तर्पणविधिः (Trapan Bidhi: Atharva Parisistha)
Sanskar Bidhi for the Four Vannas of Male, Female, and the third gender of those aged above 16 years. Do it yourself or take the help of a learned vedic man or woman.
A Sannaysi should not participate in it, except for taking a dip bath in a river with his Danda (Ek Dandi or Tri Dandi) and offering water to Vishnu three times.
Having gone to any river (in the absence of River, access a pond or waterbody) on the fourteenth day of the dark fortnight, one should offer three handfuls of water mixed with sesame seeds, for each ancestor, after taking a bath in the same water.
Then, with the three (verses beginning with) “ā yāta…” one should invoke the ancestors. With the three (verses beginning with) “udīratām…” one should offer the sesame-seed water to the ancestors.
Standing in water up to the navel, one should mentally contemplate the Vedic civilisational ancestors, as well as the maternal grandfathers, in a pure place on the sacred kuśa grass.
With the verse “parā yāta…” one should dismiss the satisfied ancestors. With the five (verses beginning with) “mano nvā hvāmahī…”, one should invoke the mind.
Indeed, this tarpana (water-offering) is the best, spoken by the Self-born Lord (Brahmā). A faithful person who performs it goes to the world of Brahma.
ओमथ तर्पणविधिमनुक्रमिष्यामः ॥ (43)
स्नातोपस्पर्शनकालेऽवगाह्य देवतास्तर्पयति ॥
ॐ विष्णवे नमः, ॐ विष्णवे नमः, ॐ विष्णवे नमः
वसूनां नमः
ब्रह्मणे नमः
वैश्रवणाय नमः
धर्माय नमः
कामाय नमः
लोकाय नमः
देवाय नमः
वेदाय नमः
ऋषिभ्यो नमः
आर्षेयेभ्यो नमः
अङ्गिरोभ्यो नमः
आङ्गिरसेभ्यो नमः
अथर्वेभ्यो नमः
आथर्वणेभ्यो नमः
मरुद्भ्यो नमः
मारुतेभ्यो नमः
वसुभ्यो नमः
रुद्रेभ्यो नमः
आदित्येभ्यो नमः
सिद्धेभ्यो नमः
साध्येभ्यो नमः
आप्येभ्यो नमः
अश्विभ्यां नमः
गुरुभ्यो नमः
गुरुपत्नीभ्यो नमः
पितृभ्यो नमः
मातृभ्यो नमः ॥
अग्निस्तृप्यतु ॥
वायुस्तृप्यतु ॥
सूर्यस्तृप्यतु ॥
विष्णुस्तृप्यतु ॥
प्रजापतिस्तृप्यतु ॥
विरूपाक्षस्तृप्यतु ॥
सहस्राक्षस्तृप्यतु ॥
सोमस्तृप्यतु ॥
ब्रह्मा तृप्यतु ॥
देवास्तृप्यन्तु ॥
वेदास्तृप्यन्तु ॥
ऋषयस्तृप्यन्तु ॥
आर्षेयास्तृप्यन्तु ॥
सर्वाणि छन्दांसि तृप्यन्तु ॥
ओम्कारवषट्कारौ तृप्यताम् ॥
महाव्याहृतयस्तृप्यन्तु ॥
सावित्री तृप्यन्तु ॥
गायत्री तृप्यतु ॥
द्यावापृथिव्यौ तृप्यताम् ॥
यज्ञास्तृप्यन्तु ॥
ग्रहास्तृप्यन्तु ॥
नक्षत्राणि तृप्यन्तु ॥
अन्तरिक्षं तृप्यतु ॥
अहोरात्राणि तृप्यन्तु ॥
संख्यास्तृप्यन्तु ॥
संध्यास्तृप्यन्तु ॥
समुद्रास्तृप्यन्तु ॥
नद्यस्तृप्यन्तु ॥
गिरयस्तृप्यन्तु ॥
केषेत्रौषधिवनस्पतयस्तृप्यन्तु ॥
गन्धर्वाप्सरसस्तृप्यन्तु ॥
नागास्तृप्यन्तु ॥
वयांसि तृप्यन्तु ॥
सिद्धास्तृप्यन्तु ॥
साध्यास्तृप्यन्तु ॥
विप्रास्तृप्यन्तु ॥
यक्षास्तृप्यन्तु ॥
रक्षांसि तृप्यन्तु ॥
मन्त्रास्तृप्यन्तु ॥
भूतान्येवमादीनि तृप्यन्तु ॥
श्रुतिं तर्पयामि ॥
स्मृतिं तर्पयामि ॥
धृतिं तर्पयामि ॥
रतिं तर्पयामि ॥
गतिं तर्पयामि ॥
मतिं तर्पयामि ॥
दिशं तर्पयामि ॥
विदिशं तर्पयामि ॥
श्रद्धामेधे तर्पयामि ॥
धारणां तर्पयामि ॥
गोब्राह्मणांस्तर्पयामि ॥
स्थावरजङ्गमानि तर्पयामि ॥
सर्वान् देवांस्तर्पयामि ॥
सर्वभूतानि तर्पयामि ॥
यज्ञोपवीतं ग्रीवायामवलम्ब्य सनकादिमनुष्यांस्तर्पयति ॥ सनकस्तृप्यतु
सनन्दनस्तृप्यतु ॥
सनातनस्तृप्यतु ॥
कपिलस्तृप्यतु ॥
वोढस्तृप्यतु ॥
आसुरिस्तृप्यतु ॥
पञ्चशिखस्तृप्यतु ॥
सनन्दनं तर्पयामि ॥
ससनकं तर्पयामि ॥
विद्वांसं सनातनं तर्पयामि ॥
सनत्कुमारं तर्पयामि ॥
सनकं तर्पयामि ॥
सहदेवं सनातनं तर्पयामि ॥
प्लुतिं तर्पयामि ॥
पुलस्त्यं तर्पयामि ॥
पुलहं तर्पयामि ॥
भृगुं तर्पयामि ॥
अङ्गिरसं तर्पयामि ॥
मरीचिं तर्पयामि ॥
क्रतुं तर्पयामि ॥
दक्षं तर्पयामि ॥
अत्रिं तर्पयामि ॥
वसिष्ठं तर्पयामि ॥
मानसांस्तर्पयामि ॥
अञ्जली द्विर्द्विः ॥
अथापसव्यं कृत्वा पित्र्यां दिशमीक्षमाणः शतर्चिनाद्यृषींस्तर्पयति ॥ शतर्चिनस्तृप्यन्तु ॥
माध्यमिकास्तृप्यन्तु ॥
गृत्समदस्तृप्यतु ॥
विश्वामित्रस्तृप्यतु ॥
अघमर्षणस्तृप्यतु ॥
वामदेवस्तृप्यतु ॥
अत्रिस्तृप्यतु ॥
भरद्वाजस्तृप्यतु ॥
वसिष्ठस्तृप्यतु ॥
प्रगाथास्तृप्यन्तु ॥
पावमान्यस्तृप्यन्तु ॥
क्षुद्रसूक्तमहासुक्तौ तृप्यताम् ॥
शुनस्तृप्यतु ॥
जैमिनिस्तृप्यतु ॥
वैशम्पायनस्तृप्यतु ॥
पाणिनिस्तृप्यतु ॥
पैलस्तृप्यतु ॥
सुमन्तुस्तृप्यतु ॥
भाष्यगार्ग्यौ तृप्यताम् ॥
बभ्रुबाभ्रव्यौ तृप्यताम् ॥
मण्डुमाण्डव्यौ तृप्यताम् ॥
गार्गी तृप्यतु ॥
वाचक्नवी तृप्यतु ॥
वडवा तृप्यतु ॥
प्रातिथेयी तृप्यतु ॥
सुलभा तृप्यतु ॥
मैत्रेयी तृप्यतु ॥
कहोलं तर्पयामि ॥
कौषीतकिं तर्पयामि
महाकौषीतकिं तर्पयामि ॥
सुयज्ञं तर्पयामि ॥
शाङ्खायनं तर्पयामि ॥
महाशाङ्खायनं तर्पयामि ॥
आश्वलायनं तर्पयामि ॥
ऐतरेयं तर्पयामि ॥
महैतरेयं तर्पयामि ॥
पैठीनसिं तर्पयामि ॥
मधुछन्दांसि तृप्यन्तु ॥
भारद्वाजं तर्पयामि ॥
जातूकर्ण्यं तर्पयामि ॥
पैङ्ग्यं तर्पयामि ॥
महापैङ्ग्यं तर्पयामि ॥
शाकलं तर्पयामि ॥
बाष्कलं तर्पयामि ॥
गार्ग्यं तर्पयामि ॥
माण्डुकेयं तर्पयामि ॥
पैङ्ग्यस्तृप्यतु ॥
महापैङ्ग्यस्तृप्यतु ॥
मदमित्रं तर्पयामि ॥
महामदमित्रं तर्पयामि ॥
औदवाहं तर्पयामि ॥
सौयामिं तर्पयामि ॥
शौनकिं तर्पयामि ॥
पैठीनसिं तर्पयामि ॥
महापैठीनसिं तर्पयामि ॥
शाकपूणिं तर्पयामि ॥
ये चान्य आचार्यास्तान् सर्वांस्तर्पयामि ॥
प्रतिपुरुषं पितरः ॥
पितृवंशस्तृप्यतु ॥
मातृवंशस्तृप्यतु ॥
अञ्जलीं त्रींस्त्रीन् ॥
धरस्तृप्यतु ॥
ध्रुवस्तृप्यतु ॥
सोमस्तृप्यतु ॥
आपस्तृप्यतु ॥
अनलस्तृप्यतु ॥
अनिलस्तृप्यतु ॥
प्रत्यूषस्तृप्यतु ॥
प्रभासस्तृप्यतु ॥ इति वसवः ॥
मृगव्याधस्तृप्यतु ॥
सर्पस्तृप्यतु ॥
निरृतिर्महाशयस्तृप्यतु ॥
अज एकपात्तृप्यतु ॥
अहिर्बुध्न्यस्तृप्यतु ॥
पिनाकी परंतपस्तृप्यतु ॥
भुवनस्तृप्यतु ॥
ईश्वरस्तृप्यतु ॥
कपाली महाद्युतिस्तृप्यतु ॥
स्थाणुस्तृप्यतु ॥
भवो भगवांस्तृप्यतु ॥ इति रुद्राः
भगस्तृप्यतु ॥
अंशस्तृप्यतु ॥
अर्यमा तृप्यतु ॥
मित्रस्तृप्यतु ॥
वरुणस्तृप्यतु ॥
सविता तृप्यतु ॥
धाता तृप्यतु ॥
त्वष्टा तृप्यतु ॥
पूषा तृप्यतु ॥
विवस्वान्महाबलस्तृप्यतु ॥
इन्द्रस्तृप्यतु ॥
विष्णुस्तृप्यतु ॥
कव्यवालं तर्पयामि ॥
अनलं तर्पयामि ॥
अनिलं तर्पयामि ॥
सोमं तर्पयामि ॥
यमं तर्पयामि ॥
अर्यमणं तर्पयामि ॥
अग्निष्वात्तांस्तर्पयामि ॥
सोमपांस्तर्पयामि ॥
बर्हिषदस्तर्पयामि ॥ इति देवपितरः ॥
यमाय नमः
धर्मराजाय नमः
मृत्यवे नमः
अन्तकाय नमः
वैवस्वताय नमः
कालाय नमः
चित्राय नमः
चित्रगुप्ताय नमः
सर्वभूतक्षयाय नमः
कृताय नमः
कृतान्ताय नमः
महोदराय नमः
धात्रे नमः
विधात्रे नमः
यमेभ्यो नमः
यमदूतेभ्यो नमः ॥
विश्वेशास्तृप्यन्तु ॥
सिकतास्तृप्यन्तु ॥
पृश्निजास्तृप्यन्तु ॥
नीलास्तृप्यन्तु ॥
शृङ्गिणस्तृप्यन्तु ॥
श्वेतास्तृप्यन्तु ॥
कृष्णास्तृप्यन्तु ॥
अजास्तृप्यन्तु ॥ इति यमदूताः ॥
..Now take the Name of your Grand Father, Father etc….. Grand Mother, Mathoe etc
यां कां चित्सरितं गत्वा कृष्णपक्षे चतुर्दशीम् । एकैकस्य तिलैर्मिश्रान् दद्यात्त्रीनुदकाञ्जलीन् ॥ आ यातेति हि तिसृभिः पितॄनावाहयेत्ततः । उदीरतामिति तिसृभिः पितृभ्यो दद्यात्तिलोदकम् ॥ नाभिमात्रे जले स्थित्वा चिन्तयेन्मनसा पितॄन् । तथा मातामहेभ्यश्च शुचौ देशेऽथ बर्हिषि ॥ परा यातेत्येतया पितॄंस्तृप्तान् विसर्जयेत् । मनो न्वा ह्वामहीत्येवं पञ्चभिर्मन उपाह्वयेत ॥
एतद्धि तर्पणं श्रेष्ठं स्वयमुक्तं स्वयंभुवा । श्रद्धधानः समाचष्टे ब्रह्मलोकं स गच्छति ॥
तन्मय भट्टाचार्य (वैदिक)