Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
    • Supreme Court Case Notes
    • Daily Digest
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
    • Systemic-and-systematic
    • Volume One
04/04/2026
  • Sanskrit Documents

क्रियानिघण्टु – वीरपाण्ड्यभूपाल Kriya Nighantu

advtanmoy 13/01/2021 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram

श्री वीरपाण्ड्यभूपालविरचित-क्रियानिघण्टु-प्रारम्भः

श्लोकेषु यथा-

१. धातुप्रयोगपर्याये केचित्काव्योपयोगिनः। वीरपाण्ड्यक्षितीशेन वक्ष्यन्ते शिक्षितुं शिशून्॥

२. विद्यतेस्तिभवत्यत्र स्यादस्तुस्ताद्भवत्वपि। भूयाद्भवेत्तु भवताद्विद्यतां श्रीर्जगत्त्रये॥
३. सम्पद्यते जायते च जजन्त्युत्पद्यते जगत्। सम्भवत्याविर्भवति प्रादुर्भवति सर्वदा॥
४. तिष्ठत्यास्ते वर्तते च वसत्यत्र गृहे रमा। प्राणिति श्वसिति श्रेयान्यः परार्थाय जीवति॥
५. रचयति करोति कुरुते विदधाति विधत्त आदधात्यार्यः। सम्पादयति तथासावाधत्ते सृज्यते सौख्यम्॥
६. उत्पादयति सृजति च निर्वर्तयतीह साधयत्याशु। राध्नोति च साध्नोति च राध्यति साध्यति च सिध्यति प्रीतिम्॥ प्रसूयते प्रसूते च प्रसूषति सुवत्यपि। प्रसवत्यपि सौत्येषा पुत्रं पुण्यवती सती॥
७. प्रतिष्ठतेञ्चत्ययते व्रजत्ययति सर्पति। ऋच्छत्यटति यात्येति सरतीयर्ति गच्छति॥
८. हंमति द्रवति ग्रामं ग्रामत्यमतिमीमति। ससर्ति च जिहीते च चलत्यभ्रति धावति॥
९. स्रंसते भ्रंशते वस्त्रं ध्वंसतेङ्गात्पतत्यगात्। भ्रश्यते भ्रश्यति फलं डयते डीयते खगः॥
१०. आचष्टे वक्ति वाक्यं कथयति गदति व्यक्तमाभाषतेऽसौ व्याख्याति प्रब्रवीति प्रवदति रटति व्याहरत्यागृणाति।
ब्रूते सङ्कीर्तयत्यारवति लपति चोदीरयत्याह जल्पत्यत्यन्तं श्रीपते त्वं क्वणति भणति मां रक्ष रक्षेति धीमान्॥
११. नादयते नदतेऽणति वणति वनत्येष जल्पते जपति। अभिधत्तेऽभिदधातीच वादयति ह्रादयत्येनम्॥
१२. नाटयति नटति नृत्यति गायति कायति च कूर्दते किलति। क्रीडतिदीव्यतिकेलतिखेलति विहरति च खूर्दते रमते॥
१३. कक्कतिकखतिप्रहसतिगग्घतिघग्घति च तक्कति स्मयते। निक्षति चुम्बति निकस्ते तन्व्या मुखपङ्कजं प्रेयान्॥
१४. ददाति दत्ते वितरत्यर्पयत्येष यच्छति। ददतेर्पयतेचार्थं सनोति सनुतेर्थिने॥
१५. रक्षत्यवति दयते पातिपालयति प्रियं। त्रायते नयते राजा गोपायति भुनक्ति च॥
१६. नमतिनमस्यतिविष्णुं प्रणिपतति च वन्दतेऽभिवादयते। ईट्टेनौतिदनुवतिस्तुतेच शंसत्ययं स्तौति॥
१७. स्तवीती डयतिस्तोत्रैः कत्थते श्लाघते गुरून्। पणायते पनायते पणायति पनायति॥
१८. अर्चत्यर्हतिमहतिचमहयतिपूजयतियजतियजतेच। अञ्चत्यर्चयतेऽयंपूजतिमानयतिचार्हयत्यार्यान्॥
१९. पचतेपचतिश्रातिरन्धयत्यत्रपाचकः। श्रायत्यन्नं श्रपयतितथाश्रापयतिक्षणात्॥
२०. भ्रज्जतेभ्रज्जतिभ्राष्ट्रे भर्जतेचणकानयं। मज्जत्याप्लवतेस्नातिगङ्गायामवगाहते॥
२१. अश्नाति वल्भते भुङ्क्ते जेमतिप्रत्यवस्यति। धन्योऽभ्यवहरत्यन्नं संविभज्यार्थिभिस्सह॥
२२. चर्वतिप्सातिताम्बूलं भक्षयत्यत्ति खादति। धयत्याचामतिपयस्सदापिबतिचूषति॥
२३. गिलतिग्रसतिग्रासं गिरतिग्रसते तथा। वमत्युद्गिरतिच्छर्दत्यसौ छर्दयतिक्षणात्॥
२४. निष्ठीव्यतिक्षिप्यतिच निष्ठीवतिनिरस्यति। क्षिपतिस्नुह्यतिक्षिप्रमुद्गारयति भक्षितम्॥
२५. वेत्तिजानातिजानीते तत्त्वं बोधतिबोधते। प्रत्येतिचोपलभतेबुद्ध्यतेप्रतिपद्यते॥
२६. उत्प्रेक्षते च मनुतेचोत्पश्यति च मन्यते। सम्भावयत्यूहते च विचारयति तत्त्वतः॥
२७. विन्तेविमृशतितर्कतिवितर्कयत्यतिशयान्निरूपयति। परिगणयतिमीमासत्यालोचयति स्फुटं परामृशति॥
२८. आलोचयते कार्यं यो राजा स प्रतीयते सौख्यम्। चिन्तयति स्मरति हरिं ध्यायत्यध्येतिभावयत्यार्यः॥
२९. पश्यत्यालोकते कान्तामीक्षते लोचते पतिः। शृणोत्याकर्णयति च निशामयति तद्वचः॥
३०. जिघ्रतिशिङ्घतिकमलं रसयत्यास्वादयत्यसौ लेढि। आलभतेस्पृशतिपरामृशतिच्छुपतिप्रियां नाथः॥
३१. विस्फुरतिप्रस्फुरतिस्फूर्जत्यथ निर्णयत्यवस्यति च। अवधारयति च कार्यं निश्चिनुतेनिश्चिनोत्यार्यः॥
३२. सन्दिग्धे संशेते सन्देग्धिविशङ्कतेविशेते च। विचिकित्सतिविमृशत्ति चान्दोळयतिचेत्यभिन्नार्थाः॥
३३. मारयतिहन्तिविशसतिकृषतिहिनस्तिप्रमापयत्याजौ। मीनातिद्रूणातिकृणोति च निबर्हयत्यर्थार्दयते॥
३४. मीनीतेकूणीतेसंहरतितृणेढिसूदयत्येषः। कृणुतेकृणातिलुम्पतिलुम्भति शत्रून् कृणीते च॥
३५. क्षिणोतिक्षिणुते चैव क्षिणति क्षयतीत्यपि। दहतिप्रोषतिप्लोषत्योषतिप्लुष्यति द्विषम्॥
३६. आपद्यते च लभतेप्राप्नोतिच विन्दतेच विन्दति राट्। आसादयति च भवतेभावयते सम्पदं धीरः॥
३७. प्रेरयतिप्रेलयतिप्रेषयतिप्रेष्यतिप्रचोदयतिक्षिप्यति। सुवतिक्षिपतिव्यापारयतीह नुदति नुदते च॥
३८. आज्ञापयतिनियुङ्क्तेप्रहिणोतिनियोजयत्यलं क्षिपते। भजतेभजतिश्रयतेश्रयति नृपं सेवते सजति॥
३९. वृक्षं त्वक्षतितक्षतिद्यतिपुमान् तक्ष्णोतिसंवृश्चति। छिन्तेछेदयतिच्छिनत्तिच लुनात्याखण्डतेमुण्डति॥
. पाशं तोडतितोडयत्यपि खुरत्याखण्डयत्यन्वहं। कृन्तत्यत्र छिनत्तित्रुट्यतिलुनीतिदच्छ्यतीमे समाः॥
४०. अभिलषतीच्छतिवांच्छतिगृध्यतिलुभ्यतिचवष्टि कांक्षति च। स्पृहयत्याशास्तेऽर्थं कामयतेऽपेक्षतेऽर्थयते॥
४१. गर्धयतीप्सतिवरयतिगर्धतिकामयतिकांक्षते प्रेम्णा। ध्रांक्षतिवांक्षतिधीमान् ध्वांक्षतिद्रांक्षतिश्रियं मोक्षे॥
४२. मोक्षत्यपावुत्सृजतिजहात्युज्झतिमुञ्चति। मुञ्चतेमोचयत्याशु सुधीः परिहरत्यघम्॥
४३. मोक्षयतिरहतिरहयतिवर्जयतिवृणक्तिजस्यतित्यजति। कृषतेकर्षतिकृष्यतिविलिखति भूमिं सदा कृषिकः॥
४४. प्रतिषिध्यतिवारयतिप्रतिषेधति तन्निराकरोत्यल्पात्। प्रत्यादिशति च दोषात् प्रत्याचष्टेनिषेधति प्राज्ञः॥
४५. स्तभ्नातिस्तम्भते चैव स्तभ्नोतिस्तोभते तथा। स्तुभ्नाति प्रतिबध्नातिस्तुभ्नोतिस्कोभते तथा॥
४६. स्कुभ्नाति च विहन्त्येषस्कुभ्नोतिस्कम्भते रिपून्। स्कभ्नोतिस्कभ्नाति चैते शब्दास्तुल्यार्थवाचकाः॥
४७. सहतेमृष्यतिमर्षतितितिक्षतेमृष्यते तथा मृषति। मर्षयतिक्षाम्यति च क्षमतेमृषयत्यसौ सहति॥
४८. शक्यतेशक्यतिबुधस्सहयत्यपि दुर्वचः। यच्चर्चयत्यधीते च शिक्षतेपठतिश्रुतम्॥
४९. एधतेवर्धतेनन्दत्यृध्यतिस्फायते बुधः। ऋध्नोतिस्त्यायतेनित्यं नीतिमान् पुष्यति श्रियम्॥
५०. यततेव्याप्रियतेऽसौ प्रयस्यतिव्यापिपर्तिघटते च। चेष्टत ईहत एष स्फुरत्यलं स्पन्दते चक्षुः॥
५१. तुदतेतुदतिदुनोतिव्यथयतिदूःखयतिरुजतितापयति। क्लिश्नातिखेदयत्यपि पीडयति रिपून् प्रशूलयति॥
५२. धुक्षतेधिक्षते नित्यं बाधते बाधयत्यपि। शुन्धतिक्लेशयत्येष तथा वुन्धति लुण्ठति॥
५३. व्यथतेताम्यतिखिन्दतिसन्तपति च दूयते च शोचति च। ग्लायतिचम्लायतिच क्लिश्यत्याखिद्यते च सीदति च॥
५४. धूपायतेक्लेशतेचखिन्तेकर्जतिखर्जति। एते धातुप्रयोगाः खल्वीषदेकार्थसूचकाः॥
५५. मुरयति च गुणयतिगुध्यतिवटतिस्त्यायतिच वेष्टते वस्त्रम्। गुण्ठयतिमुण्डतेऽसौ वण्डत इत्येकवाचकाश्शब्दाः॥
५६. सिनुतेसिनोतिनह्यतिबध्नातिसिनातिनह्यतेजुडति। आशुयुनातियुनीतेपाशयति सिनीत एष कीलयति॥
५७. धुनोतिधुनुते पुच्छं धूनोतिधुवति स्फुटम्। धुनाती च धुनीते च कम्पयत्येष धूनुते॥
५८. आदत्ते संभजते संभजति स्वीकरोति गृह्णीते। गृह्णाति चाददाति ग्राहयति वृणीत इत्यभिन्नार्थाः॥
५९. विलोडयतिमथ्नाति खजत्यालोडयत्यपि। मथत्यब्धिं मन्थतिच व्यालोडति विलोडति॥
६०. कुप्यतिक्रुध्यतिद्वेष्टिरुष्यतिद्रुह्यतीर्ष्यति। रोषत्यसूयति तथा रोषयत्यरये भटः॥
६१. प्रावृणुतेकुम्भयतेस्तृणोतिवस्त्रैस्तृणातिकुम्भयतिच। स्तृणुतेचाच्छादयतिप्रोर्णोतिप्रोर्णुते स्वाङ्गम्॥
६२. प्रावृणोतिस्तृणीतेथ विदारयति हृद्गतं। भिनत्तिस्फोटयत्येष भिन्तेदारयतिस्फुटम्॥
६३. पिदधातिस्थगयति पिधत्ते चावृणोति च। अपिधत्ते चावृणुतेच्छादयत्यन्यदुर्गुणान्॥
६४. कम्पते वेपते त्वंगत्यजतिप्रचलत्यपि। निद्रातिच वटुश्शेतेसस्तिच स्वपितीत्यपि॥
६५. रुण्टतिलुण्टतिमुषतिच मोषति मुष्णाति चोरयत्यर्थम्। लुण्टयतिग्रोचतिच ग्लोचतिकोजतिचभोजतिक्षतबुद्धिः॥
६६. बिभेत्युद्विजते त्रस्यत्येष त्रसति शङ्कते। विद्रातिविद्रवत्येष धावत्यपि पलायते॥
६७. भ्रमतिभ्राम्यतिभ्रामयत्याघुणति। घोणतेघूर्णति तथा कीर्तिस्ते भुवनत्रये॥
६८. तंसत्यलङ्करोत्येष भूषयत्यपि भूषते प्रसाधयत्यपि गुणैर्या मण्डयति मण्डति॥
६९. द्योततेशोभतेसम्यग्भासते च प्रकाशते। भ्राजतेदीप्यतेभाति राजा राजतिराजते॥
७०. हटत्ययं कनतिच तथा शुम्भतिशुम्भते। चकास्ति रोचते चैव भ्राशते भ्लाशते बुधः॥
७१. श्च्योततिक्षरतिक्षीरं स्तनात्स्रवति सूदते। वत्सं पाति च पुष्णातिपुष्यत्युपचिनोति च॥
७२. नदतिध्वनतिरौतिकौतिस्वनतिकूजति। कवते कुवते पक्षी तथा कुञ्जति गुञ्जति॥
७३. जुगुप्सतेकुत्सयते विगर्हयतिनिन्दति। गर्हतेग्लहतेपापात्तथा बीभत्सते सुधीः॥
७४. शपतेशपतिक्रोधात्तथा शप्यतिशप्यते। आक्रोशत्याक्षिपति च दुर्जनं सकलो जनः॥
७५. जिह्रेतित्रसतेह्रीच्छत्यलं व्रीडतिलज्जते। लज्जते दुश्चरित्राणि दृष्ट्वान्यस्य स्वयंसुधीः॥
७६. आश्लिष्यत्यालिङ्गति परिरभते दिग्वधूः परिष्वजते। उपगूहति कीर्तिश्रीः कुन्देन्दुसमप्रभावी बुधः॥
७७. स्वदतेस्वादतेक्षीरं स्वर्दते रोचते नृणां। द्रायतिप्रीयते चतुर्भुक्त्वा तृपति तृप्यति॥
७८. प्रीणातितर्पयत्यलमाह्लादयतिवा तृप्नोति। सन्तोषयतिधिनोतिप्रीणयतिपृणोतिसुखयति प्रौडः॥
७९. स्निह्यतितूषतितुष्यतिहृष्यति दृष्ट्वैव मोदते कान्तम्। दृप्यतिमाद्यतिकर्वतिखर्वति सा क्षीबते च गर्वति च॥
८०. विचिनोत्यवेक्षतेऽसावन्विष्यतिमृगयते गवेषयति। अन्वेषते च मार्गतिमार्गयति च विचिनुते दोषान्॥

Read Next

  •  Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1
  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1
  • Batul Nath Sutrani (वातुलनाथ-सूत्राणि): Complete Explanation by Tanmoy Bhattacharyya

आकारयत्याह्वयति स्वमामन्त्रयते प्रियं। अथ पर्यनुयुङ्क्तेऽसावनुयुङ्क्ते स पृच्छति॥ (८१)
परिवर्तते निवर्तत एष व्यावर्तते च गत्वैव। व्याघटते च परावर्तत इत्येकवाचकाश्शब्दाः॥ (८२)
उपदेग्ध्युपदिग्धे सा लिम्पति रूषति च कुङ्कुमं छुरति। दृष्ट्वा प्राणाधीशं विकिरति विक्षिपति पादयोः कुसुमम्॥ (८३)
शक्नोति सहते जेतुं सहति प्रभवत्यलम्। तरति प्लवते ज्ञानसेतुना भववारिधिं॥ (८४)
सङ्ग्रामयते जजति च संप्रहरति युध्यते च जंजति च। आहन्ति च गदयाऽसौ युध्यति सन्तापयत्यलं शत्रून्॥ (८५)
कन्दति क्रन्दति क्लन्दत्याक्रोशति च कन्दते। क्रन्दते क्लन्दते शोचत्यलं रोदिति दुर्मतिः॥ (८६)
प्रलम्भयति बध्नाति तथा गर्धयते खलः। प्रतारयत्यल्पबुद्धींस्तदा वंचयते नरान्॥ (८८)
वरिवस्यति परिचरति च पर्यङ्क्ते सेवते भजति। शुश्रूषते च भजते श्रयते चाराधयत्युपास्ते च॥ (८९)
प्रसादयति देवेशं तथोपचरति स्फुटं। पर्यंजति तथा धीमान् प्रायेणैकार्थवाचकाः॥ (९०)
मनत्यभ्यस्यति कलास्संशीलयति शीलति। विस्रम्भते विश्वसिति प्रत्येति च सतां वचः॥ (९१)
उन्मीलयति च विलसति विकसति च स्फोटते स्फुटत्याशु। उन्मेषत्युन्मिषति प्रबुध्यते जृम्भते पद्मम्॥ (९२)
पूत्वा पवित्वा प्रशमय्य नष्ट्वा नशित्वा च विहाय हित्वा। संन्यस्य संसाय निखाय खात्वासङ्गत्यसंगम्यनिहत्यहत्वा॥ ९३
मृडित्वा मृदित्वा कुपित्वाकुषित्वामृषित्वारुषित्वाविदित्वागृहीत्वा। कृषित्वाचकृत्वामुषित्वाक्लिशित्वाखनित्वाक्षुधित्वावचित्वा लुचित्वा॥ (९४)

पंचित्वावंचित्वालुंचित्वाक्रम्यचक्रमित्वाच। तर्षित्वामर्षित्वाकर्षित्वातत्त्वतोगुधित्वा च॥ (९५)
गुम्फित्वालुम्फित्वालोभित्वा खलु लुभित्वा च। क्लिष्ट्वापक्त्वारुद्ध्वाबद्ध्वाप्रस्कन्द्यनिष्कंद्य॥ (९६)
मत्वा खात्वाज्ञात्वाग्रन्थित्वाचग्रधित्वाच। अर्तित्वानर्तित्वाप्रापय्यसमाप्यचांचित्वा॥ (९७)
पीत्वापरिव्यायविधायचोक्त्वाव्याख्यायधीत्वापरिवीयधित्वा। संव्यायसंक्षीयविजायमीत्वाविजित्यसंमन्यमनोमनित्वा॥ (९८)
विगायावमायावमत्यप्रमत्यप्रयम्यप्रयत्यप्रणत्यप्रणम्य। निमायप्रमायप्रलायप्रलीयप्रवृश्च्यप्रपायप्रहायप्रदाय॥ (९९)
दत्वादात्वादित्वाधीत्वाप्रस्थायचस्थित्वा। नत्वामित्वामीत्वासंदायविहायचारुसंमाय॥ (१००)
द्यूत्वाजलित्वावृश्चित्वाक्षूत्वावृत्वाविवृत्य च। तर्णित्वाधक्षणित्वाचप्रक्षित्यादिचोह्यताम्॥ (१०१)

इति श्रीपाण्ड्यभूपालविरचितक्रियानिघण्टुः समाप्तः।


Read Next

  •  Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1
  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1
  • Batul Nath Sutrani (वातुलनाथ-सूत्राणि): Complete Explanation by Tanmoy Bhattacharyya
Tags: Sanskrit grammar

Post navigation

Previous: पाणिनीय लिङ्गानुशासन वृत्तिः- Linganushasana Vritti
Next: District court’s original jurisdiction of civil action by an alien for a tort-28 U.S.C. § 1350 – Alien’s action for tort
Arrest
Sarvarthapedia

Latin Maxims in Criminal Law: Meaning, Usage, and Courtroom Application

Sarvarthapedia
Sarvarthapedia

Research Methodology and Investigation: Concepts, Frameworks, and Emerging Trends

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

IPS Cadre Strength 2025: State-wise Authorised Strength

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)

Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation

Bharatiya Nyaya Sanhita 2023: Sections (1-358), Punishments, and Legal Framework

Bengali Food Culture: History, Traditions, and Class Influences

West Bengal Court-Fees Act, 1970: Fees, Schedules, and Procedures

WB Land Reforms Tribunal Act 1997: History, Features, Provisions, Structure, Powers and Functions

Civil Procedure Law of the Democratic People’s Republic of Korea (1976)

Knowledge Management in the Modern Era: From History to Digital Transformation

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Naresh vs Aarti: Cheque Bouncing Complaint Filed by POA (02/01/2025)
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
Sarvarthapedia, Law and Legal Materials

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

Indian Government

IPS Cadre Strength 2025: State-wise Authorised Strength

Sarvarthapedia

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Education

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates