Tattva Samasa Sutra Vritti-तत्त्व समास सूत्र वृत्तिः by Kapil Muni

तत्त्व समास सूत्र वृत्तिः ।

पञ्चविंशतितत्त्वेषु जन्मना ज्ञानमाप्तवान्‌ ।
आदिसृष्टौ नमस्तस्मै कपिलाय महर्षये ॥ १ ॥

अथातस्तत्त्वसमासाख्यसाङ्ख्यसूत्राणि व्याख्यास्यामः । इह कश्चिद्ब्राह्मणस्त्रिविधेन दुःखेनाभिभूतः साङ्ख्याचार्यं कपिलमहर्षिं शरणमुपागतः । स्वकुलनामगोत्रस्वाध्यायं निवेद्याह । भगवन्‌ किमिह परं किं याथातथ्यं किं कृत्वा कृतकृत्यः स्यामिति ।

कपिल उवाच 

अष्टौ प्रकृतयः ॥ १ ॥ षोडश विकाराः ॥ २ ॥ पुरुषः ॥ ३ ॥ त्रैगुण्यम्‌ ॥ ४ ॥ सञ्चरः ॥ ५ ॥ प्रतिसञ्चरः ॥ ६ ॥ अध्यात्मम्‌ अधिभूतम्‌ अधिदैवतं च ॥ ७ ॥ पञ्चाभिबुद्धयः ॥ ८ ॥ पञ्चकर्मयोनयः ॥ ९ ॥ पञ्चवायवः ॥ १० ॥ पञ्चकर्मात्मानः ॥ ११ ॥ पञ्चपर्वाऽविद्या ॥ १२ ॥ अष्टाविंशतिधाऽशक्तिः ॥ १३ ॥ नवधा तुष्टिः ॥ १४ ॥ अष्टधा सिद्धिः ॥ १५ ॥ दशधा मूलिकार्थाः ॥ १६ ॥ अनुग्रहसर्गः ॥ १७ ॥ चतुर्दशविधो भूतसर्गः ॥ १८ ॥ त्रिविधो धातुसर्गः ॥ १९ ॥ त्रिविधो बन्धः ॥ २० ॥ त्रिविधो मोक्षः ॥ २१ ॥ त्रिविधं प्रमाणम्‌ ॥ २२ ॥ त्रिविधं दुःखम्‌ ॥ २३ ॥

एतत्‌ परम्परया याथातथ्यमेतत्‌ सम्यग्‌ ज्ञात्वा कृतकृत्यः स्यान्न पुनस्त्रिविधेन दुःखेनाभिभूयते । इति तत्त्वसमासाख्यसाङ्ख्यसूत्राणि ॥

अथ का अष्टौ प्रकृतय इत्यत्रोच्यते । अव्यक्तं बुद्धिरहङ्कारः पञ्च तन्मात्राणीत्येता अष्टौ प्रकृतयः । तत्राव्यक्तं तावदुच्यते यथा लोके व्यज्यन्ते घटपटकुड्यशयनकाद्या न तथा व्यजत इत्यव्यक्तम्‌ । श्रोत्रादिभिरिन्द्रियैर्न गृह्यत इत्यर्थः । कस्मात्‌ अनादिमध्यान्तत्वान्निरवयवत्वाच्च ॥
अशब्दमस्पर्शमरूपमव्ययं
तथा च नित्यं रसगन्धवर्जितम्‌ ।
अनादिमध्यं महतः परं ध्रुवं
प्रधानमेतत्‌ प्रवदन्ति सूरयः ॥
सूक्ष्ममलिङ्गमचेतनमनादिनिधनं तथाप्रसवधर्मि निरवयवमेकमेव हि साधारणमेतदव्यक्तम्‌ । अव्यक्तस्यामी पर्यायशब्दा भवन्ति । अव्यक्तं प्रधानं ब्रह्म परं ध्रुवं बहुधानकमक्षरं क्षेत्रं तमःप्रसूतमिति ।

का बुद्धिरत्रोच्यते । अध्यवसायो बुद्धिः । सोयमध्यवसायो गवादिषु द्रव्येषु यस्मात्‌ प्रतिपत्तिः । एवमेतन्नान्यथा । गौरेवायं नाश्वः । स्थाणुरेवायं न पुरुषः । इत्येषा बुद्धिः । अस्यास्तु बुद्धेरष्टौ रूपाणि भवन्ति धर्मो ज्ञानं वैराग्यमैश्वर्यमिति । तत्र धर्मो नामाधर्मविपर्ययः श्रुतिस्मृतिविहितः शिष्टाचाराविरुद्धः शुभलक्षणः । ज्ञानं नामाज्ञानविपर्ययस्तत्त्वभावभूतानां सम्बोधः । वैराग्यं नामावैराग्यविपर्ययः शब्दादिविषयेष्वप्रसक्तिः । ऐश्वर्यं नामानैश्वर्यविपर्ययोऽणिमादयोऽष्टगुणाः । एतानि सात्त्विकानि चत्वारि । अधर्मोऽज्ञानमवैराग्यमनैश्वर्यमिति अधर्मो नाम धर्मविपर्ययः श्रुतिस्मृतिविरुद्धः शिष्टाचारविरुद्धोऽशुभलक्षणः । अज्ञानं नाम ज्ञानविपर्ययस्तत्त्वभावभूतानामनवबोधः । अवैराग्यं नाम वैराग्यविपर्यः शब्दादिविषयेष्वभिषङ्गः । अनैश्वर्यं नामैश्वर्यविपर्ययोऽणिमादिरहितत्वम्‌ । एतानि तामसानि चत्वारि । तत्र धर्मेण निमित्तेनोर्ध्वगमनम्‌ । ज्ञानेन निमित्तेन मोक्षः । वैराग्येण निमित्तेन प्रकृतिलयः । ऐश्वर्यनिमित्तेनाऽप्रतिहतगतिर्भवति । एवमेषाष्टरूपा बुद्धिर्व्याख्याता । बुद्धेरमी पर्यायशब्दा भवन्ति ।

मनो मतिर्महान्‌ ब्रह्मा ख्यातिः प्रज्ञा श्रुतिर्धृतिः ।
प्रज्ञानं सन्ततिः स्मृतिर्धीर्बुद्धिः परिकथ्यते ॥
अत्राह कोऽहङ्कार इत्युच्यते । अभिमानोऽहङ्कारः ।
अहं शब्दे अहं स्पर्शे अहं रूपे अहं रसे ।
अहं गन्धे अहं स्वामी धनवानहमीश्वरः ॥ १ ॥
अहं भोगी अहं धर्मेऽभिषिक्तोऽसौ मया हतः ।
अहं हनिष्ये बलिभिः परैरित्येवमादिकः ॥ २ ॥

योऽयमभिमानप्रत्ययो सोऽहङ्कारः । अहङ्कारस्याऽमी पर्यायशब्दाः । अहङ्कारो वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्चेति ॥

अत्राह कानि पञ्चतन्मात्राणीत्युच्यते । अहङ्कारान्वितानि पञ्चतन्मात्राणि शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति पञ्चतन्मात्राणि । तत्र तावच्छब्दतन्मात्राणि शब्देष्वेवोपलभ्यन्ते उदात्तानुदात्तस्वरितकम्पितषड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादादयः शब्दविशेषादुपलभ्यन्ते । तस्माच्छब्दतन्मात्रेऽविशेषः । अथ स्पर्शतन्मात्राणि स्पर्शेष्वेवोपलभ्यन्ते तत्र मृदुकठिनकर्कशपिच्छिलशीतोष्णादयः स्पर्शविशेषा उपलभ्यन्ते । तस्मात्‌ स्पर्शतन्मात्रेऽविशेषः । रूपतन्मात्राणि रूपेष्वेवोपलभ्यन्ते । तत्र शुक्लरक्तकृष्णहरितपीतहारिद्रमाञ्जिष्ठादयो रूपविशेषा उपलभ्यन्ते । तस्माद्रूपतन्मात्रेऽविशेषः । तथा रसतन्मात्राणि रसेष्वेवोपलभ्यन्ते । तत्र कटुतिक्तकषायक्षारमधुराम्ललवणादयो रसविशेषा उपलभ्यन्ते । तस्माद्रसतन्मात्रेऽविशेषः । अथ गन्धतन्मात्राणि गन्ध एवोपलभ्यन्ते । तत्र सुरभिरसुरभिश्च गन्धविशेषा उपलभ्यन्ते । तस्माद्‌ गन्धतन्मात्रेऽविशेषः । एवमेतत्पञ्चतन्मात्राणि सूचितानि । अथैषां पर्यायशब्दाः । तन्मात्राण्यविशेषाणि महाभूतप्रकृतयो भोग्यान्यणवः शान्तघोरमूढानीति । एवमेता अव्यक्तबुद्ध्यहंकारतन्मात्रसञ्ज्ञिता अष्टौ प्रकृतयो व्याख्याताः । अथ कस्मात्‌ प्रकृतयः । प्रकुर्वन्तीति प्रकृतयः ।
अथ ते के षोडशविकारा इत्यत्रोच्यते । एकादशेन्द्रियाणि पञ्चमहाभूतान्येते षोडशविकाराः । तत्रेन्द्रियाणि तावदुच्यन्ते । श्रोत्रं त्वक्‌ चक्षुषी जिह्वा घ्राणमिति पञ्च बुद्धीन्द्रियाणि । श्रोत्रं स्वविषयं शब्दं गृह्णाति त्वक्स्पर्शविषयं चक्षू रूपविषयं रसना रसविषयं घ्राणं गन्धविषयमिति । वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि स्वं स्वं कर्म कुर्वन्ति । तत्र वाग्वचनमुच्चरति । हस्तौ कर्म कुरुतः । पादौ विहरणम्‌ । पायुर्विसर्गम्‌ । उपस्थमानन्दम्‌ । उभयात्मकं मनः । स्वसंकल्पविकल्पवृत्ती कुरुते । एवनेकादशेन्द्रियाणि व्याख्यातानि । अथैषां पर्यायाः । इन्द्रियाणि करणानि वैकारिकाणि खानि नियतानि पदानि अवधृतानि अणूनि अक्षाणीति ।

अथ कानि पञ्चमहाभूतानीत्यत्रोच्यते । पृथिव्यप्तेजोवाय्वाकाशानीति महाभूतानि । तत्र पृथिवी धारणभावेन प्रवर्तमाना चतुर्णामुपकारं करोति । आपो जलानि संग्रहभावेन प्रवर्त्तमानाश्चतुर्णामुपकारं कुर्वन्ति । तेजः पाचकभावेन प्रवर्तमानं चतुर्णामुपकारं करोति । वायुर्वाहनभावेन प्रवर्तमानश्चतुर्णामुपकारं करोति । आकाशमवकाशदानेन प्रवर्तमानं चतुर्णामुपकारं करोति । शब्दस्पर्शरूपरसगन्धवती पञ्चगुणा पृथिवी । शब्दस्पर्शरूपरसवत्यश्चतुर्गुणा आपः । शब्दस्पर्शरूपवत्‌ त्रिगुणं तेजः । शब्दस्पर्शवान्‌ द्विगुणो वायुः । शब्दवदेकगुणमाकाशम्‌ । एवमाख्यातानि पञ्च महाभूतानि । अथैषां पर्यायाः । भूतानि भूतविशेषाः विकाराः आकृतयः तनवः विग्रहाः शान्ताः घोराः मूढाः इत्येते षोडशविकारा व्याख्याताः ।

अथाह कः पुरुष इत्युच्यते । पुरुषोऽनादिः सूक्ष्मः सर्वगतश्चेतनोऽगुणो नित्यो द्रष्टा भोक्ताऽकर्त्ता क्षेत्रविदमलोऽप्रसवधर्मी चेति । अथाह कस्मात्‌ पुरुषः पुराणात्‌ पुरिशयनात्‌ पुरोहितवृत्तित्वाच्च पुरुषः । अथ कस्मादनादिः । नास्यादिरन्तो मध्यो वा विद्यत इत्यनादिः । कस्मात्‌ सूक्ष्मः । निरवयवत्वादतीन्द्रियत्वात्‌ सूक्ष्मः । कस्मात्‌ सर्वगतः । सर्वं प्राप्तमनेन नास्य गगनमस्तीति सर्वगतः । कस्माच्चेतनः । सुखदुःकमोहोपलब्धिमत्त्वात्‌ । कस्मादगुणः । सत्त्वरजस्तमांस्यस्मिन्न सन्त्यतोऽगुणः । कस्मान्नित्यः अकृतकत्वादनुत्पादकत्वाच्च । कस्माद्‌ द्रष्टा । प्रकृतिविकारानुपलम्भेन इति । कस्माद्भोक्ता । चेतनभावात्‌ सुखदुःखपरिज्ञानाच्च । कस्मादकर्ता । उदासीनत्वादगुणत्वाच्च । कस्मात्‌ क्षेत्रविद्‌ । क्षेत्रेभ्यो गुणान्‌ वेत्तीति क्षेत्रविद्‍ । अथ कस्मादमलः । शुभाशुभकर्माण्यस्मिन्‌ पुरुषे न सन्तीत्यमलः । कस्मादप्रसवधर्मी । निर्बीजत्वात्‌ । न किञ्चिदुत्पादयतीत्यर्थः । एवमेष सांख्यपुरुषो व्याख्यातः । अथास्य पुरुषस्य पर्यायाः । पुरुषः आत्मा पुमान्‌ पुंगुणः बहुलः जन्तुः जीवः क्षेत्रज्ञः नरः कविः ब्रह्म अक्षरः प्राणः अजः यः कः सः एषः । एवमेतानि पञ्चविंशतितत्त्वानि व्याख्यातानि । अष्टौ प्रकृतयः षोडशविकाराः पुरुषश्चेति ॥

पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥

अत्राह पुरुषः किं कर्ता अकर्त्ता वेति । यदि कर्त्ता पुरुषः स्यात्‌ तदा शुभानि कुर्यात्‌ । ननु वृत्तित्रयं लोके दृष्टं पुरुषस्य ततः किं गुणानां कर्तृताऽसिद्धा ?
धर्माख्यं सौहित्यं यमनियमनिषेवणं प्रख्यानम्‌ ।
ज्ञानैश्वर्यविरागाः प्रकाशनमिति सात्त्विकी वृत्तिः ॥
रागः क्रोधो लोभः परपरिवादोऽतिरौद्रताऽतुष्टिः ।
विकृताकृतिपारुष्यं प्रख्यातैषा तु राजसी वृत्तिः ॥
प्रमादमदविषादा नास्तिक्यं स्त्रीप्रसङ्गिता निद्रा ।
आलस्यं नैर्घृण्यमशौचमिति तामसी वृत्तिः ॥
एतद्वृत्तित्रयं दृष्ट्वा लोके गुणानां कर्तृत्वं सिद्धमिति चाकर्त्ता पुरुषः सिद्धो भवति ॥
प्रवर्त्तमानान्‌ प्रकृतेरिमान्‌ गुणान्‌
रजस्तमोभ्यां विपरीतदर्शनात्‌ ।
अहं करोमीत्यबुधोऽभिमन्यते
तृणस्य कुब्जीकरणेऽप्यनीश्वरः ॥
सर्वमिदं मया कृतं ममेदमिति वदन्नभिमानादबुध उन्मत्तः कर्तृवद्भवति अत्राह ।
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥
अनादित्वान्निर्गुणत्वात्‌ परमात्माऽयमव्ययः ।
शरीरस्थोऽपि कौन्तय न करोति न लिप्यते ॥
एवम्‌ ।
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥
तत्राह किमयमेकः पुरुषो बहवो वेत्युच्यते ।

सुखदुःखमोहसङ्करविशुद्धकरणपाटवजन्ममरणकरणानां नानात्वात्‌ पुरुषबहुत्वं सिद्धं लोकाश्रमवर्णभेदाच्च । यद्येकः पुरुषः स्यादेकस्मिन्‌ सुखिनि सर्व एव सुखिनः स्युः । एकस्मिन्‌ दुःखिनि सर्व एव दुःखिनः स्युः । एकस्मिन्‌ करणपाटवे सर्वेषामेव करणपाटवं स्यात्‌ । एकस्मिञ्जाते सर्व एव जायेरन् । एकस्मिन्‌ मृते सर्व एव म्रियेरन्निति । न चैवम् इतश्च बहवः पुरुषाः सिद्धाः । आकृतिगर्भाशयभावसङ्गतिशरीरविभागे लिङ्गबहुत्वात्‌ । एवं तावत्‌ सांख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलिप्रभृतयो बहून्‌ पुरुषान्‌ वर्णयन्ति । वेदान्तवादिन आचार्या हरिहरहिरण्यगर्भव्यासादय एकमेवात्मानं वर्णयन्ति । कस्मादेवं तदाह ।

पुरुष एवेदं सर्वं भूतं यच्च भाव्यम्‌ ।
उतामृतत्वस्येशानो यदन्येनातिरोहति ॥
तदेवाग्निस्तदादित्यस्तद्वायुस्तद्धि चन्द्रमाः ।
तदेव शुक्रं तद्ब्रह्म तदापः सः प्रजापतिः ॥
तदेव सत्यममृतं स मोक्षः सा परा गतिः ॥
तदक्षरं तत्‌ सवितुर्वरेण्यं
यस्मात्परं नापरमस्ति किञ्चित्‌ ॥
यस्मान्नाणीयो न ज्यायोऽस्ति कश्चिद्‌ वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्‌ ।
सर्वतः पाणिपादान्तं सर्वतोक्षिशिरोमुखम्‌ ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्त्य तिष्ठति ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्‌ ।
सर्वेषां प्रभुमीशानं सर्वस्य शरणं महत्‌ ॥
सर्वतः सर्वतत्त्वानि सर्वात्मा सर्वसम्भवः ।
सर्वं विलीयते यस्मिन्‌ तद्ब्रह्म मुनयो विदुः ॥
एक एव हि भूतात्मा देहे देहे व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्‌ ॥
स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च ।
वसत्येको महानात्मा येन सर्वमिदं ततम्‌ ॥
एकोयमात्मा जगतामेकेन बहुधा कृतः ।
पृथग्‌ वदन्ति चात्मानं ज्ञानादिकप्रवर्तने ॥
ब्राह्मणे कृमिकीटेषु श्वपाके शुनि हस्तिनि ।
पशुगोदंशमशके समं पश्यन्ति पण्डिताः ॥
एक एव यथा सूत्रं सुवर्णे वर्तते पुनः ।
मुक्तामणिप्रवालेषु मृण्मये रजते तथा ॥
तद्वद्‍ गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु ।
एकोयमात्मा विज्ञेयः सर्वत्रैव व्यवस्थितः ॥

अत्राह किं त्रैगुण्यं नामोच्यते । सत्त्वरजस्तमांसीति त्रिगुणा एव त्रैगुण्यम्‌ । सत्त्वं नाम प्रसादलाघवप्रसन्नताभिषङ्गप्रीतितुष्टितितिक्षासन्तोषादिलक्षणमनन्तभेदं समासतः सुखात्मकम्‌ । रजो नाम शोकतापस्वेदस्तम्भोद्वेगरोषमानादिलक्षणमनन्तभेदं समासतो दुःखात्मकम्‌ । तमो नामाऽऽच्छादनावरणबीभत्सदैन्यगौरवालस्यनिद्राप्रमादादिलक्षणमनन्तभेदं समासतो मोहात्मकम्‌ । एतत्‌ त्रैगुण्यं व्याख्यातम्‌ ।
सत्त्वं प्रकाशकं विद्याद्रजो विद्यात्‌ प्रवर्तकम्‌ ।
तमोऽप्रकाशकं विद्यात्त्रैगुण्यन्नाम संज्ञितम्‌ ॥

अत्राह कः सञ्चरः प्रतिसञ्चरश्च । अत्रोच्यते । उत्पत्तिः सञ्चरः प्रलयः प्रतिसञ्चरः । तत्रोत्पत्तिर्नामाव्यक्तात्‌ प्रागुपदिष्टात्‌ सर्वतः पुरुषेण परेणाधिष्ठिता बुद्धिरुत्पद्यते । अष्टगुणा बुद्धिः । बुद्धितत्त्वादहङ्कार उत्पद्यते । स चाहंकारस्त्रिविधो वैकारिकस्तैजसो भूतादिरिति । तत्र वैकारिकादहंकारादेव इन्द्रियाणि चोत्पद्यन्ते । भूतादेस्तन्मात्राणि । तैजसादुभयम्‌ । तन्मात्रेभ्यो भूतानीति सञ्चरः । प्रतिसञ्चरो नाम भूतानि तन्मात्रेषु लीयन्ते । तन्मात्राणीन्द्रियाणि चाहंकारे । अहंकारो बुद्धौ । बुद्धिरव्यक्ते । तदव्यक्तं क्वचिन्न लीयते । कस्मादनुत्पद्यमानत्वात्‌ प्रकृतिं पुरुषञ्चैव विद्ध्यनादि इत्येवं प्रतिसञ्चरो व्याख्यातः । तत्राह किं तदध्यात्ममधिभूतमधिदैवतं चेति । तत्रोच्यते । बुद्धिरध्यात्मम्‌ बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतम्‌ । अहंकारोऽध्यात्मं मन्तव्यमधिभूतं रुद्रस्तत्राधिदैवतम्‌ । मनोऽध्यात्मं संकल्पितव्यमधिभूतं चन्द्रस्तत्राधिदैवतम्‌ । श्रोत्रमध्यात्मं श्रोतव्यमधिभूतमाकाशस्तत्राधिदैवतम्‌ । त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्तत्राधिदैवतम्‌ । चक्षुरध्यात्मं द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम्‌ । जिह्वाध्यात्मं रसयितव्यमधिभूतं वरुणस्तत्राधिदैवतम्‌ । घ्राणमध्यात्मं घ्रातव्यमधिभूतं पृथ्वी तत्राधिदैवतम्‌ । वागध्यात्मं वक्तव्यमधिभूतं अग्निस्तत्राधिदैवतम्‌ । पाणी अध्यात्मं ग्रहीतव्यमधिभूतमिन्द्रस्तत्राधिदैवतम्‌ । पादावाध्यात्मं गन्तव्यमधिभूतं विष्णुस्तत्राधिदैवतम् । पायुरध्यात्ममुत्स्रष्टव्यमधिभूतं मित्रस्तत्राधिदैवतम्‌ । उपस्थमध्यात्ममानन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतम्‌ । एवमेतत्‌ त्रयोदशविधस्य करणस्याध्यात्ममधिभूतमधिदैवतं व्याख्यातम्‌ ।

तत्त्वानि यो वेदयते यथावद्‌
गुणस्वरूपाण्यधिदैवतं च ।
विमुक्तपाप्मा गतदोषसङ्घो
गुणांस्तु भुङ्क्ते न गुणैः स भज्यते ॥

अथ कास्ताः पञ्चाभिबुद्धय उच्यते । व्यवसायोऽभिमानेच्छा कर्तव्यता क्रियेति । अभिमुखी बुद्धिरिदं करणीयं मयेति व्यवसायो बुद्धिक्रिया । आत्मपरात्मस्वरूपप्रत्ययाभिमुखोऽभिमानोऽहंकारो बुद्धेः क्रिया । इच्छा वाञ्छा सङ्कल्पो मनसो बुद्धिक्रिया । शब्दादिविषयालोचनश्रवणादिलक्षणकर्तव्यता बुद्धीन्द्रियाणां बुद्धिक्रिया । वचनादिलक्षणबुद्धिक्रिया कर्मेन्द्रियाणां सा क्रियेति । एवमेताः पञ्चाभिबुद्धयो व्याख्याताः ।

अथ कास्ताः पञ्चकर्मयोनय उच्यन्ते । धृतिः श्रद्धा सुखाऽविविदिषा विविदिषा च पञ्चकर्मयोनयः ।
बाह्यकर्माणि संकल्प्य प्रतीतं योऽभिरक्षति ।
तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम्‌ ॥
स्वाध्यायो ब्रह्मचर्यं च यजनं याजनं तपः ।
दानं प्रतिग्रहो होमः श्रद्धाया लक्षणं स्मृतम्‌ ॥
सुखार्थं यस्तु सेवेत ब्रह्मकर्मतपांसि च ।
प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्तिता ॥
विषयमधुमिश्रितान्तःकारणत्वमविविदिषा । विविदिषा च ध्यानिनां प्रज्ञानयोनिः ।
एकत्वं च पृथक्त्वं च नित्यं चैवमचेतनम्‌ ।
सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा च सा ॥
कार्यकारणक्षयकरी विविदिषा प्राकृतिकी वृत्तिः । धृतिः श्रद्धा सुखाऽविविदिषा चतस्रो बन्धाय विदिषैका मोक्षाय । एवमेता पञ्च कर्मयोनयो व्याख्याताः ।
अत्राह के पञ्चवायव उच्यन्ते ।
प्राणोपानः समानश्च उदानो व्यान एव च ।
इत्येते वायवः पञ्च शरीरेषु शरीरिणाम्‌ ।

तत्र प्राणो नाम वायुर्मुखनासिकाधिष्ठाता प्रणयनात्प्रक्रमणाच्च प्राण इत्यभिधीयते । अपानो नाम वायुर्नाभ्यधिष्ठितापनयनादधोगमनाच्चापान इत्यभिधीयते । समानो नाम वायुर्हृदधिष्ठाता समनयनात्‌ सङ्गमनाच्च समान इत्यभिधीयते । उदानो नाम वायुः कण्ठाधिष्ठाता ऊर्ध्वगमनादुत्क्रमणाच्चोदान इत्यभिधीयते । व्यानो नाम वायुः सन्ध्यधिष्ठाता विक्षेपणाद्विजृम्भणाच्च व्यान इत्यभिधीयते । इति पञ्चवायवो व्याख्याताः ।

अत्राह के ते पञ्चकर्मात्मान इत्युच्यते । वैकारिकस्तैजसो भूतादिः सानुमानो निरनुमानश्च । तत्र वैकारिकः शुभकर्मकर्ता । तैजसोऽशुभकर्मकर्ता । भूतादिर्मूढकर्मकर्ता । सानुमानः शुभमूढकर्मकर्ता । निरनुमानोऽशुभमूढकर्मकर्ता चैवं पञ्चकर्मात्मानो व्याख्याताः ।

अत्राह का सा पञ्चपर्वाऽविद्येत्युच्यते । तमो मोहो महामोहस्तामिश्रोऽन्धतमिस्रश्चेति । तत्र तमोमोहावुभावष्टात्मकौ । महामोहो दशात्मकः । तामिस्रोन्धतामिस्रश्चाष्टादशात्मकौ । तमो नामाष्टसु प्रकृतिष्वव्यक्तबुद्ध्यहंकारपञ्चतन्मात्रसंज्ञितास्वनात्मस्वात्माभिमानस्तम इत्यभिधीयते । मोहो नामाणिमाद्यष्टैश्वर्यप्राप्तये योऽभिमान उत्पद्यते स मोह इत्यभिधीयते । महामोहो नाम दृष्टानुश्रविकेषु शब्दादिविषयेषु दशसु वृत्तिषु मुक्तोहमिति मन्यते स महामोह इत्यभिधीयते । तामिस्रो नामाष्टगुणैश्वर्येऽणिमाद्ये दशविधे च विषये यो द्वेषोऽप्रतिहतस्तत्र यद्‌ दुःखमुत्पद्यतेऽसौ तामिस्र इत्यभिधीयते । अन्धतामिस्रो नामाष्टगुणैश्वर्येऽणिमाद्ये दशविधे च विषये सिद्धे मरणकाले यो विषाद उत्पद्यते सोऽन्धतामिस्र इत्यभिधीयते । एवमेषा पञ्चपर्वाऽविद्या द्विषष्टिभेदा व्याख्याताः ।

अत्राह का साऽष्टाविंशतिधाऽशक्तिरत्रोच्यते । एकादशेन्द्रियवधाः सप्तदश तुष्टिसिद्धि(बुद्धि)वधाः । एषाष्टाविंशतिधाऽशक्तिरिति । तत्रेन्द्रियवधास्तावदुच्यन्ते । श्रोत्रे बाधिर्यं जिह्वायां जडत्वं त्वचि कुष्ठित्वं चक्षुष्यरूपत्वं नासिकायामघ्राणत्वं वाचि मूकत्वं हस्तयोः कुणित्वं पादयोः पङ्गुत्वं वागिन्द्रिय उदावर्त उपस्थेन्द्रिये क्लैब्यं मनस्युन्माद इत्येकादशेन्द्रियवधाः । सप्तदशतुष्टिसिद्धिवधा नाम विपर्ययास्तुष्टिसिद्धीनाम्‌ । तुष्टिविपर्ययास्तावदुच्यन्ते । तत्र नास्ति प्रधानमिति या प्रतिपत्तिरनन्ता । एवमहमित्यात्मज्ञाने तामसलीना तथाहंकारस्यादर्शनमविद्या । नैव सन्ति तन्मात्राणि भूतकारणानीत्यवृष्टिः । विषयाणामर्जने प्रवृत्तिरसुतारा । रक्षणे तु प्रवृत्तिरसुपारा च । क्षयदोषमदृष्ट्वाऽर्थे प्रवृत्तिरसुनेत्रा । भोगा शक्तिरसुमरीचिका । हिंसादोषमपश्यतो भोगारम्भोऽनुत्तमाम्भसिका । इति तुष्टिविपर्यया नवधाऽतुष्टयो व्याख्याताः । अथ सिद्धिविपर्यया असिद्धयोऽष्टौ चाभिधीयन्ते । नानात्वं भूतमात्रस्यैकात्वमाविर्भूतमतारमुच्यते । शब्दमात्रश्रवणाद्विपरीतग्रहणमासुतारं यथा नानात्वज्ञो मुक्त इति श्रुत्वा विपरीतं प्रतिपन्नो नानात्वज्ञो ह्यमुक्त इति । अध्ययनश्रवणाभिनिविष्टस्यापि जडत्वादसच्छास्त्रोपहतबुद्धित्वाद्वा पञ्चविंशतितत्त्वज्ञानसिद्धिर्न भवति तदाऽतारतारं तदज्ञानम्‌ । कस्यचिदाध्यात्मिकेन दुःखेनाभिभूतस्यापि संसारेऽनुद्वेगादजिज्ञासोर्न ज्ञानं तत्प्रमादम्‌ । एवमप्रमुदिताप्रमोदमानयोश्चान्योन्ययोर्द्वयमपरं द्रष्टव्यम्‌ । सुहृदुपदिष्टेऽप्यनिश्चयबुद्धेरज्ञानम्‌ परस्परमसम्पा । असम्पावचनादथवा पराङ्मुखे गुरौ दुर्भाग्यस्य ज्ञानासिद्धिस्तदज्ञानमसत्प्रमुदितमिति । एवमेते सिद्धिविपर्यया असिद्धयोऽष्टौ व्याख्याताः । एवमेषाऽष्टविंशतिधाऽशक्तिर्व्याख्याता ।

अत्राह का सा नवधा तुष्टिरत्रोच्यते । प्रकृतिं परमार्थत्वेन परिकल्प्य परितुष्टे माध्यस्थं लभते तस्य तुष्ट्या सा तान्त्रिकी संज्ञाऽम्भ इति । अपरो बुद्धिं परमार्थवेन प्रतिपद्य परितुष्टस्तस्यास्तुष्टेः शलिला इति संज्ञा । अन्योऽहंकारं परमार्थत्वेनाभ्युपगम्य परितुष्टस्त—

सङ्घातपरार्थत्वादिति पुरुषास्तित्वं सिद्धम् । भेदानां परिमाणात्‌ कारणमस्त्यव्यक्तमिति पर्यायद्वयेन प्रधानस्यास्तित्वं सिद्धम्‌ । हेतुमदनित्यमित्येकत्वं सिद्धम्‌ । प्रीत्यप्रीतिविषादात्मका इत्यर्थवत्त्वं सिद्धम्‌ । नानाविधैरुपायैरिति परार्थत्वं सिद्धम्‌ । त्रिगुणमविवेकि विषय इत्यन्यत्वं सिद्धम्‌ । तस्माच्च विपर्यासादित्यकर्तृत्वं सिद्धम्‌ । पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्यापीति योगसिद्धिः । प्राप्ते शरीरभेदे चरितार्थत्वादिति वियोगसिद्धिः । जन्ममरणकरणानामिति पुरुषबहुत्वं सिद्धम्‌ । चक्रभ्रमिवदिति शेषवृत्तिः सिद्धा । एते दशमूलिकार्था व्याख्याताः । एतेषां दशानां प्रागुपदिष्टानां च पञ्चाशत्प्रत्ययाः । एते च षष्टिपदार्थाः षष्टितन्त्रमित्युच्यते ।
अत्राह कोऽनुग्रहसर्गः अत्रोच्यते । बाह्यान्‌ पञ्चतन्मात्रेभ्यश्चोत्पाद्यानुग्रहसर्गध्यानोत्पन्नेनाधारवर्जितान्‌ पुत्रान्‌ दृष्ट्वा तेभ्यस्तन्मात्रेभ्योऽनुग्रहसर्गमसृजद्ब्रह्मा ।

अत्राह कश्चतुर्दशविधो भूतसर्ग इत्यत्रोच्यते । अष्टविकल्पो दैवः पैशाचो राक्षसो याक्षो गान्धर्व ऐन्द्रः प्राजापत्यो ब्राह्म इत्यष्टौ देवयोनयः । पञ्चधा तिर्यग्योनश्च पशुपक्षिमृगसरीसृपस्थावरा इति । गवादिमूषकान्ताः पशवः । गरुडादिमशकान्ताः पक्षिणः । सिंहादिशृगालान्ताः मृगाः । शेषादिकीटान्ताः सरीसृपाः । पर्वतादितृणान्ताः स्थावराः । मानुष्यं चैकविधं ब्राह्मणादिचाण्डालान्तम्‌ । अष्टविकल्पो दैवस्तिर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥

समासतो ये त्रिधाः सर्गाः तत्राह कस्त्रिविधो धातुसर्गः अत्रोच्यते सूक्ष्माः मातापितृजाः प्रभूता इति । ज्ञानेन्द्रियपञ्चप्राणबुद्धिमनसां गणः सूक्ष्मः । लिङ्गशरीराणीत्यर्थः । मातापितृजा षाट्कौशिकाः तत्र मातृतो लोमलोहितमांसानि पितृतः स्नाय्वस्थिमज्जान इति षट्को गणः । प्रभूताः पञ्चमहाभूतानि महाभूते घटादीनां निवेश इति त्रिविधो धातुसर्गो व्याख्यातः । एतत्संसारमण्डलमुक्तम्‌ ॥

अत्राह कस्त्रिविधो बन्द्य इत्यत्रोच्यते । प्रकृतिबन्धो वैकारिकबन्धो दक्षिणाबन्धश्चेति । तत्र प्रकृतिबन्धो नामाष्टौ प्रकृतयस्ताः परतेनाभिमन्यमानस्य प्रकृतिलयः प्रकृतिबन्ध इत्युच्यते । तत्र वैकारिकबन्धो नाम प्रव्रजितानां लौकिकानां वैकारिकैरिन्द्रियैर्वशीकृतानां शब्दादिविषये प्रशक्तानामजितेन्द्रियाणामज्ञानिनां काममोहितानां वैकारिकबन्ध इत्युच्यते । दक्षिणाबन्धो नाम ब्रह्मचारिगृहस्थभिक्षुवैखानसानां काममोहोपहतचेतसामभिमानपूर्विकां दक्षिणां प्रयच्छतां दक्षिणाबन्ध इत्युच्यते । इति त्रिविधो बन्धो व्याख्यातः । उक्तं च ।
प्राकृतेन तु बन्धेन तथा वैकारिकेण च ।
दक्षिणाभिस्तृतीयेन बन्धोयं च निगद्यते ॥

अत्राह कस्त्रिविधो मोक्ष इत्यत्रोच्यते । ज्ञानोद्रेकादिन्द्रियरागोपशमात्‌ कृत्स्नक्षयाच्चेति । ज्ञानोद्रेकादिन्द्रियरागोपशमात्‌ स्वधर्माधर्मक्षयो भवति धर्माधर्मक्षयाच्च कैवल्यमिति । उक्तं च ।
आद्यो हि मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात्‌ ।
कृत्स्नक्षयात्‌ तृतीयस्तु व्याख्यातं मोक्षलक्षणम्‌ ॥

किं त्रिविधं प्रमाणमित्यत्रोच्यते । दृष्टमनुमानमाप्तवचनं चेति एतत्‌ त्रिविधं प्रमाणम्‌ । दृष्टं तावद्व्याख्यायते यावदिन्द्रियाणां पञ्चेन्द्रियार्थाः प्रत्यक्षा एव दृष्टम्‌ । अनुमानम्‌ प्रमाणं लिङ्गदर्शने जायमानं ज्ञानम्‌ । यथा मेघोदयेन वृष्टिः साध्यते बकपङ्क्तिभिः सलिलम्‌ धूमेनाग्निः तदनुमानम्‌ । प्रत्यक्षेणानुमानेन वा योर्थो न साध्यते स आप्तवचनात्‌ साध्यते । यथेन्द्रो देवानां राजा उत्तराः कुरवः सौवर्णो मेरुः स्वर्गेऽप्सरस इति । त इन्द्रादयः प्रत्यक्षानुमानासाध्याश्च वसिष्टादयो मुनयो वदन्ति सन्तीन्द्रादयः आगमोप्यस्ति ।

स्वकर्मण्यभियुक्तो यो रागद्वेषविवर्जितः ।
ज्ञानवान्‌ शीलसम्पन्न आप्तो ज्ञेयस्तु तादृशः ॥

एवमेतत्‌ त्रिविधं प्रमाणमभिहितम्‌ । अत्राह तेन त्रिविधेन प्रमाणेन किं साध्यते अत्रोच्यते । यथा लोके मानेन प्रस्थादिना धान्यानि मीयन्ते । तुलया चन्दनादीनि द्रव्याणि । एवमनेन तत्त्वभावभूतानि प्रमीयन्ते । त्रिविधेन दुःखेनाभिभूतो ब्राह्मणः कपिलमहर्षिशरणमुपागतः अत्राह ।

किं त्रिविधं दुःखमित्यत्रोच्यते । आध्यात्मिकमाधिभौतिकमाधिदैविकमिति । तत्राध्यात्मिकं द्विविधं शारीरं मानसं चेति । शरीरे भवं शारीरम्‌ मनसि भवं मानसं चेति । तत्र शारीरं नाम वातपित्तश्लेष्मणां वैषम्याद्यद्दुःखमुत्पद्यते ज्वरातिसारविसूचिकामूर्छादिकं तच्छारीरमुच्यते । कामक्रोधलोभमोहमदेर्ष्यादिकं प्रियवियोगादिकं तन्मानसमित्युच्यते । अधिभूतेभ्यो भवमाधिभौतिकम्‌ । मानुषपशुमृगसरीसृपस्थावरेभ्यो यद्दुःखमुत्पद्यते तदाधिभौतिकम्‌ । अधिदेवेभ्यो जातमाधिदैविकम्‌ । शीतोष्णवातवर्षासन्निपातादिनिमित्तं यद्दुःखमुत्पद्यते तदाधिदैविकम्‌ । अनेन त्रिविधेन दुःखेनाभिभूतस्य ब्राह्मणस्य जिज्ञासोत्पना । ज्ञातुमिच्छा जिज्ञासा । यथा तृषितस्य पानीयं पातुमिच्छा पिपासा । एतत्समासतो निःश्रेयसं ज्ञानम्‌ । यज्ज्ञात्वा पुनर्जन्म न स्यादिति ॥

एतन्महर्षेर्विज्ञानं कपिलस्य महात्मनः ।
यच्छ्रुत्वा ब्राह्मणः श्रेयः कृतकृत्योऽभवत्‌ तदा ॥
सांख्यसूत्रक्रमेणैषा व्याख्याता क्रमदीपिका ।
अनुष्टुपछन्दसा चात्र ज्ञेयं श्लोकशतत्रयम्‌ ॥

इति श्रीतत्त्वसमासाख्या सूत्रवृत्तिः समाप्ता ॥


%d bloggers like this: