Surya Siddhantha of Mayasura [Sanskrit]

१.०१ : अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मन्
१.०१ : समस्तजगदाधारमूर्तये ब्रह्मणे नमः॥

१.०२ : अल्पावशिष्टे तु कृते मयो नाम महासुरः।
१.०२ : रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानमुत्तमम्॥

१.०३ : वेदाङ्गमग्र्यमखिलं ज्योतिषां गतिकारणम्।
१.०३ : आराधयन् विवस्वन्तं तपस्तेपे सुदुश्चरम्॥

१.०४ : तोषितस्तपसा तेन प्रीतस्तस्मै वरार्थिन्
१.०४ : ग्रहाणां चरितं प्रादान्मयाय सविता स्वयम्॥

१.०५ : विदितस्ते मया भावस्तोषितस्तपसा ह्यहम्।
१.०५ : दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं महत् ॥

१.०६ : न मे तेजःसहः कश्चिदाख्यातुं नास्ति मे क्षणः।
१.०६ : मदंशः पुरुषो अयं ते निःशेषं कथयिष्यति॥

१.०७ : इत्युक्त्वान्तर्दधे देवः समादिश्यांशमात्मनः।
१.०७ : स पुमान्मयमाहेदं प्रणतं प्राञ्जलिस्थितम्॥

१.०८ : शृणुष्वैकमनाः पूर्वं यदुक्तं ज्ञानमुत्तमम्।
१.०८ : युगे युगे महर्षीणां स्वयमेव विवस्वता॥


१.०९ : शास्त्रमाद्यं तदेवेदं यत्पूर्वं प्राह भास्करः।
१.०९ : युगानां परिवर्तेन कालभेदो अत्र केवलः॥

१.१० : लोकानामन्तकृत्कालः कालो अन्यः कलनात्मकः।
१.१० : स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यत् ।

१.११ : प्राणादिः कथितो मूर्तस्त्रुट्याद्यो अमूर्तसंज्ञकः।
१.११ : षड्भिः प्राणैर्विनाडी स्यात्तत्षष्ट्या नाडिका स्मृता॥

१.१२ : नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम्।
१.१२ : तत्त्रिंशता भवेन्मासः सावनो अर्कोदयैस्तथा॥

१.१३ : ऐन्दवस्तिथिभिस्तद्वत्संक्रान्त्या सौर उच्यत्
१.१३ : मासैर्द्वादशभिर्वर्षं दिव्यं तदह उच्यत् ।

१.१४ : सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् ।
१.१४ : तत्षष्टिः षड्गुणा दिव्यं वर्षमासुरमेव च् ।

१.१५ : तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम्।
१.१५ : सूर्याब्दसंख्यया द्वित्रिसागरैरयुताहतैः॥

१.१६ : सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम्।
१.१६ : कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया॥

१.१७ : युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः।
१.१७ : क्रमात्कृतयुगादीनां षष्ठांशः सन्ध्ययोः स्वकः॥

१.१८ : युगानां सप्ततिः सैका मन्वन्तरमिहोच्यत्
१.१८ : कृताब्दसंख्यास्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः॥(B ऋताब्दसंख्या)

१.१९ : ससन्धयस्ते मनवः कल्पे ज्ञेयास्चतुर्दश्
१.१९ : कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः॥

१.२० : इत्थं युगसहस्रेण भूतसंहारकारकः।
१.२० : कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती॥

१.२१ : परमायुः शतं तस्य तयाहोरात्रसंख्यया।
१.२१ : आयुषो अर्धमितं तस्य शेषकल्पो अयमादिमः॥

१.२२ : कल्पादस्माच्च मनवः षड्व्यतीताः ससन्धयः।
१.२२ : वैवस्वतस्य च मनोर्युगानां त्रिघनो गतः॥

१.२३ : अष्टाविंशाद्युगादस्माद्यातमेतत्कृतं युगम्।
१.२३ : अतः कालं प्रसंख्याय संख्यामेकत्र पिण्डयेत् ॥

१.२४ : ग्रहर्क्षदेवदैत्यादि सृजतो अस्य चराचरम्।
१.२४ : कृताद्रिवेदा दिव्याब्दाः शतघ्ना वेधसो गताः॥

१.२५ : पश्चाद्व्रजन्तो अतिजवान्नक्षत्रैः सततं ग्रहाः।
१.२५ : जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः॥

१.२६ : प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः।
१.२६ : परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जत् ।

१.२७ : शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः।
१.२७ : तेषां तु परिवर्तेन पौष्णान्ते भगणः स्मृतः॥

१.२८ : विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यत्
१.२८ : तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव त् ।

१.२९ : युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः।
१.२९ : कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिनाम्॥

१.३० : इन्दो रसाग्नित्रित्रीषुसप्तभूधरमार्गणाः।(५७७५३३३६)
१.३० : दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु॥(२२९६८३२)

१.३१ : बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः।(१७९३७०६०)
१.३१ : बृहस्पतेः खदस्राक्षिवेदषड्वह्नयस्तथा॥(३६४२२०)

१.३२ : सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः।(७०२२३७६)
१.३२ : शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः॥(१४६५६८)

१.३३ : चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युग्(४८८२०३)
१.३३ : वामं पातस्य वस्वग्नियमाश्विशिखिदस्रकाः॥(२३२२३८)

१.३४ : भानामष्टाक्षिवस्वद्रित्रिद्विद्व्यष्टशरेन्दवः।(१५८२२३७८२८)
१.३४ : भोदया भगणैः स्वैः स्वैरूनाः स्वस्वोदया युग् ।

१.३५ : भवन्ति शशिनो मासाः सूर्येन्दुभगणान्तरम्।
१.३५ : रविमासोनितास्ते तु शेषाः स्युरधिमासकाः॥

१.३६ : सावहाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः।
१.३६ : उदयादुदयं भानोर्भूमिसावनवासरः॥

१.३७ : वसुद्व्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युग्(१५७७९१७८२८)
१.३७ : चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः॥(१६०३००००८०)

१.३८ : षड्वह्नित्रिहुताशाङ्कतिथयश्चाधिमासकाः।(१५९३३३६)
१.३८ : तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः॥(२५०८२२५२)

१.३९ : खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः।(५१८४००००)
१.३९ : भवन्ति भोदया भानुभगणैरूनिताः क्वहाः॥

१.४० : अधिमासोनरात्र्यार्क्षचान्द्रसावनवासराः।
१.४० : एते सहस्रगुणिताः कल्पे स्युर्भगणादयः॥

१.४१ : प्राग्गतेः सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयः।(३८७)
१.४१ : कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः॥(२०४, ३६८)

१.४२ : खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषवः।(९००, ५३५)
१.४२ : गो अग्नयः शनिमन्दस्य पातानामथ वामतः॥(३९)

१.४३ : मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः। (२१४, ४८८)
१.४३ : कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च तथा भृगोस्॥(ड्भृगोस्तथा)(१७४, ९०३)

१.४४ : शनिपातस्य भगणाः कल्पे यमरसर्तवः।(६६२)
१.४४ : भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयोः॥

१.४५ : षण्मनूनां तु सम्पीड्य कालं तत्सन्धिभिः सह्
१.४५ : कल्पादिसन्धिना सार्धं वैवस्वतमनोस्तथा॥

१.४६ : युगानां त्रिघनं यातं तथा कृतयुगं त्विदम्।
१.४६ : प्रोज्झ्य सृष्टेस्ततः कालं पूर्वोक्तं दिव्यसंख्यया॥

१.४७ : सूर्याब्दसंख्यया ज्ञेयाः कृतस्यान्ते गता अमी।
१.४७ : खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकराः॥(१९५३७२००००)

१.४८ : अत ऊर्ध्वममी युक्ता गतकालाब्दसंख्यया।
१.४८ : मासीकृता युता मासैर्मधुशुक्लादिभिर्गतैः॥

१.४९ : पृथक्ष्थास्ते अधिमासघ्नाः सूर्यमासविभाजिताः।
१.४९ : लब्धाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः॥

१.५० : द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः।
१.५० : लब्धोनरात्रिरहिता लङ्कायामार्धरात्रिकः॥

१.५१ : सावनो द्युगणः सूर्याद्दिनमासाब्दपास्ततः।
१.५१ : सप्तभिः क्षयितः शेषः सूर्याद्यो वासरेश्वरः॥

१.५२ : मासाब्ददिनसंख्याप्तं द्वित्रिघ्नं रूपसंयुतम्।
१.५२ : सप्तोद्धृतावशेषौ तु विज्ञेयौ मासवर्षौ॥

१.५३ : यथा स्वभगनाभ्यस्तो दिनराशिः कुवासरैः।
१.५३ : विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत् ॥

१.५४ : एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ताः पूर्वयायिनः।
१.५४ : विलोमगतयः पातास्तद्वच्चक्राद्विशोधिताः॥

१.५५ : द्वादशघ्ना गुरोर्याता भगणा वर्तमानकैः।
१.५५ : राशिभिः सहिताः शुद्धाः षष्ट्या स्युर्विजयादयः॥

१.५६ : विस्तरेणैतदुदितं संक्षेपाद्व्यावहारिकम्।
१.५६ : मध्यमानयनं कार्यं ग्रहाणामिष्टतो युगात् ॥

१.५७ : अस्मिन् कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाः।
१.५७ : विना तु पातमन्दोच्चान्मेषादौ तुल्यतामिताः ॥

१.५८ : मकरादौ शशाङ्कोच्चं तत्पातस्तु तुलादिगः।
१.५८ : निरंशत्वं गताश्चान्ये नोक्तास्ते मन्दचारिणः॥

१.५९ : योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु।
१.५९ : तद्वर्गतो दशगुणात्पदं भूपरिधिर्भवेत् ॥

१.६० : लम्बज्याघ्नस्त्रिजीवाप्तः स्फुटो भूपरिधिः स्वकः।
१.६० : तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता॥

१.६१ : कलादि तत्फलं प्राच्यां ग्रहेभ्यः परिशोधयेत् ।
१.६१ : रेखाप्रतीचीसंस्थाने प्रक्षिपेत्स्युः स्वदेशजा॥

१.६२ : राक्षसालयदेवौकःशैलयोर्मध्यसूत्रगाः।
१.६२ : रोहीतकमवन्ती च यथा सन्निहितं सरः॥

१.६३ : अतीत्योन्मीलनादिन्दोः पश्चात्तद्गणितागतात् ।
१.६३ : यदा भवेत्तदा प्राच्यां स्वस्थानं मध्यतो भवेत् ॥

१.६४ : अप्राप्य च भवेत्पश्चादेवं वापि निमीलनात् ।
१.६४ : तयोरन्तरनाडीभिर्हन्याद्भूपरिधिं स्फुटम्॥

१.६५ : षष्ट्या विभज्य लब्धैस्तु योजनैः प्रागथापरैः।
१.६५ : स्वदेशः परिधौ ज्ञेयः कुर्याद्देशान्तरं हि तैः॥

१.६६ : वारप्रवृत्तिः प्राग्देशे क्षपार्धे अभ्यधिके भवेत् ।
१.६६ : तद्देशान्तरनाडीभिः पश्चादूने विनिर्दिशेत् ॥

१.६७ : इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम्।
१.६७ : गते शोध्यं युतं गम्ये कृत्वा तात्कालिको भवेत् ॥

१.६८ : भचक्रलिप्ताशीत्यंशं परमं दक्षिणोत्तरम्।
१.६८ : विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादनुष्णगुः॥

१.६९ : तन्नवांशं द्विगुणितं जीवस्त्रिगुणितं कुजः।
१.६९ : बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते चतुर्गुणम्॥

१.७० : एवं त्रिघनरन्ध्रार्करसार्कार्का दशाहताः।
१.७० : चन्द्रादीनां क्रमादुक्ता मध्यविकेषेपलिप्तिकाः॥

[स्पष्टाधिकारः]

२.०१ : अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः।
२.०१ : शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः॥

२.०२ : तद्वातरश्मिभिर्बद्धास्तैस्सव्येतरपाणिभिः। (C नद्धास्)
२.०२ : प्राक्पश्चादपकृष्यन्ते यथासन्नं स्वदिङ्मुखम्॥

२.०३ : प्रवहाख्यो मरुत्तांस्तु स्वोच्चाभिमुखमीरयेत् ।
२.०३ : पूर्वापराकृष्टास्ते गतिं यान्ति पृथग्विधाः॥(C गतीर्, पृथग्विधाम्)

२.०४ : ग्रहात्प्राग्भगणार्धस्थः प्राङ्मुखं कर्षति ग्रहम्।
२.०४ : उच्चसंज्ञो अपरार्धस्थस्तद्वत्पश्चान्मुखं ग्रहम्॥

२.०५ : स्वोच्चापकृष्टा भगणैः प्राङ्मुखं यान्ति यद्ग्रहाः। (C भगणात्)
२.०५ : तत्तेषु धनमित्युक्तमृणं पश्चान्मुखेषु च् । (तु)

२.०६ : दक्षिणोत्तरतो अप्येवं पातो राहुः स्वरंहसा।(C दक्षिणोत्तरयोर्, राहुश्च रंहसा)
२.०६ : विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात् ॥

२.०७ : उत्तराभिमुखं पातो विक्षिपत्यपरार्धगः।
२.०७ : ग्रहं प्राग्भगणार्धस्थो याम्यायामपकर्षति॥

२.०८ : बुधभार्गवयोः शीघ्रात्तद्वत्पातो यदा स्थितः। (C यथास्थितः)
२.०८ : तच्छीघ्राकर्षणात्तौ तु विक्षिप्येते यथोक्तवत् ॥

२.०९ : महत्वान्मण्डलस्यार्कः स्वल्पमेवापकृष्यत्
२.०९ : मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यत्

२.१० : भौमादयो अल्पमूर्तित्वाच्छीघ्रमन्दोच्चसञ्ज्ञकैः। (C संज्ञितैः)
२.१० : दैवतैरपकृष्यन्ते सुदूरमतिवेगिताः॥

२.११ : अतो धनर्णं सुमहत्तेषां गतिवशाद्भवेत् ।
२.११ : आकृष्यमाणास्तैरेवं व्योम्नि यान्त्यनिलाहताः॥

२.१२ : वक्रातिवक्रा विकला मन्दा मन्दतरा समा। (C वक्रानुवक्रा)
२.१२ : तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः॥

२.१३ : तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा।
२.१३ : ऋज्वीति पञ्चधा ज्ञेया या वक्रा सातिवक्रगा॥(C अन्या वक्रादिका मता)

२.१४ : तत्तद्गतिवशान्नित्यं यथा दृक्तुल्यतां ग्रहाः।
२.१४ : प्रयान्ति तत्प्रवक्ष्यामि स्फुटीकरणमादरात् ॥

२.१५ : राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धमुच्यत्
२.१५ : तत्तद्विभक्तलब्धोनमिश्रितं तद्द्वितीयकम्॥

२.१६ : आद्येनैवं क्रमात्पिण्डान् भक्त्वा लब्धोनसंयुताः।(C लब्धोनितैर्युतैः)
२.१६ : खण्डकाः स्युश्चतुर्विंशज्यार्धपिण्डाः क्रमादमी॥(C खण्डकैस्)

२.१७ : तत्त्वाश्विनो अङ्काब्धिकृता रूपभूमिधरर्तवः।(२२४, ४४९, ६९१)
२.१७ : खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः॥(८९०, ११०५, १३१५)

२.१८ : शून्यलोचनपञ्चैकाश्छिद्ररूपमुनीन्दवः।(१५२०, १७१९)
२.१८ : वियच्चन्द्रातिधृतयो गुणरन्ध्राम्बराश्विनः॥(१९१०, २०९३)

२.१९ : मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः।(२२६७, २४३१)
२.१९ : पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनः॥(२५८५, २७२८)

२.२० : रन्ध्रपञ्चाष्टकयमा वस्वद्र्यङ्कयमास्तथा।(२८५९, २९७८)
२.२० : कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयः॥(३०८४, ३१७९)

२.२१ : षट्पञ्चलोचनगुणाश्चन्द्रनेत्राग्निवह्नयः।(३२५६, ३३२१)
२.२१ : यमाद्रिवह्निज्वलना रन्ध्रशून्यार्नवाग्नयः॥(३३७२), ३४०१)

२.२२ : रूपाग्निसागरगुणा वस्वग्निकृतवह्नयः।(३४३१, ३४३८)
२.२२ : प्रोज्झ्योत्क्रमेण व्यासार्धादुत्क्रमज्यार्धपिण्डिकाः॥

२.२३ : मुनयो रन्ध्रयमला रसषट्का मुनीश्वराः।(७, २९, ६६, ११७)
२.२३ : द्व्यष्टैका रूपषड्दस्राः सागरार्थहुताशनाः।(१८२, २६१, ३५४)

२.२४ : खर्तुवेदा नवाद्र्यर्था दिङ्नागास्त्र्यर्थकुञ्जराः।(४६०, ७१०, ८५३)
२.२४ : नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराः॥(१००७, ११७१)

२.२५ : शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवः।(१३४५, १५२८)
२.२५ : नवरूपमहीध्रैका गजैकाङ्कनिशाकराः॥१७१९, १९१८)

२.२६ : गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः।(२१२३, २३३३)
२.२६ : वस्वर्णवार्थयमलास्तुरङ्गर्तुनगाश्विनः॥(२५४८, २७६७)

२.२७ : नवाष्टनवनेत्राणि पावकैकयमाग्नयः।(२९८९, ३२९३)
२.२७ : गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः॥(३४३८)

२.२८ : परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः।(१३९७)
२.२८ : तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिरुच्यत् ।(C इष्यते)

२.२९ : ग्रहं संशोध्य मन्दोच्चात्तथा शीघ्राद्विशोध्य च्
२.२९ : शेषं केन्द्रपदं तस्माद्भुजज्या कोटिरेव च् ।(C केन्द्रं पदं)

२.३० : गताद्भुजज्या विषमे गम्यात्कोटिः पदे भवेत् ।
२.३० : युग्मे तु गम्याद्बाहुज्या कोटिज्या तु गताद्भवेत् ॥(C समे)

२.३१ : लिप्तास्तत्त्वयमैर्भक्ता लब्धं ज्यापिण्डिकं गताम्।(C लब्धा ज्यापिण्डिका गताः)
२.३१ : गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः॥(२२५)

२.३२ : तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञक्(C गतसंज्ञिते)
२.३२ : स्यात्क्रमज्याविधिरयमुत्क्रमज्यास्वपि स्मृतः॥

२.३३ : ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम्।(C प्रोज्झ्यान्यत्तत्त्वयमैर्हत्वा)(२२५)
२.३३ : संख्यातत्त्वाश्विसंवर्गे संयोज्य धनुरुच्यत् ।(C संयोज्यं) (२२५)

२.३४ : रवेर्मन्दपरिध्यंशा मनवः शीतगो रदाः। (१४, ३२)
३.३४ : युग्मान्ते विषमान्ते तु नखलिप्तोनितास्तयोः॥

२.३५ : युग्मान्ते अर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः।(C खाग्निः सुरास्)(७५, ३०, ३३, १२, ४९)
२.३५ : ओजे द्व्यगा वसुयमा रदा रुद्रा गजाब्दयः॥

२.३६ : कुजादीनां अतः शीघ्रा युग्मान्ते अर्थाग्निदस्रकाः।(C ततश्शैघ्र्या)(२३५)
२.३६ : गुणाग्निचन्द्राः खनगा द्विरसाक्षीणि गोअग्नयः॥(C खागाश्च)(१३३, ७०, २६२, ३९)

२.३७ : ओजान्ते द्वित्रियमला द्विविश्वे यमपर्वताः।(C द्वित्रिकयमाः)(१३२, ७२)
२.३७ : खर्तुदस्रा वियद्वेदाः शीघ्रकर्मणि कीर्तिताः॥(२६०,४०)

२.३८ : ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता।
२.३८ : युग्मे वृत्ते धनर्णं स्यादोजादूनाधिके स्फुटम्॥ (C युग्मवृत्ते)

२.३९ : तद्गुणे भुजकोटिज्ये भगणांशविभाजित्
२.३९ : तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम्॥

२.४० : शैघ्र्यं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम्।(C शैघ्रे)
२.४० : संशोध्यं तु त्रिजीवायां कर्क्यादौ कोटिजं फलम्॥(C त्रिजीवातः)

२.४१ : तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः।
२.४१ : त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम्॥

२.४२ : लब्धस्य चापं लिप्तादिफलं शैघ्र्यमिदं स्मृतम्। (C शैघ्रम्)
२.४२ : एतदाद्ये कुजादीनां चतुर्थे चैव कर्मणि॥

२.४३ : मान्दं कर्मैकमर्केन्दोर्भौमादीनामथोच्यत्
२.४३ : शैघ्र्यं मान्दं पुनर्मान्दं शैघ्र्यं चत्वार्यनुक्रमात् ॥(C शैघ्रं)

२.४४ : मध्ये शीघ्रफलस्यार्धं मान्दमर्धफलं तथा।
२.४४ : मध्यग्रहे मन्दफलं सकलं शैघ्र्यमेव च् ।(C पुनर्मान्दं)

२.४५ : अजादिकेन्द्रे सर्वेषां शैघ्र्ये मान्दे च कर्मणि।(C मान्दे शैघ्रे)
२.४५ : धनं ग्रहाणां लिप्तादि तुलादाव्र्णमेव च् ।

२.४६ : अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर्विभाजिता।
२.४६ : भचक्रकलिकाभिस्तु लिप्ताः कर्या ग्रहे अर्कवत् ॥

२.४७ : स्वमन्दभुक्तिसंशुद्धा मध्यभुक्तिर्निशापतेः।
२.४७ : दोर्ज्यान्तरादिकं कृत्वा भुक्तावृणधनं भवेत् ॥

२.४८ : ग्रहभुक्तेः फलं कार्यं ग्रहवन्मन्दकर्मणि।
२.४८ : दोर्ज्यान्तरगुणा भुक्तिस्तत्त्वनेत्रोद्धृता पुनः॥ (२२५)

२.४९ : स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृता कलाः।]
२.४९ : कर्क्यादौ तु धनं तत्र मकरादावृणं स्मृतम्॥

२.५० : मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्चभुक्तितः।
२.५० : तच्छेशं विवरेणाथ हन्यात्त्रिज्यान्त्यकर्णयोः॥

२.५१ : चलकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम्।
२.५१ : ऋणमूने अधिके प्रोज्झ्य शेषं वक्रगतिर्भवेत् ॥

२.५२ : दूरस्थितः स्वशीघ्रोच्चाद्ग्रहः शिथिलरश्मिभिः।
२.५२ : सव्येतराकृष्ततनुर्भवेत्वक्रगतिस्तदा॥

२.५३ : कृतर्तुचन्द्रैर्वेदेन्द्रैः शून्यत्र्येकैर्गुणाष्टभिः।(१६४, १४४, १३०, ८३)
२.५३ : शररुद्रैश्चतुर्थेषु केन्द्रांशैर्भूसुतादयः॥(११५)

२.५४ : भवन्ति वक्रिणस्तैस्तु स्वैः स्वैश्चक्राद्विशोधितैः।
२.५४ : अवशिष्टांशतुल्यैः स्वैः केन्द्रैरुज्झन्ति वक्रताम्॥

२.५५ : महत्त्वाच्छीघ्रपरिधेः सप्तमे भृगुभूसुतौ।
२.५५ : अष्टमे जीवशशैजौ नवमे तु शनैश्चरः॥

२.५६ : कुजार्किगुरुपातानां ग्रहवच्छीघ्रजं फलम्।
२.५६ : वामं तृतीयकं मान्दं बुधभार्गवयोः फलम्॥

२.५७ : स्वपातोनाद्ग्रहाज्जीवा शीघ्राद्भृगुजसौम्ययोः।
२.५७ : विक्षेपघ्न्यन्त्यकर्णाप्ता विक्षेपस्त्रिज्यया विधोः॥

२.५८ : विक्षेपापक्रमैकत्वे क्रान्तिर्विक्षेपसंयुता।
२.५८ : दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता॥

२.५९ : ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः।
२.५९ : चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः॥

२.६० : क्रान्तेः क्रमोत्क्रम्मज्ये द्वे कृत्वा तत्रोत्क्रमज्यया।
२.६० : हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम्॥

२.६१ : क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता।
२.६१ : त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः॥

२.६२ : तत्कार्मुकमुदक्क्रान्तौ धनशनी पृथक्ष्थित्(C धनहानी)
२.६२ : स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृत् ।

२.६३ : याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षप्
२.६३ : विक्षेपयुक्तोनितया क्रान्त्या भानामपि स्वक् ।

२.६४ : भभोगो अष्टशतीलिप्ताः खाश्विशैलास्तथा तिथेः।
२.६४ : ग्रहलिप्ताभभोगाप्ता भानि भुक्त्या दिनादिकम्॥

२.६५ : रवीन्दुयोगलिप्ताभ्यो योगा भभोगभाजिताः।
२.६५ : गता गम्याश्च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाः॥

२.६६ : अर्कोनचन्द्रलिप्ताभ्यस्तिथयो भोगभाजिताः।
२.६६ : गता गम्याश्च षष्टिघ्न्यो नाड्यो भुक्त्यन्तरोद्धृताः॥

२.६७ : ध्रुवाणि शकुनिर्नागं तृतीयं तु चतुष्पदम्।
२.६७ : किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश्चापरार्धतः॥

२.६८ : बवादीनि ततः सप्त चराख्यकरणानि च्
२.६८ : मासे अष्टकृत्व एकैकं करणानां प्रवर्तत् ।

२.६९ : तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत् ।
२.६९ : एषा स्फुतगतिः प्रोक्ता सूर्यादीनां खचारिणाम्॥

३.०१ : शिलातले अम्बुसंशुद्धे वज्रलेपे अपि वा सम्
३.०१ : तत्र शङ्क्वङ्गुलैरिष्टैः समं मण्डलमालिखेत् ॥

३.०२ : तन्मध्ये स्थापयेच्छङ्कुं कल्पनाद्वादशाङ्गुलम्।
३.०२ : तच्छायाग्रं स्पृशेद्यत्र वृत्ते पूर्वापरार्धयोः॥

३.०३ : तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ।
३.०३ : तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा॥

३.०४ : याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा।
३.०४ : दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि॥

३.०५ : चतुरस्रं बहिः कुर्यात्सूत्रैर्मध्याद्विनिर्गतैः।
३.०५ : भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा स्मृता॥

३.०६ : प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डल्
३.०६ : उनण्डले च विषुवन्मण्डले परिकीर्त्यत् ।

३.०७ : रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा।
३.०७ : इष्टच्छायाविषुवतोर्मध्यमग्राभिधीयत् ।

३.०८ : शङ्कुच्छायाकृतियुतेर्मूलं कर्णो अस्य वर्गतः।
३.०८ : प्रोज्झ्य शङ्कुकृतिं मूलं छाया शङ्कुर्विपर्ययात् ॥

३.०९ : त्रिंशत्कृत्यो युगे भानां चक्रं प्राक्परिलम्बत्
३.०९ : तद्गुणाद्भूदिनैर्भक्ताद्द्युगणाद्यदवाप्यत् ।

३.१० : तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः।
३.१० : तत्संस्कृताद्ग्रहात्क्रान्तिच्छायाचरदलादिकम्॥

३.११ : स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वय्
३.११ : प्राक्चक्रं चलितं हीने छायार्कात्करणागत् ।

३.१२ : अन्तरांशैरथावृत्य पश्चाच्छेषैस्तथाधिक्
३.१२ : एवं विषुवती छाया स्वदेशे या दिनार्धजा॥

३.१३ : दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा॥
३.१३ : शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजित्

३.१४ : लम्बाक्षज्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा।
३.१४ : मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका॥

३.१५ : स्वकर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुज्
३.१५ : उत्तराश्चोत्तरे याम्यास्ताः सूर्यक्रान्तिलिप्तिकाः॥

३.१६ : दिग्भेदे मिश्रिताः साम्ये विश्लिष्टाश्चाक्षलिप्तिकाः।
३.१६ : ताभ्यो अक्षज्या च तद्वर्गं प्रोज्झ्य त्रिज्याकृतेः पदम्॥

३.१७ : लम्बज्यार्कगुणाक्षज्या विषुवद्भाथ लम्बया।
३.१७ : स्वाक्षार्कनतभागानां दिक्षाम्ये अन्तरमन्यथा॥

३.१८ : दिग्भेदे अपक्रमः शेषस्तस्य ज्या त्रिज्यया हता।
३.१८ : परमापक्रमज्याप्ता चापं मेषादिगो रविः॥

३.१९ : कर्क्यादौ प्रोज्झ्य चक्रार्धात्तुलादौ भार्धसंयुतात् ।
३.१९ : मृगादौ प्रोज्झ्य भगणान्मध्याह्ने अर्कः स्फुटो भवेत् ॥

३.२० : तन्मान्दमसकृद्वामं फलं मध्यो दिवाकरः।
३.२० : स्वाक्षार्कापक्रमयुतिर्दिक्षाम्ये अन्तरमन्यथा॥

३.२१ : शेषं नतांशाः सूर्यस्य तद्बाहुज्या च कोटिज्या।
३.२१ : शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम्॥

३.२२ : कोटिज्यया विभज्याप्ते छायाकर्णावहर्दल्
३.२२ : क्रान्तिज्या विषुवत्कर्णगुणाप्ता शङ्कुजीवया॥

३.२३ : अर्काग्रा स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका।
३.२३ : विषुवद्भायुतार्काग्रा याम्ये स्यादुत्तरो भुजः॥

३.२४ : विषुवत्यां विशोध्योदग्गोले स्याद्बाहुरुत्तरः।
३.२४ : विपर्ययाद्भुजो याम्यो भवेत्प्राच्यपरान्तर् ।

३.२५ : माध्याह्निको भुजो नित्यं छाया माध्याह्निकी स्मृता।
३.२५ : लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुण् ।

३.२६ : क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ।
३.२६ : सौम्याक्षोना यदा कान्तिः स्यात्तदा द्युदलश्रवः॥

३.२७ : विषुवच्छाययाभ्यस्तः कर्णो मध्याग्रयोद्धृतः।
३.२७ : स्वक्रान्तिज्या त्रिजीवाघ्नी लम्बज्याप्ताग्रमौर्विका॥

३.२८ : स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राङ्गुलादिका।
३.२८ : त्रिज्यावर्गार्धतो अग्रज्यावर्गोनाद्द्वादशाहतात् ॥

३.२९ : पुनर्द्वादशनिघ्नाच्च लभ्यते यत्फलं बुधैः।
३.२९ : शङ्कुवर्गार्धसंयुक्तविषुवद्वर्गभाजितात् ॥

३.३० : तदेव करणी नाम तां पृथक्स्थापयेद्बुधः।
३.३० : अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा॥

३.३१ : भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम्।
३.३१ : फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः॥

३.३२ : याम्ययोर्विदिशोः शङ्कुरेवं याम्योत्तरे रवौ।
३.३२ : परिभ्रमति शङ्कोस्तु शङ्कुरुत्तरयोस्तु सः॥

३.३३ : तत्त्रिज्यावर्गविश्लेषान्मूलं दृग्ज्याभिधीयत्
३.३३ : स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहत् ।

३.३४ : छायाकर्णौ तु कोणेषु यथास्वं देशकालयोः।
३.३४ : त्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता॥

३.३५ : अन्त्या नतोत्क्रमज्योना स्वहोरात्रार्धसङ्गुणा।
३.३५ : त्रिज्याभक्ता भवेच्छेदो लम्बज्याघ्नो अथ भाजितः॥

३.३६ : त्रिभज्यया भवेच्छङ्कुस्तद्वर्गं परिशोधयेत् ।
३.३६ : त्रिज्यावर्गात्पदं दृग्ज्या छायाकर्णौ तु पूर्ववत् ॥

३.३७ : अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता।
३.३७ : दृग्ज्या तद्वर्गसंशुद्धात्त्रिज्यावर्गाच्च यत्पदम्।

३.३८ : शङ्कुः स त्रिभजीवाघ्नः स्वलम्बज्याविभाजितः।
३.३८ : छेदः स त्रिज्ययाभ्यस्तः स्वाहोरात्रार्धभाजितः॥

३.३९ : उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम्।
३.३९ : उत्क्रमज्याभिरेवं स्युः प्राक्पश्चार्धनतासवः॥

३.४० : इष्टाग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता।
३.४० : क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमोद्धृता॥

३.४१ : तच्चापं भादिकं क्षेत्रं पदैस्तत्र भवो रविः।
३.४१ : इष्टे अह्नि मध्ये प्राक्पश्चाद्धृते बाहुत्रयान्तर् ।

३.४२ : मत्स्यद्वयान्तरयुतेस्त्रिस्पृक्षूत्रेण भाभ्रमः।
३.४२ : त्रिभद्युकर्णार्धगुणाः स्वाहोरात्रार्धभाजिताः॥

३.४३ : क्रमादेकद्वित्रिभज्यास्तच्चापानि पृथक्पृथक् ।
३.४३ : स्वाधो अधः परिशोध्याथ मेषाल्लङ्कोदयासवः॥

३.४४ : खागाष्टयो अर्थगो अगैकाः शरत्र्यङ्कहिमांशवः।
३.४४ : स्वदेशचरखण्डोना भवन्तीष्टोदयासवः॥

३.४५ : व्यस्ता व्यस्तैर्युताः स्वैः स्वैः कर्कटाद्यास्ततस्त्रयः।
३.४५ : उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः॥

३.४६ : गतभोग्यासवः कार्या भास्करादिष्टकालिकात् ।
३.४६ : स्वोदयासुहता भुक्तभोग्या भक्ताः खवह्निभिः॥

३.४७ : अभीष्टघटिकासुभ्यो भोग्यासून् प्रविशोधयेत् ।
३.४७ : तद्वत्तदेष्यलग्नासूनेवं यातात्तथोत्क्रमात् ॥

३.४८ : शेषं चेत्त्रिंशताभ्यस्तमशुद्धेन विभाजितम्।
३.४८ : भागैर्युक्तं च हीनं च तल्लग्नं क्षितिजे तदा॥ (C भागहीनं च युक्तं च)

३.४९ : प्राक्पश्चान्नतनाडीभिस्तस्माल्लङ्कोदयासुभिः।
३.४९ : भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् ॥

३.५० : भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च्
३.५० : सम्पीण्ड्यान्तरलग्नासूनेवं स्यात्कालसाधनम्॥

३.५१ : सूर्यादूने निशाशेषे लग्ने अर्कादधिके दिवा।
३.५१ : भचक्रार्धयुताद्भानोरधिक्के अस्तमयात्परम्॥

[चन्द्रग्रहण]

४.०१ : सार्धानि षट्सहस्राणि योजनानि विवस्वतः।
४.०१ : विष्कम्भो मण्डलस्येन्दोः सहाशीत्या चतुश्शतम्॥

४.०२ : स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ।
४.०२ : रवेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः॥

४.०३ : शशाङ्ककक्षागुणितो भाजितो वा अर्ककक्षया।
४.०३ : विष्कम्भश्चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिका॥

४.०४ : स्फुटेन्दुभुक्तिर्भूव्यासगुणिता मध्ययोद्धृता।
४.०४ : लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम्॥

४.०५ : मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम्।
४.०५ : विशोध्य लब्धं सूच्यां तु तमो लिप्तास्तु पूर्ववत् ॥

४.०६ : भानोर्भार्धे महीच्छाया तत्तुल्ये अर्कसमे अपि।
४.०६ : शशाङ्कपाते ग्रहणं कियद्भागाधिकोनक् ।

४.०७ : तुल्यौ राश्यादिभिः स्याताममावास्यान्तकालिकौ।
४.०७ : सूर्येन्दू पौर्णमास्यन्ते भार्धे भागादिकौ समौ॥

४.०८ : गतैष्यपर्वनाडीनां स्वफलेनोनसंयुतौ।
४.०८ : समलिप्तौ भवेतां तौ पातस्तात्कालिको अन्यथा॥

४.०९ : छादको भास्करस्येन्दुरधःस्थो घनवद्भवेत् ।
४.०९ : भूच्छायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसौ॥

४.१० : तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः।
४.१० : योगार्धात्प्रोज्झ्य यच्छेषं तावच्छन्नं तदुच्यत् ।

४.११ : यद्ग्राह्यमधिके तस्मिन् सकलं न्यूनमन्यथा।
४.११ : योगार्धादधिके न स्याद्विक्षेपे ग्राससम्भवः॥

४.१२ : ग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक् ।
४.१२ : विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यामुभे पद् ।

४.१३ : षष्ठ्या संगुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजित्
४.१३ : स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयोः॥

४.१४ : स्थित्यर्धनाडिकाभ्यस्ता गतयः षष्ठिभाजिताः।
४.१४ : लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः॥

४.१५ : तद्विक्षेपैः स्थितिदलं विमर्दार्धे तथा असकृत् ।
४.१५ : संसाध्यमन्यथा पाते तल्लिप्तादिफलं स्वकम्॥

४.१६ : स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत् ।
४.१६ : स्थित्यर्धनाडिकाहीने ग्रासो मोक्षस्तु संयुत् ।

४.१७ : तद्वदेव विमर्दार्धनाडिकाहीनसंयुत्
४.१७ : निमीलनोन्मीलनाख्ये भवेतां सकलग्रह् ।

४.१८ : इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोः।
४.१८ : भुक्त्यन्तरं समाहन्यात्षष्ट्याप्ताः कोटिलिप्तिकाः॥

४.१९ : भानोर्ग्रहे कोटिलिप्ता मध्यस्थित्यर्धसंगुणाः।
४.१९ : स्फुटस्थित्यर्धसंभक्ताः स्फुटाः कोटिकलाः स्मृता॥

४.२० : क्षेपो भुजस्तयोर्वर्गयुतेर्मूलं श्रवस्तु तत् ।
४.२० : मानयोगार्धतः प्रोज्झ्य ग्रासस्तात्कालिको भवेत् ॥

४.२१ : मध्यग्रहणतश्चोर्ध्वमिष्टनाडीर्विशोधयेत् ।
४.२१ : स्थित्यर्धान्मौक्षिकाच्छेषं प्राग्वच्च्छेषं तु मौक्षिक् ।

४.२२ : ग्राह्यग्राहकयोगार्धाच्छोध्याः स्वच्छन्नलिप्तिकाः।
४.२२ : ताद्वर्गात्प्रोज्झ्य तत्कालविक्षेपस्य कृतिं पदम्॥

४.२३ : कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हृताः।
४.२३ : मध्येन लिप्तास्तन्नाड्यः स्थितिवद्ग्रासनाडिकाः॥

४.२४ : नतज्या अक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम्।
४.२४ : वलनांशा सौम्ययाम्याः पूर्वापरकपालयोः॥

४.२५ : राशित्रययुताद्ग्राह्यात्क्रान्त्यंशैर्दिक्षमैर्युताः।
४.२५ : भेदे अन्तराज्ज्या वलना सप्तत्यङ्गुलभाजिता॥

४.२६ : सोन्नतं दिनमध्यार्धं दिनार्धाप्तं फलेन तु।
४.२६ : छिन्द्याद्विक्षेपमानानि तान्येषामङ्गुलानि तु॥

[सूर्यग्रहण]

५.०१ : मध्यलग्नसमे भानौ हरिजस्य न सम्भवः।
५.०१ : अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेरपि॥

५.०२ : देशकालविशेषेण यथावनतिसम्भवः।
५.०२ : लम्बनस्यापि पूर्वान्यदिग्वशाच्च तथोच्यत् ।

५.०३ : लग्नं पर्वान्तनाडीनां कुर्यात्स्वैरुदयासुभिः।
५.०३ : तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा॥

५.०४ : तदा लङ्कोदयैर्लग्नं मध्यसंज्ञं यथोदितम्।
५.०४ : तत्क्रान्त्यक्षांशसंयोगो दिक्षाम्ये अन्तरमन्यथा॥

५.०५ : शेषं नतांशास्तन्मौर्वी मध्यज्या साभिधीयत्
५.०५ : मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम्॥

५.०६ : मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम्।
५.०६ : तत्त्रिज्यावर्गविश्लेषान्मूलं शङ्कुः स दृग्गतिः॥
५.०७ : नतांशबाहुकोटिज्ये अस्फुटे दृक्क्षेपदृग्गती।
५.०७ : एकज्यार्धगतश्छेदो लब्धं दृग्गतिजीवया॥

५.०८ : मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता।
५.०८ : रवीन्द्वोर्लम्बनं ज्ञेयं प्राक्पश्चाद्घटिकादिकम्॥

५.०९ : मध्यलग्नाधिके भानौ तिथ्यन्तात्प्रविशोधयेत् ।
५.०९ : धनमूने असकृत्कर्म यावत्सर्वं स्थिरीभवेत् ॥

५.१० : दृक्क्षेपः शीततिग्मांश्वोर्मध्यभुक्त्यन्तराहतः।
५.१० : तिथिघ्नत्रिज्यया भक्तो लब्धं सावनतिर्भवेत् ॥

५.११ : दृक्क्षेपात्सप्ततिहृताद्भवेद्वावनतिः फलम्।
५.११ : अथवा त्रिज्यया भक्तात्सप्तसप्तकसङ्गुणात् ॥

५.१२ : मध्यज्यादिग्वशात्सा च विज्ञेया दक्षिणोत्तरा।
५.१२ : सेन्दुविक्षेपदिक्षाम्ये युक्ता विश्लेषितान्यथा॥

५.१३ : तया स्थितिविमर्दार्धग्रासाद्यं तु यथोदितम्।
५.१३ : प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत् ॥

५.१४ : स्थित्यर्धोनाधिकात्प्राग्वत्तिथ्या(?)न्तलाल्लम्बनं पुनः।
५.१४ : ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम्॥

५.१५ : प्राक्कपाले अधिकं मध्याद्भवेत्प्राग्रहणं यदि।
५.१५ : मौक्षिकं लम्बनं हीनं पश्चार्धे तु विपर्ययः॥

५.१६ : तदा मोक्षस्थितिदले देयं प्रग्रहणे तथा।
५.१६ : हरिजान्तरकं शोध्यं यत्रैतत्स्याद्विपर्ययः॥

५.१७ : एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता।
५.१७ : स्वे स्वे स्थितिदले योज्या विमर्दार्धे अपि चोक्तवत् ॥

[छेद्यक]

६.०१ : न छेद्यकमृते यस्माद्भेदा ग्रहणयोः स्फुटाः।
६.०१ : ज्ञायन्ते तत्प्रवक्ष्यामि छेद्यकज्ञानमुत्तमम्॥

६.०२ : सुसाधितायामवनौ बिन्दुं कृत्वा ततो लिखेत् ।
६.०२ : सप्तवर्गाङ्गुलेनादौ मण्डलं वलनाश्रितम्॥

६.०३ : ग्राह्यग्राहकयोगार्धसम्मितेन द्वितीयकम्।
६.०३ : मण्डलं तत्समासाख्यं ग्राह्यार्धेन तृतीयकम्॥

६.०४ : याम्योत्तराप्राच्यपरासाधनं पूर्ववद्दिशाम्।
६.०४ : प्रागिन्दोर्ग्रहणं पश्चान्मोक्षो अर्कस्य विपर्ययात् ॥

६.०५ : यथादिशं प्राग्रहणं वलनं हिमदीधितेः।
६.०५ : मौक्षिकं तु विपर्यस्तं विपरीतमिदं रवेः॥

६.०६ : वलनाग्रान्नयेन्मध्यं सूत्रं यद्यत्र संस्पृशेत् ।
६.०६ : तत्समासे ततो देयौ विक्षेपौ ग्रासमौक्षिकौ॥

६.०७ : विक्षेपाग्रात्पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् ।
६.०७ : तद्ग्राह्यबिन्दुसंस्पर्शाद्ग्रासमोक्षौ विनिर्दिशेत् ॥

६.०८ : नित्यशो अर्कस्य विक्षेपाः परिलेखे यथादिशम्।
६.०८ : विपरीताः शशाङ्कस्य तद्वशादथ मध्यमम्॥

६.०९ : वलनं प्राङ्मुखं देयं तद्विक्षेपैकता यदि।
६.०९ : भेदे पश्चान्मुखं देयमिन्दोर्भानोर्विपर्ययात् ॥

६.१० : वलनाग्रात्पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् ।
६.१० : मध्यसूत्रेण विक्षेपं वलनाभिमुखं नयेत् ॥

६.११ : विक्षेपाग्राल्लिखेद्वृत्तं ग्राहकार्धेन तेन यत् ।
६.११ : ग्राह्यवृत्तं समाक्रान्तं तद्ग्रस्तं तमसा भवेत् ॥

६.१२ : छेद्यकं लिखता भूमौ फलके वा विपश्चिता।
६.१२ : विपर्ययो दिशां कार्यः पूर्वापरकपालयोः॥

६.१३ : स्वच्छत्वाद्द्वादशांशो अपि ग्रस्तश्चन्द्रस्य दृश्यत्
६.१३ : लिप्तात्रयमपि ग्रस्तं तीक्ष्णत्वान्न विवस्वतः॥

६.१४ : स्वसंज्ञितास्त्रयः कार्या विक्षेपाग्रेषु बिन्दवः।
६.१४ : तत्र प्राङ्मध्ययोर्मध्ये तथा मौक्षिकमध्ययोः॥

६.१५ : लिखेन्मत्स्यौ तयोर्मध्यान्मुखपुच्छविनिःसृतम्।
६.१५ : प्रसार्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत् ॥

६.१६ : तत्र सूत्रेण विलिखेच्चापं बिन्दुत्रयस्पृशा।
६.१६ : स पन्था ग्राहकस्योक्ता येनासौ सम्प्रयास्यति॥

६.१७ : ग्राह्यग्राहकयोगार्धात्प्रोज्झ्येष्टग्रासमागतम्।
६.१७ : अवशिष्टाङ्गुलसमां शलाकां मध्यबिन्दुतः॥

६.१८ : तयोर्मार्गोन्मुखीं दद्याद्ग्रासतः प्राग्ग्रहाश्रिताम्।
६.१८ : विमुञ्चतो मोक्षदिशि ग्राहकाध्वानमेव सा॥

६.१९ : स्पृशेद्यत्र ततो वृत्तं ग्राहकार्धेन संलिखेत् ।
६.१९ : तेन ग्राह्यं यदाक्रान्तं तत्तमोग्रस्तमादिशेत् ॥

६.२० : मानान्तरार्धेन मितां शलाकां ग्रासदिङ्मुखीम्।
६.२० : निमीलनाख्यां दद्यात्सा तन्मार्गे यत्र संस्पृशेत् ॥

६.२१ : ततो ग्राहकखण्डेन प्राग्वन्मण्डलमालिखेत् ।
६.२१ : तद्ग्राह्यमण्डलयुतिर्यत्र तत्र निमीलनम्॥

६.२२ : एवमुन्मीलने मोक्षदिङ्मुखीं सम्प्रसारयेत् ।
६.२२ : विलिखेन्मण्डलं प्राग्वदुन्मीलनमथोक्तवत् ॥

६.२३ : अर्धादूने सधूंरं स्यात्कृष्णमर्धाधिकं भवेत् ।
६.२३ : विमुञ्चतः कृष्णतांरं कपिलं सकलग्रह् ।

६.२४ : रहस्यमेतद्देवानां न देयं यस्य कस्यचित् ।
६.२४ : सुपरीक्षितशिष्याय देयं वत्सरवासिन् ।

[ग्रहयुति]

७.०१ : ताराग्रहाणामन्योन्यं स्यातां युद्धसमागमौ।
७.०१ : समागमः शशाङ्केन सूर्येणास्तमनं सह् ।

७.०२ : शीघ्रे मन्दाधिके अतीतः संयोगो भवितान्यथा।
७.०२ : द्वयोः प्राग्यायिनोरेवं वक्रिणोस्तु विपर्ययात् ॥

७.०३ : प्राग्यायिन्यधिके अतीतो वक्रिण्येष्यः समागमः।
७.०३ : ग्रहान्तरकलाः स्वस्वभुक्तिलिप्ताः समाहताः॥

७.०४ : भुक्त्यन्तरेण विभजेदनुलोमविलोमयोः।
७.०४ : द्वयोर्वक्रिण्यथैकस्मिन् भुक्तियोगेन भाजयेत् ॥

७.०५ : लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति।
७.०५ : विपर्ययाद्वक्रगत्योरेकस्मिंस्तु धनव्ययौ॥

७.०६ : समालिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ।
७.०६ : विवरं तद्वदुद्धृत्य दिनादिफलमिष्यत् ।

७.०७ : कृत्वा दिनक्षपामानं तथा विक्षेपलिप्तिकाः।
७.०७ : नतोन्नतं साधयित्वा स्वकाल्लग्नवशात्तयोः॥

७.०८ : विषुवच्छाययाम्यस्तद्विक्षेपाद्द्वादशोद्धृतात् ।
७.०८ : फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम्॥

७.०९ : लब्धं प्राच्यामृणं सौम्याद्विक्षेपात्पश्चिमे धनम्।
७.०९ : दक्षिणे प्राक्कपाले स्वं पश्चिमे तु तथा क्षमः॥

७.१० : सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः।
७.१० : विकलाः स्वमृणं क्रान्तिक्षेपयोर्भिन्नतुल्ययोः॥

७.११ : नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधन्
७.११ : शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्मादाविदं स्मृतम्॥

७.१२ : तात्कालिकौ पुनः कार्यौ विक्षेपौ च तयोस्ततः।
७.१२ : दिक्तुल्ये त्वन्तरं भेदे योगः शिष्टं ग्रहान्तरम्॥

७.१३ : कुजार्किज्ञामरेज्यानां त्रिंशदर्धार्धवर्धिताः।
७.१३ : विष्कम्भाश्चन्द्रकक्षायां भृगोः षष्टिरुदाहृता॥

७.१४ : त्रिचतुः कर्णयुत्याप्तास्ते द्विघ्नास्त्रिज्यया हताः।
७.१४ : स्फुटाः स्वकर्णास्तिथ्याप्ता भवेयुर्मानलिप्तिकाः॥

७.१५ : छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत् ।
७.१५ : ग्रहः स्वदर्पणान्तःस्थः शङ्क्वग्रे सम्प्रदिश्यत् ।

७.१६ : पञ्चहस्तोच्छ्रितौ शङ्कू यथादिग्भ्रमसंस्थितौ।
७.१६ : ग्रहान्त्रेण विक्षिप्तावधो हस्तनिखातगौ॥

७.१७ : छायाकर्णौ ततो दद्याच्छायाग्राच्छङ्कुमूर्धगौ।
७.१७ : छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत् ॥

७.१८ : स्वशङ्कुमूर्धगौ व्योम्नि ग्रहौ दृक्तुल्यतामितौ।
७.१८ : उल्लेखं तारकास्पर्शाद्भेदे भेदः प्रकीर्त्यत् ।

७.१९ : युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम्।
७.१९ : अंशादूने अपसव्याख्यं युद्धमेको अत्र चेदणुह् ॥

७.२० : समागमो अंशादधिके भवतश्चेद्वलान्वितौ।
७.२० : अपसव्ये जितो युद्धे पिहितो अणुरदीप्तितान्॥

७.२१ : रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः।
७.२१ : उदक्ष्थो दीप्तिमान् स्थूलो जयी याम्ये अपि यो बली॥

७.२२ : आसन्नावप्युभौ दीप्तौ भवतश्चेत्समागमः।
७.२२ : स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहौ॥

७.२३ : उदक्ष्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी।
७.२३ : शशाङ्केनैवमेतेषां कुर्यात्संयोगसाधनम्॥

७.२४ : भावाभावाय लोकानां कल्पनेयं प्रदर्शिता।
७.२४ : स्वमार्गगाः प्रयान्त्येते दूरमन्योन्यमाश्रिताः॥

[नक्षत्रग्रहयुति]

८.०१ : प्रोच्यन्ते लिप्तिका भानां स्वभोगो अथ दशाहतः।
८.०१ : भवन्त्यतीतधिष्ण्यानां भोगलिप्तायुता ध्रुवाः॥

८.०२ : अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः।
८.०२ : अष्टार्था अब्धयो अष्टागा अङ्गागा मनवस्तथा॥

८.०३ : कृतेषवो युगरसाः शून्यवाणा वियद्रसाः।
८.०३ : खवेदाः सागरनगा गजागाः सागरर्तवः॥

८.०४ : मनवो अथ रसा वेदा वैश्वमाप्यार्धभोगगम्।
८.०४ : आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवणस्थितिः।

८.०५ : त्रिचतुः पादयोः सन्धौ श्रविष्ठा श्रवणस्य तु।
८.०५ : स्वभोगतो वियन्नागाः षट्कृतिर्यमलाश्विनः॥

८.०६ : रन्ध्राद्रयः क्रमादेषां विक्षेपाः स्वादपक्रमात् ।
८.०६ : दिङ्मासविषयाः सौम्ये याम्ये पञ्च दिशो नव् ।

८.०७ : सौम्ये रसाः खं याम्ये अगाः सौम्ये खार्कास्त्रयोदश्
८.०७ : दक्षिणे रुद्रयमलाः सप्तत्रिंशदथोत्तर् ।

८.०८ : याम्य अध्यर्धत्रिककृता नव सार्धशरेषवः।
८.०८ : उत्तरस्यां तथा षष्टिस्त्रिंशत्षट्त्रिंशदेव हि॥

८.०९ : दक्षिणे त्वर्धभागस्तु चतुर्विंशतिरुत्तर्
८.०९ : भागाः षड्विंशतिः खं च दास्रादीनां यथाक्रमम्॥

८.१० : अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तगः।
८.१० : विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थितः॥

८.११ : विक्षेपो दक्षिणे भागैः खार्णवैः स्वादपक्रमात् ।
८.११ : हुतभुग्ब्रह्महृदयौ वृषे द्वाविंशभागगौ॥

८.१२ : अष्टाभिस्त्रिंशता चैव विक्षिप्तावुत्तरेण तौ।
८.१२ : गोलं लब्ध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम्॥

८.१३ : वृषे सप्तदशे भागे यस्य याम्यो अंशकद्वयात् ।
८.१३ : विक्षेपो अभ्यधिको भिन्द्याद्रोहिण्याः शकतं तु सः॥

८.१४ : ग्रहवद्द्युनिशे भानां कुर्याद्दृक्कर्म पूर्ववत् ।
८.१४ : ग्रहमेलकवच्छेषं ग्रहभुक्त्या दिनानि च् ।

८.१५ : एष्यो हीने गृहे योगो ध्रुवकादधिके ततः।
८.१५ : विपर्ययाद्वक्रगते ग्रहे ज्ञेयः समागमः॥

८.१६ : फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढयोर्द्वयोः।
८.१६ : विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता॥

८.१७ : पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता।
८.१७ : हस्तस्य योगतारा सा श्रविष्ठायाश्च पश्चिमा॥

८.१८ : ज्येष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा।
८.१८ : भरण्याग्नेयपित्र्याणां रेवत्याश्चैव दक्षिणा॥

८.१९ : रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि।
८.१९ : यथा प्रत्यवशेषाणां स्थूला स्याद्योगतारका॥

८.२० : पूर्वस्यां ब्रह्महृदयादंशकैः पञ्चभिः स्थितः।
८.२० : प्रजापतिर्वृषान्ते असौ सौम्ये अष्टत्रिंशदंशकैः॥

८.२१ : अपांवत्सस्तु चित्राया उत्तरे अंशैस्तु पञ्चभिः।
८.२१ : बृहत्किञ्चिदतो भागैरापः षड्भिस्तथोत्तर् ।

[उदयास्त]

९.०१ : अथोदयस्तमययोः परिज्ञानं प्रकीर्त्यत्
९.०१ : दिवाकरकराक्रान्तमूर्तिनामप्लतेजसाम्॥

९.०२ : सूर्यादभ्यधिकाः पश्चादस्तं जीवकुजार्जजाः।
९.०२ : ऊनाः प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा॥

९.०३ : ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः।
९.०३ : व्रजन्त्यभ्यधिकाः पस्चादुदयं शीघ्रयायिनः॥

९.०४ : सूर्यास्तकालिकौ पश्चात्प्राच्यामुदयकालिकौ।
९.०४ : दिवा चार्कग्रहौ कुर्याद्दृक्कर्माथ ग्रहस्य तु॥

९.०५ : ततो लग्नान्तरप्राणाः कालांशाः षष्टिभाजिताः।
९.०५ : प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासवः॥

९.०६ : एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च्
९.०६ : अस्तांशा भूमिपुत्रस्य दश सप्ताधिकास्ततः॥

९.०७ : पश्चादस्तमयो अष्टाभिरुदयः प्राङ्महत्तया।
९.०७ : प्रागस्तमुदयः पश्चादल्पत्वाद्दशभिर्भृगोः॥

९.०८ : एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः।
९.०८ : वक्री शीघ्रगतिश्चार्कात्करोत्यस्त्मयोदयौ॥

९.०९ : एभ्यो अधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः।
९.०९ : भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः॥

९.१० : तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः।
९.१० : दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः॥

९.११ : तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृत्
९.११ : स्यातां कालगती ताभ्यां दिनादि गतगम्ययोः॥

९.१२ : स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः।
९.१२ : अभिजिद्ब्रह्महृदयं त्रयोदशभिरंशकैः॥

९.१३ : हस्तश्रवणफाल्गुन्यः श्रविष्टा रोहिणीमघाः।
९.१३ : चतुर्दशांशकैर्दृश्या विशाखाश्विनिदैवतम्॥

९.१४ : कृत्तिकामैत्रमूलानि सार्पं रौद्रर्क्षमेव च्
९.१४ : दृश्यन्ते पञ्चदशभिराषाढाद्द्वितयं तथा॥

९.१५ : भरणीतिष्यसौम्यानि सौक्ष्म्यात्त्रिःसप्तकांशकैः।
९.१५ : शेषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु॥

९.१६ : अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः।
९.१६ : विभज्य लब्धाः क्षेत्रांशास्तैर्दृश्यादृश्यताथवा॥

९.१७ : प्रागेषामुदयः पश्चादस्तो दृक्कर्म पूर्ववत् ।
९.१७ : गतैष्यदिवसप्राप्तिर्भानुभुक्त्या सदैव हि॥

९.१८ : अभिजिद्ब्रह्महृदयं स्वातीवैष्णववासवाः।
९.१८ : अहिर्बुध्न्यमुदक्ष्थत्वान्न लुप्यन्ते अर्करश्मिभिः॥

[चन्द्रशृङ्गोन्न]

१०.०१ : उदयास्तविधिः प्राग्वत्कर्तव्यः शीतगोरपि।
१०.०१ : भागैर्द्वादशभिः पश्चाद्दृश्यः प्राग्यात्यदृश्यताम्॥

१०.०२ : रवीन्द्वोः षड्भयुतयोः प्राग्वल्लग्नान्तरासवः।
१०.०२ : एकराशौ रवीन्द्वोश्च कार्या विवरलिप्तिकाः॥

१०.०३ : तन्नाडिकाहते भुक्ती रवीन्द्वोः षष्टिभाजित्
१०.०३ : तत्फलान्वितयोर्भूयः कर्तव्या विवरासवः॥

१०.०४ : एवं यावत्स्थिरीभूता रवीन्द्वोरन्तरासवः।
१०.०४ : तैः प्राणैरस्तमेतीन्दुः शुक्ले अर्कास्तमयात्परम्॥

१०.०५ : भगणार्धं रवेर्दत्त्वा कार्यास्तद्विवरासवः।
१०.०५ : तैः प्राणैः कृष्णपक्षे तु शीतांशुरुदयं व्रजेत् ॥

१०.०६ : अर्केन्द्वोः क्रान्तिविश्लेषो दिक्षाम्ये युतिरन्यथा।
१०.०६ : तज्ज्येन्दुरर्काद्यत्रासौ विज्ञेया दक्षिणोत्तरा॥

१०.०७ : मध्याह्नेन्दुप्रभाकर्णसङ्गुणा यदि सोत्तरा।
१०.०७ : तदार्कघ्नाक्षजीवायां शोध्या योज्या च दक्षिणा॥

१०.०८ : शेषं लम्बज्यया भक्तं लब्धो बाहुः स्वदिङ्मुखः।
१०.०८ : कोटिः शङ्कुस्तयोर्वर्गयुतेर्मूलं श्रुतिर्भवेत् ॥

१०.०९ : सूर्योनशीतगोर्लिप्ताः शुक्लं नवशतोद्धृताः।
१०.०९ : चन्द्रबिम्बाङ्गुलाभ्यस्तं हृतं द्वादशभिः स्फुटम्॥

१०.१० : दत्त्वार्कसंज्ञितं बिन्दुं ततो बाहुं स्वदिङ्मुखम्।
१०.१० : ततः पश्चान्मुखी कोटिं कर्णं कोट्यग्रमध्यगम्॥

१०.११ : कोटिकर्णयुताद्बिन्दोर्बिम्बं तात्कालिकं लिखेत् ।
१०.११ : कर्णसूत्रेण दिक्षिद्धिं प्रथमं परिकल्पयेत् ॥

१०.१२ : शुक्लं कर्णेन तद्बिम्बयोगादन्तर्मुखं नयेत् ।
१०.१२ : शुक्लाग्रयाम्योत्तरयोर्मध्ये मत्स्यौ प्रसाधयेत् ॥

१०.१३ : तन्मद्ख्यसूत्रसंयोगाद्बिन्दुत्रिस्पृग्लिखेद्धनुः॥
१०.१३ : प्राग्बिम्बं यादृगेव स्यात्तादृक्तत्र दिने शशी॥

१०.१४ : कोट्या दिक्साधनात्तिर्यक्षूत्रान्ते शृङ्गमुन्नतम्।
१०.१४ : दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य साकृतिः॥

१०.१५ : कृष्णे षड्भयुतं सूर्यं विशोध्येन्दोस्तथासितम्।
१०.१५ : दद्याद्वामं भुजं तत्र पश्चिमं मण्डलं विधोः॥

[पात]

११.०१ : एकायनगतौ स्यातां सूर्यचन्द्रमसौ यदा।
११.०१ : तद्युतौ मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः॥

११.०२ : विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिका।
११.०२ : समास्तदा व्यतीपातो भगणार्धे तयोर्युतौ॥

११.०३ : तुल्यांशुजालसम्पर्कात्तयोस्तु प्रवहाहतः।
११.०३ : तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायत् ।

११.०४ : विनाशयति पातो अस्मिन् लोकानामसकृद्यतः।
११.०४ : व्यतीपातः प्रसिद्धो अयं सञ्ज्ञाभेदेन वैधृतः॥

११.०५ : स कृष्णो दारुणवपुर्लोहिताक्षो महोदरः।
११.०५ : सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायत् ।

११.०६ : भास्करेन्द्वोर्भचक्रान्तश्चक्रार्धावधिसंस्थयोः।
११.०६ : दृक्तुल्यसाधितांशादियुक्तयोः स्वावपक्रमौ॥

११.०७ : अथौजपदगस्येन्दोः क्रान्तिर्विक्षेपसंस्कृता।
११.०७ : यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा॥

११.०८ : ऊना चेत्स्यात्तदा भावी वामं युग्मपदस्य च्
११.०८ : पदान्यत्वं विधोः क्रान्तिविक्षेपाच्चेद्विशुध्यति॥

११.०९ : क्रान्त्योर्ज्ये त्रिज्ययाभ्यस्ते परक्रान्तिज्ययोद्धृत्
११.०९ : तच्चापान्तरमर्धं वा योज्यं भाविनि शीतगौ॥

११.१० : शोध्यं चन्द्राद्गते पाते तत्सूर्यगतिताडितम्।
११.१० : चन्द्रभुक्त्या हृतं भानौ लिप्तादि शशिवत्फलम्॥

११.११ : तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात् ।
११.११ : कर्मैतदसकृत्तावद्यावद्क्रान्ती समे तयोः॥

११.१२ : क्रान्त्योः समत्वे पातो अथ प्रक्षिप्तांशोनिते विधौ।
११.१२ : हीने अर्धरात्रिकाद्यातो भावी तात्कालिके अधिक् ।

११.१३ : स्थिरीकृतार्धरात्रेन्द्वोर्द्वयोर्विवरलिप्तिकाः।
११.१३ : षष्टिघ्न्यश्चन्द्रभुक्त्याप्ताः पातकालस्य नाडिकाः॥

११.१४ : रवीन्दुमानयोगार्धं षष्ट्या सङ्गुण्य भाजयेत् ।
११.१४ : तयोर्भुक्त्यन्तरेणाप्तं स्थित्यर्धं नाडिकादि तत् ॥

११.१५ : पातकालः स्फुटो मध्यः सो अपि स्थित्यर्धवर्जितः।
११.१५ : तस्य सम्भवकालः स्यात्तत्संयुक्तो अन्त्यसांज्ञितः॥

११.१६ : आद्यन्तकालयोर्मध्यः कालो ज्ञेयो अतिदारुणः।
११.१६ : प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः॥

११.१७ : एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम्।
११.१७ : सम्भवस्तावदेवास्य सर्वकर्मविनाशकृत् ॥

११.१८ : स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः।
११.१८ : प्राप्यत सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा॥

११.१९ : रवीन्द्वोस्तुल्यता क्रान्त्योर्विषुवत्सन्निधौ यदा।
११.१९ : द्विर्भवेद्धि तदा पातः स्यादभावो विपर्ययात् ॥

११.२० : शसाङ्कार्कयुतेर्लिप्ता भभोगेन विभाजिताः।
११.२० : लब्धं सप्तदशान्तो अन्यो व्यतीपातस्तृतीयकः॥

११.२१ : सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादा भसन्धयः।
११.२१ : तदग्रभेष्वाद्यपादो गण्डान्तं नाम कीर्त्यत् ।

११.२२ : व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा।
११.२२ : एतद्भसन्धित्रितयं सर्वकर्मसु वर्जयेत् ॥

११.२३ : इत्येतत्परमं पुण्यं ज्योतिषां चरितं हितम्।
११.२३ : र्हस्यं महदाख्यातं किमन्यच्छ्रोतुमिच्छसि॥

[भूगोल]

१२.०१ : अथार्कांशसमुद्भूतं प्रणिपत्य कृताञ्जलिः।
१२.०१ : भक्त्या परमयाभ्यर्च्य पप्रच्छेदं मयासुरः॥

१२.०२ : भगवन् किम्प्रमाणा भूः किमाकारा किमाश्रया।
१२.०२ : किंविभागा कथं चात्र सप्तपातालभूमयः॥

१२.०३ : अहोरात्रव्यवस्थां च विदधाति कथं रविः।
१२.०३ : कथं पर्येति वसुधां भुवनानि विभावयन्॥

१२.०४ : देवासुराणामन्योन्यमहोरात्रं विपर्ययात् ।
१२.०४ : किमथ तत्कथं वा स्याद्भानोर्भगणपूरणात् ॥

१२.०५ : पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम्।
१२.०५ : तदेव किल सर्वत्र न भवेत्केन हेतुना॥

१२.०६ : दिनाब्दमासहोराणामधिपा न समाः कुतः।
१२.०६ : कथं पर्येति भगणः सग्रहो अयं किमाश्रयः॥

१२.०७ : भूमेरुपर्युपर्यूर्ध्वाः किमुत्सेधाः किमन्तराः।
१२.०७ : ग्रहर्क्षकक्षाः किंमात्राः स्थिताः केन क्रमेण ताः॥

१२.०८ : ग्रीष्मे तीव्रकरो भानुर्न हेमन्ते तथाविधः।
१२.०८ : कियती तत्करप्राप्तिर्मानानि कति किं च तैः॥

१२.०९ : एवं मे संशयं छिन्धि भगवन् भूतभावन्
१२.०९ : अन्यो न त्वामृते छेत्ता विद्यते सर्वदर्शिवान्॥

१२.१० : इति भक्त्योदितं श्रुत्वा मयोक्तं वाक्यमस्य हि।
१२.१० : रहस्यं परमध्यायं ततः प्राह पुनः स तम्॥

१२.११ : शृणुष्वैकमना भूत्वा गुह्यमध्यात्म संज्ञितम्।
१२.११ : प्रवक्ष्याम्यतिभक्तानां नादेयं विद्यते मम् ।

१२.१२ : वासुदेवः परं ब्रह्म तन्मूर्तिः पुरुषः परः।
१२.१२ : अव्यक्तो निर्गुणः शान्तः पञ्चविंशात्परो अव्ययः॥

१२.१३ : प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः।
१२.१३ : सङ्कर्षणो अपः सृष्ट्वादौ तासु वीर्यमवासृजत् ॥

१२.१४ : तदण्डमभवद्धैमं सर्वत्र तमसावृतम्।
१२.१४ : तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः॥

१२.१५ : हिरण्यगर्भो भगवानेष छन्दसि पठ्यत्
१२.१५ : आदित्यो ह्यादिभूतत्वात्प्रसूत्या सूर्य उच्यत् ।

१२.१६ : परं ज्योतिस्तमः पारे सूर्यो अयं सवितेति च्
१२.१६ : पर्येति भुवनानेष भावयन् भूतभावनः॥

१२.१७ : प्रकाशात्मा तमोहन्ता महानित्येष विश्रुतः।
१२.१७ : ऋचो अस्य मण्डलं सामान्युस्त्रामूर्तिर्यजूंषि च् ।

१२.१८ : त्रयीमहो अयं भगवाण्कालात्मा कालकृद्विभुः।
१२.१८ : सर्वात्मा सर्वगः सूक्ष्मः सर्वमस्मिन् प्रतिष्ठितम्॥

१२.१९ : रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम्।
१२.१९ : छन्दांस्यश्वाः सप्त युक्ताः पर्यटत्येष सर्वदा॥

१२.२० : त्रिपादममृतं गुह्यं पादो अयं प्रकटो अभवत् ।
१२.२० : सो अहङ्कारं जगत्सृष्ट्यै ब्रह्माणमसृजत्प्रभुः॥

१२.२१ : तस्मै वेदान् वरान् दत्त्वा सर्वलोकपितामहम्।
१२.२१ : प्रतिष्ठाप्याण्डमध्ये अथ स्वयं पर्येति भावयन्॥

१२.२२ : अथ सृष्ट्यां मनश्चक्रे ब्रह्माहङ्कारमूर्तिभृत् ।
१२.२२ : मनसश्चन्द्रमा जज्ञे सूर्यो अक्ष्णोस्तेजसां निधिः॥

१२.२३ : मनसः खं ततो वायुरग्निरापो धरा क्रमात् ।
१२.२३ : गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिर् ।

१२.२४ : अग्नीषोमौ भानुचन्द्रौ ततस्त्वङ्गारकादयः।
१२.२४ : तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिर् ।

१२.२५ : पुनर्द्वादशधात्मानं व्यभजद्राशिसञ्ज्ञकम्।
१२.२५ : नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी॥

१२.२६ : ततश्चराचरं विश्वं निर्ममे देवपूर्वकम्।
१२.२६ : ऊर्ध्वमध्याधरेभ्यो अथ स्रोतोभ्यः प्रकृतीः सृजन्॥

१२.२७ : गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात् ।
१२.२७ : विभागं कल्पयामास यथास्वं वेददर्शनात् ॥

१२.२८ : ग्रहनक्षत्रतारानां भूमेर्विश्वस्य वा विभुः।
१२.२८ : देवासुरमनुष्याणां सिद्धानां च यथाक्रमम्॥

१२.२९ : ब्रह्माण्डमेतत्सुषिरं तत्रेदं भूर्भुवादिकम्।
१२.२९ : कटाहद्वितयस्येव सम्पुटं गोलकाकृति॥

१२.३० : ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयत्
१२.३० : तन्मध्ये भ्रमणं भानामधो अधः क्रमशस्तथा॥

१२.३१ : मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः।
१२.३१ : परिभ्रमन्त्यधोअधःस्थाः सिद्ध्हविद्याधरा घनाः॥

१२.३२ : मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति।
१२.३२ : बिभ्रानः परमां शक्तिं ब्रह्मणो धारणात्मकाम्॥

१२.३३ : तदन्तरपुटाः सप्त नागासुरसमाश्रयाः।
१२.३३ : दिव्यौषधिरसोपेता रम्याः पातालभूमयः॥

१२.३४ : अनेकरत्ननिचयो जाम्बूनदमयो गिरिः।
१२.३४ : भूगोलमध्यगो मेरुरुभयत्र विनिर्गतः॥

१२.३५ : उपरिष्टात्स्थितास्तस्य सेन्द्रा देवा महर्षयः।
१२.३५ : अधस्तादसुरास्तद्वद्द्विषन्तो अन्योन्यमाश्रिताः॥

१२.३६ : ततः समन्तात्परिधिः क्रमेणायं महार्णवः।
१२.३६ : मेखलेव स्थितो धात्र्या देवासुरविभागकृत् ॥

१२.३७ : समन्तान्मेरुमध्यात्तु तुल्यभागेषु तोयधेः।
१२.३७ : द्वीपिषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः॥

१२.३८ : भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता।
१२.३८ : भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा॥

१२.३९ : याम्यायां भारते वर्षे लङ्का तद्वन्महापुरी।
१२.३९ : पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता॥

१२.४० : उदक्सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता।
१२.४० : तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः॥

१२.४१ : भूवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः।
१२.४१ : ताभ्यश्चोत्तरगो मेरुस्तावानेव सुराश्रयः॥

१२.४२ : तासामुपरिगो याति विषुवस्थो दिवाकरः।
१२.४२ : न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यत् ।

१२.४३ : मेरोरुभयतो मध्ये ध्रुवतारे नभः स्थित्
१२.४३ : निरक्षदेशसंस्थानामुभये क्षितिजाश्रय् ।

१२.४४ : अतो नाक्षत्रोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः।
१२.४४ : नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा।

१२.४५ : मेषादौ देवभागस्थे देवानां याति दर्शनम्।
१२.४५ : असुराणां तुलादौ तु सूर्यस्तद्भागसञ्चरः॥

१२.४६ : अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः।
१२.४६ : देवभागे सुराणां तु हेमन्ते मन्दतान्यथा॥

१२.४७ : देवासुरा विषुवति क्षितिजस्थं दिवाकरम्।
१२.४७ : पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षप् ।

१२.४८ : मेषादावुदितः सूर्यस्त्रीन् राशीनुदगुत्तरम्।
१२.४८ : सञ्चरन् प्रागहर्मध्यं पूरयेन्मेरुवासिनाम्॥

१२.४९ : कर्क्यादीन् सञ्चरंश्तद्वदह्नः पश्चार्धमेव सः।
१२.४९ : तुलादींस्त्रीन्मृगादींश्च तद्वदेव सुरद्विषाम्॥

१२.५० : अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात् ।
१२.५० : अहोरात्रप्रमाणं च भानोर्भगणपूरणात् ॥

१२.५१ : दिनक्षपार्धमेतेषामयनान्ते विपर्ययात् ।
१२.५१ : उपर्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः॥

१२.५२ : अन्ये अपि समसूत्रस्था मन्यन्ते अधः परस्परम्।
१२.५२ : भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः॥

१२.५३ : सर्वत्रैव महीगोले स्वस्थानमुपरि स्थितम्।
१२.५३ : मन्यन्ते खे यतो गोलस्तस्य क्वोर्धवं क्व वाधः॥

१२.५४ : अल्पकायतया लोकाः स्वस्थानात्सर्वतो मुखम्।
१२.५४ : पश्यन्ति वृत्तामप्येतां चक्राकारां वसुन्धराम्॥

१२.५५ : सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम्।
१२.५५ : उपरिष्टाद्भगोलो अयं व्यक्षे पश्चान्मुखः सदा॥

१२.५६ : अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वदी तथा।
१२.५६ : हानिवृद्धी सदा वामं सुरासुरविभागयोः॥

१२.५७ : मेषादौ तु सदा वृद्धिरुदगुत्तरतो अधिका।
१२.५७ : देवांशे च क्षपाहानिर्विपरीतं तथासुर् ।

१२.५८ : तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभ्
१२.५८ : देशक्रान्तिवशान्नित्यं तद्विज्ञानं पुरोदितम्॥

१२.५९ : भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम्।
१२.५९ : अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः॥

१२.६० : परमापक्रमादेवं योजनानि विशोधयेत् ।
१२.६० : भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः॥

१२.६१ : अयनान्ते विलोमेन देवासुरविभागयोः।
१२.६१ : नाडीषष्ट्या सकृदहर्निशाप्यस्मिन् सकृत्तथा॥

१२.६२ : तदन्तरे अपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः।
१२.६२ : परतो विपरीतो अयं भगोलः परिवर्तत् ।

१२.६३ : ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः।
१२.६३ : धनुर्मृगस्थः सविता देवभागे न दृश्यत् ।

१२.६४ : तथा चासुरभागे तु मिथुने कर्कटे स्थितः।
१२.६४ : नष्टच्छाया महीवृत्तपादे दर्शनमादिशेत् ॥

१२.६५ : एकज्यापक्रमानीतैर्योजनैः परिवर्जित्
१२.६५ : भूमिकक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजनैः॥

१२.६६ : धनुर्मृगालिकुम्भेषु संस्थितो अर्को न दृश्यत्
१२.६६ : देवभागे असुराणां तु वृषाद्ये भचतुष्टय् ।

१२.६७ : मेरौ मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम्।(ड्-चकार्धे)
१२.६७ : सकृदेवोदितं तद्वदसुराश्च तुलादिगम्॥

१२.६८ : भूमण्डलात्पञ्चदशे भागे देवे अथ वासुर्
१२.६८ : उपरिष्टाद्व्रजत्यर्कः सौम्ययाम्यायनान्तगः॥

१२.६९ : तदन्तरालयोश्च्छाया याम्योदक्सम्भवत्यपि।
१२.६९ : मेरोरभिमुखं याति परतः स्वविभागयोः॥

१२.७० : भद्राश्वोपरिगः कुर्याद्भारते तूदयं रविः।
१२.७० : रात्र्यर्धं केतुमाले तु कुरावस्तमयं तदा॥

१२.७१ : भारतादिषु वर्षेषु तद्वदेव परिभ्रमन्।
१२.७१ : मध्योदयार्धरात्र्यस्तकालान् कुर्यात्प्रदक्षिणम्॥

१२.७२ : ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः।
१२.७२ : निरक्षाभिमुखं यातुर्विपरीते नतोन्नत् ।

१२.७३ : भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः।
१२.७३ : पर्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम्॥

१२.७४ : सकृदुद्गतमब्दार्धं पश्यन्त्यर्कं सुरासुराः।
१२.७४ : पितरः शशिगाः पक्षं स्वदिनं च नरा भुवि॥

१२.७५ : उपरिष्टस्य महती कक्षाल्पाधःस्थितस्य च्
१२.७५ : महत्या कक्षया भागा महान्तो अल्पास्तथाल्पया॥

१२.७६ : कालेनाल्पेन भगणं भुङ्क्ते अल्पभ्रमणाश्रितः।
१२.७६ : ग्रहः कालेन महता मण्डले महति भ्रमन्॥

१२.७७ : स्वल्पयातो बहून् भुङ्क्ते भगणान् शीतदीधितिः।
१२.७७ : महत्या कक्षया गच्छन् ततः स्वल्पं शनैश्चरः॥

१२.७८ : मन्दादधः क्रमेण स्युश्चतुर्था दिवसाधिपाः।
१२.७८ : वर्षाधिपतयस्तद्वत्तृतीयाश्च प्रकीर्तिताः॥

१२.७९ : ऊर्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः।
१२.७९ : होरेशाः सूर्यतनयादधोअधः क्रमशस्तथा॥

१२.८० : भवेद्भकक्षा तीक्ष्णांशोर्भ्रमणं षष्टिताडितम्।
१२.८० : सर्वोपरिष्टाद्भ्रमति योजनैस्तैर्भमण्डलम्॥

१२.८१ : कल्पोक्तचन्द्रभगणा गुणिताः शशिकक्षया।
१२.८१ : आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवेः॥

१२.८२ : सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत् ।
१२.८२ : कुवासरैर्विभज्याह्नः सर्वेषां प्राग्गतिः स्मृता॥

१२.८३ : भुक्तियोजनजा सङ्ख्या सेन्दोर्भ्रमणसङ्गुणा।
१२.८३ : स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिका॥

१२.८४ : कक्षा भूकर्णगुणिता महीमण्डलभाजिता।
१२.८४ : तत्कर्णा भूमिकर्णोना ग्रहोच्च्यं स्वं दलीकृताः॥

१२.८५ : खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः।(३२४३०)
१२.८५ : ज्ञशीघ्रस्याङ्कखद्वित्रित्कृतशून्येन्दवस्तथा॥(१०४३२०९)

१२.८६ : शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः।(२६६४६३७)
१२.८६ : ततो अर्कबुधशुक्राणां खखार्थैकसुरार्णवाः॥(४३३१५००)

१२.८७ : कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः।(८१४६९०९)
१२.८७ : चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः॥(३८३२८४८४)

१२.८८ : कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः।(५१३७५७६४)
१२.८८ : स्वर्भानोर्वेदतर्काष्टद्विशैलार्थखकुञ्जराः॥(८०५७२८६४)

१२.८९ : पञ्चवाणाक्षिनागर्तुरसाद्र्यर्काः शनेस्ततः।(१२७६६८२५५)
१२.८९ : भानां रविखशून्याङ्कवसुरन्ध्रशराश्विनः॥(२५९८००१२)

१२.९० : खव्योमखत्रयखसाग्रषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः।(१८७१२०८०८६४००००००)
१२.९० : ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिनकरस्य करप्रसारः॥
[ज्योतिषोपनिषद्]

१३.०१ : अथ गुप्ते शुचौ देशे स्नातः शुचिरलङ्कृतः।
१३.०१ : सम्पूज्य भास्करं भक्त्या ग्रहान् भान्यथ गुह्यकान्॥

१३.०२ : पारम्पर्योपदेशेन यथाज्ञानं गुरोर्मुखात् ।
१३.०२ : आचार्यः शिष्यबोधार्थं सर्वं प्रत्यक्षदर्शिवान्॥

१३.०३ : भूभगोलस्य रचनां कुर्यादाश्चर्यकारिणीम्।
१३.०३ : अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम्॥

१३.०४ : दण्डं तन्मध्यगं मेरोरुभयत्र विनिर्गतम्।
१३.०४ : आधारकक्षाद्वितयं कक्षा वैषुवती तथा॥

१३.०५ : भगणांशाङ्गुलैः कार्या दलितैस्तिस्र एव ताः।
१३.०५ : स्वाहोरात्रार्धकर्णैश्च तत्प्रमाणानुमानतः॥

१३.०६ : क्रान्तिविक्षेपभागैश्च दलितैर्दक्षिणोत्तरैः।
१३.०६ : स्वैः स्वैरपक्रमैस्तिस्रो मेषादीनामपक्रमात् ॥

१३.०७ : कक्षाः प्रकल्पयेत्ताश्च कर्क्यादीनां विपर्ययात् ।
१३.०७ : तद्वत्तिस्रस्तुलादीनां मृगादीनां विलोमतः॥

१३.०८ : याम्यगोलाश्रिताः कार्याः कक्षाधाराद्द्वयोरपि।
१३.०८ : याम्योदग्गोलसंस्थानां भानामभिजितस्तथा॥

१३.०९ : सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयेत् ।
१३.०९ : मध्ये वैषुवती कक्षा सर्वेषामेव संस्थिता॥

१३.१० : तदाधारयुतेरूर्ध्वमयने विषुवद्वयम्।
१३.१० : विषुवत्स्थानतो भागैः स्फुटैर्भगणसञ्चरात् ॥

१३.११ : क्षेत्राण्येवमजादीनां तिर्यग्ज्याभिः प्रकल्पयेत् ।
१३.११ : अयनादयनं चैव कक्षा तिर्यक्तथापरा॥

१३.१२ : क्रान्तिसञ्ज्ञा तया सूर्यः सदा पर्येति भासयन्।
१३.१२ : चन्द्राद्याश्च स्वकैः पातैरपमण्डलमाश्रितैः॥

१३.१३ : ततो अपकृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात् ।
१३.१३ : उदयक्षितिजे लग्नमस्तं गच्छच्च तद्वशात् ॥

१३.१४ : लङ्कोदयैर्यथासिद्धं खमध्योपरि मध्यमम्।
१३.१४ : मध्यक्षितिजयोर्मध्ये या ज्या सान्त्याभिधीयत् ।

१३.१५ : ज्ञेया चरदलज्या च विषुवत्क्षितिजान्तरम्।
१३.१५ : कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम्॥

१३.१६ : वस्त्रच्छन्नं बहिस्चापि लोकालोकेन वेष्टितम्।
१३.१६ : अमृतस्रावयोगेन कालभ्रमणसाधनम्॥

१३.१७ : तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत् ।
१३.१७ : गोप्यमेतत्प्रकाशोक्तं सर्वगम्यं भवेदिह् ।

१३.१८ : तस्माद्गुरूपदेशेन रचयेद्गोलमुत्तमम्।
१३.१८ : युगे युगे समुच्छिन्ना रचनेयं विवस्वतः॥

१३.१९ : प्रसादात्कस्यचिद्भूयः प्रादुर्भवति कामतः।
१३.१९ : कालसंसाधनार्थाय तथा यन्त्राणि साधयेत् ॥

१३.२० : एकाकी योजयेद्बीजं यन्त्रे विस्मयकारिणि।
१३.२० : शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा॥

१३.२१ : गुरूपदेशाद्विज्ञेयं कालज्ञानमतन्द्रितैः।
१३.२१ : तोययन्त्रकपालाद्यैर्मयूरनरवानरैः॥

१३.२१ : ससूत्ररेणुगर्भैश्च सम्यक्कालं प्रसाधयेत् ॥
१३.२२ : पारदाराम्बुसूत्राणि शुल्वतैलजलानि च्
१३.२२ : बीजानि पांसवस्तेषु प्रयोगास्ते अपि दुर्लभाः॥

१३.२३ : तांरपात्रमधश्छिद्रं न्यस्तं कुण्डे अमलाम्भसि।
१३.२३ : षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम्॥

१३.२४ : नरयन्त्रं तथा साधु दिवा च विमले रवौ।
१३.२४ : छायासंसाधनैः प्रोक्तं कालसाधनमुत्तमम्॥

१३.२५ : ग्रहनक्षत्रचरितं ज्ञात्वा गोलं च तत्त्वतः।
१३.२५ : ग्रहलोकमवाप्नोति पर्यायेणात्मवान्नरः॥

[मान]

१४.०१ : ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा।
१४.०१ : सौरं च सावनं चान्द्रमार्क्षं मानानि वै नव् ।

१४.०२ : चतुर्भिर्व्यवहारो अत्र सौरचान्द्रार्क्षसावनैः।
१४.०२ : बार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः॥

१४.०३ : सौरेण द्युनिशोर्मानं षडशीतिमुखानि च्
१४.०३ : अयनं विषुवच्चैव संक्रान्तेः पुण्यकालता॥

१४.०४ : तुलादि षडशीत्यह्नां षडशीतिमुखं क्रमात् ।
१४.०४ : तच्चतुष्टयमेव स्याद्द्विस्वभावेषु राशिषु॥

१४.०५ : षड्विंशे धनुषो भागे द्वाविंशे निमिषस्य च्
१४.०५ : मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दश् ।

१४.०६ : ततः शेषाणि कन्याया यान्यहानि तु षोडश्
१४.०६ : क्रतुभिस्तानि तुल्यानि पितॄणां दत्तमक्षयम्॥

१४.०७ : भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम्।
१४.०७ : अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः॥

१४.०८ : तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः।
१४.०८ : नैरन्तर्यात्तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्॥

१४.०९ : भानोर्मकरसङ्क्रान्तेः षण्मासा उत्तरायणम्।
१४.०९ : कर्क्यादेस्तु तथैव स्यात्षण्मासा दक्षिणायनम्॥

१४.१० : द्विराशिनाथ ऋतवस्ततो अपि शिशिरादयः।
१४.१० : मेषादयो द्वादशैते मासास्तैरेव वत्सरः॥

१४.११ : अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः।
१४.११ : तदर्धनाड्यः सङ्क्रान्तेरर्वाक्पुण्यं तथा पर् ।

१४.१२ : अर्काद्विनिःसृतः प्राचीं यद्यात्यहरहः शशी।
१४.१२ : तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः॥

१४.१३ : तिथिः करणमुद्वाहः क्षौरं सर्वक्रियास्तथा।
१४.१३ : व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यत् ।

१४.१४ : त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम्।
१४.१४ : निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः॥

१४.१५ : भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यत्
१४.१५ : नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः॥

१४.१६ : कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्।
१४.१६ : अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्॥

१४.१७ : वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ।
१४.१७ : कार्त्तिकादीनि वर्षाणि गुरोरस्तोदयात्तथा॥

१४.१८ : उदयादुदयं भानोः सावनं तत्प्रकीर्तितम्।
१४.१८ : सावनानि स्युर्एतेन यज्ञकालविधिस्तु तैः॥(डेतन)

१४.१९ : सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा।
१४.१९ : मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यत् ।

१४.२० : सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् ।
१४.२० : यत्प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात् ॥

१४.२१ : मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्।
१४.२१ : न तत्र द्युनिशोर्भेदो ब्राह्मं कल्पः प्रकीर्तितम्॥

१४.२२ : एतत्ते परमाख्यातं रहस्यं परमाद्भुतम्।
१४.२२ : ब्रह्मैतत्परमं पुण्यं सर्वपापप्रणाशनम्॥

१४.२३ : दिव्यं चार्क्षं ग्रहाणां च दर्शितं ज्ञानमुत्तमम्।
१४.२३ : विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शास्वतम्॥

१४.२४ : इत्युक्त्वा मयमामन्त्र्य सम्यक्तेनाभिपूजितः।
१४.२४ : दिवमाचक्रमे अर्कांशः प्रविवेश स्वमण्डलम्॥

१४.२५ : मयो अथ दिव्यं तज्ञानं ज्ञात्वा साक्षाद्विवस्वतः।
१४.२५ : कृतकृत्यमिवात्मानं मेने निर्धूतकल्मषम्॥

१४.२६ : ज्ञात्वा तमृषयश्चाथ सूर्यलब्धवरं मयम्।
१४.२६ : परिबब्रुरुपेत्याथो ज्ञानं पप्रच्छुरादरात् ॥

१४.२७ : स तेभ्यः प्रददौ प्रीतो ग्रहाणां चरितं महत् ।
१४.२७ : अत्यद्भुततमं लोके रहस्यं ब्रह्मसम्मितम्॥

 


 

Advertisements