मृत्यु कालः – Mrityu Kala

यो न पश्येद् ध्रुवं सम्यक्स्वर्णं वा मनुजो बुधः
तस्य षण्मासमध्ये तु मृतिश्चैवोपपद्यते २

यो वै द्वितीयां हिमधामलेखां नरो न पश्येद्द्विजहानिरस्य
मासत्रयं प्राप्य शरीरमाशु जीवो व्रजेत्तस्य यमस्य लोकम् ३

यः कर्णघोषं न शृणोति दृप्ता मृताश्च यूकाः प्रपतन्ति लाभात्
या वैपरीत्यं विशृणोति शब्दं मासद्वयं प्राप्य जहाति जीवम् ४

यः स्वस्थदेहः श्वसते मुखेन नेत्रेऽरुणे श्यावमथैव वक्त्रम्
जिह्वा विशीर्णा दशनाश्च कृष्णा स्वस्थोऽपि शीघ्रं यमलोकगन्ता ५

यस्य प्रभाते च शिरोव्यथा स्याद्दीपे परीवेषमवेक्ष्यमाणः
विपश्यते यः पटलञ्च रेणोः स वै मृतिं याति न दीर्घमायुः ६

यः सूर्यबिम्बे शशिनं प्रपश्येद्विना परीवेषमवेक्ष्यमाणः
धूमावृतं वा रविमण्डलञ्च प्रपश्यते शीघ्रमृतिं स गन्ता ७

स्वस्थे निरभ्रे गगने च पश्येद्यः शक्रचापं विदिशादिशासु
तथैव विद्यान्नयनाग्रतो यः स शीघ्रमेव यमलोकगन्ता ८

यो नेत्रे मीलितेऽपि द्युतिमथ चपलां पश्यते यः पुरस्तात्कर्णे रन्ध्रं
निरुध्याद्ध्वनिमथ मनुजो न शृणोति कथञ्चित् ९

तिक्तादीनां रसानां कथमपि रसनास्वादमात्रं न वेत्ति रौद्रं वैवस्वतस्य  प्रतिगमनमथो पश्यते मानुषश्च १०

यस्यात्युष्णं शरीरं शिशिरमथ मनूजस्य यस्याविलञ्च शीतं नो चेति यस्य हिमजलसिकते रोमहर्षो न यस्य । दण्डाघातेन राजा न भवति स पुनः श्राद्धदेवस्य लोके लोकानां दर्शनाय द्रुतमतिरुचिरां स्वस्थतां न प्रयाति ११

तैले जले दर्पणके घृते वा परस्य नेत्रे प्रतिबिम्बमात्मनः
पश्येन्न योऽसौयमलोकगन्ता जानीहि तं जीवविहीनमेव १२


हारीतसंहिता-द्वितीयस्थानम्

मांसवर्गो – Mamsha barga

हंसः श्लेष्मकरो बलातिरुचिदो वृष्यो गुरुः शीतलस्
तद्वच्च कण्डजाड्यशुक्रजननो वृष्योऽतिरुच्यो मृदुः ।
ज्ञेयः सारसकः कफानिलहरो वृष्यो गुरुश्चोच्यते
वृष्यो वीर्यविवर्द्धनः कफहरः कङ्कस्तथा भासकः १
आडी वातविकारकासहननी बल्या वृषा दीपनी
क्रौञ्ची चासुरिशुक्रदोषहननी तुल्यस्तथा कर्कटः ।
दात्यूहो मरुतस्य नाशनकरो वृष्योबलः शुक्रदस्
तथा श्रेष्ठगुणः श्रमोपशमनः शुक्रप्रदो वातहा २
मत्स्यानां मकरः श्रेष्ठो दीपनो वातनाशनः
रुचिप्रदः शुक्रकरश्चाश्मरीदोषनाशनः ३
शृङ्गी वातविनाशनो रुचिकरो वृष्यः कफघ्नो मतस्
तस्माद्रोहितको हितो बलकरो वातात्मकः श्लेष्मकः ४
श्लेष्माकरी तु सफरी नलमीनः कफात्मकः
शकुली च विशाला च ज्ञेयौ वातकफात्मकौ
बिलं विमत्स्यं ज्ञेयञ्च वातपित्तकफाकरम् ५
कच्छपो मधुरः स्वादुः शुक्रवृद्धिकरो मतः
वातश्लेष्मप्रजननो बृंहणो रूक्ष एव च ६
कुलीरोऽतिबलो वृष्यः पाण्डुक्षयविनाशनः
शोफातिसार ग्रहणीस्थविराणां स्त्रियां हितः ७
मकरो दीपनो हृद्यो ग्राही चोष्णविकारहा
मूत्राश्मरीणां शमनो गुल्मातीसारनाशनः ८
बककाकारिश्येतशूकरखरोष्ट्राश्वादयो भल्लूका व्यालाः सौरभेयप्रभृतयश्च ये  चान्ये जीवा नृणाम् ।
मण्डूकाश्च सरीसृपादिकगणाधूकाः कलिङ्गाश्च ये काकसारसशारिकाः शुका इमे भक्ष्या न शस्ता इमे ९
गृहचटकचकोराः काकजात्याश्च श्येनाः पिकशुकमघशारीभृङ्गदात्यूहमाङ्गाः
जलकरटकपोतपोटकीखञ्जरीटाः कुकुरमघमलिङ्गा यूकपिङ्गादयश्च १०
एते भक्ष्या नैव भक्ष्या न चेष्टा ये चान्येऽप्यज्ञातनामाण्डजाश्च
अन्ये चापि श्वापदा ये च निन्द्यास्ते च खाद्ये वर्जिताश्चात्र सर्वे ११

इति आत्रेयभाषिते हारीतोत्तरे मांसवर्गो नाम द्वाविंशोऽध्यायः २२


 

हरीतकी- Haritaki

रसैः पञ्चभिः संयुक्ता रसेनैकेन वर्जिता
कषायाम्ला च कटुका तिक्ता स्वादुरसा स्मृता ।

लवणेन वर्जिता च शृणु तस्याः पृथक्पृथक्।। ६
त्वचाश्रितञ्च कटुकं मेदस्तस्याः कषायकम्
मेदोऽन्तरे तथा चाम्लं मधुरं चास्थिसंश्रितम्।। ७
तिक्तञ्चान्तरे तावत् तु रसैः पञ्चभिः संयुता
आम्लत्वान्मारुतं हन्ति पित्तं मधुरतिक्ततः
कफं कटुकषायत्वात्त्रिदोषघ्नी हरीतकी।। ८

हरीतकी देहभृतां हिता स्यान्मातेव चैषा हितकारिणी च ।
वरं कदाचित्कुपितापि माता न कुप्यते चाचरितापि पथ्या ।।९


हारीतसंहिता पञ्चमस्थानम्

गर्भो प्रकृति/गर्भोपक्रमविज्ञानं – Garva prakriti

  1. प्रथमेऽहनि रेतश्च संयोगात्कललं च यत्
    जायते बुद्बुदाकारं शोणितञ्च दशाहनि १७
  2. घनं पञ्चदशाहे स्याद्विंशाहे मांसपिण्डकम्
    पञ्चविंशत्तमे प्राप्ते पञ्चभूतात्मसम्भवः १८
  3. मासैकेन च पिण्डस्य पञ्चतत्त्वं प्रजायते
    पञ्चाशद्दिनसम्प्राप्ते अङ्कुराणाञ्च सम्भवः १९
  4. मासत्रये तु सम्प्राप्ते हस्तपादौ प्रवर्धते
    सार्द्धमासत्रये प्राप्ते शिरश्च सारवद्भवेत् २०
  5. चतुर्थके च लोमानां सम्भवश्चात्र दृश्यते
    पञ्चमे च सुजीवः स्यात्षष्ठे प्रस्फुरणं भवेत् २१
  6. अष्टमे मासि जाते च अग्नियोगः प्रवर्त्तते
    मासे तु नवमे प्राप्ते जायते तस्य चेष्टितम् २२
  7. जायते तस्य वैराग्यं गर्भवासस्य कारणात्
    दशमे च प्रसूयेत तथैकादशमेऽपिवा २३

हारीतसंहिता षष्ठस्थानम्

त्रिफला – Trifala

हरीतक्याश्चामलक्या विभीतकस्य च फलम्
त्रिफलेत्युच्यते वैद्यैर्वक्ष्यामि भागनिर्णयम् १
एकभागो हरीतक्या द्वौभागौ च विभीतकम्
आमलक्यास्त्रिभागश्च सहैकत्र प्रयोजयेत् २
त्रिफला कफपित्तघ्नी महाकुष्ठविनाशिनी
आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी ३
वर्णप्रदायिनी घृष्टा विषमज्वरनाशिनी
दृष्टिप्रदा कण्डुहरा वमिगुल्मार्शनाशिनी ४
सर्वरोगप्रशमनी मेधा स्मृतिकरी परा


हारीतसंहिता

मकरध्वजः – Makaradwaja

मकरध्वजः, पुं, (मकरेण चिह्नितो ध्वजो यस्य ।)

कामदेवः । इत्यमरः । १ । १ । २७ ॥ (यथा, माधे । ३ । ६१ । “शरीरिणा जैत्रशरेण यत्र निशङ्कमूषे मकरध्वजेन ॥”)

रससिन्दूरविशेषः । तस्य नामान्तरं चन्द्रो-
दयः । तस्य करणप्रकारो यथा, —
“पलं मृदु स्वर्णदलं रसेन्द्रं
पलाष्टकं षोडशगन्धकस्य ।
शोणैः सुकार्पासभवप्रसूनैः
सर्व्वं विमर्द्द्याथ कुमारिकाद्भिः ॥
तत् काचकुम्भे निहितं सुगाढे
मृत्कर्पटैस्तद्दिवसत्रयञ्च ।
पचेत् क्रमाग्नौ सिकताख्ययन्त्रे
ततो रजः पल्लवरागरम्यम् ॥
निगृह्य चैतस्य पलं पलानि
चत्वारि कर्पूररजस्तथैव ।
जातीफलं सोषणमिन्द्रपुष्पं
कस्तूरिकाया इह शाण एकः ॥
चन्द्रोदयोऽयं कथितोऽस्य माषो
भुक्तोऽहिबल्लीदलमध्यवर्त्ती ॥”
अस्य गुणाः ।
“मदोन्मदानां प्रमदाशतानां
गर्व्वाधिकत्वं श्लथयत्यकाण्डे ।
शृतं घनीभूतमतीव दुग्धं
मृदूनि मांसानि समण्डकानि ।
मांसानि मिष्टानि भवन्ति पथ्य-
मानन्ददायीन्यपराणि चात्र ॥”
बलीपलितनाशनस्तनुभृतां वयस्तम्भनः
समस्तगदखण्डनः प्रचुरयोगपञ्चाननः ।
गृहेषु रसराडयं भवति यस्य चन्द्रोदयः
स पञ्चशरदर्पितो मृगदृशां भवेद्वल्लभः ॥”
इन्द्रपुष्पं लवङ्गम् । उक्तपरिमाणलक्षणमुप-
लक्षणम् । दाक्षिणात्याः शोणकार्पासपुष्पद्रव-
मेव गृह्णन्ति । पाश्चात्याः निर्वृन्ततत्पुष्पेणैव
यावदार्द्रत्वं मर्द्दयन्ति । उभयथैव निष्पत्तेरदोषः ।

तथैवेति सर्व्वत्रान्वयः । शास्त्रान्तराद्बिशेषो लिख्यते ।

“रतिकाले रतान्ते च पुनः सेव्यो रसोत्तमः ।
स्थावरं जङ्गमविषं जङ्गमं विषवारि वा ।
न विकाराय भवति साधकेन्द्रस्य वत्सरान् ॥
मृत्युञ्जयो यथाभ्यासात् मृत्युं जयति देहिनः ।
तथाय साधकेन्द्रस्य जरामरणनाशनः ॥”
शास्त्रान्तरे मकरद्धजो नाम । इति चन्द्रोदयः ।
इति रसेन्द्रचिन्तामणिः ॥


शब्दकल्पद्रुमः

Gamma-aminobutyric acid [GABA]

The most common inhibitory neurotransmitter in the central nervous system. Gamma-Aminobutyric Acid is a naturally occurring neurotransmitter with the central nervous system (CNS) inhibitory activity. Gamma-aminobutyric acid (GABA), converted from the principal excitatory neurotransmitter glutamate in the brain, plays a role in regulating neuronal excitability by binding to its receptors, has a big role in the body is to reduce the activity of neurons in the brain and central nervous system.

Virus

A virus is an obligate intracellular parasite, consists of a single nucleic acid, RNA or DNA, encoding the viral genome surrounded by a protein coat, and is capable of replication only within the living cells of bacteria, animals or plants. Viruses are classified into different orders and families according the type of nucleic acid present.

HeLa cells – Henrietta’s cancer cells

When Henrietta attended a cancer clinic at Johns Hopkins in Baltimore in January 1951, her surgeon, Howard Jones, took a tissue biopsy of her cancerous womb and was passed to George Otto Gey, a  cancer researcher in the same Baltimore hospital who was astonished by the ability of the cells to replicate in laboratory culture.

Normally, cancer cells would divide a few times and die off before any decent studies could be done with them. But Henrietta’s cells just kept on dividing and dividing, just so long as they were fed the right mix of nutrients for them to grow. Henrietta’s cancer cells became the first human “cell line” to be established in culture and Gey named them after the first two letters of her name – HeLa (pronounced “hee-la”).