The Yoga Sutra of Patanjali discusses the nature of the mind (chitta vritti) and the concept of self-realization through Samadhi. It delves into the nature of consciousness, the cessation of mental fluctuations, and the attainment of liberation. The Bhoj Vritti explores different philosophical perspectives available before him and the role of the mind in understanding the self (atman) and achieving ultimate liberation. It discusses the characteristics of the self and the way to achieve self-realization by transcending the complexities of the mind and understanding the nature of consciousness. The Bhoj Vritti aims to guide readers toward understanding and experiencing the state of ultimate liberation (kaivalya) through mental discipline and self-realization.
श्रीभोजदेवविरचितायां पातञ्जलयोगशास्त्रसूत्रवृत्तौ
Yoga Sutra
श्रीपातञ्जले सांख्यप्रवचने योगशास्त्र
योगश्चित्तवृत्तिनिरोधः (1)
चित्तस्य (Chitta) निर्मलसत्त्वपरिणामरूपस्य या वृत्तयोऽङ्गाङ्गिभावपरिणामरूपास्तासां निरोधो बहिर्मुखतया परिणतिविच्छेदादन्तर्मुखतया प्रतिलोमपरिणामेन स्वकारणे लयो योग इत्याख्यायते। स च निरोधः सर्वासां चित्तभूमीनां सर्वप्राणिनां धर्मः (Dharma) कदाचित् कस्याञ्चित् बुद्धिभूमावाविर्भवति। ताश्च क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तस्य भूमयश्चित्तस्यावस्थाविशेषाः। तत्र क्षिप्तं रजस उद्रेकादस्थिरं बहिर्मुखतया सुखदुःखादिविषयेषु विकल्पितेषु व्यवहितेषु संनिहितेषु वा रजसा प्रेरितं। तच्च सदैव दैत्यदानववादीनाम्। मूढं तमस उद्रेकाकृत्याकृत्य विभागमन्तरेण क्रोधादिभिः विरुद्धकृत्येष्वेव नियमितं तच्च सदैव रक्षः पिशाचादीनाम्। विक्षिप्तं तु सत्त्वोद्रेकाद्वैशिष्टयेन परिहृत्य दुःखसाधनं सुखसाधनेष्वेव शब्दादिषु प्रवृत्तं तच्च सदैव देवानाम्। एतदुक्तं भवति रजसा प्रवृत्तिरूपं तमसा परापकारनियतं सत्त्वेन सुखमयं चित्तं भवति। एतास्तिस्रश्चित्तावस्थाः समाधावनुपयोगिन्यः। एकाग्रनिरुद्धरूपे द्वे च सत्त्वोत्कर्षाद्यथोत्तरमवस्थितत्वात् समाधावुपयोगं भजेते। सत्त्वादिक्रमव्युत्क्रमे तु अयमभिप्रायः द्वयोरपि रजस्तमसोरत्यन्तहेयत्वेऽप्येतदर्थं रजसः प्रथममुपादानं यावन्न प्रवृत्तिर्दर्शिता तावन्निवृत्तिर्नं शक्यते दर्शयितुमिति द्वयोर्व्यत्ययेन प्रदर्शनम्। सत्त्वस्य त्वेतदर्थं पश्चात्प्रदर्शनं यत्तस्योत्कर्षेणोत्तरे द्वे भूमी योगोपयोगिन्याविति।
अनयोर्द्वयोरेकाग्रनिरुद्धयोर्भूम्योर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तं भवति। एकाग्रे बहिर्वृत्तिनिरोधः। निरुद्धे च सर्वावृत्तीनां संस्काराणां च प्रविलय इत्यनयोरेव भूम्योर्योगस्य सम्भवः।
इदानीं सूत्रकारश्चित्तवृत्तिनिरोधपदानि व्याख्यातुकामः प्रथमं चित्तपदं व्याचष्टे…..
तदा द्रष्टुः स्वरूपेऽवस्थानम् (2)
द्रष्टुः पुरुषस्य तस्मिन्काले स्वरूपे चिन्मात्रतायामवस्थानं स्थितिर्भवति। अयमर्थः उत्पन्नविवेकख्यातेश्चित्संक्रमाभावात् कर्तृत्वाभिमाननिवृत्तौ प्रोच्छन्नपरिणामायां बुद्धौ चाऽत्मानः स्वरूपेणावस्थानं स्थितिर्भवति।
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति (4.34)
समाप्तभोगापवर्गलक्षणपुरुषार्थानां गुणानां यः प्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ विकारानुद्भवः यदि वा चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेऽवस्थानं तत्कैवल्यमुच्यते (kaivalya)।
न केवलमस्मद्दर्शने क्षेत्रज्ञः कैवल्यावस्थायामेववंविधश्चिद्रूपो यावद्दर्शनान्तरेष्वपि विमृष्यमाण एवंरूपोऽवतिष्ठते। तथाहि संसारदशायामात्मा कर्तृत्वभोक्तृत्वानुसंधातृत्वमयः प्रतीयतेऽन्यथा यद्ययमेकः क्षेत्रज्ञस्तथाविधो न स्यात्तदा ज्ञानलक्षणानामेव पूर्वापरानुसंधातृशून्यानामात्मभावे नियतः कर्मफलसंबन्धो न स्यात्कृतहाना कृताभ्यागमप्रसङ्गश्च। यदि येनैव शास्त्रोपदिष्टमनुष्ठितं कर्म तस्यैव भोक्तृत्वं भवेत्तदा हिताहितप्राप्तिपरिहाराय सर्वस्य प्रवृत्तिर्घटेत सर्वस्यैव व्यवहारस्य हानोपादानलक्षणस्यानुसंधानेनैव व्याप्तत्वाज्ज्ञानक्षणानां परस्परभेदेनानुसंधानशून्यत्वात्तदनुसंधानाभावे कस्यचिदपि व्यवहारस्यानुपपत्तेः कर्ता भोक्ताऽनुसंघाता यः स आत्मेति व्यवस्थाप्यते। मोक्षदशायां तु सकलग्राह्यग्राहकलक्षणव्यवहाराभावाच्चैतन्यमात्रमेव तस्यावशिष्यते। तच्चैतन्यं चितिमात्रत्वेनैवोपपद्यते न पुनरात्मसंवेदनेन। यस्माद्विषयग्रहणसमर्थत्वमेव चिते रूपं नाऽऽत्मग्राहकत्वम्। तथाहि अर्थश्चित्या गृह्यमाणोऽयमिति गृह्यते स्वरूपं गृह्यमाणमहमिति न
पुनर्युगपद्बहिर्मुखतान्तर्मुखतालक्षणव्यापारद्वयं परस्परविरुद्धं कर्तुं शक्यम्। अत एकस्मिन्समये व्यापारद्वयस्य कर्तुमशक्यत्वाच्चिद्रूपतैवावशिष्यते अतो मोक्षावस्थायां निवृत्ताधिकारेषु गुणेषु चिन्मात्ररूप एवाऽऽत्माऽवतिष्ठत इत्येवं युक्तम्। संसारदशायां त्वेवंभूतस्यैव कर्तृत्वं भोक्तृत्वमनुसंधातृत्वं च सर्वमुपपद्यते। तथाहि योऽयं प्रकृत्या सहानादिर्नैसर्गिकोऽस्य भोग्यभोक्तृत्वलक्षणः संबन्धोऽविवेकख्यातिमूलस्तस्मिन्सति पुरुषार्थकर्तव्यतारूपशक्तिद्वयसद्भावे या महदादिभावेन परिणतिस्तस्यां संयोगे सति यदात्मनोऽदिष्ठातृत्वं चिच्छायासमर्पणसामर्थ्यं बुद्धिसत्त्वस्य च संक्रान्तचिच्छायाग्रहणसामर्स्यं चिदवष्टब्धायाश्च बुद्धेर्योऽयं कर्तृत्वभोक्तृत्वाध्यवसायस्तत एव सर्वस्यानुसंधानपूर्वकस्य व्यवहारस्य निष्पत्तेः किमन्यैः फल्मुभिः कल्पनाजल्पैः।
यदि पुनरेवंभूतमार्गव्यतिरेकेण पारमार्थिकमात्मानः कर्तृत्वाद्यङ्गी क्रियेत तदाऽस्य परिणामित्वप्रसङ्गः। परिणामित्वाच्चानित्यत्वे तस्याऽऽत्मत्वमेव न स्यात्। न ह्येकस्मिन्नेव समये एकेनैव रूपेण परस्परविरुद्धावस्थानुभवः संभवति। तथाहि यस्यामवस्थायामात्मसमवेते सुखे समुत्पन्ने तस्यानुभवितृत्वं न तस्यामेवावस्थायां दुःखानुभवितृत्वम्। अतोऽवस्थानां नानात्वात् तदभिन्नस्यावस्थावतोऽपि नानात्वं नानात्वेन च परिणामित्वान्नाऽऽत्मत्वम्। नापि नित्यत्वम्। अत एव शान्तब्रह्मवादिभिः सांख्यैरात्मनः सदैव संसारदशायां मोक्षदशायां चैकरूपत्वमङ्गीक्रियते।
ये तु वेदान्तवादिनश्चिदानन्दमयत्वमात्मनो (vedanta) मोक्षे मन्यन्ते तेषां न युक्तः पक्षः। तथाहि आनन्दस्य सुखरूपत्वात्सुखस्य च सदैव संवेद्यमानतयैव प्रतिभासात्संवेद्यमानत्वं च संवेदनव्यतिरेकेणानुपपन्नमिति संवेद्यसंवेदनयोरभ्युपगमादद्वैतहानिः। अथ सुखात्मकत्वमेव तस्योच्येत तद्विरुद्धधर्माध्यासादनुपपन्नम्। न हि संवेदनं संवेद्यं चैकं भवितुमर्हति। किंचाद्वैतवादिभिः कर्मात्मपरमात्मभेदेनाऽऽत्मा द्विविधः स्वीकृतः। इत्थं च तत्र येनैव रूपेण सुखदुःखभोक्तृत्वं कर्मात्मनस्तेनैव रूपेण यदि परमात्मानः स्यात्तदा कर्मात्मत्वपरमात्मनः परिणामित्वमविद्यास्वभावत्वं च स्यात्। अथ न तस्य साक्षाद्भोक्तृत्वं किंतु तदुपढौकितमुदासीनतयाऽधिष्ठातृत्वेन स्वी करोति तदाऽस्मद्दर्शनानुप्रवेशः आनन्दरूपता च पूर्वमेव निराकृता।
किं चाविद्यास्वभावत्वे निःस्वभावत्वात्कर्मात्मनः कः शास्त्राधिकारी। न तावन्नित्यनिर्मुक्तत्वात्परमात्मा नापि अविद्यास्वभावत्वात्कर्मात्मा। ततश्च सकलशास्त्रवैयर्थ्यप्रसङ्ग। अविद्यामयत्वे च जगतोऽङ्गीक्रियमाणे कस्याविद्येति विचार्यते। न तावत्परमात्मनो नित्यमुक्तत्वाद्विद्यारूपत्वाच्च कर्मात्मनोऽपि परमार्थतो निःस्वभावतया शशविषाणप्रख्यत्वे कथमविद्यासंबन्धः अथोच्यते एतदेवाविद्याया अविद्यात्वं यदविचाररमणीयत्वं नाम। यैव हि विचारेण दिनकरस्पृष्टनीहारवद्विलयमुपयाति साऽविद्येत्युच्यते। मैवं यद्वस्तु किंचित्कार्यं करोति तदवश्यं कुतश्चिद्भिन्नमभिन्नं वा वक्तव्यम्। अविद्यायाश्च संसारलक्षणकार्यकर्तृत्वम् अवश्यमङ्गीकर्तव्यम्। तस्मिन्सत्यपि यद्यनिर्वाच्यत्वमुच्यते तदा कस्यचिदपि वाच्यत्वं न स्यात्। ब्रह्मणोऽप्यवाच्यत्वप्रसक्तिः। तस्मादधिष्ठातृतारूपव्यतिरेकेण नान्यदात्मनो रूपमुपपद्यते। अधिष्ठातृत्वं च चिद्रूपमेव तद्व्यतिरिक्तस्य धर्मस्य कस्यचित्प्रमाणानुपपत्तेः।
यैरपि नैयायिकादिभिरात्मा चेतनायोगाच्चेतन इत्युच्यते। चेतनाऽपि तस्य मनःसंयोगजा। तथाहि इच्छाज्ञानप्रयत्नादयो गुणास्तस्य व्यवहारदशायामात्ममनः संयोगादुत्पद्यन्ते। तैरेव च गुणैः स्वयं ज्ञाता कर्ता भोक्तेति व्यपदिश्यते। मोक्षदशायां तु मिथ्याज्ञाननिवृत्तौ तन्मूलानां दोषाणामपि निवृत्तेस्तेषां बुद्ध्यादीनां विशेषगुणानामत्यन्तोच्छित्तेः स्वरूपमात्रप्रतिष्ठत्वमात्मनोऽङ्गीकृतं तेषामयुक्तः पक्षः यतस्तस्यां दशायां नित्यत्वव्यापकत्वादयो गुणा आकाशादीनामपि सन्ति अतस्तद्वैलक्षण्येनाऽऽत्मनश्चिद्रूपत्वमवश्यमङ्गीकार्यम्। आत्मत्वलक्षणजातियोग इति चेत। न सर्वस्यैव हि तज्जातियोगः संभवति अतो जातिभ्यो वैलक्षण्यमात्मनोऽवश्यमङ्गीकर्तव्यम्। तच्चाधिष्ठातृत्वं तच्च चिद्रूपतयैव घटते नान्यथा।
यैरपि मीमांसकैः कर्मकर्तृरूप आत्माऽङ्गी क्रियते तेषामपि न युक्तः पक्षः। तथाहि अहंप्रत्ययग्राह्यः आत्मेति तेषां प्रतिज्ञा। अहंप्रत्यये च कर्तृत्वं कर्मत्वं चाऽऽत्मन एव। न चैतद्विरुद्धत्वादुपपद्यते। कर्तृत्वं प्रमातृत्वं कर्मत्वं च प्रमेयत्वम्। न चैतद्विरुद्धधर्माध्यासो युगपदेकस्य घटते। यद्विरुद्धधर्माध्यस्तं न तदेकं यथा भावाभावौ विरुद्धे च कर्तृत्वकर्मत्वे। अथोच्यते न कर्तृत्वमकर्मत्वयोर्विरोधः किंतु कर्तृत्वकरणतयोः। कैनेतदुक्तं विरुद्धधर्माध्यासस्य तुल्यत्वात्कर्तृत्वकरणत्वयोरेव विरोधो न कर्तृत्वकर्मत्वयोः इति। तस्मादहंप्रत्ययग्राह्यत्वं परिहृत्याऽऽत्मनोऽधिष्ठातृत्वमेवोपपन्नम् तच्च चेतनत्वमेव।
यैरपि द्रव्यबोधपर्यायभेदेनाऽऽत्मनोऽव्यापकस्य शरीरपरिमाणस्य परिणामित्वमिष्यते तेषामुत्थानपराहत एव पक्षः। परिणामित्वे चिद्रूपताहानिश्चिद्रूपताभावे किमात्मन आत्मत्वम्। तस्मादात्मन आत्मत्वमिच्छता चिद्रूपत्वमेवाङ्गीकर्तव्यम्। तच्चाधिष्ठातृत्वमेव।
केचित्कर्तृरूपमेवाऽऽत्मनमिच्छन्ति। तथा हि विषयसांनिध्ये या ज्ञानलक्षणा क्रिया समुत्पन्ना तस्या विषयसंवित्तिः फलं तस्यां च फलरूपायां संवित्तौ स्वरूपं प्रकाशरूपतया प्रतिभासते विषयश्च ग्राह्यतया आत्मा च ग्राहकतया घटमहं जानामीत्याकारेण तस्याः समुत्पत्तेः। क्रियायाश्च कारणं कर्तैव भवतीत्यतः कर्तृत्वं भोक्तृत्वं चाऽऽत्मनो रूपमिति। तदनुपपन्नं यस्मात्तासां संवित्तीनां स किं कर्तृत्वं युगपत्प्रतिपद्यते क्रमेण वा। युगपत्कर्तृत्वे क्षणान्तरे तस्य कर्तृत्वं न स्यात्। अथ क्रमेण कर्तृत्वं तदेकरूपस्य न घटते एकेन रूपेण चेत्तस्य कर्तृत्वं तदैकस्य रूपस्य सदैव संनिहितत्वात्सर्वं फलमेकरूपं स्यात्। अथ नानारूपतया तस्य कर्तृत्वं तदा परिणामित्वं परिणामित्वाच्च न चिद्रूपत्वम्। अतश्चिद्रूपत्वमेवाऽऽत्मन इच्छद्भिर्न साक्षात्कर्तृत्वमङ्गीकर्तव्यम्। यादृशमस्माभिः कर्तृत्वमात्मनः प्रतिपादितं कूटस्थस्य नित्यस्य चिद्रूपस्य तदेवोपपन्नम्।
एतेन स्वप्रकाशस्याऽऽत्मनो विषयसंवित्तिद्वारेण ग्राहकत्वमभिव्यजत इति ये वदन्ति तेऽपि अनेनैव निराकृताः।
केचिद्विमर्शात्मकत्वेनाऽऽत्मनश्चिन्मयत्वमिच्छन्ति। ते ह्याहुर्न विमर्शव्यतिरेकेण चिद्रूपत्वमात्मनो निरूपयितुं शक्यम् जड़ाद्वैलक्षण्यमेव चिद्रूपत्वमुच्यते तच्च विमर्शव्यतिरेकेण निरूप्यमाणं नान्यथाऽवतिष्ठते। तदनुपपन्नम्। इदमित्थमेवंरूपमिति यो विचारः स विमर्श इत्युच्यते। स चास्मिताव्यतिरेकेण नोत्थानमेव लभते। तथाहि आत्मन्युपजायमानो विमर्शोऽहमेवंभूत इत्यनेनाऽऽकारेण संवेद्यते। तताश्चाहं शब्द संभिन्नस्याऽऽत्मलक्षणस्यार्थस्य तत्र स्फुरणान्न विकल्परूपतातिक्रमः विकल्पश्चाध्यवसायात्मा बुद्धिधर्मो न चिद्धर्मः। कूटस्थनित्यत्वेन चितेः सदैकरूपत्वान्नाहंकारानुप्रवेशः। तदनेन सविमर्शत्वमात्मानः प्रतिपादयता बुद्धिरेवाऽऽत्मत्वेन भ्रान्त्या प्रतिपादिता न प्रकाशात्मनः परस्य पुरुषस्य स्वरूपमवगतमिति।
इत्थं सर्वेष्वपि दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदात्मनो रूपमुपपद्यते। अधिष्ठातृत्वं च चिद्रूपत्वम्। तच्च जड़ाद्वैलक्षण्यमेव। चिद्रूपतया यदधितिष्ठति तदेव भोग्यतां नयति। यच्च चेतनाधिष्ठितं तदेव सकलव्यापारयोग्यं भवति। एष च सति कृतकृत्यत्वात् प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यमस्माभिरुक्तं तद्विहाय दर्शनान्तराणामपि नान्या गतिः। तस्मादिदमेव युक्तमुक्तं वृत्तिसारूप्यपरिहारेण स्वरूपे प्रतिष्ठा चितिशक्तेः कैवल्यम्।
तदेव सिद्ध्यन्तरेभ्यो विलक्षणां सर्वसिद्धिमूलभूतां समाधिसिद्धिमभिधाय जात्यन्तरपरिणामलक्षणस्य च सिद्धिविशेषस्य प्रकृत्यापूरणमेव कारणमित्युपपाद्य धर्मादीनां प्रतिबन्धकनिवृत्तिमात्र एक सामर्थ्यमिति प्रदर्श्य निर्माणचित्तानामस्मितामात्रादुद्भव इत्युक्त्वा तेषां च योगिचित्तमेवाधिष्ठापकमिति प्रदर्श्य योगिचित्तस्य चित्तान्तरवैलक्षण्यमभिधाय तत्कर्मणामलौकिकत्वं चोपपाद्य विपाकानुगुणानां च वासनानामभिव्यक्तिसामर्थ्ये कार्यकारणयोश्चेक्यप्रतिपादनेन व्यवहितानामपि वासनानामानन्तर्यमुपपाद्य तासामानन्त्येऽपि हेतुफलादिद्वारेण हानमुपदर्श्यातीतादिष्वध्वसु धर्माणां सद्भावमुपपाद्य विज्ञानवादं निराकृत्य साकारवादं च प्रतिष्ठाप्य पुरुषष्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यवहारनिष्पत्तिमुपपाद्य पुरुषसत्त्वे प्रमाणमुपदर्श्य कैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनोऽर्थानभिधाय शास्त्रान्तरेऽप्येतदेव कैवल्यमित्युपपाद्य कैवल्यस्वरूपं निर्णीतमिति व्याकृतः कैवल्यपादः।