तत्रागत्य उपस्थितोऽचिन्तयत्फलितस्तावदस्माकं कपटप्रबन्धः । मनोरथसिद्धिरपि बाहुल्यान्मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस्तं दृष्ट्वा उल्लासितो ब्रूतेसखे ! छिन्धि तावन्मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः

आपत्सु मित्रं जानीयाद्रणे शूरमृणे शुचिम् ।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ १.७३ ॥

अपरं च
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ १.७४ ॥

जम्बुकः पाशं मुहुर्मुहुर्विलोक्याचिन्तयत्दृढस्तावदयं बन्धः । ब्रूते चसखे ! स्नायुनिर्मिताः पाशाः, तदद्य भट्टारकवारे कथमेतान् दन्तैः स्पृशामि ? मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत्त्वया वक्तव्यं तत्कर्तव्यमिति । अनन्तरं स काकः प्रदोषका मृगमनागतमवलोक्य इतस्ततोऽन्विष्यन् तथाविधं तं दृष्ट्वा उवाचसखे ! किमेतत्? मृगेणोक्तमवधीरितसुहृद्वाक्यस्य फलमेतत्तथा चोक्तम्

सुहृदां हितकामानां यः शृणोति न भाषितम् ।
विपत्सन्निहिता तस्य स नरः शत्रुनन्दनः ॥ १.७५ ॥

काको ब्रूतेस वञ्चकः क्वास्ते ?

मृगेणोक्तंमन्मांसार्थी तिष्ठत्यत्रैव ।

काको ब्रूतेमित्र ! उक्तमेव मया पूर्वम् ।

अपराधो न मेऽस्तीति नैतद्विश्वासकारणम् ।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ १.७६ ॥

दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम् ।
न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ॥ १.७७ ॥

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ १.७८ ॥

ततः काको दीर्घं निःश्वस्य उवाचअरे वञ्चक ! किं त्वया पापकर्मणा कृतम् । यतः
संलापितानां मधुरैर्वचोभिर्
मिथ्योपचारैश्च वशीकृतानाम् ।
आशावतां श्रद्दधतां च लोके
किमर्थिनां वञ्चयितव्यमस्ति ॥ १.७९ ॥

अन्यच्च
उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् ।
तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥ १.८० ॥

दुर्जनेन समं सख्यं वैरं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ १.८१ ॥

अथवा स्थितिरियं दुर्जनानाम्

प्राक्पादयोः पतति खादति पृष्ठमांसं
कर्णे फलं किमपि रौति शनैर्विचित्रम् ।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः
सर्वं खलस्य चरितं मशकः करोति ॥ १.८२ ॥

तथा च
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ १.८३ ॥

अथ प्रभाते स क्षेत्रपतिर्लगुडहस्तस्तं प्रदेशमागच्छन् काकेनावलोकितः । तमवलोक्य काकेनोक्तम्सखे मृग ! त्वमात्मानं मृतवत्सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किमपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वमुत्थाय सत्वरं पलायिष्यसे ।

मृगस्तथैव काकवचनेन स्थितः । ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो मृग आलोकितः । अथासौआः ! स्वयं मृतोऽसि ? इत्युक्त्वा मृगं बन्धनात्मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद्दूरे अन्तरिते क्षेत्रपतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरमुत्थाय पलायितः । तमुद्दिश्य तेन क्षेत्रपतिना प्रकोपात्क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम्

त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।
अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते ॥ १.८४ ॥

अतोऽहं ब्रवीमिभक्ष्यभक्ष्यकयोः प्रीतिरित्यादि ।

इति मृगवायसशृगालकथा

काकः पुनराह

भक्षितेनापि भवता नाहारो मम पुष्कलः ।
त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥ १.८५ ॥

अन्यच्च
तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम् ।
सतां हि साधुशीलत्वात्स्वभावो न निवर्तते ॥ १.८६ ॥

किं च
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् ।
न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥ १.८७ ॥

हिरण्यको ब्रूतेचपलस्त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम्

मार्जारो महिषो मेषः काकः कापुरुषस्तथा ।
विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नो हितः ॥ १.८८ ॥

किं चान्यत्शत्रुपक्षो भवानस्माकम् । शत्रुणा सन्धिर्न विधेयम् । उक्तं चैतत्
शत्रुणा न हि सन्दध्यात्संश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ १.८९ ॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १.९० ॥

यदशक्यं न तच्छक्त्यं यच्छक्त्यं शक्यमेव तत् ।
नोदके शकटं याति न च नौर्गच्छति स्थले ॥ १.९१ ॥

अपरं च
महताप्यर्थसारेण यो विश्वसिति शत्रुषु ।
भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥ १.९२ ॥

लघुपतनको ब्रूतेश्रुतं मया सर्वं, तथापि ममैतावनेव सङ्कल्पः । यत्त्वया सह सौहृद्यमवश्यं करणीयमिति । अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि

मृद्घटवत्सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद्दुर्भेद्यश्चाशु सन्धेयः ॥ १.९३ ॥

किं च
द्रवत्वात्सर्वलोहानां निमित्ताद्मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां सङ्गतः दर्शनात्सताम् ॥ १.९४ ॥

किं च
नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ १.९५ ॥

अन्यच्च
स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् ।
भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः ॥ १.९६ ॥

अन्यच्च
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः ।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥ १.९७ ॥

एतैर्गुणैरुपेतो भवद्=अन्यो मया कः सुहृत्प्राप्तव्यः ? इत्यादि तद्वचनमाकर्ण्य हिरण्यको बहिः निःसृत्याहआप्यायितोऽहं भवतामेतेन वचनामृतेन । तथा चोक्तम्

घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली
न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् ।
प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः
सद्युक्त्या च परिष्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम् ॥ १.९८ ॥

अन्यच्च
रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तया ।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ १.९९ ॥

अनेन वचनक्रमेण ततेकमपि दूषणं त्वयि न लक्ष्यते । यतः

पटुत्वं सत्यवादित्वं कथायोगेन बुद्ध्यते ।
अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥ १.१०० ॥

अपरं च
अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः ।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ १.१०१ ॥

मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यद्दुरात्मनाम् ।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ १.१०२ ॥

तद्भवतु भवतः अभिमतमेव इत्युक्त्वा हिरण्यको मैत्र्यं विधाय भोजनविशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः । वायसोऽपि स्वस्थानं गतः ततःप्रभृति तयोः अन्योऽन्याहारप्रदानेन कुशलप्रश्नैः विश्रम्भालापैश्च कियत्कालोऽतिवर्तने । एकदा लघुपतनको हिरण्यकमाहसखे ! वायसस्य कष्टतरलभ्याहारमिदं स्थानम् । तदेतत्परित्यज्य स्थानान्तरं गन्तुमिच्छामि ।

हिरण्यको ब्रूते
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥ १.१०३ ॥

काको ब्रूतेमित्र ! कापुरुषस्य वचनमेतत् । यतः

स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १.१०४ ॥

अन्यच्च
को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतः
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिन्नत्त्यात्मनः ॥ १.१०५ ॥

हिरण्यको ब्रूतेमित्र क्व गन्तव्यम् ? तथा चोक्तम्

चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १.१०६ ॥

वायसो ब्रूतेमित्र ! अस्ति सुनिरूपितं स्थानम् ।

हिरण्यकोऽवदत्किं तत्?

वायसः कथयतिअस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिरकालोपार्जितः प्रियसुहृन्मे मन्थराभिधानः कूर्मः सहजधार्मिकः प्रतिवसति । पश्य मित्र !

परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ॥ १.१०७ ॥

स च भोजनविशेषैर्मां संवर्धयिष्यति । हिरण्यकोऽप्याहतत्किमत्रावस्थाय मया कर्तव्यम् ? यतः

यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः ।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १.१०८ ॥

अपरं च
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ १.१०९ ॥

अपरं च
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ १.११० ॥

अन्यच्च
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ १.१११ ॥

अतो मामपि तत्र नय ।

वायसोऽवदतेवमस्तु ।

अथ वायसस्तेन मित्रेण सह विचित्रालापसुखेन तस्य सरसः समीपं ययौ । ततो मन्थरो दूरादेव लघुपतनकमवलोक्य उत्थाय यथोचितमातिथ्यं विधाय मूषिकस्याप्यतिथिसत्कारं चकार । यतः

बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥ १.११२ ॥

तथा
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ १.११३ ॥

अपरं च
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥ १.११४ ॥

वायसोऽवदत्सखे ! मन्थर ! सविशेषपूजामसमि विधेहि, यतोऽयं पुण्यकर्मणां धुरीणः कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराजः । एतस्य गुणस्तुतिं जिह्वासहस्रद्वयेनापि यदि सर्पराजः कदाचित्कर्तुं समर्थः स्यातित्युक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याहभद्र ! आत्मनो निर्जनवनागमनकारणमाख्यातुमर्हसि ?

हिरण्यकोऽवदत्कथयामि, श्रूयताम् ।
कथा ४

अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्टभिक्षान्नसहितं भिक्षापात्रं नागदन्तकेऽवस्थाप्य स्वपिति । अहं च तदन्नमुत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं तस्य प्रियसुहृद्वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नानाकथाप्रसङ्गावस्थितो मम त्रासार्थं जर्जरवंशखण्डेन चूडाकर्णो भूमिमताडयत् । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाचसखे ! किमिति मम कथाविरक्तोऽन्यासक्तो भवान् ? यतः

मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रमदर्शनं च
सदानुरक्तस्य जनस्य लक्ष्म ॥ १.११५ ॥

अदृष्टिदानं कृतपूर्वनाशनम्
आननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृतिर्
विरक्तभावस्य जनस्य लक्षणम् ॥ १.११६ ॥

चूडाकर्णेनोक्तम्भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नमुत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तमवलोक्याहकथमयं मूषिकः स्वल्पबलोऽप्येतावद्दूरमुत्पतति ? तदत्र केनापि कारणेन भवितव्यम् ।

क्षणं विचिन्त्य परिव्राजकेनोक्तम्कारणं चात्र धनबाहुल्यमेव प्रतिभाति । यतः

धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा ।
प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ॥ १.११७ ॥

ततः खनित्रमादाय तेन परिव्राजकेन विवरं खनित्वा चिरसञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निजशक्तिहीनः सत्त्वोत्साहरहितः स्वाहारमप्युत्पादयितुमक्षमः सन्नासं मन्दं मन्दमुपसर्पन् चूडाकर्णेनावलोकितः । ततस्तेनोक्तम्

धनेन बलवान् लोको धनाद्भवति पण्डितः ।
पश्यैनं मूषिकं पापं स्वजातिसमतां गतम् ॥ १.११८ ॥

किं च
अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ १.११९ ॥

अपरं च
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ १.१२० ॥

अपरं च
अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च ।
मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥ १.१२१ ॥

अपरं च
दारिद्र्यान्मरणाद्वापि दारिद्र्यमवरं स्मृतम् ।
अल्पक्लेशेन मरणं दारिद्र्यमतिदुःसहम् ॥ १.१२२ ॥

अन्यच्च
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव
अन्यः क्षणेन भवतीति विचित्रमेतत् ॥ १.१२३ ॥

एतत्सर्वमाकर्ण्य मयालोचितंममान्नावस्थानमयुक्तमिदानीम् । तथा चोक्तम्
अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे ।
मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम् ॥ १.१२४ ॥

अन्यच्च
मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति ।
अपि निर्वाणमायाति नानलो याति शीतताम् ॥ १.१२५ ॥

किं च
कुसुमस्तवकस्येव द्वे वृत्ती तु मनस्विनः ।
सर्वेषां मूर्ध्नि वा तिष्ठेद्विशीर्येत वनेऽथवा ॥ १.१२६ ॥

यच्चान्यस्मै एतद्वृत्तान्तकथनं तदप्यनुचितम् । यतः

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १.१२७ ॥

यच्चात्रैव याच्ञया जीवनं तदप्यतीवगर्हितम् । यतः

वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः ।
नोपचारपरिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥ १.१२८ ॥

अन्यच्च
दारिद्र्याद्ध्रियमेति ह्रीपरिगतः सत्त्वात्परिभ्रश्यते
निःसत्त्वं परिभूयते परिभवान्निर्वेदमापद्यते ।
निर्विण्णः शुचमेति शोकफिहितो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ १.१२९ ॥

किं च
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिर्
वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥ १.१३० ॥

वरं शून्या शाला न च खलु वरो दुष्टवृषभो
वरं वेश्या पत्नी न पुनरविनीता कुलवधूः ।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे
वरं प्राणत्यागो न पुनरधमानामुपगमः ॥ १.१३१ ॥

अपि च
सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम् ।
हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति ॥ १.१३२ ॥

तत्किमहं परपिण्डेन आत्मानं पोषयामि ? कष्टं भोः ! तदपि द्वितीयं मृत्युद्वारम् । अन्यच्च

रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ १.१३३ ॥

इत्यालोच्यापि लोभात्पुनरपि तदीयमन्नं ग्रहीतुं ग्रहमकरवम् । तथा चोक्तम्

लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥ १.१३४ ॥

ततोऽहं मन्दं मन्दमुपसर्पंस्तेन वीणाकर्णेन जर्जरवंशखण्डेन ताडितश्चाचिन्तयम्लुब्धो ह्यसन्तुष्टो नियतमात्मद्रोही भवति । तथा च

धनलुब्धो ह्यसन्तुष्टोऽनियतात्माजितेन्द्रियः ।
सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ॥ १.१३५ ॥

सर्वाः सम्पत्तस्यस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य ननु चर्मावृतेव भूः ॥ १.१३६ ॥

अपरं च
सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ १.१३७ ॥

किं च
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ १.१३८ ॥

अपि च
असेवितेश्वरद्वारमदृष्टविरहव्यथम् ।
अनुक्तक्लीबवचनं धन्यं कस्यापि जीवनम् ॥ १.१३९ ॥

न योजनशतं दूरं वाह्यमानस्य तृष्णया ।
सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥ १.१४० ॥

तदत्र अवस्थोचितकार्यपरिच्छेदः श्रेयान् ।

को धर्मो भूतदया किं सौख्यं नित्यमरोगिना जगति ।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ १.१४१ ॥

तथा च
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः ।
अपरिच्छेदकर्तॄणां विपदः स्युः पदे पदे ॥ १.१४२ ॥

तथा हि
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १.१४३ ॥

अपरं च
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् ।
विचार्यं खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ १.१४४ ॥

इत्यालोच्याहं निर्जनवनमागतः । यतः

वरं वनं व्याघ्रगजेन्द्रसेवितं
द्रुमालयः पत्रफलाम्बुभक्षितम् ।
तृणानि शय्या वसनं च वल्कलं
न बन्धुमध्ये धनहीनजीवनम् ॥ १.१४५ ॥

अतः
संसारविषयवृक्षस्य द्वे एव रसवत्फले ।
काव्यामृतरसास्वादः सङ्गमः सज्जनैः सह ॥ १.१४६ ॥

अपरं च
सत्सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् ।
असारे खलु संसारे त्रीणि साराणि भावयेत् ॥ १.१४७ ॥

मन्थर उवाच
अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम्
आयुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवनम् ।
धर्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं
पश्चात्तापहतो जरापरिणतः शोकाग्निना दह्यते ॥ १.१४८ ॥

युष्माभिरतिसञ्चयः कृतः । तस्यायं दोषः । शृणु
उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां परीवाहैवाम्भसाम् ॥ १.१४९ ॥

अन्यच्च
यदधोऽधः क्षितौ वित्तं निचखान मितम्पचः ।
तदधो निलयं गन्तुं चक्रे पन्थानमग्रतः ॥ १.१५० ॥

यतः
निजसौख्यं निरुन्धानो यो धनार्जनमिच्छति ।
परार्थभारवाहीव स क्लेशस्यैव भाजनम् ॥ १.१५१ ॥

तथा चोक्तं
दानोपभोगहीनेन धनेन धनिनो यदि ।
भवामः किं न तेनैव धनेन धनिनो वयम् ॥ १.१५२ ॥

यतः
धनेन किं यो न ददाति नाश्नुते
बलेन किं यश्च रिपून्न याधत्ते ।
श्रुतेन किं यो न च धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥ १.१५३ ॥

अन्यच्च
असम्भोगेन सामान्यं कृपणस्य धनं परैः ।
अस्येदमिति सम्बन्धो हानौ दुःखेन गम्यते ॥ १.१५४ ॥

अपि च
न देवाय न विप्राय न बन्धुभ्यो न चात्मने ।
कृपणस्य धनं याति वह्नितस्करपार्थिवैः ॥ १.१५५ ॥

तथा चोक्तम्
दानं प्रियवाक्सहितं
ज्ञानमगर्वं क्षमान्वितं सौर्यम् ।
त्यागं सहितं च वित्तं
दुर्लभमेतच्चतुर्भद्रम् ॥ १.१५६ ॥

उक्तं च
कर्तव्यः सञ्चयो नित्यं न तु कार्योऽतिसञ्चयः ।
अतिसञ्चयशीलोऽयं धनुषा जम्बुको हतः ॥ १.१५७ ॥

तावाहतुःकथमेतत्?

मन्थरः कथयति

कथा ५

आसीत्कल्याणकटकवास्तव्यो भैरवो नाम व्याधः । स चैकदा मांसलुब्धो धनुरादाय मृगमन्विष्यन् विन्ध्याटवीमध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगमादाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस्तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्यागत्य प्रलयघनघोरगर्जनं कुर्वाणेन स व्याधो मुष्कदेशे हतः छिन्नद्रुम इव पपात । तथा चोक्तम्

जलमग्निर्विषं शस्तं क्षुद्व्याधिः पतनं गिरेः ।
निमित्तं किञ्चिदासाद्य देही प्राणैर्विमुच्यते ॥ १.१५८ ॥

अथ तयोः पादास्फालनेन एकः सर्पोऽपि मृतः । अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान्मृतान्मृगव्याधसर्पशूकरानपश्यत् । आलोक्याचिन्तयच्चअहो भाग्यम् ! अद्य महद्भोज्यं मे समुपस्थितम् ।

अथवा
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १.१५९ ॥

मासमेकं नरो याति द्वौ मासौ मृगशूकरौ ।
अहिरेकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥ १.१६० ॥

ततः प्रथमबुभुक्षायामिदं निःस्वादु कोदण्डलग्नं स्नायुबन्धनं खादामि, इत्युक्त्वा तथाकरोत् । ततश्छिन्ने स्नायुबन्धने द्रुतमुत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतोऽहं ब्रवीमि कर्तव्यः सञ्चयो नित्यमित्यादि । तथा च

यद्ददाति यदश्नाति तदेव धनिनो धनम् ।
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ १.१६१ ॥

किं च
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने ।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥ १.१६२ ॥

यातु, किमिदानीमतिक्रान्तोपवर्णनेन । यतः

नाप्रायमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः ॥ १.१६३ ॥

तत्सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः

शास्त्राण्यधीत्यापि भवन्ति मूर्खा
यस्तु क्रियावान् पुरुषः स विद्वान् ।
सुचिन्तितं चौषधमातुराणां
न नाममात्रेण करोत्यरोगम् ॥ १.१६४ ॥

अन्यच्च
न स्वल्पमप्यध्यवसायभीरोः
करोति विज्ञानविधिर्गुणं हि ।
अन्धस्य किं हस्ततलस्थितोऽपि
प्रकाशयत्यर्थमिह प्रदीपः ॥ १.१६५ ॥

तदत्र सखे दशातिशेषेण शान्तिः करणीया । एतदप्यतिकष्टं त्वया न मन्तव्यम् ।

सुखमापतितं सेव्यं दुःखमापतितं तथा ।
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ॥ १.१६६ ॥

अपरं च
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः ।
सोद्योगं नरमायान्ति विवशाः सर्वसम्पदः ॥ १.१६७ ॥

अपि च
उत्साहसंपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥ १.१६८ ॥

विशेषतश्च
विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं
समायुक्तोऽप्यर्थैः परिभवपदं याति कृपणः ।
स्वभावादुद्भूतां गुणसमुदयावाप्तिविषयां
द्युतिं सैंहीं श्वा किं धृतकनकमालोऽपि लभते ॥ १.१६९ ॥

किं च
धनवानिति हि मदस्ते किं गतविभवो विषादमुपयासि ।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ १.१७० ॥

अन्यच्च
वृत्त्यर्थं नातिचेष्टते सा हि धात्रैव निर्मिता ।
गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ १.१७१ ॥

अपि च सखे शृणु
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः ।
मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥ १.१७२ ॥

अपरं च सतां रहस्यं शृणु, मित्र !

जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु ।
मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः ॥ १.१७३ ॥

अपरं च
धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १.१७४ ॥

यतः
यथाआमिषमाकाशे पक्षिभिः श्वापदैर्भुवि ।
भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ १.१७५ ॥

अन्यच्च
राजतः सलिलादग्नेश्चोरतः स्वजनादपि ।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ १.१७६ ॥

तथा हि
जन्मनि क्लेशबहुले किं नु दुःखमतः परम् ।
इच्छासम्पद्यतो नास्ति यच्चेच्छा न निवर्तते ॥ १.१७७ ॥

अन्यच्च भ्रातः शृणु
धनं तावदसुलभं लब्धं कृच्छ्रेण पाल्यते ।
लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥ १.१७८ ॥

सा तृष्णा चेत्परित्यक्ता को दरिद्रः क ईश्वरः ।
तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥ १.१७९ ॥

अपरं च
यद्यदेव हि वाञ्छेत ततो वाञ्छा प्रवर्तते ।
प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते ॥ १.१८० ॥

किं बहुना, विश्रम्भालापैर्मयैव सहात्र कालो नीयताम् । यतः

आम्रणान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः ।
परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥ १.१८१ ॥

इति श्रुत्वा लघुपतनको ब्रूतेधन्योऽसि मन्थर ! सर्वथा आश्रयणीयोऽसि । यतः

सन्त एव सतां नित्यमापदुद्धरणक्षमाः ।
गजानां पङ्कमग्नानां गजा एव धुरन्धराः ॥ १.१८२ ॥

अपरं च
श्लाघ्यः स एको भुवि मानवानां
स उत्तमः सत्पुरुषः स धन्यः ।
यस्यार्थिनो वा शरणागता वा
नाशाविभङ्गा विमुखाः प्रयान्ति ॥ १.१८३ ॥

तदेवं ते स्वेच्छाहारविहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म । अथ कदाचित्चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः । तत्पश्चादायान्तं भयहेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश्च विवरं गतः, काकोऽपि उड्डीय वृक्षाग्रमारूढः । ततो लघुपतनकेन सुदूरं निरूप्य भयहेतुर्न कोऽप्यवलम्बितः । पश्चात्तद्वचनादागत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तंभद्र मृग ! कुशलं ते ? स्वेच्छया उदकाद्याहारोऽनुभूयताम् । अत्रावस्थानेन वनमिदं सनाथीक्रियताम्
।

चित्राङ्गो ब्रूतेलुब्धकत्रासितोऽहं भवतां शरणमागतः । ततश्च, भवद्भिः सह मित्रत्वमिच्छामि । भवन्तश्च अनुकम्पयन्तु मैत्र्येण । यतः
लोभाद्वाथ भयाद्वापि यस्त्यजेच्छरणागतम् ।
ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥ १.१८४ ॥

हिरण्यकोऽप्यवदत्मित्रत्वं तावदस्माभिः सह, अयत्नेन निष्पन्नं भवतः । यतः
औरसं कृतसम्बन्धं तथा वंशक्रमागतम् ।
रक्षकं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ १.१८५ ॥

तदत्र भवता स्वगृहनिर्विशेषेण स्थीयताम् । तच्छ्रुत्वा मृगः सानन्दो भूत्वा कृतस्वेच्छाहारः पानीयं पीत्वा जलासन्नवटतरुच्छायायामुपविष्टः ।

अथ मन्थरो ब्रूतेसखे मृग ! केन त्रासितोऽसि ? अस्मिन्निर्जने वने कदाचित्किं व्याधाः सञ्चरन्ति ?

मृगेणोक्तमस्ति कलिङ्गविषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजयव्यापारक्रमेण आगत्य चन्द्रभागानदीतीरे समावेशितकटको वर्तते, प्रातश्च तेनात्रागत्य कर्पूरसरः समीपे भवितव्यमिति व्याधानां मुखात्किंवदन्ती श्रूयते । तदत्रापि प्रातरवस्थानं भयहेतुकमित्यालोच्य यथा कार्यं तथा आरभ्यताम् ।

तच्छ्रुत्वा कूर्मः सभयमाहमित्र ! जलाशयान्तरं गच्छामि ।

काकमृगावपि उक्तवन्तौमित्र ! एवमस्तु !

हिरण्यको विमृश्याब्रवीत्पुनर्जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतोऽस्य का विधा ?

अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम् ।
स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ १.१८६ ॥

उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
काकी कनकसूत्रेण कृष्णसर्पमघातयत् ॥ १.१८७ ॥

तद्यथा
कथा ६

अस्ति ब्रह्मारण्ये कर्प्¨ऊरतिलको नाम हस्ती । तमवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म । यद्ययं केनाप्युपायेन मिर्यते, तदास्माकमेतेन देहेन मासचतुष्टयस्य स्वेच्छाभोजनं भवेत् । ततस्तन्मध्यादेकेन वृद्धशृगालेन प्रतिज्ञा कृता । मया बुद्धिप्रभावादस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा साष्टाङ्गपातं प्रणम्योवाचदेव ! दृष्टिप्रसादं कुरु ।

हस्ती ब्रूतेकस्त्वम् ? कुतः समायातः ?

सोऽवदत्जम्बुकोऽहं सर्वैर्वनवासिभिः पशुभिर्मिलित्वा भवत्सकाशं प्रस्थापितः । यद्विना राज्ञा स्थातुं न युक्तम् । तदत्राटवीराज्येऽभिषेक्तुं भवान् सर्वस्वामिगुणोपेतो निरूपितः । यतः

कुलाचारजनाचारैरतिशुद्धः प्रतापवान् ।
धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि ॥ १.१८८ ॥

अपरं च पश्य
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।
राजन्यसति लोकेऽस्मिन् कुतो भार्या कुतो धनम् ॥ १.१८९ ॥

अन्यच्च
पर्जन्य इव भूतानामाधारः पृथिवीपतिः ।
विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ १.१९० ॥

किं च
नियतविषयवर्ती प्रायशो दण्डयोगाज्
जगति परवशेऽस्मिन् दुर्लभः साधुवृत्तेः ।
कृशमपि विकलं वा व्याधितं वाधनं वा
पतिमपि कुलनारी दण्डभीत्याभ्युपैति ॥ १.१९१ ॥

तद्यथा लग्नवेला न चलति तथा कृत्वा सत्वरमागम्यतां देवेन । इत्युक्त्वा उत्थाय चलितः । ततोऽसौ राज्यलाभाकृष्टः कर्पूरतिलकः शृगालदर्शितवर्त्मना धावन्महापङ्के निमग्नः । हस्तिनोक्तम्सखे शृगाल ! किमधुना विधेयम् ? महापङ्के पतितोऽहं म्रिये । परावृत्य पश्य !

शृगालेन विहस्योक्तम्देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात्मद्विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलमेतत् । तदनुभूयतामशरणं दुःखम् । तथा चोक्तम्

यदासत्सङ्गरहितो भविष्यसि भविष्यसि ।
यदासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥ १.१९२ ॥

ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षितः । अतोऽहं ब्रवीमिउपायेन हि यच्छक्यमित्यादि ।

ओ)०(ओ

ततस्तद्धितवचनमवधीर्य महता भयेन विमुग्ध इव मन्थरस्स्तज्जलाशयमुत्सृज्य प्रचलितः । तेऽपि हिरण्यकादयः स्नेहादनिष्टं शङ्कमानास्तमनुजग्मुः । ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्योऽस्मीत्यभिधाय भ्रमणक्लेशात्क्षुत्पिपासाकुलः स्वगृहाभिमुखं प्रयातः । अथ ते मृगवायसमूषिकाः परं विषादमुपगताः तमनुगच्छन्ति स्म । ततो हिरण्यको विलपति

एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य ।
तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥ १.१९३ ॥

स्वभावजं तु यन्मित्रं भाग्येनैवाभिजायते ।
तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ १.१९४ ॥

अपि च
न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे ॥ १.१९५ ॥

इति मुहुः विचिन्त्य प्राहअहो मे दुर्दैवम् । यतः

स्वकर्मसन्तानविचेष्टितानि
कालान्तरावर्तिशुभाशुभानि ।
इहैव दृष्टानि मयैव तानि
जन्मान्तराणीव दशान्तराणि ॥ १.१९६ ॥

अथवा इत्थमेवैतत् ।
कायः संनिहितापायः सम्पदः पदमापदाम् ।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ १.१९७ ॥

पुनर्विमृश्याह
शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १.१९८ ॥

किं च
मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः
पात्रं यत्सुखदुःखयोः सममिदं पुण्यात्मना लभ्यते ।
ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास्
ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥ १.१९९ ॥

इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकावाहयावदयं व्याधो वनान्न निःसरति, तावन्मन्थरं मोचयितुं यत्नः क्रियताम् ।

तावूचतुःसत्वरं यथाकार्यमुपदिश ।

हिरण्यको ब्रूतेचित्राङ्गो जलसमीपं गत्वा मृतमिवात्मानं निश्चेष्टं दर्शयतु । काकश्च तस्योपरि स्थित्वा चञ्च्वा किमपि विलिखतु । नूनमनेन लुब्धकेन मृगमांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् ।

ततश्चित्राङ्गलघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोरधस्तादुपविष्टः सन् तथाविधं मृगमपश्यत् । ततः कच्छपं जलसमीपे निधाय कर्तरिकामादाय प्रहृष्टमना मृगान्तिकं चलितः । अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । छिन्नबन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत्तरुतलमायाति तावत्कूर्ममपश्यन्नचिन्तयतुचितमेवैतत्
ममासमीक्ष्यकारिणः । यतः

यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥ १.२०० ॥

ततोऽसौ स्वकर्मवशान्निराशः कटकं प्रविष्टः । मन्थरादयश्च सर्वे मुक्तापदः स्वस्थानं गत्वा यथासुखमास्थिताः ।

अथ राजपुत्रैः सानन्दमुक्तम्सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् ।

विष्णुशर्मोवाचएतद्भवतामभिलषितमपि सम्पन्नम् । अपरमपीदमस्तु

मित्रं यान्तु च सज्जना जनपदैर्लक्ष्मीः समालभ्यतां
भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः ।
आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः
कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूडामणिः ॥ १.२०१ ॥
ओ)०(ओ

इइ.
सुहृद्भेदः

अथ राजपुत्रा ऊचुःार्य ! मित्रलाभः श्रुतस्तावदस्माभिः । इदानीं सुहृद्भेदं श्रोतुमिच्छामः ।

विष्णुशर्मोवाचसुहृद्भेदं तावच्छृणुत, यस्यायमाद्यः श्लोकः

वर्धमानो महान् स्नेहो मृगेन्द्रवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ २.१ ॥

राजपुत्रैरुक्तम्कथमेतत्?

विष्णुशर्मा कथयतिअस्ति दक्षिणापथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम वणिग्निवसति । तस्य प्रचुरेऽपि वित्तेऽ परान् बन्धूनतिसमृद्धान् समीक्ष्य पुनरर्थवृद्धिः करणीयेति मतिर्बभूव । यतः,

अधोऽधः पश्यतः कस्य महिमा नोपचीयते ।
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ २.२ ॥

अपरं च
ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् ।
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥ २.३ ॥

अन्यच्च
अव्यवसायिनमलसं दैवपरं सहसाच्च परिहीणम् ।
प्रमदेव हि वृद्धपतिं नेच्छत्यवगूहितुं लक्ष्मीः ॥ २.४ ॥

किं च
आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् ।
सन्तोषो भीरुत्वं षड्व्याघाता महत्त्वस्य ॥ २.५ ॥

यतः
सम्पदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ २.६ ॥

अपरं च
निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम् ।
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ॥ २.७ ॥

तथा चोक्तम्
अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ।
रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ २.८ ॥

यतोऽलब्धमिच्छतोऽर्थयोगादर्थस्य प्राप्तिरेव । लब्धस्याप्यरक्षितस्य निधेरपि स्वयं विनाशः । अपि च, अवर्धमानश्चार्थः काले स्वल्पव्ययोऽप्यञ्जनवत्क्षयमेति । नौपभुज्यमानश्च निष्प्रयोजन एव सः । तथा चोक्तम्

धनेन किं यो न ददाति नाश्नुते
बलेन किं यश्च रिपून्न बाधते ।
श्रुतेन किं यो न च धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥ २.९ ॥

यतः,
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ २.१० ॥

दानोपभोगरहिता दिवसा यस्य यान्ति वै ।
स कर्मकारभस्त्रेव श्वसन्नपि न जीवति ॥ २.११ ॥

इति संचिन्त्य नन्दकसजीवकनामानौ वृषभौ धुरि नियोज्य शकटं नानाविधद्रव्यपूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति । अन्यच्च

अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् ।
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥ २.१२ ॥

यतः
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ २.१३ ॥

अथ गच्छतस्तस्य सुदुर्गनाम्नि महारण्ये सञ्जीवको भग्नजानुर्निपतितः । तमालोक्य वर्धमानोऽचिन्तयत्

करोतु नाम नीतिज्ञो व्यवसायमितस्ततः ।
फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥ २.१४ ॥

किन्तु
विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम् ।
तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिर्विधीयताम् ॥ २.१५ ॥

इति संचिन्त्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायमन्यं वृषभमेकं समानीय धुरि नियोज्य चलितः । ततः संजीवकोऽपि कथं कथमपि खुरत्रये भरं कृत्वोत्थितः । यतः
निमग्नस्य पयोराशौ पर्वतात्पतितस्य च ।
तक्षकेणापि दष्टस्य आयुर्मर्माणि रक्षति ॥ २.१६ ॥

नाकाले मिर्यते जन्तुर्विद्धः शरशतैरपि ।
कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति ॥ २.१७ ॥

अरक्षितं तिष्ठति दैवरक्षितं
सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽपि वने विसर्जितः
कृतप्रयत्नोऽपि गृहे न जीवति ॥ २.१८ ॥

ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहारविहारं कृत्वारण्यं भ्राम्यन् हृष्टपुष्टाङ्गो बलवन्ननाद । तस्मिन् वने पिङ्गलकनामा सिंहः स्वभुजोपार्जितराज्यसुखमनुभवन्निवसति । तथा चोक्तम्

नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ॥ २.१९ ॥

स चैकदा पिपासाकुलितः पानीयं पातुं यमुनाकच्छमगच्छत् । तेन च तत्र सिंहेनाननुभूतपूर्वकमकालघनगर्जितमिव संजीवकनर्दितमश्रावि । तच्छ्रुत्वा पानीयमपीत्वा सचकितः परिवृत्य स्वस्थानमागत्य किमिदमित्यालोचयंस्तूष्णीं स्थितः । स च तथाविधः करटकदमनकाभ्यामस्य मन्त्रिपुत्राभ्यां दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकमाहसखे करटक ! किमित्ययमुदकार्थी स्वामी पानीयमपीत्वा सचकितो मन्दं मन्दमवतिष्ठते ।

करटको ब्रूतेमित्र दमनक ! अस्मन्मतेनास्य सेवैव न क्रियते । यदि तथा भवति तर्हि किमनेन स्वामिचेष्टानिरूपेणास्माकम् । यतोऽनेन राज्ञा विनापराधेन चिरमवधीरिताभ्यामावाभ्यां महद्दुःखमनुभूतम् ।

सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् ।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ २.२० ॥

अपरं च
शीतवातातपक्लेशान् सहन्ते यान् पराश्रिताः ।
तदंशेनापि मेधावी तपस्तप्त्वा मुखी भवेत् ॥ २.२१ ॥

अन्यच्च
एतावज्जन्मसाफल्यं देहिनामिह देहिषु ।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा ॥ २.२२ ॥

अपरं च
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
इति वित्रस्तसारङ्गनेत्रया को न वञ्चितः ॥ २.२३ ॥

किं च
अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् ।
आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ २.२४ ॥

किं च
या प्रकृत्यैव चपला निपतत्यशुचावपि ।
स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥ २.२५ ॥

अपरं च
मौनान्मूर्खः प्रवचनपटुर्बातुलो जल्पको वा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः ।
धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ २.२६ ॥

विशेषतश्च
प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ॥ २.२७ ॥

दमनको ब्रूतेमित्र सर्वथा मनसापि नैतत्कर्तव्यम्, यतः

कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः ।
अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥ २.२८ ॥

अन्यच्च
कुतः सेवाविहीनानां चामरोद्धूतसम्पदः ।
उद्दण्डधवलच्छत्रं वाजिवारणवाहिनी ॥ २.२९ ॥

करटको ब्रूतेतथापि किमनेनास्माकं व्यापारेण । यतोऽव्यापारेषु व्यापारः सर्वथा परिहरणीयः । पश्य

अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निधनं याति कीलोत्पटीव वानरः ॥ २.३० ॥

दमनकः पृच्छतिकथमेतत्?

करकटः कथयति

कथा १

अस्ति मगधदेशे धर्मारण्यसंनिहितवसुधायां शुभदत्तनाम्ना कायस्थेन विहारः कर्तुमारब्धः । तत्र करपत्रदार्यमाणैकस्तम्भस्य कियद्दूरस्फाटितस्य काष्ठखण्डद्वयमध्ये कीलकः सूत्रधारेण निहितः । तत्र बलवान् वानरयूथः क्रीडन्नागतः । एको वानरः कालप्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनन्तरं स च सहजचपलतया महता प्रयत्नेन तं कीलकमाकृष्टवान् । आकृष्टे च कीलके चूर्णिताण्डद्वयः पञ्चत्वं गतः । अतोऽहं ब्रवीमिअव्यापरेषु व्यापारमित्यादि ।

दमनको ब्रूतेतथापि स्वामिचेष्टानिरूपणं सेवकेनावश्यं करणीयम् ।

करटको ब्रूतेसर्वस्मिन्नधिकारे य एव नियुक्तः प्रधानमन्त्री स करोतु । यतोऽनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्या । पश्य

पराधिकारचर्चा यः कुर्यात्स्वामिहितेच्छया ।
स विषीदति चीत्काराद्गर्दभस्ताडितो यथा ॥ २.३१ ॥

दमनकः पृच्छतिकथमेतत्?

करटको ब्रूते

कथा २

अस्ति वाराणस्यां कर्पूरपटको नाम रजकः । स रात्रौ गाढनिद्रायां प्रसुप्तः । तदनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति । कुक्कुरश्चोपविष्टोऽस्ति । अथ गर्दभः श्वानमाहसखे ! भवतस्तावदयं व्यापारः । तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ।

कुक्कुरो ब्रूतेभद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वमेव किं न जानासि यथा तस्याहर्निशं गृहरक्षां करोमि । यतोऽयं चिरान्निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहारदाने मन्दादरः । यतो विना विधुरदर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति ।

गर्दभो ब्रूतेशृणु रे बर्बर !
याचते कार्यकाले यः स किंभृत्यः स किंसुहृत् ।

कुक्कुरो ब्रूते
भृत्यान् सम्भाषयेद्यस्तु कार्यकाले स किंप्रभुः ॥ २.३२ ॥

यतः
आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने ।
पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ २.३३ ॥

ततो गर्दभः सकोपमाहअरे दुष्टमते ! पापीयांस्त्वं यद्विपत्तौ स्वामिकार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति, तन्मया कर्तव्यम् । यतः
पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् ।
स्वामिनं सर्वभावेन परलोकममायया ॥ २.३४ ॥

इत्युक्त्वातीव चीत्कारशब्दं कृतवान् । ततः स रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वमगमत् । अतोऽहं ब्रवीमिपराधिकारचर्चामित्यादि । पश्य, पशूनामन्वेषणमेवास्मन्नियोगः । स्वनियोगचर्चा क्रियताम् । किन्त्वद्य तया चर्चया न प्रयोजनम् । यत आवयोर्भक्षितशेषाहारः प्रचुरोऽस्ति ।

दमनकः सरोषमाहकथमाहारार्थी भवान् केवलं राजानं सेवते ? एतदयुक्तमुक्तं त्वया । यतः

सुहृदामुपकारकारणाद्
द्विषतामप्यपकारकारणात् ।
नृपसंश्रय इष्यते बुधैर्
जठरं को न बिभर्ति केवलम् ॥ २.३५ ॥

जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः ।
सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥ २.३६ ॥

अपि च
यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु ।
काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥ २.३७ ॥

पश्य
पञ्चभिर्याति दासत्वं पुराणैः कोऽपि मानवः ।
कोऽपि लक्षैः कृती कोऽपि लक्षैरपि न लभ्यते ॥ २.३८ ॥

अन्यच्च
मनुष्यजातौ तुल्यायां भृत्यत्वमतिगर्हितम् ।
प्रथमो यो न तन्नापि स किं जीवत्सु गण्यते ॥ २.३९ ॥

तथा चोक्तं
वाजिवारणलोहानां काष्ठपाषाणवाससाम् ।
नारीपुरुषतोयानामन्तरं हदहन्तरम् ॥ २.४० ॥

तथा हि स्वल्पमप्यतिरिच्यते
स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थिकं
श्वा लब्ध्वा परितोषमेति न भवेत्तस्य क्षुधः शान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ २.४१ ॥
अपरं च, सेव्यसेवकयोरन्तरं पश्य

लाङ्गूलचालनमधश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ २.४२ ॥

किं च
यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्
विज्ञानविक्रमयशोभिरभज्यमानम् ।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ २.४३ ॥

अपरं च
यो नात्मजे न च गुरौ न च भृत्यवर्गे
दीने दयां न कुरुते न च बन्धुवर्गे ।
किं तस्य जीवितफलेन मनुष्यलोके
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ २.४४ ॥

अपरमपि
अहितहितविचारशून्यबुद्धेः
श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य ।
उदरभरणमात्रकेवलेच्छोः
पुरुषपशोश्च पशोश्च को विशेषः ॥ २.४५ ॥

करटको ब्रूतेआवां तावदप्रधानौ । तदाप्यावयोः किमनया विचारणया ।

दमनको ब्रूतेकियता कालेनामात्याः प्रधानतामप्रधानतां वा लभन्ते, यतः

न कस्यचित्कश्चिदिह स्वभावाद्
भवत्युदारोऽभिमतः खलो वा ।
लोके गुरुत्वं विपरीततां वा
स्वचेष्टितान्येव नरं नयन्ति ॥ २.४६ ॥

किं च
आरोप्यते शिला शैले यत्नेन महता यथा ।
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ २.४७ ॥

यात्यधोऽधः व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः ।
कूपस्य खनिता यद्वत्प्राकारस्येव कारकः ॥ २.४८ ॥

तद्भद्रम् । स्वयत्नायत्तो ह्यात्मा सर्वस्य ।

करटको ब्रूतेअथ भवान् किं ब्रवीति ?

स आहअयं तावत्स्वामी पिङ्गलकः कुतोऽपि कारणात्सचकितः परिवृत्योपविष्टः ।

करटको ब्रूते
उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ २.४९ ॥

आकाररिङ्गतैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकारेण लक्ष्यतेऽन्तर्गतं मनः ॥ २.५० ॥

अत्र भयप्रस्तावे प्रज्ञाबलेनाहमेनं स्वामिनमात्मीयं करिष्यामि । यतः

प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् ।
आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥ २.५१ ॥

करटको ब्रूतेसखे त्वं सेवानभिज्ञः । पश्य

अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते ।
आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥ २.५२ ॥

दमनको ब्रूतेभद्र ! कथमहं सेवानभिज्ञः ? पश्य

किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥ २.५३ ॥

यतः
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ २.५४ ॥

अन्यच्च
कोऽत्रेत्यहमिति ब्रूयात्सम्यगादेशयेति च ।
आज्ञामवितथां कुर्याद्यथाशक्ति महीपतेः ॥ २.५५ ॥

अपरं च
अल्पेच्छुर्धृतिमान् प्राज्ञश्छायेवानुगतः सदा ।
आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥ २.५६ ॥

करटको ब्रूतेकदाचित्त्वामनवसरप्रवेशादवगम्यते स्वामी ।

स चाहअस्त्वेवम् । तथाप्यनुजीविना स्वामिसांनिध्यमवश्यं करणीयम् ।
यतः
दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम् ।
कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते ॥ २.५७ ॥

पश्य
आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा ।
प्रायेण भूमिपतयः प्रमदालताश्च यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ २.५८ ॥

करटको ब्रूतेअथ तत्र गत्वा किं वक्ष्यति भवान् ।

स आहशृणु ! किमनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि ।

करटको ब्रूतेकिं तज्ज्ञानलक्षणम् ।

दमनको ब्रूतेशृणु
दूरादवेक्षणं हासः सम्प्रश्नेष्वादरो भृशम् ।
परोक्षेऽपि गुणश्लाघा स्मरणं प्रियवस्तुषु ॥ २.५९ ॥

असेवके चानुरक्तिर्दानं सप्रियभाषणम् ।
अनुरक्तस्य चिह्नानि दोषेऽपि गुणसङ्ग्रहः ॥ २.६० ॥

अन्यच्च
कालयापनमाशानां वर्धनं फलखण्डनम् ।
विरक्तेश्वरचिह्नानि जानीयान्मतिमान्नरः ॥ २.६१ ॥

एतज्ज्ञात्वा यथा चायं ममायत्तो भविष्यति । तथा वदिष्यामि ।

अपायसं दर्शनजां विपत्तिम्
उपायसन्दर्शनजां च सिद्धिम् ।
मेधाविनो नीतिविधिप्रयुक्तां
पुरः स्फुरन्तीमिव दर्शयन्ति ॥ २.६२ ॥

करटको ब्रूतेतथाप्यप्राप्ते प्रस्तावे न वक्तुमर्हसि, यतः

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ २.६३ ॥

दमनको ब्रूतेमित्र ! मा भैषीः ! नाहमप्राप्तावसरं वचनं वदिष्यामि । यतः
आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
अपृष्टोऽपि हितान्वेषी ब्रूयात्कल्याणभाषितम् ॥ २.६४ ॥

यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस्तदा मन्त्रित्वमेव ममानुपपन्नम् । यतः

कल्पयति येन वृत्तिं येन च लोके प्रशस्यते ।
स गुणस्तेन गुणिना रक्ष्यः संवर्धनीयश्च ॥ २.६५ ॥

तद्भद्र ! अनुजानीहि माम् । गच्छामि ।

करटको ब्रूतेशुभमस्तु । शिवास्ते पन्थानः । यथाभिलषितमनुष्ठीयतामिति ।

ततो दमनको विस्मित इव पिङ्गलकसमीपं गतः । अथ दूरादेव सादरं राज्ञा प्रवेशितः साष्टाङ्गप्रणिपातं प्रणिपत्योपविष्टः । राजाहचिराद्दृष्टोऽसि ।

दमनको ब्रूतेयद्यपि मया सेवकेन श्रीमद्देवपादानां न किंचित्प्रयोजनमस्ति, तथापि प्राप्तकालमनुजीविना सांनिध्यमवश्यं कर्तव्यमित्यागतोऽस्मि । किं च

दन्तस्य निर्घर्षणकेन राजन्
कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां
किमङ्गवाक्पाणिमता नरेण ॥ २.६६ ॥

यद्यपि चिरेणावधीरितस्य देवपादैर्मे बुद्धिनाशः शक्यते, तदपि न शङ्कनीयम् । यतः

कदर्थितस्यापि च धैर्यवृत्तेर्
बुद्धेर्विनाशो नहि शङ्कनीयः ।
अधःकृतस्यापि तनूनपातो
नाधः शिखा याति कदाचिदेव ॥ २.६७ ॥

देव ! तत्सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः

मणिर्लुठति पादेषु काचः शिरसि धार्यते ।
यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ २.६८ ॥

अन्यच्च
निर्विशेषो यदा राजा समं सर्वेषु वर्तते ।
तदोद्यमसमर्थानामुत्साहः परिहीयते ॥ २.६९ ॥

किं च
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।
नियोजयेत्तथैवैतांस्त्रिविधेष्वेव कर्मसु ॥ २.७० ॥

यतः
स्थान एव निज्योज्यन्ते भृत्याश्चाभरणानि च ।
नहि चूडामणिः पादे नूपुरं शिरसा कृतम् ॥ २.७१ ॥

अपि च
कनकभूषणसङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते ।
न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ॥ २.७२ ॥

अन्यच्च
मुकुटे रोपिता काचश्चरणाभरणे मणिः ।
नहि दोषो मणेरस्ति किन्तु साधोरविज्ञता ॥ २.७३ ॥

पश्य
बुद्धिमाननुरक्तोऽयमयं शूर इतो भयम् ।
इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ २.७४ ॥

तथा हि
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ २.७५ ॥

अन्यच्च
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि ॥ २.७६ ॥

यतः
अवज्ञानाद्राज्ञो भवति मतिहीनः परिजनस्
ततस्तत्प्रामाण्याद्भवति न समीपे बुधजनः ।
बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती
विपन्नायां नीतौ सकलमवशं सीदति जगत् ॥ २.७७ ॥

अपरं च
जनं जनपदा नित्यमर्चयन्ति नृपार्चितम् ।
नृपेणावमतो यस्तु स सर्वैरवमन्यते ॥ २.७८ ॥

किं च
बालादपि गृहीतव्यं युक्तमुक्तं मनीषिभिः ।
रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥ २.७९ ॥

पिङ्गलकोऽवदत्भद्र दमनक ! किमेतत्? त्वमस्मदीयप्रधानामात्यपुत्र इयन्तं कालं यावत्कुतोऽपि खलवाक्यान्नागतोऽसि । इदानीं यथाभिमतं ब्रूहि ।

दमनको ब्रूतेदेव ! पृच्छामि किंचित् । उच्यताम् । उदकार्थी स्वामी पानीयमपीत्वा किमिति विस्मित इव तिष्ठति ।

पिङ्गलकोऽवदत्भद्रमुक्तं त्वया । किन्त्वेतद्रहस्यं वक्तुं काचिद्विश्वासभूमिर्नास्ति । तथापि निभृतं कृत्वा कथयामि । शृणु, सम्प्रति वनमिदमपूर्वसत्त्वाधिष्ठितमतोऽस्माकं त्याज्यम् । अनेन हेतुना विस्मितोऽस्मि । तथा च श्रुतो मयापि महानपूर्वशब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् ।

दमनको ब्रूतेदेव ! अस्ति तावदयं महान् भयहेतुः । स शब्दोऽस्याभिरप्याकर्णितः । किन्तु स किं मन्त्री यः प्रथमं भूमित्यागं पश्चाद्युद्धं चोपविशति अस्मिन् कार्यसन्देहे भृत्यानामुपयोग एव ज्ञातव्यः । यतः

बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः ।
आपन्निकषपाषाणे नरो जानाति सारताम् ॥ २.८० ॥

सिंहो ब्रूतेभद्र ! महती शङ्का मां बाधते ।

दमनकः पुनराह स्वगतमन्यथा राज्यसुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां सम्भाषसे ? प्रकाशं ब्रूतेदेव ! यावदहं जीवामि तावद्भयं न कर्तव्यम् । किन्तु करटकादयोऽप्याश्वास्यन्तां यस्मादापत्प्रतीकारकाले दुर्लभह्पुरुषसमवायः ।

ततस्तौ दमनककरटकौ राज्ञा सर्वस्वेनापि पूजितौ भयप्रतीकारं प्रतिज्ञाय चलितौ । करटको गच्छन् दमनकमाहसखे ! किं शक्त्यप्रतीकारो भयहेतुरशक्यप्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथमयं महाप्रसादो गृहीतः ? यतोऽनुपकुर्वाणो न कस्याप्युपायनं गृह्णीयाद्विशेषतो राज्ञः । पश्य
यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ २.८१ ॥

तथा हि
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥ २.८२ ॥

दमनको विहस्याहमित्र ! तूष्णीमास्यताम् । ज्ञातं मया भयकारणम् । बलीवर्दनर्दितं तत् । वृषभाश्चास्माकमपि भक्ष्याः । किं पुनः सिंहस्य ।

करटको ब्रूतेयद्येवं तदा किं पुनः स्वामित्रासस्तत्रैव किमिति नापनीतः ।

दमनको ब्रूतेयदि स्वामित्रासस्तत्रैव मुच्यते तदा कथमयं महाप्रसादलाभः स्यात् । अपरं च

निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन ।
निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद्दधिकर्णवत् ॥ २.८३ ॥

करटकः पृच्छतिकथमेतत्?

दमनकः कथयति

कथा ३

अस्त्युत्तरपथेऽर्बुदशिखरनाम्नि पर्वते दुर्दान्तो नाम महाविक्रमः सिंहः । तस्य पर्वतकन्दरमधिशयानस्य केसराग्रं कश्चिन्मूषिकः प्रत्यहं छिनत्ति । ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकमलभमानोऽचिन्तयत्

क्षुद्रशत्रुर्भवेद्यस्तु विक्रमान्नैव लभ्यते ।
तमाहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः ॥ २.८४ ॥
इत्यालोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्णनामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्वकन्दरे स्थापितः । अनन्तरं तद्भयान्मूषिकोऽपि विलान्न निःसरति । तेनासौ सिंहोऽक्षतकेशरः सुखं स्वपिति । मूषिकशब्दं यदा यदा शृणोति, तदा तदा मांसाहारदानेन तं बिडालं संवर्धयति ।

आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः ।
पृथक्शय्या च नारीणामशस्त्रविहितो वधः ॥ २.८५ ॥

ततो देशव्यवहारानभिज्ञः संजीवकः सभयमुपसृत्य साष्टाङ्गपातं करटकं प्रणतवान् । तथा चोक्तम्

मतिरेव बलाद्गरीयसी यदभावे करिणामियं दशा ।
इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ २.८६ ॥

अथ संजीवकः साशङ्कमाहसेनापते ! किं मया कर्तव्यम् । तदभिधीयताम् ।

करटको ब्रूतेवृषभ ! अत्र कानने तिष्ठसि । अस्मद्देवपादारविन्दं प्रणय ।

संजीवको ब्रूतेतदभयवाचं मे यच्छ । गच्छामि ।

करटको ब्रूतेशृणु रे बलीवर्द ! अलमनया शङ्कया । यतः

प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।
अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥ २.८७ ॥

अन्यच्च
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणलानि सर्वतः ।
समुच्छ्रितानेव तरून् प्रबाधते
महान्महत्येव करोति विक्रमम् ॥ २.८८ ॥

ततस्तौ संजीवकं कियद्दूरे संस्थाप्य पिङ्गलकसमीपं गतौ । ततो राजा सादरमवलोकितौ प्रणम्योपविष्टौ । राजाहत्वया स दृष्टः ?

दमनको ब्रूतेदेव ! दृष्टः । किन्तु यद्देवेन ज्ञातं तत्तथा । महानेवासौ देवं द्रष्टुमिच्छति । किन्तु महाबलोऽसौ ततः सज्जीभूयोपविश्य दृश्यताम् । शब्दमात्रादेव न भेतव्यम् । तथा चोक्तम्

शब्दमात्रान्न भेतव्यमज्ञात्वा शब्दकारणम् ।
शब्दहेतुं परिज्ञाय कुट्टनी गौरवं गता ॥ २.८९ ॥

राजाहकथमेतत्?

दमनकः कथयति

कथा ४

अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्यं नगरम् । तच्छिखरप्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जनप्रवादः श्रूयते । एकदा घण्टामादाय पलायमानः कश्चिच्चौरो व्याघ्रेण व्यापादितः । तत्पाणिपतिता घण्टा वानरैः प्राप्ता । वानरास्तां घण्टामनुक्षणं वादयन्ति । ततो नगरजनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घण्टारवश्च श्रूयते । अनन्तरं घण्टाकर्णः कुपितो मनुष्यान् खादति घण्टां च वादयतीत्युक्त्वा सर्वे जना नगरात्पलायिताः । ततः करालया नाम कुट्टन्या विमृश्यानवरोऽयं घण्टानादः
। तत्किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितःदेव ! यदि कियद्धनोपक्षयः क्रियते, तदाहमेनं घण्टाकर्णं साधयामि ।

ततो राजा तस्यै धनं दत्तम् । कुट्टन्या मण्डलं कृत्वा तत्र गणेशादिपूजागौरवं दर्शयित्वा स्वयं वानरप्रियफलान्यादाय वनं प्रविश्य फलान्याकीर्णानि । ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च घण्टां गृहीत्वा नगरमागता सर्वजनपूज्याभवत् । अतोऽहं ब्रवीमिशब्दमात्रान्न भेतव्यमित्यादि । ततः संजीवकमानीय दर्शनं कारितवन्तौ । पश्चात्तत्रैव परमप्रीत्या निवसति ।

ओ)०(ओ

अथ कदाचित्तस्य सिंहस्य भ्राता स्तब्धकर्णनामा सिंहः समागतः । तस्यातिथ्यं कृत्वा सिंहमुपवेश्य पिङ्गलकस्तदाहाराय पशुं हन्तुं चलितः । अत्रान्तरे संजीवको वदतिदेव ! अद्य हतमृगाणां मांसानि क्व ?

राजाहदमनककरटकौ जानीतः ।

संजीवको ब्रूतेज्ञायतां किमस्ति नास्ति वा ?

सिंहो विमृश्याहनास्त्येव तत् ।

संजीवको ब्रूतेकथमेतावन्मांसं ताभ्यां खादितम् ?

राजाहखादितं व्ययितमवधीरितं च । प्रत्यहमेष क्रमः ।

संजीवको ब्रूतेकथं श्रीमद्देवपादानामगोचरेणैव क्रियते ?

राजाहमदीयागोचरेणैव क्रियते ।

अथ संजीवको ब्रूतेनैतदुचितम् । तथा चोक्तम्

नानिवेद्य प्रकुर्वीत भर्तुः किंचिदपि स्वयम् ।
कार्यमापत्प्रतीकारादन्यत्र जगतीपते ॥ २.९० ॥

अन्यच्च
कमण्डलूपमोऽमात्यस्तनुत्यागी बहुग्रहः ।
नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥ २.९१ ॥

स ह्यमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत् ।
कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥ २.९२ ॥

किं चार्थैर्न कुलाचारैः सेवतामेति पूरुषः ।
धनहीनः स्वपत्न्यापि त्यज्यते किं पुनः परैः ॥ २.९३ ॥

एतच्च राज्ञः प्रधानं दूषणम्

अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः ।
मोषणं दूरसंस्थानां कोषव्यसनमुच्यते ॥ २.९४ ॥

यतः
क्षिप्रमायतमनालोच्य व्ययमानः स्ववाञ्छया ।
परिक्षीयत एवासौ धनी वैश्रवणोपमः ॥ २.९५ ॥

स्तब्धकर्णो ब्रूतेशृणु भ्रातः चिराश्रितादेतौ दमनककरटकौ सन्धिविग्रहकार्याधिकारिणौ च कदाचिदर्थाधिकारे न नियोक्तव्यौ । अपरं च नियोगप्रस्तावे यन्मया श्रुतं तत्कथ्यते ।

ब्राह्मणः क्षत्रियो बन्धुर्नाधिकारे प्रशस्यते ।
ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति ॥ २.९६ ॥

नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् ।
सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञातिभावतः ॥ २.९७ ॥

अपराधेऽपि निःशङ्को नियोगी चिरसेवकः ।
स स्वामिनमवज्ञाय चरेच्च निरवग्रहः ॥ २.९८ ॥

उपकर्ताधिकारस्थः स्वापराधं न मन्यते ।
उपकारं ध्वजीकृत्य सर्वमेव विलुम्पति ॥ २.९९ ॥

उपंशुक्रीडितोऽमात्यः स्वयं राजायते यतः ।
अवज्ञा क्रियते तेन सदा परिचयाद्ध्रुवम् ॥ २.१०० ॥

अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ २.१०१ ॥

सदामत्यो न साध्यः स्यात्समृद्धः सर्व एव हि ।
सिद्धानामयमादेशः ऋद्धिश्चित्तविकारिणी ॥ २.१०२ ॥

प्राप्तार्थग्रहणं द्रव्यपरीवर्तोऽनुरोधनम् ।
उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ २.१०३ ॥

नियोग्यर्थग्रहोपायो राज्ञा नित्यपरीक्षणम् ।
प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः ॥ २.१०४ ॥

निपीडिता वमन्त्युच्चैरन्तःसारं महीपतेः ।
दुष्टव्रणा इव प्रायो भवन्ति हि नियोगिनः ॥ २.१०५ ॥

मुहुर्नियोगिनी बाध्या वसुधारा महीपते ।
सकृत्किं पीडितं स्नानवस्त्रं मुञ्चेद्धृतं पयः ॥ २.१०६ ॥

एतत्सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् ।

सिंहो ब्रूतेअस्ति तावदेवम् । किन्त्वेतौ सर्वथा न मम वचनकारिणौ ।

स्तब्धकर्णो ब्रूतेएतत्सर्वमनुचितं सर्वथा । यतः

आज्ञाभङ्गकरान् राजा न क्षमेत सुतानपि ।
विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च ॥ २.१०७ ॥

स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टेन्द्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ २.१०८ ॥

अपरं च
तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृपवल्लभात् ।
नृपतिर्निजलोभाच्च प्रजा रक्षेत्पितेव हि ॥ २.१०९ ॥

भ्रातः ! सर्वथास्मद्वचनं क्रियताम् । व्यवहारोऽप्यस्माभिः कृत एव । अयं संजीवकः सस्यभक्षकोऽर्थाधिकारे नियुज्यताम् ।

एतद्वचनात्तथानुष्ठिते सति तदारभ्य पिङ्गलकसंजीवकयोः सर्वबन्धुपरित्यागेन महता स्नेहेन कालोऽतिवर्तते । ततोऽनुजीविनामप्याहारदाने शैथिल्यदर्शनाद्दमनककरटकावन्योन्यं चिन्तयतः । तदाह दमनकः करटकम्मित्र ! किं कर्तव्यम् ? आत्मकृतोऽयं दोषः । स्वयं कृतेऽपि दोषे परिदेवनमप्यनुचितम् । तथा चोक्तम्

स्वर्णरेखामहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका ।
आदित्सुश्च मणिं साधुः स्वदोषाद्दुःखिता इमे ॥ २.११० ॥

करटको ब्रूतेकथमेतत्?

दमनकः कथयति

कथा ५

अस्ति काञ्चनपुरनाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा कश्चिन्नापितो वध्यभूमिं नीयमानः कन्दर्पकेतुनाम्ना परिव्राजकेन साधुद्वितीयकेन नायं हन्तव्यः इत्युक्त्वा वस्त्राञ्चलेन धृतः । राजपुरुषा ऊचुःकिमिति नायं वध्यः ।

स आहश्रूयताम् । स्वर्णरेखामहं स्पृष्ट्वा इत्यादि पठति ।

त आहुःकथमेतत्?

परिव्राजकः कथयतिअहं सिंहलद्वीपस्य भूपतेर्जीमूतकेतः पुत्रः दन्दर्पकेतुर्नाम । मध्ये चतुर्दश्यामाविर्भूतकल्पतरुतले रत्नावलीकिरणकबूतरपर्यङ्कस्थिता सर्वालङ्कारभूषिता लक्ष्मीरिव वीनां वादयन्ती कन्या काचिद्दृश्यते इति । ततोऽहं पोतव्णिजमादाय पोतमारुह्य तत्र गतः । अनन्तरं तत्र गत्वा पर्यङ्केऽधमग्रा तथैव सावलोकिता । ततस्तल्लावण्यगुणाकृष्टेन मयापि तत्पश्चाज्झम्पो दत्तः । तदनन्तरं कनकपत्तनं प्राप्य सुवर्णप्रासादे तथैव पर्यङ्के स्थिता विद्याधरीभिरुपास्यमाना मयालोकिता । तथाप्यहं दूरादेव दृष्ट्वा सखीं प्रस्थाप्य सादरं सम्भाषितः
। तत्सख्या च मया पृष्टया समाख्यातमेषा कन्दर्पकेलिनाम्नो विद्याधरचक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकवर्तनं स्वचक्षुषागत्य पश्यति, स एव पितुरगोचरोऽपि मां परिणेष्यतीति मनसः सङ्कल्पः । तदेनां गान्धर्वविवाहेन परिणयतु भवान् ।

अथ तत्र वृत्ते गन्धर्वविवाहे तथा सह रममाणस्तत्राहं तिष्ठामि । तत एकदा रहसि तयोक्तम्स्वामिन् ! स्वेच्छया सर्वमिदमुपभोक्तव्यम् । एषा चित्रगता स्वर्णरेखा नाम विद्याधरी न कदाचित्स्प्रष्टव्या । पश्चादुपजातकौतुकेन मया स्वर्णरेखा स्वहस्तेन स्पृष्टा । तथा चित्रतयाप्यहं चरणपद्मेन ताडित आगत्य स्वराष्ट्रे पतितः ।

अथ दुःखितोऽहं परिव्रजितः पृथिवीं परिभ्राम्यन्निमां न्गरीमनुप्राप्तः । अत्र चातिकान्ते दिवसे गोपगृहे सुप्तः सन्नपश्यम् । प्रदोषसमये पशूनां पालनं कृत्वा स्वगेहमागतो गोपः स्ववधूं दूत्या सह किमपि मन्त्रयन्तीमपश्यत् । ततस्तां गोपीं ताडयित्वा स्तम्भे बद्ध्वा सुप्तः । ततोऽर्धरात्रे एतस्य नापितस्य वधूर्दूती पुनस्तां गोपीमुपेत्यावदत्तव विरहानलदग्धोऽसौ स्मरशरजर्जरितो मुमूर्षुरिव वर्तते । तथा चोक्तम्

रजनीचरनाथेन खण्डिते तिमिरे निशि ।
यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ॥ २.१११ ॥

तस्य तादृशीमवस्थामवलोक्य परिक्लिष्टमनास्त्वामनुवर्तितुमागता । तदहमत्रात्मानं बद्ध्वा तिष्ठामि । त्वं तत्र गत्वा तं सन्तोष्य सत्वरमागमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुद्धोऽवदतिदानीं त्वां पापिष्ठां जारान्तिकं नयामि । ततो यदासौ न किंचिदपि ब्रूते तदा क्रुद्धो गोपःदर्पान्मम वचसि प्रत्युत्तरमपि न ददासि इत्युक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो निद्रामुपगतः । अथागत्य गोपी दूतीमपृच्छत्का वार्ता ?

दूत्योक्तम्पश्य माम् । मुखमेव वार्तां कथयति ।

अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता । इयं च दूती तां छिन्ननासिकां गृहीत्वा स्वगृहं प्रविश्य स्थिता । ततः प्रातरेवानेन नापितेन स्ववधूः क्षुरभाण्डं याचिता सती क्षुरमेकं प्रादात् । ततोऽसमग्रभाण्डे प्राप्ते समुपजातकोपोऽयं नापितस्तं क्षुरं दूरादेव गृहे क्षिप्तवान् । अथ कृतार्तरायेयं मे नासिकानेन छिन्नेत्युक्त्वा धर्माधिकारिसमीपमेतमानीतवती । सा च गोपी तेन गोपेन पुनः पृष्टोवाचअरे पाप ! को मां महासती विरूपयितुं समर्थः । मम व्यवहारमकल्मषमष्टौ लोकपाला एव जानन्ति,
यतः

आदित्यचन्द्रावनिलानलश्च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम् ॥ २.११२ ॥

अतथ्यान्यपि तथ्यानि दर्शयन्ति हि पेशलाः ।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ २.११३ ॥

उत्पन्नेषु च कार्येषु मतिर्यस्य न हीयते ।
स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ॥ २.११४ ॥

करटकः पृच्छतिकथमेतत्?

कथा ६

दमनकः कथयतिअस्ति द्वारवत्यां पुर्यां कस्यचिद्गोपस्य वधूर्बन्धकी । सा ग्रामस्य दण्डनायकेन तत्पुत्रेण च समं रमते । तथा चोक्तम्

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ २.११५ ॥
न दानेन न मानेन नार्जवेन न सेवया ।
न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ॥ २.११६ ॥

यतः
गुणाश्रयं कीर्तियुतं च कान्तं
पतिं रतिज्ञं सधनं युवानम् ।
विहाय शीघ्रं वनिता व्रजन्ति
नरान्तरं शीलगुणादिहीनम् ॥ २.११७ ॥

अपरं च
न तादृशीं प्रीतिमुपैति नारी
विचित्रशय्या शयितापि कामम् ।
यथा हि दूर्वादिविकीर्णभूमौ
प्रयाति सौख्यं परकान्तिसङ्गात् ॥ २.११८ ॥

अथ कदाचित्सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति । अथ दण्डनायकोऽपि रन्तुं तत्रागतः । तमायान्तं दृष्ट्वा तत्पुत्रं कुसूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति । अनन्तरं तस्य भर्ता गोपो गोष्ठात्समागतः । तमवलोक्य गोप्योक्तम्दण्डनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ । तथा तेनानुष्ठिते गोपेन गृहमागत्य पृष्ठाकेन कार्येण दण्डनायकः समागत्यात्र स्थितः ?

सा ब्रूतेअन्यं केनापि कार्येण पुत्रस्योपरि क्रुद्धः । स च मार्यमाणोऽप्यत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्पित्रा चान्विष्यात्र न दृष्टः । अत एवायं दण्डनायकः क्रुद्ध एव गच्छति ।

ततः सा तत्पुत्रं कुषुलाद्बहिष्कृत्य दर्शितवती । तथा चोक्तम्

आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥ २.११९ ॥

अतोऽहं ब्रवीमिउतपन्नेष्वपि कार्येषु इत्यादि ।
करटको ब्रूतेअस्त्वेवम् । किन्त्वनयोर्महानन्योग्न्यनिसर्गोपजातस्नेह कथं भेदयितुं शक्यः ?

दमनको ब्रूतेउपायः क्रियताम् । तथा चोक्तम्

उपायेन जयो यादृग्रिपोस्तादृङ्न हेतिभिः ।
उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥ २.१२० ॥

करटकः पृच्छतिकथमेतत्?

दमनकः कथयति
कथा ७

कस्मिंश्चित्तरौ वायसदम्पती निवसतः । तयोश्चापृत्यानि तत्कोटरावस्थितेन कृष्णसर्पेण खादितानि । ततः पुनर्गर्भवती वायसी वायस्माहनाथ ! त्यज्यतामयं वृक्षः । अत्रावस्थितकृष्णसर्पेणावयोः सन्ततिः सततं भक्ष्यते । यतः
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥ २.१२१ ॥

वायसो ब्रूतेप्रिये ! न भेतव्यम् । वारं वारं मवैतस्य सोढः । इदानीं पुनर्न क्षन्तव्यः ।

वायस्याहकथमेतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः ।

वायसो ब्रूतेअलमनया शङ्कया । यतः

बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ २.१२२ ॥
वायसी विहस्याहकथमेतत्?

वायसः कथयति
कथा ८
अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वन्नास्ते । ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तःमृगेन्द्र ! किमर्थमेकदा बहुपशुघातः क्रियते । यदि प्रसादो भवति तदा वयमेव भवदाहाराय प्रत्यहमेकैकं पशुमुपढौकयामः ।

ततः सिंहेनोक्तम्यद्येतदभिमतं भवतां तर्हि भवतु तत् ।

ततःप्रभृत्येकैकं पशुमुपकल्पितं भक्षयन्नास्ते । अथ कदाचिद्वृद्धशशकस्य वारः समायातः । सोऽचिन्तयत्

त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया ।
पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥ २.१२३ ॥

तन्मन्दं मन्दं गच्छामि । ततः सिंहोऽपि क्षुधापीडितः कोपात्तमुवाचकुतस्त्वं विलम्ब्य समागतोऽसि ।

शशकोऽब्रवीत्देव ! नाहमपराधी । आगच्छन् पथि सिंहान्तरेण बलाद्धृतः । तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुमत्रागतोऽसिम् ।

सिंहः सकोपमाहसत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति ।

ततः शशकस्तं गृहीत्वा गभीरकूपं दर्शयितुं गतः । तत्रागत्य स्वयमेव पश्यतु स्वामीत्युक्त्वा तस्मिन् कूपजले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् । ततोऽसौ क्रोधाध्मातो दर्पात्तस्योपर्यात्मानं निक्षिप्य पञ्चत्वं गतः । अतोऽहं ब्रवीमि बुद्धिर्यस्य इत्यादि ।

वायस्याहश्रुतं मया सर्वम् । सम्प्रति यथा कर्तव्यं ब्रूहि ।

वायसोऽवदतत्रासन्ने सरसि राजपुत्रः प्रत्यहमागत्य स्नाति । स्नानसमये मदङ्गादवतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि ।

अथ कदाचित्स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम् । अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैस्तत्र तरुकोटरे कृष्णसर्पो दृष्टो व्यापादितश्च । अतोऽहं ब्रवीमिउपायेन हि यच्छक्यमितेन हि यच्छक्यमित्यादि ।

करटको ब्रूतेयद्येवं तर्हि गच्छ । शिवास्ते सन्तु पन्थानः ।

ततो दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योवाचदेव ! आत्यन्तिकं किमपि महाभयकारि कार्यं मन्यमानः समागतोऽस्मि । यतः

आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः ॥ २.१२४ ॥

अन्यच्च
भोगस्य भाजनं राजा न राजा कार्यभाजनम् ।
राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते ॥ २.१२५ ॥

तथा हि पश्य । अमात्यानामेष क्रमः ।

वरं प्राणपरित्यागः शिरसा वापि कर्तनम् ।
न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम् ॥ २.१२६ ॥

पिङ्गलकः सादरमाहअथ भवान् किं वक्तुमिच्छति ।

दमनको ब्रूतेदेव ! संजीवकस्तवोपयसदृशव्यवहारीव लक्ष्यते । तथा चास्मत्सन्निधाने श्रीमद्देवपादानां शक्तित्रयनिन्दां कृत्वा राज्यमेवाभिलषति ।

एतच्छ्रुत्वा, पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः । दमनकः पुनराहदेव ! सर्वामात्यपरित्यागं कृत्वैक एवायं यत्त्वां सर्वाधिकारी कृतः । स एव दोषः । यतः

अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः ।
सा स्त्रीस्वभावादसहा भरस्य
तयोर्द्वयोरेकतरं जहाति ॥ २.१२७ ॥

अपरं च
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात्श्रयते मदः स च मदालस्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥ २.१२८ ॥

अन्यच्च
विषदग्धस्य भक्तस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ २.१२९ ॥

किं च
यः कुर्यात्सचिवायत्तां श्रियं तद्व्यसने सति ।
सोऽन्धवज्जगतीपालः सीदेत्सञ्चारकैर्विना ॥ २.१३० ॥

सर्वकार्येषु स्वेच्छातः प्रवर्तते । तदत्र प्रमाणं स्वामी । एतं च जानाति ।

न सोऽस्ति पुरुषो लोके यो न कामयते श्रियम् ।
परस्य युवतिं रम्यां सादरं नेक्षतेऽत्र कः ॥ २.१३१ ॥

सिंहो विमृश्याहभद्र ! यद्यप्येवं तथापि संजीवकेन सह मम महान् स्नेहः । पश्य

कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ।
अशेषदोषदुष्टोऽपि कायः कस्य न वल्लभः ॥ २.१३२ ॥

अन्यच्च
अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः ।
दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥ २.१३३ ॥

दमनकः पुनरे एवाहदेव ! स एवातिदोषः, यतः

यस्मिन्नेवाधिकं चक्षुरारोहयति पार्थिवः ।
सुतेऽमात्येऽप्युदासीने स लक्ष्म्याश्रीयते जनः ॥ २.१३४ ॥

शृणु देव !
अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः ॥ २.१३५ ॥

त्वया च मूलभृत्यानपास्यायमागन्तुकः पुरस्कृतः । एतच्चानुचितं कृतम् । यतः
मूलभृत्यान् परित्यज्य नागन्तून् प्रतिमानयेत् ।
नातः परतरो दोषो राज्यभेदकरो यतः ॥ २.१३६ ॥

सिंहो ब्रूतेकिमाश्चर्यम् । मया यदभयवाचं दत्त्वानीतः संवर्धितश्च तत्कथं मह्यं द्रुह्यति ।

दमनको ब्रूतेदेव !

दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः ।
स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ २.१३७ ॥

अपरं च
स्वेदितो मर्दितश्चैव रञ्जुभिः परिवेष्टितः ।
मुक्तो द्वादशभिर्वर्षैः श्वपुच्छः प्रकृतिं गतः ॥ २.१३८ ॥

अन्यच्च
वर्धनं वा सम्मानं खलानां प्रीतये कुतः ।
फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ २.१३९ ॥

अतोऽहं ब्रवीमि
अपृष्टस्तस्य न ब्रूयाद्यश्च नेच्छेत्पराभवम् ।
एष एव सतां धर्मो विपरीतोऽसतां मतः ॥ २.१४० ॥

तथा चोक्तम्
स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं
सा स्त्री यातुविधायिनी स मतिमान् यः सद्भिरभ्यर्च्यते ।
सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते
तन्मित्रं यत्कृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ २.१४१ ॥

यदि सञ्जीवकव्यसनादितोऽविज्ञापितोऽपि स्वामी न निवर्तते, तदीदृशे भृत्ये न दोषः । तथा च

नृपः कामासक्तो गणयति न कार्ये न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव ।
ततो मानध्मातः स पतति यदा शोकगहने
तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्यविनयम् ॥ २.१४२ ॥

पिङ्गलकः स्वगतम्

न परस्यापराधेन परेषां दण्डमाचरेत् ।
आत्मनावगतं कृत्वा बध्नीयात्पूजयेच्च वा ॥ २.१४३ ॥

तथा चोक्तम्
गुणदोषावनिश्चित्य विधिनं ग्रहनिग्रहे ।
स्वनाशाय यथा न्यस्तो दर्पात्सर्पमुखे करः ॥ २.१४४ ॥

प्रकाशं ब्रूतेतदा संजीवकः किं प्रत्यादिश्यताम् ।

दमनकः ससम्भ्रममाहदेव ! मा मैवम् । एतावता मन्त्रभेदो जायते । तथा ह्युक्तम्

मन्त्रबीजमिदं गुप्तं रक्षणीयं यथा तथा ।
मनागपि न भिद्येत तद्भिन्नं न प्ररोहति ॥ २.१४५ ॥

किं च
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ २.१४६ ॥

तदवश्यं समारब्धं महता प्रयत्नेन सम्पादनीयम् । किं च

मन्त्रो योधः इवाधीरः सर्वाङ्गैः संवृतैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ २.१४७ ॥

यद्यसौ दृष्टदोषोऽपि दोषान्निवत्यं सन्धातव्यस्तदतीवानुचितम् । यतः

सकृद्दुष्टं तु यो मित्रं पुनः सन्धातुमिच्छति ।
स मृत्युरेव गृह्णाति गर्भमश्वतरी यथा ॥ २.१४८ ॥

अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः ।
पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ २.१४९ ॥

सिंहः पृच्छतिकथमेतत्?

दमनकः कथयति

कथा ९

दक्षिणसमुद्रतीरे टिट्टिभदम्पती निवसतः । तत्र चासन्नप्रसदा टिट्टिभी भर्तारमाहनाथ ! प्रसवयोग्यस्थानं निभृतमनुसन्धीयताम् ।

टिट्टिभोऽवदत्भार्ये, नन्विदमेव स्थानं प्रसूतियोग्यम् ।

सा ब्रूतेसमुद्रवेलया व्याप्यते स्थानमेतम् ।

टिट्टिभोऽवदत्किमहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः ।

टिट्टिभी विहस्याहस्वामिन् ! त्वया समुद्रेण च महदन्तरम् । अथवा

पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः ।
अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ॥ २.१५० ॥

अपि च
अनुचितकार्यारम्भः स्वजनविरोधो बलीयसा स्पर्धा ।
प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥ २.१५१ ॥

ततः कृच्छ्रेण स्वामिवचनात्मा तत्रैव प्रसूता । एतत्सर्वं श्रुत्वा समुद्रेणापि यच्छक्तिज्ञानार्थं तदण्डान्यवहृतानि । ततष्टिट्टिभी शोकार्ता भर्तारमाहनाथ ! कष्टमापतितम् । तान्यण्डानि मे नष्टानि ।

टिट्टिभोऽवदत्प्रिये ! मा भैषीः इत्युक्त्वा पक्षिणां मेलकं कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा सकलवृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्देव, समुद्रेणाहं स्वगृहावस्थितो विनापराधनेनैव निगृहीतः ।

ततस्तद्वचनमाकर्ण्य गरुत्मना प्रभुर्भगवान्नारायणः सृष्टिस्थितिप्रलयहेतुर्विज्ञप्तः । स समुद्रमण्डदानायादिदेश । ततो भगवदाज्ञां मौलौ निधाय समुद्रेण तान्यण्डानि टिट्टिभाय समर्पितानि । अतोऽहं ब्रवीमिअङ्गाङ्गिभावमज्ञात्वा इत्यादि ।

राजाहकथमसौ ज्ञातव्यो द्रोहबुद्धिरिति ।

दमनको ब्रूतेयदासौ सदर्पः शृङ्गाग्रप्रहरणाभिमुखश्चकितमिवागच्छति तदा ज्ञास्यति स्वामी । एवमुक्त्वा संजीवकसमीपं गतः । तत्र गतश्च मन्दं मन्दमुपसर्पन् विस्मितमिवात्मानमदर्शयत् । संजीवकेन सादरमुक्तम्भद्र ! कुशलं ते ।

दमनको ब्रूतेअनुजीविनां कुतः कुशलम् । यतः

सम्पत्तयः पराधीनाः सदा चित्तमनिर्वृत्तम् ।
स्वजीइवितेऽप्यविश्वासस्तेषां ये राजसेवकाः ॥ २.१५२ ॥

अन्यच्च
कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रिया ।
कः कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं
को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ २.१५३ ॥

संजीवकेनोक्तम्सखे ! ब्रूहि किमेतत्?

दमनक आहकिं ब्रवीमि मन्दभाग्यः । पश्य

मज्जन्नपि पयोराशौ लब्ध्वा सर्पावलम्बनम् ।
न मुञ्चति न चादत्ते तथा मुग्धोऽस्मि सम्प्रति ॥ २.१५४ ॥

यतः
एकत्र राजविश्वासो नश्यत्यन्यत्र बान्धवः ।
किं करोमि क्व गच्छामि पतितो दुःखसागरे ॥ २.१५५ ॥

इत्युक्त्वा दीर्घः निःश्वस्योपविष्टः । संजीवको ब्रूतेमित्र ! तथापि सविस्तरं मनोगतमुच्यताम् ।

दमनकः सुनिभृतमाहयद्यपि राजविश्वासो न कथनीयस्तथापि भवानस्मदीयप्रत्ययादागतः । मया परलोकार्थिनावश्यं तव हितमाख्येयम् । शृणु, अयं स्वामी तवोपरि विकृतबुद्धी रहस्युक्तवान् संजीवकमेव हत्वा स्वपरिवारं तर्पयामि ।

एतच्छ्रुत्वा संजीवकः परं विषादमगमत् । दमनकः पुनराहअलं विषादेन । प्राप्तकालकायमनुष्ठीयताम् । संजीवकः क्षणं विमृश्याह स्वगतम्सुष्ठु खल्विदमुच्यते । किं वा दुर्जनचेष्टितं न वेत्येतद्व्यवहारान्निर्णेतुं न शक्यते । यतः
दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा ।
कृपणानुसारि च धनं देवो गिरिजलधिवर्षी च ॥ २.१५६ ॥

कश्चिदाश्रयसौन्दर्याद्धत्ते शोभामसज्जनः ।
प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ २.१५७ ॥

आराध्यमानो नृपतिः प्रयत्नान्न तोषमायाति किमत्र चित्रम् ।
अयं त्वपूर्वप्रतिमाविशेषो यः सेव्यमानो रिपुतामुपैति ॥ २.१५८ ॥

तदयमशक्यर्थः प्रमेयः, यतः

निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनस्तु यस्य वै
कथं जनस्तं परितोषयिष्यति ॥ २.१५९ ॥

किं मयापकृतं राज्ञः । अथवा निर्निमित्तापकारिणश्च भवन्ति राजानः ।

दमनको ब्रूतेएवमेतत् । शृणु

विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कैश्चित्
साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति ।
चित्रं चित्रं किमथ चरितं नैकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ २.१६० ॥

अन्यच्च
कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ २.१६१ ॥

किं च
चन्दनतरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः ।
गुणघातिनश्च भोगे खला न च सुखान्यविघ्नानि ॥ २.१६२ ॥

मूलं भुजङ्गैः कुसुमानि भृङ्गैः
शाखाः प्लवङ्गैः शिखराणि भल्लैः ।
नास्त्येव तच्चन्दनपादपस्य
यन्नाश्रितं दुष्टतरैश्च हिंस्रैः ॥ २.१६३ ॥

अयं तावत्स्वामी वाचि मधुरो विषहृदयो ज्ञातः । यतः

दूरादुच्छ्रितपाणिराद्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः ।
अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः
को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥ २.१६४ ॥

तथा हि
पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे
निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्त्यै सृणिः ।
इत्थं तद्भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता
मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥ २.१६५ ॥

संजीवकः पुनर्निःश्वस्यकष्टं भोः ! कथमहं सस्यभक्षकः सिंहेन निपातयितव्यः ? यतः

ययोरेव समं वित्तं ययोरेव समं बलम् ।
तयोर्विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ॥ २.१६६ ॥
अयुद्धे हि यदा पश्येन्न काञ्चिधितमात्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ २.१७० ॥
अपरं च
भूम्येकदेशस्य गुणान्वितस्य
भृत्यस्य वा बुद्धिमतः प्रणाशः ।
भृत्यप्रणाशो मरणं नृपाणां
नष्टापि भूमिः सुलभा न भृत्याः ॥ २.१७७ ॥

दमनको ब्रूतेस्वामिन् ! कोऽयं नूतनो न्यायो यदरातिं हत्वा सन्तापः क्रियते ? तथा चोक्तम्

पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत् ।
प्राणच्छेदकरा राज्ञा हन्तव्या भूतिमिच्छता ॥ २.१७८ ॥

अपि च
धर्मार्थकामतत्त्वज्ञो नैकान्तकरुणो भवेत् ।
नहि हस्तस्थमप्यन्नं क्षमावान् भक्षितुं क्षमः ॥ २.१७९ ॥

किं च
क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् ।
अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ २.१८० ॥

अपरं च
राज्यलोभादहङ्कारादिच्छतः स्वामिनः पदम् ।
प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ॥ २.१८१ ॥

अन्यच्च
राजा घृणी ब्राह्मणः सर्वभक्षी
स्त्री चावज्ञा दुष्प्रकृतिः सहायः ।
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी
त्याज्या इमे यश्च कृतं न वेत्ति ॥ २.१८२ ॥

विशेषतश्च
सत्यानृता च परुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुररत्नधनागमा च
वाराङ्गनेव नृपनीतिरनेकरूपा ॥ २.१८३ ॥

इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिमापन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्टमनाः विजयतां महाराजः शुभमस्तु सर्वजगतामित्युक्त्वा यथासुखमवस्थितः ।

विष्णुशर्मोवाचसुहृद्भेदः श्रुतस्तावद्भवद्भिः ।

राजपुत्रा ऊचुःभवत्प्रसादाच्छ्रुतः । सुखिनो भूता वयम् ।

विष्णुशर्माब्रवीतपरमपीदमस्तु

सुहृद्भेदस्तावद्भवतु भवतां शत्रुनिलये
खलः कालाकृष्टः प्रलयमुपसर्पत्वहरहः ।
जनो नित्यं भूयात्सकलसुखसम्पत्तिवसतिः
कथारम्भे रम्भ्ये सततमिह बालोऽपि रमताम् ॥ २.१८४ ॥

इति हितोपदेशे सुहृद्भेदो नाम द्वितीयः
कथासङ्ग्रहः समाप्तः
ओ)०(ओ
इइइ.
विग्रहः

अथ पुनः कथारम्भकाले राजपुत्रा ऊचुःार्य ! राजपुत्रा वयम् । तद्विग्रहं श्रोतुं नः कुतूहलमस्ति । विष्णुशर्मणोक्तम्यदेवं भवद्भ्यो रोचते तत्कथयामि । विग्रहः श्रूयतां, यस्यायमाद्यः श्लोकः

हंसैः सह मयूराणां विग्रहे तुल्यविक्रमे ।
विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारिमन्दिरे ॥ ३.१ ॥

राजपुत्रा ऊचुःकथमेतत्? विष्णुशर्मा कथयति

अस्ति कर्पूरद्वीपे पद्मकेलिनामधेयं सरः । तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति । स च सर्वैर्जलचरैः पक्षिभिर्मिलित्वा पक्षिराज्येऽभिषिक्तः । यतः

यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा ।
अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ ३.२ ॥
अपरं च
प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् ।
वर्धनाद्रक्षणं श्रेयस्तदभावे सदप्यसत् ॥ ३.३ ॥

एकदासौ राजहंसैः सुविस्तीर्णकमलपर्यङ्के सुखासीनः परिवारपरिवृतस्तिष्ठति । ततः कुतश्चिद्देशादागत्य दीर्घमुखो नाम बकः प्रणम्योपविष्टः । राजोवाचदीर्घमुख ! दशान्तरादागतोऽसि । वार्तां कथय ।

स ब्रूतेदेव ! अस्ति महती वार्ता । तामाख्यातुकाम एव सत्वरमागतोऽहम् । श्रूयताम्

अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश्चरद्भिः पक्षिभिरहं दग्धारच्यमध्ये चरन्नवलोकितः । पृष्टश्चकस्त्वम् ? कुतः समागतोऽसि ?

तदा मयोक्तम्कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरोऽहं, कौतुकाद्देशान्तरं द्रष्टुमागतोऽस्मि । एतच्छ्रुत्वा पक्षिभिरुक्तमनयोर्देशयोः को देशो भद्रतरो राजा च ?

ततो मयोक्तमाः किमेवमुच्यते महदन्तरम् । यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश्च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ । अस्मद्देशे गम्यताम् ।

ततोऽस्मद्वचनमाकर्ण्य सर्वपक्षिणः सकोपा बभूवुः । तथा चोक्तम्
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ।
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ ३.४ ॥
अन्यच्च
विद्वानेवोपदेष्टव्यो नाविद्वांस्तु कदाचन ।
वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः ॥ ३.५ ॥

राजोवाचकथमेतत्?

दीर्घमुखः कथयति
कथा १

अस्ति नर्मदातीरे पर्वतोपत्यकायां विशालः शाल्मलीतरुः । तत्र निर्मितनीडकोडे पक्षिणः सुखेन निवसन्ति । अथैकदा वर्षासु नीलपटैरिव जलधरपटलैरावृते नभस्तले । धारासारैर्महती वृष्टिर्बभूव । ततो वानरांश्च तरुतलेऽवस्थितान् शीताकुलान् कम्पमानानवलोक्य, कृपया पक्षिभिरुक्तम्भो भो वानराः ! शृणुत
अस्माभिर्निर्मिता नीडाश्चञ्चुमात्राहृतैस्तृणैः ।
हस्तपादादिसंयुक्ता यूयं किमवसीदथ ॥ ३.६ ॥

तच्छ्रुत्वा वानरैर्जातामर्षैरालोचितमहो ! निर्वातनीडगर्भावस्थिताः सुखिनः पक्षिणोऽस्मान्निन्दन्ति । तद्भवतु तावद्वृष्टेरुपशमः ।

अनन्तरं शान्ते पानीयवर्षे तैर्वानरैर्वृक्षमारुह्य, सर्वे नीडा भग्नाः, तेषामण्डानि चाधः पातितानि । अतोऽहं ब्रवीमि विद्वानेवोपदेष्टव्यः इत्यादि ।

राजोवाचततस्तैः पक्षिभिः किं कृतम् ?

बकः कथयतिततस्तैः पक्षिभिः कोपादुक्तम्केनासौ राजहंसो राजा कृतः ?

ततो मयोपजातकोपेनोक्तमयं युष्मदीयो मयूरः केन राजा कृतः ?

एतच्छ्रुत्वा ते पक्षिणो मां हन्तुमुद्यताः । ततो मयापि स्वविक्रमो दर्शितः । यतः
अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ ३.७ ॥

राजा विहस्याह
आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् ।
अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥ ३.८ ॥

सुचिरं हि चरन्नित्यं क्षेत्रे सत्यमबुद्धिमान् ।
द्वीपिचर्मपरिच्छन्नो वाग्दोषाद्गर्दभो हतः ॥ ३.९ ॥

बकः पृच्छतिकथमेतत्?

राजा कथयति
कथा २

अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभोऽतिभारवहनाद्दुर्बलो मुमूर्षुरिवाभवत् । ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यकसमीपे सस्यक्षेत्रे विमुक्तः । ततो दूरात्तमवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः सत्वरं पलायन्ते ।

अथैकदा केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन धनुष्काण्डं सज्जीकृत्यानतकायेनैकान्ते स्थितम् । तं च दूराद्दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्टसस्यभक्षणजातबलो गर्दभोऽयमिति मत्वोच्चैः शब्दं कुर्वाणस्तदभिमुखं धावितः । ततस्तेन सस्यरक्षकेण चीत्कारशब्दाद्गर्दभोऽयमिति निश्चित्य, लीलयैव व्यापादितः । अतोऽहं ब्रवीमिसुचिरं हि चरन्नित्यमित्यादि ।

दीर्घमुखो ब्रूतेततः पश्चात्तैः पक्षिभिरुक्तमरे पापा दुष्टबक ! अस्माकं भूमौ चरन्नस्माकं स्वामिनमधिक्षिपसि । तन्न क्षन्तव्यमिदानीम् । इत्युक्त्वा सर्वे मां चञ्चुभिर्हत्वा, सकोपा ऊचुःपश्य रे मूर्ख ! स हंसस्तव राजा सर्वथा मृदुः । तस्य राज्याधिकारो नास्ति । यत एकान्तमृदुः करतलस्थमप्यर्थं रक्षितुमक्षमः । स कथं पृथिवीं शास्ति ? राज्यं वा तस्य किम् ? त्वं च कूपमण्डूकः । तेन तदाश्रयमुपदिशसि । शृणु

सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
यदि दैवात्फलं नास्ति च्छाया केन निवार्यते ॥ ३.१० ॥
अन्यच्च
हीनसेवा न कर्तव्या कर्तव्यो महदाश्रयः ।
पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते ॥ ३.११ ॥
अन्यच्च
महानप्यल्पतां याति निर्गुणे गुणविस्तरः ।
आधाराधेयभावेन गजेन्द्र इव दर्पणे ॥ ३.१२ ॥
किन्तु
अजा सिंहप्रसादेन वने चरति निर्भयम् ।
राममासाद्य लङ्कायां लेभे राज्यं विभीषणः ॥ ३.१३ ॥

विशेषतश्च
व्यपदेशेऽपि सिद्धिः स्यादतिशक्ते नराधिपे ।
शशिनो व्यपदेशेन शशकाः सुखमासते ॥ ३.१४ ॥

मयोक्तम्कथमेतत्?

पक्षिणः कथयन्ति
कथा ३

कदाचिद्वर्षास्वपि वृष्टेरभावात्तृषार्तो गजयूथो यूथपतिमाहनाथ ! कोऽभ्युपायोऽस्माकं जीवनाय ? नास्ति क्षुद्रजन्तूनामपि निमज्जनस्थानम् । वयं च निमज्जनस्थानाभावान्मृताः । अन्धा इव किं कुर्मः ? क्व यामः ?

ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्तीरावस्थिताः क्षुद्रशशका गजपादाहतिभिश्चूर्णिताः । अनन्तरं शिलीमुखो नाम शशकश्चिन्तयामासअनेन गजयूथेन पिपासाकुलितेन प्रत्यहमत्रागन्तव्यम् । ततो विनष्टमस्मत्कुलम् ।

ततो विजयो नाम वृद्धशशकोऽवदत्मा विषीदत । मयात्र प्रतीकारः कर्तव्यः । ततोऽसौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितम्कथं मया गजयूथनाथसमीपे स्थित्वा वक्तव्यम् । यतः

स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ।
पालयन्नपि भूपालः प्रहसन्नपि दुर्जनः ॥ ३.१५ ॥

अतोऽहं पर्वतशिखरमारुह्य यूथनाथं संवादयामि । तथानुष्ठिते सति यूथनाथ उवाचकस्त्वम् ? कुतः समायातः ?

स ब्रूतेशशकोऽहम् । भगवता चन्द्रेण भवदन्तिकं प्रेषितः ।

यूथपतिराहकार्यमुच्यताम् ।

विजयो ब्रूते
उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
सदैवावध्यभावेन यथार्थस्य हि वाचकः ॥ ३.१६ ॥

तदहं तदाज्ञया ब्रवीमि, शृणु । यदेते चन्द्रसरोरक्षकाः शशकास्त्वया निःसारितास्तदनुचितं कृतम् । ते शशकाश्चिरमस्माकं रक्षिताः । अत एव मे शशाङ्क इति प्रसिद्धिः ।

एवमुक्तवति दूते यूथपतिर्भयादिदमाहप्रणिधे ! इदमज्ञानतः कृतम् । पुनर्न तत्र गमिष्यामि ।

दूत उवाचयद्येवं तदत्र सरसि कोपात्कम्पमानं भगवन्तं शशाङ्कं प्रणम्य, प्रसाद्य च गच्छ ।

ततस्तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चन्द्रबिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः । उक्तं च तेनदेव ! अज्ञानादनेनापराधः कृतः । ततः क्षम्यताम् । नैवं वारान्तरं विधास्यते । इत्युक्त्वा प्रस्थापितः । अतो वयं ब्रूमःव्यपदेशेऽपि सिद्धिः स्यातिति ।

ओ)०(ओ

ततो मयोक्तम्स एवास्मत्प्रभू राजहंसो महाप्रतापोऽतिस्मर्थः । त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यमिति । तदाहं तैः पक्षिभिःदुष्ट ! कथमस्मद्भूमौ चरसि इत्यभिधाय राज्ञश्चित्रवर्णस्य समीपं नीतः । ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्देव ! अवधीयताम् । एष दुष्टोऽस्मद्देशे चरन्नपि देवपादानधिक्षिपति ।

राजाहकोऽयम् ? कुतः समायातः ?

ते ऊचुःहिरण्यगर्भनाम्नो राजहंसस्यानुचरः कर्पूरद्वीपादागतः ।

अथाहं गृध्रेण मन्त्रिणा पृष्टःकस्तत्र मुख्यो मन्त्री ? इति ।

मयोक्तम्सर्वशास्त्रार्थपारगः शर्वज्ञो नाम चक्रवाकः ।

गृध्रो ब्रूतेयुज्यते । स्वदेशजोऽसौ । यतः

स्वदेशजं कुलाचारविशुद्धमुपधाशुचिम् ।
मन्त्रज्ञमवसनिनं व्यभिचारविवर्जितम् ॥ ३.१७ ॥
अधीतव्यवहारार्थं मौलं ख्यातं विपश्चितम् ।
अर्थस्योत्पादकं चैव विदध्यान्मन्त्रिणं नृपः ॥ ३.१८ ॥

अत्रान्तरे शुकेनोक्तम्देव ! कर्पूरद्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव । तत्रापि देवपादानामेवाधिपत्यम् । ततो राज्ञाप्युक्तमेवमेव । यतः

राजा मत्तः शिशुश्चैव प्रमदा धनगर्वितः ।
अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यतेऽपि यत् ॥ ३.१९ ॥

ततो मयोक्तम्यदि वचनम्मात्रेणैवाधिपत्यं सिद्ध्यति । तदा जम्बूद्वीपेऽप्यस्मत्प्रभोर्हिरण्यगर्भस्य स्वाम्यमस्ति ।
शुको ब्रूतेकथमत्र निर्णयः ?

मयोक्तंसङ्ग्राम एव ।

राज्ञा विहस्योक्तम्स्वस्वामिनं गत्वा सज्जीकुरु ।

तदा मयोक्तम्स्वदूतोऽपि प्रस्थाप्यताम् ।

राजोवाचकः प्रयास्यति दौत्येन ? यत एवम्भूतो दूतः कार्यः

भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी ।
ब्राह्मणः परमर्मज्ञो दूतः स्यात्प्रतिभानवान् ॥ ३.२० ॥

गृध्रो वदतिसन्त्येव दूता बहवः, किन्तु ब्राह्मण एव कर्तव्यः । यतः,

प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति ।
कालिमा कालकूटस्य नापैतीश्वरसङ्गमात् ॥ ३.२१ ॥

राजाहततः शुक एव व्रजतु । शुक ! त्वमेवानेन सह तत्र गत्वास्मदभिलषितं ब्रूहि ।

शुको ब्रूतेयथाज्ञापयति देवः । किन्त्वयं दुर्जनो बकः । तदनेन सह न गच्छामि । तथा चोक्तम्

खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत्सीतां बन्धनं स्यान्महोदधेः ॥ ३.२२ ॥
अपरं च
न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् ।
काकसङ्गाद्धतो हंसस्तिष्ठन् गछंश्च वर्तकः ॥ ३.२३ ॥

राजोवाचकथमेतत्?

शुकः कथयति
कथा ४

अस्त्युज्जयिनीवर्त्मप्रान्तरे प्लक्षतरुः । तत्र हंसकाकौ निवसतः । कदाचित्ग्रीष्मसमये परिश्रान्तः कश्चित्पथिकस्तत्र तरुतले धनुष्काण्डं संनिधाय सुप्तः । तत्र क्षणान्तरे तन्मुखाद्वृक्षच्छायापगता । ततः सूर्यतेजसा तन्मुखं व्याप्तमवलोक्य, तद्वृक्षस्थितेन पुण्यशीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता । ततो निर्भरनिद्राशुखिना पथिभ्रमणपरिश्रान्तेन पान्थेन मुखव्यादानं कृतम् ।

अथ परसुखमसहिष्णुः स्वभावदौर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावदसौ पान्थ उत्थायोर्ध्वं निरीक्षते, तावत्तेनावलोकितो हंसः काण्डेन हतो व्यापादितः । अतोऽहं ब्रवीमिन स्थातव्यमिति ।

ओ)०(ओ

देव ! वर्तककथामपि कथयामि । श्रूयताम्
कथा ५

एकत्र वृक्षे काकवर्तुकौ सुखं निवसतः । एकदा भगवतो गरुडस्य यात्राप्रसङ्गेन सर्वे पक्षिणः समुद्रतीरं गताः । ततः काकेन सह वर्तकश्चलितः । अथ गच्छतो गोपालस्य मस्तकावस्थितदधिभाण्डाद्वारं वारं तेन काकेन दधि खाद्यते । ततो यावदसौ दधिभाण्डं भूमौ निधायोर्ध्वमवलोकते, तावत्तेन काकवर्तकौ दृष्टौ । ततस्तेन दृष्टः काकः पलायितः । वर्तकः स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तो व्यापादितः । अतोऽहं ब्रवीमिन गन्तव्यमित्यादि ।

ओ)०(ओ

ततो मयोक्तम्भ्रातः शुक ! किमेवं ब्रवीषि ? मां प्रति यथा श्रीमद्देवपादास्तथा भवानपि । शुकेनोक्तमस्त्वेवम् । किन्तु,

दुर्जनैरुच्यमानानि संमतानि प्रियाण्यपि ।
अकालकुसुमानीव भयं संजनयन्ति हि ॥ ३.२४ ॥

दुर्जनत्वं च भवतो वाक्यादेव ज्ञातम् । यदनयोर्भूपालयोर्विग्रहे भवद्वचनमेव निदानम् । पश्य

प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति ।
रथकारो निजां भार्यां सजारां शिरसाकरोत् ॥ ३.२५ ॥

राज्ञोक्तम्कथमेतत्?

शुकः कथयति
कथा ६

अस्ति यौवनश्रीनगरे मन्दमतिर्नाम रथकारः । स च स्वभार्यां बन्धकीं जानाति । किन्तु जारेण समं स्वचक्षुषा नैकस्थाने पश्यति । ततोऽसौ रथकारः अहमन्यं ग्रामं गच्छामीत्युक्त्वा चलितः । स कियद्दूरं गत्वा पुनरागत्य पर्यङ्कतले स्वगृहे निभृतं स्थितः । अथ रथकारो ग्रामान्तरं गत इत्युपजातविश्वासः स जारः सन्ध्याकाल एवागतः । पxचात्तेन जारेण समं तस्मिन् पर्यङ्के निर्भरं क्रीडन्ती, पर्यङ्कतलस्थितस्य भर्तुः किञ्चिदङ्गस्पर्शात्स्वामिनं मायाविनं विज्ञाय, मनसि सा विषण्णाभवत् ।

ततो जारेणोक्तम्किमिति त्वमद्य मया सह निर्भरं न रमसे ? विस्मितेव प्रतिभासि मे त्वम् ।

अथ तयोक्तमनभिज्ञोऽसि । योऽसौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सोऽद्य ग्रामान्तरं गतः । तेन विना सकलजनपूर्णोऽपि ग्रामो मां प्रत्यरण्यवत्प्रतिभाति । किं भावि ? तत्र परस्थाने किं खादितवान् ? कथं वा प्रसुप्तः ? इत्यस्मद्धृदयं विदीर्यते ।

जारो ब्रूतेतव किमेवंविधा स्नेहभूमी रथकारः ?

बन्धक्यवदत्रे बर्बर ! किं वदसि ? शृणु

परुषाण्यपि या प्रोक्ता दृष्टा या क्रोधचक्षुषा ।
सुप्रसन्नमुखी भर्तुः सा नारी धर्मभाजनम् ॥ ३.२६ ॥
अपरं च
नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ ३.२७ ॥
अन्यच्च
भर्ता हि परमं नार्या भूषणं भूषणैर्विना ।
एषा विरहिता तेन शोभनापि न शोभते ॥ ३.२८ ॥

त्वं च जारः पापमतिः, मनोलौल्यात्पुष्पताम्बूलसदृशः कदाचित्सेव्यसे, कदाचिन्न सेव्यसे च । स च पुनर्मे स्वामी , मां विक्रेतुं, देवेभ्यो, ब्राह्मणेभ्यो वा दातुमीश्वरः । किं बहुना ? तस्मिन् जीवति जीवामि । तन्मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते । यतः

तिस्रः कोट्योऽर्धकोटी च यानि लोमानि मानवे ।
तावत्कालं वसेत्स्वर्गे भर्तारं योऽनुगच्छति ॥ ३.२९ ॥
अन्यच्च
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् ।
तद्वद्भर्तारमादाय स्वर्गलोके महीयते ॥ ३.३० ॥
अपरं च
चितौ परिष्वज्य विचेतनं पतिं
प्रिया हि या मुञ्चति देहमात्मनः ।
कृत्वापि पापं शतलक्षमप्यसौ
पतिं गृहीत्वा सुरलोकमाप्नुयात् ॥ ३.३१ ॥
यतः
यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ ३.३२ ॥

एतत्सर्वं श्रुत्वा मन्दमतिः स रथकारःधन्योऽहं यस्येदृशी प्रियवादिनी, स्वामिवत्सला च भार्या इति मनसि निधाय, तां खट्वां स्त्रीपुरुषसहितां मूर्ध्नि कृत्वा सानन्दं ननर्त । अतोऽहं ब्रवीमि प्रयक्षेऽपि कृते दोषे इत्यादि ।

ओ)०(ओ

अतोऽहं तेन राज्ञा यथाव्यवहारं सम्पूज्य प्रस्थापितः । शुकोऽपि मम पश्चादागच्छन्नास्ते । एतत्सर्वं परिज्ञाय यथाकर्तव्यमनुसन्धीयताम् ।

चक्रवाको विहस्याहदेव ! बकेन तावद्देशान्तरमपि गत्वा यथाशक्ति राजकार्यमनुष्ठितम् । किन्तु देव स्वभाव एष मूर्खानाम् । यतः,

शतं दद्यान्न विवदेदिति विज्ञस्य संमतम् ।
विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम् ॥ ३.३३ ॥

राजाहअलमनेनातीतोपालम्भनेन । प्रस्तुतमनुसन्धीयताम् ।

चक्रवाको ब्रूतेदेव ! विजने ब्रवीमि । यतः,

वर्णाकारप्रतिध्वानैर्नेत्रवक्त्रविकारतः ।
अप्यूहन्ति मनो धीरास्तस्माद्रहसि मन्त्रयेत् ॥ ३.३४ ॥

ततो राजा मन्त्री च तत्र स्थितौ अन्येऽन्यत्र गताः । चक्रवाको ब्रूतेदेव ! अहमेवं जानाम्कस्याप्यस्मन्नियोगिनः प्रेरणया बकेनेदमनुष्ठितम् । यतः, वेद्यानामातु ¦

 


Tags: Education Sanskrit

Post navigation

Previous: Rig Veda Samhita (ऋग्वेद) Full text
Next: Niti Satakam of King Bhartri hari [Sanskrit]
Sarvarthapedia
Sarvarthapedia

Research Methodology and Investigation: Concepts, Frameworks, and Emerging Trends

Google-Search-SEO-tips
Sarvarthapedia

Search Engine Optimisation: Google SEO, GPT Optimisation and GEO Techniques

Civil Procedure Law of the Democratic People’s Republic of Korea (1976)

Knowledge Management in the Modern Era: From History to Digital Transformation

Vedic Interpretation Methodical Style: History, Principles, and Evolution  From Yaska to Aurobindo

Research on English Law: Courts, Legislation, and Case Reporting System

Vedic Etymology of Krishna Yajurveda: Nirvacana, Yajña Concepts, and Word Origins

Nagaland History and People: History, Religion, Demography, and Tribal Life

Knowledge Ecosystem Architecture: Content, People, Processes, and Culture

Halsbury’s Laws of England 5th Edition: Full Volume Index by Subject

Halsbury’s Laws of England: Foundation of Legal Research in England and Wales

Education From Ancient Traditions to Modern Scientific Learning: Hidden Benefits of Non-Education

Chemical Science, Chemistry and the Universe

Interpretation: Definition, Methods, and Modern Relevance

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger20/12/2025
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)28/10/2025
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)06/10/2025
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife05/10/2025
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
  • Civil Procedure Law of the Democratic People’s Republic of Korea (1976)
  • Knowledge Management in the Modern Era: From History to Digital Transformation
  • Vedic Interpretation Methodical Style: History, Principles, and Evolution  From Yaska to Aurobindo
  • Research on English Law: Courts, Legislation, and Case Reporting System

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates