The story of Suka Saptati [Sanskrit]

॥ श्रीः ॥

शुकसप्ततिः ॥

प्रणम्य शारदां देवीं दिव्यविज्ञानशालिनीम् ।
वच्मि चेतोविनादार्थमुद्धारं कीरसम्मतेः ॥ १.१  ॥

अस्ति चन्द्रपुरं नाम नगरम् ।
तत्र विक्रमसेनो नाम राजा बभूव ।
तस्मिन्नगरे हरिदत्तो नाम श्रेष्ठी तस्य भार्या शृङ्गरसुन्दरीनाम्नी ।
तत्पुत्रो मदनाविनोदनामा बभूव ।
तस्य पत्नी प्रभावती ।
सा सोमदत्तश्रेष्ठिनः कन्या ।
मदनविनोदस्तु अतीवविषयासक्तः कुपुत्रः पितुः शिक्षां न शृणोति ।
तस्य द्यूतमृगयावेश्यामद्यादिषु अतीव आसक्तिः ।
कुमार्गचारिणं तं कुपुत्रं दृष्ट्वा तत्पिता हरिदत्तः सपत्नीकः अतीव दुःखितः सञ्जातः ।
तं हरिदत्तं कुपुत्रदुःखेन पीडितं दृष्ट्वा तस्य सखा त्रिविक्रमनामा द्विजः स्वगृहतो नीतिनिपुणं शुकं सारिकां च गृहीत्वा तद्गृहे गत्वा प्राह”सखे हरिदत्त! एनं शुकं सपत्नीकं पुत्रवत्त्वं परिपालय ।
एतत्संरक्षणेन तव दुःखं दूरीभविष्यतिऽ ।
हरिदत्तस्तु तं शुकं गृहीत्वा पुत्राय समर्पयामास ।
मदनविनोदेन शयनमन्दिरे स्वर्णपञ्जरस्थः स्थापितः परिपोषितश्च ।

 

अथैकदा रहसि शुको मदनं प्राह
हे सखे!

पित्रोस्ते दुःखिनोर्दुःखात्पतत्यश्रुचयो भुवि ।
तेन पापेन ते वत्स पतनं देवशर्मवत् ॥ १.२ ॥
स प्राह”कथमेतत्?ऽ शुक आहअस्ति पञ्चपुरं नाम नगरम् ।
तत्र सत्यशर्मा ब्राह्मणः ।
तद्भार्या धर्मशीलानाम्नी पुत्रस्तु देवशर्मा ।
स च अधीतविद्यः पितृप्रच्छन्नवृत्त्या देशान्तरं गत्वा भागीरथीतीरे तपः कृतवान् ।
एकदा स तपस्वी गङ्गातीरे जपार्थमुपविष्टः ।
तस्मिन्काले कयाचित्बलाकया उड्डीयमानया तदङ्गोपरि पुरीषोत्सर्गः कृतः ।
स च तपस्वी क्रोधाकुलितनेत्रः यावदूर्ध्वं पश्यति तावत्तत्क्रोधाग्निना भस्मीभूतां बलाकां भूमौ पतितां दृष्ट्वा [बलाकां दग्ध्वा] नारायणद्विजगृहे भिक्षार्थं ययौ ।
स्वभर्तृशुश्रूषापरया तत्पत्न्या कोपाभिविष्टो निर्भर्त्सितः सत्पक्षिहायमुक्तश्च “नाहं बलाकेव त्वत्कोपस्थानम्ऽ ।
स च प्रच्छन्नपातकज्ञानाद्भीतो विस्मितश्च, प्रेषितश्च तया धर्मव्याधपार्श्व वारणसीं नगरीं ययौ ।
तत्र रक्ताक्तहस्तं यमप्रतिभं मांसविक्रयं विदधानं तं दृष्ट्वा दृशामन्तःस्थितः ।
व्याधेन स्वागतप्रश्नपूर्वकं स्वगृहं नीत्वा निजपितरौ सभक्तिकं भोजयित्वा पश्चात्तस्य भोजनं दत्तम् ।
तदनन्तरं स च व्याधं ज्ञानकारणं पप्रच्छ”कथं सती ज्ञानवती, कथं च त्वं ज्ञानवान्ऽ ।
तेन व्याधेनोक्तम्

निजान्वयप्रणीतं यः सम्यग्धर्मं निषेवते ।
उत्तमाधममध्येषु विकारेषु पराङ्मुखः ॥ १.३ (=३) ॥

स गृही स मुनिः साधुः स च योगी स धार्मिकः ।
पितृशुश्रूषको नित्यं जन्तुः साधारणश्च यः ॥ १.४ (=४) ॥

अहं सापि च एवं ज्ञानिनौ त्वं च निजपितरौ परित्यज्य भ्रमन्मादृशां न सम्भाषणार्हः ।
परमतिथिं मत्वा जल्पितः ।
एवमुक्तः स ब्राह्मणो विनयपरं व्याधं पप्रच्छ ।
तेनोक्तम्

न पूजयन्ति ये पूज्यान्मान्यान्न मानयन्ति ये ।
जीवन्ति निन्द्यमानास्ते मृताः स्वर्गं न यान्ति च ॥ १.५ (=५) ॥

व्याधेन बोधितस्तेन स ययौ गृहमात्मनः ।
अभवत्कीर्तिमांल्लोके परतः कीर्तिभाजनम् ॥ १.६ (=६) ॥
तस्माद्वणिग्धर्मं स्वकुलोद्भवं स्मर पित्रोश्च विनयपरो भवऽ ।
एवमुक्तः स मदनः पितरौ नमस्कृत्य तदनुज्ञातो भार्याञ्चापृच्छ्यप्रवहणमधिरूढंवान् गतो देशान्तरम् ।
पश्चात्तत्पत्नी कतिचिद्दिनानि शोकयुक्ता निर्वाह्य स्वैरिणीभिः सखीभिः प्रतिबोधिता पुरुषान्तराभिलाषुकाभवत् ।
यतस्ताभिरेवमुक्तम्

तावत्पिता तथा बन्धुर्यावज्जीवति मानवः ।
मृतो मृत इति ज्ञात्वा क्षणात्स्नेहो निवर्तते ॥ १.७ (=७) ॥

अतस्त्वं स्वपतिमप्राप्यमाणा निजशरीरस्य कतिचिद्दिनस्थायियौवनस्य पुरुषान्तररमणाद्गृहाण फलम् ।
ततस्तासां वचनेन पुरुषान्तरस्य गुणचन्द्रसंज्ञस्य रमणाय शृङ्गारं विधाय यावत्प्रचलिता तावत्सारिकया मा गच्छेत्यादिवचनैर्निर्भर्त्सिता ।
ततो यावत्सा तां सारिकां गलमोटनपूर्वं विनाशयति तावदुड्डीय ययौ ।
ततः क्षणं स्थित्वा स्वेष्टदेवतां हृदि स्मृत्वा ताम्बूलं प्रगृह्य यावच्चलिता तावत्शुकः प्राह”सिद्धिरस्तु ।
क्व गन्तव्यम्ऽ, इत्यादिवाक्यैः पृष्टा ।
सा च शुकवचनं शकुनमिति कृत्वा प्रहस्य तमाह”हे शुकराज! नरान्तरास्वादं विज्ञातुं प्रचलितास्मिऽ ।
शुक उवाच “युक्तमिदं कर्त्तव्यमेव परं दुष्करं निन्दितं च कुलस्त्रीणाम् ।
किञ्च, तदा गम्यता यदि विपरीते समायाते सति तव बुद्धिरस्ति ।
यदि नास्ति तदा पराभवपदं भविष्यसि ।
यतः

कौतुकान्वेषिणो नित्यं दुर्जना व्यसनागमे ।
मासोपवासिनी यद्वद्वणिक्पुत्रकचग्रहे ॥ १.८ (=८) ॥

पप्रच्छ सा तदा सार्धं पुंश्चलीभिः कृतादरा ।
ससम्भ्रमा जगादेदं किमिदं भाषितं शुकः ॥ १.९ (=९) ॥

यदि ते कौतुकं सुभ्रु परार्थं गच्छ सुन्दरि ।
स्थिरीभूय त्वया पश्चात्श्राव्येयं महती कथा ॥ १.१० (=१०) ॥
एवं शुकोक्तं श्रुत्वा यदा सा कौतुकाकुलचेतसा निजगृह आसीनास्ति तदा शुकः कथां प्राह अस्ति चन्द्रावती पुरो ।
तस्यां भीमनामा नृपः ।
तत्र सुधनो नाम मोहनश्रेष्ठिसुतः तन्नगरवासिनो हरिदत्तस्य कलत्रं लक्ष्मीं रन्तुमीहते ।
तद्वत्सा न मन्यते ।
ततो मासोपवासिनीं पूर्णाभिधानां गत्वा पूर्णधनावर्जितां कृत्वा हरिदत्ते नगराद्बहिर्गते तद्गृहे दूतीत्वेन प्रेषयामास ।
सापि चाटूक्तिभिर्लक्ष्मीं प्रसादयामास ।
प्रसन्नया च तयेत्युक्तम् “यत्त्वं याचसे तत्करोमि” ।
पूर्णयोक्तम् “तर्हि मन्मतं नरं भज” ।
तयोक्तम् “कुलस्त्रीणां नैतद्युज्यते परं यत्तवाग्रे प्रतिपन्नं तत्करोमिऽ ।
उक्तञ्च

छिज्जौ सीसमह होउ बन्धणं चऔ सव्वहा लच्छी ।
पडिवण्णपालणे सुपुरिसाणं जं होउ तं होउ ॥ १.११  ॥

[शीर्ष छिद्यतामथ भवतु बन्धनं चलतु सवथा लक्ष्मीः ।
प्रतिपन्नपालने सुपुरुषाणां यद्भवतु तद्भवतु] ॥ १.११ ॥
तथाच
दिढलोहसिंखलाणमस्साण विविहपासबन्धाणम् ।
ताणं चिअ अहिअरअरो वाआबन्धो सुपुरिसस्स ॥ १.१२ (=१२) ॥
[दृढलोहशृङ्खलानां भवतु विवधपाशबन्धनम् ।
ताभ्यामपि अधिकतरो वाचाबन्धः सुपुरुषस्य] ॥ १.१२ ॥
अद्यापि नोज्झति हरः किल कालकूटं, कूर्मो बिभर्ति धरणीं खलु चात्मपृष्ठे ।
अम्भोनिधिर्वहति दुःसहवाडवाग्निमङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १.१३ (=१३) ॥
तच्छ्रुत्वा हृष्टा पूर्णा ।
“एवमेवैतत् ।
ततस्तां लक्ष्मीं प्रतिविधाय गुणमोहनार्थे प्रदोषे स्वगृहे निनाय ।
ततः स मोहनः कथितवेलोपरि नागतः किञ्चित्कार्यादिवैयग्र्येण ।
ततो लक्ष्म्या सकामयोक्तम् “यत्कमपि नरं समानयऽ ।
ततः पूर्णया मूढया तत्पतिरेव समानीतः ।
स्वभर्तरि समायाते सा कथं भवत्विति कथं गृहं यात्विति त्वं सख्यस्तव वा कथयन्तु ।
ता आहुः “न जानीमः ।
त्वमेव कथयऽ ।
शुक आह “यदि न यासि तदा कथयामिऽ ।
तयोक्तम् “न यास्यामिऽ ।
शुकःसा आगच्छन्नेव स्वपतिरिति ज्ञात्वा तं कचग्रहं प्रगृह्यैवमुवाचहे शठ! सर्वदा त्वमिति ममाग्रे जल्पसि यन्मे त्वां विना नान्या वल्लभा अस्ति ।
अधुना तु मया परीक्षितो ज्ञातश्चेति कोपं चक्रेऽ ।
स च तां कष्टेन सुकोमलवचनैरनुनीय स्वगृहं निन्ये ।

कथां श्रुत्वा शुकेनोक्तां भयविस्मयकारिणीम् ।
पुंश्चलीवृन्दसंयुक्ता सुप्ता रात्रौ वणिक्प्रिया ॥ १.१४ ) ॥
इति शुकसप्ततौ प्रथमा कथा ॥


सुक्२
सा तथैव समं ताभिर्द्वितीयोऽह्नि निशामुखे ।
शुकमापृच्छ्य चलिता शुकस्तामिदमब्रवीत् ॥ २.१ (=१५) ॥

यथेष्टं गच्छ सुश्रोणि यदि जानासि दुःकृते ।
प्रत्युत्तरं समायाते यशोदेवीव सङ्कटे ॥ २.२ (=१६) ॥

ततः प्रभावतो पृच्छति “का यशोदेवी ।
कदा कस्मिन्सङ्कटे तया क उपायः कृतऽ इति ।
शुकः “यदा कथयामि तदा मयि सुरतविघातेन तव कोपः प्राणनिषूदनः स्यात्ऽ ।
सा आह “सुहृदां साध्वसाध्वपि श्रोतव्यमेवऽ इत्यनुज्ञातः शुकः आह अस्ति नन्दनं नाम नगरम् ।
तत्र नन्दनो नाम राजा ।
तत्पुत्रो राजशेखरः ।
तद्वधूः शशिप्रभा ।
तां धनसेनसुतो वीरनामा दृष्ट्वा सकामः सन् ज्वरपीडितोऽभूत् ।
भोजनादि न विधत्ते ।
स च मात्रा यशोदेव्या पृष्टः सन्सगद्गदं कारणमाह “सा च राजकन्या दुर्लभा ।
स कथं जीवतुऽ इति प्रश्नः ।
तयोक्तम् “त्वमेव कथयऽ ।
शुकःयदि प्रभावति! अद्य न यासि तदा कथयामि, इत्युक्ते सा आह “कथयेतिऽ ।
अथ शुकःसा यशोदेवी एकां शुनीं भोजनाद्यैरावर्जयित्वा आभरणानि परिधायात्मना सार्धं गृहीत्वा शशिप्रभापार्श्वे गत्वा तां विजने सगद्गदा जगादअहं च त्वं च इयं च पूर्वभवे भगिन्योऽभूवन् ।
मया निःशङ्कया त्वया तु सशङ्कया परनराभिलाषः पूरितः ।
अनया तु नैव ।
अतोऽस्याः शीलप्रभावात्केवलं जातिस्मरणमेव न भोगाः शुनिका च सञ्जाता ।
सम्भोगविघ्नाज्जातिस्मरणं च न ते वर्तते ।
मम पुनर्भोगान्निर्विघ्नान्निर्विघ्नजातिस्मरणं च ।
अतोऽहमनुकम्पया इमां शुनकीं त्वां च दृष्ट्वा कथयितुमागता ।
अतस्त्वयार्थिनां काङ्क्षितं दातव्यमेव ।
यो दानं कुर्यात्स भवेत्सर्वसम्पदां स्थानम् ।
उक्तञ्च

कथयन्ति न याचन्ते भिक्षाहारा गृहे गृहे ।
अर्थिभ्यो दीयतां नित्यमदातुः फलमीदृशम् ॥ २.३ (=१७) ॥

ततः शशिप्रभा सकण्ठग्राहं रुदित्वा प्राह “मामपि कल्याणि! पुरुषान्तरेण योजयऽ ।
ततो यशोदेवी तां स्वस्थीकृत्य भर्तृविदितां स्वगृहं नीत्वा स्वपुत्रेण योजयामास ।
स च राजशेखरो द्रव्यादिदानतोषितः सखीयमिति कृत्वा न निवारयामास ।

राजपुत्रं राजपुत्रीं प्रतार्यैवं च भामिनि ।
यशोदेव्या महद्बुद्ध्य निजकार्यमनुष्ठितम् ॥ २.४ (=१८) ॥

बुद्धिरस्ति यदैषा ते व्रज सुभ्रु परान्तिकम् ।
भज निद्रां विशालाक्षि मान्यथा स्वं विडम्बय ॥ २.५ (=१९) ॥

इति शुककथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ द्वितीया कथा ॥


सुक्३
अथान्यदिने प्रभावती शुकं पृच्छति ।
शुकः

गच्छ देव किमाश्चर्यं यत्र ते रमते मनः ।
नृपवद्यदि जानासि परित्राणं त्वमात्मनः ॥ ३.१ (=२०) ॥

प्रभावती पृच्छतिकथमेतत् ।
शुकः कथयतिअस्ति विशाला नगरी ।
तत्र सुदर्शनो राजा ।
तत्र च विमलो नाम वणिक् ।
तस्य च पत्नीद्वयं सुभगं रूपसम्पन्नं दृष्ट्वा कुटिलनामा धूर्तस्तद्भार्याद्वयग्रहणेच्छया अम्बिकां देवीमाराध्य विमलरूपं ययाचे ।
लब्ध्वा च तत्प्रकृतिं विमले बहिर्गते तद्गृहं गत्वा प्रभुत्वं चकार ।
प्रसादधनदानैर्वशीकृतोऽखिलोऽपि परिजनवर्गः ।
तद्भार्याद्वयं बहुमानदानादिना सन्तोष्य स्वेच्छया भुङ्क्ते ।
विमलोऽयं धनाद्यनित्यतां श्रुत्वा दाता बभूवेति परिजनोऽनवरतं चिन्तयति ।
अथ सत्यविमलोऽपि द्वारमागतः कुटिलाज्ञया द्वारपालेन निषिद्धः ।
ततो बहिःस्थः फुत्करोति “वञ्चितोऽहं धूर्तराजेनऽ ।
तस्य चैवं क्रन्दतो गोत्रजा जनाः कौतुकाच्च मिलिताः ।
तत्क्षणाथट्टानि मुक्त्वा वणिक्सार्थो मिलित्वा आरक्षिकमन्त्रिमुख्यानां पुरतः फूच्चक्रे ।
“राजन्वञ्चितोऽस्मि धूर्तराजेनऽ ।
ततो राज्ञा तदवलोकनाय प्रहिताः पुरुषाः ।
तेनापि ते द्रव्यादिदानेन सानुकूलाः कृताः ।
तं धनदायकं गृहे दृष्ट्वा जनो वदति”स्वामिन्विमलो गृहे विद्यते ।
अयं च धूर्तराट्द्वारस्थःऽ ।
ततो नृपेण द्वावप्येकत्र कृतौ ।
ततो द्वयोर्मध्यान्न कोऽपि धूर्तेतरयोर्व्यक्तिं जानाति ।
जातः कोलाहलोऽखिललोकव्यवहारनाशकरो राज्ञश्चपवादः ।
यतो राज्ञां दुष्टनिग्रहः शिष्टपालनं च स्वर्गाय ।
उक्तञ्च
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ ३.२ (=२१) ॥

ततो राजा एकान्ते तयोर्निर्णयमचिन्तयत् ।
तत्कथय कथं निश्चयः स्यादिति प्रश्नः ।
शुकःस राजा लब्धोपायस्तद्विमलभार्याद्वयं पृथक्पृथक्संस्थाप्य पृष्टवान्”किं युवयोः पाणिग्रहणे भर्त्रा विभूषणं प्रदत्तं धनं च ।
पश्चात्किं जल्पितं प्रथमसङ्गेन च का वार्त्ता भर्त्रा सहाभूत् ।
का माता कश्च पिता ।
किं कुलम् ।
का जातिःऽ ।
इत्येवं पृष्टाभ्यां यथालब्धं यथावृत्तं यथाप्रोक्तं यथासुप्तं सर्वं ताभ्यां कथितम् ।
पश्चातु तौ पुरुषौ पृष्टौ परस्परं विसंवदन्तौ ।
ततो भार्याद्वयस्य रुक्मिणीसुन्दरीनामधेयस्य यः संवादं वदति स सत्यः ।
इतरस्तु धूर्तो राज्ञा निर्वासितः ।
सत्यस्तु राज्ञा सभार्यः सस्कृतः स्वगृहं गतः ।
इति महाराजबुद्धिः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ॥
इति शुकसप्ततौ तृतीया कथा ॥


सुक्४
अथान्यदा प्रभावती शुकं पृच्छति ।
शुकः”मां कृतावज्ञं कृत्वा मा गच्छ ।
यतो बालकादपि हितं वाक्यं ग्राह्यम् ।

कृतावज्ञः पुरा देवि वृद्धवाक्यपराङ्मुखः ।
पतितो ब्राह्मणोऽनर्थे विषकन्याविवाहने ॥ ४.१ (=२२) ॥

प्रभावती पृच्छति”कथमेतत्” ।
शुकःस्ति सोमप्रभं नाम द्विजस्थानम् ।
तत्र विद्वान्धार्मिकः सोमशर्मा नाम विप्रः ।
तत्पुत्री रूपौदार्यगुणोपेता विषकन्येति विज्ञाताभूत् ।
तेन तां भयेन कोऽपि न विवाहयति ।
ततः सोमशर्मा वरार्थं भुवं पर्यटन् सम्प्राप्तो द्विजस्थानं जनस्थान नाम ।
तत्र गोविन्दनामा ब्राह्मणो जडो निर्धनश्च ।
तस्मै कन्या प्रदत्ता ।
तेन सुहृदां निवारयतामपि कृतावज्ञेनोढा सर्वरूपलावण्यगुणोपेता मोहिनी विषकन्या ।
सा विदग्धा गोविन्दस्तु मूर्खः लघुवयाश्च ।
ततश्च सा आत्मनो रूपलावण्ययौवनं शुशोच ।

अविदग्धः पतिः स्त्रीणां, प्रौढानां नायकोऽगुणी ।
गुणिनां त्यागिनां स्तोको विभवश्चेति दुःखकृत् ॥ ४.२ (=२३) ॥

पाउससमअपवासो जोव्वणदिअहे तहा अ दालिद्दम् ।
पढमसिणेहविओओ तिणि वि गरुआइदुक्खाइं ॥ ४.३ (=२४) ॥

[प्रवृट्समयप्रवासो यौवनदिवसे तथा च दारिद्र्यम् ।
प्रथमस्नेहवियोगस्त्रीण्यपि गुरुकाणि दुःखानि] ॥ ४.२४* (=२४*) ॥

अप्पत्थावे पढिअं कण्ठविहूणं च गाइअं गीअम् ।
मा मा भणन्ति सुरअं तिणि वि गरुआइ दुक्खाइं ॥ ४.४ (=२५) ॥

[अप्रस्तावे पठितं कण्ठविहीनं च गायनं गीतम् ।
मा मा भणन्त्यां सुरतं त्रीण्यपि गुरुकाणि दुःखानि] ॥ ४.४* (=२५*) ॥

सान्यदा गोविन्दं पतिमित्यब्रवीत्”मम पितुर्गेहात्समागताया बहूनि दिनानि सञ्जातानि ।
ततोऽहं त्वयैव सह गमिष्ये नान्यथाऽ ।
ततः शकटं मार्गयित्वा सभार्यकः स चलितः ।
यावत्प्रयाति तावत्पथि एको युवा वाग्ग्मी सुरूपः शूरश्च विष्णुनामा ब्राह्मणो मिलितः ।
तस्य ब्राह्मणस्य तस्याश्चान्योन्मनुरागः सञ्जातः ।
उक्तञ्च प्रीतिः स्याद्दर्शनाद्यैः प्रथममथ मनःसङ्गसङ्कल्पभावो, निद्राछेदस्तनुत्वं वपुषि कलुषता चेन्द्रियाणां निवृत्तिः ।
ह्रीनाशोन्मादमूर्च्छामरणमिति जगद्यात्यवस्था देशैताः, लग्नैर्यत्पुष्पबाणैः स जयति मदनः सन्निरस्तान्यधन्वी ॥ ४.५ (=२६) ॥
स पथिको दम्पत्योः पूगपत्रोच्चयं ददाति ।
इत्येवं ग्राम्यब्राह्मणोरोहविष्णोर्विश्वस्तः आत्मनो निरोधसङ्गभयादुत्तीर्य त गन्त्रीवाहमारोहयति ।
विष्णुना च पत्यौ वृक्षान्तरगते सा मोहिनो भुक्ता आत्मवशीकृता ।
तया चात्मीयं नाम गोत्रं कुलक्रमं चाज्ञापितः ।
पत्युश्च समागतस्य “त्वं चोरोऽसीतिऽ गन्त्र्यारोहणं कुवतो निषेधः कृतः ।
विष्णुरपि तां कृहीत्वा गोविन्दं धर्षितवान् ।
ततस्तयोः केशाकेशि संवृत्तम् ।
गोविन्दस्तु विष्णुना विषकन्याप्रभावेण निर्जितः ।
ततस्तां गृहीत्वा विष्णुः स्वगृहं प्रतिचलितः ।
गोविन्दः पृष्ठस्थो मार्गासन्ने ग्रामे गत्वा फूत्कृतवान्”यदनेन चौरेण मम भार्या गृहीता ।
त्रायतां ताम् ।
मम शरणं भो जनाःऽ ।
अथ ग्रामाधिपेन विष्णुर्मोहिनीयुतो धृतः ।
पृष्टेनोत्तरं दत्तं विष्णुना यथेयं मया परिणीता ।
मदीयां च भार्यामेष पथिको मार्गे दृष्ट्वा ग्रहिलो बभूव ।
गोविन्देनापि पृष्टेन इदमेवोत्तरितम् ।
ततो मन्त्री तयोरेकमेवोत्तरं श्रत्वा जात्यादिकं पृष्टवान् ।
त्रयमपि तु संवदति ततः कथं निश्चयः” ।
इति शुकप्रश्नः ।
ततस्तया पृष्टः शुक आहमन्त्रिणोक्तम्, “कियन्ति दिनानि सङ्गमस्य युष्माकं प्रयाणे” ।
तैरुक्तम्”कल्ये भोजनान्तरं संवृत्तः समागमःऽ ।
ततो मन्त्रिणा ब्राह्मणौ पृथक्पृथक्पृष्टौ”किमनया कल्ये भोजनवेलायां भुक्तम्ऽ ।
यच्च तया भुक्तं तद्गोविन्दो जानाति इतरस्तु न ।
ततः स विडम्बितः सचिवेन ।
गोनिन्दः शिक्षितः ।
धिगिमां ब्राह्मणीं परत्रेह च दुःखदां मुञ्च शीघ्रम् ।
उक्तञ्च

वैद्यं पानरतं नटं कुपठितं मूर्खं परिव्राजकं योधं कापुरुषं विटं विवयसं स्वाध्यायहीनं द्विजम् ।
राज्यं बालनरेन्द्रमन्त्रिरहितं मित्रं छलान्वेषि च भार्यां यौवनगर्वितां पररतां मुञ्चन्ति ये पण्डिताः ॥ ४.६ (=२७) ॥

तथापि कामिनीलुब्धो धिक्कृतः साधुभिस्तदा ।
तामेवादाय चलितस्तत्कृते निहतः पथि ॥ ४.७ (=२८) ॥

तद्देवि यः करोत्येवमवज्ञां वृद्धशिक्षितः ।
स पराभवमाप्नोति गोविन्दो ब्राह्मणो यथा ॥ ४.८ (=२९) ॥

इति कथां श्रुत्वा प्रभावती सुप्ता ॥
इति शुकसप्ततौ चतुर्थो कथा ॥


सुक् ५
पुनरन्यदिने सा गमनाय शुकं पृच्छति ।
शुकः

गच्छ देवि विजानासि यदि कर्तुं त्वमुत्तरम् ।
सभायां नृपतेर्यद्वद्विषमे बालपण्डिता ॥ ५.१ (=३०) ॥

प्रभावतीपृष्टः शुकः कथां प्राहअस्ति उज्जयिनी नाम नगरी ।
तत्र विक्रमादित्यो राजा ।
तस्य राज्ञो कामलीला नाम उत्तमकुले जाता ।
सा च राज्ञोऽतीव वल्लभा ।
एकदा नृपस्तया सार्धं भोजनं कुर्वन्भृष्टमत्स्यांस्तस्यै दापयामास ।
सा आहस्वामिन्! नाहमेतान्पुरुषानवलोकयितुमपि समर्था किं पुनः स्पर्शनम् ।
इति शृत्वा मत्स्या अट्टहासेन तथा जहसुर्यथा नागरिकलोके श्रुतम् ।
राजा च तन्मत्स्यहास्यकारणं मन्त्रिज्योतिर्विच्छाकुनिककोविदान्पृचछति ।
यदा न कोऽपि जानाति तदा सर्वद्विजाग्रेसरं पुरोहितं प्राहयथा त्वयैव मत्स्यहास्यकारणं कथनीयमन्यथात्वं देशान्निर्वासं प्राप्नोषि ।
पुरोधा अप्येतद्वचः श्रुत्वा दिनपञ्चकं व्यवधाने याचयित्वा सविषादो गृहमगमत् ।
स पुरोहितः तदुत्तरमजानन्पुरस्ताद्राज्ञा निर्वास्यते ।
स कथं भवत्विति प्रश्नः ।
उत्तरमप्याह शुकःस ब्राह्मणो विषादापन्नः पुत्र्या बालपण्डितया बभाषे, तात! कथमुद्विग्नचित्त इव लक्ष्यसे ।
कथय विषादस्य कारणम् ।
विद्वद्भिर्विपद्यप्युच्चैः स्थातव्यम् ।
उक्तञ्च

सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् ।
तं भुवनत्रयतिलकं जननी जनयति सुतं विरलम् ॥ ५.२ (=३१) ॥

ततो ब्राह्मणोऽविरलं वृत्तान्तमाचष्टे अनेन कारणेन राजा मां नागरान्निर्वासयति ।
यतः

न सौहृदं न विश्वासो न स्नेहो न च बन्धुता ।
केनापि सह संसारे कुतो राज्ञा छलार्थिना ॥ ५.३ (=३२) ॥

उक्तञ्च

काके शौचं द्यूतकारे च सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ ५.४ (=३३) ॥

किञ्च नदीनां नखिनाञ्चैव शृङ्गिणां शस्त्रपाणिनाम् ।
विश्वासो नैव कर्तव्यः श्त्रीषु राजकुलेषु च ॥ ५.५ (=३४) ॥

भोगिनः कञ्चुकासक्ताः क्रूराः कुटिलगमिनः ।
दुःखोपसर्पणीयाश्च राजानो भुजगा इव ॥ ५.६ (=३५) ॥

हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ।
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ॥ ५.७ (=३६) ॥

एष राजा आ बाल्यात्सेवितोऽपि मयि विपरीतो बभूव ।
तस्मान्मया जीवितुमिच्छता द्विजैः सह परदेशं गन्तव्यम् ।
उक्तञ्च

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ५.८ (=३७) ॥

ततः सा बालिका तातवचनं श्रुत्वा प्राहतात! त्वया युक्तमुक्तम् ।
परं स्वामिरहितानां न क्वापि पूजा ।
यत उक्तम्

अप्रधानः प्रधानः स्याद्यदि सेवेत पार्थिवम् ।
प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः ॥ ५.९ (=३८) ॥

आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा ।
प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो भवति तं परिवेष्टयन्ति ॥ ५.१० (=३९) ॥

आरोहन्ति शनैर्मृत्या धुन्वन्तमपि पार्थिवम् ।
कोपप्रसादवस्तूनां विचिन्वन्ति समीपगाः ॥ ५.११ (=४०) ॥
तथा च

विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् ।
सेवावृत्तिविदाञ्चैव नाश्रयः पार्थिवं विना ॥ ५.१२ (=४१) ॥

ये जात्यादिमहोत्साहा नोपगच्छन्ति पार्थिवम् ।
तेषामामरणं भिक्षा प्रायाश्चित्तं विनिर्मितम् ॥ ५.१३ (=४२) ॥

रोगैर्ग्रहैर्नृपर्ग्रैस्तो यो न वेत्ति जडक्रियः ।
मध्यमन्त्रमुपायं च सोऽवश्यं तात न स्थिरः ॥ ५.१४ (=४३) ॥

उक्तञ्च

सर्पान्व्याघ्रान् गजान्सिंहान्दृष्ट्वोपायैर्वशीकृतान् ।
राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ ५.१५ (=४४) ॥

तथा च

राजानमेव संश्रित्य विद्वान्याति परोन्नतिम् ।
विना मलयमन्यत्र चन्दनं न विवर्धते ॥ ५.१६ (=४५) ॥

धवलान्यातपत्राणि वाजिनश्च मनोरमाः ।
सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥ ५.१७ (=४६) ॥

तस्मात्तात्, त्वं राज्ञा मान्यः प्रसादपात्रञ्च ।
ततः सन्देहेऽस्मिन्मा विषादीभव ।
यतः

राजग्रहे समायाते विषमे कार्यसंशये ।
सन्दिग्धमनसां राज्ञां प्रधानाः संशयच्छिदः ॥ ५.१८ (=४७) ॥

ततो हे तात! स्थिरीभव ।
मत्स्यहसनोत्तरं राज्ञः पुरतो मयाभिधेयमिति ।
स्नाहि भुङ्क्ष्व ।
ततः स एवं कृत्वा राज्ञोऽग्रतो गत्वा सर्वं निवेदयामास ।
नृपोऽपि तुष्टस्तामाजुहाव ।
सा आशीर्वादं दत्त्वा राजानमब्रवीत्राजन्मा मुधा विप्रान्विडम्बय ।
किं त्वया एवंविधं मत्स्यानां हास्यं दृष्टं श्रुतं वा ।
कथं मामबलाजन पृच्छन्न विलज्जसे ।

यतः इतरोऽपि न सामान्यो नृपतिर्दिव्यरूपभृत् ।
त्वं पुनर्विक्रमादित्यो यथार्थोऽसि परन्तप ॥ ५.१९ (=४८) ॥

उक्तञ्च

इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं क्रोधं यमाद्वैश्रवणाच्च वित्तम् ।
सत्त्वस्थिते रामजनार्दनाभ्यामादाय राज्ञः क्रियते शरीरम् ॥ ५.२० (=४९) ॥

तथा च भारते

मा वृकोदर पादेन एकादशचमूपतिम् ।
पञ्चनामपि यो भर्त्ता नासाप्रकृतिमानवी <१> <१. ’मानिनाऽ इति पा> ॥ ५.२१ (=५०) ॥

स्वामिन्कथं न त्वं स्वयमेव विचारयसि ।
यतस्त्वमेव सर्वसंशयच्छेत्ता ।
अथान्येभ्यश्चेत्श्रोतुं कौतुकं तर्हि शृणु ।

इयं राज्ञी न स्पृशति ह्यस्मान्मत्स्यान्महासती ।
पुरुषाख्यानतो राजन् हसिताः शफरा ध्रुवम् ॥ ५.२२ (=५१) ॥

परिभाव्यस्त्वया राजन् श्लोकार्थोऽयं सदा हृदि ।
मूढधीरन्यथा देव यदि पृच्छसि मां पुनः ॥ ५.२३ (=५२) ॥

राजन्राजपत्न्याः सूर्यमपश्यन्त्यास्तत्कथमसतीत्वशङ्का स्यात् ।

श्लोकार्थे प्रस्तुतार्थे च मत्स्यानां हसनं बुधाः ।
सनृपा न विजानन्ति अपि सर्वार्थकोविदाः ॥ ५.२४  ॥

ततः सदो मूढं दृष्ट्वा बालपण्डिता उत्थाय ययौ ।
शुकोऽप्याहअहं प्रातः कथयिष्ये ।
इति कीरोक्तिं श्रुत्वा प्रभावती सुप्ता ॥
इति शुकसप्ततौ पञ्चमी कथा ॥


सुक् ६
अथापरस्मिन्दिवसे प्रभावती शुकं प्राह
शुक! स मत्स्यहास्यव्यतिकरो राज्ञा ज्ञातो न वेति ।
शुक आह नृपः श्लोकार्थमजानन्न निद्रां लेभे ।
उक्तञ्च
निद्रा भद्रे कुतस्तेषां ये ऋणव्याधिपीडिताः ।
अविधेयकलत्राश्च ये चान्ये कृतवैरिणः ॥ ६.१ (=५४) ॥

राजा निद्राभावे कष्टेन निशां नीत्वा प्रातर्बालपण्डितामाकार्य प्राहबालिके! श्लोकार्थो न ज्ञातो मया ।
तस्मान्मत्स्यहास्यकारणे निवेदय ।
सा आहराजन्मां मा पृच्छ ।
यतः

पश्चात्तापोऽत्र भविता भार्याया वणिजो यथा ।
आग्रहेण कृतः पत्यौ मण्डकागमनं प्रति ॥ ६.२ (=५५) ॥

राजाकथमेतत् ।
शुकःस्त्यत्र जयन्ती नाम नगरी ।
तत्र वणिकसुतः सुमतिर्नाम तस्य प्रिया पद्मिनी नाम ।
तस्य च वणिजः पुण्यक्षयाद्धनं क्षीणम् ।
स च जनैः परित्यक्तः ।
यतो जनो धनमित्रः ।
उक्तञ्च

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः ॥ ६.३ (=५६) ॥

तथा च भारते

जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारत ।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ ६.४ (=५७) ॥

तथा च

इह लोके हि धनिनां परोऽपि स्वजनायते ।
स्वजनोऽपि द्ररिद्राणां तत्क्षणाद्दुर्जनायते ॥ ६.५ (=५८) ॥

सोऽपि च तृणकाष्ठादिकमानीय पुरीमध्ये विक्रीणाति ।
अन्यदा अनेन तृणकाष्ठादिकं किमपि वने न प्राप्तम् ।
दृढकाष्ठमयोऽपि विघ्नविनायकः प्राप्तः ।
ततश्चिन्तितम्किमसौ मम विधास्यति? उक्तञ्च

बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ।
प्राणार्थमेते हि समाचरन्ति मतं सतां यन्न मतं तदेषाम् ॥ ६.६ (=५९) ॥

यावत्स तस्य विनायकस्य पाटनायोत्तिष्ठति तावत्तुष्टः सन् जगादअहं तव प्रतिदिनं पञ्च पञ्च मण्डकान्दास्ये खण्डघृतयुतान् ।
ममालये प्रातर्यायाः ।
परं कस्यापि इदं रहस्यं न कथनीयम् ।
कथिते तु मद्वचो वितथं भविष्यति ।
सोऽपि च “तथेऽति प्रतिपाद्य नित्यं मण्डकपञ्चकं भार्याया अर्पयति ।
तद्दैवं मण्डकपञ्चकं घृतखण्डयुक्तमादाय तद्भार्या निजकुटुम्बं तृप्तीकरोति ।
नित्यं च तान्मण्डकान् गोत्रिणां गृहे वाहयामास ।
निजसख्या मन्दोदर्यास्तृप्त्यर्थं नित्यं प्राहिणोत् ।
अन्यदा सा सखी तां पप्रच्छ ।
पद्मिन्यपि मण्डकागमनमिदं न जानाति ।
ततस्तस्याः पुरा सा सखी कपटाद्ब्रूतेसखि! यदि त्वं मम पुरतो गुह्यं न कथयसि तत्कः स्नेहः ।
उक्तञ्च

ददाति प्रतिगृह्णानि गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ६.७ (=६०) ॥

ततः पद्मिन्याहमदीयः पतिरिदं गुह्यं ममाग्रे कथमपि न ब्रते मया शतशः पृष्टोऽपि ।
तयोक्तम्तर्हि त्वदीयं जीवितं रूपं यौवनं सवमपि निरर्थकमेव यदिदं नाज्ञायि ।
ततः पद्मिनी पतिं पृच्छतिकथं मण्डकप्राप्तिः? पतिराहविधेः प्रसादात् ।
उक्तञ्च

द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखोभूतः ॥ ६.८ (=६१) ॥

किञ्च

क्षुत्क्षामस्य करण्डपिण्डिततनोर्म्लान्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥ ६.९ (=६२) ॥

यदा न कथयति तदानशनं चक्रे ।
पतिराहअस्मिन्कथिते महती हानिः पश्चात्तापश्च भविष्यति ।
एवं बोधितापि सा यावन्नाग्रहं मुञ्चति तदा तेन दैवोपहतचित्तेन कथितम् ।
उक्तञ्च

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षन्ति न स वेत्यात्मनो हितम् ॥ ६.१० (=६३) ॥
तेन च राजन्विक्रमार्कबुद्धिमुक्तेन गुह्यं कीर्तितम् ।
यतो हीनपुण्यो बुद्ध्या मुच्यते ।
उक्तञ्च

रामो हेममृगं न वेत्ति नहुषो याने युनक्ति द्विजान् विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने ।
द्यूते भ्रातृचतुष्टयं च महिषीं धर्मात्मजो दत्तवान् प्रायः सत्पुरुषोऽप्यनर्थसमये बुद्ध्या परित्यज्यते ॥ ६.११ (=६४) ॥

सा च पतिमुखात्श्रुत्वा सखीपुरी जगाद ।
तया चात्मपतिः कुठारहस्तः प्रेषितो विनायकपार्श्वे ।
सोऽपि पद्मिनीपतिश्च प्रातस्तत्र जगाम ।
विनायकोऽपि द्वावपि मयूरबन्धैर्बन्धयामास ।
सोऽपि च पद्मिनीपतिरुक्तः रे त्वदीय एवायमनर्थः ।
ततस्त्वय्येव दण्डो युज्यते ।
ततः सखीपतिर्ययाचे ।
तान्पञ्च मण्डकान्तस्मै स प्रददौ ।
तौ द्वावपि स्वं स्वं गृहं जग्मतुः ।
ततः पत्या दापिताः ।
पश्चात्तापं च कुरुते ।
ततस्त्वमपि राजेन्द्र! मां मा पृच्छ ।
तव पश्चात्तापो भविष्यति ।
इदं श्लोकं स्वयमेव विचिन्तय ।
इति कथयित्वा बालपण्डिता उत्थाय स्वगृहं गता ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ षष्ठी कथा ॥


सुक्७
अन्यस्मिन्दिने प्रभावती शुकं पप्रच्छकीर! पुनस्तन्मत्स्यहास्यकारणं राज्ञा ज्ञातं शृतं न वा ।
शुकः प्राहप्रातः पुनर्बालपण्डितामाकारयित्वा राजा प्राहकि तन्मत्स्यहास्यकारणम्? ब्रूहि शीघ्रं बालिके! सा चाह

देवाग्रहो न कर्तव्यः पश्चात्तापो भविष्यति ।
स्थगिकासक्तचित्तस्य विप्रस्याभूत्पुरा यथा ॥ ७.१ (=६५) ॥
अस्ति धरणीतले वत्सोननाम पट्टनम् ।
तत्र वीराख्यो राजा तत्र च केशवो नाम ब्राह्मणः ।
तेन कदाचिदिति चिन्तितं यदहं पितृधनं न भोक्ष्ये ।
उक्तञ्च

उत्तमाः स्वगुणैः ख्याता मध्यमाश्च पितुर्गुणैः ।
अधमा मातुलैः ख्याता श्वशुरैश्चाधमाधमाः ॥ ७.२ (=६६) ॥

किञ्च पिअर विढत्तै दव्व्डै चड्डिरि को ण करेइ ।
सैं बिढवै सैं भोजऐ विरला जणणि जणेइ ॥ ७.३ (=६७) ॥

[पित्रर्जितं द्रव्यं भोगिनं कं न करोति ।
स्वयमर्जयति स्वयं भुङ्क्ते विरला जननी जनयति] ॥ ७.३* (=६७*) ॥

इत्यवधार्य स मेदिन्यां बभ्राम देवतीर्थश्मशाननगरेषु धनार्थम् ।
अन्यदा स निर्जने प्रदेशे प्रसिद्धे शिवचत्वरे करालायाः श्मशाने च परिभ्रम्य परिश्रान्तः कपिलकमठमपश्यत् ।
तत्र च पर्यङ्कसनस्थं तापसं ददर्श स च विप्रस्तस्याग्रे कृताञ्जलिपुटस्तस्थौ ।
तापसो ध्यानं शनैर्मुक्त्वा एवमुक्तवान्

किं कस्मै दीयते लोके त्रायते को भवार्णवात् ।
असाध्यं साध्यते कस्य कालेऽस्मिन्नतिथेरहो ॥ ७.४ (=६८) ॥

ततः स ब्राह्मण ऊर्ध्वबाहुर्जगादतवाहमतिथिर्धनार्थी ।
तापसोऽपि तं विप्रमल्पयाचक दृष्ट्वा मनसि दुःखीबभूव ।
उक्तञ्च

स्तोकार्थप्रार्थनान्दीनान्दृष्ट्वोदारान्हि याचकान् ।
खिद्यन्तेऽतीव मनसि अपि प्राणप्रदायिनः ॥ ७.५ (=६९) ॥

किञ्च

अहिहूओ वि अ विवआ करेइ सुअणो परस्स उपआरम् ।
ओणेइ अण्णदाधं चन्दणतरुओ सखण्डो वि ॥ ७.६ (=७०) ॥

[अभिभूतोऽपि विपदा करोति सुजनः परस्य उपकारम् ।
अपनयत्यन्यतापं चन्दनतरुकः सहस्रकण्डोऽपि] ॥ ७.६* (=७०*) ॥

ततो योगीन्द्रो “यदा त्वमेतत्स्पर्शनं करिष्यसि तदा हेम्नः पञ्चशतानि नित्यं दास्यतीऽत्युक्त्वा विप्राय पर्यङ्कीकृतं सिन्दूरमर्पयामास ।
उक्तश्च”एतत्त्वयान्यस्मै न दातव्यं न कथनीयञ्च ।
अन्यथा मम समीपे व्यावृत्य समेष्यति ।
तदर्पितं यदा स द्विजः प्रातः स्पृशति तदा सुवर्णशतपञ्चकं ददाति ।
स च रत्नावतीं पुरीं गतः ।
तत्र स्थगिकां नाम वेश्यां नित्यं कामयते ।
सा च तद्द्रव्यागमनं न जानाति ।
कुट्टिनी पृच्छतिहले! एष विप्रः किमपि व्यवसायादिकं न विधत्ते ।
परं द्रव्यं कुतोऽस्माकं वितरति कस्माद्विलसतीति ।
ततो वेश्या तं पृच्छति ।
स विप्रः सर्वथा न कथयति ।
ततो वेश्यया स्वकलया भक्त्या चाराधितः ।
ततः पृष्टः सन्कथयामास यत्सिन्दूराद्द्रव्यागमः ।
तया च सुप्तस्य सिन्दूरं गृहीतम् ।
ततो द्रव्याभावे कुट्टिन्या गृहान्निष्कासितः ।
उक्तञ्च

विश्वासप्रतिपन्नानां वञ्चने का विदग्धता ।
अङ्कमारुह्य सुप्तं हि हन्तुं किं नाम पौरुषम् ॥ ७.७ (=७१) ॥

स विप्रस्तत्सिन्दूरमपश्यन्फूत्कुर्वन्राजद्वारं ययौ, मुषितोऽहमिति वदन् ।
ततो विवादः सञ्जातः ।
कुट्टिन्याह

धूर्तोऽसौ मत्सुतालुब्धो धनहीनो भवत्यसौ ।
मनोभवग्रहग्रस्तो असमञ्जसमीदृशम् ॥ ७.८ (=७२) ॥

जनैर्गुणैरसम्भाव्यं राज्ञा कथं सम्भाव्यते ।
परं सत्यमिदं जातं सिन्दूरं धनदं यतः ॥ ७.९ (=७३) ॥

स च जनैर्वैदेशिकोऽयमिति ज्ञात्वा निर्वासितः ।
तच्च सिन्दूरं योगीन्द्रमेव ययौ ।
ततो राजन्विक्रमादित्य! स्थगिकाप्रीतिनिबन्धनात्तेनाख्याते च सिन्दूरे स्थगिका नैव विप्रस्य बभूव न च सिन्दूरम् ।
एवं तवापि राजन्! रतिः प्रीतिश्च न भविष्यति ।
एवमुक्त्वा बालपण्डिता गृहं जगाम ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ सप्तमी कथा ॥


सुक्८
अथापरेद्युः प्रभावती शुकं पृच्छति ।
शुक उत्तरं ददौदेवि! बालपण्डिता द्वितीयेऽह्नि संयाते राजानं प्राहदेव! नाग्रहः कर्तुं युज्यते ।
यतः

राज्ञा नैवाग्रहः कार्यः शुभे वाशुभकर्मणि ।
तदङ्गानि हि भूतानि राज्ञां हि महती तनुः ॥ ८.१० (=७४) ॥

आख्याते च तव मया विणिक्पुत्र्या यथाभवत् ।
न बहिर्न गृहं राजंस्तथा तेऽपि भविष्यति ॥ ८.११ (=७५) ॥

राजा पृच्छतिकथमेतत्? बालपण्डिता प्राहअस्ति पृथ्वीतले त्रिपुरं नाम स्थानम् ।
तस्मिन्त्रिविक्रमो नाम राज ।
तत्र सुन्दराभिधानो वणिक् ।
तद्भार्या सुभगा नामातीव कुलटा ।
सा च भर्त्रा गृहान्निर्यान्ती प्रयत्नेन नियन्त्रिता ।
ताञ्च नियन्त्रणात्पूर्वमेको वणिग्यक्षगृहे स्थितः सकामामभजत् ।
यदा च बहिर्निर्गच्छन्तो पतिना निवारिता तदा सखीं प्राहसखि! अद्य त्वया स मानवो यक्षायतन आकारणीयः यथाहं तत्र गत्वा तं रमे ।
त्वया च मयि गतायां पश्चादस्मद्गृहं ज्वालनीयं यथा गृहकार्यासक्तो जनो मां गातं न जानाति ।
अत्रान्तरेऽहं तं स्वेच्छया भुक्त्वा समुपागच्छामि ।
ततः सखीवचनात्स पुमांस्तत्रायातः ।
साप्यागता ।
तदा च गतायां तस्यां सा सखी तद्गृहं प्रज्वालितवती ।
स पुमान्प्रज्वलने कुतूहली यक्षायतनं मुक्त्वा तत्रावलोकनाय गतः ।
सा च तत्र स्थितासमाप्तात्मप्रयोजना यावता गृहमागता तावता गृहं दग्धम् ।

न गृहं न बहिर्भूप वणिग्वध्वा यथाभवत् ।
तथा तव महाराज भविष्यति सुनिश्चयम् ॥ ८.१२ (=७६) ॥

अथ चेत्ज्ञातेन श्लोकार्थेन प्रयोजनं तदा कल्ये स्वयमेव ज्ञापयिष्यामि ।
इत्युक्त्वा सा गृहं ययौ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ॥

इति शुकसप्ततौ अष्टमी कथा ॥


सुक्९
अथापरेद्युः सविस्मया प्रभावती शुकं पृच्छति स्मशुक! किं विज्ञातं विक्रमार्केण मत्स्यहसनकारणम्? शुकः प्राहदेवि! न किमपि राज्ञा स्वयं ज्ञातम् ।
ततो राजा प्रातर्द्विजसुतामाहुय बालपण्डितां प्राहत्वया इत्युक्तं यत्त्वं स्वयमेव ज्ञास्यसि ।
मया तु किमपि न ज्ञातम् ।
बालपण्डिता प्राहयदि राजन्नेवमपि मया कथ्यमानं न वेत्सि, ततः शृणु ।
पुष्पहासो नाम मन्त्री सर्वमन्त्रिणामग्रणीर्निर्देषो गुप्तः ।
किमिति नियन्त्रितोऽस्ति ।
राजा प्राहअन्वर्थोऽयं पुष्पहासः ।
यतः यदासो मदीयायां संसदि हसति तदास्यास्यात्पुष्पप्रकरो निपतति ।
इयञ्च कथापरराज्यमण्डलेषु ख्याताभूत् ।
ततस्तैः प्रेषिताः स्वीयपुमांसः कुतूहलान्वेषणाय ।
तेषु समायातेषु तेन न हसितं पुष्पप्रकरोऽपि नाभूत् ।
इति कारणात्गुप्तिबन्धः ।
बालपण्डिता प्राहकेनापि कारणेन मन्त्रिणा न हसितम्, राजन्! तत्कारणं त्वया ज्ञातं न वा? राजा प्राहमया किमपि न ज्ञातम् ।
बालपण्डिता प्राहतर्हि कथमिदं दण्डं कुर्वन्पापभाक्न भवसि? उक्तञ्च

धर्मेण राष्ट्रं विन्देन धर्मेणैवानुपालयेत् ।
धर्माच्छरण्यतां याति राजा सर्वभयापहः ॥ ९.१ (=७७) ॥

यथा आग्रहान्मां मत्स्यहास्यकारणं पृच्छसि तथा तमपि पृच्छ हास्यकारणम् ।
स एवात्मीयहास्यस्य मत्स्यहास्यस्य च कारणं वक्ता ।
राजापि तद्वचनात्पुष्पहासं मन्त्रिणं वस्त्रदानपूर्वं मन्त्रिपदे प्रतिष्ठाप्य मत्स्यहास्यकारणं पप्रच्छ ।
मन्त्र्याहयद्यपि गृहदुश्चरितमकथ्यम् ।
यतः

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ ९.२ (=७८) ॥

तथापि तु राजाज्ञा महती ।
यतः
प्रभुः प्रीतिस्निग्धां दृशमपि न पापेषु विसृजेत्कुतः श्लाघ्यामाज्ञां प्रणयरससान्द्रेण मनसा ।
अतीत्यादित्याग्निप्रभृति भुवि धर्मेन्द्रियमयं नृपाख्यं हि ज्योतिः प्रसभमिदमैन्द्रं विजयते ॥ ९.३ (=७९) ॥

ततो राजन्! मे कलत्रं नरान्तररतं जातं तच्च मया ज्ञातम्, तेन च दुःखेन न हसितम् ।
राजापीदमाकर्ण्य पुष्पहस्तकै राज्ञीमाहृत्य सम्मुखमवलोकयामास ।
सा च तेन प्रहारेण कपटमूर्च्छां नाटयति स्म ।
पुष्पहासोऽपि तामवलोक्य सहासो बभूव पुष्पोत्करश्च समजनि ।
राजापि तामाश्वास्य कृतकोपो द्विजात्मजास्यं विलोक्य मन्त्रिणमवादीत्कथमस्मद्दुःखे सहासोऽसि? मन्त्र्यपि सभयमञ्जलिं बद्ध्वाभाषतराजन्! पोटकजनैस्त्वदीया राज्ञी रात्रौ नाडिकाभिराहतापि न मूर्च्छिता, अधुना मूर्च्छितेति हास्यकारणम् ।
राजापि सकोपो “मन्त्रिन्निदं त्वया दृष्टं श्रुतं वेऽति पप्रच्छ ।
मन्त्र्याहस्वामिन्दृष्टमेवेदम् ।
यदि स्वामी न प्रत्येति तदा कञ्चुकमुत्तार्यावलोकयतु ।
एवं कृते राजा सर्वमज्ञासीत् ।
मन्त्रिणो द्विजसुतायाश्च मुखमवलोक्य किमिदमित्यवादीत् ।
मन्त्र्याहस्वामिन्! यदिदं द्विजपुत्र्या गूढार्थं मत्स्यहास्यकारणं निवेदितं तन्मया प्रकटीकृतम् ।
इत्येवमुक्तो राजा आस्थानं व्यसर्जयत् ।
अथ द्विजसुतापुष्पहासावपि भीतहृष्टौ स्वं स्वं गृहं जग्मतुः ।
तेन च राज्ञा तस्या मञ्जूषास्थितो नरो दृष्टो विनाशितः ।
सा च निजवासाद्विसर्जिता ।
शुकः प्रभावतीमाह

तथा त्वमपि कल्याणि मा कुरुष्व वृथाग्रहम् ।
यदाग्रहपरो लोके विलक्षो विक्रमार्कवत् ॥ ९.४ (=८०) ॥

इति कथा श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ नवमी कथा ॥


सुक्१०
अन्यदा सशृङ्गारा प्रभावती शुकमाह

किं कर्तव्यं मया कीर त्वं वदाद्य प्रियम्वद ।
यदि तेऽस्ति सखी याहि शृङ्गारीव सहायिनी ॥ १०.१ (=८१) ॥
प्रभावत्याहकथमेतत्? शुक आहअस्ति राजपुरं नाम स्थानम् ।
तत्र देवसाख्यः कौटुम्बिकः, तत्कलत्रे शृङ्गारवती सुभगा च ।

परस्परपरित्राणकृतबन्धपरायणे ।
परपुरुषलम्पटे प्रसिद्धे रतकर्मणि ॥ १०.२ (=८२) ॥

अन्यदा यावत्सुभगा उपपतिना सह गृहान्तर्विद्येत तावद्बहिः स्थानात्पतिर्झिण्टहस्तो गृहद्वारि समाययौ ।
तदा सा कथं भवत्विति प्रश्नः? उत्तरमाह शुकःततः शृङ्गारदेव्या सा नग्नीकृत्य गृहाद्बहिर्निष्कासिता ।
पतिरपि “किमिदमिऽति ब्रुवाणोऽत्यादरात्शृङ्गारदेव्या उक्तःयत्त्वया एतानि झिण्टानि देव्या उपवनादानीतानि तत इयं ग्रहिला सञ्जाता ।
ततो यथास्थानं गत्वा मुञ्च यथा प्रगुणा स्यात् ।
ततः स मूढो यावदेवं कर्तुं बहिर्जगाम तावत्तया गृहादुपपतिर्निष्कासितः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ दशमी कथा ॥


सुक्११
प्रदोषसमयेऽन्यस्मिन्कामिनी काममोहिता ।
विनयेन शुकं प्राह गच्छामि यदि मन्यसे ॥ ११.१ (=८३) ॥
शुकः प्राह

अवश्यमेव गन्तव्यं त्वयेत्थं मम निश्चयः ।
मनोऽभीष्टे पयो निम्ने गच्छत्कः प्रतिवारयेत् ॥ ११.२ (=८४) ॥

गतयापि त्वया तत्र कर्तव्यं किञ्चिदद्भुतम् ।
यथा रम्भिकया पूर्वं ब्राह्मणार्थेऽद्भुतं कृतम् ॥ ११.३ (=८५) ॥

प्रभावत्याहकथमेतत्? शुक आहअस्ति दाभिलाख्यो ग्रामः ।
तत्र विलोचनो ग्रामणीः ।
तद्भार्या रम्भिकाभिधा परनप्रिया ।
तां च तद्भर्तृभयान्न कोऽपि कामयते ।
ततः सा जलव्याजात्घटमादाय वापीं ययौ ।
दृष्ट्वा च तत्र सुरूपं पथिकं भट्टपुत्रं क्रीडार्थं दृष्टिसंज्ञया बभाण ।
सोऽपि कामिनीदृष्टिसञ्चारचतुरो विवेद तदाकूतम् ।
उक्तञ्च

उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति नोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ ११.४ (=८६) ॥

किञ्च णअब्भन्तरघोलन्तीए हअरमणराअदिट्ठीए ।
पुणरुत्तपेच्छिरीए बालअ किं किं ण भणिओ सि ॥ ११.५ (=८७) ॥

[नाभ्यन्तरं घूर्णयन्त्या हृदयमनोराम दृष्ट्या ।
पुनुरुत्प्रेक्षमाणया बालक किं किं न भणितोऽसि] ॥ ११.५* (=८७*) ॥

अच्छीहिं चिअ भणिअं हिअअत्त्थं जो जणो ण लक्खेइ ।
तेण पडिबोहिएण ए किं कीरै ण क्खु अल्लेण ॥ ११.६ (=८८) ॥

[अक्षिभ्यां चिरभणितं हृदयस्थं यो जनो न लक्षयति ।
तेन प्रतिबोधितेन च किं क्रियते नु खलु अज्ञेन] ॥ ११.६* (=८८*) ॥

ततः स तदन्तिकमागत्य जगादभद्रे किं विधेयम्? साहत्वया मम पृष्ठलग्नेन अस्मद्गृहं समागन्तव्यं मम पत्युश्च नमस्कारो विधेयः ।
सर्वमन्यदहं करिष्ये ।
त्वया तथैवेति वाच्यम् ।
एवमुक्त्वा सा गृहं प्रविष्टा ।
सोऽपि गृहं प्रविष्टस्तत्पत्यरग्रे तस्थौ ।
पतिरपि विस्मितः ।
ततः सा कुम्भं मुक्त्वा पत्युः सकाशमागत्याव्रवीत्नाथ! उपलक्षस्व एनम् ।
स आहने वेद्मीति ।
ततः सा प्राहअयं मातृम्वसुः सुतो यो मया शिशुत्वे मुक्तः ।
स धवलो नाम मम मिलनार्थं समागमत् ।
ततो मया आलिङ्ग्य सर्वापि स्वजनवार्ता पृष्टा ।
स च ब्राह्मण “एवमितिऽ जल्पति ।
ततः पतिना सानुज्ञाता तं महानसं नीत्वा भोजनाच्छादनसंस्कारैस्तोषयामास ।
पतिरपि तुष्टः प्राहभद्र! त्वया निजबान्धवस्य महती भक्तिः कार्येत्युक्त्वा सुप्तः ।
तदा च रम्भिका ब्राह्मणखट्टवायामुपावशत् ।
ततस्तेनोक्तम्त्वया पत्युग्रे इत्युक्तं यन्मदीयो भ्राता समागतः ।
तत्त्वं मे प्रतिपन्ना भगिनी प्रतिपन्नं च निर्वाह्यते ।
उक्तञच

छिज्जौ सीसुमह होउ बन्धणं चऔ सव्वहा लच्छी ।
पडिवण्णपालणे सुपुरिसाण जं होउ तं होउ ॥ ११.७ (=८९) ॥

[छिद्यतां शीर्षमथ भवतु बन्धनं चलतु सर्वथा लक्ष्मीः ।
प्रतिपन्नपालने सुपुरुषाणां यद्भवतु तद्भवतु] ॥ ११.७* (=८९*) ॥

लज्जिज्जै जेण मणो मैलिज्जै णिअकुलक्कमो जेण ।
कण्ठट्ठिए वि जीए मा सुन्दरि तं कुणिज्जासु ॥ ११.८ (=९०) ॥

[लज्जते येन मनो मलिनयति निजकुलक्रमो येन ।
कण्ठस्थितेऽपि जीवे मा सुन्दरि तं करिष्यसि] ॥ ११.८* (=९०*) ॥

रम्भिका प्राहमा एवं वद ।

यतोऽतिदुर्लभा रामा पितृमातृपरायणा ।
पितृमातृमयैर्भूत्वा भोक्तव्या कामिनी रैः ॥ ११.९ (=९१) ॥

उक्तञ्च

कामार्तां स्वयमायातां यो न भुङ्क्ते नितम्बिनीम् ।
सोऽवश्यं नरकं याति तन्निःश्वासहतो नरः ॥ ११.१० (=९२) ॥

सो किं व माणै पर महिल जो णवि जंपि एम्व ।
…. …. …. ॥ ११.११ (=९३) ॥

[स किमेव मन्यते परमहिलां यो विपरीतं जल्पत्येवम् ।
…. …. ….] ॥ ११.११* (=९३*) ॥

जो णवि माणै… सो किं व माणै थी अवराइ ।
… … … मा करि णेह अम्हहं भङ्गु ॥ ११.१२ (=९४) ॥

[यो विपरीतं मन्यते…स किमिव मन्यते स्त्रियमपराम् ।
… … …] ॥ ११.१२* (=९४*) ॥

श्रूयते रुक्मिणी पूर्वं कृष्णेव मदनातुरा ।
गृहीता भ्रातृजायापि कः काममतिलङ्घयेत् ॥ ११.१३ (=९५) ॥

विरञ्चिरपि कामार्तं स्वसुतामभिलाषुकः ।
दृश्यतेऽद्यापि वियति हारिणीं तनुमाश्रितः ॥ ११.१४ (=९६) ॥
विवाहे पार्वती दृष्ट्वा हरस्य हरवल्लभाम् ।
चस्कन्द रेतस्तस्यापि बालखिल्यास्तदुद्भवाः ॥ ११.१५ (=९७) ॥

तयैवं बोधितो मूर्खः स यावद्रमते न ताम् ।
फूत्कृतं मुषितास्मीति त्रायतां त्रायतामहो ॥ ११.१६ (=९८) ॥

तया च फूत्कृते किमिदमिति कुर्वाणो बान्धवैः सह धावितो भर्ता ।
स च कथं मुच्यते? इति प्रश्नः ।
उत्तरमेवं च स ब्राह्मणः सभयः सन्नतः पादयोः पतितो जगादस्वामिनि! प्राणान् रक्ष ।
तवेहितं करिष्यामि ।
एवं स्थिते सा दुग्धसहितं भक्तमढण्ढोलयतन्तिके ज्वलिनमज्वालयत् ।
आगतं च पतिं जगादअस्य विषूचिका उपपन्ना ।
ततो मया फूत्कृतम् ।
एवमुक्त्वा दुग्धभक्तं प्रदशितम् ।
पतिरपि मूर्खो दृष्ट्वा ययौ ।
ततः सा पत्यौ सुप्ते यदृच्छया सुरतं चकार ।
सोऽपि च मान्द्यव्याजान्मासमेकं स्थितः पश्चाज्जगाम ।
इति श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ एकादशी कथा ॥


सुक्१२
अथान्यदा सा चलिता ।
शुकः प्राह

विपरीते समायाते यदि वेत्सि त्वमुतरम् ।
यथा शोभिकया प्रोक्तं वव्वूले चरिते सति ॥ १२.१ (=९९) ॥

अस्त्यत्र नलौडाग्रामे कुलालो महाधनः ।
तस्य भार्या शोभिका नाम परं कुलटा नरलम्पटा च ।
सा पत्यौ बहिर्गते उपपतिसहिता गृहान्तः क्रीडति ।
तस्याश्चैवं स्थिताया भर्ता गृहं समागमत् ।
तदनन्तरं सा कथं भवत्विति प्रश्नः ॥
शुकः प्राहयदा च तया स आगच्छन् ज्ञानस्तदा उपपतिरुक्तः”च] त्वं वव्वूलवृक्षम्ऽ ।
एवं च स तयो प्रोक्तस्तथा चकार ।
तस्य च वृक्षे चटतः परिधानवस्त्रं विलग्नं नग्नोऽपि वृक्षमारूढः ।
तस्मिंश्च वृक्षमारूढे पतिः प्राहकमिदमिति ।
सा आहअयं शत्रुभिरभिभूतोऽदोवस्त्रमपि त्यक्त्वा वव्वूलमधिरूढः ।
ततः समागत्य तस्याः पतिना वृक्षान्मन्दं मन्दमुत्तार्य स स्वगृहं प्रेषितः ।
तया धूर्तया च सहहस्ततालं हसितम् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ द्वादशोकथा ॥


सुक्१३
अथान्येद्युः प्रभावती शुकं पृच्छति ।
शुक आह

व्रज देवि सुखं भुङ्क्ष्व अर्धभुक्ते पतौ यथा ।
कृतं राजिकया चित्तमुत्तरं धूलिसंयुतम् ॥ १३.१ (=१००) ॥

अस्ति नागपुरं नाम स्थानम् ।
यत्रैको वणिक ।
तत्पत्नी राजिकानाम्नी सुरूपा परं दुश्चारिणो ।
वणिक्सुतश्च तां नरान्तरासक्तां न जानाति ।
ततश्च एकदा स भोजनाय यदोपविष्टस्तदा उपपतिः कृतसंकेतो मार्गे गच्छन् तया दृष्टः ।
तं त दृष्ट्वा गृहेऽद्य धृतं नास्ति इत्युक्त्वा द्रव्यं तत्सकाशादादाय घृतानयनदम्भेन वेश्मतो निर्गत्य च सा बहिर्जारेण सह चिरं स्थिता ।
पतिस्तु गृहे क्षुधार्तः क्रुद्धश्च ।
ततः सा कथं गृहं गन्तुमर्हतिइति प्रश्नः ।
उत्तरम्ततः सा हस्तौ पादौ मुखं च धूलिधूसरं विधाय सद्रम्मा धूलिं गृहीत्वा गृहमागता ।
पतिः क्रुद्धो रक्तेक्षणः किमिदमित्याह ।
सा च सनिःश्वासं रुदती धूलिपुञ्जं दर्शयित्वा इदमुवाचयत्कृते त्वं क्रुद्धः स ते द्रव्योऽत्र धूल्यां पतितः ।
एनामुत्क्षिप्य गृहाण त्वम् ।
एवमुक्तः स विलक्षः तदङ्गानि वस्त्राञ्चलेन सम्मार्ज्य सान्त्वयामास विविधलालनैः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ त्रयोदशी कथा ॥


सुक्१४
सा नितम्बिनि अन्येद्युश्चलिता ।

शुकेनोक्तं युक्तमेव विशालाक्षि परं रन्तुं यदृच्छया ।
यद्यायाते पतौ वेत्सि धनश्रीरिव भाषितुम् ॥ १४.१ (=१०१) ॥

प्रभावत्याहकिमेतत् ।
शुकः प्राहअस्ति पद्मावती पुरी ।
तत्र धनवालो नाम वणिक् ।
तस्य भार्या प्राणेभ्योऽपि प्रिया धनश्रोर्नाम ।
तच्च मिथुनं परस्परं स्नेहनिर्भरं क्रीडति ।
अन्यदा तु वणिग्द्रव्यसारमादाय तामापृच्छ्य देशान्तरं जगाम ।
सा च तस्मिन्गते संस्थितेव गृहस्थिता ।

न स्नाति न च सा भुङ्क्ते न जल्पति सखीसमम् ।
निरस्ताशेषसंस्कारा स्वदेहेऽपि पराङ्मुखी ॥ १४.२ (=१०२) ॥

मलयानिलमारूढः कोकिलालापडिण्डिमः ।
मल्लिकामोददूतश्च मधुपारवमङ्गलः ॥ १४.३ (=१०३) ॥
अन्यदा तु समायातो वसन्तः कालराट्क्षितौ ।
मनोऽपि विक्रियां यस्मिन्याति संयमिनां किल ॥ १४.४ (=१०४) ॥

तस्मिन्वसन्तोत्सवे गृहोपरि स्थिता नगरीरामणीयकमालोक्य यौवनं रूपं च निनिन्द ।
सखी च तदिङ्गितज्ञा जगादभामिनि! रूपं वयश्च मा व्यर्थं विधेहि ।

यतः वाद्यते शृणु रम्भोरु कोकिलारावडिण्डिमः ।
मदनस्य नृपस्येव वसन्तेन धरातले ॥ १४.५ (=१०५) ॥
मुञ्चन्तु मानिनः सर्वे मानं सेवन्तु वल्लभाः ।
गत्वरं यौवनं लोके जीवितं च तथा चलम् ॥ १४.६ (=१०६) ॥

ततस्त्वमपि कुरु वयःसाफल्यमित्युक्ते धनश्रीर्जगादनाहं विलम्बितुं सहामि ।
यत्त्वया भवति तत्शीघ्रं विधेहि ।
ततस्तया सा नरान्तरेण योजिता ।
यदा च सा तेनात्मासक्ता ज्ञाता तदा तदीयशिरोवेणी छिन्ना ।
तत्काले च पतिर्देशान्तरादाजगाम ।
तदा सा कथं भवत्विति प्रश्नः ।
शुकः प्राहयदा च पतिर्गृहद्वारमाययौ तदा तयोत्तरं विचिन्त्योक्म्नाथ! त्वया तादवद्गृहद्वारि स्थीयतां यावत्सर्वं सज्जं विधीयते ।
तेन चैवं प्रतिपन्ने सा मध्ये गत्वा भट्टारिकां पूजयित्वा पुरतो वेणीं स्थापयामास ।
एवं कृत्वा बहिर्निर्गत्य चरणमण्डकैः पतिं गृहन्तर्देवीपुरतो नीत्वा जगादनाथ! पूजय गृहाधिदेवताम् ।
तेन पूजयता वेणीं दृष्ट्वा उक्तम्किमिदमिति ।
तयोक्तम्मयोपयाचितमासीत् ।
यदा मे पतिः समेष्यति तदा स्वामिन्यहं तवाग्रे वेणीं छेत्स्यामि ।
तदधुना मया कृतम् ।
स च मुग्धो देवीं नमस्कृत्य तां बहु मानयामास ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ चतुर्दशी कथा ॥


सुक्१५
अन्यदा सा चलिता ।

हसन्नाह शुको याहि यदि कर्तुं त्वमुत्तरम् ।
वेत्सि यथा श्रियादेव्या नूपुरेऽपहृते कृतम् ॥ १५.१ (=१०७) ॥

अस्ति शालिपुरं नाम नगरम् ।
तत्र शालिगो वणिक् ।
तत्पत्नी जयिका ।
तयोः सुतो गुणाकरो नामाभूत् ।
तद्भार्या श्रियादेवी ।
सा चापरेण सुबुद्धिनाम्ना वणिजा सह रमते ।
ततो लोकापवादेऽपि संजातेऽनुरक्तस्तदीयः पतिर्न किमपि कर्णे करोति ।

उक्तञ्च रत्ता पिच्छन्ति गुणा दोसा पिच्छन्ति जे विरत्तत्ति ।
मज्झत्था उण पुरिसा दोसा वि गुणा वि पिच्छन्ति ॥ १५.२ (=१०८) ॥
[रक्ताः पृच्छन्ति गुणान् दोषान् पृच्छन्ति ये विरक्ताः ।
मध्यस्थाः पुनः पुरुषा दोषानपि गुणानपि पृच्छन्ति] ॥ १५.२* (=१०८) ॥
किञ्च महिलारत्ता पुरिसा छेआ वि ण संभरन्ति अप्पाणम् ।
इअरे उण तरुणीणं पुरिसा सलिलं व हत्थगअं ॥ १५.३ (=१०९) ॥
[महिलारक्ताः पुरुषाश्छेका अपि न सम्भरन्ति आत्मनाम् ।
इतरे पुनस्तरुणीनां पुरुषाः सलिलमेव हस्तगतम्] ॥ १५.३
(=१०९*) ॥

अन्यदा सा श्वशुरेण नरान्तरसहिता सुप्ता दृष्टा ।
ततश्चरणान्नूपुरं श्वशुरेण चोत्तारितं तया च ज्ञातम् ।
ततः सा तं जारं प्रस्थाप्य भर्तारं तत्रानीय तेन सह सुप्ता ।
निद्रान्तरे च पतिरुत्थापितः कथितञ्चत्वदोयेन पित्रा नूपुरमस्मत्पादादवर्ताय गृहीतम् ।
एवंविधं च पातकं क्वापि न दृष्टं यद्वधूपादात्श्वशुरो नूपुरं गृह्णाति ।
तेनोक्तम्प्रातः पितुः सकाशात्स्वयमर्पयिष्यामि ।
तेन च गुणाकरेण पितर निर्भर्त्स्य तत्सकाशान्नूपुरं याचितम् ।
पित्रा चोक्तम्यदियं परपुरुषेण सह सुप्ता दृष्टा अतो मया नूपुरं गृहीतम् ।
तयोक्तम्त्वत्पुत्रेण सह सुप्ताहमासम् ।
इत्यर्थे दिव्यं करोमि ।
अत्रैव ग्रामे उत्तरस्यां दिशि यक्षोऽस्ति ।
तस्य जङ्घान्तरान्निर्गमिष्यामि ।
यः कश्चित्सत्यो भवति स जङ्घयोरन्तरान्निष्क्राम्यतीति प्रसिद्धम् ।
एवं श्वशुरेण चाङ्गीकृते सा कुलटा सति दिने जारस्य गृहे गत्वा तमुवाचभो कान्त! प्रातरहं दिव्यार्थं यक्षस्य जङ्घान्तरान्निर्गमिष्यामि ।
त्वया तत्र समागत्य वातूलत्वमाश्रित्य मम कण्ठग्रहो विधेयः ।
तेन च तथोक्ते सा स्वगृहमाजगाम ।
अथ प्रापः समस्तमहाजनं मलयित्वा पुष्पाक्षतादिकमादय यक्षायतने गत्वा समीपसरसि स्नानं कृत्वा यक्षपूजार्थं समागच्छन्त्यास्तस्याः पूर्वसङ्केतितो जारो ग्रहिलीभूतस्तत्कण्ठे निजबाहुद्वयं योजयामास ।
तत आः किमेतदित्यभिधाय सा पुनः स्नानार्थं ययौ ।
सोऽपि ग्रहिलो लोकैः कण्ठे गृहीत्वा तस्मात्प्रदेशाद्दूरीकृतः ।
सापि स्नानं कृत्वा यक्षसमीपमागत्य पुष्पगन्धाद्यैरभ्यर्च्य सर्वलोकानां शृण्वतामुवाचभो भगवन्यक्ष! निजभर्तारमेनं च ग्रहिलं विना यद्यन्यपुरुषः स्पृशति कदाचन मां तदा तव जघाभ्यां सकाशान्मम निष्क्रमणं मा भवत्वित्यभिधाय सर्वलोकसमक्षमेव जङ्घयोर्मध्ये प्रविश्य निष्क्रान्ता ।
यक्षोऽपि तद्बुद्धि मनसि श्लाघमान एव स्थितः ।
सापि सतीति समस्तलोकैः पूजिता स्वभवनं जगाम ।
एवं चेत्श्रियादेवीवत्कर्तुं जानासि तदा व्रज ।
इति श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ पञ्चदशी कता ॥


सुक्१६
अन्यदा सा चलिता शुकं प्राहशुकाहं नरान्तरं गमिष्यामि ।

शुकः प्राह सत्यमेव त्वयाभाणि कर्तव्यं यन्मनोऽनुगम् ।
मनस्तु मुग्धिका यद्वदशक्यान्खेदयत्यलम् ॥ १६.१ (=११०) ॥

तच्ध्रुत्वा प्रभावत्याहकथमेतत् ।
सोऽब्रवीतस्ति विदिशा नाम पुरी ।
तस्यां जनवल्लभो नाम वणिक् ।
तस्य भार्या मुग्धिका नाम चपला स्वैरिणी ।
यदा च तयातिशयेन विदूषितोऽयं तदा बन्धूनां कथयामास यदियं बहिःशायिनी ।
यदा च तैरेवमुक्ता तदा तयाप्युक्तमयमेव बहिःशायी सदैव ।
मां मुधापवादयति ।
ततस्तैर्मिलित्वा निर्बन्धः कृतः “यः कोऽपि अद्यप्रभृति बहिःशायी सोऽपराधो” ।
एवं निर्बन्धे कृतेऽपि सा सुप्तं पतिं विहाय बहिर्गता ।
तस्यां च बहिर्गतायां स पतिर्द्वारं दत्वा सुप्तः ।
यदा चबहिः क्रीडां कृत्वा समागतायाः स पतिर्द्वारं नोद्घाटयति तदा सा कूपे दृषदं क्षिप्त्वा द्वारदेश एव स्थिता ।
पतिरपि कूपे पतिता भविष्यतीति ज्ञात्वा द्वारमुद्घाट्यबहिर्निर्गतः ।
तदा सा द्वारं पिधाय मध्ये स्थिता ।
सोऽपि च बहिः स्थितो “हा प्रियेऽ एवं वदन्महता शब्देन गोदितुमारब्धः ।
सापि विगोपकभयाद्बहिर्निर्गत्य पतिं मध्ये निनाय ।
ततस्तन्मिथुन परस्परं निर्बन्धं चकार ।
यदद्यप्रभृति मया त्वया विसंवादो न विधेयः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ षोडशी कथा ॥


सुक्१७
अन्यदा सा हसन्ती नरान्तरगमनाय शुकं पृच्छति ।
शुक आहयदेव मनसोऽभीष्टं तदेव कार्यम् ।

उक्तञ्च दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥ १७.१ (=१११) ॥
मनोऽनुकूलं कुर्वन्तु तन्वि ते दुःखमागतम् ।
सोढुं शक्तास्तथा वक्तुं गुणाढ्यो ब्राह्मणो यथा ॥ १७.२ (=११२) ॥

प्रभावती पृच्छतिकथमेतत् ।
शुकः कथयतिअस्ति विशाला पुरी ।
तत्र यायजूको ब्राह्मणः ।
तस्य पत्नी पाहिनी नाम सुरूपा अतिवल्लभा ।
तत्पुत्रः पित्रा सर्वामपि क्रमाद्विद्यां ग्राहितः ।
अन्यदा स पितरौ मुक्त्वा देशान्तरं गतः ।
गुणाढ्य इति विश्रुतो बभूव ।
जयन्त्यां च नगर्यां बुद्धिजीवनं व्यचिन्तयत् ।
ततः षण्डं यवकाशादिभिः पुपोष ।
सोऽपि षण्डस्तमनु परिभ्रमति ।
अन्यदा सबन्धनं षण्डं विधाय वणिजारकवेषधारी मदनाया वेश्यायाः क्टुटिनीं जगादअस्मदीया बलीवर्दाः सवस्तुका प्रातरेष्यन्ति ।
अद्याहं तृणानयनार्थमागतः ।
तद्यत्र अस्मदीयस्य बलीवर्दस्य स्थानं भवति तत्राहं स्वपिमि ।
इत्युक्ते सा कुट्टिनी बलीवदधनैषिणी तं स्थापयामास ।
सोऽपि तं षण्डं बद्ध्वा विलासिनीपार्श्वे ययौ ।
तया च स्नापितो भोजितश्च गुणाढ्यो रजन्यां शृङ्गारितः तत्सकाशे स्थितः ।
सोऽपि च प्रभातायां निशि प्रथममेवोत्थाय स्वर्णशृङ्खला गृहीत्वा जगाम ।
गते च तस्मिन्नेका चेटी उत्थिता षण्डमदृष्ट्वा कुट्टिनीं प्रत्याह “आउए किमिदम्ऽ ।
ततस्तं विलासिनीपार्श्वाद्गतं ज्ञात्वा मौनं विधाय स्थिता ।

उक्तञ्च अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १७.३ (=११३) ॥

अन्यदा गुणाढ्यो द्यूतनिर्जितः खटिकाहस्तो वेश्यया धृतः ।
तेनोपायश्चिन्नितःशम्बलो शम्बलीति जगाद ।
ततस्तया राजभयान्मुक्तः ।
ततस्तस्यां चलितायां पृष्ठलग्न एव शम्बलीति वदन् गच्छति ।
ततस्तया विजने नीत्वा हस्तात्प्रसाद्य स्वर्णाभरणं दत्तम् ।

सोढुं त्यक्तुं च यः शक्तो मनसा कृतमन्यथा ।
मनोऽनुकूलतां कुर्वन्न स निन्द्यः सदा सताम् ॥ १७.४ (=११४) ॥

इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ सप्तदशी कथा ॥


सुक्१८
अन्यदा सा चलिता शुकेनोक्ता ।

गच्छ देवि न ते देषो गच्छन्त्याः परवेश्मनि ।
यदि काचिच्छरीरे ते बुद्धिः सर्षपचौरवत् ॥ १८.१ (=११५) ॥

अस्ति शुभस्थानं नाम नगरम् ।
तत्र दरिद्रो नाम वणिक् ।
तस्य गृहे चौरः प्रविष्टः ।
सोऽपि च तत्रान्यत्किमप्यलभमानः सर्षपान् गृहीत्वा निर्गतो राजपुरुषैः प्राप्तः ।
सर्षपान् गले बद्ध्वा भ्रामितो राजकुलात्स कथं मुच्यते ।
उत्तरम्यो यः पृच्छति तस्य तस्याग्रे वदतिअहो सर्षपाणां मध्ये न किञ्चित् ।
ततो राज्ञा सभायामाकार्य पृष्टःतव वचोऽभिप्रायं न जाने ।

प्राह बलेर्वर्षदिने लोकः सर्षपान्पञ्चरक्षकान् ।
हस्ते बध्नाति तन्नूनमप्रमाणमतः परम् ॥ १८.२ (=११६) ॥

यतोऽहमेतावद्भिरपि गले बद्धैर्बद्धः राजापि तदाकर्ण्य हसंस्तं मुमोच ।
इति श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ अष्टादशी कथा ॥


सुक्१९
अन्यदा प्रभावती चलिता ।

शुकः प्राह कुरु यद्रोचते भीरु यदि कर्तुं त्वमीश्वरा ।
यथा सन्तिकया भर्ता स्वच्छन्दा च विमोचिता ॥ १९.१ (=११७) ॥

अस्ति करहडाभिधं पुरम् ।
तत्र राजा गुणप्रियो नाम यथार्थः ।
तत्र च सोढोको नाम श्रेष्ठिः ।
तद्भार्या सन्तिका नाम पतिव्रता ।
तत्रैव चान्यो वणिक् ।
तद्भार्या स्वच्छन्दा नाम पुंश्चली ।
सा च सोढाकं नित्यमिच्छति परं सोऽभिवाञ्छां न विधत्ते ।
अन्यदा च मनोरथाभिधं यक्षं नमस्कर्तुं जगाम सः ।
ततः स्वच्छन्दा पृष्ठलग्ना तत्र प्रविष्टा ।
स च हावभावाद्यैरनुकूलितो भुक्तः ।
युक्तमुक्तञ्च

सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ १९.२ (=११८) ॥

तच्च मिथुनं दृष्ट्वा राजपुरुषः तद्बन्धनाय यक्षगृहं वेष्टितम् ।
सन्तिका च शुद्धिं ज्ञात्वा रात्रौ महता तूर्यशब्देन यक्षगृहं गता ।
तेषामारक्षकाणां पुरत उक्तमहमद्यदिनव्रता यक्षं दृष्ट्वा भोजनं विजने विधास्ये ।
मां च किञ्चिद्धनं गृहीत्वा मध्ये प्रवेशयतु ।
तैरपि तथैव कृतम् ।
ततस्तया स्वच्छन्दा स्ववेषां कारयित्वा बहिर्निष्कासिता ।
स्वयं मध्ये स्थिता ।
तं च प्रातर्निजकान्तासहितं दृष्ट्वा आरक्षका विलक्षीबभूवुः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ एकोनविंशतितमी कथा ॥


सुक्२०
अन्यदा प्रभावती शुकं पप्रच्छ ।

शुकः प्राह गच्छ देवि मनो यत्र रमते ते नरान्तरे ।
केलिकावद्यदा वेत्सि पतिवञ्चनमद्भुतम् ॥ २०.१ (=११९) ॥

अस्ति साभ्रमत्या नद्यास्तटे शङ्खपुरं नाम स्थानम् ।
तत्र च कर्षुकः सूराख्यो धनी ।
तस्य केलिका भार्या परं कुटिला कुलटा च ।
सान्यस्मिन्नदीतीरे सिद्धेश्वरपुरस्थं ब्राह्मणं कामयते ।
तदासक्ता च रात्रौ प्रातिवेशिकादूतिकासाहाय्यान्नदीं तीर्त्वा तदन्तिकं प्राप्नोति ।
अन्यदा भर्त्रा ज्ञातम् ।
स च तत्र गतस्तच्चरित्रगवेषणाय ।
यावत्सा नदीतीरे तत्र समागता तया च तावद्दृष्टः ।
ततस्तरणघटं पानीयभृतं विधाय प्रातिवेश्मिकागृहमध्ये भट्टारिकां मण्डयित्वा तेन पयसा स्नापयित्वा प्रत्युवाच प्रथमसंकेतितां दूतिकामुद्दिश्य”स्वामिनि! पुरा त्वया उक्तं यदि त्वं सिद्धेश्वरीं न स्नापयसि ततः पञ्चानां दिनानां मध्ये त्वद्भर्तृभरणं भविष्यति ततो यदि त्वद्वचनप्रमाणं तदा मम पतिश्चिरं जीवतु ।
प्रातिवेश्मिकयोक्तमेवमस्त्विति श्रुत्वा पतिस्तुष्टो भूत्वालक्षित एव जगाम ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ विंशतितमी कथा ॥


सुक्२१
अन्यस्मिन्दिने प्रभावत्या पुष्टः शुकः प्राह

व्रज देवि न दोषोऽस्ति व्रजतां सर्वकर्मसु ।
बुद्धिरस्ति यदा येषां मन्दोदर्याः सहायिनी ॥ २१.१ (=११८) ॥

प्रभावत्याहकथमेतत् ।
शुक्रःस्ति प्रतिष्ठानं नाम नगरम् ।
तत्र हेमप्रभो नाम राजा ।
श्रुतशीलो मन्त्री ।
श्रेष्ठी यशोधरः ।
मोहिनी भार्या ।
तयोस्तनया मन्दोदरी ।
स श्रीवत्साय वणिजे कान्तिपुरीसमागताय दत्ता ।
तन्मिथुनमतीव स्नेहलम्पटम् ।
सा च प्रातिवेश्मिकया पितृभार्यया कुट्टिन्या दंष्ट्राकरालया योजितमन्यं राजपुत्रमुपभुङ्के ।
साऽपन्नसत्त्वा भूता गर्भसंभवात्संजाते दोहदे राजवल्लभं मयूरं मारयित्वा भक्षितवती ।
राजा तु तस्मिन्मयूरे समागते भुङ्क्ते इति स्थितिः ।
तस्मिन्दिवसे तु भोजनवेलायां न लब्धः ।
डिण्डिमघोषणे कृते कुट्टिन्या पटहः स्पृष्टः ।
तया च ज्ञातं यत्कयाचिदापन्नसत्त्वया मयूरो दोहदाद्भक्षितः ।
ततः सा गर्भवती पृष्टा तया कुट्टिनो गृहमागता सम्मानिता ।
उक्तञ्च

माधुर्यं प्रमदाजने सुललितं दाक्षिण्यमार्ये जने, शौर्यं शत्रुषु मार्दवं गुरुजने धर्मिष्ठता साधुषु ।
मर्मज्ञेष्वनुवर्तनं बहुविधं मानं जने गर्विते, शाठ्यं पापजने नरस्य कथिताः पर्यन्तमष्टौ गुणाः ॥ २१.२ (=११९) ॥

तया च सर्वोऽपि मयूरवृत्तान्तो निवेदितः ।
सा चकुट्टिनी विश्वासघातिका ।
उक्तञ्च

न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥ २१.३ (=१२०) ॥
दारेषु गोप्यं पुरुषस्य किञ्चिद्गोप्यं वयस्येषु सुतेषु किञ्चित् ।
युक्तं न युक्तं मनसा विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् ॥ २१.४ (=१२१) ॥
किञ्च

सोपचाराणि वाक्यानि शत्रूणामिह लक्षयेत् ।
अविचारितगीतार्थां मृगा यान्ति पराभवम् ॥ २१.५ (=१२२) ॥

किरातेऽप्युक्तम्

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिताइवेषवः ॥ २१.६ (=१२३) ॥

कुट्टिन्या तत्सर्वं ज्ञात्वा मन्त्रिणे निवेदितम् ।
मन्त्रिणापि राज्ञे ।
राजा प्राह

मा होहि सुहग्गाहि मा पत्तिहि जं ण दिट्ठपच्चक्खम् ।
पच्चक्खम्मि वि दिट्ठे जुत्ताजुत्तं विउतणाहि ॥ २१.७ (=१२४) ॥

[मा भव सुखग्राही मा प्रत्येहि यन्न दृष्टं प्रत्यक्षम् ।
प्रत्यक्षेऽपि दृष्टे युक्तायुक्तं विजानीहि] ॥ २१.७* (=१२४*) ॥
तद्वणिजो नगरप्रधानस्य वध्वा नैतन्निष्पद्यते ।
यावदात्मना न दृष्टं तावदसौ न विडम्ब्यः ।
तच्च कुट्टिन्या अग्रे मन्त्रिणा निवेदितम् ।
कुट्टिनी च मन्त्रिणं पेटायां निक्षिप्य तद्गृहे न्यासव्याजेन मुमोच ।
स्वयं च तत्र गत्वा तामभाषत मुग्धे! यन्मयूरभक्षणं कृतं तत्त्वं मे श्लाघ्या ।
उक्तञ्च

एणः कुरङ्गो हरिमस्तित्तिरिर्लाव एव च ।
मयूरचर्मिकूर्माश्च श्रेष्ठा मांसगणेष्वपि ॥ २१.८ (=१२५) ॥

पुनरपि समग्रो वृत्तान्तः पुष्टः ।
कथ्यमानश्च पेटाहननकृतसंज्ञेन मन्त्रिणा श्रुतः ।
तत्कथं सा श्रेष्ठिवधूस्तत्पिता श्वशुरश्च मुच्यन्ताम् ।
उक्तञ्च

न नीचजनसंसर्गान्नरो भद्राणि पश्यति ।
दर्शयत्येव विकृर्तिं सुप्रियेऽपि खलो यतः ॥ २१.९ (=१२६) ॥

नाशयितुमेव नीचः परकार्यं वेत्ति न प्रसाधयितुम् ।
पाटयितुमेव शक्तिर्नखोरुद्धर्तुमन्नपिटम् ॥ २१.१० (=१२७) ॥

दुज्जणजणणं सग्गे काअच्चाओ वि होइ विबुहाणम् ।
पेच्छह तिलेहि पत्तं खलसंगे पीडणं जत्तो ॥ २१.११ (=१२८) ॥

[दुर्जनजनानां संगे कायत्यागोऽपि भवति विबुधानाम् ।
प्रेक्षस्व तिलानामपि खलसङ्गे पीडनं यतः] ॥ २१.११* (=१२८*) ॥

यावत्सा कुट्टिनी पेटां हस्तेन हन्ति तावत्सा वणिक्पुत्री सवितर्कमवादीत्

विभाता रजनी तावद्यावदेवं कृतं मया ।
प्रबुद्धं च तदा मातर्नाग्रे किञ्चिद्विदृश्यते ॥ २१.१२ (=१२९) ॥

मार्तमया एवंविधः स्वप्नो दृष्ट ।
यः कश्चिदर्थप्रमाणो मे भवति स कथ्यताम् ।
एवं श्रुत्वा मन्त्री द्वारमाहत्य बहिर्निर्गतः ।
ततः सम्मानिता वणिग्वधूः सा तु कुट्टिनीति निर्वासिता ।
इति कथां श्रुत्वा प्रभावती सुप्ता ॥
इति शुकसप्ततौ एकविंशतीतमी कथा ॥


सुक्२२
पुनः प्रभावत्या पृष्टः शुकः प्राह

याहि देवि पुनर्याहि मदीयं मतमीदृशम् ।
यदि वेत्स्युत्तरं किचिद्यथा माढुकया कृतम् ॥ २२.१ (=१३०) ॥

तच्छ्रुत्वा प्रभावत्याहकथमेतत् ।
शुकः प्राहदाम्भिलाग्रामे सोढाको नाम कर्षुकः ।
तद्भार्या माढुक नाम ।
तां च भक्तहारिणीं पथि गच्छन्तीमेको बहिः सूरपालाख्यो नरो भुङ्क्ते ।
सा कदाचिन्मार्गे भक्तं मुक्त्वा तेन सह स्थिता ।
ततो मूलेदवेन धूर्तेन तस्मिन्भक्ते उष्ट्रिका कृता ।
तया च एवं जातं भक्तमनुत्पाटयित्वा नीनम् ।
यावच्च भर्त्रा उष्टिका दृष्टा तावत्किमिदिति सा पृष्टा ।
ततस्तया तत्कालोत्तरं कृत्वोक्तम्नाथ! अद्य रात्रौ स्वप्ने उष्ट्रिकया भक्षितो दृष्टस्त्वम् ।
ततो मया विघ्नापहाराय विपरीतमिदं कृतम् ।
विश्रब्धं भक्षय यथा विघ्नो नश्यति ।
इति श्रुत्वा रतात्मना तेनोष्ट्रिकापि भक्षिता ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ द्वाविंशतितमी कथा ॥


सुक्२३
अन्यदा सख्यस्तां पुरुषान्तराभिसरणायैवमूचुः

यत्र स्वेदलवैरलं विलुलितैर्व्यालुप्यते चन्दनं सच्छेदैर्मणितैश्च यत्र रणितं न श्रूयते नूपुरम् ।
यत्रायान्त्यचिरेण सर्वविषयाः कामं तदेकाग्रतः सख्यस्तत्सुरतं भणामि रतये शेषा च लोकस्थितिः ॥ २३.१ (=१३१) ॥

तथा च संसअतुलण जहिं चडै तस्सुण जीविउ धणु ।
आइ परा जहि लहिज्जै तं जि भणिज्जिइ पेम्मु ॥ २३.२ (=१३२) ॥

[संशयतुलायां न यः आरोहति तस्य न जीवितं धन्यम् ।
आगते परा या लभ्यते तदेव भण्यते प्रेम] ॥ २३.२* (=१३२*) ॥

आरोग्यं परमानन्दः सुखमुत्साह एव च ।
ऐश्वर्यं प्रियसम्भोगं विना सर्वं निरर्थकम् ॥ २३.३ (=१३३) ॥

उक्तञ्च
आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी ।
हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥ २३.४ (=१३४) ॥

शुकः प्राह

सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ २३.५ (=१३५) ॥

ततः किं बहुनोक्तेन त्वं चैताः कृत्यकोविदाः ।
कुट्टिनीचरितं श्रुत्वा तद्विचार्यं त्वरान्विताः ॥ २३.६ (=१३६) ॥

प्रभावत्याहकथमेतत् ।
शुकोऽब्रवीतस्ति पद्मावती पुरी ।

यत्र मणिकुट्टिममार्गेषु शोभते रविविस्तरः ।
शेषफणमणिरागो वसुधामिवोपागतः ॥ २३.७ (=१३७) ॥

तत्र शुदर्शनो नाम राजा ।

शशिना हरिणा चैव बलिना कुशभूभुजा ।
कुशशक्तिच्छलत्यागसम्पद्यस्य न खण्ड्यते ॥ २३.८ (=१३८) ॥

किं तस्य वर्ण्यते राज्ञः प्रजापालनशलिनः ।
यस्मिंल्लोके न दृष्टा हि दोषा रविकरैरिव ॥ २३.९ (=१३९) ॥

तस्य शृङ्गारसुन्दरी नाम भार्या ।
तस्य नृपतेस्तया सह क्रीडतो ग्रोष्मकालोऽवातरत् ।

यत्र सूरः खरो घस्रो यत्र दीर्घोऽतिदुःसहः ।
खरश्च पवनो भीरु ग्रीष्मे सर्वमिदं खरम् ॥ २३.१० (=१४०) ॥

चन्दनं शुचिवस्त्रं च पानीयं शुचि शीतलम् ।
सेव्यमानोऽपि मधुरः शुचिर्जयति नान्यथा ॥ २३.११ (=१४१) ॥

मध्याह्ने चन्दनं येषां सायं मज्जनसेवनम् ।
रात्रौ व्यजनवातश्च तेषां ग्रीष्मोऽपि किङ्करः ॥ २३.१२ (=१४२) ॥

एवंविधे ग्रीष्मे च चन्द्रनामा वणिक्प्रभावतीभार्यासमेतो गृहोपरिभूमिकायामारुढः ।
करैर्युक्तोऽपि निरालम्बः आदित्यः पश्चिमाभ्योनिधितटं गतः ।
उक्तञ्च

प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहु साधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ २३.१३ (=१४३) ॥

तत्रस्थः स तथा भानू रागशेषो गतांशुकः ।
भातीव विद्रुमघटः स्रस्तः संध्यावधूकरात् ॥ २३.१४ (=१४४) ॥

अत्रान्तरे विशालाक्षि चन्द्रो हन्तुं तमोरिपुम् ।
उदयाद्रिशिरः स्थातुमुद्यतोंऽशुभटैर्वृतः ॥ २३.१५ (=१४५) ॥

प्राचीमुखे विभातीन्दुरुदयाद्रिशिरःस्थितः ।
दीपस्त्रिभुवनस्येव प्रच्छन्नस्य तमिस्रया ॥ २३.१६ (=१४६) ॥

उदयाचलमारुढो भाति चन्द्रो निशामुखे ।
यामिनीवनितोत्सङ्ग शुल्कः कृष्णशिरःस्थितः ॥ २३.१७ (=१४७) ॥

एवंविधे निशामुखे स वणिक्विक्रीडितया तया सार्धं क्रीडितः ।
अस्य रामनामा सुतः संजातः ।
तस्मै पित्रा विद्याश्चाशेषा ग्राहिताः ।
तस्य मातान्यदा चन्द्रं प्राहमम एक एव पुत्रः ।
ततोऽहमतिशयेन दुःखार्ता ।
चन्द्रः प्राहएकोऽपि त्वदीयः सुतः श्लाघ्यः ।
उक्तञ्च

चतुरो मधुरस्त्यागी गम्भीरश्च कलालयः ।
गुणग्राही तथा चैवमेकोऽपीदृग्वरः सुतः ॥ २३.१८ (=१४८) ॥

तथा च

किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः ।
वरमेकः कुलालम्बी यत्र विश्रूयते कुलम् ॥ २३.१९ (=१४९) ॥

इत्युक्त्वा धूर्तमायां कुट्टिनीमाकार्येदमब्रवीत्तव कनकसहस्रं दास्ये ।
मम पुत्रं स्त्रीमायावञ्चनदक्षं कुरु ।
तथेति तया प्रतिज्ञाते पुत्रं समाक्षिकं तस्यै दत्त्वा यद्यस्मत्पुत्रः क्वापि वेश्यायाः कपटेन जितो भवति तदाहं द्विगुणं कनकं ग्रहीष्ये ।
तयोक्तमेवमस्त्विति ।
लेखयित्वा पुत्रं तद्गृहे प्रेषयामास ।
स च तत्रस्थो वेश्याजनोद्भवान्विकारान् गृह्णाति ।
तद्यथा

वैशिकीं कृत्रिमां वाणीं व्यलीकान् शपथांस्तथा ।
कौटिल्यं कृत्रिमं भावं कृत्रिमं रुदितं तथा ॥ २३.२० (=१५०) ॥

हास्यं च कृत्रिमं दुःखं सुखं चैवमपार्थकम् ।
याचनं विनयोपेतं स्नेहभावो निरीहता ॥ २३.२१ (=१५१) ॥

समत्वं सुखदुःखेषु धर्माधर्मसमक्रिया ।
भुजङ्गपुरतश्चैव कौटिल्यक्रमदर्शनम् ॥ २३.२२ (=१५२) ॥

तथा च

अहरं करं कवोलं थणजुअलं णाहिमण्डलं रमणम् ।
इत्थिअजणसामण्णं हिअअं जं जस्स तं तस्स ॥ २३.२३ (=१५३) ॥

[अधरः करः कपोलः स्तनयुगलं नाभिमण्डलं रमणम् ।
स्त्रीजनसामान्यं हृदयं यद्यस्या तत्तस्याः] ॥ २३.२३* (=१५३*) ॥

इत्येवमादि समग्रं वेश्यानुगं चरितं शिक्षितम् ।
ततः स पुत्रः प्रतिज्ञापूर्वं वणिजे समर्पितः ।
पितुर्वाक्येन च सुवर्णद्वीपे वाणिज्याय प्रेषितः ।
तत्र च कलावती वेश्या ।
तया सह वर्षमेकं स्थितः ।
तां वैशिकानि कुर्वन्तीं स प्राहविशेषं वद ।
एव ममानुजापि वदति ।
ततो बहुभिरपि वैशिकैर्न तत्सर्वस्वं गृहीतुं शक्नोति ।
ततस्तया सर्वमपि मातुर्निवेदितम् ।
मातापि प्राहनिश्चितमेष वेश्यासुतः ।
नेदृशैर्गृह्यते ।
प्रपञ्चेनैव ग्राह्यः ।
ततो यदायं स्वदेशं गन्तुकामस्त्वामुत्कलापयति तदा त्वया वाच्यम्”अहमपि तत्र यास्यामि ।
यदि न नयसि तदा मरिष्यामीत्युक्त्वा कूपे झम्पा देया ।
ततोऽसौ प्रीतस्त्वां प्रति सर्वं दास्यतिऽ ।
तयोक्तम्मातर्मां विना तद्द्रव्येण किम् ।
ऊक्तञ्च
अतिक्लेशेन ये ह्यर्था धर्मस्यातिक्रमेण च ।
शत्रूणां प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ २३.२४ (=१५४) ॥

माता आहभीरु! मा मैवं वद ।
मृत्युदोऽर्थः प्राणदश्च ।
उक्तञ्च

नासाहसं समालम्ब्य नरो भद्राणि पश्यति ।
साहसी सर्वकार्येषु लक्ष्मीभाजनमुत्तमम् ॥ २३.२५ (=१५५) ॥

नाभित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ २३.२६ (=१५६) ॥

कालः समविषमकरः परिभवसन्मानकारकः कालः ।
कालः करोति पुरुषं दातारं याचितारञ्च ॥ २३.२७ (=१५७) ॥

अहं च तत्राधो जालं विरचयिष्ये ।
इति कुट्टिनीवचनमाकण्यं तया तथा कृतत् ।
तथा च कृते तेन सर्वस्व दत्तम् ।
कोटिसंख्यं च द्रव्यं गृहीत्वा मानरहितो निष्कासितः ।
उक्तञ्च

वेसा वि रमन्ति जणं पिअं पि वञ्चन्ति अत्थलोहेण ।
ताण णमो वेसाणमप्पा वि ण वल्लहो जाण ॥ २३.२८ (=१५८) ॥

[वेश्या अपि रमन्ते जनं प्रियमपि वञ्चयन्ति अर्थलोभेन ।
ताभ्यो नमो वेश्याभ्यः आत्मापि न वल्लभो यासाम्] ॥ २३.२८* (=१५८*) ॥

स च तथा धनमानपरिभवं प्रापितः परपोतमारुह्य स्वगृहमागमत् ।
एकाकिनं सुतं धनपरिजनवर्जितं दृष्ट्वा पिता सबाष्पं धनक्षयकारणं पृच्छति ।
सोऽपि स्वयं लज्जन् गृहमन्त्रिमुखेन निवेदितवान् ।
पित्रोक्तम्वत्स मा विषादं विधेहि ।
विपदः सम्पदोऽपि पुंसः सम्पद्यन्ते ।
उक्तञ्च

चिन्तामिमां वहसि किं गजयूथनाथ यूथाद्वियोगविनिमीलितनेत्रयुग्म् ।
पिण्डं गृहाण पिष वारि यथोपनीतं दैवाद्भवन्ति विपदः किल सम्पदो वा ॥ २३.२९ (=१५९) ॥

किमनेन धनेनापि सत्वरेण मनस्विनाम् ।
गतेन जायते खेदो दर्षश्चैवागतेन च ॥ २३.३० (=१६०) ॥

एवं सुतं समाश्वास्य धूर्तमायामाकार्य इदमब्रवीत्शृणु यदत्र कौतुकं संवृत्तम् ।
त्वय्यध्युषितोऽपि सुतो गतसर्वस्वः समाययौ ।
साऽहस्त्रीभिः को न खण्डितः ।
उक्तञ्च

कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ २३.३१ (=१६१) ॥

रमणसिहिणन्तराले बहलअरे रोमराइतरुगहणे ।
हरिहरणरगोबिन्दा बिडम्बिआ मअणचोरेण ॥ २३.३२ (=१६२) ॥

[रमणशिखिनोऽन्तराले बहुलतरे रोलराजितरुगहने ।
हरिहरनरगोविन्दाः विडम्बिता मदनचोरेण] ॥ २३.३२* (=१६२*) ॥

तत्त्वं पुनः पोतं भृतं कृत्वा मां पुत्रान्वितां तत्र प्रेषय ।
उक्तञ्च

कृते प्रतिकृतं कुर्या हिंसिते प्रतिहिंसितम् ।
त्वया लुञ्चापिताः पक्षा मया लुञ्चापितं शिरः ॥ २३.३३ (=१६३) ॥

मयाप्युक्तम्यदि त्वदीयपुत्रः क्वापि स्त्रिया वञ्च्यते तदा मम दूषणम् ।
उक्तञ्च

दिग्गजकूर्मकुलाचलफणिपतिविधृतापि चलति वसुधेयम् ।
प्रतिपन्नममलमनसां न चलति पुंसां युगान्तेऽपि ॥ २३.३४ (=१६४) ॥

तथा च

अचला चलन्ति पलए मज्जाअं साअरा विलङ्घन्ति ।
करुआ वि तह विकाले पडिवण्ण साध सिढिलेन्ति ॥ २३.३५ (=१६५) ॥

[अचलाश्चलन्ति प्रलये मर्यादां सागरा विलङ्घन्ते ।
गुरुका अपि तथा विकाले प्रतिपन्नसाधनं न शिथिलयन्ति] ॥ २३.३५* (=१६५*) ॥

धीरा जाण पमाणं जिमिअव्वे तह वि जंपिअव्वे अ ।
ऐ जिमिअजंपिआइं पच्छा वच्छे अपच्छाइं ॥ २३.३६ (=१६६) ॥

[धीरा जानन्ति प्रमाणं जेमनस्य तथापि कथनस्य च ।
अपि भुक्तं जल्पितं पश्चाद्वत्से न तप्यन्ति] ॥ २३.३६* (=१६६*) ॥

ततः श्रेष्ठी तं पुत्रं प्रेषयामासाशु तया समं सुवर्णद्वीपे ।
ततस्तस्मिन्सर्वोऽपि पौरजनः प्रीतो बभूव ।
सा च कलावती सानुकूला तं विनयेनाजुहाव ।
तथा च स तयावर्जितो यथासौ आत्मायत्तः कृतः ।
द्रव्यं च सर्वं गृहीतम् ।
ततः सा धूर्तमाया कुट्टिनी किं करोतुइति प्रश्नः ।
सा प्राहशुक! न जाने ।
त्वं वद ।
शुकःयद्यद्य न यासि तदा कथयामि ।
सा आहन यास्यामि ।
शुकःयदा तस्य सर्वं गृहीतं तस्मिन्समये कैश्चिद्दिनैश्चाग्रेऽपि चाण्डालरूपधारिणी धूर्तमाया नित्यं नित्यं गवेषमाणैव किञ्चित् ।
अन्यदा स कलावत्या सहितः खट्वायामुपविष्टस्तया दृष्टः ।
ता द्वारि दृष्ट्वा सहसोत्थाय नाशयितुमुद्यतः पूर्वमेव संकेतितम् ।
तमुत्तिष्ठन्तमनु कलावत्यप्युत्थिता ।
उक्तञ्चकिमिदमिति ।
रामस्तामुवाचभद्रे! इयं मम जननी ।
अहं च हृतार्थको बहुदिनेभ्यो न तया दृष्टः ।
धूर्तमायापि तं संकेतस्थं द्वारस्थैव सशङ्का हस्तसंज्ञया आजुहाव ।

जागदेति चिराल्लब्धो वेश्यागृहगतो भवान् ।
म्लेच्छीभूता इयं वेश्या सर्वस्वं मे त्वया हृतम् ॥ २३.३७ (=१६७) ॥

यावदेवं गृहाङ्गणगता शपति तावत्स वणिक्चाण्डालरूपी समागत्य तत्पादयोः पतितः ।
एतच्च दृष्ट्वा कलावती कुट्टिनीसहिता तां गृहमध्ये नीत्वा पृच्छति स्मअम्ब! कोऽयम्? किं जातीयः? त्वं का? तयोक्तम्पद्मावतीपुरीनाथस्य राज्ञः सुदर्शनस्य मातङ्गी गायिनी अहम् ।
अयं च मदीयं द्रव्यं हृत्वा इहागतः ।
तच्च त्वयाऽप्तम् ।
तन्मया ज्ञातं परमधुना स समागच्छतु ।
ततः कुट्टिनी कलावतासहिता तत्पदायोर्लग्ना उवाचगृहाणेदं द्रव्यम् ।
धूर्तमाया प्राहनाहं गृहकोणे ग्रहीष्ये ।
राजविदितं ग्रहीष्यामि ।
ततो वेश्यामातापि अतिशयेन भीता मातङ्गीं प्रतिजगादैमां मत्सुतां रक्ष रक्ष ।
पारम्पर्यागतं द्रव्यं गृहाण सर्वस्वम्, परं मां मैवं विडम्बय ।
धूर्तमाया प्राहग्रहीष्ये ।
ततः सा वेश्यया कुट्टिन्या सह हस्तपादौ गृहीत्वा सम्मानिता ।
धूर्तमायापि निजं तदीयं द्रव्यं सर्वस्वं च गृहीत्वा रामेण सह पोतमारुह्य स्वगृहमागत्य भहोत्सवमकारयत् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ त्रयोविंशतितमी कथा ॥


सुक्२४
अथान्यस्मिन्दिने प्रभावती शुकं पप्रच्छ ।
शुकोऽप्याह

याहि देवि विजानासि यदि जारसमन्विता ।
सज्जनीव पुरा वक्तुं भर्तुरग्रे कचग्रहे ॥ २४.१ (=१६८) ॥

प्रभावत्याहकिमेतत् ।
कीरोऽब्रवीतस्ति चन्द्रपुरं नाम नगरम् ।
तत्राभूद्वर्धकिः सूरपालाख्यः श्रीमान् ।
तस्य सज्जनी नाम भार्या अत्यन्तं परपुरुषलम्पटा ।
तां च तद्गृहस्थां देवको नाम रमते ।
इति लोकादेतदाकर्ण्य वर्धकिः कपटेन गृहान्निर्गत्य प्रातःसन्ध्यायामाच्छन्नः समागत्य तल्पस्याधोभागे स्थितः ।
सा च जारेण सह तत्रारूढा पत्या केशेषु गृहीता कथं मुच्यते ।
उत्तरम्सा पत्या धृता सती द्वितीयपतिमुखमालोक्य प्राहमया तव कथितं यद्रथकारो मम पतिर्गृहेन विद्यते ।
स चागतस्तव तदैव औचित्यं विधास्यति ।
यद्यपि पूर्वं पत्या त्वदीयं द्रव्यमपहृतं तथापि क्षन्तव्यम् ।
रथकृति समागते तव गृहं गमिष्यामि युवयोः संगतिं वा करिष्ये ।
नात्र संशयः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ चतुर्विशतितमी कथा ॥


सुक्२५
अन्यदा प्रभावती शुकं गमनाय पृच्छति ।
शुकः प्राह

कुरु यद्रोचते कर्तुं यदि वेत्सि प्रतीङ्गितम् ।
श्वेताम्बरेण रुद्धेन यथा पूर्वं कृतं तथा ॥ २५.१ (=१६९) ॥

अस्ति चन्द्रपुरी नाम नगरी ।
तत्र सिद्धसेनो नाम क्षपणको जनपूजितः ।
तस्मिन्नेव नगरेऽन्यः सितपटो गुणिनां मुख्यः समागतः ।
तेन च गुणिना सर्वोऽपि जन आवर्जितः श्रावका अप्यात्मायत्ताः कृताः ।
स क्षपणकोऽपि तस्य पूजां क्रियमाणामसहमानः स्वयं तदीयोपाश्रये वेश्यां प्रेषयित्वा असौ वेश्यालुब्धो न सुशील इति श्वेताम्बरस्य लोकप्रवादमकरोत् ।
तद्दर्शनाय जनमाकारयामास ।
ब्रूते चक्षपणका एव ब्रह्मचारिणः श्वेताम्बरास्तु विप्लुताः ।
सोऽपि श्वेताम्बरो दीपाग्निना उपाधिं प्रज्वाल्य प्रभातप्राप्तायां रजन्यां नग्नोभूय वेश्याया दत्तहस्तो निर्गतः ।
ततो लोकापवादः संवृत्तः ।
यदसौ क्षपणको न सितवस्त्रः ।
इति श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ पञ्चविंशतितमी कथा ॥


सुक्२६
अन्यदा सा चलिता ।
शुकः प्राह

याहि देवि न ते दोषो यदि जानासि भाषितुम् ।
रत्नादेवीव पत्या तु प्राप्ता जारद्वयान्विता ॥ २६.१ (=१७०) ॥

अस्ति जलौदाभिधानो ग्रामः ।
तत्र राजपुत्रः क्षेमराजः शूरः ।
रत्नादेवी तस्य भार्या ।
तत्रैव ग्रामणीर्देवसाख्यः ।
तस्य सुतो धवलो नाम ।
तौ द्वावपि रमेते रत्नादेवीं परस्परमज्ञातौ ।
अन्यदा पितृपुत्रौ तद्गृहस्थौ यदा तदा राजपुत्रः समागतः ।
तदा किमुत्तरम्? शुक आहततस्तया कृतसंज्ञो गृहादङ्गुल्या तर्जयन्नयात् ।
तस्मिंश्चैव गच्छति भयात्पतिः किमिदमित्याह ।
ततः सा हसन्ती प्राहअस्य पुत्रस्त्वद्गृहे शरणागतः ।
मया च नार्पितः ।
यतः

स क्षत्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः ।
वहन्द्वयीमप्यफलेऽर्थजाते करोत्यसंस्कारहतामिवोक्तिम् ॥ २६.२ (=१७१) ॥

अतो रुष्टो व्रजति ।
गच्छ त्वं समर्पय सुतम् ।
तेन च तथा कृतम् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ षड्विंशतितमी कथा ॥


सुक्२७
अन्यदा प्रभावती गमनाय शुकं पृच्छति स्म ।
शुकः प्राह

रम्भोरु गच्छ कामिनां को विघ्नं कर्तुमर्हति ।
मोहिनीव समर्था चेद्विचारीकर्तुमीश्वरि ॥ २७.१ (=१७२) ॥

अस्ति शङ्खपुरं नाम नगरम् ।
तत्रार्यो वणिगभूत् ।
तस्य मोहिनी नाम भार्या ।
ताञ्चबहिर्गतां कुमुखो नाम धूर्तो रमते ।
तत्पतिना चाभिज्ञायि ।
तत्पतिश्चातिशयेन भीरुः ।
ततोऽसौ तां बहिर्यान्तीं निवार्य पार्श्वस्थित एव तिष्ठति ।
तथापि तया धूर्तस्य कथितम्मां रात्रौ भर्तृखट्वास्थितामर्वाक्सुप्तां भज त्वम् ।
तेन तथा कृतम् ।
तच्च कुर्वन्भर्त्रासौ पुंश्चिह्ने धृतः कथं गच्छतु? उत्तरम्धृत्वा च पतिः प्राहप्रदोपमानय मया चोरो धृतोऽस्ति ।
तयोक्तम्बहिर्यान्ती बिभेम्यहम् ।
एनं ग्रहीष्ये त्वं दीपमानय ।
तेन च तथा कृतम् ।
सा च जारं मुक्त्वा गृहान्तर्बद्धस्य पट्टकस्य जिह्वां गृहीत्वा तथैव सुप्ता यावत्पतिर्लकुटहस्तो दीपं गृहीत्वा समायातः पृच्छतिकिमियं पट्टकस्य जिह्वा कथमत्र? तयोक्तम्क्षुधार्तोऽयम् ।
अनेन मुक्ता लालाकृशा स्थिता ।
उक्तिप्रत्युक्तिवादेन निर्जितः ।
उक्तश्चहतक! अनेन पौरुषेण क्षयं व्रजसि ।
इति निर्भर्त्सितो लज्जितश्च सुप्तः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ सप्तविंशतितमी कथा ॥


सुक्२८
अन्यदा प्रभावती गमनाय शुकं पप्रच्छ ।
शुकः प्राह

कृशोदरि व्रजाद्य त्वं यदि जानासि भाषितुम् ।
जारसंयुक्तया पूर्वं यथा देविकया कृतम् ॥ २८.१ (=१७३) ॥

अस्ति कुहाडाख्यो महाग्रामः तत्र जरसाख्यो कौटुम्बिको महामूर्खः ।
तद्भार्या देविका पुंश्चली ।
तां च प्रभाकरो ब्राह्मणः क्षेत्रमध्ये विभीतकवृक्षसमीपे गुप्तस्थाने मुदा रमतेर् ।
इदृशं व्यतिकरं जनाच्छ्रत्वा तत्पतिस्तत्रावलोकनाय स्वयं गतः ।
तेन च वृक्षारूढेन तत्तथैव दृष्टम् ।
दृष्ट्वा तत्रस्थेनापि जल्पितम्, धूर्तिके! बहुदिनेभ्योऽद्य सम्प्राप्ताइत्युक्ता कथमियं भर्तारं प्रत्याययतु ।
तयोक्तम्नाहं जाने त्वमेव कथय ।
“यदि न यासि तदा कथयामिऽ ।
तया तथेति प्रतिपन्ने शुकः प्राहसा च तद्वचः श्रुत्वा तं जारं प्रेषयामास पत्या चावतीर्य समागतेन उपालब्धा ।
साऽहहे प्रभोर्! इदृश एव वृक्षः, अत्रारूढैर्मिथुनं दृश्यते ।
तेन पतिना उक्तम्त्वमारुह्य अवलोकय ।
तया तथा कृतम् ।
वृक्षारूढया च तया प्रोक्तं कपटेन ।
“वहुदिवसेभ्योऽन्यां नारीमभिगमन् दृष्टोऽसि” ।
तेन मूर्खेण ज्ञातम्सत्यमिदम् ।
स च तां शान्तयित्वा गृहं निनाय ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ अष्टाविंशतितमो कथा ॥


सुक्२९
अन्येद्युः प्रभावती गमनाय शुकं पृच्छति स्म ।
सोऽप्याह

व्रज देवि विचारं चेत्कर्तुं जानासि भामिनि ।
समं जारेण सम्प्राप्ता सुन्दरीव यथा गृहे ॥ २९.१ (=१७४) ॥

“कथमेतत्ऽ? सोऽब्रवीतस्ति सीहूलो नाम ग्रामः ।
तत्र महाधनो वणिक् ।
तद्भार्या सुन्दरी ।
तां च मोहनो नाम उपपतिर्नित्यं गृहमागत्य भुङ्क्ते ।
अन्यदा यावत्सा तथा तिष्ठति तावत्तत्पतिः समागतः ।
सा कथं भवतु ।
उत्तरम्सा पतिमागच्छन्तं दृष्ट्वा जारं विवस्त्रं शिक्ये कृत्वा मुक्तकेशा गृहान्निर्गत्य दूरस्था पतिमाहअस्मद्गृहमध्ये नग्नभूतं शिक्यारूढं विद्यते ।
मान्त्रिकानाकारयितुं गच्छेत्युक्ते स मूर्खस्तदर्थं जगाम ।
तदा च तदन्तरे तया उल्मुकं हस्ते कृत्वा उपपतिर्निष्कासितः ।
पत्यौ च आगते सा जगादयदुल्मुकेनापि भूतं नष्टम् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ एकोनत्रिंशत्तमी कथा ॥


सुक्३०
अन्येद्युः प्रभावत्या पृष्टः शुकः प्राह ।

गच्छ देवि विरुद्धं ते गमनं न मतं मम ।
विषमे यदि वेत्सि त्वमुत्तरं मूलदेववत् ॥ ३०.१ (=१७५) ॥

अस्तीह पृथिव्यां भूतवासं नाम श्मशानम् ।
तत्र द्वौ पिशाचौ करालोत्तालनामानौ ।
भार्ये च धूमप्रभामेघप्रभाख्ये, तयोश्च भार्यारामणीय कत्वे विवादः संवृत्तः ।
अन्यदा च ताभ्यां भार्यासहिताभ्यां मूलेदवोदृष्टो बाहुभ्यां विधृत्य पृष्टःका अनयोर्मध्याद्रमणीया, अनृतं वदन्तंव्यापादयिष्यावः ।
तत्कलत्रे विरूपे भीषणे वृद्धे पिशाचिन्यौ ।
स च यथार्थवादी भक्षितः स्यात्किमुत्तरं कुर्यादिति ।
उत्तरम्तेनोक्तम्

या यस्य वल्लभा लोके रम्या सा तस्य नापरा ।
गदिते धूर्तराजेन ताभ्यां मुक्तश्च तत्क्षणात् ॥ ३०.२ (=१७६) ॥

इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ त्रिंशत्तमी कथा ॥


सुक्३१
अन्यदा च प्रभावत्या पृष्टः शुकः प्रोवाच

यथेष्टं व्रज कल्याणि केलिं कर्त्तुं कृशोदरि ।
शशकस्येव ते बुद्धिरस्ति चेत्सुसहायिनी ॥ ३१.१ (=१७७) ॥

मधुराख्ये वने पिङ्गलनामा सिंहः ।
स सत्त्वानि बहूनि हनन्सर्वैः पशुभिर्विचार्य प्रतिदिनमेकैकसत्त्वपरिकल्पनव्यवस्थया निवारितः ।
अन्यदा शशकस्यैकस्य वारकः सञ्जातः ।
स च न याति श्वापदैर्भणितोऽपि”गच्छ त्वमन्यथा पूर्ववत्सर्वाणि भूतानि स भक्षयिष्यति ।
स चाद्यप्रभृति तदन्तिके सत्त्वानि न यास्यन्तिऽइत्युक्त्वा बहुकालक्षेपं चकार ।
मध्याह्नसमये एव च मन्दं मन्दं सिंहस्याग्रे गन्तुं व्यसितः ।
तेनापि सहसाक्रान्तः कथं मुच्यते? उत्तरम्शशकः सिंहिं प्राहस्वमिन्नहं शशकचतुष्टयेन सह आगच्छन्मार्गे तव शत्रुणा धृतोऽतो वेलातिक्रमो बभूव ।
तेनोक्तम्स शत्रुं क्वास्ते? ततः स शशकेन धूर्तेन वाटीं नीत्वा तस्यैव प्रतिबिम्बः कूपे दर्शितः ।
सिंहोऽपि मूर्खस्तं जले दृष्ट्वा कुपितो झम्पादान्मृतश्च ।

बुद्धिर्बलवती भीरु सत्त्वानां न पराक्रमः ।
शशकेनाल्पसत्त्वेन हतः सिंहः पराक्रमी ॥ ३१.२ (=१७८) ॥

उक्तञ्च

एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
सरार्ष्ट सप्रजं हन्ति राजानं मन्त्रिनिश्चयः ॥ ३१.३ (=१७९) ॥

इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ एकत्रिंशत्तमी कथा ॥


सुक्३२
अथान्येद्युः प्रभावती चलिता शुकं पप्रच्छ गमनाय ।
शुकः

यादि देवि मनो यत्र गन्तुं ते कमलानने ।
राजिनीव विजानासि वक्तुं धूलिविपर्यये ॥ ३२.१ (=१८०) ॥

अस्ति शान्तिपुरं नाम नगरम् ।
तत्र माधवः श्रेष्ठी ।
तस्य मोहिनी भार्या ।
तयोस्तनयः सोहडाभिधः ।
तस्य भार्या राजिनीनाम्नी रूपसम्पन्ना चतुरा पुंश्चली ।
सान्यदा द्रम्मर्पयित्वा श्वश्र्वज्ञप्ता “गोधूमान् हट्टे गृहीत्वा गच्छऽ ।
सा च हट्टे गता ।
क्रीणत्या चोपपतिर्दृष्टः संज्ञितश्च समीपमाययौ ।
गोधूमान्मोटायां बद्ध्वा हट्टे मुक्त्वा तेन सार्धं सा ययौ ।
वणिजापि गोधूमानुत्सार्य मोटायां धूलिर्बद्धा ।
सापि तेन सह चिरं स्थित्वा आगत्याकुला मोटामनुत्पाटयित्वा गृहं ययौ ।
तां छोटयित्वा यावत्श्वश्रूः पश्यति कोदृशा गोधूमा इति तावद्धूलिं पश्यति ।
अत्र किमुत्तरम् ।
शुकःकिमिदमिति यदा श्वश्र्वा पृष्टा तदा तयोक्तम्”मातर्मम हस्ताद्द्रम्मः हट्टाग्रे भूमौ पतितः ।
ततो मया धूलिराहृता ।
ततः सा श्वश्रूर्द्रम्ममनवलोकमाना विकलीभूता ।
इति कथां श्रुत्वा प्रभावती सुप्ता इति शुकसप्ततौ द्वात्रिंशत्तमी कथा ॥


सुक्३३
अथान्येद्युः प्रभावती गमनायोत्सुका शुकं पप्रच्छ ।
शुकः प्राह

को दोषो गम्यतां देवि यदि कर्तुं त्वमीश्वरा ।
विषमे मालिनी यद्वद्रम्भिका पतिसन्निधौ ॥ ३३.१ (=१८१) ॥

प्रभावती”कथमेतत्ऽ? शुकोऽब्रवीतस्ति शङ्खपुरं नाम नगरम् ।
तत्र शङ्करो नाम मालिकः समृद्धिमान् ।
तस्य रम्भिका नाम भार्या बहुरतिप्रिया सुभगा सुरूपा बहुभर्तृका च ।
अन्यदा शङ्करगृहे पितृकार्यमागतं तस्मिन्दिने तयोपपतयश्चत्वारो निमन्त्रिताः पुष्पाणां विक्रयाय गतया चतुष्पथे ग्रामणीर्वणिक्सूनुस्तलारश्च बलाधिपश्च प्रत्येकं ते ते पृथक्पृथकाकारिताः परस्परमजानन्तःमदीयं भवनं प्रति प्रागेव समागन्तव्यमिति ।
द्वितीयेऽह्नि मालिके वाटिकां गते वणिक्सूनुः स्नात्वा भुक्त्वा च तया सह रन्तुं समाययौ ।
वणिजि अर्धस्नाते ग्रामकूटो गृहद्वारं समापतन्दृष्टः ततः स्नानं कुर्वन्वणिक्तथाभूतो वंशमये कोष्ठे खलियुक्ते क्षिप्तो भययुक्तश्च ।
ग्रामकूटेऽप्यर्धस्नाते बहिस्तलारः समायातः ।
तं दृष्ट्वा सोऽपि तस्मिन्नेव कोष्ठे क्षिप्त उक्तश्चयदधः सर्पिणी प्रसूतास्ति ।
ततोऽप्यनतराल एवं स्थातव्यमिति तलारोऽप्यर्धस्नातो बलाधिपं दृष्ट्वा भाण्डसमूहे क्षिप्तः ।
बलाधिपोऽप्यर्धस्नातो मालिकं दृष्ट्वा तत्रैव क्षिप्तः ।
ततो मालिको लोकश्च तस्मिन् पितृकार्ये यदृच्छया भिजिताः ।
एवं कृत्वा ते षां चतुर्णामपि परस्परमलक्षितानां पृथक्पृथक्भोजनं परमान्नामृतं समर्पितम् ।
वणिजा तु भुञ्जानेन बहु फूत्कृतम् ।
तदोपरिस्थितेन च सर्पिणीं शङ्कमानेन मूत्रितम् ।
वणिजा तु घृतामिति ज्ञात्वा भाजनमुत्क्षिप्तम् ।
उपरिस्थितस्य मुखे लग्नम् ।
ततः स शङ्कितः ।
सोऽपि च लग्नं लग्नमिति वदन्दत्तझम्पो निर्ययौ ।
अन्येऽपि लग्नाक्षरभयाकुला यावन्निर्गताः शङ्करेण जनैश्च दृष्टाः सविस्मयं खलिखरडिताः ।
ततः सा कथं भवतु? उत्तम्यदा सा पत्या पृष्टा किमिदमिति तदा तयोक्तम्

श्रद्धाहीनं कृतं श्राद्धमिदं नूनं त्वया प्रिय ।
अतोऽभुक्त्वा क्षुधाक्रान्ताः पितरस्ते विनिर्गताः ॥ ३३.२ (=१८२) ॥

ततः स पुनः श्राद्धं चकार ।
रम्भिकावचनात्तेन निर्गताः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ त्रयस्त्रिंशत्तमी कथा ॥


सुक्३४
अथान्यस्मिन्दिने गमनार्थं प्रभावती शुकं पप्रच्छ ।
शुकः प्राह

याहि देवि गता वेत्सि भङ्गुरं यदि भाषितुम् ।
कुमार्यै पारडी दत्त्वा यथोक्तं शम्भुना पुरा ॥ ३४.१ (=१८३) ॥

प्रभावत्याहकथमेतत् ।
शुकः प्राहपुरा कस्मिंश्चिन्नगरे शम्भुनामा विप्रोऽभूत्द्यूतकृन्नानादेशपरिभ्रमणशीलो मार्गे गच्छन् क्षेत्ररक्षिकां सुरूपां बालिकां दृष्ट्वा ताम्बूलं दत्वा सान्त्वयन्निदमुवाच यन्मत्सम्भोगकरणे इमां मदीयां पारडीं गृहाण मया सह रतं कुरु ।
सुखाश्रयं तया तथा विहितम् ।
स च सिद्धे कार्ये तां याचते ।
कथं लभते? उत्तरम्यावत्तेन याचिता तावत्सा चलिता गृहं प्रति ।
सोऽपि च पञ्च कणिशानि गृहीत्वा पृष्ठे लग्नः ।
तेन च ग्रामगतेन फूत्कृतमहो ग्राममुख्याः! पश्यत ।
ग्रामेऽस्मिन्महदद्भुतम् ।
पञ्चकणिशकारणेनानया मदीयं वस्त्रमपहृतम् ।
ग्राम्यैस्तत्समर्पितम् ।
तया च न किञ्चिदुक्तं लज्जया ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ चतुस्त्रिंशत्तमी कथा ॥


सुक्३५
अपरेऽह्नि सा शृङ्गारान्विता शुकं पप्रच्छ ।
शुकः प्राह

गच्छ देवि न ते दोषो यदि तत्र गता सती ।
स्वार्थं कर्तुं विजानासि तिलक्रयकरो यथा ॥ ३५.१ (=१८४) ॥

“कथमेतत्? शुकः प्राहपुरा कस्मिंश्चिद्ग्रामे शम्बकनामा वणिक्तिलग्राहकः ।
स च सरग्रामं यथौ ।
तत्रस्थस्य भाण्डशालिकस्य गृहे गतः ।
स गृहे नास्ति ।
तस्य भार्यास्ति परं कुलटा ।
नेत्रसंज्ञया परस्परं प्रीतिरुत्पन्ना ।
तत्रैव सा भुक्ता अङ्गुलीयकं दत्त्वा ।
सम्बन्धादनन्तरं स तदङ्गुलीयकं जिघृक्षति ।
अनेन विधिना दत्तमङ्गुलीयकं स कथं गृह्णात्विति प्रश्नः ।
शुकः प्राहतिलग्राहकस्तदलभमानो विपणिस्थं भाण्डशालिकमाह”देहि मे तिलप्रस्थशतं यत्सत्यङ्कारितं मयाऽ ।
एवमुक्तः स आह”के तिलाः कश्च वक्ता त्वं सत्यङ्कारश्च कीदृशः? तेनोक्तम्प्रस्थं प्रति द्विकप्रवृद्ध्या त्वद्भार्यया सत्यङ्कारेऽङ्गुलीयकं गृहीतम् ।
ततो रुष्टेन वणिजा भार्यापारश्वे निजं सुतं प्रेषयित्वा इति कथयामासत्वदीयेनेदृशेन व्यवहारेणास्मद्गृहं वृद्धिमाप्स्यति ।
पुत्रोऽप्यङ्गुलीयकमादाय तिलग्राहकस्यार्पयामास ।
सोऽपि यथागतं तथा ययौ ।
ततो यदि प्रभावि तवाप्येवं बुद्धिरस्ति तदा गम्यतां नान्यथा ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ पञ्चत्रिंशत्तमी कथा ॥


सुक्३६
निशामुखेऽन्येद्युः प्रभावती शुकं पुनराहहे कीर! गमिष्यामि चिरकाङ्क्षितं सुखं भोक्तुम् ।
शुक आह

सुखमेवानुभोक्तव्यं संसारे सुन्दरि! ध्रुवम् ।
नायिनीव विजानासि यदि वक्तुं त्वमुत्तरम् ॥ ३६.१ (=१८५) ॥

प्रभावत्याहकथमेतत् ।

का कीर नायिनी कुत्र तया किं कृतमुत्तरम् ।
कथां कथय कल्याणीं कौतुकं मे कथाक्रमे ॥ ३६.२ (=१८६) ॥

शुक आहअस्ति सरडाख्ये ग्रामे ग्रामणीः शूरपालः ।
तस्य भार्या नायिनी ।
सा आत्मपतिं नित्यं पट्टसूत्रकञ्चुकं याचते ।
स आहवयं कर्षुकाः कार्पासचीवराः ।
अस्मद्गृहे पट्टसूत्रवार्त्तामपि कोऽपि न जानाति ।
अन्यदा सा तं ग्रामसंसदिस्थं जगादगृहमेहि गृहाधिप! रावडी भुङ्क्ष्व ।
स च तद्वचनं श्रुत्वा भार्यामाह गृहागतःभद्रे! त्वया निन्दितं वचो लज्जाकारकं ममाप्रियं संसदि किमित्थमुक्तम्? तयोक्तम्त्वया मम प्रियं कथं न कृतम्? ग्रामणीराहदास्यामि कञ्चुकं तेऽद्य ।
निजं वाक्यं वृथा कुरु ।
तयोक्तम्कञ्चुके दत्ते उत्तारयिष्ये ।
दत्तः कञ्चुकस्तेन ।
तद्वचः कथं वृथा भवत्विति प्रश्नः ।
शुकः प्राहअन्यदा नायिनी जगादयदाद्य त्वां संसदिस्थं पूर्ववदाकारयामि तदा त्वया संसदा सह गृहमागन्तव्यम् ।
तेन च एवमेव कृतम् ।
तया च गृहागतायाः संसदो भव्यरोत्या भोजनं दत्तम् ।
ततो ग्रामजनो वदतिशूरपालः समृद्धः ।
परं तद्भार्या औद्धत्यपरिहारेण एवं वदति ।
इति वचनमुत्तारितम् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ षट्त्रिंशत्तमी कथा ॥


सुक्३७
अथापरेऽह्नि प्रभावती गमनाय शुकं पृच्छति स्म ।
शुकोऽप्याह

यथेष्टं व्रज कल्याणि न ते दोषोऽस्ति कश्चन ।
लाङ्गलीव विजानासि यदि कर्तुं त्वमुत्तरम् ॥ ३७.१ (=१८९) ॥

प्रभावत्याहकथमेतत् ।
शुकोऽप्याहृसङ्गमाख्ये ग्रामे शूरः कौटुम्बिकः ।
तस्यास्ति पूर्णपालस्तु हालिकः ।
सर्वत्र च तस्य शूरपतेर्वेश्मनि क्षेत्रे खले प्रमाणम् ।
तस्य च हालिकस्य क्षेत्रस्थस्य शूरपतिसुता सुभगा नाम नित्यं भुक्तिं नयति ।
स तां कामयते क्षेत्रगह्वरे शूरपालान्निःशङ्कितः ।
तं च वृत्तान्तमसमञ्जसमिति कृत्वा प्रतिवेश्महालिकास्तस्य कथयामासुः ।
अन्यदासौ शूरस्तयोर्हालिकसुतयोः सम्बन्धं प्रत्यक्षीकर्तुं क्षेत्रं गत्वा गह्वरस्यादूरसमन्तेऽलक्षितस्तस्थौ ।
तन्मिथुनं रतस्थं दृष्टं कथं भवतु? उत्तरञ्च किमिति प्रश्नः ।
शुकः प्राहयावत्स हालिकस्तां भुक्त्वोत्थितः तावत्शूरपतिं ददर्श ।
तदा स निःश्वसन्नाहधिङ्मे कर्मार्जनां च यन्मया हलखेटनं विधेयम्, इयं च ग्रन्थिरोगिणी ।
अतो द्वयोरपि जीवितं रसातलं यातु ।
मया तु नित्यं हलेखेटनं ग्रन्थेराकर्षणं च द्वयमपि विधेयम् ।
तदहं किमर्थमस्य शूरपालस्य हालिको भवामि ।
इत्थमेवाहं क्षयं यास्यामि ।
इति हालिकवचनं श्रुत्वा निर्देषोऽयमिति लोकस्य वचनं वितथीकृत्य शूरपतिर्लज्जितो गृहं ययौ ।
सा च प्रभावती शुकोक्तां कथां श्रुत्वा सुप्ता ।
इति शुकसप्ततौ सप्तत्रिंशत्तमो कथा ॥


सुक्३८
अपरेद्युर्यामिनीसमये प्रभावती गमनाय शुकं पप्रच्छ ।
शुकः

वाञ्छितं कर्तुकामानां नान्तरायं कृशोदरि ।
यदि कर्तुं विजानासि यथा विप्रः प्रियंवदः ॥ ३८.१ (=१८८) ॥

प्रभावती पप्रच्छकथमेतत्? शुकःपुराभूद्देवि? प्रियंवदो नाम विप्रः पथिकः ।
एकदा मार्गे गच्छन्सुदर्शनग्रामे कस्यचिद्वणिजो गृहं ययौ ।
तत्पत्नी च पुंश्चली ।
स च ब्राह्मणस्तां दृष्ट्वा आत्मानं सुस्थानकृतवासकं मेने ।
स च रात्रौ सकामस्तां प्रार्थयामास ।
अङ्गुलीयकदानेन च हट्टमार्गं वणिक्सुते गते रेमे तया समम् ।
प्रातः सोऽङ्गुलीयकं याचते ।
सा नार्पयति ।
अनेन विधिना दत्तमङ्गुलीयकं स कथं गृह्णातुइति प्रश्नः ।
उत्तरम्यदा तु याचिता न ददाति तदा स ब्राह्मणः खट्वाचरणं गृहीत्वा वणिजः सन्निधिं ययौ ।
खट्वाचरणं दर्शयित्वा फूत्कृतम् ।
वणिक्प्राहभो द्विजः! किमेतत्? स आहभग्नेऽस्मिन्त्वदीयभार्यया मदीयमगुलीयकं जगृहे ।
स च वणिक्तद्वचनं श्रुत्वा कुपितो भार्यामाहअनेन प्रमादेन अस्मद्गृहे कोऽपि पथिको न समेष्यति ।
इत्युक्त्वा निष्ठुरं वचस्तत्कुण्डादुत्तीर्य अङ्गुलीयकं पथिकाय समर्पितम् ।
स च यथागतं ययौ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ अष्टत्रिंशत्तमी कथा ॥


सुक्३९
अपरेऽह्नि सन्ध्यासमये पुरुषान्तरगमनाय प्रभावती शुकं पृच्छति स्महे शुक! अहं गमिष्यामि ।
शुकः प्राह

व्रज देवि! वरं यानं त्वं भोक्तुं सुभगं नरम् ।
वक्तुं चेद्विषमे वेत्सि तुलाग्राहीव भामिनि ॥ ३९.१ (=१८९) ॥

प्रभावती प्राह”कथमेतत्?

कस्तुलाग्राहकः कीर! गृहीता च तुला कुतः ।
विषमं च किमायातं कथां कथय शोभनाम् ॥ ३९.२ (=१९०) ॥

अस्त्यत्र कुण्डिनं नाम नगरम् ।
तत्र भूधरो नाम वणिक्पुण्यक्षयात्क्षीणधनो जनैस्त्यक्तः ।
उक्तञ्च

विद्वान्धनी धनी दाता धनी साधुर्गुणाग्रणीः ।
सर्वबन्धुर्धनी पुज्यो धनहीनो गतप्रभः ॥ ३९.३ (=१९१) ॥

यदा तु स तुलामात्रधनोऽभवत्तदान्यवणिग्गृहे तुलां मुक्त्वा देशान्तरं गतः ।
तत्र धनमर्जयित्वा निजनगरमागत्य तं वणिजं तुलां ययाचे ।
वणिक्पार्श्वात्तुला न लब्धा ।
तुलायां तु लुब्धो वणिक्मूर्ख उत्तरं चक्रे यत्त्वदीया तुला मूषिकैर्भक्षितेति श्रुत्वा भूधरस्तूष्णीं स्थितः ।
स च एकदा तस्य वेश्मनि भोजनाय गतः क्रीडन्तं बालकं दृष्ट्वा प्रच्छन्नं गृहीत्वा निजगृहं ययौ ।
बालकपिता च दुःखपूरिताङ्गो रुरोद सकुटुम्बः ।
तञ्च रुदन्तं दृष्ट्वा प्रतिवेश्मिको जगादरे त्वदीयः सुतो भूधरेण गृहीतः ।
ततोऽसौ तद्गृहं गत्वा भूधरात्सुतं याचितवान् ।
भूधरेणोक्तम्मित्र! त्वत्पुत्रो मत्संगे स्नानार्थे नदीतीरे गतस्तत्र श्येनेनापहृतः ।
इति श्रुत्वा तेन वणिजा राजकुले गत्वा पुत्रहरणवृत्तान्तो निवेदितः ।
भूधरोऽपि राजकुलं ययौ ।
तत्कथय स बालहर्ता कथं मुच्यतामितिप्रश्नः ।
शुकः यदा भूधरो राजसमक्षं मन्त्रिणा पृष्टस्तदा एवं जगाद

तुलां लोहमयीं यत्र खादन्ते देव! मूषकाः ।
गजं तत्र हरेत्श्येनो दारके कोऽत्र विस्मयः ॥ ३९.४ (=१९२) ॥

श्रुत्वैतद्वचनं मन्त्रिणोक्तम्यदायं धूर्तस्तव तुलां समर्पयति तदा दारकोऽपि दातव्यो नान्यथा ।
तेन दारकः समर्पितः ।
तुलाग्राही दण्डितः सन् तुलां समर्पयामास ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ एकोनचत्वारिंशत्तमी कथा ॥


सुक्४०
अन्येद्युः सा प्रभावती गमनाय शुकं पृच्छति स्म ।
शुकः

गच्छ त्वं गन्तुकामानां गमनं च शुभं भुवि ।
सुबिद्धिरिव चेद्वक्तुं विजानासि कृताकृताम् ॥ ४०.१ (=१९३) ॥

प्रभावत्याहकथमेतत्? शुकःनगराभिघे पत्तने सुबुद्धि कुबुद्धिश्चेति मित्रद्वयं जने प्रसिद्धम् ।
अन्यदा सुबुद्धिर्देशान्तरं ययौ ।
कुबुद्धिस्तु मित्रस्त्रियं ययौ ।
सुबुद्धिश्च धनमर्जयित्वा देशान्तरात्समागतः ।
ततः कुबुद्धिः सुबुद्धेः कपटस्नेहं दर्शयति ।
सुबुद्धिनापि सम्मानितः ।
कुबुद्धिस्तं प्रत्याहभवता क्वापि किञ्चित्कौतुकं दृष्टम्? तेनोक्तम्सरस्वतीनदीतीरे कूपमध्ये तरमाणमकालजमाम्रफलं दृष्टं मनोरमनामिनि ग्रामे ।
कुबुद्धिराहमिथ्येदम् ।
सुबुद्धिराहसत्यमेतत् ।
तेनोक्तम्यदि सत्यं भवति तदा यदस्मद्गृहे द्वाभ्यां हस्ताभ्यां ग्रहीतुं शक्यते तत्त्वया ग्राह्यम् ।
अलीके त्वदीयगृहादहं गृह्णामि ।
इति पण्बन्धं कृत्वा कुबुद्धी रात्रौ कूपात्तत्फलं जग्राह ।
फलाभावे तु सुबुद्धिना हरितम् ।
अथ स तद्भार्यां ग्रहीतुकामः पणबन्धं याचते ।
तदत्र सुबुद्धिर्निजभार्यारक्षणे कमुपायं करोत्विति प्रश्नः ।
उत्तरं शुक आहसुबुद्धिस्तं दुष्टाशयं ज्ञात्वा निजगृहवस्तुजातं निजकलत्रं च प्रासादोपरि क्षिप्त्वा ।
आरोहणिकां पातयामास ।
कुबुद्धिः समायातः ।
सुबुद्धिराहएवं यद्रोचते तदस्मद्गृहाद्गृह्यताम् ।
स च कलत्राहरणाय निःश्रेणिकां द्वाभ्यां हस्ताभ्यां जग्राह ।
तदा सुबुद्धिनोक्तम्मयैवं पूर्वं गदितञ्च यद्द्वाभ्यां हस्ताभ्यां ग्रहीष्यसे तव तदवे नान्यत् ।
ततः कुबुद्धिर्विलक्षो भूत्वा बहिर्ययौ ।
जनैश्च निन्दितः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ चत्वारिंशत्तमी कथा ॥


सुक्४१
अन्यदा वणिग्वधूः प्राहकीर! यदि त्वं मन्यसे तदा गच्छामि ।
शुकः प्राह

युक्तं ते गमनं देवि यदि तत्र गता सती ।
सङ्कटे खलु वेत्सि त्वं किञ्चिद्वक्तुं द्विजो यथा ॥ ४१.१ (=१९४) ॥

प्रभावती प्राह”कथमेतत्ऽ? शुकःस्ति पञ्चपुरं नाम नगरम् ।
तत्र शत्रुमर्दनो नाम राजा ।
तत्सुताया मदनरेखाया गले ग्रन्थिर्बभूव ।
वैद्यैरसाध्येत्युक्त्वा परित्यक्ता ततो राज्ञा डिण्डिमाघोषणं कारितं यथा यः कोऽपि मत्सुतां गतरोगां करोति तमहं दारिद्र्यरहित करोमीति श्रुत्वा परग्रामादागतया कयाचिद्द्विजभार्यया डिण्डिमः स्पृष्टः ।
तस्मिन्पृष्टे तयोक्तम्यन्मम पतिर्मान्त्रिकः ।
स राजसुता प्रगुणां विधास्यति ।
ततो राजपुरुषैः समानीतः ।
तस्य च नीयमानस्य भार्या जगाद”नाथ! गच्छ नगरम् ।
राजसुतायां प्रगुणीकृतायां तव बहु फलं भावि ।
स च मण्डलोपविष्टो मन्त्रादिकमजानं कथं भवत्विति प्रश्नः ।
शुक उत्तरं प्राहस मान्त्रिक आचार्यविस्तारं कृत्वा मन्त्रमित्युच्चारयामास ।

हौं जीवणु जाणौं काइं चडुडै वावै साइम् ।
घल्लिउ बम्भणि वीसासु पैं भुञ्जसु सुकअसु हाइं ॥ ४१.२ (=१९५) ॥

[अहं जीवनं जानामि किं तत्पिष्यते विहीयते ।
गृहे ब्राह्मणि विश्राम्य पतिं सेवस्व सुखमेवं भवति] ॥ ४१.२* (=१९५*) ॥

वणमिह आखुरिअदन्तप्पहसन्तअम् ।
कहिं पि औरन्तअम्बेहि सिंगरिअं ॥ ४१.३ (=१९६) ॥
[वनमिदमङ्कुरितदन्तप्रहसन्तम् ।
कुत्रापि अङ्कुरिताम्रैः शृङ्गारितम्] ॥ ४१.३* (=१९६) ॥
सरसखीरमालिअफलभारणाझिप्रम् ।
कहिं पि टिस्बुरिणिजम्बुइणिअअसोहिअं ॥ ४१.४ (=१९७) ॥
[सरसक्षीरमालिकाफलभारनामितम् ।
कुत्रापि टिम्बुरिणीजम्बूनिचयशोभितम्] ॥ ४१.४
(=१९७) ॥
कहिं पि करवन्दाइजालसंराइअम् ।
कहिं पि कप्पूरकङ्कोलगन्धवहं ॥ ४१.५ (=१९८) ॥
[कुत्रापि करविन्दजालसंराजितम् ।
कुत्रापि कर्पूरकङ्कोलगन्धवहम्] ॥ ४१.५
(=१९८) ॥
देवदारुप्पिअङ्गुचूअमल्लीलाम् ।
कहिं पि सिरिखण्डऐगरुतरुमण्डिअं ॥ ४१.६ (=१९९) ॥
[देवदारुप्रियङ्गुचूतमल्लोलतम् ।
कुत्रापि श्रीखण्डागरुतरुमण्डितम्] ॥ ४१.६
(=१९९) ॥
णाअपुंणाअदाडिमवरणाडम्बरम् ।
मअरबोरीर्हि कविवीहिपीलुघणं ॥ ४१.७ (=२००) ॥
[नागपुन्नागदाडिमावरणाडम्बरम् ।
मकरबदरोकपित्थवीथीपीलुघनम्] ॥ ४१.७
(=२००) ॥
दीहघणवास जलीर्हि ऐखोहिअम् ।
कहिं पि रत्तडम्बरं ॥ ४१.८ (=२०१) ॥
[दीर्घघनवासजालैः अतिक्षोभितम् ।
कुत्रापि रक्तडम्बरम्] ॥ ४१.८
(=२०१) ॥
पोष्फलीविडवघणकरम्मरुद्धम्बरं ॥ ४१.९ (=२०२) ॥
[पोप्पलीविटपघनकम्ररुद्धाम्बरम्] ॥ ४१.९
(=२०२) ॥
किञ्च
रत्तकणवीरे कणवीरिअं फलिअम् ।
अण्णवच्छम्मि सेवत्तिआ फुल्लिआ ॥ ४१.१० (=२०३) ॥
[रक्तकर्णवीरे कर्णवीरकं फलितम् ।
अन्यवृक्षके सेवन्तिका फुल्लिता] ॥ ४१.१०
(=२०३) ॥
अण्णवच्छम्मि कारन्द आवच्छअम् ।
अण्णवच्छम्मि सिन्दूरअं फुल्लिअं ॥ ४१.११ (=२०४) ॥
[अन्यवृक्षके कारण्डमाच्छादितम् ।
अन्यवृक्षके सिन्दूरकं फुल्लितम्] ॥ ४१.११
(=२०४) ॥
अण्णवच्चम्मि फुल्लस्तमन्दारअम् ।
सिरिसौत्तुङ्गगन्धोहवरमारुअं ॥ ४१.१२ (=२०५) ॥
[अन्यवृक्षके फुल्लमन्दारकम् ।
शिरीषोत्तुङ्गगन्धहरमारुतम्] ॥ ४१.१२
(=२०५) ॥
अण्णवच्छम्मि सिरिआतोरणम् ।
फुल्लिअं मणोहरं जणिअपरिसोहिअं ॥ ४१.१३ (=२०६) ॥
[अन्यवृक्षके सिन्दूरिकातोरणम् ।
फुल्लितं मनोहरं जनितपरिशोभितम्] ॥ ४१.१३
(=२०६) ॥
अण्णवच्छम्मि जुत्तद्दअं कुन्दअम् ।
मल्लिणोमालिआकुसुमा घणपुप्फिआ ॥ ४१.१४ (=२०७) ॥
[अन्यवृक्षके युक्तदलं कुन्दकम् ।
मल्लीनवमालिकाकुसुमानि घनपुष्पितानि] ॥ ४१.१४
(=२०७*) ॥
इत्येवं बाह्मणस्य वदतो राजपुत्र्या हसितम् ।
हास्यतिरेकेण गलग्रन्धिर्द्विधा बभूव ।
द्विधा जाते च तस्मिन् राजसुतायाः सुखमुत्पन्नम् ।
नृपेण च कृतार्थीकृतो विप्रः स्वसदन गतः ।
इति कथां श्रुत्वो प्रभावती सुप्ता ।

इति शुकसप्ततौ एकचत्वारिंशत्तमो कथा ॥


सुक्४२
अरेपद्युः प्रभावती “गच्छामी”ति शुकं प्रत्याह ।
शुकः
सुखोपभोगः संसारे सारं सर्वाङ्गसुन्दरि ।
व्रज चेद्व्याघ्रमारीव वेत्सि वक्तुं त्वमुत्तरम् ॥ ४२.१ (=२०८) ॥
तच्छ्रुत्वा प्रभावत्याह”सुखोपभोगः संसारे कोर! कथां कथय” ।
शुकः कथां प्राह अस्ति देउलाख्यो ग्रामः ।
तत्र राजसिंहो नाम राजपुत्रः तद्भार्या कलहप्रियेति विश्रुता ।
सान्यदा भर्त्रा सार्धं कलहं विधाय पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता ।
सा च कोपवशात्पत्तनानि बहूनि वनानि च बहून्यतिक्रम्य गता मलयपाश्वस्थं महाकाननम् ।
तच्च कथं भूतम् ।

चन्दणसत्तच्छआसण्णअं सरलवरतुङ्गतरुसाहसंछण्णअम् ।
कहिं पि सहआरखज्जूरिअं फणसअ मत्तालिविहङ्गभारिअं ॥ ४२.२ (=२०९) ॥

[चन्दनसप्तच्छदसन्नद्धं सरलवरतुङ्गतरुशाखासंच्छन्नम् ।
क्वापि सहकारखर्जूरिकं पनसे मत्तालिविहङ्गभरितम्] ॥ ४२.२* (=२०९*) ॥

कहिं पि सेलुपीलुफपूरिअन्तअं सरसवोरबहुतिन्तडीछण्णअं दाडिमीफलबिल्लफलसुगन्धिवाअअं ॥ ४२.३ (=२१०) ॥
[क्वापि सेलुपीलूप्रपूरितान्तरं सरसबदरबहुतिन्तिडीच्छन्नं दाडिमीफलबिल्वफलसुगन्धिवातकम्] ॥ ४२.३* (=२१०*) ॥

एवंविधे गहने गता सा कलहप्रिया व्याघ्रं ददर्श ।
स च व्याघ्रस्तव सपुत्रां दृष्ट्वा पुच्छेन भूमिमाहत्य धावितः ।
ततः सा कथं भवतु? इति प्रश्नः ।
उत्तरं शुकः प्राहसा व्याघ्रमागच्छमानं दृष्ट्वा घार्ष्ट्यात्पुत्रौ चपेटया हत्वा इति जगाद कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः ।
अयमेकस्तावद्विभज्य भुज्यताम् ।
पश्चादन्यो द्वितीयः कश्चिल्लक्ष्यते ।
इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः ।

निजबुद्ध्या विमुक्ता सा भयाद्व्याघ्रस्य भामिनि ।
अन्योऽपि बुद्धिमांल्लोके मुच्यते महतो भयात् ॥ ४२.४ (=२११) ॥

इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ द्विचत्वारिंशत्तमो कथा ॥


सुक्४३
अन्येद्युः शुकमापृच्छति स्म कामिनी ।
शुकः प्राह

व्रज देवि न तेऽयुक्तं व्रजनं गजगामिनि ।
व्याघ्रमारीव बुद्धिस्ते द्वितीयापि यदि स्थिरा ॥ ४३.१ (=२१२) ॥

प्रभावती पृच्छति, कथमेतत्?

व्याघ्रमार्याः कृतां बुद्धिं द्वितीयां विवदाधुना ।
महत्कौतुकमत्रार्थे विद्यते मे प्रियंवद! ॥ ४३.२ (=२१३) ॥

शुकः

तं दृष्ट्वा कानने व्याघ्रं नष्टं जातं भयाकुलम् ।
मृगधूर्तो हसन्नाह व्याघ्रो नष्टः कुतो भयात् ॥ ४३.३ (=२१४) ॥

व्याघ्रःगच्छ गच्छ जम्बुक त्वमपि किंञ्चिद्गूग्प्रदेशम् ।
यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः ।
मृगधूर्तःव्याघ्र! त्वया महत्कौतुकमावेदितं यन्मांसपिण्डाद्मानुषादपि बिभेषि ।
व्याघ्रःप्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया घ्नन्नी दृष्टा ।
जम्बुकःस्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम् ।
यदि व्याघ्र! तव तत्र गतस्य सा सम्मुखमपीक्षते तदा मम त्वदीया वेला स्मरणीया ।
व्याघ्रःशृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात् ।
जम्बुकःयद्येवं तहि मां निजगले बद्ध्वा चल शीघ्रम् ।
स व्याघ्रस्तथा कृत्वा कानन ययौ ।
व्याघ्रमार्यपि प्राप्ता पुत्रसहिता तेन जम्बुककृतोत्साहाद्व्याघ्रात्सा कथं मुच्यताम् ।
इति प्रश्नः ।
शुकःतया व्याघ्रमार्या तदा चिन्तितं यदयं मृगधूर्तेनानीतस्तस्मादमुमेव जम्बुकमाक्षिपन्त्यङ्गुल्या तर्जयन्त्युवाच

रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा ।
विश्वस्याद्यैकमानीय कथं यासि वदाधुना ॥ ४३.४ (=२१५) ॥

इत्युक्त्वा धाविता तूर्णं व्याघ्रमारी भयङ्करा ।
व्याघ्रोऽपि सहसा नष्टो गलबद्धशृगालकः ॥ ४३.५ (=२१६) ॥

निजबुद्ध्या पुनर्मुक्ता व्याघ्रजाद्देवि सा भयात् ।
बुद्धिर्वलवती तन्वि सर्वकार्येषु सर्वदा ॥ ४३.६ (=२१७) ॥

इति कथां श्रत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ त्रिचत्वारिंशत्तमी कथा ॥


सुक्४४
अथान्येद्यर्दिनावसाने प्रभावती शुकं पृच्छति ।
शुकः

आत्मानं सङ्कटाद्देवि याहि चेद्वेत्सि रक्षितुम् ।
यथात्मा सङ्कटात्तेन जम्बुकेनापि रक्षितः ॥ ४४.१ (=२१८) ॥

स च जम्बुको गलबद्धो निघृष्टपृष्ठचरणो गलद्रुधिरप्रवाहो मूमूर्षुरिव देशान्तरं गन्तुमिच्छता व्याघ्रमारीभयाद्व्याघ्रेण नोयते ।
ततो महतोऽपायात्शृगालः कथं मुच्यतेइति प्रश्नः ।
उत्तरं प्राह शुकःततस्तं व्याघ्रं बहुनदीकाननविषमसमप्रेदेशपर्वतानुल्लङ्घयन्तं सत्वरं दृष्ट्वा आत्मानं मोचयितुकामः शृगालो भृशं जहास पीडितोऽपि सन् ।
व्याग्रेणोक्तम्कथं हसितम् ।
स आहदेव! सा मया व्याघ्रमारीति धूर्तिका ज्ञाता ।
त्वत्प्रसादाच्च दूरदेशमागतोऽहं जीवितः ।
परं यदि सास्मद्रक्तस्रावसंलग्ना पापिनी पृष्ठतः समेति तदा कथं जीवितव्यम् ।
अतोऽह हसितः ।
व्याघ्रस्वामिन्! स्थिरीभूय विचारय ।
अथ तुष्टो व्याघ्रस्तेन वाक्येन “तथेऽत्युक्त्वा जम्बुकं मुक्त्वा सहसा नष्टः ।
शृगालोऽपि सुखं तस्थौ ।

बुद्धिर्वरं वरारोह धनमानसुखैषिणाम् ।
बुद्धिहीनाः परं क्लेशं प्राप्नुवन्ति कृशोदरि ॥ ४४.२ (=२१९) ॥

बलं प्रज्ञाविहीनस्य परकार्याय केवलम् ।
गिरिकूटोपमाङ्गस्य कुञ्जरस्येव दृश्यते ॥ ४४.३ (=२२०) ॥

इति कथां श्रुत्वा प्रभावती शुकवाक्यविस्मिता सुप्ता ।

इति शुकसप्ततौ चतुश्चत्वारिंशत्तमी कथा ॥


सुक्४५
अन्येद्युः सा कामिनी सन्ध्यायां शुकं पप्रच्छ”गमिष्यामीऽति ।
शुकः प्राह

समयोज्यं प्रियं भोक्तुं तव भामिनि सम्प्रति ।
वञ्चिता वेत्सि चेत्कर्तुं किञ्चिद्विष्णुः पुरा यथा ॥ ४५.१ (=२२१) ॥

प्रभावत्याह”कथमेतत्ऽ ।
शुकः प्राहअस्ति विलासपुरं नाम नगरम् ।
तत्र अरिन्दमो नाम राजा ।
तत्र च विष्णुनामा ब्राह्मणो रतिलोलुपः कुटुम्बवर्जितो रतिकर्मणि सर्वनारीदुःसह इति नगरे प्रसिद्धो बभूव ।
वेश्याभिरपि न शक्यते जेतुं किम्पुनः कुलाङ्गनाभिः ।
तत्र रतिप्रिया नाम गणिका ।
अथ सा षोडश द्रम्मान् गृहीत्वा तमाजुहाव ।
तमायान्तं दृष्ट्वा सा चाटूक्तिभिः परिचर्यां चकार ।
सोऽपि चान्यकार्यनिवृत्तस्तस्मिन्नेव रतिकर्मणि दत्तमनास्तां रन्तु जेतुमारेभे ।
तया च स रतिलोलुपः द्रव्यार्थं वा पराजयार्थं वा प्रहरद्वयं यावत्सोढः ।
निशीथे चाधोभूमिकामागत्य कुट्टिन्यग्रतो निवेदितं “यद्दुःसहोऽयं द्विजः ।
पणबन्धं समर्पयित्वा तमुत्कालय ।
मयि जीवन्त्यां प्रागेव बाहुल्यं भविष्यतिऽ ।
कुट्टिन्याह”अस्मद्गृहे न कोऽपि कामुको गणिकां जित्वा पणबन्धं जग्राह ।
ततोऽहमेनं यावत्प्रपञ्चेन निःसारयामि तावत्सोढव्य इति ।
यदा चाहं पिप्पलमारुह्य सूर्पद्वयेन पक्षशब्दं कुक्कुटध्वनिं विदधानि तदा विभातमिति कृत्वा निःसारणयःऽइत्युक्त्वा प्रेषितोपरिभूमौ गणिका ।
यथोक्तं च कुट्टिन्या तावत्कृतम् ।
तस्मिन्कृते विभातमिति कृत्वा निःसारितो द्विजः ।
यावद्गृहद्वरस्थो व्योममालोकयते तदोपरि निशीथोवर्तते ।
तदा स विप्रः कुट्टिनीपराजितो जनमध्ये पराजयं कथं वहतुइति प्रश्नः ।
शुकःयदा विप्रः कुक्कुटध्वनिस्थानमवलोकयति तावत्सूर्पद्वययुतां कुट्टिनीं ददर्श ।
तेन च सा लोष्टेनाहत्य भूमौ पातिता प्रमादजनैश्च धिक्कृता ।
स च ब्राह्मणो ग्रहणकं द्विगुणं गृहीत्वा पुरमध्ये गणिकां विनिन्द्य ।
स्वगृहं ययौ ।

इति शुकसप्ततौ पञ्चचत्वारिंशत्तमी कथा ॥


सुक्४६

अथान्येद्युः प्रभावती शुकं पृच्छति ।
शुकः

याहि देवि गृहं मुक्त्वा यदि वेत्सि त्वमुत्तरम् ।
यथा करगरानाथः कृतवान्भूतनिग्रहे ॥ ४६.१ (=२२२) ॥

अस्ति देवि वत्सोमं नाम नगरम् ।
तत्र विद्वान्दरिद्रो ब्राह्मणः ।
तस्य प्रिया च करगराभिधाना यथार्थनाम्नो सर्वजन्तूद्वेगकारिणी, यत्तद्द्वारदेशवृक्षस्थितो भूतस्तस्याः करगराया भयात्पलाय्याटव्यां गतः ।
ब्राह्मणोऽपि तस्या उद्वेगाद्देशान्तराभिमुखोऽभूत् ।
सोऽपि च तेन भूतेन दृष्टो जल्पितश्च मार्गश्रान्तस्त्वम् ।
तेन त्वयाद्य ममातिथिना भाव्यम् ।
विप्रेण भीरुणोक्तम्यदातिथ्यं करोषि तद्विधेहि शीघ्रम् ।
भूतेनोक्तम्न त्वया भेतव्यम् ।
त्वं मम स्वामी यतोऽहं त्वद्गृहद्वारवृक्षस्थो भूतः करगराभयेनेहागतः ।
ततस्तव निजस्वामिनी गुणवदुपकर्तव्यमेव ।
तस्मात्त्वं द्विज मृगावतीं राजधानीं मदनभूपतिसनाथां गच्छ ।
तत्र चाहं तत्पुत्रीं मृगलोचनां ग्रहीष्ये ।
सा चान्यैर्मन्त्रिकैर्नोरुजा न भविष्यति ।
तत्त्वयि समागते तव दर्शनादेवाहं त्यक्ष्यामि ।
ततः परं तु मन्त्रवादो न विधेयः ।
इति भणित्वा सोऽपि भूतो गत्वा तां राजपुत्रीं जग्राह ।
विप्रोऽपि तत्र ययौ ।
तेन च डिण्डिमः स्पृष्टः ।
ततो राजकुलं गतो विप्र आचार्यविस्तरं विदधे ।
भूत आचार्यविस्तरं यावन्नमुञ्चति तावत्किं करोत्विति प्रश्नः ।
शुकभूतग्रहेऽनिवर्तिते विप्रेणोक्तम्

करगरणाहौ आइऔ भूअ एउ वीससिउ ठिउ धुत्त ।
आपिणि बोलिउ संभरि रे कूडौं किं मैं देव जुत्त ॥ ४६.२ (=२२३) ॥

[करगरानाथोऽहमागत्य भूत इह विश्वस्य स्थितो धूर्त ।
आत्मनो वचनं संभृहि रे कूटकं किं मयि देव युक्तम्] ॥ ४६.२* (=२२३*) ॥

उक्तञ्च

मनुष्याः सुकुलोत्पन्ना अपि च ब्रह्मचारिमः ।
न भवन्ति मृषावाचः किं पुनर्देवयोनयः ॥ ४६.३ (=२२४) ॥

ततो भूतः त्यक्त्वा जगाम ।
इयं मुक्तेत्युक्त्वा ब्राह्मणाय राज्ञा सुताः राज्यार्धञ्च प्रदत्तम् ।
विप्रोऽपि पूर्णमनोरथो जगाम ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।
इति शुकसप्ततौ षट्चत्वारिंशत्तमी कथा ॥


सुक्४७
दिनमतिवाह्य प्रभावती शुकं पृच्छति ।
शुकः

गच्छ देवि गता वेत्सि यदि कर्तुं त्वमुत्तरम् ।
यथा करगरानाथः कृतवान्भूतसङ्कटे ॥ ४७.१ (=२२५) ॥

स करगरापतिः राजकन्यया सह राजलक्ष्मीं भुङ्क्ते ।
अत्रान्तरे स भूतः कर्णावतीं गत्वा राज्ञो भार्यां सुलोचनां जग्राह ।
सा मदनस्य पितृष्वसा ।
सा चात्यर्थं पीडिता जीवितशेषाभूत् ।
सापि शत्रुघ्ननरपतेर्भार्या मातृराज्ये केशवमान्त्रिकमाकारयामास ।
स च निजदूताप्रेषयित्वा केशवोऽपि राज्ञा प्रियवाक्यैः प्रहितोऽप्यगन्तुकामुकः ।
तदा स करगरापतिर्भार्यानुरोधतो जगाम ।
तत्र गतः सन्मानितो महीभुजा शत्रुघ्नेन गतः सुलोचनावेश्मनि ।
स च भूतस्तमायान्तं दृष्ट्वा परुषैर्वाक्यैस्तर्जयन्नित्याह”मया प्रतिपन्नमेकदेशे कृतम् ।
अधुना तु विप्र त्वया आत्मा रक्षणीयःऽ ।
स च द्विजो न मन्त्रं न तन्त्रं विजानाति ।
कथं भवत्विति प्रश्नः ।
शुकः तदा तं भूतं ज्ञात्वा कालवेदी कृताञ्जलिर्भूत्वा तत्कर्णमाश्रित्येति जगाद द्विजः ।

प्राप्ता करगरा भूत पृष्ठलग्नात्र मेऽधुना ।
यद्भर्ता चात्र सम्प्राप्तस्तद्व्याख्यातुमिहागतः ॥ ४७.२ (=२२६) ॥

श्रुत्वैतद्वचनं भीतो भूतो विस्मितमानसः ।
यामीति ब्राह्मणं प्रोक्त्वा पात्रं त्यक्त्वा जगाम तत् ॥ ४७.३ (=२२७) ॥

तदा पात्रे स्वस्थीभूते शत्रुघ्नराज्ञा सत्कृतो ब्राह्मणो मृगावतीनगरं ययौ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ सप्तचत्वारिंशत्तमी कथा ॥


सुक्४८
अथान्येद्युः प्रभावती शुकं पृच्छतिगच्छामि नरान्तरमिति ।
शुकः

सम्भोगसुखमेवात्र परमं व्रज सुन्दरि ।
विषमे निर्णयं कर्तुं वेत्सि चेच्छकटालवत् ॥ ४८.१ (=२२८) ॥

पाटलीपुरपट्टने सार्वभौमो नन्दो नाम राजभूत् ।
शकटालस्तस्य नृपतेः सचिवाग्रणीरभत् ।
तद्बुद्धिविभवाक्रान्ताश्च भूपालाः सर्वेऽपि करदा अभवन् ।
उक्तञ्च

अप्राज्ञेन च कातरेण च गुणः स्यात्सानुरागेण कः प्रज्ञाविक्रमशालिनोऽपि हि भवेत्किं भक्तिहीनात्फलम् ।
प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे सम्पत्सु चापत्सु च ॥ ४८.२ (=२२९) ॥

किञ्च

प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः ।
हस्तोपधृतछत्रस्य वारिधारा इवारयः ॥ ४८.३ (=२३०) ॥

स च राजा धर्मनाशकं कुर्वन्निर्द्रव्यां च मेदिनीं विदधानो निषिद्धो मन्त्रिणा ।
ततस्तेनापि मूर्खेण राज्ञा सचिवोऽवटे निक्षिप्तः ।
स च सपुत्रस्तत्र चिरं तस्थौ ।
ततः शकटाले महामात्ये तत्रस्थे सर्वत्र मृतो मृत इति वार्त्ताभूत् ।
ततो बङ्गालनाथेन तत्परीक्षार्थमात्मोयपुरुषा घोटिकाद्वयं समर्प्य नन्दपार्श्वे प्रेषिताः ।
यदेतयोर्मध्यात्का माता का च पुत्री इति ज्ञात्वा समागन्तव्यम् ।
सर्वलक्षणसम्पूर्णे सदृशे घोटिकेतानि च लक्षणानि शालिहोत्रज्ञातव्यानि ।
यदा च कोऽपि नन्दराज्ये घोटिकानिर्णयं कर्तुं न क्षमस्तदा नन्दो राजा व्यचिन्तयात्”शकटालं विनाहं परिभवास्पदं जातः” ।
उक्तञ्च

भूमेश्च देशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशे ।
भृत्यप्रणाशे मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ ४८.४ (=२३१) ॥

विचिन्त्यैव दण्डपाशिकमब्रवीत्”यच्छकटालकुले कश्चित्कूपगतो विद्यते न वा” ।
तेनोक्तम्”कश्चिदस्ति परं व्यक्तितो न ज्ञायते ।
यतः पूर्वोद्दिष्टं भक्तं कश्चित्कूपगतो गृह्णाति ।
तं च कूपादाकृष्य सम्मान्य च एव मुक्तवान्

मान्यस्त्वं मम मित्रं च गुरुः स्वामी नियोगकः ।
आश्रयस्य सदा दाता कि क न त्वं सदानघ ॥ ४८.५ (=२३२) ॥

उक्तञ्च

स्वामी दुर्णयवारणव्यतिकरे शास्त्रोपदेशे गुरुर्विश्रम्भे हृदयं नियोगसमये दासो भये चाश्रयः ।
दाता सप्तसमुद्रसीमरशनादामान्तिकायाः क्षितेः सर्वाकारमभूत्स्वयं वरसुहृत्को न कर्णो मम ॥ ४८.६ (=२३३) ॥

मन्त्रिणोक्तम्”स्वामिन् किं विधेयं तदादिशऽ ।
राज्ञोक्तम्”अस्य वडवायुगलस्य मध्ये का माता का च पुत्री इति सन्देहममीषां छलात्मनां दूतानां शीघ्रं छिन्धि ।
स कथं छिनत्तु तत्सन्देहमिति प्रश्नः ।
शुकःततो मन्त्रिणा तद्वडवायुगं सपर्याणं कारयित्वा बाह्याल्यामतिवाह्य पर्याणरहितं विधाय श्रान्तं सम्मोचितम् ।
तदनु तद्युगलं च मातृसुताविचेष्टितं चकार ।
माता जिह्वया सुतां लिलेह सुता च तां प्रति अतिवत्सलाभूत् ।
ततः सुमन्त्रिणा मातृसुताविशेषा राज्ञोऽग्रे निवेदितः ।
ततश्च शकटालः परां लक्ष्मीं प्रसिद्धिं च लेभे ।
इति कथां श्रत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ अष्टचत्वारिंशत्तमी कथा ॥


सुक्४९
अथापरेद्युः दिनकृत्यं सा विधाय शुकमापृच्छते ।
शुकः

सम्भोगसुखमेवाद्य भोक्तुं ते देवि युज्यते ।
विषमेऽपि प्रवीणासि पुनश्चेच्छकटालवत् ॥ ४९.१ (=२३४) ॥

यथापूर्वं तथैव बङ्गालनाथो यष्टिकां सुवृत्तां ध्वजाच्छिद्रिणीमयीं जीवचछकटालपरीक्षायै तैरेव पुंभिः प्रेषयामास ।
यथा युष्माभिर्नन्दराज्ये गत्वा अस्या यष्टिकाया रत्नसुवर्मवज्रैर्खचिताया आदिमन्तं ज्ञात्वा समागन्तव्यमित्यादेशात्ते पुमांसो नन्दपार्श्वमागत्य यष्टिकां तत्पुरतो मुक्त्वा आदिमन्तं च पप्रच्छुः ।
तच्छ्रत्वा प्रधानैः कलाभिज्ञैर्वणिग्वरैस्तोलिता आन्यैश्च कोविदैरवलोकिता ।
परं केनापि आद्यन्तविभागो न ज्ञातः ।
ततो राजा शकटालमादिशत्यत्त्वां विना आद्यन्तविभागं न कोऽपि जानाति ।
ततस्त्वया निर्णयो विधेय एव ।
ततो मन्त्री वदति”स्वामिन्! युष्मत्कृता सम्भावनापि न निष्फला ।

उक्तञ्च सुवंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।
कृच्छ्रेषु व्यर्थया यत्र भूपतेर्भर्तुराज्ञया ॥ ४९.२ (=२३५) ॥

ततश्च स मन्त्री सम्भावितोऽपि कथं ज्ञास्यतीति प्रश्नः ।
उत्तरम्शुकः प्राह”ततोऽसौ बुद्धिमान्मन्त्री यष्टिकां जले चिक्षेप ।
ज्ञातञ्च यतो यन्मूलं तदीषज्जले मग्नम् ।
तच्च नृपतेर्निवेदितम् ।
तेन च तेषां दूतानामपि कथितम् ।
ततस्ते श्रुत्वास्वराज्ञे न्यवेदयन् ।
ततश्च ते राजानो नन्दाधिराजस्य पूर्वजल्पितं करं ददुः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ एकोनपञ्चाशत्तमी कथा ॥


सुक्५०

अन्यदा प्रदोषे प्रभावती चलिता शुकं पप्रच्छ ।
शुकः

गच्छ देवि न ते दोषो गमने कोऽपि दृश्यते ।
विषमे यदि वेत्सि त्वं धर्मबुद्धिरिवेहितम् ॥ ५०.१ (=२३६) ॥

“कथमेतत्?” शुकःस्तिः देवि धरापृष्ठे जाङ्गलाभिधो ग्रामः ।
तत्र मित्रद्वयं वर्तते धर्मबुद्धिर्दुष्टबुद्धिश्चेति ।
अन्यदा तौ द्वावपि धनाशया देशान्तरं गतौ ।
कियद्भिर्दिनैः प्रचुरं धनमर्जयित्वा स्वग्रामागतौ परस्परं मन्त्रं चक्राते यत्पिप्पलाधो धनं किञ्छित्क्षिप्त्वान्यद्गृहे नीयते ।
पश्चात्क्रमेण विभज्यते लग्नम् ।
इति कृत्वा तौ निजगृहं जग्मतुर्हृष्टतुष्टौ सुखास्वादतत्परौ स्थितौ ।
अत्रान्तरे यत्कृत दुष्टबुद्धिना तन्निशम्यताम् ।
नच युज्यते वक्तुम् ।
यतः

न वक्तव्यं ध्रुवं देवि पापं दृष्टं श्रुतं मया ।
कथापि खलु पापानामलमश्रेयसे यतः ॥ ५०.२ (=२३७) ॥

तेन च दुष्टबुद्धिना तद्द्रव्यमुत्पाट्य गृहीत्वा निजगृहमानीतम् ।
कालक्रमेण च सम्मिलितौ पिप्पलाधःस्थितं द्रव्यं ग्रहीतुं गतौ यावदालोकयतः तावद्द्रव्यं नास्ति ।
धर्मबुद्धिस्ततो गत्वा मन्त्रिणोऽग्रे आचख्यौ धनवृत्तान्तं हृतं चापि कुबुद्धिना ।
कुबुद्धिनाहृतेन उत्तरं कृतम् ।
सहस्रस्य पणो मुक्तः ।
एतदर्थे शपथं दापयिष्यामि ।
मन्त्रिणोक्तमेवमेवास्तु ।
द्वितीयेनापि प्रतिपन्नं यदा तदा मन्त्रिणा प्रतिभुवौ गृहीत्वा मुक्तौ गतौ गेहं पृथक्पृथक् ।
ततो दुष्टबुद्धिर्निजं पितरं विदितार्थं कृत्वा वृक्षकोटरे चिक्षेप ।
प्रभाते सचिवस्तौ च वादिनो कोतुकी लोकश्च तं पिप्पलं ययुः ।
दुष्टबुद्धिः स्नातः कृताञ्जलिः सत्यं कृत्वा जगाद ।
“इदंसत्यं ब्रूहि नगोत्तम यदि मया द्रव्यमपहृतं तदानेन हृतमिति वाच्यम् ।
यदि न हृतं तदानेन न हृतमिति वाच्यम्” ।
इति श्रुत्वा तत्पित्रा नहीति जल्पितं सर्वलोकप्रत्यक्षम् ।
ततो धर्मबुद्धिः कथं भवतुइति प्रश्नः ।
तत्सन्दिष्टः शुकप्राह”धर्मबुद्धिस्तं शब्दं तत्पितुर्ज्ञात्वा कोटरे वह्निं जज्वाल ।
तं पितरं कोटरात्फूत्कूर्वन्तमर्धज्वलितं च पतितं दृष्ट्वा दुष्टबुद्धेर्निग्रहं विधाय मन्त्री धर्मबुद्धिमानन्दयामास ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ पञ्चाशत्तमी कथा ॥


सुक्५१
अन्यदा सा बाला शुकं पप्रच्छ ।
शुकः

यादि देवि रतास्वादलुब्धे कामिनि तं नरम् ।
गाङ्गिलवद्विजानासि विषमे यदि भाषितुम् ॥ ५१.१ (=२३८) ॥

प्रभावती ब्रूते”नाहे वेद्मि ।
तत्कथय” ।
शुकः”अस्ति चमत्कारपुरं नाम नगरम् ।
तच्च चतुर्वेदचतुर्वर्णचतुराश्रमसमाकुलम् ।
ततः कदाचित्तत्रस्था ब्राह्मणा वल्लभीनाथयात्रायां चलिता गन्त्रीभिरश्ववाहनैः सकौतुका वृद्धिमन्तः पूर्णपार्थयादिसामग्रीका सारनेपथ्याः सपुत्रकलत्राः ।
मार्गे चौरैर्गृहीतुमारब्धाः ।
तेऽपि सर्वे भयाकुला नष्टाः ।
गाङ्गिलनामा विप्रस्तैर्विप्रैः सह गन्तुमशक्तः खञ्जः सन् समन्ततो गन्त्र्यारूढो धृतः ।
ततः स कथं भवत्विति प्रश्नः ।
शुकःततः सर्वेषु द्विजेपु नष्टेषु स शकटस्थः उद्भ्रान्तं भ्रातरं साहसिक इव जगाद ।
भ्रातः कियन्तो गजाः कियन्तश्च वाजिनः सन्ति ।
इति कथय सतूर्मं च त्वं धनुरर्पय यथैतान्दिव्यास्त्रेण युगपन्मारयामि ।
इति वचः श्रुत्वा ते तस्कराः सर्वेऽपि नष्टाः ।

तस्माद्यो भाषितुं वेत्ति धर्मे चार्थे स्मरे तथा ।
कस्तं धर्षयितुं शक्तो नरेषु कमलानने ॥ ५१.२ (=२३९) ॥

इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ एकपञ्चाशत्तमो कथा ॥


सुक्५२
अतिक्रम्य दिवा प्रभावती त्रियामासमये द्विजं प्राहव्रजामीति ।
शुकः

व्रजाभोष्टं नरं देवि यदि कार्यं निजं गता ।
जयश्रीरिव जानासि कार्यं कर्तुं निजं हितम् ॥ ५२.१ (=२४०) ॥

कथमेतत्? शुकःशृणु देवि! अस्ति धरापृष्ठे प्रतिष्ठानं नाम पत्तनम् ।
तत्र सत्त्वशीलो राजा ।
तत्पुत्रो दुर्दमनो नाम ।
तेन इति चिन्तितं यन्मया स्वभुजोपार्जितमेव भोक्तव्यं न तु पैतृकमिति सञ्चिन्त्य निजनगरं त्यक्त्वा समशीलैर्मित्रैः ब्राह्मणकाष्ठतड्वणिक्पुत्रैः समं निर्ययौ देशान्तरोपरि ।
ततश्च तैर्मिलितैश्चिन्तितं यदरमाकं रत्नभूमिर्महोदधिः सेवितुं युज्यते ।
उक्तं यतः

विद्यावतां कुलीनानां शौर्यसम्पत्तिशालिनाम् ।
स्थानं नरेशभवनमथवा यत्ततोऽधिकम् ॥ ५२.२ (=२४१) ॥

उक्तञ्च

सन्त एव सतां नित्यमापत्तरणहेतवः ।
गजानां पङ्कमग्नानां गजा एव धुरन्धराः ॥ ५२.३ (=२४२) ॥

विचार्यैवं सेवितः पयसां पतिः त्रिसप्तकृत्व
उपोषितैस्तैः ।
ततस्तुष्टोऽम्भोनिधिः तेभ्यश्चतुर्भ्यश्चत्वारि चिन्तामणिगुणानि रत्नानि ददौ ।

निवृत्ताः कृतकृत्यास्ते लब्ध्वा रत्नचतुष्टयम् ।
विश्वस्ता वणिजः पार्श्वे सर्वमेव समार्पयन् ॥ ५२.४ (=२४३) ॥

ततो दुष्टेन तेन लोभाभिभूतेन तद्रत्नचतुष्टयं जङ्घान्तरे क्षिप्त्वा सीवितम् ।
एकदा अन्यदा च मार्गे फूत्कृतं पश्चाद्दूरस्थितेन वणिजा मुषितोऽस्मीति वदनैः ।
तैरुक्तम्केन हेतुना ।
सा आहमम मूत्रोत्सर्गार्थं पश्चात्स्थितस्य चौरेण मात्रापहृता विश्वापि ।
एवे च निवेदिते तैर्ज्ञातंपश्य धूर्तोऽयम् ।
नूनमनेन वणिजाकिमपि कृटं कृतं भविष्यतीति मन्यमाना विवदन्तः ऐरावतीं पुरीं ययुः ।
तत्र च नीतिसार इत्याख्यातो भूपतिः ।
तस्य च मन्त्री बुद्धिसारो नाम जगद्विख्यातः यस्यैवं प्रसिद्धिर्देशे देशान्तरे च यद्विवादिनां वचनमुक्तमात्रं जानाति ।
ततस्ते राजपुत्राद्यास्तस्मै मन्त्रिणे आचख्युः निजं रत्नगमनवृत्तान्त यथा जातम् ।
तथैव विरीक्ष्यास्माकं मध्ये रत्नजातं वधबन्धं विना पृथक्पृथकेकैकं समर्पय ।
यदि च नार्पयसि तानि ज्ञात्वा तदा प्रसिद्धिर्भिविते व्यर्थतां याति ।
बुद्धिसार इति श्रुत्वा चिन्तावष्टब्धः स्थितः ।
स च राजा नीतिसारः कथं स्यादिति प्रश्नः ।
शुकः प्राहयदा स मन्त्री रत्नचतुष्टयं तन्मध्ये स्थितं न जनाति तदा विषण्णो गृहमाययौ ।
अत्रान्तरे मन्त्रिपुत्री प्राप्तनवयौवना पार्वतीं नत्वा पितुर्नमस्कारणाय गता जयश्रीनामदेया ।
पितरं तादृशं सचिन्तं दृष्ट्वा विषादकारणं पृच्छति स्म ।
ततो मन्त्री यथास्थितमाचष्टे ।
सुता प्राहतात! मा विषीद ।
तेषां निर्णयमहं करिष्यते ।
ते विवादिनः पुमांसो यदा कारणायागच्छन्ति तदा गृहे प्रेषणीयाः यथाहं तन्मध्याद्रत्नजातहर्तारं समर्पयामि ।
सा आह पुत्रि! यन्मया न ज्ञातं तत्त्वं कथं ज्ञास्यसि? सा आह

न चैतत्तात वक्तव्यं भिन्ना बुद्धिर्हि देहिषु ।
कोऽपि किञ्चिद्विजानाति जगत्यत्र कलापरः ॥ ५२.५ (=२४४) ॥

किञ्च

मुण्डे मुण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।
तुण्डे तुण्डे नवा वाणी गेहे गेहे पतिव्रता ॥ ५२.६ (=२४५) ॥

प्रज्ञाविस्फारिताक्षाणां विद्रवन्ति विपत्तयः ।
हस्तोद्यतप्रदीपानामन्धकार इवाग्रतः ॥ ५२.७ (=२४६) ॥

तस्मात्तात! नात्र कापि चिन्ता कार्या ।
प्रस्थाप्यास्तेऽन्यदेशिनः यथा तान्प्रबोधयामि ।
प्रस्थापितास्ते मन्त्रिणा तयापि स्नापिता भोजिताश्च पृथक्पृथक शायिताः ।
ततः सा शृङ्गारं विधाय प्रधानं राजपुत्रं प्राहअहं रत्यर्थिनी तव पार्श्वं समागता ।
त्वं च मह्यं काञ्चनशतं दत्त्वा मां भुङ्क्ष्व ।
तेनोक्तमहं तव द्रव्यं राज्यं चोपार्ज्य दास्यामि ।
परमधुना न किञ्चन विद्यते ।
इति तं निर्द्रव्यं ज्ञात्वा ब्राह्मणं गता ।
ब्राह्मणमपि पूर्वोक्तमेवोक्तवती ।
ब्राह्मणो जगादयदस्मत्पितुः पार्श्वे द्रव्यं शासनबद्धा भूमिरपि तत्सर्वं तुभ्यं दास्ये ।
तमपि निर्धनं ज्ञात्वा परित्यज्य सूत्रधारं ययौ ।
आह च सःसाम्प्रतं मम पार्श्वे किञ्चिन्न विद्यते परं पश्चाल्लक्षं दास्यामि ।
तमपि निर्द्रव्यं परित्यज्य वणिक्सुतं ययौ ।
तथैव गदितवती ।
स आहस्वामिनि! रत्नचतुष्टयं गृहीत्वा मां भुङ्क्ष्व ।
ततो जङ्घायाः समाकृष्य रत्नजातं समर्पयामास ।
ततः सा सव्याजमुत्थाय शीलरक्षां कुर्वाणा जयश्रीर्गृहमाययौ ।
रत्नचतुष्टयं पितुरर्पयामास ।
मन्त्र्यपि तानाकार्य निजं निजं रत्नं समर्पयामास ।
तेऽपि स्वरत्नलाभात्कृतकृत्या निजं निजं गृहं ययुः ।
इति कथां श्रुत्बा प्रभावती सुप्ता ।

इति शुकसप्तती द्विपञ्चाशत्तमो कथा ॥


सुक्५३
अथापरेद्युः प्रभावती गमनाय शुकं पृच्छति ।
शुकः प्रोवाच

व्रज रम्भोरु युक्तं ते गमनं विषमे सति ।
चेत्कर्तुमुत्तरं वेत्सि चर्मकारकलत्रवत् ॥ ५३.१ (=२४७) ॥

प्रभावती पृच्छतिकथमेतत्? शुकःचर्मण्वतीनदीतीरे चर्मकूट इति ग्रामः ।
तत्र च दोहडो नाम चर्मकारः ।
तस्य देविका नाम भार्या परं परपुरुषलम्पटा ।
ततः स चर्मकारश्चर्मणां क्रयणाय यदा बहिर्निर्गतः तदा तया उपपतिः समानीतः ।
तयोश्चान्ते सुरतसेविनोः पतिश्चर्मसमायुक्तो बहिरागतः ।
ततः स उपपतिः सा च कथं भवेतामिति प्रश्नः ।
तत्पृष्टः शुकः प्राह
यदा च तया पतिर्ज्ञातः समागच्छन्तदा

रूहं चुचुहुञ्चूकरऊंहूमाऔचलिहं नावहं मद्रम् ।
उवाइपाउ चलियौ फिरिया खंलिगावह ॥ ५३.२ (=२४७,१) ॥

इति वाक्यं वदति त्वरितं निःसृता ।
ततस्तद्वाक्यं श्रुत्वा भीतो मान्त्रिकमाकरणाय स मूर्खो भ्रमितुं गतो ग्रामे यावत्तावत्तया च निःसारितो जारः स्ववेश्म गतः ।
ततस्त्वमप्युत्तरं विषमे यदि वेत्सि तदा गच्छ ।
अन्यथा शयन कुरु ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ त्रिपञ्चाशत्तमो कथा ॥


सुक्५४
अथातिवाह्य दिनं प्रभावती गमनोत्सुका पुनः शुकं पृच्छति ।
स प्राह

को दोषो गम्यतां देवि यादि त्वं वेत्सि भाषितुम् ।
दूतेन भाषितं यद्वद्विषमे नृपतेः पुरः ॥ ५४.१ (=२४८) ॥

प्रभावत्याहकथमेतत् ।
शुकःस्ति शक्रावती नाम पुरी ।
तस्यां धर्मदत्तो नाम राजा धर्मादिगुणोपेतः ।
तस्यामात्यः सुशीलो नाम ।
तस्य च सुतो विष्णुनामा संधिविग्रहिकः पूर्वमासीत् ।
तस्मात्पदाद्यदा भ्रष्टो द्रव्यहीनः कुलामात्योऽहमित्यहङ्कृतः कर्कशश्च ।
ततो राजा न किञ्चिद्वदति ।
मन्त्री च कदाचिन्नृपमाहस्वामिन्नयं विष्णुर्भक्तो रक्तः प्रवीणो दूतकर्मणि ।
तद्देवपादैः क्वापि प्रेषयित्वा परीक्षणीयः ।
ततो राजा तद्वाक्यं श्रुत्वा तत्प्रतिकूलः सन्भस्मप्राभृतं मुद्रया मुद्रितं समर्प्य शत्रुदमननृपपार्श्वे विदिशायां नगर्यां तं प्रेषयामास ।
सोऽपि च तत्र गतस्तत्प्राभृतं भस्ममयमजानन्मुद्रितं राज्ञः पुरो मुक्तवान् ।
तस्मिंश्चामङ्गलकारिणि प्राभृते राज्ञोऽग्रे मुक्ते राजा कोपाटोपसहितो बभूव ।
ततः स दूतस्तस्मिन्प्राभृते समानीते कथं क्षेममवाप्नोतु इति प्रश्नः ।
शुक उत्तरं प्राहस विष्णुस्तं क्रुद्धं दृष्ट्वा बुद्धिमानिदमुवाचस्वामिन्! मदीयेन नाथेनाश्वमेधो यज्ञः कृतः ।
तस्य कुण्डस्य त्रेताग्रिसम्भवं पवित्रं श्रेयस्करमघापहं भस्म वन्दनाय समर्पितवान् ।
यतः

गजाः सन्ति हयाः सन्ति विचित्राः सन्ति सम्पदः ।
त्वदीये च मदीये च दुर्लभं भस्म याज्ञिकम् ॥ ५४.२ (=२४९) ॥

इत्युक्त्वा सहसोत्थाय करे भस्म कृत्वा राज्ञे समर्पयामास ।
स च तेन वचसा तुष्टिपरो ववन्दे ।
तेनापि तुष्टेन प्रतिप्राभृतं महत्प्रेषितम् ।
स च विष्णुः सम्मान्य विसर्जितः ।
ततस्त्वमपि भामिनि! विषमे उत्तरं जानासि यदि तदा गम्यतामन्यथा तिष्ठ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ चतुःपञ्चाशत्तमी कथा ॥


सुक्५५
अन्यदा यामिनीसमये प्रभावती गमनाय शुकमापृच्छति ।
कीर उवाच

गच्छ रम्भोरु गमनं युज्यते गजगामिनि ।
यदि वेत्स्युत्तरं कर्तुं श्रीधरो ब्राह्मणो यथा ॥ ५५.१ (=२५०) ॥

प्रभावत्याहकथमेतत्? शुको ब्रूतेचर्मकूटे ग्रामे द्विजः श्रीधरो नाम ।
तत्रैव चन्दनाख्यश्चर्यकारः ।
तत्पार्श्वात्श्रीधरेणोपानहयुगलं कारितम् ।
चर्मकारोऽपि नित्यमेव द्रव्यं याचते ।
विप्रोऽपि वदतित्वां हृष्टचित्तं करिष्ये ।
एवं सुमहत्कालं ययौ ।
स विप्रोऽन्यदा चर्मकारेण विधृतः ।
धनं विना स विप्रः कथं मुच्यते ।
तत्कथयेति प्रश्नः ।
उत्तरम् ।
शुकः प्राहएतस्मिन्नन्तरे ग्रामपालस्य गृहे सुतो जातः ।
ततो द्विजः प्राह छलान्वेषो सन्चर्मकृन्मया पूर्वमुक्तं त्वां हृष्टचित्तं करिष्यामि ।
तदस्मिन्सुते जाते त्वं हृष्टचित्तो न वेति ।
यदि स ब्रूते नाहं हृष्टचित्त इति तदा राज्ञा ग्राह्यः स्यात् ।
अन्यथा च द्रव्यं याति ।
ततस्तेनोक्तम्हृष्टचित्तोऽहं जातः ।
ततो द्विजश्छलेनात्मानं विमुच्य गतः ।
ततो भामिनि! यद्येवमुत्तरं जानासि तदा गच्छ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ पञ्चपञ्चाशत्तमी कथा ॥


सुक्५६
अथापरेद्युः प्रभावती गमनाय शुकं पृच्छति ।
शुकः

यादि देवि गता वेत्सि यदि कर्तुं त्वमुत्तरम् ।
विषमे सान्तको यद्वद्वणिक्पुत्रः पुराकरोत् ॥ ५६.१ (=२५१) ॥

अस्त्यत्र त्रिपथो नाम ग्रामः ।
तत्र सान्तको नाम वणिक्महाधनी कृपणो दुष्टशीलो ग्रामान्तरप्रियश्च ।
ततश्च ग्रामान्तरादुद्ग्रहणिकां कृत्वा आगच्छन्पथि चौरैर्धृतः स भामिनि कथं चोरभयान्मुच्यते इति प्रश्नः ।
उत्तरम् ।
शुकःस वणिक्पुत्रः आत्मानं चोरैर्धृतं ज्ञात्वा गलग्रहनाम्नो यक्षस्य समीपवर्तिनोऽन्तिकं ययौ ।
तस्याग्रतश्च द्रव्यं मुक्त्वा हस्ते च खटिकामादाय यक्षाधाशामिदमब्रवीत्

धनोद्ग्राहणिका देव कृतेयं तव सर्वतः ।
इदं द्रव्यं मया लब्धं तिष्ठत्यन्यच्च वृद्धिमत् ॥ ५६.२ (=२५२) ॥

तं लेखकं च दृष्ट्वा यक्षधनमिति ज्ञात्वा तं प्रणम्य ते गताश्चोराः ।
स च द्रव्यं गृहीत्वा क्षेमेण गृहं ययौ ।

इति कथां श्रुत्वा प्रभावती सुप्ता ।

इतिशुकसप्ततौ षट्पञ्चाशत्तमी कथा ॥


सुक्५७
प्रदोषेऽन्यत्र सा बाला पुनः प्राह विहङ्गमम् ।
सुखं भोक्तुं व्रजाम्यद्य नरान्तररतोद्भवम् ॥ ५७.१ (=२५३) ॥

शकुः

यादि देवि यदा ज्ञाता भर्त्रा त्वं वेत्सि भाषितुम् ।
यता ज्ञातः पुरा राज्ञा वदद्विद्वाञ्शुभङ्करः ॥ ५७.२ (=२५४) ॥

अवन्तोपुर्यां विक्रमार्को नृपः ।
तस्य चन्द्रलेखानाम्नी राज्ञी ।
सा राजपण्डितं शुभङ्करनामानं कामार्ता इयेष रमते च दूतीदासीविपर्ययात् ।
नित्यं तद्गृहं गत्वा यदृच्छया क्रीडते ।
एवं च विलसतोस्तयोः पण्डितराज्ञ्योः प्रावृट्कालः समाययौ ।
यत्र च

तडिन्निर्घोषपटहो घनगर्जितगीतकः ।
शिखिस्वरजयध्वजः प्रावृट्कालनृपो ययौ ॥ ५७.३ (=२५५) ॥

दुर्दिनं वेगवृष्टिश्च पङ्कश्च तडितः प्रभा ।
सदाभिसारिकाणां च स्नेहव्यतिकराणि ह ॥ ५७.४ (=२५६) ॥

उक्तञ्च

जै ससणेही तो मुऐ अह जीवै णिण्णेह ।
दुहिअ पयारेहिं गैअ धण किं गज्जहि खलमेह ॥ ५७.५ (=२५७) ॥

[यदि सस्नेहा तत्मृता अथ जीवति निःस्नेहा ।
द्वाभ्यामपि प्रकाराभ्यां गता धन्या, किं गर्जसि खलमेघ] ॥ ५७.५* (=२५७*) ॥

किञ्च

x x x x x ।
x x x x x ॥ ५७.६ (=२५८) ॥

एतस्मिन्समये रात्रौ राज्ञीं शुभङ्करगृहं चलितां ज्ञात्वा पृष्ठत अज्ञातचर्यया हस्ते खड्गमादाय नीलवासाः सन् कौतुको विक्रमार्को राजा तामनुचलितः ।
शुभङ्करोऽपि तां राज्ञीं गृहद्वारसमागतां दृष्ट्वा जगाद

उन्नादाम्बुदवर्द्धितान्धतमसि प्रभृष्टदिङ्मण्डले काले यामिकजागरूकसुभटव्याकीर्णकोलाहले ।
भूपस्यासुहृदर्णवाम्बुवडवावह्नेस्त्वमन्तःपुरादायातासि यदम्बुजाक्षि कृतकं मन्ये भयं योषिताम् ॥ ५७.७ (=२५९) ॥

इदं वचनं श्रुत्वा नृपतिः स्वप्रासादमाजगाम् ।
शुभङ्करोऽपि भोगसंस्कारैश्चाटूक्तिभिश्च महिषीं तोषयामास ।
उक्तञ्च

ण कुणन्ति जे पहुत्तं कुविअं दास व्य जे पसाअन्ति ।
ते च्चिअ महिलाण पिआ सेसा सामीचिअवराआ ॥ ५७.८ (=२६०) ॥

[न कुर्वन्ति ये प्रभुत्वं कुपितां दास इव ये प्रसादयन्ति ।
ते एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः] ॥ ५७.८* (=२६०*) ॥

नायकेषूत्तमः सोऽथ महिषी नायिकासु च ।
शयनं चोत्तमं निन्ये त्रिधा भेदविकल्पनात् ॥ ५७.९ (=२६१) ॥

उत्तमाधममध्यैश्च भेदैः स्नयान्नायकस्त्रिधा ।
नायिकाश्च तथा ज्ञेयास्तयोश्च शयनं त्रिधा ॥ ५७.१० (=२६२) ॥

तत्र नायकगुणाः

हतो मन्युहस्रैर्यः सन्तप्तो मदनाग्निना ।
रक्तश्च यो विरक्तायां सोऽधमः परिकीर्तितः ॥ ५७.११ (=२६३) ॥

कामिनीभिः स्मरार्ताभिः सततं काम्यते हि यः ।
न ताः कामयते नम्रो मध्यमो नायकः स्मृतः ॥ ५७.१२ (=२६४) ॥

रक्तां यो भामिनीं देवि सक्तां कामयते सदा ।
तयापि काम्यतेऽत्यर्थमुत्तमः सोऽभिधीयते ॥ ५७.१३ (=२६५) ॥

नायिकास्त्रिधा

कार्ये गृह्णाति रोषं या गतरोषा प्रियानुगा ।
रसज्ञा कृत्यकुशला सोत्तमा नायिका स्मृता ॥ ५७.१४ (=२६६) ॥

अस्थाने कोपमाना या या दुःखानुनया तथा ।
मानिनी मानहीना च क्षणात्सा मध्यमा स्मृता ॥ ५७.१५ (=२६७) ॥

लुब्धा यातीव चपला वचने नीरसाक्षरा ।
दुःखप्रसाधनाभिज्ञाकृतज्ञा साधमा मता ॥ ५७.१६ (=२६८) ॥

तयोश्च शयनं त्रिधा

पार्श्वयोरुन्नति नीतं निम्नमध्ये प्रियस्य तत् ।
विमर्दं सहतेऽत्यर्थं सुरतासक्तयोस्तयोः ॥ ५७.१७ (=२६९) ॥

मध्यमस्य पुनः कार्यं शयनं समभूमिकम् ।
प्रविरलाङ्गसंस्पर्शा नित्यं याति निशा यथा ॥ ५७.१८ (=२७०) ॥

द्वेष्यस्य तुल्यमुत्तुङ्गं मध्ये नीचं च पार्श्वयोः ।
न शक्येत कलाकल्पो यत्र रन्तुं निरन्तरम् ॥ ५७.१९ (=२७१) ॥

इत्यनुन्नततल्पस्था भुक्ता मुक्ता विपश्चिता ।
महिषी रतिसन्तुष्टा प्रत्यूषे स्वगृहं ययौ ॥ ५७.२० (=२७२) ॥

राजा च प्रातः सर्वावसरानन्तरं पण्डितं राज्ञीं चाजुहाव ।
सिंहासने च पण्डितमुपवेशयामास ।
शुभङ्करं प्रति हसन्वार्ताप्रबन्धेनेति जगाद”कृतकं मन्ये भयं योषिता”मिति वचनं श्रुत्वा स्वदोषविस्मितमानसः सञ्जातः ।
स राज्ञा ज्ञातः कथं भवित्विति प्रश्नः ।
यतः

दीनस्यापि गृहे दोषे कृते भवति निग्रहः ।
किं पुनः पृथिवीपालगृहे दोषो विमुच्यते ॥ ५७.२१ (=२७३) ॥

उत्तरम् ।
शुकः प्राहततश्च स बुधो राज्ञा ज्ञातोऽहमिति सञ्चिन्त्येति वाणीभुदैरयत्

उग्रग्राहमुदन्वतो जलमतिक्रामत्यनालम्बने व्योम्नि स्थापि च दुर्गमक्षितिभृतां मूर्धानमारोहति ।
व्याप्तं याति विषाकुलैरहिकुलैः पातालमेकाकिनी कीर्तिस्ते मदनावतार कृतकं मन्ये भयं योषिताम् ॥ ५७.२२ (=२७४) ॥

इति पण्डिते पठितं श्रुत्वा राजा तं बुधं तां च राज्ञीं दृष्ट्वा इति चिन्तयामास”दुर्लभोऽयं बुधः ।
सुलभाः खलु नार्यऽ इति विचिन्त्य महिषीं हस्ते धृत्वा तस्मै विदुषे ददौ ।
उवाच च”गृहाणेमां महिषीम्ऽ ।
परितोषितः पण्डितोऽपि “महाप्रसादऽ इत्यवोचत् ।
उक्तञ्च

गुणदोषौ न शास्त्रज्ञः कथं विभजते जनः ।
किमन्धस्याधिकारोऽस्ति रूपदोषोपलव्धिषु ॥ ५७.२३ (=२७५) ॥

पण्डितोऽपि राज्ञः प्रसादात्सुखं भुङ्क्ते तया समम् ।
यद्येवं प्रभावति! त्वमपि समये वक्तुं जानासि तदा गम्यताम् ।
अन्यथा स्थीयताम् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ सप्तपञ्चाशत्तमी कथा ॥


सुक्५८
अन्यदा प्रदोषे चलिता प्रभावती शुकं पृच्छति ।
शुकः

रत्यर्थिनो व्रजाथ त्वं रन्तुं चेत्समयोचितम् ।
दुःशीलापतिवद्वेत्सि कर्तुं गणपतेः पुरः ॥ ५८.१ (=२७६) ॥

प्रभावत्याहकथमेतत? शुकःस्ति लोहपुरी नाम नगरम् ।
तस्मिंश्च राजडो नाम पामरः ।
तस्यापि पत्नी परपुरुषलम्पटा दुःशीलेत्याह्वया ।
सा च सूत्रविक्रयार्थं सखीभिः समेत्य पद्मावतीं पुरीं प्रयाति ।
ततश्च ग्रामसमीपस्थस्य गणपतेस्ताभिः पृथक्पृथकुपयाचितमुक्तम् ।
तया च चुम्बनमुपयाचितमुक्तं मदनाक्रान्तदेहया ।
स च तासां प्रभूतं लाभं चक्रे ।
ततः सर्वाभिरन्याभिरात्मीयमुपयाचितं तस्मै गणेशाय प्रदत्तम् ।
तया च नग्नीभूय चुम्बनं कृतम् ।
ततः केलिप्रियेण तेन सा अधरे धृता ।
तस्मिंश्च धृते सा कुक्कुटीव तत्र स्थिता ।
तञ्च वृत्तान्तं तन्मोक्षणाय तद्भर्तुः सख्योपहसमाना निवेदयामासुः ।
सोऽपि तद्वचनं श्रुत्वा तत्रागमत्तां तथाविधां दृष्ट्वा स व्यचिन्तयत्कथमियं मुच्यत इति प्रश्नः ।
शुकःतां तथास्थितां दृष्ट्वा सकामः सन् रासभं रन्तुमारेभे ।
ततश्च स गणपतिस्तताविधं कौतुकं दृष्ट्वा जहास ।
हसतस्तस्य ओष्ठौ शिथिलौ जातौ ।
ततः सा मुक्ता सती प्रणम्य निजं नाथं तर्जयन्ती गृहं ययौ ।

कृतं तेन रतं देवि समयोचितमीदृशम् ।
स्वकार्ये मोचिता सापि दुःशीला विघ्ननायकात् ॥ ५८.२ (=२७७) ॥

समयोचितमारम्भं कुरुते यस्तु कृत्यवित् ।
सर्वदा तु फलं तस्य समयज्ञो दि शिष्यते ॥ ५८.३ (=२७८) ॥

इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ अष्टपञ्चाशत्तमी कथा ॥


सुक्५९
अथ दिनान्ते सा शुकं गमनाय पृच्छति स्म ।
शुकः

गच्छ देवि स्वकार्यञ्च कुरु चिन्तितमद्भुतम् ।
रुक्मिणीवद्विजानासि पतिं वञ्चितुमुद्धतम् ॥ ५९.१ (=२७९) ॥

प्रभावत्याहकथमेतत्? शुकःस्ति सङ्गमो नाम ग्रामः ।
तत्र राहडो नाम राजपुत्रः सकोपः ।
तस्य भार्या रुक्मिणी नाम ।
स च तया सार्धं देवयात्रायां चलितः ।
सा च नरान्तरं कटाक्षयन्तो तेन दृष्टा पुमांश्च ।
ततः स तन्मिथुनं तथाविधं ज्ञात्वा तां तदनुरक्तां मेने ।
उक्तञ्च
बद्धमणिआइ कन्तो तहेअ अद्धच्छिपिच्छिला धारि ।
अससिअं पि मुणिज्जै छैल्लजनसंकुले गामे ॥ ५९.२ (=२८०) ॥

[बद्धहृदयायाः कान्तः तथैव अर्द्धाक्षपिच्छिला वामा ।
निःश्वसितमपि ज्ञाक्षयते विदग्धजनसंकुले ग्रामे] ॥ ५९.२* (=२८०*) ॥

तां तथाविधां विकृतां ज्ञात्वा च राहडो गृहमगमत् ।
धिक्कृत्य परुषाक्षरैर्गृहान्तरे यन्त्रितां धारयामास ।
सा च चिन्तयतिमम जन्म जीवितं यौवनं च तदा सफलं यदा एतस्य प्रत्यक्षं नरान्तरमुपभोक्ष्ये ।
प्रतिज्ञातं च मनसा दृढम् ।
तत आत्मोयप्रतिज्ञां कथं निर्वाहयत्विति प्रश्नः ।
शुकःततः सा कदाचित्तं हृदयस्थं नरं गृहपार्श्वे गच्छन्तं दृष्ट्वा तं प्रत्याहअद्य रात्रौ त्वयास्मद्गृहाङ्गणस्थचिञ्चिणीमूले निजकायाकारगर्तायामूर्ध्वलिङ्गिना शयनं विधेयमिति ।
स तथेति प्रतिज्ञाय रात्रौ तथा भूत्वा स्थितः ।
सा च कामार्ता सर्वकरणचतुरा तत्र ययौ ।
आगारभूमिमुद्दिश्य भर्तारमाह्वयति स्म ।
सा चिञ्चिणीच्छायायां गत्वा तस्य लिङ्गस्योपरि उपविश्य सतूमधनुषं तमब्रवीत् ।

धानुष्कोऽसि प्रधानोऽसि लोके ख्यातिं गतोऽसि च ।
छिन्धि मे चन्द्रिकामद्य पौरुषं गणयामि ते ॥ ५९.३ (=२८१) ॥

स च मूर्खस्तद्वचनमिदं श्रुत्वा सशरं धनुरादाय चन्द्रिकां लक्षीकृत्य बाणं मुमोच ।
तेन मुक्तोऽपि बाणो नाकाशगतां चन्द्रिकां भिनत्ति ।
अधः स वेध्याद्भ्रष्टः ।
तस्मिंश्च पत्यावपराद्धेषौ सति सा विंपरीतरतक्षमा सहस्ततालं तमिदमाह

x x x

[राहड भूलडं चान्द्रणीयाहं हिं रूपवदीसै नीयडडम् ।
ताहं वलिकीजिन्हं तादहीवाहं मैं राषज्जेवद्रढीछाहं] ॥ ५९.३* (=२८२*) ॥

राहडोऽपि तामेवं जल्पन्तीं श्रुत्वा तं शरं गवेषयन् चिरं बभ्राम ।
ततस्तया यदृच्छया विपरीतं विहितम् ।
एवमुक्तश्च पतिः

यदृच्छया रतं मूर्ख ते पुरोऽद्य मया कृतम् ।
शूरो हि कुहितोऽसि त्वं यास्यामीति जगाद तम् ॥ ५९.४ (=२८३) ॥

इत्युक्त्वोपपत्त्या समानीतं हयमारुह्यजगाम ।
गच्छन्तीं च तां ततो दृष्ट्वा राहडोऽपि लज्जितो विगुप्तश्च ।
ततः स्त्रीणां वशगः को न विडम्बितः ।
यतः

आननर्त पुरा शम्भुर्गोविन्दो रासकृत्तथा ।
ब्रह्मा पशुत्वमापन्नः स्त्रीभिः को न विडम्बितः ॥ ५९.५ (=२८४) ॥

संसारवृक्षमूलं याः पापकन्दलभूमिका ।
सन्तापफलपुष्पाणि योषितः किं सुखावहाः ॥ ५९.६ (=२८५) ॥

मायामूलमिदं सर्वं तस्या मूलं हि योषितः ।
संयोगो योषितां मूलं तं त्यक्त्वा च सुखानि नः ॥ ५९.७ (=२८६) ॥

तस्येदं वचः श्रुत्वा प्रभावती प्राह

उत्पत्तिकारणं तन्वी तन्वी वृद्धेश्च कारणम् ।
सुखस्य कारणं तन्वी सा कथं कीर दुष्यते ॥ ५९.८ (=२८७) ॥

विना ताभिर्न सम्भोगो विना ताभिः सुखं न च ।
विना ताभिर्न चात्मानं कृतार्थं मन्येते जनः ॥ ५९.९ (=२८८) ॥

उक्तञ्च

अमृतस्येव कुण्डानि सुखानामिव खानयः ।
रतेरिव निधानानि योषितः केन निर्मिताः ॥ ५९.१० (=२८९) ॥

प्रियादर्शनेमेवास्तु किमन्यैर्दर्शनान्तरैः ।
प्राप्यते यत्र निर्वाणं सरोगेणापि चेतसा ॥ ५९.११ (=२९०) ॥

इति तस्या वचः श्रुत्वा शुकः प्राह

वाजिवारणलोहानां काष्ठपाषाणवाससाम् ।
नारीपुरुषतोयानामन्तरं बहु विद्यते ॥ ५९.१२ (=२९१) ॥

एतत्त्वयोक्तं पतिव्रताविषयं नान्यासु ।

इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ एकोनपष्टितमी कथा ॥


सुक्६०
अन्यदा सा प्रभावती गमनाय शुकं प्रपच्छ ।
शुकः प्राह

गच्छ देवि यदा वेत्सि संशये कृत्यमागते ।
वीरस्य नपतेर्यद्वत्सभायां नृपदूतकः ॥ ६०.१ (=२९२) ॥

प्रभावत्याहकथमेतत्? शुकः

कच्छाधिपतिना देवि तस्य राज्ञः सभा श्रुता ।
विचित्रा देवनिर्मिता सर्वरत्नविभूषिता ॥ ६०.२ (=२९३) ॥

तां द्रष्टुं प्रहितो दूतो हरिदत्त इति श्रुतः ।
सहस्रप्राभृतो भीरु सुरत्नहयहस्तकः ॥ ६०.३ (=२९४) ॥

स दूतस्तत्पुरीं गत्वा नृपं दृष्ट्वा तं जगाद, “मत्स्वामिनाहं सचित्रां तव सभामवलोकयितुमुत्कलितः ।
राजा प्राहप्रातर्दर्शयिष्ये ।
ततो राज्ञा द्वितीयदिने दूत आकारितः ।
स च सहसागतस्तां सभां विचित्ररत्नखचितां दृष्ट्वा जलमयीं स्थलमयीं वेति निश्चेतुमशक्तः कथं भवत्विति प्रश्नः ।
शुकः ततः स पूगीफलं पुरः क्षिप्त्वा स्थलं ज्ञात्वा गृहं ययौ ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ षष्टितमी कथा ॥


सुक्६१

अन्यदा सा शुकं पच्छति स्म ।
शुक प्राह

गच्छ देवि गता वेत्सि रन्तुं चेत्त्वं निजं नरम् ।
यथा तेजुकया पूर्वं कृतं चिरमाकाङ्क्षितम् ॥ ६१.१ (=२९५) ॥

प्रभावत्याहकथमेतत्? शुकः कथयतिअस्ति खोरसमभिधानो ग्रामः ।
तत्र वणिक्पुत्रः पार्श्वनागनामा ।
तस्य भार्या रूपसम्पन्ना रतलोलुपा कुलटा तेजुका नाम ।
सान्यदा सखीभिर्वृता देवयात्रालोकनाय गता सुरूपस्यैकस्य पुंसः रूप प्रेक्ष्य सङ्गमाय मनश्चक्रे ।
यतः

विवाह देवयात्रायां राजवेश्मनि सङ्कटे ।
परगेहे विवादे च देवि नारी विनश्यति ॥ ६१.२ (=२९६) ॥

उक्तञ्च

गृहेऽरण्ये तथा देवे हव्ये तीर्थे जलाशये ।
विवाहे चोत्सवे नित्यं मालिनीनिलये तथा ॥ ६१.३ (=२९७) ॥

यात्रायां स्त्रीसमूहे च निर्जने जनसङ्कुले ।
पत्तने च तथा ग्रामे स्वच्छन्दा द्वारवर्तिनी ॥ ६१.४ (=२९८) ॥

खले क्षेत्रे प्रवासे च मार्गे वेश्मनि चत्वरे ।
प्रवेशे निर्गमे राज्ञां सदा या कौतुकप्रिया ॥ ६१.५ (=२९९) ॥
प्रतिवेश्मगृहे शून्ये रजकीसूचिकीगृहे ।

दिवा रात्रौ च सन्ध्यायां दुर्दिने राजचत्वरे ।
शोके च व्यसने भर्तुः स्वच्छन्दा स्त्री विनश्यति ॥ ६१.६ (=३००) ॥

तेजुका च तं दृष्ट्वा भ्रूसंज्ञया आहूयेदमब्रवीतहं तवासक्ता परं मदीयो भर्ता दुःसहो निष्ठुरश्च गृहाद्बहिर्निर्गन्तुं नोत्सहे ।
अतो यस्मिंस्तस्मिन्दिवसेऽस्मद्गृहद्वारि घटे क्षिप्त्वा वृश्चिको मोक्तव्यः ।
तदाहं पश्चिकदष्टा भविष्यामि ।
त्वयास्मद्गृहद्वारि वैद्येन भाव्यम् ।
इति सङ्केतं विधाय स्वगृहं जग्मतुः ।
तेनापि तथा कृतम् ।
सापि घटं खट्वोच्छीर्षके क्षिप्त्वा इति जगादअहमनेन वृश्चिकेन घटस्थेन दष्टाऽइति रारटीति ।
सोऽपि च पुरुषस्तदा वैद्यो भूत्वा तद्गृहद्वारि तस्थौ ।
“ताडं बन्धौ पोट्टं मलौ सूलं फेडौ विसं हरौ”
[तालं बध्नामि, उदरं मर्द्दयामि, शूलं स्फेटयामि, विषं हरामि] इति जल्पति ।
तदा च सा भर्तारं जगाद ।

देहि काष्ठानि मे नाथ मरिष्यामि न संशयः ।
आहूय मन्त्रिकान्वैद्यान् गतार्त्तिं वा कुरुष्व माम् ॥ ६१.७ (=३०१) ॥

ततस्तद्भर्ता गृहाद्बहिः स्थितं तमाकारयामास ।
वैद्योऽपि तां दृष्ट्वा तत्पतिं जगाद ।
यद्येषा कालदष्टा जीवति ततस्त्वं भाग्यवानहमपि यशःपात्रं भवामि ।
वणिगाहवैद्य! प्रसादं विधाय एनां विषरहितां कुरु ।
ततः स वैद्यः केनापि कटुकभैषज्येन वनितौष्ठमालिप्य तत्पतिमाह अहो वणिक्सर्वेषामपि विषाणां समधिकं मानुषविषमेव ।
ततो विषस्य विषमौषधमिति कृत्वा त्वमस्या ओष्ठं धाव ।
ततो वणिक्तथा कर्तुमारेभे ।
क्षणमात्रेणतस्य वणिजः कटुकौषधमिश्रौष्ठास्वादेन मुखं कटुकं सञ्जातम् ।
ततो वणिगाहत्वमेवोष्ठ धावेत्युक्त्वा वणिक्स्थितः ।
वणिजोऽपि विषशङ्कारूढा ।
ततो बहिर्गते वणिजि वैद्येन सा कामार्ता यथेच्छं भोजिता ।
तदनन्तरं सा मायिनी स्वस्थाभूत् ।
वणिगपि क्षणेन स्वस्थो बभूव ।
उपकृतश्च वैद्यस्तेन चरणैः स्पृष्ट्वा त्वदीयोऽस्मीति ।
ततः स वैद्यच्छद्मना गृहमायाति सततं वणिजि बहिर्गते भुङ्क्ते च तां नित्यम् ।
ततो भामिनि एवं कर्तुं वक्तुं च यदि जानासि ततो याहि ।

एवं कर्तुं च वक्तुं च यो जानाति छलप्रियः ।
स करोतु स यात्वेवं कर्तुं भोक्तुं निजं हितम् ॥ ६१.८ (=३०२) ॥

इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ एकषष्टितमी कथा ॥


सुक्६२
अन्यदा सा प्रभावती शुकमापृच्छति ।
शकुः प्राह

प्रियमेवानुभोक्तव्यं याहि देवि तदर्थिनी ।
कुहनस्य यथा कान्ते सङ्कटेऽसि क्षमोत्तरे ॥ ६२.१ (=३०३) ॥

अस्ति गम्भीराख्यो ग्रामः ।
तत्र कुहनो नाम राजपुत्ररिर्ष्यालुः शूरो जडः स्त्रीप्रियो दुर्धरश्च ।
तस्याभूतां द्वे कलत्रे शोभिकातेजिकाख्ये रतलोलुपे परपुरुषलम्पटे सुरूपे ।
तद्भर्ता तद्रक्षणाय ग्रामाद्बहिर्नदीतीरे गृहं केच द्वारस्थस्ते रक्षयति ।
अन्यदा स ताभ्यामुक्तःयदा कश्चिन्नापितः समभ्येति तदा भव्यं भवति ।
ततस्तेनापि भ्रामको नापितः प्रेषितः प्रतिसीरान्तरैस्तयोर्नखकल्पनाय ।
ततश्च तयोश्चरणान् तिरस्करिणीबहिःस्थान्नापितः प्रक्षलयति ।
पतिश्चादूरे पथि निविष्टः ।
ताभ्यां च स नापितः सुवर्णकटकमर्पयित्वा प्रच्छन्नमेवमुक्तःेतद्द्रव्यं गृहीत्वा आवयोः केनापि सार्धं संयोगं विधेहि ।
दिवाकीर्तिरपि तथेति प्रतिज्ञाय राजपुत्रमापृच्छ्य जगाम ।
अन्यदात्ममित्रं नवयौवनं कलापात्रमनुद्गतश्मश्रुं स्त्रीवेषं कारयित्वा तयोः पत्युः पार्श्वे तेन सह समागत्य नापित इदमाहममेयं वल्लभा ।
अहं च ग्रामान्तरं जिगमिषुर्युष्मद्गृहं विनान्यत्र मोक्तुं न शक्नोमि ।
यतो भवतां गृहे स्त्रीयन्त्रणा भव्या ।
इत्युक्ते तेन प्रतिपन्नं मुञ्चेति ।
ततश्चण्डालोऽपि तं मुक्त्वा तयोः पार्श्वे गतो जगादयदियं युष्माभिरात्मीया करणीया ।
ततस्ते तं चण्डालानीतं ज्ञात्वा बहु मेनाते ।
स च दिवा स्त्रीरूपी रात्रौ च कामुकः राजपुत्रकलत्रे प्रतिवारं भुङ्क्त ।
स च राजपुत्रः स्त्रीलोलुपस्तत्सङ्गमाय स्पृहयति ।
ययाचे च तां नित्यम् ।
सा तु कपटीस्त्री नेति जगाद ।
राजपुत्रस्य स्त्रीत्वे भ्रान्तिरुत्पन्ना तद्भान्तिमपनेतुं निजकलत्रे जगादततो देव्यादेशान्मया प्रातर्महोत्सवो विधेयः ।
तत्र भवतीभिर्विवस्त्राभिस्तिसृभिरपि नर्तितव्यम् ।
ततः स स्त्रीच्छन्ना कथं नृत्यतु इति प्रश्नः ।
उत्तरं शुकःतन्त्र्या लिङ्गाग्रं नियम्य गुदमध्यगमानम्य स्फुटां भगाकृतिं कृत्वा पत्यौ समागते सहस्ततालं सर्वा एवं वदन्त्यो ननृतुः ।

निसुहर णाच्चै संकलिदं जं मनसि किदं मक्कटीजालम् ।
णाहि णाहि पृछह अत्थ धरेइ णाद भिलुकलत्तु करेइ ॥ ६२.२ (=३०४) ॥

[निशामय नृत्यति सङ्कलितं यन्मनसि कृतं मर्कटीजालम् ।
नहि नहि पृच्छ अथोध्रियते ज्ञातं भिन्नकलत्रं करोति] ॥ ६२.२* (=३०४*) ॥

राजपुत्रोऽर्थं पप्रच्छ ।
ताभ्यामुक्तम्मर्कटा कटिसन्धिरुच्यते ।
ततस्तस्यां त्रुटितायां राजपुत्रोन्यत्कलत्रं कुर्यादित्यर्थः ।
ततो राजपुत्रः स्त्रीचरित्रपराङ्मुखो मूढधीः प्रतीतः, इतरस्तु तथैव स्त्रीवेषेण कलत्रे भुङ्क्ते ।

तस्माद्यः सङ्कटे वेत्ति कर्तुं वक्तुं च भामिनि ।
स यात्वत्र यथाकामं यथाकालं यथासुखम् ॥ ६२.३ (=३०५) ॥

इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ द्विषष्टितमी कथा ॥


सुक्६३
अन्यस्मिन्प्रदोषे प्रभावती यामीति शुकं प्रत्याह ।
शुकः प्राह

याहि देवि न दोषोऽत्र मनोदुःखे समागते ।
तद्र्दुःखशमनं कर्तुं वेत्सि चेच्छकटालवत् ॥ ६३.१ (=३०६) ॥

यथा शकटालेन निजकुटुम्बभरणाय समुद्भवद्दुःखं चाणक्यपार्श्वन्नन्दकुलमुच्छेद्य दुःखशमनं कृतं तथा त्वमेव……………….. तस्मात्तव परगृहं गन्तुं न युज्यते ।
उक्तञ्च

उडुगणपरिवारो नायकोऽप्योषधीनाममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।
भवति विकलमूर्तिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को न धत्ते लघुत्वम् ॥ ६३.२ (=३०७) ॥

इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ त्रिषष्टितमी कथा ॥


सुक्६४
अन्यदा प्रभावती शुकमापृच्छति स्म ।
सोऽप्याह

गच्छ चेद्विषमे वेत्सि कर्तुं किञ्चित्कृशोदरि ।
कृतं देविकया यद्वत्सखीजारविमुक्तये ॥ ६४.१ (=३०८) ॥

प्रभावती प्राहकथमेतत्? शुकः अस्ति कूटपुराभिधो ग्रामः ।
राजपुत्रः सोमराजः ।
तस्य मण्डुका नाम पत्नी प्रियदर्शना नरान्तरलोलुपा ।
ताञ्चैको नरः कृतसंकेतः सघण्टको रात्रौ गृहाङ्गणे भुङ्क्ते ।
तत्पतिर्घण्टाशब्दं शृण्वन्नेकदा लगुडमादाय प्रधावितः षण्डशङ्कया ।
ततः षण्डवेशधारी उपपतिः ।
कथं भवित्विति प्रश्नः ।
शुकःदेविका नाम सखो मण्डुकायाः पतिं घण्टाशब्दानुसारिणमागच्छन्तं दृष्ट्वा जारस्य नश्यतो घण्टातालां हस्ते धृत्वा तं प्रति जगाद भावुक! कान्दिशीको वृषो नष्टः ।
ततः स व्यावृत्य निजपौरुषं पत्न्यै कथयामास ।
इति कतां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ चतुःषष्टितमी कथा ॥


सुक्६५
अन्यदा प्रभावती शुकं पृच्छति ।
शुकः

युज्यते गमनं देवि तव तत्र प्रभावति ।
वेत्सि चेद्विषमे वक्तुं सितवस्त्र इवाकुलः ॥ ६५.१ (=३०९) ॥

अस्ति देवि जनस्थानं नाम पत्तनम् ।
तत्र नन्दनो नाम राजा यथार्थः ।
तत्पत्तने श्रीवत्सो नाम श्रावकः परं महेश्वररतः ।
तेन अन्यदा वारणसीं नगरीं प्रति प्रस्थितेन सशिष्येन पथि गच्छता ।
एकः शिष्यः मांसहरणाय स्थापितः ।
अन्यश्रावकैर्दृष्टः स कथं भवत्विति प्रश्नः ।
शुकः प्राहयदा सर्वश्रावका आगत्योपविष्टाः तदाट्टहासं जहास ।
पृष्टः सर्वैर्जगादरिदृशोऽयं शिष्य ।
मयोक्तं मां संवर्तत अबुद्ध्या अनेन मांसस्य…….. ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ पञ्चषष्टितमी कथा ॥


सुक्६६
अन्यदा सा प्रभावती चलिता शुकं पृच्छति ।
शुकः

गच्छ देवि न कर्तव्यो विलम्बः पुण्यकर्मणि ।
यदि वेत्सि भये कर्तुं सुबुद्धिर्हंसराडिव ॥ ६६.१ (=३१०) ॥

अस्ति देवि धरापृष्ठे रम्यं क्षीणनराकुलम् ।
दशयोजनविस्तीर्णं वनं विहगवल्लभम् ॥ ६६.२ (=३११) ॥

तत्र गव्यूतिविस्तीर्णे शीतच्छाये जलाशयतीरस्थिते वटे शङ्खधवलो नाम हंसराट्सकुटुम्बो मेदिनीं भ्रान्त्वा दिनात्यये शेते ।
अन्यदा तेषु हंसेषु भ्रमणाय गतेषु पापर्द्धिना जालं बद्धम् ।
प्रदोषागताः पतिताः सर्वेऽपि कथं मुच्यन्तेइति प्रश्नः ।
शुकःततस्तु स्वं कुटुम्बं तथा बद्धं ज्ञात्वा रात्रौ शङ्खधवलः प्राहरे रे पुत्राः! यादसौ लुब्धकः प्रातर्भूरुहं समारुह्य युष्मानवलोकयति तदा भवद्भिर्मृतकल्पैरुच्छ्वासनिःश्वासरहितैः स्थातव्यम् ।
सोऽपि युष्मान्मृतानिति ज्ञात्वा यदा भूमौ सर्वान् क्षिपति तदा सर्वैरप्युड्डीय गन्तव्यम् ।
इति कृते लुब्धकः प्रातः समाययौ ।
तेन ते मृता इति ज्ञात्वा भूमौ क्षिप्तास्तदा ते उड्डीय काङ्क्षितं देशं ययुः ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ षट्षष्टितमी कथा ॥


सुक्६७
अन्यदा चलिता प्रभावती शुकं पृच्छति स्म ।
शुकः

अथ चेद्यासि कामार्ता याहि भीरु गता सती ।
प्लवङ्गम इवात्मीयं वक्तुं वेत्सि यथाहितम् ॥ ६७.१ (=३१२) ॥

अस्ति पुष्पाकरं नाम वनम् ।
तत्र वनप्रियो नाम वामनवानरः ।
स कदाचित्समुद्रान्तमर्यादाजले लुठन्तं मकरं दृष्ट्वा प्राह”मित्र! किं जीवितनिर्विण्णस्त्वं यदद्य धराभूमौ समागतःऽ ।
इति वचः श्रुत्वा मकरोऽप्याह

यस्य यद्विहितं स्थानं यस्य यद्वेतनं कृतम् ।
तत्रैव रमते चित्तं तस्य नान्यत्र वानर ॥ ६७.२ (=३१३) ॥

उक्तञ्च

सर्वस्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
पितृक्रमागतायोध्या निर्धनापि सुखायते ॥ ६७.३ (=३१४) ॥

जणणीं जम्मणभूमिं पिअसंगं जीविअं धणासंघम् ।
पच्छिमणिद्दा विरिकामिणिं च दुक्खेहि मुञ्चन्ति ॥ ६७.४ (=३१५) ॥

[जननीं जन्मभूमिं प्रियसङ्गं जीवितं धनासङ्गम् ।
पश्चिमनिद्रां वरकामिनीञ्च दुःखेन मुञ्चन्ति] ॥ ६७.४* (=३१५*) ॥

तदहं सफलजन्मा संवृत्तस्त्वदीयदर्शनेन ।
उक्तञ्च

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
तीर्थं फलति कालेन सद्यः साधुसमाममः ॥ ६७.५ (=३१६) ॥

तस्मात्स्थलोत्पन्नः प्राणिवर्गस्तु धन्यो यत्र भवादृसशाः प्रियवादिनो वर्तन्ते ।
इति श्रुत्वा वानर आह”अहो मकर! त्वमद्यप्रभृति मे प्राणाधिकं मित्रम् ।
त्वमेव सौहृद्यवचसां वक्ता ।
उक्तञ्च यतः सतां सन्नतगात्रि सङ्गतं मनीषिभिः साप्तपदीनसुच्यते ।
इत्युक्त्वा पुनः प्राहमित्र! त्वमद्यातिथिरस्माकं भवऽ ।
इति भणित्वा अमृतसदृशानि पक्वफलानि ददौ ।
ततः प्रभृति प्रतिदिनं कदलीफलानि यच्छति ।
मकरोऽपि निजदयिताया अर्पयति ।
सा च पतिं तत्फलवृत्तान्तं पृच्छति ।
स च सर्वं यथास्थितं निवेदयति ।
ततः सा गर्भानुभावतश्चिन्तयामास”यो वानरो नित्यमीदृशानि फलानि भुङ्क्ते तस्यौरस्यं मांसममृतोपमं स्यात्ऽ ।
इति विचिन्त्य पतिं प्राह”मम गर्भानुभावतो वानरहृदयपिशितभक्षणे दोहदो विद्यते ।
तद्यदि पूरयसि तदा जीवामि अन्यथासंशयं मम मृत्युर्भविष्यतिऽ ।
इति श्रुत्वा दयिताग्रहाच्च समुद्रतटमागत्य वानरं प्राह”मित्र! त्वदीयभ्रातुः प्रिया त्वामाकारयति ।
अस्मदीयो गृहोपचारो विलोकनीयःऽ ।
इत्युक्त्वा विश्वास्य पृष्ठे चारोप्य प्रचलितः ।
वानरस्तं गच्छन्तं शङ्कितः प्राहतत्र गतेन मया किं विदेयम्? इत्याकर्ण्य मकरेण चिन्तितम्”वानरोऽसौ तस्मात्स्थानान्मया नीतः कथमम्भोनिधितटं यास्यति, तस्मात्कथयामिऽइत्यवधार्य यथास्थितं जगाद ।
ततो वानरः कथं भवत्विति प्रश्नः ।
शुकःवानरः प्राहभो मकर! तर्हि त्वं मां तत्र वृथा नयसि यतोऽहं हृदयहीनो भवामि ।
मम हृदयं मम पार्श्वे नास्ति ।
मकरःक्व मुक्तं त्वया ।
वानरःमित्र! किं न श्रुतं त्वया?

सर्वदोदुम्बरो वृक्षे हृदयं वृटभूरुहे ।
चित्तमस्ति गृहीत्वा तदागच्छामि पुनर्जलम् ॥ ६७.६ (=३१७) ॥

इत्युक्ते तदा मकरो मूर्खः समुद्रान्तमाययौ ।
वानरोऽपि तत्पृष्ठतः समुत्तीर्य शाखिनमारोहति स्म ।
ततो मकरं जगाद गच्छ ।
नाहं भावदृशैरत्रस्थो गृहीतुं शक्यः ।

जलजन्तुचरैर्नित्यं जलमार्गानुसारिभिः ।
स्थलजैः संगतिर्न स्यात्ध्रुवेति मुनिभाषितम् ॥ ६७.७ (=३१८) ॥

इति निर्भर्त्सितो वानरेण मकरः स्वगृहं ययौ ।
उक्तञ्च

उत्पन्ना युक्तिकार्येषु बुद्धिर्यस्य न हीयते ।
स एव तरते दुर्गं जलान्ते वानरो यथा ॥ ६७.८ (=३१९) ॥
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ सप्तषष्टितमी कथा ॥


सुक्६८
अथान्येद्युः शुकं प्राह प्रभावती ।
शुकः

याहि देवि सुखं भुङ्क्ष्व यदि तेऽस्ति सहायिनी ।
वितर्कसदृशी काले विषमे वरवर्णिनि ॥ ६८.१ (=३२०) ॥

अस्ति विद्यास्थानं नाम ग्रामः ब्राह्मणानाम् ।
तत्र केशवो ब्राह्मणः ।
तेन च स्नानाय गतेन तटाके रम्या वणिक्पुत्री दृष्टा ।
स च तां रन्तुमिच्छति ।
अन्यदा तया प्रोक्तो द्विजः स्नानादुत्थितः”यत्त्वं मम शिरसि द्वितीयं घटमारोपयऽ ।
अतस्तेन घटमारोपयता तस्या ओष्ठश्चुम्बितः स च तथा कुर्वन् पतिना दृष्टः ।
नीतो राजकुलं कथं मुच्यतामिति प्रश्नः ।
उत्तरं शुकः प्राहअथ तन्मित्रं वितर्को नाम ।
स च तत्समीपमागगत्येदमब्रवीत्”मित्र! त्वया राजकुलगतेन वचचेवत्येव वाक्यं जल्पनीयं नान्यत् ।
तथा कृते च मन्त्रिणोक्तम्”नायं दोषभाक् ।
प्रकृतिरेवंविधैवास्य ।
तेनैव चोत्तरेण लोके साधुतां गतो वितर्कसाहायिकबुद्ध्या ।
यदि त्वमपि तथा जानासि तदा गच्छ ।
इति कथां श्रुत्वा प्रभावती सुप्त ।

इति शुकसप्ततौ अष्टष्टितमी कथा ॥


सुक्६९
अन्यदा प्रभावती शुकं पृच्छति ।
शुकः प्राह

कुरु जारं विशालाक्षि विजारं कुरुषे यदि ।
यथा वेजिकया पूर्वमर्धस्नाते पतौ कृतम् ॥ ६९.१ (=३२१) ॥

अस्ति स्थानं कलास्थानं नाम ।
तत्रैको वणिक्सुतः तस्य भार्या च वेजिका नामातिवल्लभा ।
अन्यदा च तं भर्तारं स्नापयन्ती उपपतिं पूर्वकृतसङ्केनं पथि गच्छतं दृष्ट्वा नात्र पानीयं प्रचुरमिति मिषान्तरं कृत्वा पानीयानयनव्याजाद्गृहान्निर्गता जारेण साकं बहुकालं च स्थिता ।
ततोऽर्धस्नातं पतिं मुक्त्वा तथा स्थिता कुमुत्तरं करोत्विति प्रश्नः ।
उत्तरं शुकः ततः जारेण भुक्ता स्वपतिवञ्चनं विचिन्त्यात्मानं कूपे चिक्षेपः ।
ततः कोलाहलःसंवृत्तः ।
कूपे कापि वराकी पतितास्तीति प्रवादः सञ्जातः ।
तेन तत्पतिस्तद्वचनं श्रुत्वा व्यचिन्तयत्नूनं सा मत्पत्नी कूपे पतिता भविष्यतिइति द्रुतं गत्वावलोकयामास ।
ततस्तां कूपादाकृष्यानीयामानयत् ।
इति कथां श्रुत्वा प्रभावती सुप्ता ।

इति शुकसप्ततौ एकोनसप्ततितमी कथा ॥


सुक्७०
एतावतीनां कथानां पर्यन्ते तद्भती मदनो देशान्तरादागतः ।
तस्मिंश्चागते सा तथैव तस्मिन्स्नेहलाभूत् ।
शुक एवं मन्दं मन्दं पठति

अनुरागो वृथा स्त्रोषु स्त्रीषु गर्वो वृथा तथा ।
प्रियोऽहं सर्वदा हय्स्या ममैषा सर्वदा प्रिया ॥ ७०.१ (=३२२) ॥

परं मदनो न शृणोति ।
उपहास्य तदा चैवं वदति”यः कश्चिद्धितं वाक्यं शृणोति करोति च स परत्रेह च शर्मभाग्भवतिऽ ।
इति मुहुर्मुहुः पठितं मदनः श्रुत्वा पृच्छति ।
ततः सा स्वयमेव शङ्किता कथयति ।
उक्तञ्च

सर्वत्र शुचयो धीराः सुकर्मबलगर्विताः ।
कुकर्ममयसंत्रस्ताः पापाः सर्वत्र शङ्किताः ॥ ७०.२ (=३२३) ॥

आर्यपुत्र! त्वमेव वन्द्यो यस्य वेश्मनि त्रिविक्रमानीतयुगमध्यादेकः शुकः सर्वेषा लोकानां हितभाषकोऽत्र बन्धुपितृस्थानीयो विशेषतो मम ।
यथा यथा सा शुकं स्तौति तथा तथा शुको लज्जते ।
उक्तञ्च

बौ जै मारै मच्छली तो उण्णौ करेइ ।
सीहु जु मारै मत्तगअणहचम्पिआ धरेइ ॥ ७०.३ (=३२४) ॥

[बकः यदि मारयति मत्स्यान् स पुनर्न करोति ।
सिंहो यो मारयति मत्तगजनाथ सेवितो ध्रियते] ॥ ७०.३* (=३२४*) ॥

ततो मदनस्तद्वचनं श्रुत्वाहकिं तव शुकेनोपकृतन् ।
कथमीदृग्गुणोऽसौ जातः ।
सा प्राहस्वामिन्! सत्यस्य वाचो वक्ता श्रोता च न लभ्यते ।
उक्तञ्च

सुलभा पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य तु पत्यस्य वक्ता श्रोता च दुर्लभः ॥ ७०.४ (=३२५) ॥

महिला चपला स्वामिन्निःस्नेहा गुणवर्जिता ।
कुविकल्पा तनुप्रज्ञा यथोक्तं सत्यमेव तत् ॥ ७०.५ (=३२६) ॥

मन्यते सुकृतं नैव पतिपुत्रपराङ्मुखी ।
पूर्वस्नेहमयी मृद्वी कृतकार्यातिनिष्ठुरा ॥ ७०.६ (=३२७) ॥

उक्तञ्च

कुर्वन्ति तावत्प्रथमं प्रियाणि यावन्न जानन्ति नरं प्रसक्तम् ।
ज्ञात्वा च तं मन्मथपाशबद्धं ग्रस्तामिषं मीनमिवोद्धरन्नि ॥ ७०.७ (=३२८) ॥

समुद्रवीचीव चलस्वभावाः सन्ध्याभ्ररेखेव मुहुर्तरागाः ।
स्त्रियः कृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥ ७०.८ (=३२९) ॥
सम्मोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य हृदयं सदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ ७०.९ (=३३०) ॥

स्वामिन्! त्वयि प्रोषिते मया कञ्चित्कालं त्वद्वियोगः सोढः ।
पश्चाच्च कुसखीसङ्गता ।
पुरुषान्तरं रन्तुकामया मया गमनविघातिनी सारिका हता ।
अनेन शुकेन तु वचनप्रपञ्चेन सप्ततिदिनानि स्थापिताहम् ।
अतो मया कर्मणा पापं न विहितं मनसा तु कृतम् ।
अद्यप्रभृति त्वं मम जीवनमरमस्वामी ।
इति श्रुत्वा मदनः शुकं पृच्छति ।
स आह

प्रयोजनमविज्ञाय ज्ञात्वा चाथ मनीषिणा ।
सहसैव न वक्तव्यमचिन्त्यो विधिनिर्णयः ॥ ७०.१० (=३३१) ॥

विहिविहिअं लद्ध पिअसंगो जीविअं धणं धण्णम् ।
जुत्तं सव्वं जणवअणं विअणविडम्बणा णिहिला ॥ ७०.११ (=३३२) ॥

[विधिविहितं चिरलब्धं प्रियसङ्गो जीवितं धन धान्यम् ।
युक्तं सर्वं जनवचनं वचनविडम्बना निखिला] ॥ ७०.११* (=३३२*) ॥

स्वामिन्! यद्यपि कथयितुं न युज्यते तर्हि शृणु ।

मूर्खाणां मद्यपानां च नारीणां रोगिणामपि ।
स्वामिन्कामातुराणां च खिन्नानां कोपिनां तथा ॥ ७०.१२ (=३३३) ॥

मत्तप्रमत्तभीरूणां क्षुधार्तानां विशेषतः ।
सुकृतं स्खलितं चार्या न गृह्णान्ति क्षमान्विताः ॥ ७०.१३ (=३३४) ॥

उक्तञ्च भारते

दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् ।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ।
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश ॥ ७०.१४ (=३३५) ॥

अस्याश्च कुकृतं क्षम्यताम् ।
अत्रार्थे नास्या दोषः ।
कुसखीसङ्गादियम् ।
उक्तम्

असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् ।
दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ॥ ७०.१५ (=३३६) ॥

विद्याधरेण तनया भुक्ता राज्ञः पुरा छलात् ।
पतिनापि सुभुक्तापि निर्देषिति विचारिता ॥ ७०.१६ (=३३७) ॥

शुकः कथां मदनाग्रे कथयामासअस्ति जगतीतले मलयो नाम पर्वतः ।
तस्य शृङ्गे मनोहरं नाम गन्धर्वपुरम् ।
तत्र मदनोनाम गन्धर्वः ।
तस्य भार्या रत्नावली ।
तयोः सुता मदनमञ्जरी ।
तस्या रूपसम्पदं दृष्ट्वा देवो वा दानवो वाधोमुखो मुह्यति ।
न कोऽपि तदनुरूपो वरो लभ्यते यस्य सा दीयते ।
अथान्यदा नारदः समायातः ।
सोऽप्यस्या रूपमवलोक्य मूर्च्छितः सकामोऽभूत् ।
पश्चाल्लब्धसंज्ञेन ऋषिणा सा शप्ता ।
उक्तञ्च

तरुणी रमणी रतिरम्यतया प्रमदा सुखदा च सदा समदा ।
यदि सा सुभगा हृदयेनिहिता क्व जयः क्व जयः क्व जयः क्व जयः ॥ ७०.१७ (=३३८) ॥

यदेतस्या रूपे दृष्टे मे स्मरज्वरो जातः तदियं शीलविडम्बनां प्राप्स्यते ।
ततो राजा प्रणम्य प्राहस्वामिन्! प्रसन्नो भूत्वा प्रसादं कुरु ।
नारद आह “नास्याः शीलखण्डेन दोषो भविष्यति न च पतिविरहः ।
मेरुपर्वते विपुलापुरीनिवासी कनकप्रभो नाम गन्धर्वः ।
स तव पुत्र्या वरो भविष्यतिऽ ।
इत्युक्त्वा नारदो ययौ ।
ततो मुनिवचनेन तेन गन्धर्वेण सोद्वाहिता ।
सोऽन्यदा तां मुक्त्वा कैलासं ययौ ।
सापि तद्वयोगार्ता शिलापट्टे लुठन्ती वस्त्रादिरहिता केनचिद्विद्याधरेण रूपातिशमवलोक्य संयोगार्थं प्रार्थिता ।
सा तं न वाच्छति ।
ततस्तेन तद्भर्तुर्गन्धर्वरूप कृत्वा सा भुक्ता ।
ततः कालक्रमेण तस्या भर्ता गृहमागतः ।
तां सुरतसुखसन्तुष्टामपश्यत् ।
“परोपभुक्तदेहेयम्ऽ इति तां दृष्टां मत्वा सावश्यं वध्येति निश्चित्य चण्डिकालयं ययौ ।
यावत्तदग्रतो मारयति तावदन्यया फूत्कृतम्”स्वामिनि! मम त्वया वरो दत्तो यत्तव गन्धर्वचक्रवर्ती पुत्रो भविष्यति ।
तत्कथं पुत्रमुखम दृष्ट्वा विपत्स्येऽ ।
एवं विलपन्त्यास्तस्याः पुरतस्तां प्रति देवी प्राहहे गन्धर्ववीर! नास्याः कोऽपि दोषः ।
किन्तु विद्याधरेणेयं त्वदीयरूपमयेन मायया भुक्ता ।
ततोऽजानन्त्या अस्या न दोषः ।
अन्यच्च मुनिशापो विद्यते ।
तत इदं सञ्जातम्”शापवृत्तान्तश्च निवेदितः, ततो मुनिवचनादियं निर्देषा त्वया ग्राह्याऽइति गौरीवचनं श्रुत्वा स निःशङ्कं तया सह स्वस्थानं गतस्तथैव सुखतोऽभूत्” ।
ततो वणिक्पुत्र ।
यदि मद्वचः प्रमाणं तदैनामदुष्टां प्रति प्रसादं कर्तुमर्हसिऽ ।
इति कीरवचनान्मदनेनानुगृहीता ।
ततो हरिदत्तोऽपि पुत्रागमनतुष्टो महोत्सवं चकार ।
तस्मिन्महोत्सवे दिव्यमाला पतिता ।
तद्दर्शने शुकसारिकात्रिविक्रमाणां शापमोक्षात्स्वर्गगमनं बभूव ।
मदनोऽपि प्रियया प्रभावत्या सह सुखानि भुङ्क्ते ।

इति शुकसप्ततौ सप्ततितमी कथा ।
इति शुकसप्ततिः समाप्ता ॥

Red

Advertisements