Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
    • Supreme Court Case Notes
    • Daily Digest
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
    • Systemic-and-systematic
    • Volume One
07/04/2026
  • Sanskrit Documents

GARUR PURANAM-गरुड पुराणं

advtanmoy 06/10/2019 5 minutes read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Hindu Rishi

Home » Law Library Updates » Law Library » Sanskrit Documents » GARUR PURANAM-गरुड पुराणं

अथ श्रीगरुडमहापुराणं प्रारभ्यते

तत्रादौ कर्मकाण्डाख्यः पूर्वखण्डः प्रारभ्यते

श्रीगरुडमहापुराणम् [GARUR PURANAM] १

ओं नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ म ॥
ओं अजमजरमनन्तं ज्ञानरूपं महान्तं शिवममलमनादिं भूतदेहादिहीनम्
सकलकरणहीनं सर्वभूतस्थितं तं हरिममलममायं सर्वगं वन्द एकम् ॥ १.१.१ ॥
नमस्यामि हरिं रुद्रं ब्रह्माणं च गणाधिपम्
देवीं सरस्वतीं चैव मनोवाक्कर्मभिः सदा ॥ १.१.२ ॥
सूतं पौराणिकं शान्तं सर्वशास्त्रविशारदम्
विष्णुभक्तं महात्मानं नैमिशारण्यमागतम् ॥ १.१.३ ॥
तीर्थयात्राप्रसङ्गेन उपविष्टं शुभासने
ध्यायन्तं विष्णुमनघं तमभ्यर्च्यास्तुवन्कविम् ॥ १.१.४ ॥
शौनकाद्या महाभागा नैमिषीयास्तपोधनाः
मुनयो रविसङ्काशाः शान्ता यज्ञ परायणाः ॥ १.१.५ ॥

Read Next

  • Prabodh Chandrodaya Natakam by Krishna Mishra (950 CE)
  •  Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1
  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1

ऋषय ऊचुः

सूत ! जानासि सर्वं त्वं पृच्छामस्त्वामतो वयम्
देवतानां हि को देव ईश्वरः पूज्य एव कः ॥ १.१.६ ॥
को ध्येयः को जगत्स्रष्टा जगत्पात्ति च हन्ति कः
कस्मात्प्रवर्तते धर्मो दुष्टहन्ता च कः स्मृतः ॥ १.१.७ ॥
तस्य देवस्य किं रूपं जगत्सर्गः कथं मतः
कैर्व्रतैः स तु तुष्टः स्यात्केन योगेन वाप्यते ॥ १.१.८ ॥
अवताराश्च के तस्य कथं वंशादिसम्भवः
वर्णाश्रमादिधर्माणां कः पाता कः प्रवर्तकः ॥ १.१.९ ॥
एतत्सर्वं तथान्यच्च ब्रूहि सूत ! महामते !
नारायणकथाः सर्वाः कथयास्माकमुत्तमाः ॥ १.१.१० ॥

सूत उवाच [SUTA SAID]

पुराणं गारुडं वक्ष्ये सारं विष्णुकथा श्रयम्
गरुडोक्तं कश्यपाय पुरा व्यासाच्छ्रुतं मया ॥ १.१.११ ॥
एको नारायणो देवो देवानामीश्वरेश्वरः
परमात्मा परं ब्रह्म जन्माद्यस्य यतो भवेत् ॥ १.१.१२ ॥
जगतो रक्षणार्थाय वासुदेवोऽजरोऽमरः
स कुमारादिरूपेण अवतारान्करोत्यजः ॥ १.१.१३ ॥
हरिः स प्रथमं देवः कौमारं सर्गमास्थितः
चचार दुश्चरं ब्रह्मन् ब्रह्मचर्यमखण्डितम् ॥ १.१.१४ ॥
द्वितीयं तु भवायास्य रसातलगतां महीम्
उद्धरिष्यन्नुपादत्ते यज्ञेशः सौकरं वपुः ॥ १.१.१५ ॥
तृतीयमृषिसर्गं तु देवर्षित्वमुपेत्य सः
तन्त्रं सात्वतमाचष्टे नैष्कर्म्यं कर्मणां यतः ॥ १.१.१६ ॥
नरनारायणो भूत्वा तुर्ये तेपे तपो हरिः
धर्मसं रक्षणार्थाय पूजितः स सुरासुरैः ॥ १.१.१७ ॥
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्
प्रोवाच सूरये साङ्ख्यं तत्त्वग्रामवि निर्णयम् ॥ १.१.१८ ॥
षष्ठमत्रेरपत्यत्वं दत्तः प्राप्तोऽनसूयया
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ १.१.१९ ॥
ततः सप्त आकूत्यां रुचेर्यज्ञोऽभ्यजायत
सुत्रामाद्यैः सुरगणैर्यष्ट्वा स्वायम्भुवान्तरे ॥ १.१.२० ॥
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः
दर्शयन्वर्त्म नारीणां सर्वाश्रमनमस्कृतम् ॥ १.१.२१ ॥
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः
दुग्धैर्महौषधैर्विप्रास्तेन संजीविताः प्रजाः ॥ १.१.२२ ॥
रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंप्लवे
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १.१.२३ ॥
सुरासुराणामुदधिं मथ्नतां मन्दराचलम्
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ १.१.२४ ॥
धान्वन्तरं द्वादशमं त्रयोदशममेव च
आप्यायत्सुरानन्यान्मोहिन्या मोहयंस्त्रिया ॥ १.१.२५ ॥
चतुर्दशं नारसिंहं चैत्य (वैर) दैत्येन्द्रमूर्जितम्
ददार करजैरुग्रैरेरकां कटकुद्यथा ॥ १.१.२६ ॥
पञ्चदशं वामनको भूत्वागादध्वरं बलेः
पाद त्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥ १.१.२७ ॥
अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान्
त्रिः सप्तकृत्वः कुपितो निः क्षत्त्रामकरोन्महीम् ॥ १.१.२८ ॥
ततः सप्तदशे जातः सत्यवत्यां पराशरात्
चक्रे वेदतरोः शाखां दृष्ट्वा पुंसोऽल्पमेधसः ॥ १.१.२९ ॥
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया
समुद्रनिग्रहादीनि चक्रे कार्याण्यतः परम् ॥ १.१.३० ॥
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी
रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ १.१.३१ ॥
ततः कलेस्तु सन्ध्यान्ते संमोहाय सुरद्विषाम्
बुद्धो नाम्रा जिनसुतः कीकटेषु भविष्यति ॥ १.१.३२ ॥
अथ सोऽष्टमसन्ध्यायां नष्टप्रायेषु राञ्जसु
भविता विष्णुयशसो नाम्ना कल्की जगत्पतिः ॥ १.१.३३ ॥
अवतारा ह्यसंख्येया हरेः सत्त्वनिधेर्द्विजाः
मनुवेदविदो ह्याद्याः सर्वे विष्णुकलाः स्मृताः ॥ १.१.३४ ॥
तस्मात्सर्गादयो जाताः संपूज्याश्च व्रतादिना
पुराणं गारुडं व्यासः पुरासौ मेऽब्रवीदिदम् ॥ १.१.३५ ॥

Read Next

  • Prabodh Chandrodaya Natakam by Krishna Mishra (950 CE)
  •  Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1
  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये कर्मकाण्डे एतत्पुराणप्रवृत्तिहेतुनिरूपणं नाम प्रथमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २

ऋषय ऊचुः

Read Next

  • Prabodh Chandrodaya Natakam by Krishna Mishra (950 CE)
  •  Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1
  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1

कथं व्यासेन कथितं पुराणं गारुडं तव
एतत्सर्वं समाख्याहि परं विष्णुकथाश्रयम् ॥ १.२.१ ॥

सूत उवाच [SUTA SAID]
अहं हि मुनिभिः सार्धं गतो बदरिकाश्रमम्
तत्र दृष्टो मया व्यासो ध्यायमानः परेश्वरम् ॥ १.२.२ ॥
तं प्रणम्योपविष्टोऽहं पृष्टवान्हि मुनीश्वरम्

सूत उवाच [SUTA SAID]
व्यास ब्रूहि हरे रूपं जगत्सर्गादिकं ततः ॥ १.२.३ ॥
मन्ये ध्यायसि तं यस्मात्तस्माज्जानासि तं विभुम्
एवं पृष्टो यथा प्राह तथा विप्रा?निबोधत ॥ १.२.४ ॥

व्यास उवाच
शृणु सूत ! प्रवक्ष्यामि पुराणं गारुडं तव
सह नारददक्षाद्यैर्ब्रह्मा मामुक्तवान्यथा ॥ १.२.५ ॥

सूत उवाच [SUTA SAID]
दक्षनारदमुख्यैस्तु युक्तं त्वां कथमुक्तवान्
ब्रह्मा श्रीगारुडं पुण्यं पुराणं सारवाचकम् ॥ १.२.६ ॥

व्यास उवाच
अहं हि नारदो दक्षो भृग्वाद्याः प्रणिपत्य तम्
सारं ब्रूहीति पप्रच्छुर्ब्रह्माणं ब्रह्मलोकगम् ॥ १.२.७ ॥

ब्रह्मोवाच
पुराणं गारुडं सारं रुद्रं च मां यथा
सुरैः सहाब्रवीद्विष्णुस्तथाहं व्यास वच्मिते ॥ १.२.८ ॥

व्यास उवाच
कथं रुद्रं सुरैः सार्धमब्रवीद्वै हरिः पुरा
पुराणं गारुडं सारं ब्रूहि ब्रह्मन्महार्थकम् ॥ १.२.९ ॥

ब्रह्मोवाच
अहं गतोऽद्रिं कैलासमिन्द्राद्यैर्दैवतैः सह
तत्र दृष्टो मया रुद्रो ध्यायमानः परं पदम् ॥ १.२.१० ॥
पृष्टो नमस्कृतः किं त्वं देवं ध्यायसि शङ्कर?
त्वत्तो नान्यं परं देवं जानामि ब्रूहि मां ततः ॥ १.२.११ ॥
सारात्सारतरं तत्त्वं श्रोतुकामः सुरैः सह
रुद्रौवाच
अहं ध्यायामि तं विष्णुं परमात्मानमीश्वरम् ॥ १.२.१२ ॥
सर्वदं सर्वगं सर्वं सर्वप्राणिहृदिस्थितम्
भस्मोद्धूलितदेहस्तु जटामण्डलमण्डितः ॥ १.२.१३ ॥
विष्णोराराधनार्थं मे व्रतचर्या पितामह
तमेव गत्वा पृच्छामः सारं यं चिन्तयाम्यहम् ॥ १.२.१४ ॥
विष्णुं जिष्णुं पद्मनाभं हरिं देहविवर्जितम्
शुचिं शुचिषदं हंसं तत्पदं परमेश्वरम् ॥ १.२.१५ ॥
युक्ता सर्वात्मनात्मानं तं देवं चिन्तयाम्यहम्
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ॥ १.२.१६ ॥
गुणभूतानि भूतेशे सूत्रे मणिगणा इव
सहस्राक्षं सहस्राङ्घ्रिं सहस्रोरुं वराननम् ॥ १.२.१७ ॥
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम्
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥ १.२.१८ ॥
यं वाक्येष्वनुवाक्येषु निषत्सूपनिषत्सु च
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥ १.२.१९ ॥
पुराण पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो द्विजातिषु
क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥ १.२.२० ॥
यस्मिंल्लोकाः स्फुरन्तीमे जले शकुनयो यथा
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ १.२.२१ ॥
अर्चयन्ति च यं देवा यक्षराक्षसपन्नगाः
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ॥ १.२.२२ ॥
चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम्
यस्य त्रिलोकी जठरे मस्य काष्ठाश्च बाहवः ॥ १.२.२३ ॥
यस्योच्छ्वासश्च पवनः तं देवं चिन्तयाम्यहम्
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ॥ १.२.२४ ॥
कुक्षौ समुद्राश्चत्वारस्तं देवं चिन्तयाम्यहम्
परः कालात्परो यज्ञात्परः सदसतश्चयः ॥ १.२.२५ ॥
अनादिरादि र्विश्वस्य तं देवं चिन्तयाम्यहम्
मनसश्चन्द्रमा यस्य चक्षुषोश्च दिवाकरः ॥ १.२.२६ ॥
मुखादग्निश्च संजज्ञे तं देवं चिन्तयाम्यहम्
पद्य्भां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः ॥ १.२.२७ ॥
मूर्धभागाद्दिवं यस्य तं देवं चिन्तयाम्यहम्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥ १.२.२८ ॥
वंशानुचरितं यस्मात्तं देवं चिन्तयाम्यहम्
यं ध्यायाम्यहमेतस्मादूजामः सारमीक्षितुम् ॥ १.२.२९ ॥
ब्रह्मोवाच
इत्युक्तोऽहं पुरा रुद्रः श्वेतद्वीपनिवासिनम्
स्तुत्वा प्रणम्य तं विष्णुं श्रोतुकाम स्थितः सुरैः ॥ १.२.३० ॥
अस्माकं मध्यतो रुद्र उवाच परमेश्वरम्
सारान्त्सारतरं विष्णुं पृष्टवांस्तं प्रणम्य वै ॥ १.२.३१ ॥
ब्रह्मोवाच
यथा पप्रच्छ मां व्यास स्तथासौ भगवान् भवः
पप्रच्छ विष्णुं देवाद्यैः शृण्वताममरैः सह ॥ १.२.३२ ॥
रुद्र उवाच
हरे कथय देवेश ! देवदेवः क ईश्वरः
को ध्येयः कश्च वै पूज्यः कैर्व्रतै स्तुष्यते परः ॥ १.२.३३ ॥
कैर्धर्मैः कैश्च नियमैः कया वा धर्मपूजया
केनाचारेण तुष्टः स्यात्किं तद्रूपं च तस्य वै ॥ १.२.३४ ॥
कस्माद्देवाज्जगज्जातं जगत्पालयते चकः
कीदृशैरवतारैश्च कस्मिन्याति लयं जगत् ॥ १.२.३५ ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च
कस्माद्देवात्प्रवर्तन्ते कस्मिमन्नेतत्प्रतिष्ठितम् ॥ १.२.३६ ॥
एतत्सर्वं हरे ! ब्रूहि यच्चान्यदपि किञ्चन
परमेश्वरमाहात्म्यं युक्तयोगादिकं तथा ॥ १.२.३७ ॥
तथाष्टादश विद्याश्च हरी रुद्रं ततोऽब्रवीत्
हरिरुवाच
शृणु रुद्र ! प्रवक्ष्यामि ब्रह्मणा च सुरैः सह ॥ १.२.३८ ॥
अहं हि देवो देवानां सर्वलोकेश्वरेश्वरः
अहं ध्येयश्च पूज्यश्च स्तुत्योहं स्ततिभिः सुरैः ॥ १.२.३९ ॥
अहं हि पूजितो रुद्र ! ददामि परमां गतिम्
नियमैश्च व्रतैस्तुष्ट आचारेण च मानवैः ॥ १.२.४० ॥
जगत्स्थितेरहं बीजं जगत्कर्ता त्वहं शिव !
दुष्टनिग्रहकर्ता हि धर्मगोप्ता त्वहं हर ! ॥ १.२.४१ ॥
अवतारैश्च मत्स्याद्यैः पालयाम्यखिलं जगत्
अहं मन्त्राश्च मन्त्रार्थः पूजाध्यानपरो ह्यहम् ॥ १.२.४२ ॥
स्वर्गादीनां च कर्ताहं स्वर्गादीन्यहमेव च
योगी योगोहमेवाद्यः पुराणान्यहमेवच ॥ १.२.४३ ॥
ज्ञाता श्रोता तथा मन्ता वक्ता वक्तव्यमेव च
सर्वः सर्वात्मको देवो भुक्तिमुक्तिकरः परः ॥ १.२.४४ ॥
ध्यानं पूजोपहारोऽहं मण्डलान्यहमेव च
इतिहासान्यहं रुद्र ! सर्ववेदा ह्यहं शिव ! ॥ १.२.४५ ॥
सर्वज्ञानान्यहं शम्भो ! ब्रह्मात्माहमहं शिव !
अहं ब्रह्मा सर्वलोकः सर्वदेवात्मको ह्यहम् ॥ १.२.४६ ॥
अहं साक्षात्सदाचारो धर्मोऽहं वैष्णवो ह्यहम्
वर्णाश्रमास्तथा चाहं तद्धर्मोऽहं पुरातनः ॥ १.२.४७ ॥
यमोऽहं नियमो रुद्र ! व्रतानि विविधानि च
अहं सूर्यस्तथा चन्द्रो मङ्गलादीन्यहं तथा ॥ १.२.४८ ॥
पुरा मां गरुडः पक्षी तपसाराधयद्भुवि
तुष्ट ऊचे वरं ब्रूहि मत्तो वव्रे वरं स तु ॥ १.२.४९ ॥
गरुड उवाच
मम माता च विनता नागैर्दासीकृता हरे
यथाहं देव ताञ्जित्वा चामृतं ह्यानयामि तत् ॥ १.२.५० ॥
दास्याद्विमोक्षयिष्यामि यथाहं वाहनस्तव
महाबलो महावीर्यः सर्वज्ञो नागदारणः ॥ १.२.५१ ॥
पुराणसंहिताकर्ता यथाहं स्यां तथा कुरुं

विष्णुरुवाच [VISHNU SAID]

यथा त्वयोक्तं गरुड तथा सर्वं भविष्यति ॥ १.२.५२ ॥
नागदास्यान्मातरं त्वं विनतां मोक्षयिष्यसि
देवादीन्सकलाञ्जित्वा चामृतं ह्यानयिष्यसि ॥ १.२.५३ ॥
महाबलो वाहनस्त्वं भविष्यसि विषार्दनः
पुराणं मत्प्रसादाच्च मम माहात्म्यवाचकम् ॥ १.२.५४ ॥
यदुक्तं मत्स्वरूपं च तव चाविर्भविष्यति
गारुडं तव नाम्ना तल्लोके ख्यातिं गमिष्यति ॥ १.२.५५ ॥
यथाहं देवदेवानां श्रीः ख्यातो विनतासुत
तथा ख्यातिं पुराणेषु गारुडं गारुडैष्यति ॥ १.२.५६ ॥
यथाहं कीर्तनीयोऽथ तथा त्वं गरुडात्मना
मां ध्यात्वा पक्षिमुख्येदं पुराणं गद गारुडम् ॥ १.२.५७ ॥
इत्युक्तो गरुडो रुद्र ! कश्यपायाह पृच्छते
कश्यपो गारुडं श्रुत्वा वृक्षं दग्धमजीवयत् ॥ १.२.५८ ॥
स्वयं चान्यमना भूत्वा विद्ययान्यान्य जीवयत्
यक्षि ओंुंस्वाहाजापी विद्ययं गारुडी परा
गरुडोक्तं गारुडं हि शृणु रुद्र ! मदात्मकम् ॥ १.२.५९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगरुडमहापुराणोत्पत्तिनिरूपणं नाम द्वितीयोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ३

सूत उवाच [SUTA SAID]

इति रुद्राब्जजो विष्णोः शुश्राव ब्रह्मणो मुनिः
व्यासो व्यासादहं वक्ष्येहं ते शौनक नैमिषे ॥ १.३.१ ॥
मुनीनां शृण्वतां मध्ये सर्गाद्यं देवपूजनम्
तीर्थं भुवनकोशं च मन्वन्तरमिहोच्यते ॥ १.३.२ ॥
वर्णाश्रमादिधर्माश्च दानराजादिधर्मकाः
व्यवहारो व्रतं वंशा वैद्यकं सनिदानकम् ॥ १.३.३ ॥
अङ्गानि प्रलयो धर्मकामार्थज्ञानमुत्तमम्
सप्रपञ्चं निष्प्रपञ्चं कृतं विष्णोर्निगद्यते ॥ १.३.४ ॥
पुराणे गारुडे सर्वं गरुडो भगवानथ
वासुदेवप्रसादेन सामर्थ्यातिशयैर्युतः ॥ १.३.५ ॥
भुत्वा हरेर्वाहनं च सर्गादीनां च कारणम्
देवान्विजित्य गरुडो ह्यमृताहरणं तथा ॥ १.३.६ ॥
चक्रे क्षुधा हृतं यस्य ब्रह्माण्डमुदरे हरेः
यं दृष्ट्वा स्मृतमात्रेण नागान्दीनां च संक्षयः ॥ १.३.७ ॥
कश्यपो गारुडाद्वृक्षं दग्धं चाजीवयद्यतः
गरुडः स हरिस्तेन प्रोक्तं श्रीकश्यपाय च ॥ १.३.८ ॥
तच्छ्रीमद्रारुडं पुण्यं सर्वदं पठतस्तव
वक्ष्ये व्यासं नमस्कृत्य शृणु शौनक तद्यथा ॥ १.३.९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषयनिरूपणं नाम तृतीयोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ४
रुद्र उवाच
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च
वंशानुचरितं चैव एतद्ब्रूहि जनार्दन ॥ १.४.१ ॥
हरिरुवाच
शृणु रुद्र प्रवक्ष्यामि सर्गादीन्पापनाशनाम्
सर्गस्थितिलयान्तां तां विष्णोः क्रीडां पुरातनीम् ॥ १.४.२ ॥
नरनारायणो देवो वासुदेवो निरञ्जनः
परमात्मा परं ब्रह्म जगज्जनिलयादिकृत् ॥ १.४.३ ॥
तदेतत्सर्वमेवैतव्द्यक्ताव्यक्तस्वरूपवत्
तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥ १.४.४ ॥
व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल एव च
क्रीडतो बालकस्येव चेष्टास्तस्य निशामय ॥ १.४.५ ॥
अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः
तस्माद्भवति चाव्यक्तं तस्मादात्मापि जायते ॥ १.४.६ ॥
तस्माहुद्धिर्मनस्तस्मात्ततः खं पवन स्ततः
तस्मात्तेजस्ततस्त्वापस्ततो भूमिस्ततोऽभवत् ॥ १.४.७ ॥
अण्डो हिरण्मयो रुद्र तस्यान्तः स्वयमेव हि
शरीरग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ॥ १.४.८ ॥
ब्रह्मा चतुर्मुखो भूत्वा रजोमात्राधिकः सदा
शरीरग्रहणं कृत्वासृजदेतच्चराचरम् ॥ १.४.९ ॥
अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम्
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ॥ १.४.१० ॥
अपसंह्रियते चान्ते संहर्ता च स्वयं हर
ब्रह्मा भूत्वासृजद्विष्णुर्जगत्पाति हरिः स्वयम् ॥ १.४.११ ॥
रुद्ररूपी च कल्पान्ते जगत्संहरतेऽखिलम्
ब्रह्मा तु सृष्टिकालेऽस्मिञ्जमध्यगतां महीम् ॥ १.४.१२ ॥
दंष्टूयोद्धरति ज्ञात्वा वारहीमास्थितस्तनूम्
देवादिसर्गान्वक्ष्येऽहं संक्षेपाच्छृणु शङ्कर ! ॥ १.४.१३ ॥
(१)प्रथमो महतः सर्गो विरूपो ब्रह्मणस्तु सः
(२) नन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥ १.४.१४ ॥
(३)वैकारिकस्तृतीयस्तु सर्गस्त्वैन्द्रियकः स्मृतः
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ॥ १.४.१५ ॥
(४)मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः
(५)तिर्यक्स्रोतास्तु यः प्रोक्तस्तिर्यग्योन्यः स उच्यते ॥ १.४.१६ ॥
(६) तदूर्ध्वस्तोतसां षष्ठो देवसर्गस्तु स स्मृतः
(७) ततोर्ऽवाक्स्रोतसां सर्गः सप्तमः स तु मा नुषः ॥ १.४.१७ ॥
(८)अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ॥ १.४.१८ ॥
प्राकृतो वैकृतश्चापि (९) कौमारो नवमः स्मृतः
स्थावरान्ताः सुराद्यास्तु प्रजा रुद्र ! चतुर्विधाः ॥ १.४.१९ ॥
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसाः सुताः
ततो देवासुरपितॄन्मानुषांश्च चतुष्टयम् ॥ १.४.२० ॥
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत्
व्यक्तात्मनस्तमोमात्रादुद्रिक्तास्तत्प्रजापतेः ॥ १.४.२१ ॥
सिसृक्षेर्जघनात्पूर्वमसुरा जज्ञिरे ततः
उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनूम् ॥ १.४.२२ ॥
तमोमात्रा तनुस्त्यक्ता शङ्कराभूद्विभावरी
यक्षोपक्षांसि तद्देहे प्रीतिमापुस्ततः सुराः ॥ १.४.२३ ॥
सत्त्वोद्रिक्तास्तु मुखतः संभूता ब्रह्मणो हर !
सत्त्वप्राया तनुस्तेन सन्त्यक्ता साप्यभूद्दिनम् ॥ १.४.२४ ॥
ततो हि बलिनो रात्रावसुरा देवता दिवा
सत्त्वमात्रां तनुं गृह्य पितरश्च ततोऽभवन् ॥ १.४.२५ ॥
सा चोत्सृष्टाभवत्सन्ध्या दिननक्तान्तरस्थितिः
रजोमात्रां तनुं गृह्य मनुष्यास्त्वभवंस्ततः ॥ १.४.२६ ॥
सा त्यक्ता चाभवज्ज्योत्स्ना प्राक्सन्ध्या याभिधीयते
ज्योत्स्ना रात्र्यहनी सन्ध्या शरीराणि तु तस्य वै ॥ १.४.२७ ॥
रजोमात्रां तनु गृह्य क्षुदभूत्कोप एव च
क्षुत्तृट्क्षामा अमृग्भक्षा राक्षसा रक्षणाच्च ये ॥ १.४.२८ ॥
यक्षाख्या जक्षणाज्ज्ञेयाः सर्पा वै केशसर्पणात्
जाताः कोपेन भूतास्ते गन्धर्वा जज्ञिरे ततः ॥ १.४.२९ ॥
गायन्तो जज्ञिरे वाचं गन्धर्वाप्सरसश्च ये
स्वर्गं द्यौर्वक्षसश्चक्रे सुखतोऽजाः स मुष्टवान् ॥ १.४.३० ॥
सृष्टवानुदराद्राश्च पार्श्वाभ्यां च प्रजापतिः
पद्य्भां चैवान्त्यमातङ्गान्महिषोष्ट्राविकांस्तथा ॥ १.४.३१ ॥
ओपध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे
गौरजः पुरुषो मेध्यो ह्यश्वाश्वतरगर्दभाः ॥ १.४.३२ ॥
एतान् ग्राम्यान्पशून्प्राहुरारण्यांश्च निबोध मे
श्वापदं द्विखुरं हस्तिवानराः पक्षिपञ्चमाः ॥ १.४.३३ ॥
औदकाः पशवः षष्ठाः सप्तमाश्च सरीसृपाः
पूर्वादिभ्यो मुखेभ्यस्तु ऋग्वेदाद्याः प्रजज्ञिरे ॥ १.४.३४ ॥
आस्याद्वै ब्राह्मणा जाता बाहुभ्यां क्षत्त्रियाः स्मृताः
ऊरुभ्यां तु विशः सृष्टाः शूद्रः पद्य्भाम जायत ॥ १.४.३५ ॥
ब्रह्मलोको ब्राह्मणानां शाक्रः क्षत्त्रियजन्मनाम्
मारुतं च विशां स्थानं गान्धर्वं शूद्रजन्मनाम् ॥ १.४.३६ ॥
ब्रह्मचारिव्रतस्थानां ब्रह्मलोकः प्रजायते
प्राजापत्यं गृहस्थानां यथाविहितकारिणाम् ॥ १.४.३७ ॥
स्थानं सप्तऋषीणां च तथैव वनवासिनाम्
यतीनामक्षयं स्थानं यदृच्छागामिनां सदा ॥ १.४.३८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सृष्टिवर्णनं नाम चतुर्थोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ५
इरिरुवाच
कृत्वेहामुत्रसंस्थानं प्रजासर्गं तु मानसम्
अथामृजत्प्रजाकर्तॄन्भानसांस्तनयान्प्रभुः ॥ १.५.१ ॥
धर्मं रुद्रं मनुं चैव सनकं च सनातनम्
भृगुं सनत्कुमारं च रुचिं श्रद्धां तथैव च ॥ १.५.२ ॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्
वसिष्ठं नारदं चैव पितॄन्बर्हिषदस्तथा ॥ १.५.३ ॥
अग्निष्वात्तांश्च कव्यादानाज्यपांश्च सुकालिनः
उपहूतांस्तथा दीप्यां (प्रा) स्त्रींश्च मूर्तिविवर्जितान् ॥ १.५.४ ॥
चतुरो मूर्तियुक्तांश्च अङ्गुष्ठाद्दक्षमीश्वरम्
वामां गुष्ठात्तस्य भार्यामसृजत्पद्मसम्भवः ॥ १.५.५ ॥
तस्यां तु जनयामास दक्षो दुहितरः शुभाः
ददौ ता ब्रह्मपुत्रेभ्यः सतीं रुद्राय दत्तवान् ॥ १.५.६ ॥
रुद्र पुत्रा बभूवुर्हि असंख्याता महाबलाः
भृगवे च ददौ ख्यातिं रूपेणाप्रतिमां शुभाम् ॥ १.५.७ ॥
भृगोर्धाताविधातारौ जनयामास सा शुभा
श्रियं च जनयामास पत्नी नारायणस्य या ॥ १.५.८ ॥
तस्यां वै जनयामास बलोन्मादौ हरिः स्वयम्
आयतिर्नियतिश्चैव मनोः कन्ये महात्मनः ॥ १.५.९ ॥
धाताविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः ॥ १.५.१० ॥
पत्नि मरीचेः सम्भूतिः पौर्णमासमसूयत
विरजाः सर्वगश्चैव तस्य पुत्रौ महात्मनः ॥ १.५.११ ॥
स्मृतेश्चांङ्गिरसः पुत्राः प्रसूताः कन्यकास्तथा
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥ १.५.१२ ॥
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान्
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥ १.५.१३ ॥
प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोऽभवत्
कर्ंमशश्चार्थवीरश्च सहिष्णुश्च सुतत्रयम् ॥ १.५.१४ ॥
क्षमा तु सुषुवे भार्या पुलहस्य प्रिजापतेः
क्रतोश्च सुमतिर्भार्या बालखिल्यानसूयत ॥ १.५.१५ ॥
षष्टिर्यानि सहस्राणि ऋषीणामूर्धरेतसाम्
अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करवर्चसाम् ॥ १.५.१६ ॥
ऊर्जायां तु वसिष्टस्य सप्ताजायन्त वै सुताः
रजोगात्रोर्धबाहुश्च शरणश्चानघस्तथा ॥ १.५.१७ ॥
सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमलाः
स्वाहां प्रादात्स दक्षोऽपि शशरीराय वह्नये ॥ १.५.१८ ॥
तस्मात्स्वाहा सुतांल्लेभे त्रीनुदारौजसो हर !
फावकं पवमानं च शुचिं चापि जलाशिनः ॥ १.५.१९ ॥
पितृभ्यश्च स्वधा जज्ञे मेनां वैतरणीं तथा
ते उभे ब्रह्मवादिन्यौ मेनायां तु हिमाचलः ॥ १.५.२० ॥
मैनाकं जनयामास गौरीं पूर्वं तु या सती
ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायंभुवं प्रभुः ॥ १.५.२१ ॥
आत्मानमेव कृतवान्प्रजापाल्यं मनुं हर !
शतरूपां च तां नारीं तपोनिहतकल्मषाम् ॥ १.५.२२ ॥
स्वायम्भुवो मनुर्देवः पत्नित्वे जगृहे विभुः
तस्माच्च पुरुषाद्देवी शतरूपा व्यजायत ॥ १.५.२३ ॥
प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञेते
देवहूतिं मनुस्तासु आकूतिं रुचये ददौ ॥ १.५.२४ ॥
प्रसूतिं चैव दक्षाय दवहूतिं च कर्दमे
रुचेर्यज्ञो दक्षिणाभूद्दक्षिणायां च यज्ञतः ॥ १.५.२५ ॥
अभवन्द्वादश सुता यामा नाम महाबलाः
चतुर्वोशतिकन्याश्च सृष्टवान्दक्ष उत्तमाः ॥ १.५.२६ ॥
श्रद्धा चला धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा
बुद्धिर्लज्जा वपुः शान्तिरृद्धिः कीर्तिस्त्नयोदशी ॥ १.५.२७ ॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीप्रभुः
ख्यतिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ १.५.२८ ॥
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा
भृघुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ॥ १.५.२९ ॥
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा
आत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ॥ १.५.३० ॥
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् ॥ १.५.३१ ॥
सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत
मेधा श्रुतं क्रिया दण्डं लयं विनयमेव च ॥ १.५.३२ ॥
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम्
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥ १.५.३३ ॥
सुखमृद्धिर्यशः कीर्तिरित्येते धर्मसूनवः
कामस्य च रतिर्भार्या तत्पुत्रो हर्ष उच्यते ॥ १.५.३४ ॥
ईजे कदाचिद्यज्ञेन हयमेधेन दक्षकः
तस्य जामातरः सर्वे यज्ञं जग्मुर्निमन्त्रिताः ॥ १.५.३५ ॥
भार्यभिः सहिताः सर्वे रुद्रं देवीं सतीं विना
अनाहूता सती प्राप्ता दक्षेणैवावमानिता ॥ १.५.३६ ॥
त्यक्ता देहं पुनर्जाता मेनायां तु हिमालयात्
शम्भोर्भार्याभवद्रौरी तस्यां जज्ञे विनायकः ॥ १.५.३७ ॥
कुमारश्चैव भृङ्गीशः क्रुद्धो रुद्रः प्रतापवान्
विध्वंस्य यज्ञं दक्षं तु तं शशाप पिनाकधृक्
ध्रुवस्यान्वयसम्भूतो मनुष्यस्त्वं भविष्यसि ॥ १.५.३८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रजाकर्त्रादिसृष्टिर्नाम पञ्चमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ६
हरिरुवाच
उत्तानपादादभवत्सुरुच्यामुत्तमः सुतः
सुनीत्यां तु ध्रुवः पुत्रः स लेभे स्थानमुत्तमम् ॥ १.६.१ ॥
मुनिप्रसादादाराध्य देवदेवं जनार्दनम्
ध्रुवस्य तनयः श्लिष्टिर्महाबलपराक्रमः ॥ १.६.२ ॥
तस्य प्राचीनवर्हिस्तु पुत्रस्तस्याप्युदारधीः
दिवञ्जयस्तस्य सुतस्तस्य पुत्रो रिपुः स्मृतः ॥ १.६.३ ॥
रिपोः पुत्रस्तथा श्रीमांश्चाक्षुषः कीर्तितो मनुः
रुरुस्तस्य सुतः श्रीमानङ्गस्तस्यापि चात्मजः ॥ १.६.४ ॥
अङ्गस्य वेणः पुत्रस्तु नास्तिको धर्मवर्जितः
अधर्ंमकारी वेण(न) श्च मुनिभिश्च कुशैर्हतः ॥ १.६.५ ॥
ऊरुं ममन्थुः पुत्रार्थे ततोऽस्य तनयोऽभवत्
ह्रस्वोऽतिमात्रः कृष्णाङ्गो निषीदेति ततोऽब्रुवन् ॥ १.६.६ ॥
निषादस्तेन वै जातो बिन्ध्यशैलनिवासकः
ततोऽस्य दक्षिणं पाणिं ममन्थुः सहसा द्विजाः ॥ १.६.७ ॥
तस्मात्तस्य सुतो जातो विष्णोर्मानसरूपधृक्
पुथुरित्येवनामा स वेणपुत्रो दिवं ययौ ॥ १.६.८ ॥
दुदोह पृथिवीं राजा प्रजानां जीवनाय हि
अन्तर्धानः पृथोः पुत्रो तहविर्धानस्तदात्मजः ॥ १.६.९ ॥
प्राचीनवहर्स्तेत्पुत्रः पृथिव्यामेकराड्बभौ
उपयेमे समुद्रस्य लवणस्य स वै सुताम् ॥ १.६.१० ॥
तस्मात्सुषाव सामुद्री दश प्राचीनबर्हिषः
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥ १.६.११ ॥
अपृथगधर्ंमचरणास्तेऽतप्यन्त महत्तपः
दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥ १.६.१२ ॥
प्रजापतित्वं संप्राप्य भार्या तेषां च मारिष
अभवद्धवशापेन तस्यां दक्षोऽभवत्ततः ॥ १.६.१३ ॥
असृजन्मनसा दक्षः प्रजाः पूर्वं चतुर्वोधाः
नावर्धन्त च तास्तस्य अपध्याता हरेण तु ॥ १.६.१४ ॥
मैथुनेन ततः सृष्टिं कर्तुमैच्छत्प्रजापतिः
असिक्रीमावहद्भार्यां वीरणस्य प्रजापतेः ॥ १.६.१५ ॥
तस्य पुत्रसहस्रं तु वैरण्यां समपद्यत
नारदोक्ता भुवश्चान्तं गता ज्ञातुं च नागताः ॥ १.६.१६ ॥
दक्षपुत्रसहस्रं च तेषु नष्टेषु सृष्टवान्
शवलाश्वास्तेऽपि गता भ्रातॄणां पदवीं हर ! ॥ १.६.१७ ॥
दक्षः क्रुद्धः शशापाथ नारदं जन्म चाप्स्यसि
नारदो ह्यभवत्पुत्रः कश्यपस्य मुनेः पुनः ॥ १.६.१८ ॥
यज्ञे ध्वस्तेऽथ दक्षोऽपि शशाप्रोग्रं महेश्वरम्
स्तुत्वात्वामुपचारैश्च पूजयिष्यन्ति शङ्कर ॥ १.६.१९ ॥
जन्मान्तरेऽपि वैरेण ते विनश्यन्ति शङ्कर !
तस्माद्वैरं न कर्तव्यं कदाचिदपि केनचित्
असिक्न्यां (महिष्यां) जनयामास दक्षो दुहितरो ह्यथ ॥ १.६.२० ॥
षष्टिं कन्या रूपयुता द्वे चैवाङ्गिरसे ददौ
द्वे प्रादात्स कृशाश्वाय दश धर्ंमाय चाप्यथ ॥ १.६.२१ ॥
चतुर्दश कश्यपाय अष्टाविंशातिमिन्दवे
प्रददौ बहुपुत्राय सुप्रभां भामिनीं तथा ॥ १.६.२२ ॥
मनोरमां भानुमतीं विशालां बहुदामथ
दक्षः प्रादान्महादेव ! चतस्रोऽरिष्टनेमये (ने) ॥ १.६.२३ ॥
स कृशाश्वाय च प्रादात्सुप्रजां च तथा जयाम्
अरुन्धती वसुर्यार्(जा) मी लम्बा भानुर्मरुद्वती ॥ १.६.२४ ॥
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च ता दश
धर्ंमपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम् ॥ १.६.२५ ॥
अदितिर्दितिर्दनुः काला ह्यनायुः सिंहिका मुनिः
कद्रूः साध्या हरा क्रोधा विनता सुरभिः खगा ॥ १.६.२६ ॥
विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ॥ १.६.२७ ॥
भानोस्तु भानवो रुद्र ! मुहूर्ताच्च मुहूर्तजाः
लम्बायाश्चैव घोषोऽथ नागवीथिस्तु या (जा) मितः ॥ १.६.२८ ॥
पृथिवीविषयं सर्वमरुत्वत्यां व्यजायत
सङ्कल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ॥ १.६.२९ ॥
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ १.६.३० ॥
आपस्य पुत्रो वेतुण्डिः (ण्डः) श्रमः श्रान्तो ध्वनिस्तथा
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ १.६.३१ ॥
सोमस्य भगवान्वर्चा वर्चस्वी येन जायते
धरस्य पुत्रो द्रुहिणो हुतहव्यवहस्तथा ॥ १.६.३२ ॥
मनोहरायां शिशिरः प्राणोऽथ रमणस्तथा
अनिलस्य शिवा भार्या तस्याः पुत्रः पुलोमजः ॥ १.६.३३ ॥
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत् ॥ १.६.३४ ॥
तस्य शाखो विशाखश्च नैगमेयश्च पृष्टजः
अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ॥ १.६.३५ ॥
प्रत्युषस्य विदुः पुत्रमृषिं नाम्ना तु देवलम्
विश्वकर्ंमा प्रभासस्य विख्यातो देववर्धकिः ॥ १.६.३६ ॥
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान्
त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ॥ १.६.३७ ॥
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः
वृषाकपिश्च शम्भुश्च कपर्दे रैवतस्तथा ॥ १.६.३८ ॥
मृगव्याधश्च शर्वश्च कपाली च महामुने !
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ १.६.३९ ॥
अदित्यां कश्यपाच्चैव सूर्या द्वादश जज्ञिरे
विष्णुः शक्रोर्ऽय्यमा धाता त्वष्टा पूषा तथैव च ॥ १.६.४० ॥
विवस्वान्सविता चैव मित्रो वरुण एव च
अशुमांश्च भगश्चैव आदित्या द्वादश स्मृताः ॥ १.६.४१ ॥
सप्तविंशतिः सोमस्य पत्न्यो नक्षत्रसंज्ञिताः
हिरण्यकशिपुर्दित्यां हिरण्याक्षोऽभवत्तदा ॥ १.६.४२ ॥
सिंहिका चाभवत्कन्या विप्रचित्तिपरिग्रहा
हिरण्यकशिपोः पुत्राश्चत्वारः पृथुलौजसः ॥ १.६.४३ ॥
अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्यवान्
संह्रादश्चावमस्तेषां प्रह्रादो विष्णुतत्परः ॥ १.६.४४ ॥
संह्रादपुत्र आयुष्माञ्छिबिर्वाष्कल एव च
विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥ १.६.४५ ॥
बलेः पुत्रशतं त्वासीद्वाणज्येष्ठं वृषध्वज !
हिरण्याक्षसुताश्चासन्सर्व एव महाबलाः ॥ १.६.४६ ॥
उत्कुरः शकुनिश्चैव भूतसन्तापनस्तथा
महानागो महाबाहुः कालनाभस्तथापरः ॥ १.६.४७ ॥
अभवन्दनुपुत्राश्च द्विमूर्धा शङ्करस्तथा
अयोमुखः शङ्कुशिराः कपिलः शम्बरस्तथा ॥ १.६.४८ ॥
एकचक्रो महाबाहुस्तारकश्च महाबलः
स्वर्भानुर्वृषपर्वा च पुलोमा च महासुरः ॥ १.६.४९ ॥
एते दनोः सुताः ख्याता विप्रचित्तिश्च वीर्यवान्
स्वर्भानोः सुप्रभा कन्या शर्मिष्ठा वार्षपर्वणी ॥ १.६.५० ॥
उपदानवी हयशिराः प्रख्याता वरकन्यकाः
वैश्वानरसुते चोभे पुलोमा कालका तथा ॥ १.६.५१ ॥
उभे ते तु महाभागे मारीचेस्तु परिग्रहः
ताभ्यां पुत्रसहस्राणि षष्टिर्दानवसत्तमाः ॥ १.६.५२ ॥
पौलोमाः कालकञ्जाश्च मारीचतनयाः स्मृताः
सिंहिकायां समुत्पन्ना विप्रचित्तिसुतास्तथा ॥ १.६.५३ ॥
व्यंशः शल्यश्च बलवान्नभश्चैव महाबलः
वातापिर्नमुचिश्चैव इल्वलः खसृमांस्तथा ॥ १.६.५४ ॥
अञ्ज (न्त) को नरकश्चैव काल नाभस्तथैव च
निवातकवचा दैत्याः प्रह्रादस्य कुलेऽभवन् ॥ १.६.५५ ॥
षट्सुताश्च महासत्त्वास्ताम्रायाः परिकीर्तिताः
शुकी श्येनी च भासी च सुग्रीवी शुचिगृध्रिके ॥ १.६.५६ ॥
शुकी शुकानजनयदुलूकी प्रत्यलूककान्
श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि ॥ १.६.५७ ॥
शुक्यौदकान्पक्षिगणान्सुग्रीवी तु व्यजायत
(अश्वानुष्टान् गर्दभांश्च ताम्रावंशः प्रकीर्तितः ॥ १.६. ५८ ॥)
विनतायास्तु पुत्रौ द्वौ विख्यातौ गरुडारुणौ
सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ॥ १.६.५९ ॥
काद्रवेयाश्च फणिनः सहस्रममितौजसः
तेषा प्राधाना भूतेश ! शेषवासुकितक्षकाः ॥ १.६.६० ॥
शङ्खः श्वेतो महापद्मः (शङ्खः) कम्बलाश्वतरौ तथा
एलापत्रस्तथा नागः कर्कोटकधनञ्जयौ ॥ १.६.६१ ॥
गणं क्रोधवशं विद्धि ते च सर्वे च दंष्ट्रिणः
क्रोधा तु जनयामास पिशाचांश्च महाबलान् ॥ १.६.६२ ॥
गास्तु वै जनयामास सुरभिर्महिषांस्तथा
इरा वृक्षलताबल्लीस्तृणजातीश्च सर्वशः ॥ १.६.६३ ॥
खगा च यक्षरक्षांसि मुनिरप्सरसस्तथा
अरिष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत् ॥ १.६.६४ ॥
देवा एकोनपञ्चाशन्मरुतो ह्यभवन्निति
एकज्यो तिश्च द्विर्ज्योतिचतुर्ज्योतिस्तथैव च ॥ १.६.६५ ॥
एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः
ईदृक्सदृक्तथान्यादृक्ततः प्रतिसदृक्तथा ॥ १.६.६६ ॥
मितश्च समितश्चैव सुमितश्च महाबलः
ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥ १.६.६७ ॥
अतिमित्रोऽप्यमित्रश्च दूरमित्रोऽजितस्तथा
ऋतश्च ऋतधर्ंमा च विहर्ता वरुणो (चमसो) ध्रुवः ॥ १.६.६८ ॥
विधारणश्च दुर्मेधा अयमेकगणः स्मृतः
ईदृशश्च सदृक्षश्च एतादृक्षो मिताशनः ॥ १.६.६९ ॥
एतेनः प्रसदृक्षश्च सुरतश्च महातपाः
हेतुमान्प्रसवस्तद्वत्सुरभश्च महायशाः ॥ १.६.७० ॥
नादिरुग्रो ध्वनिर्भासो बिमुक्तो विक्षिपः सहः
द्युतिर्वसुरनाधृष्यो लाभ कामो जयी विराट् ॥ १.६.७१ ॥
उद्वेषणो गणो नाम वायुस्कन्धे तु सप्तमे
एतत्सर्वं हरे रूपं राजानो दानवाः सुराः ॥ १.६.७२ ॥
सूर्यादि परिवारेण मन्वाद्या ईजिरे हरिम् ॥ १.६.७३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे उत्तानपादवंशादिवर्णनं नाम षष्ठोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ७

रुद्र उवाच
सूर्यादिपूजनं ब्रूहि कृतं स्वायम्भुवादिभिः
भुक्तिमुक्तिप्रदं सारं व्यास ! संक्षेपतः परम् ॥ १.७.१ ॥
हरिरुवाच
सूर्यादिपूजां वक्ष्यामि धर्ंमकामादिकारिकाम् ॥ १.७.२ ॥
ओं सूर्यासनाय नमः
ओं नमः सूर्यमूर्तये
ओं ह्रां ह्रीं सः सूर्याय नमः
ओं सोमाय नमः
ओं मङ्गलाय नमः
ओं बुधाय नमः
ओं बृहस्पतये नमः
ओं शुक्राय नमः
ओं शनैश्चराय नमः
ओं राहवे नमः
ओं केतवे नमः
ओं तेजश्चण्डाय नमः ॥ १.७.३ ॥
आसनावाहनं पाद्यमर्घ्यमाचमनं तथा
स्नानं वस्त्रोपवीतञ्च गन्धपुष्पं च धूपकम् ॥ १.७.४ ॥
दीपकं च नस्कारं प्रदक्षिणविसर्जने
सूर्यादीनां सदा कुर्यादिति मन्त्रैर्वृषध्वज ! ॥ १.७.५ ॥
ओं ह्रांशिवाय नमः
ओं ह्रां शिवमूर्तये शिवाय नमः
ओं ह्रां हृदयाय नमः
ओं ह्रीं शिरसे स्वाहा
ओं ह्रूं शिखायै वषट्
ओं ह्रै कवचाय हुं
ओं ह्रौं नेत्रत्रयाय वौषट्
ओं ह्रः अस्त्राय नमः
ओं ह्रां सद्योजातय नमः
ओं ह्रीं वामदेवाय नमः
ओं ह्रूं अघोराय नमः
ओं ह्रैं तत्पुरुषाय नमः
ओं ह्रौं ईशानाय नमः
ओं ह्रीं गौर्यै नमः
ओं ह्रौं गुरुभ्यो नमः
ओं ह्रौं इन्द्राय नमः
ओं ह्रौं चण्डाय नमः
ओं ह्रां अघोराय नमः
ओं वासुदेवासनाय नमः
ओं वासुदवमूर्तये नमः
ओं अं ओं नमो भगवते वासुदेवाय नमः
ओं आं ओं नमो भगवते सङ्कर्षणाय नमः
ओं अं ओं नमो भगवते प्रद्युम्नाय नमः
ओं अः ओं नमो भगवते अनिरुद्धाय नमः
ओं नारायणाय नमः
ओं तत्सब्द्रह्यणे नमः
ओं ह्रां विष्णवे नमः
ओं क्षौं नमो भगवते नरसिंहाय नमः
ओं भूः ओं नमो भगवते वराहाय नमः
ओं कं टं पं शं वैनतेयाय नमः
ओं जं खं रं सुदर्श नाय नमः
ओं खं ठं फं षं गदैयौ नमः
ओं वं लं मं क्षं पाञ्चजन्याय नमः
ओं घं ढं भं हं श्रियै नमः
ओं गं डं वं सं पुष्ट्यै नमः
ओं धं षं वं सं वनमालायै नमः
ओं सं दं लं श्रीवत्साय नमः
ओं ठं चं भं यं कौस्तुभाय नमः
ओं गुरुभ्यो नमः
ओं इन्द्रादिदिक्पालेभ्यो नमः
ओं विष्वक्सेनाय नमः ॥ १.७.६ ॥
आसनादीन्हरेरतैर्मन्त्रैर्मन्त्रैर्दद्याद्वृषध्वज !
विष्णुशक्त्याः सरस्वत्याः पूजां शृणु शुभप्रदाम् ॥ १.७.७ ॥
ओं ह्रीं सरस्वत्यै नमः
ओं ह्रां हृदयाय नमः
ओं ह्रीं शिरसे नमः
ओं ह्रूं शिखायै नमः
ओं ह्रैं कवचाय नमः
ओं ह्रौं नेत्रत्रयाय नमः
ओं ह्रः अस्त्राय नमः ॥ १.७.८ ॥
श्रद्धा ऋद्धिः कला मेधा तुष्टिः पुष्टिः प्रभा मतिः
ओं ह्रीङ्काराद्या नमोऽन्ताश्च सरस्वत्याश्च शक्तयः ॥ १.७.९ ॥
क्षेत्रपालाय नमः
ओं गुरुभ्यो नमः
ओं परमगुरुभ्यो नमः ॥ १.७.१० ॥
पद्मस्थायाः सरस्वत्या आसनाद्यं प्रकल्पयेत्
सूर्यादीनां स्वकैर्प्रन्त्रैः पवित्रारोहणं तथा ॥ १.७.११ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यादीनां सरस्वत्याश्च पूजनं नाम सप्तमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ८
हरिरुवाच
भूमिष्ठे मण्डपे स्नात्वा मण्डले विष्णुमर्चयेत्
पञ्चरङ्गिकचूर्णेन वज्रनाभं तु मण्डलम् ॥ १.८.१ ॥
षोडशैः कोष्ठकैस्तत्र संमितं रुद्र? कारयेत्
चतुर्थपञ्चकोणेषु सूत्रपातं तु कारयेत् ॥ १.८.२ ॥
कोणसूत्रादुभयतः कोणा ये तत्र संस्थिताः
तेषु चैव प्रकुर्वीत सूत्रपातं विचक्षणः ॥ १.८.३ ॥
तदनन्तरकोणेषु एवमेव हि कारयेत्
प्रथमा नाभिरुद्दिष्टा मध्ये रेखाप्रसंगमे ॥ १.८.४ ॥
अन्तरेषु च सर्वेषु अष्टौ चैव तुनाभयः
पूर्वमध्यमनाभि भ्यामथं सूत्रं तु भ्रामयेत् ॥ १.८.५ ॥
अन्तरा स द्विजश्रेष्ठः पादोनं भ्रामयेद्धर !
अनेन नाभिसूत्रस्य कर्णिकां भ्रामयेच्छिव ! ॥ १.८.६ ॥
कर्णिकाया द्विभागेन केसराणि विचक्षणः
तदग्रेण सदा विद्वान्दलान्येव समालिखेत् ॥ १.८.७ ॥
सर्वेषु नाभिक्षेत्रषु मानेनानेन सुव्रत !
पद्मानि तानि कुर्वीत देशिकः पर मार्थवित् ॥ १.८.८ ॥
आदिसूत्रविभागेन द्वाराणि परिकल्पयेत्
द्वारशोभां तथा तत्र तदर्धेन तु कल्पयेत् ॥ १.८.९ ॥
कर्णिकां पीतवर्णेन सितरक्तादिकेसरैः
अन्तरं नीलवर्णेन दलानि असितेन च ॥ १.८.१० ॥
कृष्णवर्णेन रजसा चतुरश्रं प्रपूरयेत्
द्वाराणि शुक्लवर्णेन रेखाः पञ्च च मण्डले ॥ १.८.११ ॥
सिता रक्ता तथा पीता कृष्णा चैव यथाक्रमम्
कृत्वैव मण्डलञ्चादौ न्यासं कृत्वार्चयेद्धरिम् ॥ १.८.१२ ॥
हृन्मध्ये तु न्यसेद्विष्णुं कण्ठे सङ्कर्षणं तथा
प्रद्युम्नं शिरसि न्यस्य शिखायामनिरुद्धकम् ॥ १.८.१३ ॥
ब्रह्माणं सर्वगात्रेषु करयोः श्रीधरं तथा
अहं विष्णुरिति ध्यात्वा कर्णिकायां न्यसेद्धरिम् ॥ १.८.१४ ॥
न्यसेत्सङ्कर्षणं पूर्वे प्रद्युम्नं चैव दक्षिणे
अनिरुद्धं पश्चिमे च ब्रिह्माणं चोत्तरे न्यसेत् ॥ १.८.१५ ॥
श्रीधरं रुद्रकोणेषु इन्द्रादीन्दिक्षु विन्यसेत्
ततोऽभ्यर्च्य च गन्धाद्यैः प्राप्नुयात्परमं पदम् ॥ १.८.१६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजोपयोगिवज्रनाभमण्डलनिरूपणं नामाष्टमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ९
हरिरुवाच
समये (या) दीक्षितः शिष्यो बद्धनेत्रस्तु वाससा
अष्टाहुतिशतं तस्य मूलमन्त्रेण होमयेत् ॥ १.९.१ ॥
द्विगुणं पुत्रके होमं त्रिगुणं साधके मतम्
निर्वाणदेशिके रुद्र ! चतुर्गुणमुदाहृतम् ॥ १.९.२ ॥
गुरुविष्णुद्विजस्त्रीणां हन्ता बध्यस्त्व(श्च)दीक्षितैः
अथ दीक्षां प्रवक्ष्यामि धर्माधर्मक्षयङ्करीम् ॥ १.९.३ ॥
उपवेश्य बहिः शिष्यान्धारणं तेषु कारयेत्
वायव्या कलया रुद्र शोष्यमाणान्विचिन्तयेत् ॥ १.९.४ ॥
आग्रेय्या दह्यमानांश्च प्लावितानम्भसा पुनः
तेजस्तेजासि तं जीवमेकीकृत्य समाक्षिपेत् ॥ १.९.५ ॥
प्राणवं चिन्तयेव्द्योम्नि शरीरेऽन्यत्तु कारणम्
एकैकं यो जयेत्तत्र क्षेत्रज्ञं देहकारणात् ॥ १.९.६ ॥
उत्पाद्य योजयेत्पश्चादेकैकं वृषभध्वज
मण्डलादिष्वशक्तस्तु कल्पयित्वार्ऽचयेद्धरिम् ॥ १.९.७ ॥
चतुर्द्वारं भवेत्तच्च ब्रह्मतीर्थादनुक्रमात्
हस्तं पद्मं समाख्यातं पत्राण्यङ्गुलयः स्मृताः ॥ १.९.८ ॥
कर्णिका तलहस्तन्तु नखान्यस्य तु केसराः
तत्रार्चयेद्धरिं ध्यात्वा सूर्यन्द्वग्नयन्तरेव च ॥ १.९.९ ॥
तं हस्तं पातयेन्मूर्ध्नि शिष्यस्य तु समाहितः
हस्ते विष्णुः स्थितो यस्माद्विष्णुहस्तस्ततस्त्वयम्
नश्यन्ति स्पर्शनात्तस्य पातकान्यखिलानि च ॥ १.९.१० ॥
गुरुः शिष्यं समभ्यर्च्य नेत्रे बद्धे तु वाससा
देवस्य प्रमुखं कृत्वा पुष्पमेवार्पयेत्ततः
पुष्पं निपतितं यत्र मूर्ध्नो देवस्य शार्ङ्गिणः ॥ १.९.११ ॥
तन्नाम कारयेत्तस्य स्त्रीणां नामाङ्कितं स्वयम्
शूद्राणां दाससंयुक्तं कारयेत्तु विचक्षणः ॥ १.९.१२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुदीक्षानिदृ नाम नवमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १०
हरिरुवाच
र् श्यादिपूजां प्रवर्श्यामि स्थण्डिलादिषु सिद्धये
श्रीं ह्रीं महालक्ष्म्यै नमः
श्रां श्रीं श्रूं श्रैं श्रौं श्रः क्रमाद्धृदयं च शिरः शिखाम्
कवचं नेत्रमस्त्रं च आसनं मूर्तिमर्चयेत् ॥ १.१०.१ ॥
मण्डले पद्मगर्भे च चतुर्द्वारि रजोऽन्विते
चतुः षष्ट्यन्तमष्टादि खाक्षे खाक्ष्यादि मण्डलम् ॥ १.१०.२ ॥
खाक्षीन्दुसूर्यगं सर्वं खादिवेदेन्दुवर्तनात्
लक्ष्मीमङ्गानि चैकस्मिन्कोणे दुर्गां गणं गुरुम् ॥ १.१०.३ ॥
क्षेत्रपालमथाग्न्यादौ होमाञ्जुहाव कामभाक्
ओं घं टं डं हं श्रीमहालक्ष्म्यै नमः ॥ १.१०.४ ॥
अनेन पूजयेल्लक्ष्मीं पूर्वोक्तपरिवारकैः
ओं सैं सरस्वत्यै नमः
ओं ह्रीं सैं सरस्वत्यै नमः ॥ १.१०.५ ॥
ओं ह्रीं वदवदवाग्वादिनिस्वाहा ओं ह्रीं सरस्वत्यै नमः ॥ १.१०.६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे लक्ष्म्यर्चननिरूपणं नाम दशमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ११
हरिरुवाचं
नवव्यूहार्चनं वक्ष्ये यदुक्तं कश्यपाय हि
जीवमुत्क्षिप्य मूर्धन्यं नाभ्यां व्योम्निनिवेशयेत् ॥ १.११.१ ॥
ततोरमिति बीजेन दहेद्भूतात्मकं वपुः
यमित्यनेन बीजेन तच्च सर्व विनाशयेत् ॥ १.११.२ ॥
लमित्यनेन बीजेन प्लावयेत्सचराचरम्
वमित्यनेन बीजेन चिन्तयेदमृतं ततः ॥ १.११.३ ॥
ततो बुद्वुदमध्ये तु पीतवासाश्चतुर्भुजः
अहं मतस्तथात्मानं ध्यानेन परिचिन्तयेत् ॥ १.११.४ ॥
मन्त्रन्यासं ततः कुर्यात्त्रिविधं करदेहयोः
द्वादशाक्षरबीजेन उक्तबीजैरनन्तरम् ॥ १.११.५ ॥
षडङ्गेन ततः कुर्यात्साक्षाद्येन हरिर्भवेत्
दक्षिणाङ्गुष्ठमारभ्य मध्याङ्गुष्ठन्दले न्यसेत् ॥ १.११.६ ॥
मध्ये बीजद्वयं न्यस्य न्यसेदङ्गे ततः पुनः
हृच्छिरसि शिखावर्ंमवक्क्राक्ष्युदहपृष्ठतः ॥ १.११.७ ॥
बाह्वोश्च करयोर्जान्वोः पादयोश्चापि विन्यसेत्
पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठं निवेशयेत् ॥ १.११.८ ॥
चिन्तयेत्तत्र सर्वेशं परं तत्त्वमनामयम्
क्रमाच्चैतानि बीजानि तर्जन्यादिषु विन्य सेत् ॥ १.११.९ ॥
ततो मूर्धाक्षिवक्क्रेषु कण्ठे च हृदये तथा
नाभौ गुह्ये तथा जान्वोः पादयोर्विन्यसेत्क्रमात् ॥ १.११.१० ॥
पाण्योः षडङ्गबीजानि न्यस्य काये ततो न्यसेत्
अङ्गुष्ठादिकनिष्ठान्तं विन्यसेद्वीजपञ्चकम् ॥ १.११.११ ॥
करमध्ये नेत्रबीजमङ्गन्यासऽप्ययं क्रमः
हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ॥ १.११.१२ ॥
शिखायां तु शिखां न्यस्य कवचं सर्वतस्तनौ
नेत्रं नेत्रे विधातव्यमस्त्रञ्च करयोर्द्वयोः ॥ १.११.१३ ॥
तेनैव च दिशो बद्धा पूजा विधिमथाचरेत्
हृदये चिन्तयेत्पूर्वं योगपीठं समाहितः ॥ १.११.१४ ॥
धर्म ज्ञनं च वैराग्यमैश्वर्यं च यथाक्रमम्
आग्नेयादौ च पूर्वादावधर्मादींश्च विन्यसेत् ॥ १.११.१५ ॥
एभिः परिच्छन्नतनुं पीठभूतं तदात्मकम्
अनन्तं विन्सेत्पश्चात्पूर्वकायोन्नतं स्थितम् ॥ १.११.१६ ॥
ततो विद्यात्सरोजातं दलाष्टसमदिग्दलम्
सिताब्जं शतपत्राढ्यं विप्रकीर्णोर्धकर्णिकम् ॥ १.११.१७ ॥
ध्यात्वा वेदादिना पश्चात्सूर्यसोमानलात्मनाम्
मण्डलानि क्रमादेवमुपर्युपरि चिन्तयेत् ॥ १.११.१८ ॥
ततः पूर्वादिदिक्संस्थाः शक्तीः केशवगोचराः
विमलाद्या न्यसेदष्टौ नवमीं कर्णिकागताम् ॥ १.११.१९ ॥
एवं ध्यात्वा समभ्यर्च्य योगपीठमनन्तरम्
मनसावाह्य तत्रेशं हरिं शार्ङ्गं न्यसेत्पुनः ॥ १.११.२० ॥
हृदयादीनि पूर्वादिचतुर्दिग्दलयोगतः
मध्ये नेत्रं तु कोणेषु अस्त्रमन्त्रं न्यसेत्ततः ॥ १.११.२१ ॥
सङ्कर्षणादिबीजानि पूर्वादिक्रमयोगतः
द्वारि पूर्वे परे चैव वैनतेयं तु विन्यसेत् ॥ १.११.२२ ॥
सुदर्शनं सहस्रारं दक्षिणे द्वारि विन्यसेत्
श्रियं दक्षिणतो न्यस्य लक्ष्मीमुत्तरतस्तथा ॥ १.११.२३ ॥
द्वार्यत्तरे गदां न्यस्य शङ्खं कोणेषु विन्यसेत्
देवदक्षिणतः शार्ङ्गं वामे चैव सुधीर्न्यसेत् ॥ १.११.२४ ॥
तद्वत्खङ्गं तथा चक्रं न्यसेत्पार्श्वद्वयोर्द्वयम्
ततोऽन्तर्लोकपालांश्च स्वदिग्भेदेन विन्यसेत् ॥ १.११.२५ ॥
वज्रादीन्यायुधान्येव तथैव विनिवेशयेत्
ऊर्घ्वं ब्रिह्म तथानन्तमधश्च परिचिन्तयेत् ॥ १.११.२६ ॥
सर्वं ध्यात्वेति संपूज्य मुद्राः सन्दर्शयेत्ततः
अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसाधनी ॥ १.११.२७ ॥
वन्दनी हृदयासक्तात्सार्धं दक्षिणतोन्नता
ऊर्धाङ्गुण्ठो वाममुष्टिर्दक्षिणाङ्गुष्ठबन्धनः ॥ १.११.२८ ॥
सव्यस्य तस्य चाङ्गुष्ठो यः स उद्धः प्रकीर्तितः
तिस्रः साधारणा ह्येता मूर्तिभेदेन कल्पिताः ॥ १.११.२९ ॥
कनिष्ठादिप्रमोकेण अष्टौ मुद्रा यथाक्रमम्
अष्टानां पूर्वबीजानां क्रमशस्त्ववधारयेत् ॥ १.११.३० ॥
अङ्गुष्ठेन कनिष्ठान्तं नामयित्वाङ्गुलित्रयम्
मुद्रेयं नरसिंहस्य न्युब्जं कृत्वा करद्वयम् ॥ १.११.३१ ॥
सव्यहस्तं तथोत्तानं कृत्वोर्धं भ्रामयेच्छनैः
नवमीयं स्मृता मुद्रा वराहाभिमता सदा ॥ १.११.३२ ॥
मुष्टिद्वयमथोत्तानमृज्वैकैकेन मोचयेत्
उत्कुञ्चयेत्सर्वमुक्ता अङ्गमुद्रेयमुच्यते ॥ १.११.३३ ॥
मुष्टिद्वयमथो बद्धा एवमेवानुपूर्वशः
दशानां लोकपालानां मुद्राश्च क्रमयोगतः ॥ १.११.३४ ॥
सुरमाद्यं द्वितीयं च उपान्त्यञ्चान्त्यमेव च
वासुदेवो बलः कामो ह्यनिरुद्धो यथाक्रमम् ॥ १.११.३५ ॥
प्रणवस्तत्सदित्येतधुं क्षैं भूरिति मन्त्रकाः
नारायणस्तथा ब्रह्मा विष्णुः सिंहो वराहराट् ॥ १.११.३६ ॥
सितारुणहरिद्राभा नीलश्यामल्लोहिताः
मेघाग्निमदुपिङ्गाभा वर्णतो नवनामकाः ॥ १.११.३७ ॥
कं टं पं शं गरुत्मान्स्याज्जं खं वं च सुदर्शनम्
षं चं फं षं गदादेवी वं लं मं क्षं च शङ्खकम् ॥ १.११.३८ ॥
घं ढं भं हं भवेच्छ्रीश्च गं जं वं शं च पुष्टिका
घं वं च वनमाला स्याच्छ्री वत्सं दं सं भवेत् ॥ १.११.३९ ॥
छं डं पं यं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च
इत्यङ्गानियथायोगं देवदेवस्य वै दशा ॥ १.११.४० ॥
गरुडोऽम्बुजसंकाशो गदा चैवासिताकृतिः
पुष्टिः शिरीषपुष्पाभा लक्ष्मीः काञ्चनसन्निभा ॥ १.११.४१ ॥
पूर्णचन्द्रनिभः शङ्खः कौस्तुभस्त्वरुणद्युतिः
चक्रं सूर्यसहस्राभं श्रीवत्सः कुन्दसन्निभः ॥ १.११.४२ ॥
पञ्चवर्णनिभा माला ह्यनन्तो मेघसन्निभः
विद्युद्रूपाणि चास्त्राणि यानि नोक्तानि वर्णतः ॥ १.११.४३ ॥
अर्घ्यपाद्यादि वै दद्यात्पुण्डरीकाक्षविद्यया ॥ १.११.४४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवव्यूहार्चनं नामैकादशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १२
हरिरुवाच
पूजानुक्रमसिद्ध्यर्थं पूजानुक्रम उच्यते
ओं नम इत्यादौ संस्मृतिः परमात्मनः ॥ १.१२.१ ॥
यं रं वं लमिति कायशुद्धिः
ओं नम इति चतुर्भुजात्मनिर्माणम् ॥ १.१२.२ ॥
ततस्त्रिविधः करकायन्यासः
ततो त्दृदिस्थयोगपीठपूजा
ओं अनन्ताय नमः
ओं धर्माय नमः
ओं ज्ञानाय नमः
ओं वैराग्याय नमः
ओं ऐश्वर्याय नमः
ओं अधर्ंमाय नमः
ओं अज्ञानाय नमः
ओं अवैराग्याय नमः
ओं अनैश्वर्याय नमः
ओं पद्माय नमः
ओं आदित्यमण्डलाय नमः
ओं चन्द्रमण्डलाय नमः
ओं वह्निमण्डलाय नमः
ओं विमलायै नमः
ओं उत्कर्षिण्यै नमः
ओं ज्ञानायै नमः
ओं क्रियायै नमः
ओं योगायै नमः
ओं प्रह्व्यै नमः
ओं सत्यायै नमः
ओं ईशानायै नमः
ओं सर्वतोमुख्यै नमः
ओं संगोपाङ्गाय हरेरासनाय नमः
ततः कर्णिकायामं वासुदेवाय नमः
आं हृदयाय नमः
ईं शिरसे नमः
ऊं शिखायै नमः
ऐं कवचाय नमः
औं नेत्रत्रयाय नमः
अः फटस्त्राय नमः
आं सङ्कर्षणाय नमः
अं प्रद्युम्नाय नमः
अः अनिरुद्धाय नमः
ओं अः नारायणाय नमः
ओं तत्सब्दह्मणे नमः
ओं हुं विष्णवे नमः
क्षैं नरसिंहाय भूर्वराह्य कं वैनतेयाय जं खं वं सुदर्शनाय खं चं फं षं गदायै वं लं मं क्षं पाञ्चजन्याय घं ढं भं हं श्रियै गं डं वं शं पुष्ट्यै धं वं वनमालायै दं शं श्रीवत्साय छं डं यं कौस्तुभाय शं शार्ङ्गाय इं इषुधिभ्यां चं चर्मणे खं खड्गाय इन्द्राय सुराय पर्तये अग्नये तेजोधिपतयेयमायधर्माधिपतयेक्षंनैरृतायरक्षोधिपतये वरुणाय जलाधिपतये यों वायवे प्राणाधिपतये धां धनदाय धनाधिपतये हां ईशानाय विद्याधिपतये ओं वज्राय शक्त्यै ओं दण्डाय खङ्गाय ओं पाशाय ध्वजाय गदायै त्रिशूलाय लं अनन्ताय पातालाधिपतये खं ब्रह्मणे सर्वलोकाधिपतये ओं नमो भगवते वासुदेवाय नमः
ओं ओं नमः
ओं नं नमः
ओं मों नमः
ओं ओं भं नमः
ओं गं नमः
ओं वं नमः
ओं तें नमः
ओं वां नमः
ओं सुं नमः
ओं दें नमः
ओं वां नमः
ओं यं नमः
ओं ओं नमः
ओं नं नमः
ओं मों नमः
ओं नां नमः
ओं रां नमः
ओं णां नमः
ओं यं नमः
ओं नंनों भगवतें वांसुंदेवायं ओं नमो नारायणाय नमः
ओं पुरुषोत्तमाय नमः ॥ १.१२.३ ॥
नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन
सुब्रह्मण्य नमस्तेऽस्तु महापुरुष पूर्वज ॥ १.१२.४ ॥
होमकर्णणि चैतेषां स्वाहान्तमुपकल्पयेत्
एवं जप्त्वा विधानेन शतमष्टोत्तरं तथा ॥ १.१२.५ ॥
अर्घं दत्त्वा जितं तेन प्रणामं च पुनः पुनः
ततोऽग्नावपि सम्पूज्यं तं यजेत यथाविधि ॥ १.१२.६ ॥
देवदेवं स्वबीजेन अङ्गादिभिरथाच्युतम्
पूर्वमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित् ॥ १.१२.७ ॥
भ्रामयित्वानलं कुण्डे पूजयेच्च शुभैः फलैः
पूर्वं तत्सकलं ध्यात्वा मण्डले मनसा न्यसेत् ॥ १.१२.८ ॥
वासुदेवाख्यतत्त्वेन हुत्वा चाष्टोत्तरं शतम्
संकर्षणादिबीजेन यजेत्षट्कं तथैव च ॥ १.१२.९ ॥
त्रयन्त्रयं तथाङ्गानामेकैकान्दिक्पतींस्तथा
पूर्णाहुतिं तथैवान्ते दद्यात्सम्यगुपस्थितः ॥ १.१२.१० ॥
वागतीते परे तत्त्वे आत्मानं च लयं नयेत्
उपविश्य पुनर्मुद्रां दर्शयित्वा नमेत्पुनः ॥ १.१२.११ ॥
नित्यमेवंविधं होमं नैमित्ते द्विगुणं भवेत्
गच्छगच्छ परं स्थानं यत्र देवो निरञ्जनः ॥ १.१२.१२ ॥
गच्छन्तु देवताः सर्वाः स्वस्थानस्थितिहेतवे
सुदर्शनः श्रीहरिश्च अच्युतः स त्रिविक्रमः ॥ १.१२.१३ ॥
चतुर्भुजो वासुदेवः षष्ठः प्रद्युम्न एव च
संकर्षणः पूरुषोऽथ नवव्यूहो दशात्मकः ॥ १.१२.१४ ॥
अनिरुद्धो द्वादशात्मा अथ ऊर्धमनन्तकः
एते एकादिभिश्चक्रैर्विज्ञेया लक्षिताः सुराः ॥ १.१२.१५ ॥
चक्राङ्कितैः पूजितः स्यान्द्रृहे रक्षेत्सदानरैः
ओं चक्राय स्वाहा.ओं विचक्राय स्वाहा.ओं सुचक्राय स्वाहा.ओं महाचक्राय स्वाहा.ओं महाचक्राय असुरान्तकृथुं फटों हुं सहस्रार हुं फट् ॥ १.१२.१६ ॥
द्वारकाचक्रपूजेयं गृहे रक्षाकरी शुभा ॥ १.१२.१७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पूजानुक्रमनिरूपणं नाम द्वादशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १३
हरिरुवाच
प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पञ्जरं शुभम्
नमोनमस्ते मोविदं चक्रं गृह्य सुदर्शनम् ॥ १.१३.१ ॥
प्राच्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः
गदां कौमोदकीं गृह्ण पद्मनाभ नमोऽस्त ते ॥ १.१३.२ ॥
याम्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः
हलमादाय सौनन्दे नमस्ते पुरुषोत्तम ॥ १.१३.३ ॥
प्रतीच्यां रक्ष मां विष्णो ! त्वामह शरणं गतः
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ॥ १.१३.४ ॥
उत्तरस्यां जगन्नाथ ! भवन्तं शरणं गतः
खड्गमादाय चर्ंमाथ अस्त्रशास्त्रादिकं हरे ! ॥ १.१३.५ ॥
नमस्ते रक्ष रक्षोघ्न ! ऐशान्यां शरणं गतः
पाञ्चजन्यं महाशङ्खमनुघोष्यं च पङ्कजम् ॥ १.१३.६ ॥
प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष सूकर
चन्द्रसूर्यं समागृह्य खड्गं चान्द्रमसं तथा ॥ १.१३.७ ॥
नैरृत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन्
वैजयन्तीं स्मप्रगृह्य श्रीवत्सं कण्ठभूषणम् ॥ १.१३.८ ॥
वायव्यां रक्ष मां देव हयग्रीव नमोऽस्तु ते
वैनतेयं समारुह्य त्वन्तरिक्षे जनार्दन ! ॥ १.१३.९ ॥
मां रक्षस्वाजित सदा नमस्तेऽस्त्वपराजित
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ॥ १.१३.१० ॥
अकूपार नमस्तुभ्यं महामीन नमोऽस्तु प्ते
करशीर्षाद्यङ्गुलीषु सत्य त्वं बाहुपञ्जरम् ॥ १.१३.११ ॥
कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम
एतदुक्तं शङ्कराय वैष्णवं पञ्जरं महत् ॥ १.१३.१२ ॥
पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज
नाशायामास सा येन चामरान्महिषासुरम् ॥ १.१३.१३ ॥
दानवं रक्तबीजं च अन्यांश्च सुरकण्टकान्
एतज्जपन्नरो भक्त्या शत्रून्विजयते सदा ॥ १.१३.१४ ॥

इति श्रीगारुडे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपञ्जरस्तोत्रं नाम त्रयोदशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १४
हरिरुवाच
अथ योगं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम्
ध्यायिभिः प्रोच्यते ध्येयो ध्यानेन हरिरीश्वरः ॥ १.१४.१ ॥
तच्छृणुष्व महेशान सर्वपापविनाशनम्
विष्णुः सर्वेश्वरोऽनन्तः षड्भिर्भूपरिवर्जितः ॥ १.१४.२ ॥
वासुदेवो जगन्नाथो ब्रह्मात्मास्म्यहमेव हि
देहिदेहस्थितो नित्यः सर्वदेहविवर्जितः ॥ १.१४.३ ॥
देहधर्ंमविहीनश्च क्षराक्षरविवर्जितः
षड्विधेषु स्थितो द्रष्टा श्रोता घ्राता ह्यतीन्द्रियः ॥ १.१४.४ ॥
तद्धर्ंमरहितः स्रष्टा नामगोत्रविवर्जितः
मन्ता मनः स्थितो देवो मनसा परिवर्जितः ॥ १.१४.५ ॥
मनोधर्ंमविहीनश्च विज्ञानं ज्ञानमेव च
बोद्धा बुद्धिस्थितः साक्षी सर्वज्ञो बुद्धिवर्जितः ॥ १.१४.६ ॥
बुद्धिधर्ंमविहीनश्च सर्वः सर्वगतो मनः
सर्वप्राणिविनिर्मुक्तः प्राणधर्ंमविवर्जितः ॥ १.१४.७ ॥
प्राणप्राणो महाशान्तो भयेन परिवर्जितः
अहङ्कारादिहीनश्च तद्धर्ंमपरिवर्जितः ॥ १.१४.८ ॥
तत्साक्षी तन्नियन्ता च परमानन्दरूपकः
जाग्रत्स्वप्नसुषुप्तिस्थस्तत्साक्षी तद्विवर्जितः ॥ १.१४.९ ॥
तुरीयः परमो धाता दृग्रूपो गुणवर्जितः
मुक्तो बुद्धोऽजरो व्यापी सत्य आत्मास्म्यहं शिवः ॥ १.१४.१० ॥
एवं ये मानवा विज्ञा ध्यायन्तीशं परं पदम्
प्राप्नुयुस्ते च तद्रूपं नात्र कार्या विचारणा ॥ १.१४.११ ॥
इति ध्यानं समाख्यातं तव शङ्कर सुव्रत
पठेद्य एतत्सततं विष्णुलोकं स गच्छति ॥ १.१४.१२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ध्यानयोगो नाम चतुर्दशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १५
रुद्र उवाच
संसारसागराद्धोरामुच्यते किं जपन्प्रभो
नरस्तन्मे परं जप्यं पथय त्वं जनार्दन ॥ १.१५.१ ॥
हरिरुवाच
परेश्वरं परं ब्रह्म परमात्मानमव्ययम्
विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ १.१५.२ ॥
यत्प वित्रं परं जप्यं कथयामि वृषध्वज !
शृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ १.१५.३ ॥
ओं वासुदेवो महाविष्णुर्वामनो वासवो वसुः
बालचन्द्र निभो बालो बलभद्रो बलाधिपः ॥ १.१५.४ ॥
बलिबन्धनकृद्वेधा (११)वरेण्यो वेदवित्किविः
वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ १.१५.५ ॥
वेदाङ्गवेत्ता वेदेशो(२०) बलाधारो बलार्दनः
अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ १.१५.६ ॥
वीरहा च बृहद्वीरो वन्दितः परमेश्वरः (३०)
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ १.१५.७ ॥
पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः
परमः (४०)परभूतश्च पुरुषोत्तम ईश्वरः ॥ १.१५.८ ॥
पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः
पद्माक्षः पद्मगर्भश्च पर्जन्यः (५०)पद्मसंस्थितः ॥ १.१५.९ ॥
अपारः परमार्थश्च पराणां च परः प्रभुः
पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ १.१५.१० ॥
शुद्धः (६०)प्रकाशरूपश्च पवित्रः परिरक्षकः
पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथाः ॥ १.१५.११ ॥
प्रधानं पृथिवीपद्मं पद्मनाभः (७०)प्रियप्रदः
सर्वेशः सर्वगः सर्वः सर्ववित्सर्वदः सुरः ॥ १.१५.१२ ॥
सर्वस्य जगतो धाम सर्वदर्शो च सर्वभृत्(८०)
सर्वानुग्रहकृद्देवः सर्वभूतहृदि स्थितः ॥ १.१५.१३ ॥
सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः
सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः (९०) ॥ १.१५.१४ ॥
सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम्
सर्वध्येयः सर्वमित्रः सर्वदेस्ववरूपधृक् ॥ १.१५.१५ ॥
सर्वाध्यक्षः सुराध्यक्ष सुरासुरनमस्कृतः
दुष्टानां च सुराणां च सर्वदा घातकोऽन्तकः (१०१) ॥ १.१५.१६ ॥
सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो (सिद्धिसिद्ध) हृदीश्वरः ॥ १.१५.१७ ॥
शरणं जगतश्चैव (११०)श्रेयः क्षेमस्तथैव च
शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ १.१५.१८ ॥
सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्य (त्प) दस्तथा (१२१)
धर्मो धर्ंमो च कर्मो च सर्वकर्ंमविवर्जितः ॥ १.१५.१९ ॥
कर्ंमकर्ता च कर्मैव क्रिया कार्यं तथैव च
श्रीपतिर्नृपतिः (१३१)श्रीमान्सर्वस्य पतिरूर्जितः ॥ १.१५.२० ॥
सदेवानां पतिश्चैव वृष्णीनां पतिरीडितः
पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ १.१५.२१ ॥
पशूनां च पतिः प्रायो वसूनां पतिरेव च (१४०)
पतिराखण्डलस्यैव वरूणस्य पतिस्तथा ॥ १.१५.२२ ॥
वनस्पतीनां च पतिरनिलस्य पतिस्तथा
अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ १.१५.२३ ॥
कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा (१५०) ॥ १.१५.२४ ॥
नागानां पतिरर्कस्य दक्षस्य पतिरेव च
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ १.१५.२५ ॥
गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ १.१५.२६ ॥
सुराणां च पतिः श्रेष्ठः (१६०) कपिलस्य पतिस्तथा
लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ १.१५.२७ ॥
मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः
पतिश्चन्द्रमसः श्रेष्ठः सुक्रस्य पतिरेव च ॥ १.१५.२८ ॥
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा
किन्नराणां पतिश्चैव (१७०)द्विजानां पतिरुत्तमः ॥ १.१५.२९ ॥
सरितां च पतिश्चैव समुद्राणां पतिस्तथा
सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ १.१५.३० ॥
वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ १.१५.३१ ॥
महात्मा (१८०)मङ्गलो मेयो मन्दरो मन्दरेश्वरः
मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ १.१५.३२ ॥
मालाधरो (१९०)महादेवो महादेवेन पूजितः
महाशान्तो महाभागो मधुसूदन एव च ॥ १.१५.३३ ॥
महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः(२००)
मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ १.१५.३४ ॥
मुनिस्तुतो मुनिर्मैत्रो (२१०)महाना (रा) सो महाहनुः
महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ १.१५.३५ ॥
महावत्क्क्रो महात्मा च महाकायो महोदरः
महापादो महाग्रीवो महामानी महामनाः ॥ १.१५.३६ ॥
महागतिर्मंहाकीर्तिर्महारूपो (२२२)महासुरः
मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ १.१५.३७ ॥
मखेज्यो मखरूपी च माननीयो (२३०)मखेश्वरः
महावातो महाभागो महेशोऽतीतमानुषः ॥ १.१५.३८ ॥
मानवश्च मनुश्चैव मानवानां प्रियङ्करः
मृगश्च मृगपूज्यश्च (२४०)मृगाणां च पतिस्तथा ॥ १.१५.३९ ॥
बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः
पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ १.१५.४० ॥
लक्ष्मणो लक्षणश्चैव लम्बौष्ठो ललितस्तथा(२५०)
नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः ॥ १.१५.४१ ॥
नानारसोज्जवलद्वक्क्रो नानापुष्पोपशोभितः
रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥ १.१५.४२ ॥
रत्नदो रत्नहर्ता च(२६०)रूपी रूपविवर्जितः
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ १.१५.४३ ॥
नीलमेघनिभः शुद्धः सालमेघनिभस्तथा
धूमवर्णः पतिवर्णो नानारूपो(२७०)ह्यवर्णकः ॥ १.१५.४४ ॥
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च
सर्ववर्णो महायोगी यज्ञो (याज्यो) यज्ञकृदेव च ॥ १.१५.४५ ॥
सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च (२८०)सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ १.१५.४६ ॥
सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च
सुवर्णस्य प्रियश्चैव (२९०)सुवर्णाढ्यस्तथैव च ॥ १.१५.४७ ॥
सुपर्णो च महापर्णो सुपर्णस्य च कारण्(२९०)
वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ १.१५.४८ ॥
कारणं महतश्चैव प्रधानस्य च कारणम्
बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ १.१५.४९ ॥
कारणं चैतसश्चैव(३००)अहङ्कारस्य कारणम्
भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ १.१५.५० ॥
आकाशकारणं तद्वत्पृथिव्याः कारणं परम्
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ १.१५.५१ ॥
देहस्य कारणं चैव चक्षुषश्चैव कारणम्
श्रोत्रस्य कारणं(३१०) तद्वत्कारणं च त्वचस्तथा ॥ १.१५.५२ ॥
जिह्वायाः कारणं चैव प्राणस्यैव च कारणम्
हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ १.१५.५३ ॥
वाचश्चकारणं तद्वत्पायोश्चैव तुकारणम्
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ १.१५.५४ ॥
यमस्य कारणं चैव (३२०)ईशानस्य च कारणम्
यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥ १.१५.५५ ॥
नृपाणां कारणं श्रेष्ठं धर्ंमस्यैव तु कारणम्
जन्तूनां कारणं चैव वसूनां कारणं परम् ॥ १.१५.५६ ॥
मनूनां कारणं चैव पक्षिणां कारणं परम्
मुनीनां कारणं श्रेष्ठ(३३०)योगिनां कारणं परम् ॥ १.१५.५७ ॥
सिद्धानां कारणं चैव यक्षाणां कारणं परम्
कारणं किन्नराणां च(३४०) गन्धर्वाणां च कारणम् ॥ १.१५.५८ ॥
नदानां कारणं चैव नदीनां कारणं परम्
कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ १.१५.५९ ॥
कारणं वीरुधां चैव लोकानां कारणं तथा
पाताल कारणं चैव देवानां कारणं तथा ॥ १.१५.६० ॥
सर्पाणां कारणं चैव(३५०)श्रेयसां कारणं तथा
पूशनां कारणं चैव सर्वेषां कारणं तथा ॥ १.१५.६१ ॥
देहात्मा चेन्द्रियात्मा च आत्मा बुद्धिस्तथैव च
मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ १.१५.६२ ॥
जाग्रतः स्वपतश्चात्मा (३६०)महदात्मा परस्तथा
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ १.१५.६३ ॥
पृथिव्याः परमात्मा च रसस्यात्मा तथैव च
गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ १.१५.६४ ॥
शब्दात्मा चैव (३७०)वागात्मा स्पर्शात्मा पुरुषस्तथा
श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परमस्तथा ॥ १.१५.६५ ॥
घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा(३८०)
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ १.१५.६६ ॥
इन्द्रात्मा चैव ब्रह्मात्मा रुद्रा(शान्ता)त्मा च मनोस्तथा
दक्षप्रजापतेरात्मा सत्या (स्रष्टा)त्मा परमस्तथा ॥ १.१५.६७ ॥
ईशात्मा(३९०)परमात्मा च रौद्रात्मा मोक्षविद्यतिः
यत्नवांश्च तथा यत्नश्चर्ंमो खड्गी मुरान्तकः ॥ १.१५.६८ ॥
ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः
यतिरूपी च (४००)योगी च योगिध्येयो हरिः शितिः ॥ १.१५.६९ ॥
संविन्मेधा च कालश्च ऊष्मा वर्षा म(न) तिस्तथा(४१०)
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ १.१५.७० ॥
मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः
संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः (४२०) ॥ १.१५.७१ ॥
अत्निर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ १.१५.७२ ॥
शर्ंमदश्चैव(४३०) गाङ्गेयो हृषीकेशो बृहच्छ्रवाः
केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ १.१५.७३ ॥
नारायणो महाभागः प्राणस्य पतिरेव च (४४०)
अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ १.१५.७४ ॥
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा
शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ १.१५.७५ ॥
रूपाणां च पतिश्चाद्यः खङ्गपाणिर्हलायुधः(४५०)
चक्रपाणिः कुण्डली च श्रीवत्सांकस्तथैव च ॥ १.१५.७६ ॥
प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा
सुमुखो दुर्मुखश्चैव मुनखेन तु विवर्जितः ॥ १.१५.७७ ॥
अनन्तोऽनन्तरूपश्च(४६१)सुनखः सुरमन्दरः
सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चैषुधीस्तथा ॥ १.१५.७८ ॥
हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः (४७०)
निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ १.१५.७९ ॥
केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः
कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ १.१५.८० ॥
अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च
अक्रूरः क्रूररूपश्च(४८०)अक्रूरप्रियवन्दितः ॥ १.१५.८१ ॥
भगहा भगवान् भानुस्तथा भागवतः स्वगवतः स्वयम्
उद्धवश्चोद्धवस्येशो ह्युद्धेवन विचिन्तितः ॥ १.१५.८२ ॥
चक्रधृक्चञ्चलश्चैव(४९०) चलाचलविवर्जितः
अहं कारोपमाश्चित्तं गगनं पृथिवी जलम् ॥ १.१५.८३ ॥
वायुश्चक्षुस्तथा श्रोत्रं(५००)जिह्वा च घ्राणमेव च
वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ १.१५.८४ ॥
शङ्करश्चैव सर्वश्च क्षान्तिदः क्षान्तिकृन्नरः (५११)
भक्तप्रियस्तता भर्ता भक्तिमान् भक्तिवर्धनः ॥ १.१५.८५ ॥
भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः
कीर्तिर्देप्तिः (५२०) क्षमाकान्तिर्भक्तश्चैव (५३०) दया परा ॥ १.१५.८६ ॥
दानं दाता च कर्ता च देवदेवप्रियः शुचिः
शुचिमा न्सुखदो (५३१)मोक्षः कामश्चार्थः सहस्रपात् ॥ १.१५.८७ ॥
सहस्रशीर्षा वैद्यश्च मोक्षद्वारं तथैव च
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च(५४०) ॥ १.१५.८८ ॥
शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः ॥ १.१५.८९ ॥
मत्स्यः परशुरामश्च(५५०)प्रह्रादो बलिरेवच
शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् ॥ १.१५.९० ॥
खरदूषणहन्ता च रावणस्य प्रमर्दनः
सीतापतिश्च (५६०)वर्धिष्णुर्भरतश्च तथैव च ॥ १.१५.९१ ॥
कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः
नरान्तकान्तकश्चैव देवान्तकविनाशनः ॥ १.१५.९२ ॥
दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च
नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः (५७०) ॥ १.१५.९३ ॥
यमलार्जनभेत्ता च तपोहितकरस्तथा
वादित्रं चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ १.१५.९४ ॥
सारः सारप्रियः सौरः कालहन्तृनिकृन्तनः(५८०)
अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ १.१५.९५ ॥
प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः (५९०)शरत्
उदानश्च समानश्च भेषजं च भिषक्तथा ॥ १.१५.९६ ॥
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः
चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः(६००) ॥ १.१५.९७ ॥
हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः
पायूपस्थविहीनश्च मरुतापविवर्जितः ॥ १.१५.९८ ॥
प्रबोधेन विहीनश्च बुद्ध्या चैव वि वर्जितः
चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ १.१५.९९ ॥
अपानेन विहीनश्च व्यानेन च विवर्जितः(६१०)
उदानेन विहीनश्च समानेन विवर्जितः ॥ १.१५.१०० ॥
आकाशेन विहीनश्च वायुना परिवर्जितः
अग्निना च विहीनश्च उदकेन विवर्जितः ॥ १.१५.१०१ ॥
पृथिव्या च विहीनश्च शब्देन च विवर्जितः
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः(६२०) ॥ १.१५.१०२ ॥
रागेण विगतश्चैव अघेन परिवर्जितः
शोकेन रहितश्चैव वचसा परिवर्जितः ॥ १.१५.१०३ ॥
रजो विवर्जितश्चैव विकारैः षड्भिरेव च
कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ १.१५.१०४ ॥
लोभेन विगतश्चैव दम्भेन च विवर्जितः
सूक्ष्मश्चैव (६३०)सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ १.१५.१०५ ॥
विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा
प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ १.१५.१०६ ॥
भूतानां क्षोभकश्चैव बुद्धेश्च क्षोमकस्तथा
इन्द्रियाणां क्षोभकश्च(६४०)विषयक्षोभकस्तथा ॥ १.१५.१०७ ॥
ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ १.१५.१०८ ॥
त्वचा न गम्यः कूर्ंमश्च जिह्वाग्राह्यस्तथैव च
ग्राणोन्द्रियागम्य एव वाचाग्राह्यस्तथैव च (६५०) ॥ १.१५.१०९ ॥
अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च
अग्राह्यो मनसश्चैव बुद्ध्याग्राह्यो हरिस्तथा ॥ १.१५.११० ॥
अहं बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्या एव च
शङ्खपाणिश्चाव्ययश्च गदापाणिस्तथैव च (६६०) ॥ १.१५.१११ ॥
शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ १.१५.११२ ॥
ज्ञेयश्च ज्ञेयहीनश्च (६७०) ज्ञप्तिश्चैतन्यरूपकः
भावो भाव्यो भवकरो भावनो भवनाशनः ॥ १.१५.११३ ॥
गो विन्दो गोपतिर्गोपः(६८०)सर्वगोपीसुखप्रदः
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ १.१५.११४ ॥
उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः
आरणेयो(६९०) बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ १.१५.११५ ॥
दामोदरस्त्निकालश्च कालज्ञः कालवर्जितः
त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं(७००)त्रिविक्रमः ॥ १.१५.११६ ॥
विक्रमो दण्ड(र) हस्तश्च ह्येकदण्डी त्रिदण्डधृक्
सामभेदस्तथोपायः सामरूपी च सामगः ॥ १.१५.११७ ॥
सामवेदोः(७१०)ह्यथर्वश्च सुकृतः सुतरूपणः
अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ॥ १.१५.११८ ॥
ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्ठितः
यजुर्वेदो(७२०)यजुर्वेदविदेकपात् ॥ १.१५.११९ ॥
बहुपाच्च सुपाच्चैव तथैव च सहस्रपात्
चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली(७३०) ॥ १.१५.१२० ॥
सन्न्यासी चै सन्नयासश्चतुराश्रम एव च
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ १.१५.१२१ ॥
ब्राह्मणः क्षत्रियो वैश्यः (७४०)शूद्रो वर्णस्तथैव च
शीलदः शीलसम्पन्नो दुः शीलपरिवर्जितः ॥ १.१५.१२२ ॥
मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः
पूज्यो(७५०)वाक्करणं चैव वाच्यं चैव तु वाचकः ॥ १.१५.१२३ ॥
वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित्
वाक्यगम्यस्तीर्थवासी(७६०) तीर्थस्तीर्थो च तीर्थवित् ॥ १.१५.१२४ ॥
तीर्थादिभूतः सांख्यश्च निरुक्तं त्वधिदैवतम्
प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः(७७०) ॥ १.१५.१२५ ॥
प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः
शालग्रामनिवासी च (७८०)शालग्रामस्तथैव च ॥ १.१५.१२६ ॥
जलशायी योगशायी शेषशायी कुशेशयः
महीभर्ता च (७९०) कार्यं च कारणं पृथिवीधरः ॥ १.१५.१२७ ॥
प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट्
सम्राट्पूषा(८००) तथा स्वर्गो रथस्थः सारथिर्बलम् ॥ १.१५.१२८ ॥
धनी धनप्रदो धन्यो यादवानां हिते रतः
अर्जुनस्य प्रियश्चैव ह्यर्जुनो(८१०)भीम एव च ॥ १.१५.१२९ ॥
पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः
सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ १.१५.१३० ॥
अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च (८२०)
इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा ॥ १.१५.१३१ ॥
कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः
शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः ॥ १.१५.१३२ ॥
मुद्रो(८३०)मुद्रा करश्चैव सर्वमुद्राविवर्जितः
देही देहस्थितश्चैव देहस्य च नियामकः ॥ १.१५.१३३ ॥
श्रोत्रा श्रोत्रनियन्ता च श्रोतव्यः श्रवणं तथा
त्वक्स्थितश्च(८४०)स्पर्शयित्वा स्पृश्यं च स्पर्शनं तथा ॥ १.१५.१३४ ॥
रूपद्रष्टा च चक्षुः स्थो नियन्ता चक्षुषस्तथा
दृश्यं चैवतु जिह्वास्थो रसज्ञश्च नियामकः (८५०) ॥ १.१५.१३५ ॥
घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः
वाक्स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः ॥ १.१५.१३६ ॥
प्राणिस्थः (८६०)शिल्प कृच्छिल्पो हस्तयोश्च नियामकः
पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ १.१५.१३७ ॥
नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत्(८७०)
विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखं तथा ॥ १.१५.१३८ ॥
उपस्थस्य नियन्ता च तदानन्दकरश्च ह
शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च ॥ १.१५.१३९ ॥
अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः (८८०)
कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ १.१५.१४० ॥
अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः
धूमकृद्धूमरूपश्च(८९०) देवकीपुत्र उत्तमः ॥ १.१५.१४१ ॥
देवक्यानन्दनो नन्दो रोहिण्याः प्रिय एव च
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ १.१५.१४२ ॥
दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च (९००)
अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ १.१५.१४३ ॥
अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः
रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा ॥ १.१५.१४४ ॥
गोपीनां वल्लभश्चैव(९१०)पुण्यश्लोकश्च विश्रुतः
वृषाकपिर्यमो गुह्यो मकुलश्च बुधस्तथा ॥ १.१५.१४५ ॥
राहुः केतुर्ग्रहो ग्राहो(९२०) गजेन्द्रमुखमेलकः
ग्राहस्य विनिहन्ता च ग्रामी रक्षकस्तथा ॥ १.१५.१४६ ॥
किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च
विश्वरूपो विशालाक्षो(९३०) दैत्यसूदन एव च ॥ १.१५.१४७ ॥
अनन्तरूपो भूतस्थो देवदानवसंस्थितः
सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ १.१५.१४८ ॥
जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा (९४०)
स्वप्रस्थः स्वप्रवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ १.१५.१४९ ॥
जाग्रत्स्वप्नसुषुप्तैश्च विहीनो वै चतुर्थकः
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा (९५०) ॥ १.१५.१५० ॥
भुवनाधिपतिश्चैव भुवनानां नियामकः
पातालवासी पातालं सर्वज्वरविनाशनः ॥ १.१५.१५१ ॥
परमानन्दरूपी च धर्ंमाणां च प्रवर्तकः
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा(९६०) ॥ १.१५.१५२ ॥
प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा
प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः ॥ १.१५.१५३ ॥
अग्राहश्चैव गौरश्च सर्वः(९७०)शुचिरभिष्टुतः
वषट्कारो वषड्वौषट्स्वधा स्वाहा रतिस्तथा ॥ १.१५.१५४ ॥
पक्ता नन्दयिता(९८०)भोक्ता बोद्धा भावयिता तथा
ज्ञानात्मा चैव देहात्मा भू(उ) मा सर्वेश्वरेश्वरः ॥ १.१५.१५५ ॥
नदी नन्दी च नन्दीशो(९९०)भारतस्तरुनाशनः
चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम् ॥ १.१५.१५६ ॥
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा
पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च (१०००) ॥ १.१५.१५७ ॥
भरतो जनको जन्यः सर्वाकारवि वर्जितः
निराकारो निर्निमित्तो निरातङ्को निराश्रयः (१००८) ॥ १.१५.१५८ ॥
इति नामसहस्रं ते वृषभध्वज कीर्तितम्
देवस्य विष्णोरीशश्य सर्वपापविनाशनम् ॥ १.१५.१५९ ॥
पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात्
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ १.१५.१६० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीविष्णुसहस्रनामस्तोत्रनिरूपणं नाम पञ्चदशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १६
रुद्र उवाच
पुनर्ध्यानं समाचक्ष्व शङ्खचक्रगदाधर
विष्णोरीशस्य देवस्य शुद्धस्य परमात्मनः ॥ १.१६.१ ॥
हरिरुवाच
शृणु रुद्र ! हरेर्ध्यानं संसारतरुनाशनम्
दृशिरूपमनन्तं च सर्वव्याप्यजमव्ययम् ॥ १.१६.२ ॥
अक्षरं सर्वगं नित्यं महब्द्रह्मास्ति केवलम्
सर्वस्य जगतो मूलं सर्वगं परमेशवरम् ॥ १.१६.३ ॥
सर्वभूतहृदिस्थं वै सर्वभूतमहेश्वरम्
सर्वाधारं निराधारं सर्वकारणकारणम् ॥ १.१६.४ ॥
अलेपकं तथा मुक्तं मुक्तयोगिविचितितम्
स्थूलदेहविहीनं च चक्षुषा परिवर्जितम् ॥ १.१६.५ ॥
वागिन्द्रियविहीनं च प्राणिधर्ंमविवर्जितम्
पादेन्द्रियविहीनं च वाग्धर्मपरिवर्जितम्
पायूपस्थविहीनं च सर्वैंन्द्रिय विवर्जितम् ॥ १.१६.६ ॥
मनोविरहितं तद्वन्मनोधर्ंमविवर्जितम्
बुद्ध्या विहीनं देवेशं चेतसा परिवर्जितम् ॥ १.१६.७ ॥
अहङ्कारविहीनं वै बुद्धिधर्ंमविवर्जितम्
प्राणेन रहितं चैव ह्यपानेन विवर्जितम् ॥ १.१६.८ ॥
व्यानाख्यवायुहीनं वै प्राणधर्ंमविवर्जितम्
हरिरुवाच
पुनः सूर्यर्चनं वक्ष्ये यदुक्तं भृगवे पुरा ॥ १.१६.९ ॥
ओं खखोल्काय नमः
सूर्यस्य मूलमन्त्रोऽयं भुक्तिमुक्तिप्रदायकः ॥ १.१६.१० ॥
ओं खखोल्काय त्रिदशाय नमः
ओं विचि ठठ शिरसे नमः
ओं ज्ञानिने ठठ शिखायै नमः
ओं सहस्ररश्मये ठठ कवचाय नमः ॥ १.१६.११ ॥
ओं सर्वतेजोऽधिपतये ठठ अस्त्राय नमः
ओं ज्वलज्वल प्रज्वलप्रज्वल ठठ नमः ॥ १.१६.१२ ॥
अग्निप्राकारमन्त्रोऽयं सूर्यस्याघविनाशनः
ओं आदित्याय विद्महे.विश्वभा वाय धीमहि. तन्नः सूर्य प्रचोदयात् ॥ १.१६.१३ ॥
सकलीकरणं कुर्याद्रायत्र्या भास्करस्य च
धर्ंमात्मने च पूर्वस्मिन्यमा येति च दक्षिणे ॥ १.१६.१४ ॥
दण्डनायकाय ततो दैवतायेति चोत्तरे
श्यामपिङ्गलमैशान्यामाग्नेय्यां दीक्षितं यजेत् ॥ १.१६.१५ ॥
वज्रपाणिं च नैरृत्यां भूर्भुवःस्वश्च वायवे
ओं चन्द्राय नक्षत्राधिपतये नमः
ओं अङ्गारकाय क्षितिसुताय नमः
ओं बुधाय सोमसुताय नमः
ओं वागीश्वराय सर्वविद्याधिपतये नमः
ओं शुक्राय महर्षये भृगुसुताय नमः
ओं शनैश्चराय सूर्यात्मजाय नमः
ओं राहवे नमः
ओं केतवे नमः ॥ १.१६.१६ ॥
पूर्वादीशानपर्यन्ता एते पूज्या वृषध्वज
ओं अनूकाय नमः
ओं प्रथमनाथाय नमः
ओं बुद्धाय नमः ॥ १.१६.१७ ॥
ओं भगवन्नपरिमितमयूखमालिन् ! सकलजगत्पते ! सप्ताश्ववाहन ! चतुर्भुज ! परमसिद्धिप्रद ! विस्फुलिङ्गपिङ्गल ! तत एह्येहि इदमर्घ्यं मम शिरसि गतं गृह्णगृह्ण तेजोग्ररूपमनग्न ! ज्वलज्वल ठठ नमः ॥ १.१६.१८ ॥
अनेनावाह्य मन्त्रेण ततः सूर्यं विसर्जयेत्
ओं नमो भगवते आदित्याय सहस्र किरणाय गच्छ सुखं पुनरागमनायेति ॥ १.१६.१९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हरिध्यानसूर्यार्चनयोर्निरूपणं नाम षोडशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १७
हरिरुवाच
पुनः सूर्यार्चनं वक्ष्ये यदुक्तं धनदाय हि
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम् ॥ १.१७.१ ॥
आवाहनीं ततो बद्धा मुद्रामावाहयेद्रविम्
खखोल्कं स्थाप्य मुद्रां तु स्थापयेन्मन्त्ररूपिणीम् ॥ १.१७.२ ॥
आग्नेय्यां दिशि देवस्य हृदयं स्थापयेच्छिव !
ऐशान्यां तु शिरः स्थाप्यं नैरृत्यां विन्यसेच्छिखाम् ॥ १.१७.३ ॥
पौरन्दर्यां न्यसेद्धर्ंममेकाग्रस्थितमानसः
वायव्यां चैव नेत्रं तु वारुण्यामस्त्रमेव च ॥ १.१७.४ ॥
ऐशान्यां स्थापयेत्सोमं पौरन्दर्यां तु लोहितम्
आग्नेय्यां सोमतनयं याम्यां चैव बृहस्पतिम् ॥ १.१७.५ ॥
नैरृत्यां दानवगुरुं वारुण्यां तु शनैश्चरम्
वायव्यां च तथा केतुं कौबेर्यां राहुमेव च ॥ १.१७.६ ॥
द्वितीयायां तु कक्षायां सूर्यान्द्वादश पूजयेत्
भगः सूर्योर्ऽय्यमा चैव मित्रो वै वरुणस्तथा ॥ १.१७.७ ॥
सविता चैव धाता च विवस्वांश्च महाबलः
त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुरुच्यते ॥ १.१७.८ ॥
पूर्वादावर्चयेद्देवानिन्द्रादीञ्छ्रद्धया नरः
जया च विजया चैव जयन्ति चापराजिता
शेषश्च वासुकिश्चैव नागानित्यादि पूजयेत् ॥ १.१७.९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चन विधिर्नाम सप्तदशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १८
सूत उवाच [SUTA SAID]
गरुडोक्तं कश्यपाय वक्ष्ये मृत्युञ्जयार्चनम्
उद्धारपूर्वकं पुण्यं सर्वदेवमयं मतम् ॥ १.१८.१ ॥
ओङ्कारं पूर्वमुद्धृत्य जु(हु)ङ्कांरं तदनन्तरम्
सविसर्गं तृतीयं स्यान्मृत्युदारिद्रयमर्दनम् ॥ १.१८.२ ॥
ईशविष्णवर्कदेव्यादिकवचं सर्वसाधकम्
अमृतेशं महामन्त्रन्त्र्यक्षरं पूजनं समम्
जपनान्मृत्युहीनाः स्युः सर्वपापविवर्जिताः ॥ १.१८.३ ॥
शतजप्याद्वेदफलं यज्ञतीर्थफलं लभेत्
अष्टोत्तरशताज्जाप्यात्रिसन्ध्यं मृत्यु शत्रुजित ॥ १.१८.४ ॥
ध्यायेच्च सितपद्मस्थं वरदं चाभयं करे
द्वाभ्यां चामृतकुम्भं तु चिन्तयेदमृतेश्वरम् ॥ १.१८.५ ॥
तस्यैवाङ्गगतां देवीममृतामृतभाषिणी(विनि) म्
कलशं दक्षिणे हस्ते वामहस्ते सरोरुहम् ॥ १.१८.६ ॥
जपेदष्टसहस्रं वै त्रिसन्ध्यं मासमेकतः
जरामृत्युमहाव्याधिशत्रुच्छिवशान्तिदम् ॥ १.१८.७ ॥
आह्वानं स्थापनं रोधं सन्निधानं निवेशनम्
पाद्यमा चमनं स्नानमर्घ्यं स्रगनुलेपनम् ॥ १.१८.८ ॥
दीपांबरं भूषणं च नैवद्यं पानवीजनम्
मात्रामुद्राजपध्यानं दक्षिणा चाहुतिः स्तुतिः ॥ १.१८.९ ॥
वाद्यं गतिं च नृत्यं च न्यासयोगं प्रदक्षिणम्
प्रणतिर्मन्त्रशय्या च वन्दनं च विसर्जनम् ॥ १.१८.१० ॥
षडङ्गादिप्रकारेण पूजनं तु क्रमोदितम्
परमेशमुखोद्रीतं यो जानाति स पूजकः ॥ १.१८.११ ॥
अर्घ्यपात्रार्चनं चादावस्त्रेणैव तु ताडनम्
शोधनं कवचेनैव अमृतीकरणं ततः ॥ १.१८.१२ ॥
पूजा चाधारशक्त्यादेः प्राणायामं तथासने
पीठसुद्धिं ततः कुर्याच्छोषणाद्यैस्ततः स्मरेत् ॥ १.१८.१३ ॥
आत्मानं देवरूपं च कराङ्गन्यासकं चरेत्
आत्मानं पूजयेत्पश्चाज्यो तीरूपं हृदब्जतः ॥ १.१८.१४ ॥
मूर्तौ वा स्थण्डिले वापि क्षिपेत्पुष्पं तु भास्वरम्
आह्वानद्वारपूजार्थं पूजा चाधारशक्तितः ॥ १.१८.१५ ॥
सान्निध्यकरणं देवे परिवारस्य पूजनम्
अङ्गषट्कस्य पूजा वै कर्तव्या च विपश्चितैः ॥ १.१८.१६ ॥
धर्मादयश्च शक्राद्याः सायुधाः परिवारकाः
युगवेदमुहूर्ताश्च पूजेयं भुक्तिमुक्तिकृत् ॥ १.१८.१७ ॥
मातृकाश्च गणांश्चादौ नन्दिगङ्गे च पूजयेत्
महाकालं च यमनां देहल्यां पूजयेत्पुरा ॥ १.१८.१८ ॥
ओं अमृतेश्वर ओं भैरवाय नमः
एवं ओं जुं हंसः सूर्याय नमः ॥ १.१८.१९ ॥
एवं शिवाय कृष्णाय ब्रह्मणे च गणाय च
चण्डिकायै सरस्वत्यै महालक्ष्मादि पूजयेत् ॥ १.१८.२० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाव्ये आचारकाण्डेऽमृतेशमृत्युञ्जयपूजनं नामाष्टादशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १९
सूत उवाच [SUTA SAID]
प्राणेश्वरं गारुडं च शिवोक्तं प्रवदाम्यहम्
स्थानान्यादौ प्रवक्ष्यामि नागदष्टो न जीवति ॥ १.१९.१ ॥
चितावल्मीकशैलादौ कपे च विवरे तरोः
दंशे रेखात्रयं यस्य प्रच्छन्नं स न जीवति ॥ १.१९.२ ॥
षष्ठ्यां च कर्कटे मेषे मूलाश्लेषामघादिषु
कक्षाश्रोणिगले सन्धौ शङ्खकर्णोदरादिषु ॥ १.१९.३ ॥
दण्डी शस्त्रधरो भिक्षुर्न ग्नादिः कालदूतकः
बाहौ च वक्क्रे ग्रीवायां दष्टायां न हि जीवति ॥ १.१९.४ ॥
पूर्वं दिनपतिर्भुङ्क्ते अर्धयामं ततोऽपरे
शेषा ग्रहाः प्रतिदिनं षट्संख्या परिवर्तनैः ॥ १.१९.५ ॥
नागभोगः क्रमाञ्ज्ञेयो रात्रौ बाणविवर्तनैः
शेषोर्ऽकः फणिपश्चन्द्रस्तक्षको भौम ईरितः ॥ १.१९.६ ॥
कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः
शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः ॥ १.१९.७ ॥
रात्रौ दिवा सुरगुरोर्भागे स्यादमरान्तकः
पङ्गोः काले दिवा राहुः कुलिकेन सह स्थितः ॥ १.१९.८ ॥
यामार्धसन्धिसंस्थां च वेलां कालवतीं चरेत्
बाणद्विषड्वह्निवाजियुगभूरेकभागतः? ॥ १.१९.९ ॥
दिवा षडेदनेत्राद्रिपञ्चत्रिमानुषांशकैः
पादाङ्गुष्ठे पादपृष्ठे पादपृष्ठे गुल्फे जानुनि लिङ्गके ॥ १.१९.१० ॥
नाभौ हृदि स्तनतटे कण्ठे नासापुटेऽक्षिणि
कर्णयोश्च भ्रुवोः शङ्खे मस्तके प्रतिपत्क्रमात् ॥ १.१९.११ ॥
तिष्ठच्चन्द्रश्च जीवेच्च पुंसो दक्षिणभागके
कायस्य वामभागे तु स्त्रिया वायुवहात्करात् ॥ १.१९.१२ ॥
अमृतस्तत्कृतो मोहो निवर्तेत च मर्दनात्
आत्मनः परमं बीजं हंसाख्यं स्फटिकामलम् ॥ १.१९.१३ ॥
दातव्यं विषपापघ्नं बीजं तस्य चतुर्विधम्
विन्दुपञ्चस्वरयुतमाद्यमुक्तं द्वितीयकम्
षष्ठारूढं तृतीयं स्यात्सविसर्गं चतुर्थकम्
ओं कुरु कुले स्वाहा ॥ १.१९.१४ ॥
विद्या त्रैलोक्यरक्षार्थं गरुडेन धृता पुरा
वधेप्सुर्नागनागानां मुखेऽथ प्रणवं न्यसेत् ॥ १.१९.१५ ॥
गले कुरु न्यसेद्धीमान्कुले च गुल्फयोः स्मृतः
स्वाहा पादयुगे चैव युगहा न्यास ईरितः ॥ १.१९.१६ ॥
गृहे विविखिता यत्र तन्नागाः संत्यजन्ति च
सहस्रमन्त्रं जप्त्वा तु कर्णे सूत्रं धृतं तथा ॥ १.१९.१७ ॥
यद्रृहे शर्करा जप्ता क्षिप्ता नागास्त्यजन्ति तत्
सप्तलक्षस्य जप्याद्धि सिद्धिः प्राप्ता सुरासुरैः ॥ १.१९.१८ ॥
ओं सुवर्णरेखे कुक्कुटविग्रहरूपिणि स्वाहा
एवञ्चाष्टदले पद्म दले वर्णयुगं लिखेत् ॥ १.१९.१९ ॥
नामैतद्वारिधाराभिः स्नातो दष्टो विषं त्यजेत्
ओं पक्षि स्वाहा ॥ १.१९.२० ॥
अङ्गुष्ठादि कनिष्ठान्तं करे न्यस्याथ देहके
के (कै) वक्क्रे हृदि लिङ्गे च पादयोर्गरुडस्य हि ॥ १.१९.२१ ॥
नाक्रामन्ति च तच्छायां स्वप्नेऽपि विषपन्नगाः
यस्तु लक्षं जपेच्चास्याः स दृष्ट्वा(ष्ट्या) नाशयेद्विषम् ॥ १.१९.२२ ॥
ओं ह्री ह्रौ ह्रीं भि(भी) रुण्डायै स्वाहा
कर्णे जप्ता त्वियं विद्या दष्टकस्य विषं हरेत् ॥ १.१९.२३ ॥
अ आ न्यसेत्तु पादाग्रे इ ई गुलफेऽथ जानुनि
उ ऊ ए ऐ कटितटे ओ नाभौ हृदि औ न्यसेत् ॥ १.१९.२४ ॥
वक्क्रे अमुत्तमाङ्गे अः न्यसेद्वै हंससंयुताः
हंसो विषादि च हरेज्जप्तो ध्यातोऽथ पूजितः ॥ १.१९.२५ ॥
गरुडोऽहमिति ध्यात्वा कुर्याद्विषहरां (रीं) क्रियाम्
हंमन्त्रं गात्रविन्यस्तं विषादिहरमीरितम् ॥ १.१९.२६ ॥
न्यस्य हंसं वामकरे नासामुखनिरोधकृत्
मन्त्रो हरेद्दष्टकस्य त्वङ्मांसादिगतं विषम् ॥ १.१९.२७ ॥
स वायुना समाकृष्य दष्टानां गरलं हरेत्
तनौ न्यसेद्दष्टकस्य नीलकण्ठादि संस्मरेत् ॥ १.१९.२८ ॥
पीतं प्रत्यङ्गिरामूलं तण्डुलद्भिर्विषापहम्
पुनर्नवाफलिनीनां मूलं वक्क्रजमीदृशम् ॥ १.१९.२९ ॥
मूलं शुक्लबृहत्यास्तु कर्कोट्यागैरिकर्णिकम्
अद्भिर्घृष्टघृतोपेतलेपोऽयं विषमर्दनः ॥ १.१९.३० ॥
विषमृद्धिं न व्रजेच्च उष्णं पिबति यो घृतम्
पञ्चाङ्गं तु शिरीषस्य मूलं गृञ्जनजं तथा ॥ १.१९.३१ ॥
सर्वाङ्गलेपतशचापि पानाद्वा विषहृद्भवेत्
ह्रीं गोनसादिविषहृत् ॥ १.१९.३२ ॥
हृल्ललाटविसर्गान्तं ध्यातं वश्या दिकृद्भवेत्
न्यस्तं योनौ वशेत्कन्यां कुर्यान्मदजलाविलम् ॥ १.१९.३३ ॥
जप्त्वा सप्ताष्टसाहस्रं गरुत्मानिव सर्वगः
कविः स्याच्छ्रुतिधरी च वश्याः स्त्रीश्चायुराप्नुयात्
विषहृत्स्यात्कथा तद्वन्मणिर्व्यासः स्मृतो ध्रुवम् ॥ १.१९.३४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्पविषहरोपाय(प्राणेश्वरविद्या) निरूपणं नामैकोनविंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २०
सूत उवाच [SUTA SAID]
वक्ष्ये तत्परमं गुह्यं शिवोक्तं मन्त्रबृन्दकम्
पाशं धनुश्च चक्रं च मुद्ररं शूलपट्टिशम् ॥ १.२०.१ ॥
एतैरेवायुधैर्युद्धे मन्त्रैः शत्रूञ्जयेन्नृपः
मन्त्रोद्धारः पद्मपात्रे आदि पूर्वादिके लिखेत् ॥ १.२०.२ ॥
अष्टवर्गं चाष्टमं च ख्यातमीशानपत्रके
ओं कारो ब्रह्म बीजं स्याद्ध्रीङ्कारो विष्णुरेव च ॥ १.२०.३ ॥
ह्रीङ्का रश्च शिवः शूले त्रिशाखे तु क्रमान्न्यसेत्
ओं ह्रीं ह्रीं ॥ १.२०.४ ॥
शूलं गृहीत्वा हस्तेनाभ्राम्य चाकाशसंमुखम्
तद्दर्शनान्द्रहा नागा दृष्ट्वा वा नाशमाप्नु युः ॥ १.२०.५ ॥
धूमारक्ते करं मध्ये ध्यात्वा खे चिन्तयेन्नरः
दुष्टा नागा ग्रहा मेघा विनश्यन्ति च राक्षसाः ॥ १.२०.६ ॥
त्रिलोकान्रक्षयेन्मन्त्रो मर्त्यलोकस्य का कथा
ओं जूं सूं हूं फट् ॥ १.२०.७ ॥
खादिरान्कीलकानष्टौ क्षेत्रे संमन्त्र्य विन्यसेत्
न तत्र वज्रपातस्य स्फूर्जथ्वादेरुपद्रवः ॥ १.२०.८ ॥
गरुडोक्तैर्महामन्त्रैः कीलकानष्ट मन्त्रयेत्
एकविंशतिवाराणि क्षेत्रे तु निखनेन्निशि ॥ १.२०.९ ॥
विद्युन्मूषकवज्रादिसमुपद्रव एव च
हरक्षमलवरयू बिन्दुयुक्तः सदाशिवः ॥ १.२०.१० ॥
ओं ह्रां सदाशिवाय नमः
तर्जन्या विन्यसेत्पिण्डं (ण्डे) दाडिमीकुसुमप्रभम् ॥ १.२०.११ ॥
तस्यैव दर्शनाद्दुष्टा मेघविद्युद्दिपादयः
राक्षसा भूतडाकिन्यः प्रद्रवन्ति दिशो दश ॥ १.२०.१२ ॥
ओं ह्रीं गणेशाय नमः
(ओं ह्रीं) स्तम्भनादिचक्राय नमः
ओं ऐं ब्रहयैन्त्रै लोक्यडामराय नमः ॥ १.२०.१३ ॥
भैरवं पिण्डमाख्यातं विषपापग्रहापहम्
क्षेत्रस्य रक्षणं भूतराक्षसादेः प्रमर्दनम् ॥ १.२०.१४ ॥
ओं नमः
इन्द्रवज्रं करे ध्यात्वा दुष्टमेघादिवारणम्
विष शत्रुगणा भूता नश्यन्ते वज्रमुद्रया ॥ १.२०.१५ ॥
ओं क्षुं(क्ष) नमः
स्मरेत्पाशं वामहस्ते विषभूतादि नश्यति
ओं ह्रां (ह्रो) नमः
हरेदुच्चारणान्मन्त्रो विषमेघग्रहादिकान् ॥ १.२०.१६ ॥
ध्यात्वा कृतान्तं च दहेच्छेदकास्त्रेण वै जगत्
ओं क्ष्णं (क्ष्म) नमः
ध्यात्वा तु भैरवं कुर्यान्द्रहभूतविषापहम् ॥ १.२०.१७ ॥
ओं लसद्दिजिह्वाक्ष स्वाहा
क्षेत्रादौ ग्रहभूतादिविषपक्षिनिवारणम् ॥ १.२०.१८ ॥
ओं क्ष्व (क्ष्णं) नमः
रक्तेन पटहे लिख्य शब्दात्रेसुर्ग्रहादयः
ओं मर मर मारयमारय स्वाहा
ओं हुं फट्स्वाहा ॥ १.२०.१९ ॥
शूलं चाष्टशतैर्मन्त्र्य भ्रामणाच्छत्रुवृन्दहृत्
ऊर्धशक्तिनिपातेन अधः शक्तिं निकुञ्चेयेत् ॥ १.२०.२० ॥
पूरके पूरिता मन्त्राः कुम्भकेन सुमन्त्रिताः
प्रणवेनाप्यायितास्ते मनवस्तदुदीरिताः
एवमाप्यायिता मन्त्रा भृत्यवत्फलदायकाः ॥ १.२०.२१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषादिहरमन्त्रबृन्दनिरूपणं नाम विंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २१
सूत उवाच [SUTA SAID]
पञ्चवत्क्रार्चनं वक्ष्ये पृथ ग्यद्भुक्तिमुक्तिदम्
ओं भूर्विष्णवे आदिभूताय सर्वाधाराय मूर्तये स्वाहा ॥ १.२१.१ ॥
सद्योजातस्य चाह्वानमनेन प्रथमं चरेत्
ओं हां सद्योजातायैव कला ह्यष्टौ प्रकीर्तिताः ॥ १.२१.२ ॥
सिद्धिरृद्धिर्धृतिर्लक्ष्मीर्मेधा कान्तिः स्वधा स्थितिः (८)
ओं हीं वामदेवायैव कलास्तस्य त्रयोदश ॥ १.२१.३ ॥
रजा रक्षा रतिः पाल्या कान्ति स्तृष्णा मतिः क्रिया
कामा बुद्धिश्च रात्रिश्च त्रासनी मोहिनी तथा (१३) ॥ १.२१.४ ॥
मनोन्मनी अघोरा च तथा मोहा क्षुधा कलाः
निद्रा मृत्युश्च माया च (८)अष्टसंख्या भयङ्कर ॥ १.२१.५ ॥
ओं हैं तत्पुरुषायैव (षाय) निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिर्न केवला ॥ १.२१.६ ॥
ओं हौं ईशानाय नमो निश्चला च निरञ्जना
शशिनी चाङ्गना चैव मरीचिर्ज्वालिनी तथा ॥ १.२१.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डं पञ्चवक्क्रपूजनं नामैकविंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २२
सूत उवाच [SUTA SAID]
शिवार्चनं प्रवक्ष्यामि बुक्तिमुक्तिकरं परम्
शान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम् ॥ १.२२.१ ॥
पञ्च वक्क्राणि ह्रस्वानि दीर्घाण्यङ्गानि बिन्दुना
सविसर्गं वदेदस्त्रं शिव ऊर्घ्वं तथा पुनः ॥ १.२२.२ ॥
षष्ठेनाधो महामन्त्रो हौमित्येवाखिलार्थदः
हस्ताभ्यां संस्पृशेत्पादावूर्ध्वं पादान्मस्तकम् ॥ १.२२.३ ॥
महामुद्रा हि सर्वेषां कराङ्गन्यासमाचरेत्
तालहस्तेन पृष्ठं च अस्त्रमन्त्रेण शोधयेत् ॥ १.२२.४ ॥
कनिष्ठामादितः कृत्वा तर्जन्यङ्गानि विन्यसेत्
पूजनं संप्रवक्ष्यामि कर्णिकायां त्दृदम्बुजे ॥ १.२२.५ ॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यादि त्दृदार्चयेत्
आवाहनं स्थापनं च पाद्यमर्घ्यं हृदार्पयेत् ॥ १.२२.६ ॥
आचामं स्नपनं पूजामेकाधारणतुल्यकम्?
अग्निकार्यविधिं वक्ष्ये अस्त्रेणोल्लेखनं चरेत् ॥ १.२२.७ ॥
वर्ंमणाभ्युक्षणं कार्यं शक्तिन्यासं हृदा चरेत्
त्दृदि वा शक्तिगर्ते च प्रक्षिपेज्जातवेदसम् ॥ १.२२.८ ॥
गर्भाधानादिकं कृत्वा निष्कृतिं चारस्य पश्चिमाम्
हृदा कृत्वा सर्वकर्ंम शिवं सांगं तु होमयेत् ॥ १.२२.९ ॥
पूजयेन्मण्डले शम्भुं पद्मगर्भे गराङ्कितम्
चतुः षष्ट्यन्तमष्टादि खाक्षि खाद्यादिमण्डलम् ॥ १.२२.१० ॥
खाक्षीन्द्रसूर्यगं सर्वखादिवेदेन्दु (देवेन्दु) वर्तनम्
आग्नेय्यां कारयेत्कुण्डमर्धचन्द्रनिभं शुभम् ॥ १.२२.११ ॥
अग्निशास्त्र परायुस्थो त्दृदयादिगणोच्यते
अस्त्रं दिशा सुपद्मस्य कर्णिकायां सदाशिवः ॥ १.२२.१२ ॥
दीक्षां वक्ष्ये पञ्चतत्त्वे स्थितां भूम्यादिकां परे
निवृत्तिर्भूप्रतिष्ठाद्यैर्विद्याग्निः शान्तिवन्निजः ॥ १.२२.१३ ॥
शान्त्यतीतं भवेव्द्योम तत्परं शान्तमव्ययम्
एकैकस्य शतं होमा हत्येवं पञ्च होमयेत् ॥ १.२२.१४ ॥
पश्चात्पूर्णाहुतिं दत्त्वा प्रा(प्र)सोदन शिवं स्मरेत्
प्रायश्चित्तविशुद्ध्यर्थमेकैकाष्टाहुतिं क्रमात् ॥ १.२२.१५ ॥
होमयेदस्त्रबीजेन एवं दीक्षां समापयेत्
यजनव्यतिरेकेण गोप्यं संस्कारमुत्तमम् ॥ १.२२.१६ ॥
एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम् ॥ १.२२.१७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चनप्रकारो नाम द्वाविंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २३
सूत उवाच [SUTA SAID]
शिवार्चनं प्रवक्ष्यामि धर्ंमकामादिसाधनम्
त्रिभिर्मन्त्रैराचामेत्तु स्वाहान्तैः प्रणवादिकैः ॥ १.२३.१ ॥
ओं हां आत्मतत्त्वाय विद्यातत्त्वाय हीं तथा
ओं हूं शिवतत्त्वाय स्वाहा हृदा स्याच्छ्रोत्रवन्दनम् ॥ १.२३.२ ॥
भस्मस्नानं तर्पणं च ओं हां स्वाहा सर्वमन्त्रकाः
सर्वे देवाः सर्वमुनिर्नमोऽन्तो वौषडन्तकः ॥ १.२३.३ ॥
स्वधान्ताः सर्वपितरः स्वधान्ताश्च पितामहाः
ओं हां प्रपितामहेभ्यस्तथा मातामहादयः ॥ १.२३.४ ॥
हां नमः सर्वमातृभ्यस्ततः स्यात्प्राणसंयमः
आचामं मार्जनं चाथो गायत्रीं च जपेत्ततः ॥ १.२३.५ ॥
ओं हां तन्महेशाय विद्महे.वाग्विशुद्धाय धीमहि. तन्नो रुद्रः प्रचोदयात् ॥ १.२३.६ ॥
सूर्योपस्थानकं कृत्वा सूर्यमन्त्रैः प्रपूजयेत्
ओं हां हीं हूं हैं हौं हः शिवसूर्याय नमः
ओं हं खखोल्काय सूर्यमूर्तये नमः
ओं ह्रां ह्रीं सः सूर्याय नमः ॥ १.२३.७ ॥
दण्डिने पिङ्गले त्वातिभूतानि च ततः स्मरेत्
अग्नयादौ विमलेशानमाराध्य परमं सुखम् ॥ १.२३.८ ॥
यजेत्पद्मां च रां दीप्तां रीं सूक्ष्मां रूं जयां च रें
भद्रां च रैं विभूतिं रों विमलां रौममोधि (रोधि) काम् ॥ १.२३.९ ॥
रं विद्युतां च पूर्वादौ रा (रं) मध्ये सर्वतोमुखीम्
अर्कासनं सूर्यमूर्तें ह्रां ह्रूं (ह्रीं) सः सूर्यमर्चयेत् ॥ १.२३.१० ॥
ओं आं हृदर्काय च शिरः शिखा च भूर्भुवः स्वरोम्
ज्वालिनीं ह्रं कवचस्य चास्त्रं राज्ञां च दीक्षिताम् ॥ १.२३.११ ॥
यजेत्सूर्यहृदा सर्वान्सों सोमं मं च मङ्गलम्
बं बुधं बृं बृहस्पतिं भं भार्गवं शं शनैश्चरम् ॥ १.२३.१२ ॥
रं राहुं कं यजेत्केतुं ओं तेजश्चण्डमर्चयेत्
सूर्यमभ्यर्च्य चाचम्य कनिष्ठातोऽङ्गकांन्यसेत् ॥ १.२३.१३ ॥
हां हृच्छिरो हूं शिखा हैं वर्ंम हौं चैव नेत्रकम्
होऽस्त्रं शक्तिस्थितिं कृत्वा भूतशुद्धिं पुनर्न्यसेत् ॥ १.२३.१४ ॥
अर्घ्यपात्रं ततः कृत्वा तदद्भिः प्रोक्षयेद्यजेत् ॥ १.२३.१५ ॥
आत्मानं पद्मसंस्थं च हौं शिवाय ततो बहिः
द्वारे नन्दिमहाकालौ गङ्गा च यमुनाथ गौः ॥ १.२३.१६ ॥
श्रीरस्त्रं वास्त्वधिपतिं ब्रह्माणं च गणं गुरुम्
शक्त्यनन्तौ यजेन्मध्ये पूर्वादौ धर्ंमकादिकम् ॥ १.२३.१७ ॥
अधर्ंमाद्यं च वह्न्यादौ मध्ये पद्मस्य कर्णिके
वामाज्येष्ठा च पूर्वादौ रौद्री काली च पूर्षदः ॥ १.२३.१८ ॥
ओं हौं कलविकरिण्यै बलविकरिणी ततः
बलप्रमथिनी सर्वभूतानां दमनी ततः ॥ १.२३.१९ ॥
मनोन्मनी यजेदेताः पठिमध्ये शिवाग्रतः
शिवासनं महामूर्ति मूर्तिमध्ये शिवाय च ॥ १.२३.२० ॥
आवाहनं स्थापनं च सन्निधानं निरोधनम्
सकलीकरणं मुद्रादर्शनं चार्घ्यपाद्यकम् ॥ १.२३.२१ ॥
आचामाभ्यङ्गमुद्वर्तं स्नानं निर्ंमथनं चरेत्
वस्त्रं विलेपनं पुष्पं धूपं दीपं चरुं ददेत् ॥ १.२३.२२ ॥
आचामं मुखवासं च ताम्बूलं हस्तशोधनम्
छत्रचामरपावित्रं परमीकरणं चरेत् ॥ १.२३.२३ ॥
रूपक्पेन चैकाहजपो जाप्यसमर्पणम्
स्तुतिर्नतिर्हृदाद्यैश्च ज्ञेयं नामाङ्ग पूजनम् ॥ १.२३.२४ ॥
अग्नीशरक्षो वायव्ये मध्ये पूर्वादितन्त्रकम्
इन्द्राद्यांश्च यजेच्चण्डं तस्मै निर्माल्यमर्पयेत् ॥ १.२३.२५ ॥
गुहायातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम्
सिद्धिर्भवतु मे देव तत्प्रसादात्त्वयि स्थितिः ॥ १.२३.२६ ॥
यत्किञ्चित्क्रियते कर्म सदा सुकृतदुष्कृतम्
तन्मे शिवपदस्थस्य रुद्र क्षपय शङ्कर ॥ १.२३.२७ ॥
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत्
शिवो जयति सर्वत्र यः शिवः सोऽहमेव च ॥ १.२३.२८ ॥
यत्कृतं यत्करिष्यामि तत्सर्वं सुकृतं तव(तस्तवम्)
त्वं त्राता विश्वनेता च नान्योनाथोऽस्तिमेशिव ॥ १.२३.२९ ॥
अथान्येन प्रकारेण शिवपूजां वदाम्यहम्
गणः सरस्वती नन्दी महाकालोऽथगङ्गया ॥ १.२३.३० ॥
पवनास्त्रं वास्त्वधिपो द्वारि पूर्वादितस्त्विमे
इन्द्राद्याः पूजनीयाश्च तत्त्वानि पृथिवी जलम् ॥ १.२३.३१ ॥
तेजो वायुर्व्योम गन्धो रसरूपे च शब्दकः
स्पर्शो वाक्पाणि पादं च पायूपस्थं श्रुतित्वचम् ॥ १.२३.३२ ॥
चक्षुर्जिह्वा घ्राणमनो बुद्धिश्चाहं प्रकृत्यपि
पुमान्नागो बुद्धिविद्ये कला कालो नियत्यपि ॥ १.२३.३३ ॥
माया च शुद्ध विद्या च ईश्वरश्च सदाशिवः
शक्तिः शिवश्च ताञ्ज्ञात्वा मुक्तो ज्ञानी शिवो भवेत् ॥ १.२३.३४ ॥
यः शिवः स हरिर्ब्रह्मा सोऽहं ब्रह्मास्मि शङ्कर ॥ १.२३.३५ ॥
भूतशुद्धिं प्रवक्ष्यामि यया शुद्धः शिवो भवेत्
हृत्पद्मे सद्योमन्त्रः स्यान्निवृत्तिश्च कला इडा ॥ १.२३.३६ ॥
पिङ्गला द्वे च नाड्यौ तु प्राणोऽपानश्च मारुतौ
इन्द्रो देहो ब्रह्महेतुश्चतुरस्त्रं च मण्डलम् ॥ १.२३.३७ ॥
वक्त्रेण लाञ्छितं वायुमेकोद्धातगुणाः शराः
त्दृत्स्थानसादृश्यरुतं शतकोटिप्रविस्तरम् ॥ १.२३.३८ ॥
ओं ह्रीं प्रतिष्ठायै ह्रूं ह्रः फट्
ओं ह्रीं ह्रूं विद्यायै ह्रं ह्रः फट्
चतुरशीतिकोटीनामुच्छ्रयं भूमितन्त्रकम् ॥ १.२३.३९ ॥
तन्मध्ये भववृक्षं च आत्मानं च विचिन्तयेत्
अधोमुखीं ततः पृथ्वीं तत्तच्छुध्दं भवेद्ध्रुवम् ॥ १.२३.४० ॥
वामा देवी प्रतिष्ठा च सुषुम्ना धारिका तथा
समानोदानवरुणा देवता विष्णु कारणम् ॥ १.२३.४१ ॥
अद्धाताश्च गुणा वेदाः श्वेतं ध्यानं तथैव च
एवं कुर्यात्कण्ठपद्ममर्धचन्द्राख्यमण्डलम् ॥ १.२३.४२ ॥
पद्माङ्कितं द्विविंशतिककोटिविस्तीर्णमौ स्मरेत्
चतुर्नवत्युच्छ्रयं च आत्मानं च अधोमुखम् ॥ १.२३.४३ ॥
तालुस्थानं च पद्मं च अघोरो विद्ययान्वितः
नाभ्यो(ड्यो) ष्ठयोर्हस्तिजिह्वाध्यानो नागोग्निदेवता ॥ १.२३.४४ ॥
रुद्रहेतुस्त्रिरुद्धातास्त्रिगुणा रक्तवर्णकम्
ज्वालाकृते त्रिकोणं च चतुः कोटिशतानि च ॥ १.२३.४५ ॥
विस्तीर्णं च समुत्सेधं रुद्रतत्त्वं विचिन्तयेत्
ललाटे वै तत्पुरुषः शान्तिर्यः शाद्वलं बुधाः (वृषा) ॥ १.२३.४६ ॥
कूर्मश्च कृकरो वायुर्देव ईश्वरकारणम्
द्विरुद्धातो गुणौ द्वौ च धूम्रषट्कोणमण्डलम् ॥ १.२३.४७ ॥
बिन्द्वङ्कितं चाष्टकोटिविस्तीर्णं चोच्छ्रयस्तथा
चतुर्दशाधिकं कोटिवायुतत्त्वं विचिन्तयेत् ॥ १.२३.४८ ॥
द्वादशति सरसिजे शान्त्य तीतास्तथेश्वराः
कुहूश्च शङ्खिनी नाड्यो देवदत्तो धनञ्जयः ॥ १.२३.४९ ॥
शिखैशानकारणं च सदाशिव इति स्मृतः
गुण एकस्तथोद्धातः शुद्धस्फटिकवत्स्मरेत् ॥ १.२३.५० ॥
षोडशकोटिविस्तीर्णं पञ्चविंशतिकोच्छ्रयम्
वर्तुलं चिन्तयेव्द्योम भुतशुद्धिरुदाहृता ॥ १.२३.५१ ॥
गुणयो गुरुर्बोजगुरुः शक्तयनन्तौ च धर्ंमकः
ज्ञानवैराग्यमैश्वर्यैस्ततः पूर्वादिपत्रके ॥ १.२३.५२ ॥
अधोर्ध्ववदने द्वे च पद्मकर्णिककेसरम्
वामाद्या आत्मविद्या च सदा ध्यायेच्छिवाख्यकम् ॥ १.२३.५३ ॥
तत्त्वं शिवासने मूर्तिर्हे हौं विद्यादेहाय नमः
बद्धपद्मासनासीनः सितः षोडशवार्षिकः ॥ १.२३.५४ ॥
पञ्चवक्त्रः कराग्रैः स्वैर्दशभिश्चैव धारयन्
अभयं प्रसादं शक्तिं शूलं खट्वाङ्गमीश्वरः ॥ १.२३.५५ ॥
दक्षैः करैर्वामकैश्च भुजङ्गं चाक्षसूत्रकम्
डमरुकं नीलोत्पलं बीजपूरकमुत्तमम् ॥ १.२३.५६ ॥
इच्छाज्ञानक्रियाशक्तिस्त्रिनेत्रो हि सदाशिवः
एवं शिवार्चनध्यानी सर्वदा कालवर्जितः ॥ १.२३.५७ ॥
इहाहोरा वचारेण त्रीणि वर्षाणि जीवति
दिनद्वयस्य चारेण जीवेद्वर्षद्वयं नरः ॥ १.२३.५८ ॥
दिनत्रयस्य चारेण वर्षमेकं स जीवति
नाकाले शीतले मृत्युरुष्णे चैव तु कारके ॥ १.२३.५९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चननिरूपणं नाम त्रयोविंशोऽध्यायः

(इति शिवादिपूजा समाप्ता)


श्रीगरुडमहापुराणम् [GARUR PURANAM] २४
सूत उवाच [SUTA SAID]
वक्ष्ये गणादिकाः पूजाः सर्वदा स्वर्गदाः पराः
गणासनं गणमूर्ति गणाधिपतिमर्चयेत् ॥ १.२४.१ ॥
गामादिहृदयाद्यङ्गं दुर्गाया गुरुपादुकाः
दुर्गासनं च तन्मूर्तिं ह्रीं दुर्गे रक्षणीति च ॥ १.२४.२ ॥
त्दृदादिकं नव शक्त्यो रुद्रचण्डा प्रचण्डया
चण्डोग्रा चण्डनायिका चण्डा चण्डवती क्रमात् ॥ १.२४.३ ॥
चणारूपा चण्डिकाख्या दुर्गेदुर्गेऽथ रक्षिणि
वज्रखड्गादिका मुद्राः शिवाद्या वह्निदेशतः ॥ १.२४.४ ॥
सदाशिवमहाप्रेतपद्मासन मथापि वा
ऐं क्लीं (ह्रीं) सौस्त्रिपुरायै नमः
ओं ह्रां ह्रीं क्षें क्षैं स्त्रीं स्कीं रों स्फें स्फीं शां पद्मासनं च मूर्तिं च त्रिपुरात्दृदयादिकम् ॥ १.२४.५ ॥
पीठाम्बुजे तु ब्राहयादीर्ब्रह्माणी च महेश्वरी
कौमारी वैष्णवी पूज्या वाराही चेन्द्रदेवता ॥ १.२४.६ ॥
चामुण्डा चण्डिका पूज्या भैरवाख्यांस्ततो यजेत्
असिताङ्गोरुरुश्चण्डः क्रोध उन्मत्तभैरवः ॥ १.२४.७ ॥
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः
रतिः प्रीतिः कामदेवः पञ्च बाणाश्च योगिनी ॥ १.२४.८ ॥
वटुकं दुर्गया विघ्नराजो गुरुश्च क्षेत्रपः
पद्मगर्भे मण्डले च त्रिकोणे चिन्तयेद्धृदि ॥ १.२४.९ ॥
शुक्लां वरदाक्षसूत्रपुस्ताभयसमन्विताम्
लक्षजप्याच्च होमाच्च त्रिपुरा सिद्धिदा भवेत् ॥ १.२४.१० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिपुरादिपूजानिरूपणं नं चतुर्विशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २५
सूत उवाच [SUTA SAID]
ऐं क्रीं श्रीं स्फें क्षैं अनन्तशक्तिपादुकां पूजयामि नमः ॥ १.२५.१ ॥
ऐं श्रीं फ्रैं क्षैं आधारशक्तिपादुकां पूजयामि नमः
ओं ह्रं कालाग्निरुद्रपादुकां पूजयामि नमः ॥ १.२५.२ ॥
ओं ह्रीं हुं हाटकेश्वरदेवपादुकां पूजयामि नमः
ओं ह्रीं शेषभट्टारकपादुकां पूजयामि नमः ॥ १.२५.३ ॥
ओं ह्रीं श्रीं पूथिवीतत्सवर्णभुवनद्वीपसमुद्रदिशामनन्ताख्यमासनं पद्मासनं पूजयामि नमः ॥ १.२५.४ ॥
ह्रीं श्रीं निवृत्त्यादि कला पृथिव्यादितत्त्व मनन्तादिभुवनमोङ्कारादिवर्णम्
हकारादिनवात्मकपदः सद्योदातादिमन्त्रः ह्रां हृदयाद्यङ्गः
एवं मन्त्रमहेश्वर सिद्धविद्यात्मकः परामृतार्णवः सर्वभूतो दिक्समस्तषडङ्गः सदाशिवार्णवपयः पूर्णोदधिपक्षश्रीमानास्पदात्मकः विद्योमापूर्णज्ञत्वकर्तृत्वलक्षणज्येष्ठाचक्ररुद्रशक्त्यात्मककर्णि कः
नवशक्तिशिवादिभिर्मूलमण्डलत्रयकुजात्मकोत्पन्नापद्मासनपादुकां पूजयामि नमः ॥ १.२५.५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आसनपूजानिरूपणं नाम पञ्चविंशोऽध्यायः


श्रीगरूडमहापुराणम् २६
सूत उवाच [SUTA SAID]
अनन्तरं करन्यासः
विद्याकरी शुद्धिः कार्या
पद्ममुद्रां बद्ध्वा मन्त्रन्यासं कुर्यात्
कैं कनिष्ठायै नमः
नैं अनामिकायै नमः
मैं मध्यमायै नमः
तैं तर्जन्यै नमः
अं अङ्गुष्ठायै नमः
लां करतलायै नमः
वां करपृष्ठायै नमः ॥ १.२६.१ ॥
अथ देहन्यासः
स्मंस्मं मणिबन्धाय नमः
ऐं ह्रीं श्रीं करास्फालाय नमः
महातेजोरूपं हुंहुङ्कारेण करास्फालनं कुर्यात् ॥ १.२६.२ ॥
ऐं ह्रीं श्रीं ह्रीं स्फैं नमो भगवते स्फैं कुब्जीकायै नमः
ह्रं ह्रीं ह्रौं ङञणनमे अघोरामुखि ह्रां ह्रीं किलिकिलि विच्चे स्थौल्यक्रोशी ह्रीं ह्रीं श्रीं ऐं नमो भगवते उर्ध्ववक्त्राय नमः
स्फैं कुब्जिकायै पूर्ववक्त्राय नमः
ह्रीं श्रीं ह्रीं ङआञणनमे दक्षिणवक्त्राय नमः
ओं ह्रीं श्रीं किलिकिलि पश्चिमवक्त्राय नमः
ओं अखोरमुखि उत्तरवक्त्राय नमः
ओं नमो भगवते हृदयाय नमः क्षैं (क्षें ऐं) कुब्जिकायै शिरसे स्वाहा
ह्रीं क्रीं ह्रीं आं ङ ञ ण नमे शिखायै वषट्
अघोरामुखि कवचाय हुं
हैं हैं ईं नेत्रत्रयाय वौषट्
किलिकिलि विच्चे अस्त्राय फट् ॥ १.२६.३ ॥
(१) ऐं ह्रीं श्रीं अखण्डमण्डलाकारमहाशूलमण्डलमाय नमः (२) ऐं ह्रीं श्रीं वायुमण्डलाय नमः
(३) ऐं ह्रीं श्रीं सोममण्डलाय नमः
(४) ऐं ह्रीं श्रीं महाकुलबोधावलिमण्डलाय नमः (५) ऐं ह्रीं श्रीं महाकौलमण्डलाय नमः
(६) ऐं ह्रीं श्रीं गुरुमण्डलाय नमः (७) ऐं ह्रीं श्रीं साममण्डलाय नमः(८) ऐं ह्रीं श्रीं समग्र (९)सिद्ध (१०)योगीनीपीठापपीठ (११) क्षेत्रेपक्षेत्रमहासन्तानमण्डलाय नमः
एवं मण्डलानां द्वादशकं क्रमेण पूज्यम् ॥ १.२६.४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे आचारकाण्डे करन्यासादिनिरूपणं नाम षड्विंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २७
सूत उवाच [SUTA SAID]
ओं कणिचिकीणिकक्राणी चर्वाणी भूतहारिणि फणिविषिणि विरथनाराययणि उमे दहदह हस्ते चण्डे रौद्रे माहेश्वरि महामुखि ज्वालामुखि शङ्कुकर्णि शुकमुण्डे शत्रुं हनहन सर्वनाशिनि स्वेदय सर्वाङ्गशोणितं तन्निरीक्षासि मनसा देवि संमोहयसंमोहय रुद्रस्य हृदये जाता रुद्रस्य त्दृदये स्थिता
रुद्रो रौद्रेण रूपेण त्वं देवि रक्षरक्ष मां ह्रूं मां ह्रूं फफफ ठठः स्कन्दमेखलाबालग्रहशत्रुविषहारी ओं शाले माले हरहर विषोङ्काररहिविषवेगे हां हां शवरि हुं शवरि आकौलवेगेशे सर्वे विञ्चमेघमाले सर्वनागादिविषहरणम् ॥ १.२७.१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नागादिविविधविषहर मन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २८
सूत उवाच [SUTA SAID]
गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम्
द्वारे धाता विधाता च गङ्गायमुनया सह ॥ १.२८.१
शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया
पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ ॥ १.२८.२ ॥
पश्चिमे बलप्रबलौ जयश्च विजयो यजेत्
उत्तरे श्रीश्चतुर्द्वारे गणो दुर्गा सरस्वती ॥ १.२८.३ ॥
क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम्
सिद्धो गुरुर्नलकूवरं कोणे भगवतं यजेत् ॥ १.२८.४ ॥
पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेत्
ततो विष्णुपरीवारं मध्ये शक्तिं च कूर्ंमकम् ॥ १.२८.५ ॥
अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्नितः
ऐश्वर्यं वायुपूर्वं च प्रकाशात्मानमुत्तरे ॥ १.२८.६ ॥
सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे
तमसे कन्द पद्माय यजेत्कं काकतत्त्वकम् ॥ १.२८.७ ॥
विद्यातत्त्वं परं तत्त्व सूर्येदुवह्निमण्डलम्
विमलाद्या आसनं च प्राच्यां श्रीं ह्रीं प्रपूजयेत् ॥ १.२८.८ ॥
गोपीजनवल्लभाय स्वाहान्तो मनुरुच्यते
अङ्गानि यथाआच क्रं च सुचक्रं च विचक्रं च तथैच ॥ १.२८.९ ॥
त्रैलोक्यरक्षकं चक्रमसुरारिसुदर्शनम्
हृदादिपूर्वकोणषु अस्त्रं शक्तिं च पूर्वतः ॥ १.२८.१० ॥
रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि
लक्ष्मणा मित्रविन्दा च जाम्बवत्या शुशीलया ॥ १.२८.११ ॥
शङ्खचक्रगदापद्मं मुसलं शार्ङ्गमर्चयेत्
खङ्गं पाशाङ्कुशं प्राच्यां श्रीवत्सं कौस्तुभं यजेत् ॥ १.२८.१२ ॥
मुकुटं वलमालां च ऐन्द्राद्यान्ध्वजमुख्यकान्
कुमुदाद्यान्विष्वक्सेनं श्रिया कृष्णं सहार्चयेत्
जप्याद्ध्यानात्पूजनाच्च सर्वान्कामानवान्पुयात्

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगोपालपूजानिरूपणं नामाष्टाविंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २९
हरिरुवाच
त्रैलोक्यमोहिनीं वक्ष्ये पुरुषोत्तममुख्यकाम्
पूजामन्त्राञ्छ्रीधराद्यान्धर्ंमकामादिदायकान् ॥ १.२९.१ ॥
ओं ह्रीं श्रीं क्लीं ह्रूं ओं नमः
पुरुषोत्तम अप्रतिरूप लक्ष्मीनिवास जगत्क्षोभण सर्वस्त्रीहृदयदारण त्रिभुवनमदोन्मादनकर सुरासुरमनुज सुंदरी जनमनांसि तापयतापय शोषयशोषय मारयमारय स्तम्भयस्तम्भय द्रावयद्रावय आकर्षय आकर्षय.परमसुभग सर्वसौभाग्यकर सर्वकामप्रद अमुकं हनहन चक्रेण गदया खड्गेन सर्वबाणैर्भिधिभिन्धि पाशेन कुट्टकुट्ट अङ्कुशेन ताडयताडय तुरुतुरु किं तिष्ठसि तारयतारय यावत्समीहितं मे सिद्धं भवति ह्रीं (ह्रूं) फट्नमः ॥ १.२९.२ ॥
ओं श्रीं (श्रीः) श्रीधराय त्रैलोक्यमोहनाय नमः
क्लीं पुरुषोत्तमाय त्रैलोक्यमोहनाय नमः ॥ १.२९.३ ॥
ओं विष्णवे त्रैलोक्यमोहनाय नमः
ओं श्रीं क्लीं त्रैलोक्यमोहनाय विप्णवे नमः ॥ १.२९.४ ॥
त्रैलोक्यमोहना मन्त्राः सर्वे सर्वार्थसाधकाः
सर्वे चिन्त्या पृथग्वापि व्यासात्संक्षेपतोऽथ वा ॥ १.२९.५ ॥
आसनं मूर्तिमन्त्रं च होमाद्यङ्गषडङ्गकम्
चक्रं गदां च खड्गं च मुसलं शंमखशर्ङ्गकम् ॥ १.२९.६ ॥
शरं पाशं चाङ्कुशं च लक्ष्मीगरुडसंयुतम्
विष्वक्सेनं विस्तराद्वानरः सर्वमवाप्नुयात् ॥ १.२९.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाडे त्रैलोक्यमोहिनी(श्रीधर) पूजनविधिर्नामैकोनत्रिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ३०
सूत उवाच [SUTA SAID]
विस्तरेण प्रवक्ष्यामि श्रीधरस्यार्चनं शुभम्
परिवारश्च सर्वेषां समोज्ञेयो हि पण्डितैः ॥ १.३०.१ ॥
ओं श्रां हृदयाय नमः
ओं श्रींशिरसे स्वाहा
ओं श्रू शिखायै वषटू
ओं श्रैं कवचाय हुं
ओं श्रौं नेत्रत्रयाय वौषट्
ओं श्रः अस्त्राय फटिति ॥ १.३०.२ ॥
दर्शयेदात्मनो मुद्रां शङ्खचक्रगदादिकाम्
ध्यात्वात्मानं श्रीधराख्यं शङ्खचक्रगदाधरम् ॥ १.३०.३ ॥
ततस्तं पूजयेद्देवं मण्डले स्वस्तिकादिके
आसनं पूजयेदादौ देवदेवस्य शार्ङ्गिणः
एबिर्मन्त्रैर्महादेव तान्मत्राञ्छृणु शङ्कर ॥ १.३०.४ ॥
ओं श्रीधरासनदेवताः आगच्छता
ओं समस्तपरिवारायच्युतासनाय नमः ॥ १.३०.५ ॥
ओं धात्रे नमः
ओं विधात्रे नमः
ओं गङ्गायै नमः
ओं यमुनायै नमः
ओं आधारशक्तयै नमः
ओं कूर्ंमाय नमः
ओं अनन्ताय नमः
ओं पृथिव्यै नमः
ओं धर्ंमाय नमः
ओं ज्ञानाय नमः
ओं वैराग्याय नमः
ओं ऐश्वर्याय नमः
ओं अधर्ंमाय नमः
ओं अज्ञानाय नमः
ओं अवैराग्याय नमः
ओं अनैश्वर्याय नमः
ओं कन्दाय नमः
ओं नालाय नमः
ओं पद्माय नमः
ओं विमलायै नमः
ओं उत्कर्षिण्यै नमः
ओं ज्ञानायै नमः
ओं क्रियायै नमः
ओं योगायै नमः
ओं प्रह्व्यै नमः
ओं सत्यायै नमः
ओं ईशानायै नमः
ओं अनुग्रहायै नमः ॥ १.३०.६ ॥
अर्चयित्वा समं रुद्र हरिमावाह्य संयजेत्
मन्त्रैरेभिर्महाप्राज्ञः सर्वपापप्रणाशनैः ॥ १.३०.७ ॥
ओं ह्रीं श्रीधराय त्रैलोक्यमोहनाय विष्णवे नमः आगच्छ ॥ १.३०.८ ॥
ओं श्रियै नमः
ओं श्रां हृदयाय नमः
ओं श्रीं शिरसे नमः
ओं श्रूं शिखायै नमः
ओं श्रैं कवचाय नमः
ओं श्रौं नेत्रत्रयाय नमः
ओं श्रः अस्त्राय नमः
ओं शङ्खाय नमः
ओं पद्माय नमः
ओं चक्राय नमः
ओं गदायै नमः
ओं श्री वत्साय नमः
ओं कौस्तुभ्य नमः
ओं वनमालायै नमः
ओं पीताम्बराय नमः
ओं व्रह्मणे नमः
ओं नारदाय नमः
ओं गुरुभ्यो नमः
ओं इन्द्राय नमः
ओं अग्नये नमः
ओं यमाय नमः
ओं निरृतये नमः
ओं वरुणाय नमः
ओं वायवे नमः
ओं सोमाय नमः
ओं ईशानाय नमः
ओं अनन्ताय नमः
ओं ब्रह्मणे नमः
ओं सत्त्वाय नमः
ओं रजसे नमः
ओं तमसे नमः
ओं विष्वक्सेनाय नमः ॥ १.३०.९ ॥
अभिषेकं तथा वस्त्त्रं ततो यज्ञोपवीतकम्
गन्धं पुष्पं तथा धूपं दीपमन्नं प्रदक्षिणम् ॥ १.३०.१० ॥
दद्यादेभिर्महामन्त्रैः समप्यार्थ जपेन्मनुम्
शतमष्टोत्तरं चापि जप्त्वा ह्यथ समर्पयेत् ॥ १.३०.११ ॥
ततो मुहूर्तमेकन्तुध्यायेद्देवं हृदि स्थितम्
शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ॥ १.३०.१२ ॥
प्रसन्नवदनं सौम्यं स्फुरन्मकरकुण्डलम्
किरीटिनमुदाराङ्गं वनमालासमन्वितम् ॥ १.३०.१३ ॥
परब्रह्मस्वरूपं च श्रीधरं चिन्तयेत्सुधीः
अनेन चैव स्तोत्रेण स्तुवीत परमेश्वरम् ॥ १.३०.१४ ॥
श्रीनिवासाय देवाय नमः श्रीपतये नमः
श्रीधराय सशार्ङ्गाय श्रीप्रदाय नमोनमः ॥ १.३०.१५ ॥
श्रीवल्लभाय शान्ताय श्रीमते च नमोनमः
श्रीपर्वतनिवासाय नमः श्रेयस्कराय च ॥ १.३०.१६ ॥
श्रेयसां पतये चैव ह्याश्रमाय नमोनमः
नमः श्रेयः स्वरूपाय श्रीकराय नमोनमः ॥ १.३०.१७ ॥
शरण्याय वरेण्याय नमो भूयो नमोनमः
स्तोत्रं कृत्वा नमस्कृत्य देवदेवं विसर्जयेत् ॥ १.३०.१८ ॥
इति रुद्र समाख्याता पूजा विष्णोर्महात्मनः
यः करोति महाभक्त्या स याति परमं पदम् ॥ १.३०.१९ ॥
इं यः पठतेऽध्यायं विष्णुपूजाप्रकाशकम्
स विधूयेह पापानि याति विष्णोः परं पदम् ॥ १.३०.२० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीधरा (विष्ण्वर्) चनविधिर्नाम त्रिंशोऽध्यायः


श्री गरुडमहापुराणम् ३१
रुद्र उवाच
भूय एवं जगन्नाथ पूजां कथय मे प्रभो
यया तरेयं संसारसागरं ह्यतिदुस्तरम् ॥ १.३१.१ ॥
हरिरुवाच
अर्चनं विष्णुदेवस्य वक्ष्यामि वृषभध्वज
तच्छृणुष्व महाभाग भुक्तिमुक्तिप्रदं शुभम् ॥ १.३१.२ ॥
कृत्वा स्नानं ततः सन्ध्यां ततो यागगृहं व्रजेत्
प्रक्षाल्य पाणी पादौ च आचम्य च विशेषतः ॥ १.३१.३ ॥
मूलमन्त्रं समस्तं तु हस्तयोर्व्यापकं न्यसेत्
मूलमन्त्रं च देवस्य शृणु रुद्र वदामि ते ॥ १.३१.४ ॥
ओं श्रीं ह्रीं श्रीधराय विष्णवे नमः
अयं मन्त्रः सुरेशस्य विष्णोरीशस्य वाचकः ॥ १.३१.५ ॥
सर्वव्याधिहरश्चैव सर्वग्रहहरस्तथा
सर्वपापहरश्चैव बुक्तिमुक्तिप्रदायकः ॥ १.३१.६ ॥
अङ्गन्यासं ततः कुय्यान्देभिर्मन्त्रौर्विचक्षणः
ओं हां हृदयाय नमः
ओं हीं शिरसे स्वाहा
ओं हूं शिखायै वषट्
ओं हैं कवचाय हुं
ओं हौं नेत्रत्रयाय वौषट्
ओं हः अस्त्राय फट् ॥ १.३१.७ ॥
इति मन्त्रः समाख्यातो मया ते प्रभविष्णुना
न्यासं कृत्वात्मनो मुद्रां दर्शयेद्विजितात्मवान् ॥ १.३१.८ ॥
ततो ध्यायेत्परं विष्णु त्दृत्कोटरसमाश्रितम्
शङ्खचक्रसमायुक्तं कुन्देन्दुधवलं हरिम् ॥ १.३१.९ ॥
श्रीवत्सकौस्तुभयुतं वनमालासमन्वितम्
रत्नहारकिरीटेन संयुक्तं परमेश्वरम् ॥ १.३१.१० ॥
अहं विष्णुरिति ध्यात्वा कृत्वा वै शोधनादिकम्
यं क्षैं रमिति बीजैश्च कठिनी कृत्य नामभिः ॥ १.३१.११ ॥
अण्डमुत्पाद्य च ततः प्रणवेनैव भेदयेत्
तत्र पूर्वोक्तरूपं तु भावयित्वा वृषध्वज ॥ १.३१.१२ ॥
आत्मपूजां ततः कुर्याद्रन्धपुष्पादिभिः शुभैः
आवाह्य पूजयेत्सर्वा देवता आसनस्य याः ॥ १.३१.१३ ॥
मन्त्रैरेभिर्महादेव तन्मन्त्रं शृणु शङ्कर
विष्णवासनदेवता आगच्छत ॥ १.३१.१४ ॥
ओं समस्तपरिवारायाच्युताय नमः
ओं धात्रे नमः
ओं विधात्रे नमः
ओं गङ्गायै नमः
ओं यमुनायै नमः
ओं शङ्खनिधये नमः
ओं पद्मनिधये नमः
ओं चण्डाय नमः
ओं प्रचण्डाय नमः
ओं द्वारश्रियै नमः
ओं आधारशक्त्यै नमः
ओं कूर्ंमाय नमः
ओं अनन्ताय नमः
ओं श्रियै नमः
ओं धर्ंमाय नमः
ओं ज्ञानाय नमः
ओं वैराग्याय नमः
ओं ऐश्वर्याय नमः
ओं अधर्ंमाय नमः
ओं अज्ञानाय नमः
ओं अवैराग्याय नमः
ओं अनैश्वर्याय नमः
ओंसं सत्त्वाय नमः
ओं रं रजसे नमः
ओं तं तमसे नमः
ओं कं कन्दाय नमः
ओं नं नालाय नमः
ओं लां पद्माय नमः
ओं अं अर्कमण्डलाय नमः
ओं सों सोममण्डलाय नमः
ओं वं वह्निमण्डलाय नमः
ओं विमलायै नमः
ओं उत्कर्षिण्यै नमः
ओं ज्ञानायै नमः
ओं क्रियायै नमः
ओं योगायै नमः
ओं प्रह्व्यै नमः
ओं सत्यायै नमः
ओं ईशानायै नमः
ओं अनुग्रहायै नमः ॥ १.३१.१५ ॥
गन्धपुष्पादिभिस्त्वेतैर्मन्त्रैरेतास्तु पूजयेत्
पूजयित्वा ततो विष्णुं सृष्टिसंहारकारिणम् ॥ १.३१.१६ ॥
आवाह्य मण्डले रुद्र पूजयेत्प रमेश्वरम्
अनेन विधिना रुद्र सर्वपापहरं परम् ॥ १.३१.१७ ॥
यथात्मनि तथा देवे न्यासं कुर्वीत चादितः
मुद्रां प्रदर्शयेत्पश्चादर्घ्यादीनर्पयेत्ततः ॥ १.३१.१८ ॥
स्नानां कुर्यात्ततो वस्त्रं दद्यादाचमनं ततः
गन्धपुष्पं तथा धूपं दीपं दद्याच्चरुं ततः ॥ १.३१.१९ ॥
प्रदक्षिणं ततो जप्यं ततस्तस्मिन्सर्पयेत्
अङ्गादीनां स्वमन्त्रैश्च पूजां कुर्वीत साधकः ॥ १.३१.२० ॥
देवस्य मूलमन्त्रेणेत्येवं विद्धि वृषध्वज
मन्त्राञ्छृणु त्रिनेत्र त्वं कथ्यमानान्मयाधुना ॥ १.३१.२१ ॥
ओं हां हृदयाय नमः
ओं हीं शिरसे नमः
ओं हूं शिखायै नमः
ओं हैं कवचाय नमः
ओं हौं नेत्रत्रयाय नमः
ओं हः अस्त्राय नमः
ओं श्रियै नमः
ओं शङ्काय नमः
ओं पद्माय नमः
ओं चक्राय नमः
ओं गदायैनमः
ओं श्रीवत्साय नमः
ओं कौस्तुभाय नमः
ओं वनमालायै नमः
ओं पीताम्बराय नमः
ओं खड्गाय नमः
ओं मुसलाय नमः
ओं पाशाय नमः
ओं अङ्कुशाय नमः
शार्ङ्गाय नमः
ओं शराय नमः
ओं ब्रह्मणे नमः
ओं नारादाय नमः
ओं पूर्वसिद्धेभ्यो नमः
ओं भागवतेभ्यो नमः
ओं गुरुभ्यो नमः
ओं परमगुरुभ्यो नमः
ओं इन्द्राय सुराधिपतये सवाहनपरिवाराय नमः
ओं अग्नये तेजोऽधिपतये सवाहनपरिवाराय नमः
ओं यमाय प्रेताधिपतये सवाहनपरिवाराय नमः
ओं निरृतये रक्षोऽधिपतये सवाहनपरिवाराय नमः
ओं वरुणाय जलाधिपतये सवादनपरिवाराय नमः
ओं वायवे प्राणाधिपतये सवाहनपरिवाराय नमः
ओं सोमाय नक्षत्राधिपतये सवाहनपरिवाराय नमः
ओं ईशानाय विद्याधिपतये सवाहनपरिवाराय नमः
ओं अनन्ताय नागाधिपतये सवाहनपरिवाराय नमः
ओं ब्रह्मणे लोकाधिपतये सवाहनपरिवाराय नमः
ओं वज्राय हुं फट्नमः
ओं शक्त्यै हुं फट्नमः
ओं दण्डाय हुं फट्नमः
ओं खड्गाय हुं फट्नमः
ओं पाशाय हुं फट्नमः
ओं ध्वजाय हुं फट्नमः
ओं गदायै हुं फट्नमः
ओं त्रिशूलाय हुं फट्नमः
ओं चक्राय हुं फट्नमः
ओं पद्माय हुं फट्नमः
ओं वैं विष्वक्सेनाय नमः ॥ १.३१.२२ ॥
एभिमन्त्रैर्महादेव पूज्या अङ्गादयो नरैः
पूजयित्वा महात्मानं विष्णुं ब्रह्मस्वरूपिणम् ॥ १.३१.२३ ॥
स्तुवीत चानया स्तुत्या परमात्मानमव्ययम्
विष्णवे देवदेवाय नमो वै प्रभविष्णवे ॥ १.३१.२४ ॥
विष्णवे वासुदेवाय नमः स्थितिकराय च
ग्रसिष्णवे नमश्चैव नमः प्रलयशायिने ॥ १.३१.२५ ॥
देवानां प्रभवे चैव यज्ञानां प्रभवे नमः
मुनीनां प्रभवे नित्यं यक्षाणां प्रभविष्णवे ॥ १.३१.२६ ॥
जिष्णवे सर्वदेवानां सर्वगाय महात्मने
ब्रह्मेन्द्ररुद्रवन्द्याय सर्वेशाय नमोनमः ॥ १.३१.२७ ॥
सर्वलोकहितार्थाय लोकाध्यक्षाय वै नमः
सर्वगोप्त्रे सर्वकर्त्रे सर्वदुष्टविनाशिने ॥ १.३१.२८ ॥
वरप्रदाय शान्ताय वरेण्याय नमोनमः
शरण्याय सुरूपाय धर्मकामार्थदायिने ॥ १.३१.२९ ॥
स्तुत्वा ध्यायेत्स्वहृदये ब्रह्मरूपिणमव्ययम्
एलं तु पूजयेद्विष्णुं मूलमन्त्रेण शङ्कर ॥ १.३१.३० ॥
मूलमन्त्रं जपेद्वापि यः स याति नरो हरिम्
एतत्ते कथितं रुद्र विष्णोरर्चनमुत्तमम् ॥ १.३१.३१ ॥
रहस्यं परमं गुह्यं भुक्तिमुक्तिप्रदं परम्
एतद्यश्च पठेद्विद्वान्विष्णुभक्तः पुमान्हर
शृणुयाच्छ्रावयेद्वापि विष्णुलोकं स गच्छति ॥ १.३१.३२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजाविधिर्नामैकत्रिंशोध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ३२
महेश्वर उवाच
पञ्चतत्त्वार्चनं ब्रूहि शङ्खचक्रगदाधर
येन विज्ञानमात्रेण नरो याति परं पदम् ॥ १.३२.१ ॥
हरिरुवाच
पञ्चतत्त्वार्चनं वक्ष्ये तव शङ्कर सुव्रत
मङ्गल्यं मङ्गलं दिव्यं रहस्यं कामदं परम् ॥ १.३२.२ ॥
तच्छृणुष्व महादेव पवित्रं कलिनाशनम्
एक एवाव्ययः शान्तः परमात्मा सनातनः ॥ १.३२.३ ॥
वासुदेवो ध्रुवः शुद्धः सर्वव्यापी निरञ्जनः
स एव मायाया देव पञ्चधा संस्थितो हरिः ॥ १.३२.४ ॥
लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः
वासुदेवस्वरूपेण तथा सङ्कर्षणेन च ॥ १.३२.५ ॥
तथा प्रद्युम्नरूपेणानिरुद्धाख्येन च स्थितः
नारायणस्वरूपेण पञ्चधा ह्यद्वयः स्थितः ॥ १.३२.६ ॥
एतेषां वाचकान्मन्त्रानेताञ्छृणु वृषध्वज !
ओं अं वासुदेवाय नमः
ओं आं संकर्षणाय नमः
ओं अं प्रद्युम्नाय नमः
ओं अनिरुद्धाय नमः
ओं ओं नारायणाय नमः ॥ १.३२.७ ॥
पञ्च मन्त्राः समाख्याता देवानां वाचकास्तव
सर्वपापहराः पुण्याः सर्वरोगविनाशनाः ॥ १.३२.८ ॥
अधुना संप्रवक्ष्यामि पञ्चतत्त्वार्चनं शुभम्
विधिना येन कर्तव्यं यैर्वा मन्त्रैश्च शङ्कर ! ॥ १.३२.९ ॥
आदौ स्नानं प्रकुर्वीत स्नात्वा सन्ध्यां समाचरेत्
अर्चनागारमासाद्य प्रक्षाल्यार्ङ्घ्यादिकं तथा ॥ १.३२.१० ॥
आचम्योपविशेत्प्राज्ञो बद्धासनमभीप्सितम्
शोषणादि ततः कुर्यादं क्षैं रमिति मन्त्रकैः ॥ १.३२.११ ॥
सामान्यं कठिनीकृत्य चाण्डमुत्पादयेत्ततः
विभिद्याण्डं ततो ह्यण्डे भावयेत्परमेश्वरम् ॥ १.३२.१२ ॥
वासुदेवं जगन्नाथं पीतकौशेयवाससम्
सहस्रादित्यसङ्काशं स्फुरन्मकरकुण्डलम् ॥ १.३२.१३ ॥
आत्मनो हृदि पद्मे तु ध्यायेत्तु परमेश्वरम्
ततः संकर्षणं देवमात्मानं चिन्तयेत्प्रभुम् ॥ १.३२.१४ ॥
प्रद्युम्नमनिरुद्धं च श्रीमन्नारायणं ततः
इन्द्रादींश्च सुरांस्तस्माद्देवदेवात्समुत्थितान् ॥ १.३२.१५ ॥
चिन्तयेच्च ततो न्यासं कय्यान्द्वै कारयोर्द्वयोः
व्यापकं मूलमन्त्रेण चाङ्गन्यासं ततः परम् ॥ १.३२.१६ ॥
अङ्गमन्त्रैर्महादेव ! तान्मन्त्राञ्शृणु सुव्रत !
ओं आं हृदयाय नमः
ओं ईं शिरसे नमः
ओं ऊं शिखायै नमः
ओं ऐं कवचाय नमः
ओं औं नेत्रत्रयाय नमः
ओं अः अस्त्राय फट् ॥ १.३२.१७ ॥
ओं समस्तपरिवारायाच्युताय नमः
ओं धात्रे नमः
ओं विधात्रे नमः
ओं आधारशक्तयै नमः
ओं कूर्माय नमः
ओं अनन्ताय नमः
ओं पृथिव्यैनमः
ओं धर्माय नमः
ओं धर्माय नमः
ओं ज्ञानाय नमः
ओं वैराग्याय नमः
ओं ऐश्वर्याय नमः
ओं अज्ञानाय नमः
ओं अनैश्वर्याय नमः
ओं अं अर्कमण्डलाय नमः
ओं सों सोममणाडलाय नमः
ओं वं वह्निमण्डलाय नमः
ओं वं वासुदेवाय परब्रह्मणे शिवाय तेजोरूपाय व्यापिने सर्वदेवाधिदेवाय नमः
ओं पाञ्चजन्याय नमः
ओं सुदर्शवनाय नमः
ओं गदायै नमः
ओं पद्माय नमः
ओं श्रियै नमः
ओं ह्रियै नमः
ओं पुष्ट्यै नमः
ओं गीत्यै नमः
ओं शक्त्यै नमः
ओं प्रीत्यै नमः
ओं इन्द्राय नमः
ओं अग्नये नमः
ओं यमाय नमः
ओं निरृतये नमः
ओं वरुणाय नमः
ओं वायवे नमः
ओं सोमाय नमः
ओं ईशानाय नमः
ओं अनन्ताय नमः
ओं ब्रह्मणे नमः
ओं विष्वक्सेनाय नमः ॥ १.३२.१८ ॥
एते मन्त्राः समाख्यातास्तव रुद्र समासतः
पूजा चैव प्रकर्तव्या मण्डले स्वस्तिकादिके ॥ १.३२.१९ ॥
ओं पद्माय नमः
अङ्गन्यासं च कृत्वा तु मुद्राः सर्वाः प्रदशयत्
आत्मानं वासुदेवं च ध्यात्वा चैव परेश्वरम् ॥ १.३२.२० ॥
आसनं पूजयेत्पश्चादावाह्य विधिवन्नरः
द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज ॥ १.३२.२१ ॥
गरुडं पूजयेदग्रे वासुदेवस्य शङ्कर
शङ्खादिपद्मपर्यन्तं मध्यदेशे प्रपूजयेत् ॥ १.३२.२२ ॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं पूर्वदेशतः
आग्नेयादिष्वर्चयेद्वै अधर्मादिचतुष्टयम् ॥ १.३२.२३ ॥
मण्डलत्रयमध्ये तु कीर्तिता ह्यसनस्थितिः
पूर्वादिपद्मपत्रेषु पूज्याः संकर्षणादयः ॥ १.३२.२४ ॥
कर्णिकायां वासुदेवं पूजयेत्परमेश्वरम्
पाञ्चजन्यादयः पूज्याः ऐशान्यादिषु संस्थिताः ॥ १.३२.२५ ॥
शक्तयश्चैव पूर्वादौ देवदेवस्य शङ्कर
इन्द्रादयो लोकपालाः पूज्याः पूर्वादिषु स्थिताः ॥ १.३२.२६ ॥
अधो नाग तदूद्ध्व तु ब्रह्माणं पूजयेत्सुधीः
इति स्थानक्रमो ज्ञेयो मण्डले शङ्कर त्वया ॥ १.३२.२७ ॥
आवाह्य मण्डले देवं कृत्वा न्यासं तु तस्य च
मुद्रां प्रदर्श्य पाद्यदीन्दद्यान्
मूलेन शङ्कर ॥ १.३२.२८ ॥
स्नानं वस्त्रं तथाचामं गन्धं पुष्पं च धूपकम्
दीपं नैवेद्यमाचामं नमस्कारं प्रदक्षिणम्
कुर्याच्छङ्कर मूलेन जपं चापि समर्पयेत् ॥ १.३२.२९ ॥
दं स्तोत्रं जपेत्पश्चाद्वासुदेवमनुस्मरन्
ओं नमो वासुदेवाय नमः सकर्षणाय च ॥ १.३२.३० ॥
प्रद्युम्नायादिदेवायानिरुद्धाय नमोनमः
नमो नारायणायैव नरायणां पतये नमः ॥ १.३२.३१ ॥
नरपूज्याय कीर्त्याय स्तुत्याय वरदाय च
अनादिनिधनायैव पुराणाय नमोनमः ॥ १.३२.३२ ॥
सृष्टिसंहारकर्त्रे च ब्रह्मणः पतये नमः
मनो वै वेदवेद्याय शङ्खचक्रधराय च ॥ १.३२.३३ ॥
कलिकल्मषहर्त्रे च सुरेशाय नमोनमः
संकारवृक्षच्छेत्रे च मायाभेत्रे नमोनमः ॥ १.३२.३४ ॥
वहुरूपाय तीर्थाय त्रिगुणायागुणाय च
ब्रह्मविष्णवीशरूपय मोक्षदाय नमोनमः ॥ १.३२.३५ ॥
मोक्षद्वाराय धर्माय निर्माणाय नमोनमः
सर्वकामप्रदायैव परब्रह्मस्वरूपिणे ॥ १.३२.३६ ॥
संसारसागरे घोरे निमग्नं मां समुद्धर
त्वदन्यो नास्ति देवेश नास्ति त्राता जगत्प्रभो ॥ १.३२.३७ ॥
त्वामव सर्वगं विष्णुं गतोऽहं शरणं गतः
ज्ञानदीपप्रदानेन तमोमुक्तं प्रकाशय ॥ १.३२.३८ ॥
एवं स्तुवीत देवेशं सर्वक्लेशविनाशनम्
अन्यैश्चवादकेः स्तात्रैः स्तुत्वा वै नीललोहित ॥ १.३२.३९ ॥
पञ्चतत्त्वसमायुक्तं ध्यायोद्विष्णुं नरो हृदि
विसर्जयत्तता देवमिति पूजा प्रकीर्तिता ॥ १.३२.४० ॥
सर्वकामप्रदा श्रेष्ठा वासुदेवस्य शङ्कर
एतत्पूजनमात्रेण कृतकृत्यो भवेन्नरः ॥ १.३२.४१ ॥
इदं च यः पठेद्रुद्र पञ्चतत्त्वार्चनं नरः
शृणुयाच्छ्रवायेद्वापि विष्णुलोकं स गच्छति ॥ १.३२.४२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पञ्चतत्त्वा(विष्णवर्) च नविधिर्नाम द्वात्रिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ३३
रुद्र उवाच
सुदर्शनस्य पूजां मे वद शङ्खगदाधर
ग्रहरोगादिकं सर्वं यत्कृत्वा नाशमेति वै ॥ १.३३.१ ॥
हरिरुवाच
सुदर्शनस्य चक्रस्य शृणु पूजां वृषध्वज
स्नानमादौ प्रकुर्वीत पूजयेच्च हरिं तत ॥ १.३३.२ ॥
मूलमन्त्रेण वै न्यासं मूलमन्त्रं शृणुष्वच
सहस्रारं हुं फट्नमो मन्त्रः प्रणवपूर्वकः ॥ १.३३.३ ॥
कथितः सर्वदुष्टानां नाशको मन्त्रभेदकः
ध्यायेत्मुदर्शनं देवं हृदि पद्मेऽमले शुभे ॥ १.३३.४ ॥
शङ्कचक्रगदापद्मधरं सौम्यं किरीटिनम्
आवाह्य मण्डले देवं पूर्वोक्तविधिना हर ॥ १.३३.५ ॥
पूजयेद्रन्धपुष्पाद्यैरुपचारैर्महेश्वर
पूजयित्वा जपेन्मन्त्रं शतमष्टोत्तरं नरः ॥ १.३३.६ ॥
एवं यः कुरुते रुद्र ! चक्रस्यार्चनमुत्तमम्
सर्वरोगविनिर्मुक्तो विष्णुलोकं समाप्नुयात् ॥ १.३३.७ ॥
एतत्स्तोत्रं जपेत्पश्चात्सर्वव्याधिविनाशनम्
नमः सुदर्शनायैव सहस्रादित्यवर्चसे ॥ १.३३.८ ॥
ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे
सर्वदुष्टविनाशाय सर्वपातकमर्दिने ॥ १.३३.९ ॥
सुचक्राय विचक्राय सर्वमन्त्रविभेदिने
प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः ॥ १.३३.१० ॥
पालनार्थाय लोकानां दुष्टासुरविनाशिने
उग्राय चैव सौम्याय चण्डाय च नमोनमः ॥ १.३३.११ ॥
नमश्चक्षुः क्वरूपाय संसारभयभेदिने
मायापञ्जरभेत्रे च शिवाय च नमोनमः ॥ १.३३.१२ ॥
ग्रहातिग्रहरूपाय ग्रहाणां पतेय नमः
कालाय मृत्यवे चैव भीमाय च नमोनमः ॥ १.३३.१३ ॥
भक्तानुग्रहदात्रे च भक्तगोप्त्रे नमोनमः
विष्णुरूपाय शान्ताय चायुधानां धराय च ॥ १.३३.१४ ॥
विष्णुशस्त्राय चक्राय नमो भूयो नमोनमः
इति स्तोत्रं महापुण्यं चक्रस्य तव कीर्तितम् ॥ १.३३.१५ ॥
यः पठेत्परया भक्त्या विष्णुलोकं स गच्छति
चक्रपूजाविधिं यश्च पठेद्रुद्र जितोन्द्रियः
स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते ॥ १.३३.१६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सुदर्शनपूजाविधिर्नाम त्रयस्त्रिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ३४
रुद्र उवाच
पुनर्देवार्चनं ब्रूहि हृषीकेश गदाधर
शृण्वतो नास्ति तृप्तिर्मे गदतस्तव पूजनम् ॥ १.३४.१ ॥
हरिरुवाच
हयग्रीवस्य देवस्य पूजनं कथयामि ते
तच्छृणुष्व जगन्नाथो येन विष्णुः प्रतुष्यति ॥ १.३४.२ ॥
मूलमन्त्रं महादेव हयग्रीवस्य वाचकम्
प्रवक्ष्यामि परं पुण्यं तदादौ शृणु शङ्कर ॥ १.३४.३ ॥
ओं सैं क्षैं शिरसे नमः इति प्रणवसंयुतः
अयं नवाक्षरोमन्त्रः सर्वविद्याप्रदायकः ॥ १.३४.४ ॥
अस्याङ्गानि महादेव ताञ्छृणुष्व वृषध्वज
ओं क्षां हृदयाय नमः
ओं क्षीं शिरसे स्वाहाशिरः प्रोक्तं क्षूं वषट्तथा ॥ १.३४.५ ॥
ओं कारयुक्ता देवस्य शिखा ज्ञेया वृषध्वज
ओं क्षैं कवचाय हुं वै कवचं परिकीर्तितम् ॥ १.३४.६ ॥
ओं क्षैं नेत्रत्रयाय वौषट्नेत्रं देवस्य कीर्तितम्
ओं हः अस्त्राय फटस्त्रं देवस्य कीर्तितम् ॥ १.३४.७ ॥
पूजाविधिं प्रवक्ष्यामि नन्मे निगदतः शृणु आदौ स्नात्वा तथाचम्य ततो यागगृहं व्रजेत् ॥ १.३४.८ ॥
ततः प्रविश्य विधिवत्कुर्याद्वं शोषणादिकम्
यं क्षैं रमिति बीजैश्च कठिनीकृत्य लमिति ॥ १.३४.९ ॥
अण्डमुत्पाद्य च ततः ओं कारेणैव भेदयेत्
अण्डमध्ये हयग्रीवमात्मानं परिचिन्तयेत् ॥ १.३४.१० ॥
शङ्खकुन्देन्दुधवलं मृणालरजतप्रभम्
गोक्षीरसदृशं तद्वत्सूर्यकोटिसमग्रभम्
शङ्खं चक्रं गदां पद्मं धारयन्तं चतुर्भुजम् ॥ १.३४.११ ॥
किरीटिनं कुण्डलिनं वनमालासमंन्वितम्
सुचक्रं सुकपोलं च षीताम्बरधरं विभुम् ॥ १.३४.१२ ॥
भावयित्वा महात्मानं सर्वदेवैः समन्वितम्
अङ्गमन्त्रैस्ततो न्यासं मूलमन्त्रेण वै तथा ॥ १.३४.१३ ॥
ततश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभाम्
ध्यायेद्ध्यात्वार्चयेद्विष्णुं मूलमन्त्रेण शङ्कर ॥ १.३४.१४ ॥
ततश्चावाहयेद्रुद्र देवता आसनस्य याः
ओं हयग्रीवासनस्य आगच्छत च देवताः ॥ १.३४.१५ ॥
आवाह्य मण्डले तास्तु पूजयेत्स्वस्तिकादिके
द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज ॥ १.३४.१६ ॥
समस्तपरिवाराय अच्युताय नम इति
अस्य मध्येर्ऽचनं कार्यं द्वारे गङ्गाञ्च पूजयेत् ॥ १.३४.१७ ॥
यमुनां च महादेवीं शङ्खपद्मनिधी तथा
गरुडं पूजयेदग्रे मध्ये शक्तिञ्च पूजयेत् ॥ १.३४.१८ ॥
आधाराख्यां महादेव ततः कूर्मं समर्चयेत्
अनन्तं पृथिवीं पश्चाद्धर्मज्ञाने(नौ) ततोऽचयेत् ॥ १.३४.१९ ॥
वैराग्यमथ चैश्वर्यमाग्नेयादिषु पूजयेत्
अधर्माज्ञानावैराग्यानैश्रर्ग्यादींस्तु पूर्वतः ॥ १.३४.२० ॥
सत्त्वं रजस्तमश्चैव मध्यदेशेऽथ पूजयेत्
कन्दं नालं च पद्मं च मध्ये चैव प्रपूजयेत् ॥ १.३४.२१ ॥
अर्कसोमाग्निसंज्ञानां मण्डलानां हि पूजनम्
मध्यदेशे प्रकर्तव्यमिति रुद्र प्रकीर्तितम् ॥ १.३४.२२ ॥
विमलोत्कर्षिणी ज्ञाना क्रियायोगे वृषध्वज
प्रह्वी सत्या तथेशानानुग्रहौ शक्तयो ह्यमूः ॥ १.३४.२३ ॥
पूर्वादिषु च पत्रेषु पूज्याश्च विमलादयः
अनुग्रहा कर्णिकायां पूज्या श्रेयोऽर्थिभिर्नरैः ॥ १.३४.२४ ॥
प्रणवाद्यैर्नमोऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः
मन्त्रैरेभिर्महादेव आसनं परिपूजयेत् ॥ १.३४.२५ ॥
स्नानगन्धप्रदानेन पुष्पधूपप्रदानतः
दीपनैवेद्यदानेन आसनस्यार्चनं शुभम् ॥ १.३४.२६ ॥
कर्तव्यं विधिनानेन इति ते हर कीर्तितम्
ततश्चावाहयेद्देवं हयग्रीवं सुरेश्वरम् ॥ १.३४.२७ ॥
वामनासापुटेनैव आगच्छन्तं विचिन्तयेत्
आगच्छतः प्रयोगेण मूलमन्त्रेण शङ्कर ॥ १.३४.२८ ॥
आवाहनं प्रकर्तव्यं देवदेवस्य शङ्खिनः
आवाह्यमण्डले तस्य न्यासं कुर्यादतन्द्रितः ॥ १.३४.२९ ॥
न्यासं कृत्वा च तत्रस्थं चिन्तयेत्परमेश्वरम्
हयग्रीवं महादेवं सुरासुरनमस्कृतम् ॥ १.३४.३० ॥
इन्द्रादिलोकपालैश्च संयुक्तं विष्णुमव्ययम्
द्यात्वा प्रदर्शयेन्मुद्राः शङ्खचक्रादिकाः शुभाः ॥ १.३४.३१ ॥
पाद्यार्घ्याचमनीयानि ततो दद्याच्च विष्णवे
स्नापयेच्च ततो देवं पद्मनाभमनामयम् ॥ १.३४.३२ ॥
देवं संस्थाप्य विधिवद्वस्त्रं दद्याद्वृषध्वज
ततो ह्याचमनं दद्यादुपवीतं ततः शुभम् ॥ १.३४.३३ ॥
ततश्च मण्डले रुद्र ध्यायेद्देवं परेश्वरम्
ध्यात्वा पाद्यादिकं भूयो दद्याद्देवाय शङ्कर ॥ १.३४.३४ ॥
दद्याद्भैरवदेवाय मूलमन्त्रेण शङ्कर
ओं क्षां हृदयाय नमः अनेन हृदयं यजेत् ॥ १.३४.३५ ॥
ओं क्षीं शिरसे नमश्च शिरसः पूजनं भवेत्
ओं क्षूं शिखायै नमश्च शिखामेतेन पूजयेत् ॥ १.३४.३६ ॥
ओं क्षैं कवचाय नमः कवचं परिपूजयेत्
ओं क्षैं नेत्राय नमश्च नेत्रं चानेन पूजयेत् ॥ १.३४.३७ ॥
ओं क्षः अस्त्राय नम इति अस्त्रं चानेन पूजयेत्
हृदयं च शिरश्चैव शिखां च कवचं तथा ॥ १.३४.३८ ॥
पूर्वादिषु प्रदेशेषु ह्येतास्तु परिपूजयेत्
कोणेष्वस्त्रं यजेद्रुद्र नेत्रं मध्यै प्रपूजयेत् ॥ १.३४.३९ ॥
पूजयेत्परमां देवीं लक्ष्मीं लक्ष्मीप्रदां शुभाम्
शङ्खं पद्मं तथा चक्रं गदां पूर्वादितोर्ऽचयेत् ॥ १.३४.४० ॥
खड्गं च मुसलं पाशमङ्कुशं सशरं धनुः
पूजयेत्पूर्वतो रुद्र एभिर्मन्त्रैः स्वनामकैः ॥ १.३४.४१ ॥
श्रीवत्सं कौस्तुभं मालां तथा पीताम्बरं शुभम्
पूजयेत्पूर्वतो रुद्र शङ्खचक्रगदाधरम् ॥ १.३४.४२ ॥
ब्रह्माणं नारदं सिद्धं गुरुं परगुरुं तथा
गुरोश्च पादुके तद्वत्परमस्य गुरोस्तथा ॥ १.३४.४३ ॥
इन्द्रं सवाहनं चाथ परिवारयुतं तथा
अग्निं यमं निरृतिं च वरुणं वायुमेव च ॥ १.३४.४४ ॥
सोममीशानमेवं वै ब्रह्माणं परिपूजयेत्
पूर्वादिकोर्ध्वपर्यन्तं पूजयेद्वृषभध्वज ॥ १.३४.४५ ॥
वज्रं शक्तिं तथा दण्डं खङ्गं पाशं ध्वजं गदाम्
त्रिशूलं चक्रपद्मे च आयुधान्यथ पूजयेत् ॥ १.३४.४६ ॥
विष्वक्सेनं ततो देवमैशान्यां दिशि पूजयेत्
एभिर्मन्त्रैर्नमोऽन्तैश्च प्रणवाद्यैर्वृषध्वज ॥ १.३४.४७ ॥
पूजा कार्या महादेव ह्यनन्तस्य वृषध्वज
देवस्य मूलमन्त्रेण पूजा कार्या वृषध्वज ॥ १.३४.४८ ॥
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च
प्रदक्षिणं नमस्कारं जप्यं तस्मै समर्पयेत् ॥ १.३४.४९ ॥
स्तुवीत चान्या स्तुत्या प्रणवाद्यैर्वृषध्वज
ओं नमो हयशिरसे विद्याध्यक्षाय वै नमः ॥ १.३४.५० ॥
नमो विद्यास्वरूपाय विद्यादात्रे नमोनमः
नमः शान्ताय देवाय त्रिगुणायात्मने नमः ॥ १.३४.५१ ॥
सुरासुरनिहन्त्रे च सर्वदुष्टविनाशिने
सर्वलोकाधिपतये ब्रह्मरूपाय वै नमः ॥ १.३४.५२ ॥
नमश्चेश्वरवन्द्याय शङ्कचक्रधारय च
नम आद्याय दान्ताय सर्वसत्त्वहिताय च ॥ १.३४.५३ ॥
त्रिगुणायागुणायैव ब्रह्मविष्णुस्वरूपिणे
कर्त्रे हर्त्रे सुरेशाय सर्वगाय नमोनमः ॥ १.३४.५४ ॥
इत्येवं संस्तवं कृत्वा देवदेवं विचिन्तयेत्
हृत्पद्मे विमले रुद्र शङ्खचक्रगदाधरम् ॥ १.३४.५५ ॥
सूर्यकोटिप्रतीकाशं सर्वावयवसुन्दरम्
हयग्रीवोमहीशेशं परमात्मानमव्ययम् ॥ १.३४.५६ ॥
इति ते कथिता पूजा हयग्रीवस्य शङ्कर
यः पठेत्परया भक्त्या स गच्छेत्परमं पदम् ॥ १.३४.५७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हयग्रीवपूजाविधिर्नाम चतुस्त्रिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ३५
हरिरुवाच
न्यासादिकं प्रवक्ष्यामि गायत्त्र्याः शृणु शङ्कर
विश्वामित्रऋषिश्चैव सविता चाथ देवता ॥ १.३५.१ ॥
ब्रह्मशीर्षा रुद्रशिखा विष्णोर्हृदयसंश्रिता
विनियोगैकनयना कात्यायनसगोत्रजा ॥ १.३५.२ ॥
त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षिसंस्थिता
एवं ज्ञात्वा तु गायत्त्रीं जपेद्द्वादशलक्षकम् ॥ १.३५.३ ॥
त्रिपदाष्टाक्षरा ज्ञेया चतुष्पादा षडक्षरा
जेप च त्रिपदा ग्रोक्ता अर्चने च चतुष्पदा ॥ १.३५.४ ॥
न्यासे जपे तथा ध्याने अग्निकार्ये तथार्चने
गायत्त्रीं विन्यसेन्नित्यं सर्वपापग्रणाशिनीम् ॥ १.३५.५ ॥
पादांसुष्ठे गुल्फमध्ये जङ्घयोर्विद्धि जानुनोः
ऊर्वोर्गुह्ये च वृषणे नाड्यां नाभौ तनूदरे ॥ १.३५.६ ॥
स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः
नेत्रे भुवार्ललाटे च पूर्वस्यां दक्षिणोत्तरे ॥ १.३५.७ ॥
पश्चमे मूर्ध्नि चाकारं न्यसेद्वर्णान्वदाम्यहम्
इन्द्रनीलं च वह्निं च पीतं श्यामं च कापिलम् ॥ १.३५.८ ॥
श्वेतं विद्युत्प्रभं तारं कृष्णं रक्तं क्रमेण तत्
श्यामं शुक्लं तथा पीतं श्वेतं वै पद्मरागवत् ॥ १.३५.९ ॥
शङ्खवर्णं पाण्डुरं च रक्तं चासवसन्निभम्
अर्कवर्णसमं सौम्यं शङ्खाभं श्वेतमेव च ॥ १.३५.१० ॥
यद्यत्स्पृशति हस्तेन यच्च पश्यति चक्षुषा
पूतं भवति तत्सर्वं गायत्त्र्या न परं विदुः ॥ १.३५.११ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीन्यासनिरूपणं नाम पञ्चत्रिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ३६
हरिरुवाच
सन्ध्याविधिं प्रवक्ष्यामि शृणु रुद्राघनाशनम्
प्राणायामत्रयं कृत्वा सन्ध्यास्नानमुपक्रमेत् ॥ १.३६.१ ॥
सप्रणवां सव्याहृतिं गायत्त्रीं शिरसा सह
त्रिः पठेदायतप्रणः प्राणायामः स उच्यते ॥ १.३६.२ ॥
मनोवाक्रायजं दोषं प्राणायामैर्दहेद्द्विजः
तस्मात्सर्वेषु कालेषु प्राणायामपरो भवेत् ॥ १.३६.३ ॥
सायमग्निश्च मेत्युक्ता प्रातः सूर्येत्यपः पिबेत्
आपः पुनन्तु मध्याह्ने उपस्पृश्य यथाविधि ॥ १.३६.४ ॥
आपोहिष्ठेत्यृचा कुर्यान्मार्जनं तु कुशोदकैः
प्रणवेन तु संयुक्तं क्षिपेद्वारि पदेपदे ॥ १.३६.५ ॥
रजस्तमः स्वमोहोत्थाञ्जाग्रत्स्वप्नसुषुप्तिजान्
वाङ्मनः कर्मजान्दोषान्नवैतान्नवभिर्दहेत् ॥ १.३६.६ ॥
समुद्धृत्योदकं पाणौ जप्त्वा च द्रुपदां क्षिपेत्
त्रिपडष्टौ द्वादशधा वर्तयेदघमर्पणम् ॥ १.३६.७ ॥
उदुत्यञ्चित्रमित्याभ्यामुपतिष्ठेद्दिवाकरम्
दिवा रात्रौ च यत्पापं सर्वं नश्यति तत्क्षणात् ॥ १.३६.८ ॥
पूर्वसंध्यां जपंस्तिष्ठेत्पश्चिमामुपविश्य च
महाव्याहृतिसंयुक्तां गायत्त्रीं प्रणवान्विताम् ॥ १.३६.९ ॥
दशभिर्जन्मजनितं शतेन तु पुरा कृतम्
त्रियुगं तु सहस्रेण गायत्त्री हन्ति दुष्कृतम् ॥ १.३६.१० ॥
रक्ता भवति गायत्त्री सावित्री शुक्लवर्णिका
कृष्णा सरस्वती ज्ञेया संध्यात्रयमुदाहृतम् ॥ १.३६.११ ॥
ओं भूर्विन्यस्य हृदये ओं भुवः शिरसि न्यसेत्
ओं स्वरिति शिखायां च गायत्त्र्याः प्रथमं पदम् ॥ १.३६.१२ ॥
विन्यसेत्कवचे विद्वान्द्वितीयं नेत्रयोर्न्यसेत्
तृतीयेनाङ्गविन्यासं चतुर्थं सर्वतो न्यसेत् ॥ १.३६.१३ ॥
संध्याकाले तु विन्यस्य जपेद्वै वेदमातरम्
शिवस्तस्यास्तु सर्वाह्ने प्राणायामपरं न्यसेत् ॥ १.३६.१४ ॥
त्रिपदा या तु गायत्त्री ब्रह्मविष्णुमहेश्वरी
विनियोगमृषिच्छन्दो ज्ञात्वा तु जपमारभेत् ॥ १.३६.१५ ॥
सर्वपापविनिर्मुक्तो ब्रह्मलोकमवाप्नुयात्
परोरजसि सावदों तुरीयपदमीरितम् ॥ १.३६.१६ ॥
तं हन्ति सूर्यः सन्ध्यायां नोपास्तिं कुरुते तु यः
तुरीयस्य पदस्यापि ऋषिर्निर्मल एव च ॥ १.३६.१७ ॥
छन्दस्तु देवी गायत्त्री परमात्मा च देवता ॥ १.३६.१८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे संध्याविधिर्नाम षट्त्रिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ३७
हरिरुवाच
गायत्त्री परमा देवी भुक्तिमुक्तिप्रदा च ताम्
यो जपेत्तस्य पापानिविनश्यन्ति महान्त्यपि ॥ १.३७.१ ॥
गायत्त्रीकल्पमाख्यास्ये भुक्तिमुक्तिप्रदं च तत्
अष्टोत्तरं सहस्रं वा अथवाष्टशतं जपेत् ॥ १.३७.२ ॥
त्रिसन्ध्यं ब्रह्मलोकीस्याच्छतं जप्त्वा जलं पिबेत्
संध्यायां सर्वपापघ्नीं देवीमावाह्य पूजयेत् ॥ १.३७.३ ॥
भूर्भुवः स्वः स्वमन्त्रेण युतां द्वादशनामभिः
गायत्र्यै नमः
सावित्र्यै सरस्वत्यै नमोनमः ॥ १.३७.४ ॥
वेदमात्रे च सांकृत्यै ब्रह्माणी कौशिकी क्रमात्
साध्व्यै सर्वार्थसाधिन्यै सहस्राक्ष्यै च भूर्भुवः ॥ १.३७.५ ॥
स्वरेवं जुहुया दग्नौ समिदाज्यं हविष्यकम्
अष्टोत्तरसहस्रं वाप्यथवाष्टशन्त घृतम् ॥ १.३७.६ ॥
धर्मकामादिसिद्ध्यर्थं जुहुयात्सर्वकर्मसु
प्रतिमां चन्दनस्वर्णनिर्मितां प्रतिपूज्य च ॥ १.३७.७ ॥
यथा लक्षं तु जप्तव्यं पयोमूलफलार्शनैः
अयुतद्वयहोमेन सर्वकामानवाप्नुयात् ॥ १.३७.८ ॥
उत्तरे शिखरे जाता भूम्यां पर्वत वासिनी
ब्रह्मणा समनुज्ञाता गच्छ देवि यथासुखम् ॥ १.३७.९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीकल्पनिरूपणं नाम सप्तत्रिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ३८
हरिरुवाच
नवम्यादौ यजेद्दुर्गां ह्रीं दुर्गे रक्षिणीति च
मातर्मातर्वरे दुर्गे सर्वकामार्थसाधनि ॥ १.३८.१ ॥
अनेन बलिदानेन सर्वकामान्प्रयच्छ मे
गौरी काली उमा दुर्गा भद्रा कान्तिः सरस्वती ॥ १.३८.२ ॥
मङ्गला विजया लक्ष्मीः शिवा नारायणी क्रमात्
मार्गे तृतीयामारभ्य पूजयेन्न वियोगभाक् ॥ १.३८.३ ॥
अष्टादशभुजां खेटकं घण्टां दर्पणं तर्जनीम्
धनुर्ध्वजं डमरुकं परशुं पाशमेव च ॥ १.३८.४ ॥
शक्तिमुद्ररशूलानि कपालशरकाङ्कुशान्
वज्र चक्रं शलाकां च अष्टादशभुजां स्मरेत् ॥ १.३८.५ ॥
मन्त्रः श्रीभगवत्याश्च प्रवक्ष्यामि जपादिकम् ॥ १.३८.६ ॥
ओं नमो भगवति चामुण्डे श्मशानवासिनि कपालहस्ते महाप्रेतसमारूढे महाविमानमालाकुले कालरात्रि बहुगणपरिवृते महामुखे बहुभुजे सुघण्टाडमरुकिङ्किणीके अट्टाट्टहासे किलिकिलि हुं सर्वनादशब्दबहुले गजचर्मप्रावृतशरीरे रुधिरमांसदिग्धे लोलग्रजिह्वे महाराक्षसि रौद्रदंष्ट्राकराले भीमाट्टाट्टहासे स्फुरितविद्युत्समप्रभे चलचल करालनेत्रे हिलिहिलि ललज्जिह्वे ह्रैं ह्रीं भृकुटिमुखि ओं कारभद्रासने कपालमालावेष्टिते जटामुकुटशशाङ्कधारिणि अट्टाट्टहासे किलिकिलि हुंहुं दंष्ट्राघोरान्धकारिणि सर्वविघ्नविनाशिनि इदं कर्म साधय साधय शीघ्रं कुरुकुरु कहकह अङ्कुशे समनुप्रवेशय वर्गंवर्गं (वङ्गवङ्ग) कम्पयकम्पय चलचल चालयचालय रुधिरमांसमद्यप्रिये हनहन कुट्टकुट्ट छिन्दछिन्द मारयमारय अनुबूम अनुबूम वज्रशरीरं साधयसाधय त्रैलोक्यगतमपि दुष्टमदुष्टं वा गृहीतमगृहीतमावेशय आवेशय क्रामयक्रमय नृत्यनृत्य बन्धबन्ध वल्गवल्ग कोटराक्षि उर्ध्वकेशि उलूकवदने करकिङ्किणि करङ्कमालाधारिणि दहदह पचपच गृह्णगह्ण मण्डलमध्ये प्रवेशयप्रवेशय किं विलम्बसि ब्रह्मसत्येन विष्णुसत्येन ऋषिसत्येन रुद्रसत्येन आवेशय आवेशय किलिकिलि खिलिखिलि मिलिमिलि चिलिचिलि विकृतरूपधारिणि कृष्णभुजङ्ग वेष्टितशरीर सर्वग्रहावेशिनि प्रलम्भोष्ठि भ्रूमग्ननासिके विकटमुखि कपिलजटे ब्राह्मि भञ्जभञ्ज ज्वलज्वल कालमुखि खलखल खरखरः पातयपा तय रक्ताक्षि धूर्णापयधूर्णापय भूमिं पातयपातय शिरो गृह्णगृह्ण चक्षुर्मोलयमीलय भञ्जभञ्ज पादौ गृह्णगृह्ण मुद्रां स्फोटयस्फोटय हुं हूं फट्विदारय विदारय त्रिशूलेन भेदयभेदय वज्रेण
हनहन दण्डेन ताडयताडय चेक्रण छेदयछेदय शक्तिना भेदयभेदय दंष्ट्रया दंशयदंशय कीलकेन कीलय कीलय कर्तारिकया पाटयपाटय अङ्कुशेन गृह्णगृह्ण ब्रह्माणि एहि एहि माहेश्वरि एहि एहि कौमारि एहि एहि वाराहि एहि एहि
ऐन्द्रि एहि एहि चामुण्डे एहि एहि वैष्णावि एहि एहि हिमवन्तचारिणि एहि एहि कैलासवारीणि एहि एहि परमन्त्रं छिन्धिछिन्धि किलिकिलि बिम्बे अघोरे घोररूपिणि चामुण्डे रुरुक्रोधान्धविनिः) सृते असुरक्षयङ्करि आकाशगामिनि पाशेन बन्धबन्ध समये तिष्ठतिष्ठ मण्डलं प्रवेशयप्रवेशय पातयपातय गृह्णगृह्ण मुखं बन्धबन्ध चक्षुर्बन्धयबन्धय हृदयं बन्धबन्ध हस्तपादौ च बन्धबन्ध दुष्टग्रहान् सर्वान् बन्धबन्ध दिशां बन्धबन्ध विदिशां बन्धबन्ध ऊर्ध्वं बन्धबन्ध अधस्ताद्बन्धबन्ध भस्मना पानीयेन मृतिकया सर्षपैर्वा आवेशय आवेशय पातयपातय चामुण्डे किलिकिलि विच्छेह्रीं(हुं) फट्स्वाह् ॥ १.३८.७ ॥
अष्टोत्तरपदानां हि माला मन्त्रमयी जपः
एकैक्रपदमष्टसहस्रधा त्रिमधुराक्ततिलाष्टसहस्रहामेः ॥ १.३८.८ ॥
महामांसेनत्रिमधुराक्तेन अष्टोत्तरसह्सत्रं च एकैकं च पदं यजेत्
तिलांस्त्रिमधुराक्तांश्च सहस्रं चाष्ट होमयेत् ॥ १.३८.९ ॥
महामांसं त्रिमधुरादथ वा सर्वकर्मकृत्
वारिसर्षपभस्मादिक्षेपाद्युद्धादिके जयः ॥ १.३८.१० ॥
अष्टाविंशभुजा ध्येया अष्टादशभुजाथवा
द्वादशाष्टभुजा वापि ध्येया वापि चतुर्भुजा ॥ १.३८.११ ॥
असिखेटान्वितौ हस्तौ गदादण्डयुतौ परौ
शरचापयुतौ चान्यौ खड्गमुद्ररसंयुतौ ॥ १.३८.१२ ॥
खङ्खघण्टान्वितौ चान्यौ ध्वजदण्डयुतौ परौ
अन्यौ परशुचक्राढ्यौ डमरुदर्पणान्वितौ ॥ १.३८.१३ ॥
शक्तिहस्ताश्रितौ चान्यौ रटोणी मुसलान्वितौ
पाशतोमरसंयुक्तौ ढक्रापणवसंयुतौ ॥ १.३८.१४ ॥
तर्जयन्ती परेणैव अन्यं कलकलध्वनिम्
अभयस्वस्तिकाद्यौ च महिषघ्नी च सिंहगा ॥ १.३८.१५ ॥
जय त्वं किल भूतेशे सर्वभूतसमावृते
रक्ष मां निजभूतेभ्यो वलिं गृह्ण नमोऽस्तु ते ॥ १.३८.१६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दुर्गाजपपूजाबलिमन्त्रनिरूपणं नामाष्टत्रिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ३९
रुद्र उवाच
पुनर्देवार्चनं ब्रूहि संक्षेपेण जनार्दन
सूर्यस्य विष्णुरूपस्य भुक्तिमुक्तिप्रदायकम् ॥ १.३९.१ ॥
वासुदेव उवाच
शृणु सूर्यस्य रुद्र त्वं पुनर्वक्ष्यामि पूजनम्
ओं उच्चैः श्रवसे नमः ओं अरुणाय नमः
ओं दण्डिने नमः
ओं पिङ्गलाय नमः
एते द्वारे प्रपूज्या वै एपिर्मन्त्रैर्वृषध्वज ॥ १.३९.२ ॥
ओं अं प्रभूताय नमः
इमं तु पूजयेन्मध्ये प्रभूतामलसंज्ञकम्
ओं अं विमलाय नमः
ओं अं साराय नमः
ओं अंाधाराय नमः
ओं अं परममुखाय नमः
इत्याग्नेयादिकोणेषु पूज्या वै विमलादयः ॥ १.३९.३ ॥
ओं पद्माय नमः
ओं कर्णिकायै नमः
मघ्ये तु पूजयेद्रुद्र पूर्वादिषु तथैव च
दीप्ताद्याः पूजयेन्मध्ये पूजयेत्सर्वतोमुखीः
ओं वां (रां) दीप्तायै नमः
ओं वीं (रीं) सूक्ष्मायै नमः
ओं वूं (रूं भद्रायै नमः
ओं वैं (रैं) जयायै नमः
ओं वौं (रौं) विबूत्यै नमः
ओं वं (रं) अधोरायै नमः
ओं वं (रं) वैद्युतायै नमः
ओं वः (रः) विजयायै नमः
ओं रो सर्वतोमुख्यै नमः ॥ १.३९.४ ॥
ओं अर्कासनाय नमः
ओं ह्रां सूर्यमूर्तये नमः
एतास्तु पूजयेन्मध्ये ह्रन्मन्त्राञ्छृणु शङ्कर
ओं हं सं खं खखोल्काय क्रां क्रीं सः स्वाहा सूर्यमूर्तये नमः
अनेनावाहनं कुर्यात्स्थापनं सन्निधापनम्
सन्निरोपनमन्त्रेण सकलीकरणं तथा ॥ १.३९.५ ॥
मुद्राया दर्शनं रुद्र मूलमन्त्रेण वा हर
तेजोरूपं रक्तवर्णं सितपद्मोपरि स्थितम्
एकचक्ररथारूढं द्विबाहुं धृतपङ्कजम् ॥ १.३९.६ ॥
एवं ध्यायेत्सदा सूर्यं मूलमन्त्रं शृणुष्व च
ओं ह्रां ह्रीं सः सूर्याय नमः ॥ १.३९.७ ॥
वारत्रयं पद्ममुद्रां बिम्बमुद्रां च दर्शयेत्
ओं आं हृदयाय नमः
ओं अर्काय शिरसे स्वाहा
ओं अः भूर्भुवः स्वः ज्वालिनि शिखायै वषट्
ओं हुं कवचाय हुं
ओं भां नेत्राभ्यां वौषट्
ओं वः अस्त्राय फडिति ॥ १.३९.८ ॥
आग्नेय्यामथवैशान्यां नैरृत्यामर्चयेद्धर
त्दृयदयादि हि वायव्यां नेत्रं चान्तः प्रपूजयेत् ॥ १.३९.९ ॥
दिस्वस्त्रं पूजयेद्रुद्र सोमं तु श्वेतवर्णकम्
दले पूर्वेर्ऽचयेद्रुद्र बुधं चामीकरप्रभम् ॥ १.३९.१० ॥
दक्षिणे पूजयेद्रुद्र पतिवर्णं गुरुं यजेत्
पश्चिमे चैव भूतेशं उत्तरे भार्गवं सितम् ॥ १.३९.११ ॥
रक्तमङ्गारकं चैव आग्नेये पूजयेद्धर
शनैश्चरं कृष्णवर्णं नैरृत्यां दिशि पूजयेत् ॥ १.३९.१२ ॥
राहुं वायव्यदेशे तु नन्द्यावर्तनिभिं हर
ऐशान्यां धूम्रवर्णं तु केतुं सं परिपूजयेत् ॥ १.३९.१३ ॥
एभिर्मन्त्रैर्महादेव तच्छृणुष्व च शङ्कर ॥ १.३९.१४ ॥
ओं सों सोमाय नमः
ओं बुं बुधाय नमः
ओं बृं बृहस्पतये नमः
ओं भं भार्गवाय नमः
ओं अं अङ्गारकाय नमः
ओं शं शनैश्चराय नमः
ओं रं राहवे नमः
ओं कं केतवे नम इति ॥ १.३९.१५ ॥
पाद्यादीन्मूलमन्त्रेण दत्त्वा सूर्याय शङ्कर
नैवेद्यान्ते धेनुमुद्रां दर्शयेत्साधकोत्तमः ॥ १.३९.१६ ॥
जप्त्वा चाष्टसहस्रं तु तच्च तस्मै समर्पयेत्
ऐशान्यां दिशि भूतेश तेजश्चण्डं तु पूजयेत् ॥ १.३९.१७ ॥
ओं तेजश्चंण्डाय हुं फट्स्वधा स्वाहा पौषट्
निर्माल्यं चार्पयेत्तस्मै ह्यर्घ्यं दद्यात्ततो हर ॥ १.३९.१८ ॥
तिलतण्डुलसंयुक्तं रक्तचन्दनचर्चितम्
गन्धोदकेन संमिश्रं पुष्पधूपसमन्वितम् ॥ १.३९.१९ ॥
कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः
दर्घ्यं तु सूर्याय त्दृन्मन्त्रेण वृषध्वज ॥ १.३९.२० ॥
गणं गुरून्प्रपूज्याथ सर्वान्देवानन्प्रपूजयेत्
ओं गं गणपतये नमः
ओं अं गुरुभ्यो नमः ॥ १.३९.२१ ॥
सूर्यस्य कथिता पूजा कृत्वैतां विष्णुलोकभाक् ॥ १.३९.२२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चनप्रकारो नामैकोनचत्वारिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ४०
शङ्कर उवाच
माहेश्वरीं च मे पूजां वद शङ्खगदाधर
यां ज्ञात्वा मानवाः सिद्धिं गच्छन्ति परमेश्वर ॥ १.४०.१ ॥
हरिरुवाच
शृणु माहेश्वरीं पूजां कथ्यमानां वृषध्वज
आदौ स्नात्वा तथाचम्य ह्यासने चोपविश्य च ॥ १.४०.२ ॥
न्यासं कृत्वा मण्डले वै पूजयच्चे महेश्वरम्
मन्त्रैरेतैर्महेशान परिवारयुतं हरम् ॥ १.४०.३ ॥
ओं हां शिवासनदेवता आगच्छतेति
अनेनावाहयेद्रुद्र देवता आसनस्य याः ॥ १.४०.४ ॥
ओं हां गणपतये नमः
ओं हां सरस्वत्यै नमः
ओं हां नन्दिने नमः
ओं हां महाकालाय नमः
ओं हां गङ्गायै नमः
ओं हां लक्ष्म्यै नमः
ओं हां महाकलायै नमः
ओं हां अस्त्राय नम इति ॥ १.४०.५ ॥
एते द्वारे प्रपूज्या वै स्नानगन्धादिभिर्हर
ओं हां ब्रह्मणे वास्त्वधिपतये नमः
ओं हां गुरुभ्यो नमः
ओं हां आधारशक्त्यै नमः
ओं हां अनन्ताय नमः
ओं हां धर्माय नमः
ओं हां ज्ञानाय नमः
ओं हां वैराग्याय नमः
ओं हां ऐश्वर्याय नमः
ओं हां अधर्माय नमः
ओं हां अज्ञानाय नमः
ओं हां अवैराग्याय नमः
ओं हां अनैश्वर्याय नमः
ओं हां उर्ध्वच्छन्दाय नमः
ओं हां अधश्छन्दाय नमः
ओं हां पद्माय नमः
ओं हां कर्णिकायै नमः
ओं हां वामायै नमः
ओं हां ज्येष्ठायै नमः
ओं हां रौद्यै नमः
ओं काल्यै नमः
ओं हां कलविकरण्यै नमः
ओं बलप्रमथिन्यै नमः
ओं हां सर्वभूतदमन्यै नमः
ओं हां मनोन्मन्यै नमः
ओं हां मण्डलत्रितयाय नमः
ओं हां हौं हं शिवमूर्तये नमः
ओं हां विद्याधिपतये नमः
ओं हां हीं हौं शिवाय नमः
ओं हां हृदयाय नमः
ओं शिरसे नमः
ओं हूं शिखायै नमः
ओं हैं कवचाय नमः
ओं हौं नेत्रत्रयाय नमः
ओं हः अस्त्राय नमः
ओं सद्योजाताय नमः ॥ १.४०.६ ॥
ओं हां सिद्ध्यै नमः
ओं हां ऋद्ध्यै नमः
ओं हां विद्युतायै नमः
ओं हां लक्ष्म्यै नमः
ओं हां बोधायै नमः
ओं हां काल्यै नमः
ओं हां स्वधायै नमः
ओं हां प्रभायै नमः ॥ १.४०.७ ॥
सत्यस्याष्टौ कला ज्ञेयाः पूज्याः पूर्वादिषु स्थिताः ॥ १.४०.८ ॥
ओं हां वामदेवाय नमः
ओं हां रजसे नमः
ओं हां रक्षायै नमः
ओं हां रत्यै नमः
ओं हां कन्यायै नमः
ओं हां कामायै नमः
ओं हां जनन्यै नमः
ओं हां क्रियायै नमः
ओं हां वृद्ध्यै नमः
ओं हां कार्यायै नमः
ओं रा(धा) त्र्यै नमः
ओं हां भ्रामण्यै नमः
ओं हां मोहिन्यै नमः
ओं हां क्ष(त्व)रायै नमः
वामदेवकला ज्ञेयास्त्रयो दश वृषध्वज ॥ १.४०.९ ॥
ओं हां तत्पुरुषाय नमः
ओं हां निवृत्त्यै नमः
ओं हां प्रतिष्ठायै नमः
ओं हां विद्यायै नमः
ओं हां शान्त्यै नमः
ज्ञेयास्तत्पुरुषस्यैव चतस्रो वृषभध्वज ॥ १.४०.१० ॥
ओं हां तृष्णायै नमः
कलाषट्कं ह्यखोरस्य विज्ञेयं भैरवं हर ॥ १.४०.११ ॥
ओं हां ईशानाय नमः
ओं हां समित्यै नमः
ओं हां अङ्गदायै नमः
ओं हां कृष्णायै नमः
ओं हां मरीच्यै नमः
ओं हां ज्वालायै नमः
ईशानस्य कलाः पञ्च जानीहि वृषभध्वज ॥ १.४०.१२ ॥
ओं हां शिवपरिवारेभ्यो नमः
ओं हां इन्द्राय सुराधिपतये नमः
ओं हां अग्नये तेजोऽधिपतये नमः
ओं हां यमाय प्रेताधिपतये नमः
ओं हां निरृतये रक्षोऽधिपतये नमः
ओं हां वरुणाय जलाधिपतये नमः
ओं हां वायवे प्राणाधिपतये नमः
ओं हां सोमाय नेत्राधिपतये नमः
ओं हां ईशानाय सर्वविद्याधिपतये नमः
ओं हां अनन्ताय नागाधिपतये नमः
ओं हां ब्रह्मणे सर्वलोकाधिपतये नमः
ओं हां धूलिचण्डेश्वराय नमः ॥ १.४०.१३ ॥
आवाहनं स्थापनं सन्निधानं च शङ्कर
सन्निरोधं तथा कुर्यात्सकलीकरणं तथा ॥ १.४०.१४ ॥
तत्त्वन्यासं च मुद्राया दर्शनं द्यानमेव च
पाद्यमाचमनं ह्यर्घ्यं पुष्पाण्यभ्यङ्गदानकम् ॥ १.४०.१५ ॥
तत उद्वर्तनं स्नानं सुगन्धं चानुलेपनम्
वस्त्रालं कारभोगांश्च ह्यङ्गन्यासं च धूपकम् ॥ १.४०.१६ ॥
दीपं नैवेद्यदानं च हस्तोद्वर्तनमेव च
पाद्यार्घ्याचमनं गन्धं ताम्बूलं गीतवादनम् ॥ १.४०.१७ ॥
नृत्यं छत्रा दिकरणं मुद्राणां दर्शनं तता
रूपं ध्यानं जपञ्चाथ एकवद्भाव एव च ॥ १.४०.१८ ॥
मूलमन्त्रेण वै कुर्याज्जपपूजासमर्पणम्
माहेशी कथिता पूजा रुद्र पापविनासिनी ॥ १.४०.१९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महेश्वरपूजाविधिर्नाम चत्वारिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ४१
वासुदेव उवाच
ओं विश्वावसुर्नाम गन्धर्वः कन्यानामधिपतिर्लभामि ते कन्यां समुत्पाद्य तस्मै विश्ववासवे स्वाहा
स्त्रीलाभो मन्त्रजाप्याच्च कालरात्रिं वदाम्यहम् ॥ १.४१.१ ॥
ओं नमो भगवति ऋक्षकर्णि चतुर्भुजे ऊर्ध्वकेशि त्रिनयने कालरात्रि मानुषाणां वसारुधिरभोजने अमुकस्य प्राप्तकालस्य मृत्युप्रदे हुं फठनहन दहदह मांसरुधिरं पचपच ऋक्षपत्नि स्वाहा न तिथिर्न च नक्षत्रं नोपवासो विधीयते ॥ १.४१.२ ॥
क्रुद्धो रक्तेन संमार्ज्य करौ ताभ्यां प्रगृह्य च
प्रदोषे संजपेल्लिङ्गमामपात्रं च मारयेत्
ओं नमः सर्वतोयन्त्राण्येतद्यथा जम्भनि मोहनि सर्वशत्रुविदारिणि रक्षरक्ष माममुकं सर्वभयोपद्रवेभ्यः स्वाहा
शुक्रे नष्टे महादेव वक्ष्येऽहं द्विजपादिह ॥ १.४१.३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वश्यादिसाधिकमन्त्रनिरूपणं नामैकचत्वारिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ४२
हरिरुवाच
पवित्रारोपणं वक्ष्ये सिवस्याशिवनाशनम्
आचार्यः साधकः कुर्यात्पुत्रकः समयी हर ॥ १.४२.१ ॥
संवत्सरकृतां पूजां विघ्नेशो हरतेऽन्यथा
आषाढे श्रावणे माघे कुर्याद्भाद्रपदेऽपि वा ॥ १.४२.२ ॥
सौवर्णरौप्यताम्रं च सूत्रं कार्पासिकं क्रमात्
ज्ञेयं कुजादौ संग्राह्यं कन्यया कर्तितं च यत् ॥ १.४२.३ ॥
त्रिगुणं त्रिगुणीकृत्य ततः कुर्यात्पवित्रकम्
ग्रन्थयो वामदेवेन सत्येन क्षालयेच्छिव ॥ १.४२.४ ॥
अघोरेण तु संशोध्य बद्धस्तत्पुरुषाद्भवेत्
धूपयेदीशमन्त्रेण तन्तुदेवा इति (मे) स्मृताः ॥ १.४२.५ ॥
ओं कारश्चन्द्रमा वह्निर्ब्रह्ना नागः शिखिध्वजः
रविर्विष्णुः शिवः प्रोक्तः क्रमात्तन्तुषु देवताः ॥ १.४२.६ ॥
अष्टोत्तरशतं कुर्यात्पञ्चाशत्पञ्चविंशतिम्
रुद्रोऽत्तमादि विज्ञेयं मानं च ग्रन्थयो दश ॥ १.४२.७ ॥
चतुरङ्गुलान्तराः स्युर्ग्रन्थिनामानि च क्रमात्
प्रकृतिः पौरुषी वीरा चतुर्थो चापराजिता ॥ १.४२.८ ॥
जया च विजया रुद्रा अजिता च सदाशिवा
मनोन्मनी सर्वमुखी द्व्यङ्गुलाङ्गुलतोऽथवा ॥ १.४२.९ ॥
रञ्जयेत्कुङ्कुमाद्यैस्तु कुर्याद्रन्धैः पवित्रकम्
सप्तम्यां वा त्रयोदश्यां शुक्लपक्षे तथेतरे ॥ १.४२.१० ॥
क्षीरादिभिश्च संस्नाप्य लिङ्गं गन्धादिभिर्यजेत्
दद्याद्रन्धपवित्रं तु आत्मने ब्रह्मणे हर ॥ १.४२.११ ॥
पुष्पं गन्धयुतं दद्यान्मूलेनेशानगोचरे
पूर्वे च दण्डकाष्ठं तु उत्तरे चामलकीफलम् ॥ १.४२.१२ ॥
मृत्तिकां पश्चिमे दद्याद्दक्षिणे भस्म भूतयः
नैरृतेह्यगुरुं दद्याच्छिखामन्त्रेण मन्त्रवित् ॥ १.४२.१३ ॥
वायव्यां सर्षपं दद्यात्कवचेन वृषध्वज
गृहं संवेष्ट्य सूत्रेण दद्याद्रन्धपवित्रकम् ॥ १.४२.१४ ॥
होमं कृत्वा ग्नेय दत्त्वा दद्याद्भूतबलिं तथा
आमन्त्रितोऽसि देवेश गणैः सार्धं महेश्वर ॥ १.४२.१५ ॥
प्रातस्त्वां पूजयिष्यामि अत्र सन्निहितो भव
निमन्त्र्यानेन तिष्ठेत्तु कुर्वन् गीतादिकं निशि ॥ १.४२.१६ ॥
मन्त्रितानि पवित्राणि स्थापयेद्देवपार्श्वतः
स्नात्वादित्यं चतुर्दश्यां प्राग्रुद्रं च प्रपूजयेत् ॥ १.४२.१७ ॥
ललाटस्थं विश्वरूपं ध्यात्वात्मानं प्रपूजयेत्
अस्त्रेण प्रोक्षितान्येवं हृदयेनार्चितान्यथ ॥ १.४२.१८ ॥
संहितामन्त्रितान्येव धूपितानि समर्पयेत्
शिवतत्त्वात्मकं चादौ विद्यातत्त्वात्मकं ततः ॥ १.४२.१९ ॥
आत्मतत्त्वात्मकं पश्चाद्देवकाख्यं ततोर्ऽचयेत्
ओं हौं हौं शिवतत्त्वाय नमः
ओं हीं(हीः) विद्यातत्त्वाय नमः ॥ १.४२.२० ॥
ओं हां (हौः) आत्मतत्त्वाय नमः
ओं हां हीं हूं क्षैं सर्वतत्त्वाय नमः
कालात्मना त्वया देव यद्दृष्टं मामके विधौ ॥ १.४२.२१ ॥
कृतं क्लिष्टं समुत्सृष्टं हुतं गुप्त च यत्कृतम्
सर्वात्मनात्मना शम्भो पवित्रेण त्वदिच्छया ॥ १.४२.२२ ॥
पूरयपूरय मखव्रतं तन्नियमेश्वराय सर्वतत्त्वात्मकाय सर्वकारणपालिताय ओं हां हीं हूं हैं हौं शिवाय नमः ॥ १.४२.२३ ॥
पूर्वैरनेन यो दद्यात्पवित्राणां चतुष्टयम्
दत्त्वा वह्नेः (वरे) पवित्रं च गुरवे दक्षिणां दिशेत् ॥ १.४२.२४ ॥
बलिं दत्त्वा द्विजान् भोज्य चण्डं प्राच्यै विसर्जयेत् ॥ १.४२.२५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवपवित्रारोपणं नाम द्विचत्वारिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ४३
हरिरुवाच
पवित्रारोपणं वक्ष्ये भुक्तिमुक्तिप्रदं हरेः
पुरा देवासुरे युद्धे ब्रह्माद्याः शरणं ययुः ॥ १.४३.१ ॥
विष्णुश्च तेषां देवानां ध्वजं ग्रैवेयकं ददौ
एतौ दृष्ट्वा विनङ्क्ष्यन्ति दानवानब्रवीद्धरिः ॥ १.४३.२ ॥
विष्णूक्ते ह्यब्रवीन्नागो वासुकेरनुजस्तदा
वृणीत च वपित्राख्यं वरं चेदं वृषध्वज ॥ १.४३.३ ॥
ग्रैवेयं हरिदत्तं तु मन्नाम्ना ख्यातिमेष्यति
इत्युक्ते तेन ते देवास्तन्नाम्ना तद्वरं विदुः ॥ १.४३.४ ॥
प्रावृट्काले तु ये मर्त्या नार्चिष्यन्ति पवित्रकैः
तेषां सांवत्सरी पूजा विफला च भविष्यति ॥ १.४३.५ ॥
तस्मात्सर्वेषु देवेषु पवित्रारोपणं क्रमात्
प्रतिपत्पौर्णमास्यान्ता यस्य या तिथिरुच्यते ॥ १.४३.६ ॥
द्वादश्यां विष्णवे कार्यं शुक्ले कृष्णेऽथ वा हर
व्यतीपातेऽयने चैव चन्दरसूर्यग्रहे शिव ॥ १.४३.७ ॥
विष्णवे वृद्धिकार्ये च गुरोरागमने तथा
नित्यं पवित्रमुद्दिष्टं प्रावृट्काले त्ववश्यकम् ॥ १.४३.८ ॥
कौशेयं पट्टसूत्रं वा कार्पासं क्षौममेव वा
कुशसूत्र द्विजानां स्याद्राज्ञा कौशेयपट्टकम् ॥ १.४३.९ ॥
वैश्यानां चीरणं क्षौमं शूद्राणां शणवल्कजम्
कार्पासं पद्मजं चैव सर्वेषां शस्तमीश्वर ॥ १.४३.१० ॥
ब्राह्मण्या कर्तितं सूत्रं त्रिगुणं त्रिगुणीकृतम्
ओं कारोऽथ शिवः सोमो ह्यग्निर्ब्रह्या फणी रविः ॥ १.४३.११ ॥
विघ्नेशो विष्णुरित्येते स्थितास्तन्तुषु देवताः
ब्रह्मा विष्णुश्च रुद्रश्च त्रिसूत्रे देवताः स्मृताः ॥ १.४३.१२ ॥
सौवर्णे राजते ताम्रे वैणवे मृन्मये न्यसेत्
अङ्गुष्ठेन चतुः षष्टिः श्रेष्ठं मध्यं तदर्धतः ॥ १.४३.१३ ॥
तदर्धा तु कनिष्ठा स्यात्सूत्रमष्टोत्तरं शतम्
उत्तमं मध्यमं चैव कन्यसं पूर्ववत्क्रमात् ॥ १.४३.१४ ॥
उत्तमोंऽगुष्ठमानेन मध्यमो मध्यमेन तु
कन्यसे च कनिष्ठेन अङ्गुल्या ग्रन्थयः स्मृताः ॥ १.४३.१५ ॥
विमाने स्थण्डिले चैव एतत्सामान्यलक्षणम्
शिवोद्धृतं पवित्रं तु प्रतिमायां च कारयेत् ॥ १.४३.१६ ॥
हृन्नाभिरू(रु) रुमाने च जानुभ्यामवलम्बिनी
अष्टोत्तरसहस्रेण चत्वारो ग्रन्थयः स्मृताः ॥ १.४३.१७ ॥
षट्त्रिं(ड्विं) शच्च चतुर्विशद्द्वादश ग्रन्थयोऽथवा
उत्तमादिषु विज्ञेयाः पर्वभिर्वा पवित्रकम् ॥ १.४३.१८ ॥
चर्चितं कुङ्कुमेनैव हरिद्राचन्दनेन वा
सोपवासः पवित्रन्तु पात्रस्थमधिवासयेत् ॥ १.४३.१९ ॥
अश्वत्थपत्रपुटके अष्टदिक्षु निवेशितम्
दण्डकाष्ठं कुशाग्रं च पूर्वे सङ्कर्षणेन तु ॥ १.४३.२० ॥
रोचनाकुङ्कुमेनव प्रद्युम्नेन तु दक्षिणे
युद्धार्थो फलसिद्ध्यर्थमनिरुद्धेन पश्चिमे ॥ १.४३.२१ ॥
चन्दनं नीलयुक्तं च तिलभस्माक्षतं तथा
आग्नेयादिषु कोणेषुर्श्यादीनां तु क्रमान्न्यसेत् ॥ १.४३.२२ ॥
पवित्रं वासुदेवेन अभिमन्त्र्य सकृत्सकृत्
दृष्ट्वा पुनः प्रपूज्याथ वस्त्रेणाच्छाद्य यत्नतः ॥ १.४३.२३ ॥
देवस्य पुरतः स्थाप्यं प्रतिमामण्डलस्य वा
पश्चिमे दक्षिणे चैव उत्तरे पूर्ववत्क्रमात् ॥ १.४३.२४ ॥
ब्राह्मादींश्चापि संस्थाप्य कलशं चापि पूजयेत्
अस्त्रेण मण्डलं कृत्वा नैवेद्यञ्च समर्पयेत् ॥ १.४३.२५ ॥
अधिवास्य पवित्रं तु त्रिसूत्रेण नवेन वा (च)
वेदिकां वेष्टयित्वा तु आत्मानंम कलशं घृतम् ॥ १.४३.२६ ॥
अग्निकुण्डं विमानं च मण्डपं गृहमेव च
सूत्रमेकं तु संगृह्य दद्याद्देवस्य मृर्धानि ॥ १.४३.२७ ॥
दत्त्वा पठेदिमं मन्त्रं पूजयित्वा महेश्वरम्
आवाहितोऽसि देवेश पूजार्थं परमेश्वर ॥ १.४३.२८ ॥
तत्प्रभातेर्ऽचयिष्यामि सामग्याः सन्निधौ भव
एकरात्रं त्रिरात्रं वा अधिवास्य पवित्रकम् ॥ १.४३.२९ ॥
रात्रौ जागरणं कृत्वा प्रातः संपूज्य केशवम्
आरोपयेत्क्रमेणैव ज्येष्ठमध्यकनीयसम् ॥ १.४३.३० ॥
धूपयित्वा पवित्रं तु मन्त्रेणैवाभिमन्त्रयेत्
प्रजप्तग्रन्थिकं चैव पूजयेत्कुसुमादिभिः ॥ १.४३.३१ ॥
गायत्त्र्या चार्चितं तेन देवं संपूज्य दापयेत्
समं पुत्रकलत्राद्यैः सूत्रपुच्छं तु धारयेत् ॥ १.४३.३२ ॥
विशुद्धग्रन्थिकं रम्यं महापातकनाशनम्
सर्वपापक्षयं देव तवाग्रे धारयाम्यहम् ॥ १.४३.३३ ॥
एवं धूपादिनाभ्यर्च्य मध्यमादीन्त्समर्पयेत्
पवित्रं वैष्णवं तेजः सर्वपातकनाशनम् ॥ १.४३.३४ ॥
धर्मकामार्थसिद्ध्यर्थं स्वकण्ठे धारयाम्यहम्
वनमालां समभ्यर्च्य स्वेन मन्त्रेण दापयेत् ॥ १.४३.३५ ॥
नैवेद्यं विविधं दत्त्वा कुसुमादेर्बलिं हरेत्
अग्निं संतर्प्य तत्रापि द्वादशाङ्गुलमानतः ॥ १.४३.३६ ॥
अष्टोत्तरशतेनैव दद्यादेकपवित्रकम्
आदौ दत्त्वार्घ्यमादित्ये तत्र चैकं पवित्रकम् ॥ १.४३.३७ ॥
विष्वक्सेनं ततः प्रार्च्य सुरुमर्घ्यादिभिर्हर
देवस्याग्रे पठेन्मन्त्रं कृताञ्जलिपुटः स्थितः ॥ १.४३.३८ ॥
ज्ञानतोऽज्ञानतो वापि पूजनादि कृतं मया
तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादात्सुरेश्वर ॥ १.४३.३९ ॥
मणिविद्रुममालभिर्मन्दारकुसुमादिभिः
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ॥ १.४३.४० ॥
वनमाला यथा देव कौस्तुभं सततं हृदि
तद्वत्पवित्रं तन्तूनां मालां त्वं हृदये धर ॥ १.४३.४१ ॥
एवं प्रार्थ्य द्विजान् भोज्य दत्त्वा तेभ्यश्च दक्षिणाम्
विसर्जयेत्तु तेनैव सायाह्ने त्वपरेऽहनि ॥ १.४३.४२ ॥
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मया
व्रजेः पवित्रकेदानीं विष्णुलेकं विसर्जितः ॥ १.४३.४३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपवित्रारोपणं नाम त्रिचत्वारिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ४४
हरिरुवाच
पूजयित्वा पवित्राद्यैर्ब्रह्म ध्यात्वा हरिर्भवेत्
ब्रह्मध्यानं प्रवक्ष्यामि मायायन्त्रप्रमर्दकम् ॥ १.४४.१ ॥
यच्छेद्वाङ्मनसं प्राज्ञस्तं यजेज्ज्ञानमात्मनि
ज्ञानं महति संयच्छेद्य इच्छेज्ज्ञानमात्मानि ॥ १.४४.२ ॥
देहेन्द्रियमनोबुद्धिप्राणाहङ्करावर्जितम्
वर्जितं भूततन्मात्रैर्गुणजन्माशनादिभिः ॥ १.४४.३ ॥
स्वप्रकाशं निराकारं सदानं दमनादि यत्
नित्यं शुद्धं बुद्धमृद्धं सत्यमानन्दमद्वयम् ॥ १.४४.४ ॥
तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम्
अहं ब्रह्मेत्यवस्थानं समाधिरपि (रिति) गीयते ॥ १.४४.५ ॥
आत्मानं रथिनं विद्धि शरीरं रथमेव तु
बुद्धिं च सारथिं विद्धि मनः प्रग्रहमेव च
इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचराः ॥ १.४४.६ ॥
आत्मेन्द्रियमनोयुक्तो भोक्तेत्यार्मनीषिणः
यस्तु विज्ञान बाह्मेन युक्तेन मनसा सदा ॥ १.४४.७ ॥
स तु तत्पदमाप्नोति स हि भूयो न जायते
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ॥ १.४४.८ ॥
स्वर्धुन्याः पारमाप्नोति तद्विष्णोः परमं पदम्
अहिंसादिर्यमः प्रोक्तः शौचादिर्नियमः स्मृतः ॥ १.४४.९ ॥
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः
प्रत्याहा रो जयः प्रोक्तो ध्यानमीश्वरचिन्तनम् ॥ १.४४.१० ॥
मनोधृतिर्धारणा स्थात्समाधिर्ब्रह्मणि स्थितिः
पूर्वं चेतः स्थिरं न स्यात्ततोमूर्तिं विचिन्तयेत् ॥ १.४४.११ ॥
हृत्पद्मकर्णिकामध्ये शङ्खचक्रगदाब्जवान्
श्रीवत्सकौस्तुभयुतो वनमालाश्रिया युतः ॥ १.४४.१२ ॥
नित्यः शुद्धो भूतियुक्तः सत्यानन्दाह्वयः परः
आत्माहं परमं ब्रह्म परमं ज्योतिरेव तु ॥ १.४४.१३ ॥
चतुर्विशतिमूर्तिः स शालग्रामशिलास्थितः
द्वारकादिशिलासंस्थो ध्येयः पूज्योऽप्यहं च सः ॥ १.४४.१४ ॥
मनसोऽभीप्सितं प्राप्य देवो वैमानिको भवेत्
निष्कामो मुक्तिमाप्नोति मूर्तिं ध्याययंस्तुवञ्जपन् ॥ १.४४.१५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्ममूर्तिध्याननिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ४५
हरिरुवाच
प्रसंगात्कथयिष्यामि शालग्रामस्य लक्षणम्
शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम् ॥ १.४५.१ ॥
शखचक्रगदापद्मी (हस्तः) (केशवाख्यो) गदाधरः
सब्जकौमादकीचक्रशङ्खी (नारायणो) विभुः ॥ १.४५.२ ॥
सचक्रशङ्खाब्जगदो (माधवः) श्रीगदाधरः
गदब्जशङ्खचक्री वा (गोविन्दो)ऽर्च्यो गदाधरः ॥ १.४५.३ ॥
पद्मशङ्खारिगादिने (विष्णुरूपाय) ते नमः
सशङ्खाब्जगदाचक्र (मधुसूदनमूर्तये) ॥ १.४५.४ ॥
नमो गदारिशङ्खाब्जयुक्त(त्रैविक्रमाय) च
सारिकौमोदकीपद्मशङ्ख(वामनमूर्तये) ॥ १.४५.५ ॥
चक्राब्जशङ्खगादिने नमः (श्रीधरमूर्तये)
(हृषीकेशाया)ऽब्जगदाशङ्खिने चक्रिणे नमः ॥ १.४५.६ ॥
साब्जचक्रगदाशङ्ख(पद्मनाभस्वरूपिणे)
शङ्खचक्रगदापद्मिन् (दामोदर) मनोनमः ॥ १.४५.७ ॥
सारिशङ्खगदाब्जाय (वासुदेवाय) वै नमः
शङ्खाब्जचक्रगादिने नमः (सङ्कर्षणाय) च ॥ १.४५.८ ॥
सुशङ्खसुगदाब्जारिधृते (प्रद्युम्नमूर्तये)
नमो(ऽनिरुद्धाय) गदाशङ्खाब्जारीविधारिणे ॥ १.४५.९ ॥
साब्जशङ्खगदाचक्र(पुरुषोत्तममूर्तये)
नमो(ऽधोक्षजरूपाय) गदाशङ्खारिपद्मिने ॥ १.४५.१० ॥
(नृसिंहमूर्तये) पद्मगदाशङ्खारिधारिणे
पद्मारिशङ्खगदिने नमोऽ(स्त्वच्युतमूर्तये) ॥ १.४५.११ ॥
सशङ्कचक्राब्जगदं (जनार्दन) मिहानये
(उपेन्द्रः) सगदः सारिः पद्मशङ्खिन्नमोनमः ॥ १.४५.१२ ॥
सुचक्राब्जगदाशङ्खयुक्ताय (हरिमूर्तये)
सगदाब्जारिशङ्खाय नमः (श्रीकृष्णमूर्तये) ॥ १.४५.१३ ॥
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक्
शुक्लाभो(वासुदेवाख्यः) सोऽव्याद्वः श्रीगदाधरः ॥ १.४५.१४ ॥
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तुपुष्कलः
संकर्षणोऽथ(प्रद्युम्नः) सूक्ष्मचक्रस्तु पीतकः ॥ १.४५.१५ ॥
स दीर्घः सशिरश्छिद्रो यो(ऽनिरुद्धस्तु) वर्तुलः
नीलो द्वारि त्रिरेखश्च अथ (नारायणो)ऽसितः ॥ १.४५.१६ ॥
मध्ये गादकृती रेखा नाभिचक्रो (क्र) महोन्नतः
पृथुवक्षा (नृसिंहो) वः कपिलोऽव्यात्त्रिबिन्दुकः ॥ १.४५.१७ ॥
अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः
(वराहः) शक्तिलिङ्गोऽव्याद्विषमद्वयचक्रकः ॥ १.४५.१८ ॥
नीलस्त्रिरेखः स्थूलोऽथ (कूर्ममूर्तिः स बिन्दुमान्
(कृष्णः) स वर्तुलावर्तः पातु वो नतपृष्ठकः ॥ १.४५.१९ ॥
(श्रीधरः) पञ्चरेखोऽव्या (द्वनमाली) गादाङ्कितः
(वामनो) वर्तुलो ह्रस्वो वा (रा) मचक्रः सुरेश्वरः ॥ १.४५.२० ॥
नानावर्णोऽनेकमूर्तिर्नागभोगी (त्वनन्तकः)
स्थूलो (दामोदरो) नीलो मध्येवक्रः सुनीलकः ॥ १.४५.२१ ॥
संकीर्णद्वारकः सोऽव्यादथ ब्रह्मा सुलोहितः
सदीर्घरेखः सुषिर एकचक्राम्बुजः पृथुः ॥ १.४५.२२ ॥
पृथुच्छिद्रः स्थूलचक्रः(कृष्णो) (विष्णुश्च) बिल्ववत्
(हयग्रीवो)ऽङ्कुशाकारः पञ्चरेखः सकौस्तुभः ॥ १.४५.२३ ॥
(वैकुण्ठो मणिरत्नाभ एकचक्राम्बुजोऽसितः
(मत्स्यो) दीर्घोऽम्बुजाकारो द्वाररेखश्च पातु वः ॥ १.४५.२४ ॥
रामचक्रो दक्षरेखः श्यामोवोऽव्या (त्त्रिविक्रमः)
शालग्रामे द्वारकायां स्थिताय गदिन नमः ॥ १.४५.२५ ॥
एकद्वारश्चतुश्चक्रो वनमालाविभूषितः
स्वर्णरेखासमायुक्तो गोष्पदेन विराजितः ॥ १.४५.२६ ॥
कदम्बकुसुमाकारो (लक्ष्मीनारायणो)ऽवतु
एकेन लक्षितो योव्याद्रदाधारी (सुदर्शनः) ॥ १.४५.२७ ॥
(लक्ष्मीनारायणो) द्वाभ्यान्त्रिभिर्मूर्ति(स्त्रिविक्रमः)
चतुर्भिश्च (चतुर्व्यूहो) (वासुदेवश्च) पञ्चभिः ॥ १.४५.२८ ॥
(प्रद्युम्नः) षडूभिरेव स्यात्(संकर्षण) इतस्ततः
(पुरुषोत्तमो)ऽष्टभिः स्या(न्नवव्यूहो) नवाङ्कितः ॥ १.४५.२९ ॥
(दशावतारो) दशभिरनिरुद्धोऽवतादथ
(द्वादशात्मा) द्वादशबिरत ऊर्ध्व(मनन्तकः) ॥ १.४५.३० ॥
विष्णोर्मूर्तिमयं स्तोत्रं यः पठेत्स दिवं व्रजेत्
(ब्रह्मा) चतुर्मुखो दण्डी कमण्डलुयुगान्वितः ॥ १.४५.३१ ॥
(महेश्वरः) प्रञ्चवक्रो दशबाहुर्वृषध्वजः
यथायुधस्तथा गौरी चण्डिका च सरस्वती ॥ १.४५.३२ ॥
महालक्ष्मीर्मातरश्च पद्महस्तो (दिवाकरः)
गजास्यश्च गणः स्कन्दः षण्मुखोनेकधा गुणाः ॥ १.४५.३३ ॥
एतेऽर्चिताः स्थापिताश्च प्रासादे वास्तुपूजिते
धर्मार्थकाममोक्षाद्याः प्राप्यन्ते पुरुषेण च ॥ १.४५.३४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शालग्राममूर्तिलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ४६
हरिरुवाच
वास्तुं संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम्
ईसानकोणादारभ्य ह्येकाशीतिपदे यजेत् ॥ १.४६.१ ॥
ईशाने च शिरः पादौ नैरृतेऽग्न्यनिले करौ
आवासवासवेश्मादौ पुरे ग्रामे वणिक्पथे ॥ १.४६.२ ॥
प्रासादारामदुर्गेषु देवालयमठेषु च
द्वाविंशति सुरान्बाह्ये तदन्तश्च त्रयोदश ॥ १.४६.३ ॥
ईशश्चैवाथ पर्जन्यो जयन्तः कुलिशायुधः
सूर्यः सत्यो भृगुश्चैव आकाशो वायुरेव च ॥ १.४६.४ ॥
पूषा च वितथश्चैव ग्रहक्षेत्रयमावुभौ
गन्धर्वो भृगुराजस्तु मृगः पितृगणस्तथा ॥ १.४६.५ ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो गणाधिपः
असुरः शेषपापौ (दौ) च रोगोडहिमुख (ख्य) एव च ॥ १.४६.६ ॥
भल्लाटः सोमसर्पौ च अदितिश्चदितिस्तथा
बहिर्द्वात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥ १.४६.७ ॥
ईशानादिचतुष्कोणसंस्थितान्पूजयेद्धुधः
आपश्चैवाथ सावित्री जयो रुद्रस्तथैव च ॥ १.४६.८ ॥
मध्ये नवपदे ब्रह्मा तस्याष्ठौ च समीपगान्
देवानेकोत्तरानेतान्पूर्वादौ नामतः शृणु ॥ १.४६.९ ॥
अर्यमा सविता चैव विवस्वान्विबुधाधिपः
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥ १.४६.१० ॥
अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः
ईशानकोणादारभ्य दुर्गे चर्(ज्ञेयो) वंश उच्यते ॥ १.४६.११ ॥
आग्नेयकोणादारभ्य वंशो भवति दुर्धरः
अदितिं हिमवन्तं च जयन्तं च इदं त्रयम् ॥ १.४६.१२ ॥
नायिका कालिका नाम शक्राद्रन्धर्वगाः पुनः
वास्तुदेवान्पूजयित्वा गृहप्रासादकृद्भवेत् ॥ १.४६.१३ ॥
सुरेज्यः पुरतः कार्यो यस्याग्नेय्यां महानसम्
कपिनिर्गमने (णी)?येन पूर्वतः सत्रमण्डपम् ॥ १.४६.१४ ॥
गन्धपुष्पगृहं कार्यमैशान्यां पट्टसंयुतम्
भाण्डागारं च कौबेर्यां गोष्ठागारं च वायवे ॥ १.४६.१५ ॥
उदगाश्रयं च वारुण्यां वातायनसमन्वितम्
समित्कुशेन्धनस्थानमायुधानां च नैरृते ॥ १.४६.१६ ॥
अभ्यागतालयं रम्यसशय्यासनापदुकम्
तोयाग्निदीपसद्भृत्यैर्युक्तं दक्षिणतो भवेत् ॥ १.४६.१७ ॥
गृहान्तराणि सर्वाणि सजलैः कदलीगृहैः
पञ्चवर्णैश्च कुसुमैः शोभितानि प्रकल्पयेत् ॥ १.४६.१८ ॥
प्राकारं तद्वहिर्दद्यात्पञ्चहस्तप्रमाणतः
एवं विष्ण्वाश्रमं कुर्याद्वनैश्चोपवनैर्युतम् ॥ १.४६.१९ ॥
चतुः षष्टिपदो वास्तुः प्रासादादौ प्रपूजितः
मध्ये चतुष्पदो ब्रह्मा द्विप दास्त्वर्यमादयः ॥ १.४६.२० ॥
कर्णे चैवाथ शिख्याद्यास्तथा देवाः प्रकीर्तिताः
तेभ्यो ह्युभयतः सार्धादन्येऽपि द्विपदाः सुराः ॥ १.४६.२१ ॥
चतुः षष्टिपदा देवा इत्येवं परिकीर्तिताः
चरकी च विदारी च पूतना पापराक्षसी ॥ १.४६.२२ ॥
ईशानाद्यास्ततो बाह्ये देवाद्या हेतुकादयः
हैतुकस्त्रिपुरान्तश्च अग्निवेतालकौ यमः ॥ १.४६.२३ ॥
अग्निजिह्वः कालकश्च करालो ह्यकपादकः
ऐशान्यां भीमरूपस्तु पाताले प्रेतनायकः ॥ १.४६.२४ ॥
आकाशे गन्धमाली स्यात्क्षेत्रपालांस्ततो यजेत्
विस्ताराभिहतं दैर्घ्यं राशिं वास्तोस्तु कारयेत् ॥ १.४६.२५ ॥
कृत्वा च वसुभिर्भागं शेषं बद्धा यमादिशेत्
पुनर्गुणितमष्टाभिरृभागं तु भाजयेत् ॥ १.४६.२६ ॥
यच्छेषं तद्भवेदृक्षं भागैर्हृत्वाव्ययं भवेत्
ऋक्षं चतुर्गुणं कृत्वा नवभिर्भागहारितम् ॥ १.४६.२७ ॥
शेषमंशं विजानीयाद्देवलस्य मतं यथा
अष्टाभिर्गुणितं पिण्डं षष्टिभिर्भागाहरितम् ॥ १.४६.२८ ॥
यच्छेषं तद्भवेज्जीवं मरणं भतहारितम्
वास्तुक्रोडे गृहं कुर्यान्न पृष्ठे मानवः सदा ॥ १.४६.२९ ॥
वामपार्श्वेन स्वापिति नात्र कार्या विचारणा
सिंहकन्यातुलायां च द्वारं शुध्येदथोत्तरम् ॥ १.४६.३० ॥
एवं च वृश्चिकादौ स्यात्पूर्वदक्षिणपश्चिमम्
द्वारं दीर्घार्धविस्तारं द्वाराण्यष्टौ स्मृतानि च ॥ १.४६.३१ ॥
सन्तानप्रेष्यनीचत्वं स्वयानं स्वर्णभूषणम्
सुतहीनं तु रौद्रेण वीर्यघ्नं दक्षिणे तथा ॥ १.४६.३२ ॥
वह्नौ बधश्चायुर्वृद्धिंपुत्त्रलाभसुतृप्तिदः
धनदे नृपपीडादमर्थघ्नं रोगदं जले ॥ १.४६.३३ ॥
नृपभी तिर्मृतापत्यं ह्यनपत्यं न वैरदम्
अर्थदं चार्थहान्यै च दोषदं पुत्रमृत्युदम् ॥ १.४६.३४ ॥
द्वाराण्युत्तरसंज्ञानि पूर्वद्वाराणि वच्म्यहम्
अग्निभीतिर्बहु कन्याधनसंमानकोपदम् ॥ १.४६.३५ ॥
राजघ्नं कोपदं पूर्वे फलतो द्वारमीरितम्
ईशानादौ भवेत्पूर्वमग्नेय्यादौ तु दक्षिणम् ॥ १.४६.३६ ॥
नैरृत्यादौ पश्चिमं स्याद्वायव्यादौ तु चोत्तरम्
अष्टभागे कृते भागे द्वाराणां च फलाफलम् ॥ १.४६.३७ ॥
अश्वत्थप्लक्षन्यग्रोधाः पूर्वादौ स्यादुदुम्बरः
गृहस्य शोभनः प्रोक्त ईशाने चैव साल्मलिः
पूजितो विग्नहारी स्यात्प्रासादस्य गृहस्य च ॥ १.४६.३८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वास्तुमानलक्षणं नाम षट्चत्वारिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ४७
सूत उवाच [SUTA SAID]
प्रासादानां लक्षणं च वक्ष्ये शौनक तच्छृणु
चतुः षष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम् ॥ १.४७.१ ॥
चतुष्कोणं चतुर्भिश्च द्वाराणि सूर्यसंख्यया
चत्वारिंशाष्टबिश्चैव भित्तीनां कल्पना भवेत् ॥ १.४७.२ ॥
ऊर्ध्वक्षेत्रसमा जङ्घा जङ्घार्धद्विगुणं भवेत्
गर्भविस्तारविस्तीर्णः शुकाङ्घ्रिश्च विधीयते ॥ १.४७.३ ॥
तत्त्रिभागेन कर्तव्यः पञ्चभागेन वा पुनः
निर्गमस्तु शुकाङ्घ्रेश्च उच्छ्रायः शिखरार्धगः ॥ १.४७.४ ॥
चतुर्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनम्
चतुर्थे पुनरस्यैव कण्ठमामूलसाधनम् ॥ १.४७.५ ॥
अथ वापि समं वास्तुं कृत्वा षोडशभागिकम्
तस्य मध्ये चतुर्भागमादौ गर्भं तु कारयेत् ॥ १.४७.६ ॥
चतुर्भागेन भित्तीनामुच्छ्रायः स्यात्प्रमाणतः ॥ १.४७.७ ॥
द्विगुणः शिखरोच्छ्रायो भित्त्युच्छायाच्च मानतः
शिखरार्धस्य चैर्धेन विधेयास्तु प्रदक्षिणाः ॥ १.४७.८ ॥
चतुर्दिक्षु तथा ज्ञेयो निर्गमस्तुः तथा बुधैः
पञ्चभागेन संभज्य गर्भमानं विचक्षणः ॥ १.४७.९ ॥
भागमेकं गृहीत्वा तु निर्गमं क्लपयेत्पुनः
गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ॥ १.४७.१० ॥
एतत्सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम्
लिङ्गमानमथो वक्ष्ये पीठो लिङ्गसमो भवेत् ॥ १.४७.११ ॥
द्विगुणेन भवेद्रर्भः समन्ताच्छौनक ध्रुवम्
तद्द्विधा च भवेद्भीतिर्जङ्घा तद्विस्तरार्धगा ॥ १.४७.१२ ॥
द्विगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनक
पीठगर्भावरं कर्म तन्मानेन शुकाङ्घ्रिकम् ॥ १.४७.१३ ॥
निर्गमस्तु समाख्यातः शेषं पूर्ववदेव तु
लिङ्गमानं स्मृतं ह्येतद्द्वारमानमथोच्यते ॥ १.४७.१४ ॥
कराग्रं वेदवत्कृत्वा द्वारं भागाष्टमं भवेत्
विस्तरेण समाख्यातं द्विगुणंस्वेच्छया भवेत् ॥ १.४७.१५ ॥
द्वारवत्पीठमध्ये तु शेषं सुषिरकं भवेत्
पादिकं शेषिकं भित्तिर्द्वारार्धेन परिग्रहात् ॥ १.४७.१६ ॥
तद्विस्तारसमा जङ्घा सिखरं द्विगुणं भवेत्
शुकाङ्घ्रिः पूर्ववज्ज्ञेया निर्गमोच्छ्रायकं भवेत् ॥ १.४७.१७ ॥
मण्डपे मानमेतत्तु स्वरूपं चापरं वदे
त्रैवेदं कारयेत्क्षेत्रं यत्र तिष्ठन्ति देवताः ॥ १.४७.१८ ॥
इत्थं कृतेन मानेन बाह्यभागविनिर्गतम्
नेमिः पादेन विस्तीर्णा प्रासादस्य समन्ततः ॥ १.४७.१९ ॥
गर्भं तु द्विगुणं कुर्यान्नेम्या मानं भवेदिह
स एव भित्तेरुत्सेधो शिखरो द्विगुणो मतः ॥ १.४७.२० ॥
प्रासादानां च वक्ष्यामि मानं योनिं च मानतः
वैराजः पुष्पकाख्यश्च कैलासो मालिकाह्वयः ॥ १.४७.२१ ॥
त्रिविष्टपं च पञ्चैते प्रासादाः सर्वयोनयः
प्रथमश्चतुरश्रो हि द्वितीयस्तु तदायतः ॥ १.४७.२२ ॥
वृत्तो वृत्तायतश्चान्योऽष्टाश्रश्चेह च पञ्चमः
एतेभ्य एव सम्भूताः प्रासादाः सुमनोहराः ॥ १.४७.२३ ॥
सर्वप्रकृतिभूतेभ्यश्चत्वारिंशत्तथैव च
मेरुश्च मन्दरश्चैव विमानश्च तथापरः ॥ १.४७.२४ ॥
भद्रकः सर्वता भद्रो रुचको नन्दनस्तथा
नन्दिवर्धनसंज्ञश्च श्रीवत्सश्च नवेत्यमी ॥ १.४७.२५ ॥
चतुरश्राः समुद्भूता वैराजादिति गम्यताम्
वलभी गृहराजश्च शा लागृहं च मन्दिरम् ॥ १.४७.२६ ॥
विमानं च तथा ब्रह्ममन्दिरं भवनं तथा
उत्तम्भं शिबिका वेश्म नवैते पुष्पकोद्भवाः ॥ १.४७.२७ ॥
वलयो दुन्दुभिः पद्मो महापद्मस्तथापरः
मुकुली चास्य उष्णीषी शङ्खश्च कलशस्तथा ॥ १.४७.२८ ॥
गुवावृक्षस्तथान्यश्च वृत्ताः कैलाससम्भवाः
गजोऽथ वृषभो हंसो गरुडः सिंहनामकः ॥ १.४७.२९ ॥
भूमुखो भूधरश्चैव श्रीजयः पृथिवीधरः
वृत्तायताः समुद्भूता नवैते मणिकाह्वयात् ॥ १.४७.३० ॥
वज्रं चक्रं तथान्यच्च मुष्टिकं वभ्रुसंज्ञितम्
वक्रः स्वस्तिकखड्गौ च गदा श्रीवृक्ष एव च ॥ १.४७.३१ ॥
विजयो नामतः श्वेतस्त्रिविष्टिपसमुद्भवाः
त्रिकोणं पद्ममर्धेन्दुश्चतुष्कोणं द्विरष्टकम् ॥ १.४७.३२ ॥
यत्र तत्र विधातव्यं संस्थानं मण्डपस्य तु
राज्यं च विभवश्चैवः ह्यायुर्वर्द्वनमेव च ॥ १.४७.३३ ॥
पुत्रलाभः स्त्रियः पुष्टिस्त्रिकोणादिक्रमाद्भवेत्
कुर्याद्धजादिकं ख्यातद्वारि गर्भगृहं तथा ॥ १.४७.३४ ॥
मणाडपः समसंख्याभिर्गुणितः सूत्रकस्तथा
मण्डपस्य चतुर्थांशाद्भद्रः कार्यो विजानता ॥ १.४७.३५ ॥
स्पर्धागवाक्षकोपेतो निर्गवाक्षोऽथ वा भवेत्
सार्धभित्तिप्रमाणेन भितिमानेन वा पुनः ॥ १.४७.३६ ॥
भित्तेर्द्वैगुण्यतो वापि कर्तव्या मण्डपाः क्रचित्
प्रासादे मञ्चरी कार्या चित्रा विषमभूमिका ॥ १.४७.३७ ॥
परिमाणविरोधेन रेखावैषम्यभूषिता
आधारस्तु चतुर्धारश्चतुर्मण्डपशोभितः ॥ १.४७.३८ ॥
शतशृङ्गसमायुक्तो मेरुः प्रासाद उत्तमः
मण्डपास्तस्य कर्तव्या भद्रैस्त्रिभिरलङ्कृताः ॥ १.४७.३९ ॥
घचनाकारमानानां भिन्नाभिन्ना भवन्ति ते
कियन्तो येषु चाधारा निराधाराश्च केचन ॥ १.४७.४० ॥
प्रतिच्छन्दकभेदेन प्रासादाः सम्भवन्ति ते
अन्योन्यासंकरास्तेषां घटनानामभेदतः ॥ १.४७.४१ ॥
देवतानां विशेषाय प्रासादा बहवः स्मृताः
प्रासादे नियमो नास्ति देवतानां स्वयम्भुवाम् ॥ १.४७.४२ ॥
तानेव देवतानां च पूर्वमानेन कारयेत्
चतुरश्रायतास्तत्त्र चतुष्कोणसमन्विताः ॥ १.४७.४३ ॥
चन्द्रशालान्विता कार्या भेरीशिखरसंयुता
पुरतो वाहनानां च कर्तव्या लग्न(घु) मण्डपाः ॥ १.४७.४४ ॥
नाट्यशाला च कर्तव्या द्वारदेशसमाश्रया
प्रसादे देवतानां च कार्या दिक्षु विदिक्ष्वपि ॥ १.४७.४५ ॥
द्वारपालाश्च कर्तव्या मुख्या गत्वा पृथक्पृथक्
किञ्चिददूरतः कार्या मठास्तत्रोपजीविनाम् ॥ १.४७.४६ ॥
प्रावृता जगती कार्या फलपुष्पजलान्विता
प्रसादेषु सुरांस्थाप्य पूजाभिः पूजयेन्नरः
वासुदेवः सर्वदेवः सर्वभाक्तद्गृहादिकृत् ॥ १.४७.४७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशे आचारकाण्डे प्रासादलिङ्गमण्डपादिलक्षणनिरूपणंनाम सप्तचत्वारिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ४८
सूत उवाच [SUTA SAID]
प्रतिष्ठां सर्वदेवानां संक्षेपेण वदाम्यहम्
सुतिथ्यादौ सुरम्यां च प्रतिष्ठां कारयेद्गुरुः ॥ १.४८.१ ॥
ऋत्विग्भिः सह चाचार्यं वरयेन्मध्यदेशगम्
स्वशाखोक्तविधानेन अथ वा प्रणवेन तु ॥ १.४८.२ ॥
पञ्चभिर्बहुभिर्वाथ कुर्यात्पाद्यार्घ्यमेव च
मुद्रिकाभिस्तथा वस्त्रैर्गन्धमाल्यानुलेपनैः ॥ १.४८.३ ॥
मन्त्रन्यासं गुरुः कृत्वा ततः कर्म समारभेत्
प्रासादस्याग्रतः कुर्यान्मण्डपं दशहस्तकम् ॥ १.४८.४ ॥
कुर्याद्द्वादशहस्तं वा स्तम्भैः षोडशभिर्युतम्
ध्वजाष्टकैश्चतुर्हस्तां मध्ये वेदिं च कारयेत् ॥ १.४८.५ ॥
नदीसंगमतीरात्थां वालुकां तत्र दापयेत्
चतुरश्रं कार्मुकाभं वर्तुलं कमलाकृति ॥ १.४८.६ ॥
पूर्वादितः समारभ्य कर्तव्यं कुण्डपञ्चकम्
अथवा चतुरश्राणि सर्वाण्येतानि कारयेत् ॥ १.४८.७ ॥
शान्तिकर्मिधानेन सर्वकामार्थसिद्धये
शिरः स्थाने तु देवस्य आचार्यो होममाचरेत् ॥ १.४८.८ ॥
ऐशान्यां केचिदिच्छन्ति उपलिप्यावनिं शुभाम्
द्वाराणि चैव चत्वारि कृत्वा वै तोरणान्तिके ॥ १.४८.९ ॥
न्यग्रोधोदुम्बराश्वत्थबैल्वपालाशखादिराः
तोरणाः पञ्चहस्ताश्च वस्त्रपुष्पाद्यलङ्कृताः ॥ १.४८.१० ॥
निखनेद्धस्तमेककं चत्वारश्चतुरो दिशः
पूर्वद्वारे मृगेन्द्रं तु हयराजं तु दक्षिणे ॥ १.४८.११ ॥
पश्चिमे गोपतिर्नाम सुरशार्दूलमुत्तरे
अग्निमीलेति हि मन्त्रेण प्रथमं पूर्वतो न्यसेत् ॥ १.४८.१२ ॥
ईषेत्वेतिहि मन्त्रेण दक्षिणस्यां द्वितीयकम्
अग्नायाहिमन्त्रेण पश्चिमस्यां तृतीयकम् ॥ १.४८.१३ ॥
शन्नोदेवीति मन्त्रेण उत्तरस्यां चतुर्थकम्
पूर्वे अम्बुदवत्कार्या आग्नोय्यां धूमरूपिणी ॥ १.४८.१४ ॥
याम्यां वै कृष्णरूपा तु नैरृत्या श्यामला (धूसरा) भवेत्
वारुण्यां पाण्डुरा ज्ञेया वायव्यां पीतवर्णिका ॥ १.४८.१५ ॥
उत्तरे रक्तवर्णा तु शुक्लेशी च पताकिका
बहुरूपा तथा मध्ये इन्द्रविद्येति पूर्वके ॥ १.४८.१६ ॥
आग्निं संसुप्तिमन्त्रेण यमोनागेति दक्षिणे
पूज्या रक्षोहनोवेति पश्चिमे उत्तरेऽपि च ॥ १.४८.१७ ॥
वात इत्यभिषिच्याथ आप्यायस्वेति चोत्तरे
तमीशानमतश्चैव विष्णोर्नुकेति मध्यमे ॥ १.४८.१८ ॥
कलशौ तु ततो द्वौद्वौ निवेश्यौ तोरणान्तिके
वस्त्रयुग्मसमायुक्ताश्चन्दनाद्यैः स्वलङ्कृताः ॥ १.४८.१९ ॥
पुष्पैर्वितानैर्बहुलैरादिवर्णाभिमन्त्रिताः
दिक्पालाश्च ततः पूज्याः शास्त्रदृष्टेन कर्मणा ॥ १.४८.२० ॥
त्रातारमिन्द्रभन्त्रेण अग्निर्मूर्धेति चापरे
अस्मिन्वृक्ष इतं चैव प्रचारीति परा स्मृता ॥ १.४८.२१ ॥
किञ्चेदधातु आचत्वाभित्वादेति च सप्तमी
इमारुद्रेति दिक्यालान्पूजयित्वा विचक्षणः ॥ १.४८.२२ ॥
होमद्रव्याणि वायव्ये कुर्यात्सोपस्कराणि च
शङ्खाञ्छास्त्रोदिताञ्छ्वेतान्नेत्राभ्यां विन्यसेद्गुरुः ॥ १.४८.२३ ॥
आलोकनेन द्रव्याणि शुद्धिं यान्ति न संशयः
त्दृदयादीनि चाङ्गानि व्याहृतिप्रणवेन च ॥ १.४८.२४ ॥
अस्त्रं चैव समस्तानां न्यासोऽयं सर्वकामिकः
अक्षतान्विष्टरं चैव अस्त्रेणैवाभिमन्त्रितान् ॥ १.४८.२५ ॥
विष्टरेण स्पृशेद्दुव्यान्यागमण्डपसंभृतान्
अक्षतान्विकिरेत्पश्चादस्त्रपूतान्समन्ततः ॥ १.४८.२६ ॥
शक्रीं दिशमथारभ्य यावदीशानगोचरम्
अवकीर्याक्षतार्न्संवांल्लेपयेन्मण्डपं ततः ॥ १.४८.२७ ॥
गन्धाद्यैरर्घ्यपात्रे च मन्त्रग्रामं न्यसेद्गुरुः
तेनार्घ्यपात्रतोयेन प्रोक्षयेद्यागमण्डपम् ॥ १.४८.२८ ॥
प्रतिष्ठा यस्य देवस्य तदाख्यं कलशं न्यसेत्
ऐशान्यां पूजयेद्याम्ये अस्त्रेणैव च बर्धनीम् ॥ १.४८.२९ ॥
कलशं वर्धनीं चैव ग्रहान्वास्त्तोष्पतिं तथा
आसनेतानि सर्वाणि प्रणवाख्यं जपेद्गुरुः ॥ १.४८.३० ॥
सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मेन वेष्टितम्
सर्वौषधीगन्धलिप्तं पूजयेत्कलशं गुरुः ॥ १.४८.३१ ॥
देवस्तु कलशे पूज्यो वर्धन्या वस्त्रमुत्तमम्
वर्धन्या तु समायुक्तं कलशं भ्रामयेदनु ॥ १.४८.३२ ॥
वर्धनीधारया सिञ्चन्नग्रतो धारयेत्ततः
अभ्यर्च्य वर्धनीकुम्भं स्थण्डिले देवमर्चयेत् ॥ १.४८.३३ ॥
घटं चावाह्य वायव्यां गणानां त्वेति सद्गणम्
देवमीशानकोणे तु जपेद्वास्तोष्पतिं बुधः ॥ १.४८.३४ ॥
वास्तोष्पतीति मन्त्रेण वास्तुदोषोपशान्तये
कुम्भस्य पूर्वतो भूतं गणदेवं बलिं हरेत् ॥ १.४८.३५ ॥
पठेदिति च विद्याश्च कुर्यादालम्भनं बुधः
योगेयोगेति मन्त्रेणास्तरणं शाद्वलैः कुशैः ॥ १.४८.३६ ॥
ऋत्विग्भिः सार्धमाचार्यः स्नानपीठे गुरुस्तदा
विविधैर्ब्रह्मघोषैश्च पुण्याहजयमङ्गलैः ॥ १.४८.३७ ॥
कृत्वा ब्रह्मरथे देवं प्रतिष्ठन्ति ततो द्विजाः
ऐशान्यामानयेत्पीठमण्डपे विन्यसेद्गुरुः ॥ १.४८.३८ ॥
भद्रङ्कर्णेत्यथ स्नात्वा सूत्रवल्कलजेन तु
संस्नाप्य लक्षणोद्धारं कुर्यात्तूर्यादि (दूराभि) वादनैः ॥ १.४८.३९ ॥
मधुसर्पिः समायुक्तं कांस्ये वा ताम्रभाजने
अक्षिणी चाञ्जयेच्चास्य सुवर्णस्य शलाकया ॥ १.४८.४० ॥
अग्निर्ज्योतीति मन्त्रेण नेत्रोद्वाटं तु कारयेत्
लक्षणे क्रियमाणे तु नामैकं स्थापको व(द) देत् ॥ १.४८.४१ ॥
इमंमेगङ्गेमन्त्रेण नेत्रयोः शीतलक्रिया
अग्निर्मूर्धेति मन्त्रेण दद्याद्वल्मी कमृत्तिकाम् ॥ १.४८.४२ ॥
बिल्वोदुम्बरमश्वत्थं वटं पालाशमेव च
यज्ञायज्ञेति मन्त्रेण दद्यात्पञ्चकषायकम् ॥ १.४८.४३ ॥
पञ्चगव्यं स्नापयेच्च सहदेव्यादि भिस्ततः
सहदेवी बला चैव शतमूली शतावरी ॥ १.४८.४४ ॥
कुमारी च गुडूची च सिंही व्याघ्री तथैव च
या ओषधीति मन्त्रेण स्नानमोषधिमज्जलैः ॥ १.४८.४५ ॥
याः फलिनीति मन्त्रेण फलस्नानं विधीयते
द्रुपदादिवेति मन्त्रेण कार्यमुद्वर्तनं बुधैः ॥ १.४८.४६ ॥
कलशेषु च विन्यस्य उत्तरादिष्वनुक्रमात्
रत्नानि चैव धान्यानि ओषधीं शतपुष्पिकाम् ॥ १.४८.४७ ॥
समुद्रांश्चैव विन्यस्य चतुरश्चतुरो दिशः
क्षीरं दधि क्षीरोदस्य घृतोदस्येति वा पुनः ॥ १.४८.४८ ॥
आप्यायस्व दधिक्राव्णो या औषधीरितीति च
तेजोऽसीति च मन्त्रैश्च कुम्भं चैवाभिमन्त्रयेत् ॥ १.४८.४९ ॥
समुद्राख्यैश्चतुर्भिश्च स्नापयेत्कलशैः पुनः
स्नातश्चैव सुवेषश्च धूपो देयश्च गुग्गुलुः ॥ १.४८.५० ॥
अभिषेकाय कुम्भेषु तत्तत्तीर्थानि विन्यसेत्
पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा ॥ १.४८.५१ ॥
या ओषधीति मन्त्रेण कुम्भं चैवाभिमन्त्रयेत्
तेन तोयेन यः स्नायात्स मुच्येत्सर्वपातकैः ॥ १.४८.५२ ॥
अभिषिच्य समुद्रैश्च त्वर्घ्यं दद्यात्ततः पुनः
गन्धद्वारेति गन्धं च न्यासं वै वेदमन्त्रकैः ॥ १.४८.५३ ॥
स्वशास्त्रविहितैः प्राप्तैर्युवंवस्त्रेति वस्त्रकम्
कविहाविति मन्त्रेण आनयेन्मण्डपं शुभम् ॥ १.४८.५४ ॥
शम्भवायेति मन्त्रेण शय्यायां विनिवेशयेत्
विश्वतश्चक्षुर्मन्त्रेण कुर्यात्सकलनिष्कलम् ॥ १.४८.५५ ॥
स्थित्वा चैव परे तत्त्वे मन्त्रन्यासं तु कारयेत्
स्वशास्त्रविहितो मन्त्रो न्यासस्तस्मिंस्तथोदितः ॥ १.४८.५६ ॥
वस्त्रेणाच्छादयित्वा तु पूजनीयः स्वभावतः
यथाशास्त्रं निवेद्यानि पादमूले तु दापयेत् ॥ १.४८.५७ ॥
अथ प्रणवसंयुक्तं वस्त्रयुग्मेन वेष्टितम्
कलशं सहिरण्यं च शिरः स्थाने निवेदयेत् ॥ १.४८.५८ ॥
स्थित्वा कुण्डसमीपेऽथ अग्नेः स्थापनमाचरेत्
स्वशास्त्रविहितैर्मन्त्रैर्वेदोक्तैर्वाथ वा गुरुः ॥ १.४८.५९ ॥
श्रीसूक्तं पावमान्यं च वासदाम्यसवाजिनम्
वृषाकपिं च मित्रं बह्वचः पूर्वतो जपेत् ॥ १.४८.६० ॥
रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम्
ब्रह्माणं पितृमैत्रं च अध्वर्युर्दक्षिणे जपेत् ॥ १.४८.६१ ॥
वेदव्रतं वामदेव्यं ज्येष्ठसाम रथन्तरम्
भेरुण्डानि च सामानि छन्दोगः पश्चिमे जपेत् ॥ १.४८.६२ ॥
अथर्वशिरसं चैव कुम्भसूक्तमथर्वणः
नीलरुद्रांश्च मैत्रं च अथर्वश्चोत्तरे जपेत् ॥ १.४८.६३ ॥
कुण्डं चास्त्रेण संप्रोक्ष्य आचार्यस्तु विशेषतः
ताम्रपात्रे शरावे वा यथाविभवतोऽपि वा ॥ १.४८.६४ ॥
जातवेदसमानीय अग्रतस्तं निवेशयेत्
अस्त्रेण ज्वालयेद्वह्निं कवचेन तु वेष्टयेत् ॥ १.४८.६५ ॥
अमृतीकृत्य तं पश्चान्मन्त्रैः सर्वैश्च देशिकः
पात्रं गृह्य कराभ्यां च कुण्डं भ्राम्य ततः पुनः ॥ १.४८.६६ ॥
वैष्णवेन तु योगेन परं तेजस्तु निः क्षिपेत्
दक्षिणे स्थापयेद्ब्रह्म प्रणीताञ्चोत्तरेण तु ॥ १.४८.६७ ॥
साधारणेन मन्त्रेण स्वसूत्रविहितेन वा
दिक्षुदिक्षु ततो दद्यात्परिधिं विष्टरैः सह ॥ १.४८.६८ ॥
ब्रह्मविष्णुहरेशानाः पूज्याः साधारणेन तु
दर्भेषु स्थापयेद्वह्निं दर्भैश्च परिवेष्टितम् ॥ १.४८.६९ ॥
दर्भतोयेन संस्पृष्टो मन्त्रहीनोऽपि शुध्यति
प्रागग्रैरुदगग्रैश्च प्रत्यगग्रैरखण्डितैः ॥ १.४८.७० ॥
विततैर्वेष्टितो वह्निः स्वयं सान्निध्यमाव्रजेत्
अग्नेस्तु रक्षणार्थाय यदुक्तं कर्म न्त्रवित् ॥ १.४८.७१ ॥
आचार्याः केचिदिच्छन्ति जातकर्माद्यनन्तरम्
पवित्रं तु ततः कृत्वा कुर्यादाज्यस्य संस्कृतिम् ॥ १.४८.७२ ॥
आचार्योऽथ निरीक्ष्यापि नीराज्यमभिमन्त्रितम्
आज्यभागाभिघारान्तमवेक्षेताज्यसिद्धये ॥ १.४८.७३ ॥
पञ्चपञ्चाहुतीर्हुत्वा आज्येन तदनन्तरम्
गर्भाधानादितस्तावद्यावद्गौदानिकं भवेत् ॥ १.४८.७४ ॥
स्वशास्त्रविहितैर्मन्त्रैः प्रणवेनाथ होमयेत्
ततः पूर्णाहुतिं दत्त्वा पूर्णात्पूर्णमनारेथः ॥ १.४८.७५ ॥
एवमुत्पादितो वह्निः सर्वकर्मसु सिद्धिदः
पूजयित्वा ततो वह्निं कुण्डेषु विहरेत्तथा ॥ १.४८.७६ ॥
इन्द्रादीनां स्वमन्त्रैश्च तथाहुतिशतंशतम्
पुर्णाहुतिं शतस्यान्ते सर्वेषां चैव होमयेत् ॥ १.४८.७७ ॥
स्वामाहुतिमथाज्येषु होता तत्कलशे न्यसेत्
देवताश्चैव मन्त्रांश्च तथैव जातवेदसम् ॥ १.४८.७८ ॥
आत्मानमेकतः कृत्वा ततः पूर्णां प्रदापयेत्
निष्कृष्य बहिराचार्यो दिक्पालानां बलिं हरेत् ॥ १.४८.७९ ॥
भूतानां चैव देवानां नागानां च प्रयोगतः
तिलाश्च समिधश्चैव होमद्रव्यं द्वयं स्मृतम् ॥ १.४८.८० ॥
आज्यं तयोः सहकारि तत्प्रधानं यदङ्क(क्ष)योः
परुषसुक्तं पूर्वेणैव रुद्रचैव तु दक्षिणे ॥ १.४८.८१ ॥
ज्येष्ठसाम च भारुण्डं तन्नयामीति पश्चिमे
नीलरुद्रो महामन्त्रः कुम्भसूक्तमथर्वणः ॥ १.४८.८२ ॥
हुत्वा सहस्रमेकैकं देवं शिरसि कल्पयेत्
एवं मध्ये तथा पादे पूर्णाहुत्या तथा पुनः ॥ १.४८.८३ ॥
शिरः स्थानेषु जुहुयादाविशेच्चाप्यनुक्रमात्
वेदानामादिमन्त्रैर्वा मन्त्रैर्वा देवनामभिः ॥ १.४८.८४ ॥
स्वशास्त्रविहितैर्वापि गायत्त्र्या वाथ ते द्विजाः
गायत्त्र्या वाथवाचार्यो व्याहृतिप्रणवेन तु ॥ १.४८.८५ ॥
एवं होमविधिं कृत्वा न्यसेन्मन्त्रांस्तु देशिकः
चरणावग्निमीळे तु इषेत्वो गुल्फयोः स्थिताः ॥ १.४८.८६ ॥
अग्न आयाहि जङ्घे द्वे शन्नोदेवीति जानुनी
बृहद्रथन्तरे ऊरू उदरेष्वातिलो (स्वातिनो) न्यसेत् ॥ १.४८.८७ ॥
दीर्घायुष्ट्वाय हृदये श्रीश्चते गलके न्यसेत्
त्रातारमिन्द्रमुरसि नेत्राभ्यां तु त्रियम्बकम् ॥ १.४८.८८ ॥
मूर्धाभव तथा मूर्ध्नि आलग्नाद्धोममाचरेत्
उत्था पयेत्ततो देवमुत्तिष्ठब्रह्मणस्पते ! ॥ १.४८.८९ ॥
वेदपुण्याहशब्देन प्रासादानां प्रदक्षिणम्
पिण्डिकालंभनं कृत्वा देवस्यत्वेति मन्त्रवित् ॥ १.४८.९० ॥
दिक्पा लान्सह रत्नैश्च धातूनोषधयस्तथा
लौहबीजानि सिद्धानि पश्चाद्देवं तु विन्यसेत् ॥ १.४८.९१ ॥
न गर्भे स्थापयेद्देवं न गर्भं तु परित्यजेत्
ईषन्मध्यं परित्यज्य ततो दोषापहं तु तत् ॥ १.४८.९२ ॥
तिलस्य तुषमात्रं तु उत्तरं किञ्चिदानयेत्
ओं स्थिरो भव शिवो भव प्रजाभ्यश्च नमोनमः ॥ १.४८.९३ ॥
देवस्य त्वा सवितुर्वः षड्भ्यो वै विन्यसेद्गुरुः
तत्त्ववर्णकलामात्रं प्रजानि भुवनात्मजे ॥ १.४८.९४ ॥
षड्भ्यो विन्यस्य सिद्धार्थं ध्रुवार्थैरभिमन्त्रयेत्
सम्पातकलशेनैव स्नापयेत्सुप्रतिष्ठितम् ॥ १.४८.९५ ॥
दीपधूपसुगन्धैश्च नैवेद्यैश्च प्रपूजयेत्
अर्घ्यं दत्त्वा नमस्कृत्य ततो देवं क्षमापयेत् ॥ १.४८.९६ ॥
पात्रं वस्त्रयुगं छत्रं तथा दिव्याङ्गुलीयकम्
ऋत्त्विग्भ्यश्च प्रदातव्या दक्षिणा चैव शक्तितः ॥ १.४८.९७ ॥
चतुर्थौ जुहुयात्पश्चाद्यजमानः समाहितः
आहुतीनां शतं हुत्वा ततः पूर्णां प्रदापयेत् ॥ १.४८.९८ ॥
निष्क्रम्य बहिराचार्यो दिक्पालानां बलिं हरेत्
आचार्यः पुष्पहस्तस्तु क्षमस्वेति विसर्जयेत् ॥ १.४८.९९ ॥
यागान्ते कपिलां दद्यादाचार्याय च चामरम्
मुकुटं कुण्डलं छत्रं केयूरं कटिसूत्रकम् ॥ १.४८.१०० ॥
व्यजनं ग्रामवस्त्रादीन्सोपस्कारं सुमण्डपम्
भोजनं च महात्कुर्यात्कृतकृत्यश्च जायते
यजमानो विमुक्तः स्यात्स्थापकस्य प्रसादतः ॥ १.४८.१०१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे देवप्रतिष्ठादिनिरूपणं नामाष्टचत्वारिंशोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ४९
इति प्रतिष्ठाप्रकरणं समाप्तम्
ब्रह्मोवाच
सर्गादिकृद्धरिश्चैव पूज्यः स्वायम्भुवादिभिः
विप्राद्यैः स्वेन धर्मेण तद्धर्मं व्यास ! वै शृणु ॥ १.४९.१ ॥
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः
अध्यापनं चाध्ययनं षट्कर्माणिद्विजोत्तमे ॥ १.४९.२ ॥
दानमध्ययनं यज्ञो धर्मः क्षत्त्रियवैश्ययोः
दण्डस्तस्य कृषिर्वैश्यस्य शस्यते ॥ १.४९.३ ॥
शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम्
कारुकर्म तथाऽजीवो पाकयज्ञोऽपि धर्मतः ॥ १.४९.४ ॥
भिक्षाचर्याथ शुश्रूषा गुरोः स्वाध्याय एव च
सन्ध्याकर्माग्निकार्यञ्च धर्मोऽयं ब्रह्मचारिणः ॥ १.४९.५ ॥
सर्वेषामाश्रमाणां च द्वैविध्यं तु चतुर्विधम्
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥ १.४९.६ ॥
योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत्
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ १.४९.७ ॥
अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम्
गृहस्थस्य समासेन धर्मोऽयं द्विजसत्तम ! ॥ १.४९.८ ॥
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत्
कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ॥ १.४९.९ ॥
ऋणानि त्रीण्यपाकृत्य त्यक्त्वा भार्याधनादिकम्
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥ १.४९.१० ॥
भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च
संविभागो यथान्यायं धर्मोऽयं वनवासिनः ॥ १.४९.११ ॥
तपस्तप्यति योऽरण्ये यजेद्देवाञ्जुहोति च
स्वाध्याये चैव निरतो वनस्थस्तापसोत्तमः ॥ १.४९.१२ ॥
तपसा कर्शितोऽत्यर्थं यस्तु ध्यानपरो भवेत्
सन्यासी स हि विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ १.४९.१३ ॥
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः
ज्ञानाय वर्तते भुक्षुः प्रोच्यते पारमेष्ठिकः ॥ १.४९.१४ ॥
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः
सम्यक्च दमसम्पन्नः स योगी भिक्षुरुच्यते ॥ १.४९.१५ ॥
भैक्ष्यं श्रुतं च मौनित्वं तपो ध्यानं विशेषतः
सम्यक्च ज्ञानवैराग्यं धर्मोऽयं भिक्षुके मतः ॥ १.४९.१६ ॥
ज्ञानसन्यासिनः केचिद्वेदसन्यासिनोऽपरे
कर्मसन्यासिनः केचित्त्रिविधः पारमेष्ठिकः ॥ १.४९.१७ ॥
योगी च त्रिविधो ज्ञेयो भौतिकः क्षत्त्र एवच
तृतीयोऽन्त्याश्रमी प्रोक्तो योगमूर्तिंसमास्थितः ॥ १.४९.१८ ॥
प्रथमा भावना पूर्वे मोक्षे त्वक्ष(दुष्क) रभावना
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ १.४९.१९ ॥
धर्मात्संजायते मोक्षो ह्यर्थात्कामोऽभिजायते
प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम् ॥ १.४९.२० ॥
ज्ञानं पूर्वं निवृत्तं स्यात्प्रवृत्तं चाग्निदेवकृत्
क्षमा दमो दया दानमलोभा (भो) भ्यास एव च ॥ १.४९.२१ ॥
आर्जवं चान्सूया च तीर्थानुसरणं तथा
सत्यं संतोष आस्तिक्यं तथा चेन्द्रियनिग्रहः ॥ १.४९.२२ ॥
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः
अहिंसा प्रियवादित्वमपैशुन्यमरूक्षता ॥ १.४९.२३ ॥
एते आश्रमिका धर्माश्चतुर्वर्ण्यं बवीम्यतः
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ॥ १.४९.२४ ॥
स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम्
वैश्यानां मारुतं स्थानं स्वधरममनुवर्तताम् ॥ १.४९.२५ ॥
गान्धर्वं शूद्रजातीनां परिचारे च वर्तताम्
अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ॥ १.४९.२६ ॥
स्मृतं तेषां तु यत्स्थानं तदेव वन (गुरु) वासिनाम्
सप्तर्षीणां तु यत्स्थानं स्थानं तद्वै वनौकसाम् ॥ १.४९.२७ ॥
यतीनां यतचित्तानां न्यासिनामूर्ध्वरेतसाम्
आनन्दं ब्रह्म तत्स्थानं यस्मान्नावर्तते मुनिः ॥ १.४९.२८ ॥
योगिनाममृतस्थानं व्योमाख्यं परमाक्षरम्
आनन्दमैश्वरं यस्मान्मुक्तो नावर्तते नरः ॥ १.४९.२९ ॥
मुक्तिरष्टाङ्गविज्ञानात्संक्षेपात्तद्वदे शृणु
यमाः पञ्च त्वहिंसाद्या अहिंसा प्राण्यहिंसनम् ॥ १.४९.३० ॥
सत्यं भूतहितं वाक्यमस्तेयं स्वाग्रहं परम्
अमैथुनं ब्रह्मचर्यं सर्वत्यागोऽपरिग्रहः ॥ १.४९.३१ ॥
नियमाः पञ्च सत्याद्या बाह्ममाभ्यन्तरं द्विधा
शौचं तुष्टिश्च सन्तोषस्तपश्चोन्द्रियनिग्रहः ॥ १.४९.३२ ॥
स्वाध्यायः स्यान्मन्त्रजापः प्रणिधानं हरेर्यजिः
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥ १.४९.३३ ॥
मन्त्रध्यान तो गर्भो विपरीतो ह्यगर्भकः
एवं द्विधा त्रिधाप्युक्तं पुरणात्पूरकः स च ॥ १.४९.३४ ॥
कुम्भको निश्चलत्वाच्च रेचनाद्रेचकस्त्रिधा
लघुर्द्वादशमात्रः स्याच्चतुर्विंशतिकः परः ॥ १.४९.३५ ॥
षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम्
ब्रह्मात्मचिन्ता ध्यानं स्याद्धारणा मनसो धृतिः ॥ १.४९.३६ ॥
अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः
अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् ॥ १.४९.३७ ॥
ब्रह्म विज्ञानमानन्दः स तत्त्वमसि केवलम्
अहं ब्रह्मास्म्यहं ब्रह्म अशरीरमानिन्द्रियम् ॥ १.४९.३८ ॥
अहंमनोबुद्धिमहदहङ्कारादिवर्जितम्
जाग्रत्स्वप्नसुषुप्त्यादियुक्तज्योतिस्तदीयकम् ॥ १.४९.३९ ॥
नित्यं शुद्धं बुद्धमुक्तं सत्यमानन्दमद्वयम्
योऽसावादित्यपुरुषः सोऽसावहमखण्डितम्
इति ध्यायन्विमुच्येत्ब्राह्मणो भवबन्धनात् ॥ १.४९.४० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वर्णाश्रमधर्मनिरूपणं नामैकोनपञ्चाशत्तमोध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ५०
ब्रह्मोवाच
अहन्यहनि यः कुर्यात्क्रियां स ज्ञानमाप्नुयात्
ब्राह्मे मुहूर्ते चोत्थाय धर्ममर्थं च चिन्तयेत् ॥ १.५०.१ ॥
चिन्तयेद्धृदि पद्मस्थमानन्दमजरं हरिम्
उषः काले तु संप्राप्ते कृत्वा चावश्यकं बुधः ॥ १.५०.२ ॥
स्त्रायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि
प्रतः स्नानेन पूयन्ते येऽपि पापकृतो जनाः ॥ १.५०.३ ॥
तस्मात्सर्वप्रयत्नेन प्रातः स्नानं समाचरेत्
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टष्टकरं हि तत् ॥ १.५०.४ ॥
सुखात्सुप्तस्य सततं लालाद्याः संस्त्रवन्ति हि
अतो नैवाचरेत्कर्माण्यकृत्वा स्नानमादितः ॥ १.५०.५ ॥
अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम्
प्रतः स्नानेन पापानि धूयन्ते नात्र संशयः ॥ १.५०.६ ॥
न च स्नानं विना पुंसां प्राशस्त्यं कर्म संस्मृतम्
होमे जप्ये विशेषेण तस्मात्स्नानं समाचरेत् ॥ १.५०.७ ॥
अशक्तावशिरस्कं तु स्नानमस्य विधीयते
आर्द्रेण वाससा वापि मार्जनं कायिकं स्मृतम् ॥ १.५०.८ ॥
ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च
वारुणं यौगिकं तद्वत्षडङ्गं स्नानमाचरेत् ॥ १.५०.९ ॥
ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः
आग्रेयं भस्मनाऽपादमस्तकाद्देहधूननम् ॥ १.५०.१० ॥
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम्
यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ॥ १.५०.११ ॥
वारुणं चावगाहं च मानर्स त्वात्मवेदनम्
यौगिकं स्नानमाख्यातं योगेन हरिचिन्तनम् ॥ १.५०.१२ ॥
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः
क्षीरवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ॥ १.५०.१३ ॥
अपामार्गं च विल्वं च करवीरं च धावने
उदङ्मुखः प्राङ्मुखो वा भक्षयेद्दन्तधावनम् ॥ १.५०.१४ ॥
प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः
स्नात्वा सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा ॥ १.५०.१५ ॥
आचम्य विधिवन्नित्यं पुनराचम्य वाग्यतः
संमार्ज्य मन्त्रै रात्मानं कुशैः सोदकबिन्दुभैः ॥ १.५०.१६ ॥
आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः शुभैः
ओङ्कारव्याहृतियुतां गायत्त्रीं वेदमातरम् ॥ १.५०.१७ ॥
जप्त्वा जलाञ्जलिं दद्याद्भारस्करं प्रति तन्मनाः
प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ॥ १.५०.१८ ॥
प्राणायामं ततः कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः
या सन्ध्या सा जगत्सूतिर्मायातीता हि निष्कला ॥ १.५०.१९ ॥
ऐश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा
ध्यात्वा रक्तां सितां कृष्णां गायत्त्रीं वै जपेद्वुधः ॥ १.५०.२० ॥
प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत्
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ॥ १.५०.२१ ॥
यदन्यत्कुरुते किञ्चिन्न तस्य फलभाग्भवेत्
अनन्यचेतसः सन्तो ब्राह्मणा वेदपारगाः ॥ १.५०.२२ ॥
उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वपरां गतिम्
योऽन्यत्र कुरुते यत्नं धर्म कार्ये द्विजोत्तमः ॥ १.५०.२३ ॥
विहाय सन्ध्याप्रणतिं स याति नरकायुतम्
तस्मात्सर्वप्रयत्नेन सन्ध्योपासनमाचरेत् ॥ १.५०.२४ ॥
उपासितो भवेत्तेन देवो योगतनुः परः
सहस्रपरमां नित्यां शतमध्यां दशावराम् ॥ १.५०.२५ ॥
गायत्त्रीं वै जपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः
अथोपतिष्ठेदादित्यमुदयस्थं समाहितः ॥ १.५०.२६ ॥
मन्त्रैस्तु विविधैः सौरैः ऋग्यजुःसामसंज्ञितैः
उपस्थाय महायोगं देवदेवं दिवाकरम् ॥ १.५०.२७ ॥
कुर्वीत प्रणतिं भूमौ मूर्धानमभिमन्त्रितः
ओं खखोल्काय शान्ताय कारणत्रयहेतवे ॥ १.५०.२८ ॥
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ॥ १.५०.२९ ॥
भूर्भुवः स्वस्त्वमोङ्कारः सर्वो रुद्रः सनातनः
एतद्वै सूर्यहृदयं जप्त्वा स्तवनमुत्तमम् ॥ १.५०.३० ॥
प्रातः काले च मध्याह्ने नमस्कुर्याद्दिवाकरम्
अथागम्य गृहं विप्रः (पश्चात्) समाचम्य यथाविधि ॥ १.५०.३१ ॥
प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जातवेदसम्
ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वापि सहोदरः ॥ १.५०.३२ ॥
प्राप्यानुज्ञां विशेषेण जुहुयाद्वा यथाविधि
विना म (त) न्त्रेण यत्कर्म नामुत्रेह फलप्रदम् ॥ १.५०.३३ ॥
दैवतानि नमस्कुर्यादुपहारान्निवेदयेत्
गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ॥ १.५०.३४ ॥
वेदाभ्यासं ततः कुर्यात्प्रयत्नाच्छक्तितो द्विजः
जपेद्वाध्यापयेच्छिष्यान्धारयेद्वै विचारयेत् ॥ १.५०.३५ ॥
अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः
वैदिकांश्चैव निगमान्वेदाङ्गानि च सर्वशः ॥ १.५०.३६ ॥
उपयादीश्वरं चैव योगक्षेमप्रासिद्धये
साधयेद्विविधानर्थान्कुटुम्बार्थं ततो द्विजः ॥ १.५०.३७ ॥
ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत्
पुष्पाक्षतांस्तिलकुशान् गोमयं शुद्धमेव च ॥ १.५०.३८ ॥
नदीषु देवखातेषु तडागेषु सरः सु च
स्नानं समाचरेन्नैव परकीये कदाचन ॥ १.५०.३९ ॥
पञ्च पिण्डाननुद्धृत्य स्नानं दुष्यन्ति नित्यशः
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ॥ १.५०.४० ॥
अधश्च तिसृभिः क्षाल्यं पादौ षट्भिस्तथैव च
मृत्तिका च समुद्दिष्टा वृद्धामलकमात्निका ॥ १.५०.४१ ॥
गोमयस्य प्रमाणं तु तेनाङ्गं लेपयेत्ततः
प्रक्षाल्याचम्य विधिवत्ततः स्नायात्समाहितः ॥ १.५०.४२ ॥
लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः
अभिमन्त्र्य जलं मन्त्रैरालिङ्गैर्वारुणैः शुभैः ॥ १.५०.४३ ॥
त्नानकाले स्मरेद्विष्णमापो नारायणो यतः
प्रेक्ष्य ओङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ॥ १.५०.४४ ॥
आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित्
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ॥ १.५०.४५ ॥
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम्
द्रुपदां वा त्रिरभ्यस्येव्द्याहृतिप्रणवान्विताम् ॥ १.५०.४६ ॥
सावित्रीं वा जपे द्विद्वांस्तथा चैवाघमर्षणम्
ततः संमार्जनं कुर्यादापोहिष्ठामयोभुवः ॥ १.५०.४७ ॥
इदमापः प्रवहतव्याहृतिभिस्तथैव च
ततोऽभिमन्त्रितं तोपमापो हिष्ठादिमन्त्रकैः ॥ १.५०.४८ ॥
अन्तर्जलमवाङ्मग्नो जपेत्त्रिरघमर्षणम्
द्रुपदां वाथ सावित्ररिं तद्विष्णोः परमं पदम् ॥ १.५०.४९ ॥
आवर्तयेद्वा प्रणवं देवदेवं रमरेद्धरिम्
अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ॥ १.५०.५० ॥
विन्यस्य मूर्ध्नि तत्तोयं मुच्यते सर्वपातकैः
सन्ध्यामुपास्य चाचम्य संस्मरेन्नित्यमीश्वरम् ॥ १.५०.५१ ॥
अथोपतिष्ठेदादित्यमूर्ध्वपुष्पान्विताञ्जलिम्
प्रक्षिप्यालोकयेद्देवमुदयन्तं न शक्यते ॥ १.५०.५२ ॥
उदुत्यं चित्रमित्येवं तच्चक्षुरिति मन्त्रतः
हंसः शुचिषदेतेन सावित्र्या च विशेषतः ॥ १.५०.५३ ॥
अन्यैः सौरैर्वैदिकैश्च गायत्त्रीं च ततो जपेत्
मन्त्रांश्च विविधान्पश्चात्प्राक्कूले च कशासने ॥ १.५०.५४ ॥
तिष्ठंश्च वीक्ष्यमाणोर्ऽकं जपं कुर्यात्समाहितः
स्फटिकाब्जाक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ॥ १.५०.५५ ॥
कर्तव्या त्वक्षाला स्यादन्तरा तत्र सा स्मृता
यदि स्यात्क्लिन्नवासा वै वारिमध्यगतश्चरेत् ॥ १.५०.५६ ॥
अन्यथा च शुचौ भूम्यां दर्भेषु च समाहितः
प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ॥ १.५०.५७ ॥
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत्
ततः सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा ॥ १.५०.५८ ॥
आदावोङ्कारमुच्चार्य नमोऽन्ते तर्पयामि च
देवान्ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ॥ १.५०.५९ ॥
पितॄन्देवान्मुनीन् भक्त्या स्वसूत्रोक्तविधानतः ॥ १.५०.६० ॥
देवर्षोंस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄत्
यज्ञोपवीती देवानां निवीती ऋषितर्पणे ॥ १.५०.६१ ॥
प्राचीनावीती पित्र्ये तु तेन तीर्थेन भारत
निष्पीड्य स्नानवस्त्रं वै समाचम्य च वाग्यतः ॥ १.५०.६२ ॥
स्वैर्मन्त्रैरर्चयेद्देवान्पुष्पैः पत्रैस्तथाम्बुभिः
ब्रह्माणं शङ्करं सूर्यं तथैव मधुसूदनम् ॥ १.५०.६३ ॥
अन्यांश्चाभिमतान्देवान् भक्त्या चाक्रोधनो हर !
प्रदद्याद्वाथ पुष्पादि सूक्तेन पुरुषेण तु ॥ १.५०.६४ ॥
आपो वा देवताः सर्वास्तेन सम्यक्समर्चिताः
ध्यात्वा प्रणवपूर्वं वै देवं वारिसमाहितः ॥ १.५०.६५ ॥
नमस्कारेण पुषापाणि विन्यसेद्वै पृथक्पृथक्
नर्ते ह्याराधनात्पुण्यं विद्यते कर्म वैदिकम् ॥ १.५०.६६ ॥
तस्मात्तत्रादिमध्यान्ते चेतसा धारयेद्धरिम्
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ॥ १.५०.६७ ॥
निवेदयेच्च आत्मानं विष्णवेऽमलतेजसे
तदाध्यात्ममनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥ १.५०.६८ ॥
अप्रेते सशिरा वेतियजेत्वा पुष्पके हरिम्
देवयज्ञं पितृयज्ञं तथैव च
मानुषं ब्रह्मयज्ञं च पञ्च यज्ञान्समाचरेत् ॥ १.५०.६९ ॥
यदि स्यात्तर्पणादर्वाग्ब्रयज्ञं कुतो भवेत्
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥ १.५०.७० ॥
वैश्वदेवस्तु कर्तव्यो देवयज्ञः स तु स्मृतः
भूतयज्ञःृ स वै ज्ञेयो भूतेभ्यो यस्त्वयं बलिः ॥ १.५०.७१ ॥
श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च
दद्याद्भूमौ बहिस्त्वन्नं पक्षिभ्यश्च द्विजोत्तमः ॥ १.५०.७२ ॥
एकं तु भोजयेद्विप्रं पितॄनुद्दिश्य सत्तमाः
नित्यश्राद्धं तदुद्दिश्य पितृयज्ञो गतिप्रदः ॥ १.५०.७३ ॥
उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥ १.५०.७४ ॥
पूजयेदतिथिं नित्यं नमस्येदर्चयोद्द्विजम्
मनोवाक्कर्मभिः शान्तं स्वागतैः स्वगृहं ततः ॥ १.५०.७५ ॥
भिक्षामाहुर्ग्रासमात्रमन्नं तत्स्याच्चतुर्गुणम्
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ॥ १.५०.७६ ॥
गोदोहमात्रकालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम्
अभ्यागतान्यथाशक्ति पूजयेदतिथिं तथा ॥ १.५०.७७ ॥
भिक्षां वै भिक्षवे दद्याद्विधिवद्ब्रह्यचारिणे
दद्यादन्नं यथाशक्ति अर्थिभ्यो लोभवर्जितः ॥ १.५०.७८ ॥
भुञ्जति बन्धुभिः सार्धं वाग्यतोऽन्नमकुत्सयन्
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमः ॥ १.५०.७९ ॥
भुञ्जते चेत्स मूढात्मा तिर्यग्योनिं च गच्छति
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः ॥ १.५०.८० ॥
नाशयन्त्याशु पापानि देवानामर्चनं तथा
यो मोहादथ वालस्यादकृत्वा देवतार्चनम् ॥ १.५०.८१ ॥
भुङ्क्ते स याति नरकान्त्सूंकरेष्वेव जायते
अशौचं संप्रवक्ष्यामि अशुचिः पातकी सदा ॥ १.५०.८२ ॥
अशौचं चैव संसर्गाच्छुद्धिः संसर्गवर्जनात्
दशाहं प्राहुराशौचं सर्वेविप्रा विपश्चितः ॥ १.५०.८३ ॥
मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तम
आदन्तजननात्सद्य आचूडादेकरात्रकम् ॥ १.५०.८४ ॥
त्रिरात्रमौपनयनाद्दशरात्रमतः परम्
क्षत्त्रियो द्वादशहेन दशभिः पञ्चभिर्विशः ॥ १.५०.८५ ॥
शुध्येन्मासेन वै शूद्रो यतीनां नास्ति पातकम्
रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावेषु शौचकम् ॥ १.५०.८६ ॥

इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नित्यकर्माशौचयोर्निरूपणं नाम पञ्चाशत्तमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ५१
ब्रह्मोवाच
अथातः संप्रवक्ष्यामि दानधर्ममनुत्तमम्
अर्थानामुचिते पात्रे श्रद्धया प्रतिपादनम् ॥ १.५१.१ ॥
दानं तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम्
न्यायेनोपार्जयेद्वित्तं दानभोगफलं च तत् ॥ १.५१.२ ॥
अध्यापनं याजनं च वृत्तमाहुः प्रतिग्रहम्
कुसीदं कृषिवाणिज्यं क्षत्त्रवृत्तोऽथ वर्जयेत् ॥ १.५१.३ ॥
यद्दीयते तु पात्रेभ्यस्तद्दानं परिकीर्तितम्
नित्यं नैमित्तिकं काम्यं विमलं दानमीरितम् ॥ १.५१.४ ॥
अहन्यहनि यत्किञ्चिद्दीयतेऽनुपकारिणे
अनुद्दिश्य फलं तस्माद्ब्राह्मणाय तु नित्यशः ॥ १.५१.५ ॥
यत्तु पापोपशान्त्यै च दीयते विदुपां करे
नैमित्तिकं तदुद्दिष्टन्दानं सद्भिरनुष्ठितम् ॥ १.५१.६ ॥
अपत्यविजयैश्वर्यस्वर्गार्थं यत्प्रदीयते
दानं तत्काम्यमाख्यातमृषिभिर्धर्माचिन्तकैः ॥ १.५१.७ ॥
ईश्वरप्रीणनार्थाय ब्रह्मावित्सुप्रदीयते
चेतसा सत्त्वयुक्तेन दानं तद्विमलं शिवम् ॥ १.५१.८ ॥
इक्षुभिः सन्ततां भुमिं यवगोधूमशालिनीम्
ददाति वेदविदुषे स न भूयोऽभिजायते ॥ १.५१.९ ॥
भूमिदानात्परं दानं न भूतं न भविष्यति
विद्यां दत्त्वा ब्राह्मणाय ब्रह्मलोके महीयते ॥ १.५१.१० ॥
दद्यादहरहस्तास्तु श्रद्धया ब्रह्मचारिणे
सर्वपापविनिर्मुक्तो ब्रह्मस्थानमवाप्नुयात् ॥ १.५१.११ ॥
वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्सप्त पञ्च च
उपोष्याभ्यर्चयेद्विद्वान्मधुना तिलसर्पिषा ॥ १.५१.१२ ॥
गन्धादिभिः समभ्यर्च्य वाचयेद्वा स्वयं वदेत्
प्रीयतां धर्मराजेति यथा मनसि वर्तते ॥ १.५१.१३ ॥
यावज्जीवं कृतं पापं तत्क्षणादेव नश्यति
कृष्णाजिने तिलान्कृत्वा हिरण्यमधुसर्पिषा ॥ १.५१.१४ ॥
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम्
घृतान्नमुदकं चैव वैशाख्यां च विशेषतः ॥ १.५१.१५ ॥
निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात्
द्वादश्यामर्चयेद्विष्णुमुपोष्याघप्रणाशनम् ॥ १.५१.१६ ॥
सर्वपापविनिर्मुक्तो नरो भवति निश्चितम्
यो हि यां देवतामिच्छेत्समाराधयितुं नरः ॥ १.५१.१७ ॥
ब्राह्मणान्पूजयेद्दत्नाद्भोजयेद्योषितः सुरान्
सन्तानकामः सततं पूजयेद्वै पुरन्दरम् ॥ १.५१.१८ ॥
ब्रह्मवर्चसकामस्तु ब्राह्मणान्ब्रह्मनिश्चयात्
आरोग्यकामोऽथ रविं धनकामो हुताशनम् ॥ १.५१.१९ ॥
कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम्
भोगकामो हि शशिनं बलकामः समीरणम् ॥ १.५१.२० ॥
मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम्
अकामः सर्वकामो वा पूजयेत्तु गदाधरम् ॥ १.५१.२१ ॥
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ १.५१.२२ ॥
भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ १.५१.२३ ॥
वासोदश्चान्द्रसालोक्यमश्विसालोक्यमश्वदः
अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ १.५१.२४ ॥
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः
धान्यदः शावतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ॥ १.५१.२५ ॥
वेदवित्सु ददज्ज्ञानं स्वर्गलोके महीयते
गवां घासप्रदानेन सर्वपापैः प्रमुच्यते ॥ १.५१.२६ ॥
इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः
औषधं स्नेहमाहारं रोगिरोगप्रशान्तये ॥ १.५१.२७ ॥
ददानो रोगरहितः सुखी दीर्घायुरेव च
असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ॥ १.५१.२८ ॥
तीक्ष्णा तपं च तरतिच्छत्रोपानत्प्रदो नरः
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे ॥ १.५१.२९ ॥
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता
अयेन विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ॥ १.५१.३० ॥
संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम्
प्रयागादिषु तीर्थेषु गयायां च विशेषतः ॥ १.५१.३१ ॥
दानधर्मात्परो धर्मो भूतानां नहे विद्यते
स्वर्गायुर्भूतिकामेन दानं पापोपशान्तये ॥ १.५१.३२ ॥
दीयमानं तु यो मोहाद्गोविप्राग्निसुरेषु च
निवारयति पापात्मा तिर्यग्योनिं व्रजेन्नरः ॥ १.५१.३३ ॥
यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति
म्रियमाणेषु विप्रेषु ब्रह्महा स तु गर्हितः ॥ १.५१.३४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दानधर्मनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ५२
ब्रह्मोवाच
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं द्विजाः
ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः ॥ १.५२.१ ॥
पञ्च पातकिनस्त्वेते तत्संयोगी च पञ्चमः
उपपापानि गोहत्याप्रभृतीनि सुरा जगुः ॥ १.५२.२ ॥
ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत्
कुर्यादनशनं वाथ भृगोः पतनमेव च ॥ १.५२.३ ॥
ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत्स्वयम्
ब्राह्मणार्थे गवार्थे वा सम्यक्प्राणान्परित्यजेत् ॥ १.५२.४ ॥
दत्त्वा चान्नं च विदुषे ब्रह्महत्यां व्यपोहति
अश्वमेधावभृथके स्नात्वा वा मुच्यते द्विजः ॥ १.५२.५ ॥
सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदापयेत्
सरस्वत्यास्तरङ्गिण्याः सङ्गमे लोकविश्रुते ॥ १.५२.६ ॥
शुद्धे त्रिषवणस्नातस्त्रिरात्रोपोषितो द्विजः
सेतुबन्धे नरः स्नात्वा मुच्यते ब्रह्महत्यया ॥ १.५२.७ ॥
कपालमोचने स्नात्वा वाराणस्यां तथैव च
सुरापस्तु सुरां पीत्वा अग्निवर्णां द्विजोत्तमः ॥ १.५२.८ ॥
पयो घृतं वा गोमूत्रं तस्मात्पापात्प्रमुच्यते
सुवर्णस्तेयी मुक्तः स्यान्मुसलेन हतो नृपैः ॥ १.५२.९ ॥
चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणव्रतम्
गुरुभार्यां समारुह्य ब्राह्मणः काममोहितः ॥ १.५२.१० ॥
अवगूहेत्स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम्
गुर्वङ्गनागामिनश्च चरेयुर्बह्महव्रतम् ॥ १.५२.११ ॥
चान्द्रायणानि वा कुर्यात्पञ्च चत्वारि वा पुनः
पतितेन च संसर्गं कुरुते यस्तु वै द्विजः ॥ १.५२.१२ ॥
स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत्
तप्तकृच्छ्रं चरेद्वाथ संवत्सरमतन्द्रितः ॥ १.५२.१३ ॥
सर्वस्वदानं विधिवत्सर्वपापविशोधनम्
चान्द्रायणं च विधिना कृतं चैवातिकृच्छ्रकम् ॥ १.५२.१४ ॥
पुण्यक्षेत्रे गयादौ च गमनं पापनाशनम्
अमावस्यां तिथिं प्राप्य यः समाराधयेद्भवम् ॥ १.५२.१५ ॥
ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते
उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः ॥ १.५२.१६ ॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ १.५२.१७ ॥
प्रत्येकं तिलसंयुक्तान्दद्यात्सप्त जलाञ्जलीन्
स्नात्वा नद्यां तु पूर्वाह्ने मुच्यते सर्वपातकैः ॥ १.५२.१८ ॥
ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम्
व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः ॥ १.५२.१९ ॥
पष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः
सप्तम्यामर्चयेद्भानुं मुच्यते सर्वपातकैः ॥ १.५२.२० ॥
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम्
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ॥ १.५२.२१ ॥
तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम्
ग्रहणादिषु कालेषु महापातकनाशनम् ॥ १.५२.२२ ॥
यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः
नियमेन त्यजेत्प्राणान्मुच्यते सर्वपातकैः ॥ १.५२.२३ ॥
ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम्
भर्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ॥ १.५२.२४ ॥
पतिव्रता तु या नारी भर्तुः शुश्रूषणोत्सुका
न तस्या विद्यते पापमिह लोके परत्र च ॥ १.५२.२५ ॥
तथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ १.५२.२६ ॥
फल्गुतीर्थादिषु स्नातः सर्वाचारफलं लभेत्
इत्याह भगवान्विष्णुः पुरा मम यतव्रताः ॥ १.५२.२७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रायश्चित्तनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ५३
सूत उवाच [SUTA SAID]
एवं ब्रह्माब्रवीच्छ्रुत्वा हरेरष्टनिधींस्तथा
तत्र पद्ममहापद्मौ तथा मकरकच्छपौ ॥ १.५३.१ ॥
मुकुन्दकु(न) न्दौ नीलश्च शङ्खश्चैवापरो निधिः
सत्यामृद्धौ भवन्त्येते स्वरूपं कथयाम्यहम् ॥ १.५३.२ ॥
पद्मेन लक्षितश्चैव सात्त्विको जायते नरः
दाक्षिण्यसारः पुरुषः सुवर्णादिकसंग्रहम् ॥ १.५३.३ ॥
रुप्यादि कुर्याद्दद्यात्तु यतिदैवादियज्वनाम्
महापद्माङ्कितो दद्याद्धनाद्यं धार्मिकाय च ॥ १.५३.४ ॥
नीधी पद्ममहापद्मौ सात्त्विकौ पुरुषौ स्मृती
मकरेणाङ्कितः खड्गबाणकुन्तादिसंग्रही ॥ १.५३.५ ॥
दद्याच्छ्रुताय मैत्रीं च याति नित्यं च राजभिः
द्रव्यार्थं शत्रुणा नाशं संग्रामे चापि संव्रजेत् ॥ १.५३.६ ॥
मकरः कच्छपश्चैव तामसौ तु निधी स्मृतौ
कच्छपी विश्वसेन्नैव न भुङ्केन (ना) ददाति च ॥ १.५३.७ ॥
निधानमुर्व्यां कुरुते निधिः सोप्येकपूरुषः
राजसेनमुकुन्देन लक्षिता राज्यसंग्रही ॥ १.५३.८ ॥
भुक्तभोगो गायनेभ्यो दद्याद्वेश्यादिकासु च
रजस्तमोमयो नन्दी आधारः स्यात्कुलस्य च ॥ १.५३.९ ॥
स्तुतः प्रीतो भवति वै बहुभार्या भवन्ति च
पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ॥ १.५३.१० ॥
नीलन चाङ्कितः सत्त्वतेजसा संयुतो भवेत्
वस्त्रधान्यादिसंग्राही तडागादि करोति च ॥ १.५३.११ ॥
त्रिपू(पौ) रुषो निधिश्चैव आम्रारामादि कारयेत्
एकस्य स्यान्निधिः शङ्खः स्वयं भुङ्क्ते धनादि(न्त)कम् ॥ १.५३.१२ ॥
कदन्नभुक्परिजनो न च शोभनवस्त्रधृक्
स्वपोषणपरः शङ्खी दद्यात्परनरे वृथा ॥ १.५३.१३ ॥
मिश्रावलोकनान्मिश्रस्वभावफलदायिनः
निधीनां रूपमुक्तं तु हरिणापि हरादिके
हरिर्भुवनकोशादि यथोवाच तथा वदे ॥ १.५३.१४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवनिधिवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ५४
हरिरुवाच
अग्नीध्रश्चाग्निबाहुश्च बपुष्मान्ध्युतिमांस्तथा
मेधामेधातिथिर्भव्यः शबलः पुत्र एव च ॥ १.५४.१ ॥
ज्योतिष्मान्दशमो जातः पुत्रा ह्येते प्रियव्रतात्
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ॥ १.५४.२ ॥
जातिस्मरा महाभागा नैराज्याय ममो दषुः
विभज्य सप्त द्वीपानि सप्तानां प्रददौ नृपः ॥ १.५४.३ ॥
योजनानां प्रमाणेन पञ्चाशत्कोटिराप्लुता
जलोपरि मही याता मौरिवास्ते सरिज्जले ॥ १.५४.४ ॥
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो हर
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ १.५४.५ ॥
एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः
लवणेक्षुसुरासर्पिर्दाधिदुग्धजलैः समम् ॥ १.५४.६ ॥
द्वीपात्तु द्विगुणो द्वीपः समुद्रश्च वृषध्वज
जम्बूद्वीपे स्थितो मेरुर्लक्षयोजनविस्तृतः ॥ १.५४.७ ॥
चतुरशीतिसाहस्रैर्योजनैरस्य चोच्छ्रयः
प्रविष्टः षोडशाधस्ताद्द्वत्रिंशन्मूर्ध्नि विस्तृतः ॥ १.५४.८ ॥
अधः षोडशसाहस्रः कर्णिकाकारसंस्यितः
हिमवान्हेमकूटश्च निषधश्चास्य दक्षिणे ॥ १.५४.९ ॥
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः
प्लक्षादिषु नरा रुद्र ये वसन्ति सनातनाः ॥ १.५४.१० ॥
शङ्कराथ न तेष्वस्ति युगावस्था कथञ्चन
जम्बूद्वीपेश्वरात्पुत्रा ह्यग्रीध्नादभवन्नव ॥ १.५४.११ ॥
नाभिः किंपुरुषश्चैव हरिवर्षमिला वृतः
रम्यो हिरण्मयाख्यश्च कुरुर्भद्राश्व एव च ॥ १.५४.१२ ॥
केतुमालो नृपस्तेभ्यस्तत्संज्ञान् खण्डकान्ददौ
नाभेस्तु मेरुदेव्यां तु पुत्रोऽभूदृषभो हर ॥ १.५४.१३ ॥
तत्पुत्रो भरतो नाम शालग्रामे स्थितो व्रती
सुमतिर्भरतस्याभूत्तत्पुत्रस्तैजसोऽभवत् ॥ १.५४.१४ ॥
इन्द्रद्युम्नश्च तत्पुत्रः परमेष्ठी ततः स्मृतः
प्रतीहारश्चतत्पुत्रः प्रतिहर्ता तदात्मजः ॥ १.५४.१५ ॥
सुतस्तस्मादथै जातः प्रस्तारस्तत्सुतो विभुः
पृथुश्च तत्सुतो नक्तो नक्तस्यापि गयः स्मृतः ॥ १.५४.१६ ॥
नरो गयस्य तनयस्तत्पुत्रोभुद्विराडगतः
ततो धीमान्महातेजा भौवनस्तस्य चात्मजः ॥ १.५४.१७ ॥
त्वष्टा त्वष्टुश्च विरजा रजस्तस्याप्यभूत्सुतः
शतजिद्रजसस्तस्य विष्वग्ज्योतिः सुतः स्मृतः ॥ १.५४.१८ ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनोपयोगिप्रियव्रतवंशनिरूपणं नाम चतुः पञ्चशत्तमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ५५
हरिरुवाच
मध्ये त्विलावृतो वर्षो भद्राश्वः पूर्वतोऽद्भुतः
पूर्वदक्षैणतो वर्षो हिरण्वान्वृषभध्वज ॥ १.५५.१ ॥
ततः किम्पुरुषो वर्षो मेरोर्दक्षिणतः स्मृतः
भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपाश्चिमे ॥ १.५५.२ ॥
पश्चिमे केतुमालश्च रम्यकः पश्चिमोत्तरे
उत्तरे च कुरोर्वर्षः कल्पवृक्षसमावृतः ॥ १.५५.३ ॥
सिद्धिः स्वाभाविकी रुद्र ! वर्जयित्वा तु भारतम्
इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तितमान् ॥ १.५५.४ ॥
नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा
अयं तुनवमस्तेषां द्वीपः सागरसंवृतः ॥ १.५५.५ ॥
पूर्वे किरातास्तस्यास्ते पश्चिमे यवनाः स्थिताः
अन्ध्रा दक्षिणतो रुद्र ! तुरष्कास्त्वपि चोत्तरे ॥ १.५५.६ ॥
ब्राह्मणाः क्षत्त्रिया वैश्याः सूद्राश्चान्तरवासिनः
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ १.५५.७ ॥
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः
वेदस्मृतिर्नर्मदा च वरदा सुरसा शिवा ॥ १.५५.८ ॥
तापी पयोष्णी सरयूः कावेरी गोमती तथा
गोदावरी भीमरथी कृष्णवेणी महानदी ॥ १.५५.९ ॥
केतुमाला ताम्रपर्णो चन्द्रभागा सरस्वती
ऋषिकुल्या च कावेरी मत्तगङ्गा पयस्विनी ॥ १.५५.१० ॥
विदर्भा च शतद्रूश्च नद्यः पापहराः शुभाः
आसां पिबन्ति सलिलं मध्यदेशादयो जनाः ॥ १.५५.११ ॥
पाञ्चालाः कुरवो मत्स्या यौधेयाः सपटच्चराः
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः ॥ १.५५.१२ ॥
वृषध्वज ! जनाः पाद्माः सूतमागधचेदयः
काशय (षाया) श्च विदेहाश्च पूर्वस्यां कोसलास्तथा ॥ १.५५.१३ ॥
कलिङ्गवङ्गपुण्ड्राङ्गा वैदर्भा मूलकास्तथा
विन्ध्यान्तर्निलया देशाः पूर्वदक्षिणतः स्मृताः ॥ १.५५.१४ ॥
पुलन्दाश्मकजीमूतनयराष्ट्रनिवासिनः
कर्णार्(ना)टकम्बोजघणा दक्षिणापथवासिनः ॥ १.५५.१५ ॥
अम्बष्ठद्रविडा लाटाः काम्भोजा स्त्रीमुखाः शकाः
आनर्तवासिनश्चैव ज्ञेया यक्षिणपश्चिमे ॥ १.५५.१६ ॥
स्त्रीराज्याः सैन्धवा म्लेच्छा नास्ति का यवनास्तथा
पश्चिमेन च विज्ञेया माथुरा नैषधैः सह ॥ १.५५.१७ ॥
माण्डव्याश्च तुषाराश्च मूलिकाश्वमुखाः खशाः
महाकेशा महानासा देशास्तूत्तरपश्चिमे ॥ १.५५.१८ ॥
लम्ब (म्पा) का स्तननागाश्च माद्रगान्धारबाह्लिकाः
हिमाचलालया म्लेच्छा उदीचीं दिशमाश्रिताः ॥ १.५५.१९ ॥
त्रिगर्तनीलकोलात (भ) ब्रह्मपुत्राः सटङ्कणाः
अभीषाहाः सकाश्मीरा उदक्पर्वेण कीर्तिताः ॥ १.५५.२० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ५६
हरिरुवाच
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य च
ज्येष्ठः शान्तभवो नाम शिशिरस्तदन्तरः ॥ १.५६.१ ॥
सुखोदयस्तथा नन्दः शिवः क्षेमक एव च
ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ १.५६.२ ॥
गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा
सोमकः सुमनाः शैलो बैभ्राजश्चात्र सप्तमः ॥ १.५६.३ ॥
अनुतप्ता शिखी चैव विपाशा त्रिदिवा क्रमुः
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ १.५६.४ ॥
वपुष्माञ्छाल्मलस्येशस्तत्सुता वर्षनामकाः
श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ॥ १.५६.५ ॥
वैद्युतो मानसश्चैव सप्रभशाचपि सप्तमः
कुमुदश्चोन्नतो द्रोणो महिषोऽथ बलाहकः ॥ १.५६.६ ॥
क्रौञ्चः ककुद्मान्ह्येते वै गिरयः सरितस्त्विमाः
योनितोया वितृष्णा च चन्द्रा शुक्ल विमोचनी ॥ १.५६.७ ॥
विधृतिः सप्तमी तासां स्मृताः पापप्रशान्तिदाः
ज्योतिष्मतः कुशद्वीपे सप्त पुत्राः शृणुष्वतान् ॥ १.५६.८ ॥
उद्भिदो वेणुमांश्चैव द्वैरथो लम्बनो धृतिः
प्रभाकरोऽथ कपिलस्तन्नामा वर्षपद्धतिः ॥ १.५६.९ ॥
विद्रुमो हेमशैलश्च द्युतिमान्पुष्पवांस्तथा
कुशेशयो हरिश्चैव सप्तमो मन्दराचलः ॥ १.५६.१० ॥
धूतपापा शिवा चैव पवित्रा सन्मतिस्तथा
विद्युदभ्रा मही चान्या सर्वपापहरास्त्विमाः ॥ १.५६.११ ॥
क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः
कुशलो मन्दगश्चोष्णः पीवरोऽथोन्धकारकः ॥ १.५६.१२ ॥
मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता हर
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्ध (थ) कारकः ॥ १.५६.१३ ॥
दिवावृत्पञ्चमश्चान्यो दुन्दुभिः पुण्डरीकवान्
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥ १.५६.१४ ॥
ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः
शाकद्वीपेश्वराद्भव्यात्सप्त पुत्राः प्रजज्ञिरे ॥ १.५६.१५ ॥
जलद्श्च कुमारश्च सुकुमारोरुणी बकः
कुसुमोदः समोदार्किः सप्तमश्च महाद्रुमः ॥ १.५६.१६ ॥
सुकुमारी कुमारी च नलिनी धेनुका च या
इक्षुश्च वेणुका चैव गभस्ती सप्तमी तथा ॥ १.५६.१७ ॥
शबलात्पुष्करेशाच्च महावीरश्च धातकिः
अभूद्वर्षद्वयं चैव मानसोत्तरपर्वतः ॥ १.५६.१८ ॥
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः
तावच्चैव च विस्तीर्णः सर्वतः परिमण्डलः ॥ १.५६.१९ ॥
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः
स्वादूदकस्य पुरतो दृश्यते लोकसंस्थितिः ॥ १.५६.२० ॥
द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता
लोकालोकस्ततः शैलो योजनायुताविस्तृतः
तमसा पर्वतो व्याप्तस्तमोऽप्यण्डकटाहतः ॥ १.५६.२१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ५७
हरिरुवाच
सप्ततिस्तु सहस्राणि भूम्युच्छ्रायोऽपि कथ्यते
दशसाहस्रमेकैकं पातालं वृषभध्वज ॥ १.५७.१ ॥
अतलं वितलं चैव नितलं च गभस्तिमत्
महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥ १.५७.२ ॥
कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चना
भूयस्तत्र दैतेया वसन्ति च भुजङ्गमाः ॥ १.५७.३ ॥
रौद्रे तु पुष्करद्वीपे नरकाः सन्ति ताञ्छृणु
रौरवः सूकरो रोधस्तालो विनशनस्तथा ॥ १.५७.४ ॥
महाज्वालस्तप्तकुम्भो लवणोऽथि विमोहितः
रुधिराख्यो वैतरणी कृमिशः कृमिभो जनः ॥ १.५७.५ ॥
असिपत्रवनः कृष्णो नानाभक्षश्च दारुणः
तथा पूयवहः पापो वह्निज्वालस्त्वधः शिराः ॥ १.५७.६ ॥
संदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च
श्वभोजनोऽथाप्रतिष्ठोष्णवीचिर्नरकाः स्मृताः ॥ १.५७.७ ॥
पापिनस्तेषु पच्यन्ते विषशस्त्राग्निदायिनः
उपर्युपरि वै लोका रुद्र ! भूतादयः स्थिताः ॥ १.५७.८ ॥
वारिवह्न्यनिलाकाशैर्वृतं भूतादिना च तत्
तदण्डं महता रुद्र ! प्रधानेन च वेष्टितम् ॥ १.५७.९ ॥
अण्डं दशगुणं व्याप्तं नारायणः स्थितः ॥ १.५७.१० ॥

इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशगतापातलनरकादिनिरूपणं नाम सप्तपञ्चाशत्तमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ५८
हरिरुवाच
वक्ष्ये प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मे
योजानानां सहस्राणि भास्करस्य रथो नव ॥ १.५८.१ ॥
ईषादण्डस्तथैवास्य द्विगुणो वृषभध्वज
सार्धकोटिस्तथा सप्त नियुतान्यधिकानि च ॥ १.५८.२ ॥
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम्
त्रिनाभिमति पञ्चारे षण्नेमिन्यक्षयात्मके ॥ १.५८.३ ॥
संवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम्
चत्वारिंशत्सहस्राणि द्वितीयोऽक्षो विवस्वतः ॥ १.५८.४ ॥
पञ्चान्यानि तु सार्धानि स्यन्दनस्य वृषध्वज
अक्षप्रमाणमुभयोः प्रमाणं तु युगार्धयोः ॥ १.५८.५ ॥
ह्रस्वोऽक्षस्तद्युगार्धेन ध्रुवाधारे रथस्य वै
द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥ १.५८.६ ॥
गायत्त्री सबृहत्युष्णिग्जगतीत्रिष्टुबेव च
अनुष्टुप्पङ्क्तिरित्युक्ताश्छन्दांसि हरयो रवेः ॥ १.५८.७ ॥
धाता क्रतुस्थला चैव पुलस्त्यो वासुकिस्तथा
रथकृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैत्रमासके ॥ १.५८.८ ॥
अर्यमा पुलहश्चैव रथोजाः पुञ्जिकस्थला
प्रहेतिः कच्छनीरश्च नारदश्चैव माधवे ॥ १.५८.९ ॥
मित्रोऽत्रिस्तक्षको रक्षः पौरुषेयोऽथ मेनका
हाहा रथस्वनश्चैव ज्येष्ठे भानो रथे स्थिताः ॥ १.५८.१० ॥
वरुणो वसिष्ठो रम्भा सहजन्या कुहूर्बुधः
रथचित्रस्तथा शुक्रो वसन्त्याषाढसंज्ञिते ॥ १.५८.११ ॥
इन्द्रो विश्वावसुः स्रोत(श्रोत्र) एलापत्रस्तथाङ्गिराः
प्रम्लोचा च नभस्येते सर्पाश्चार्के तु सन्ति वै ॥ १.५८.१२ ॥
विवस्वानुग्रसेनश्च भृगुरापूरणस्तथा
अनुम्लोचाशङ्खपालौ व्याघ्रो भाद्रपदे तता ॥ १.५८.१३ ॥
पूषा च सुरुचिर्धाता गौतमोऽथ धनञ्जयः
सुषेणोऽन्यो धृताची च वसन्त्याश्वयुजे रवौ ॥ १.५८.१४ ॥
विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तदा
विश्वाची सेनजिच्चापः (पि) कार्तिके चाधिकारिणः ॥ १.५८.१५ ॥
अंशुश्च काश्यपस्तार्क्ष्यो महापद्मस्तथोर्वशी
चित्रसेनस्तथा विद्युन्मार्गशीर्षाधिकारिणः ॥ १.५८.१६ ॥
क्रतुर्भर्गस्तथोर्णायुः स्फूर्जः कर्कोटकस्तथा
अरिष्टनेमिश्चैवान्या पूर्वचित्तिवर्रात्सराः
पौषमासे वसन्त्येते सप्त भास्करमण्डले ॥ १.५८.१७ ॥
त्वष्टाथ जमदग्निश्च कम्बलोऽथ तिलोत्तमा
ब्रह्मापेतोऽथ ऋतजिद्धृतराष्ट्रश्च सप्तमः
माघमासे वसन्त्येते सप्त भास्करमण्डले ॥ १.५८.१८ ॥
विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित्
विश्वामित्रस्तथा रक्षो यज्ञापेतो हि फाल्गुने ॥ १.५८.१९ ॥
सवितुर्मण्डले ब्रह्मन्विष्णुशक्त्युपबृंहिताः
स्तुवन्ति मुनयः सूर्यं गन्धर्वैर्गोयते पुरः ॥ १.५८.२० ॥
नृत्यन्त्योऽप्सरसो यान्ति सूर्यस्यानुनिशाचराः
वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः ॥ १.५८.२१ ॥
बालखिल्यास्तथैवैनं परिवार्य समासते
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ॥ १.५८.२२ ॥
वामदक्षिणतो युक्ता दश तेन चरत्यसौ
वार्य (य्व) ग्रनिद्रव्यसम्भूतो रथश्चन्द्रसुतस्यच ॥ १.५८.२३ ॥
पिशङ्गेस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः
सवरूथः सानुकर्षो युक्तो भूमिभवैर्हयैः ॥ १.५८.२४ ॥
सोपासंगपताकस्तु शुक्रस्यापि रथो महान्
रथो भूमिसुतस्यापि तप्तकाञ्चनसन्निभः ॥ १.५८.२५ ॥
अष्टाश्वः काञ्चनः श्रीमान् भौमस्यापि रथो महान् ॥ १.५८.२६ ॥
पद्मरागारुणैरश्वैः संयुक्तो वह्निसंभवैः
अष्टाभिः पाण्डरैर्युक्तैर्वाजिभिः काञ्चने रथे ॥ १.५८.२७ ॥
तिष्ठंस्तिष्ठति वर्षं वै राशौराशौ बृहस्पतिः
आकाशसम्भवैरश्वैः शवलैः स्यन्दनं युतम् ॥ १.५८.२८ ॥
समारुह्य शनैर्याति मन्दगामी शनैश्चरः
स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् ॥ १.५८.२९ ॥
सकृद्यक्तास्तु भूतेशबहन्त्यविरतं शिव
तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः ॥ १.५८.३० ॥
पलालधूमवर्णाभा लाक्षारसनिभारुणाः
द्वीपनद्यद्रयुदन्वन्तो भुवनानिहरेस्तनुः ॥ १.५८.३१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशनिरूपणं नामाष्टपञ्चाशत्तमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ५९
(अथ ज्योतिः शास्त्रम्)

सूत उवाच [SUTA SAID]
ज्योतिश्चक्रं भुवो मानमुक्त्वा प्रोवाच केशवः
चतुर्लक्षं ज्योतिषस्य सारं रुद्राय सर्वदः ॥ १.५९.१ ॥
हरिरुवाच
कृत्तिकास्त्वग्निदेवत्या रोहिण्यो ब्रह्मणः स्मृताः
इल्वलाः सोमदेवत्या रौद्रं चार्द्रमुदाहृतम् ॥ १.५९.२ ॥
पुनर्वसुस्तथादित्यस्तिष्यश्च गुरुदैवतः
अश्लेषाः सर्पदेवत्या मघाश्च पितृदेवताः ॥ १.५९.३ ॥
भाग्याश्च पूर्वफल्गुन्य अर्यमा च तथोत्तरः
सावित्रश्च तथा हस्ता चित्रा त्वष्टा प्रकीर्तितः ॥ १.५९.४ ॥
स्वाती च वायुदेवत्या नक्षत्रं परिकीर्तितम्
इन्द्राग्निदेवता प्रोक्ता विशाखा वृषभध्वज ॥ १.५९.५ ॥
मैत्रमृक्षमनूराधा ज्येष्ठा शाक्रं प्रकीर्तितम्
तथा निरृतिदेवत्यो मूलस्तज्ज्ञैरुदाहृतः ॥ १.५९.६ ॥
आप्यास्त्वाषाठपूर्वास्तु उत्तरा वैश्वदेवताः
ब्राह्मश्चैवाभिजित्प्रोक्तः श्रवणा वैष्णवः स्मृतः ॥ १.५९.७ ॥
वासवस्तु तथा ऋक्षं धनिष्ठा प्रोच्यते बुधैः
तथा शतभिषा प्रोक्तं नक्षत्रं वारुणं शिव ॥ १.५९.८ ॥
आजं भाद्रपदा पूर्वा अहिर्ब्रुध्न्यस्तथोत्तरा
पौष्णं च रेवती ऋक्षमश्वयुक्चाश्वदैवतम् ॥ १.५९.९ ॥
भरण्यृक्षं तथा याम्यं प्रोक्तास्ते ऋक्षदेवताः
ब्रह्माणी संस्थिता पूर्वे प्रितपन्नवमीतिथौ ॥ १.५९.१० ॥
माहेश्वरी चोत्तरे च द्वितीया दशामीतिथौ
पञ्चम्यां च त्रयोदश्यां वाराही दक्षिणे स्थिता ॥ १.५९.११ ॥
षष्ठ्यां चैव चतुर्दश्यामिन्द्राणी पश्चिमे स्थिता
सप्तम्यां पौर्णमास्यां च चामुण्डा वायुगोचरे ॥ १.५९.१२ ॥
अष्टम्यमावास्ययोगे महालक्ष्मीशगोचरे
एकादश्यां तृतीयायामग्निकोणे तु वैष्णवी ॥ १.५९.१३ ॥
द्वादश्यां च चतुर्थ्यां तु कौमारी नैरृते तथा
योगिनीसुंमुखेनैव गमनादि न कारयेत् ॥ १.५९.१४ ॥
अश्विनीमैत्ररेवत्यो मृगमूलपुनर्वसु
पुष्या हस्ता तथा ज्येष्ठा प्रस्थाने श्रेष्ठमुच्यते ॥ १.५९.१५ ॥
हस्तादिपञ्चऋक्षाणि उत्तरात्रयमेव च
अश्विनी रोहिणी पुष्या धनिष्ठा च पुनर्वसू ॥ १.५९.१६ ॥
वस्त्रप्रावरणे श्रेष्ठो नक्षत्राणां गणः स्मृतः
कृत्तिका भरण्यश्लेषा मघा मूलविशाखयोः ॥ १.५९.१७ ॥
त्रीणि.पूर्वा तथा चैव अधोवक्राः प्रकीर्तिताः?
एषु वापीतडागादिकूपभूमितृणानि च ॥ १.५९.१८ ॥
देवागारस्य खननं निधानखननं तथा
गणितं ज्योतिषारम्भं खनिबिलप्रवेशनम् ॥ १.५९.१९ ॥
कुर्यादधोगतान्येव अन्यानि च वृषध्वज
रेवती चाश्विनी चित्रा स्वाती हस्ता पुनर्वसू ॥ १.५९.२० ॥
अनुराधा मृगो ज्येष्ठा एते पार्श्वमुखाः स्मृताः
गजोष्ट्राश्वबलीवर्ददमनं महिषस्य च ॥ १.५९.२१ ॥
बीजानां वपनं कुर्याद्गमनागमनादिकम्
चक्रयन्त्ररथानां च नावादीनां प्रवाहणम् ॥ १.५९.२२ ॥
पार्श्वेषु यानि कर्माणि कुर्यादेतेषु तान्यपि
रोहिण्यार्द्रां तथा पुष्या धनिष्ठा चोत्तरात्रयम् ॥ १.५९.२३ ॥
वारुणं श्रवणं चैव नव चोर्ध्वमुखाः स्मृताः
एषु राज्याभिषेकं च पट्टबन्धं च कारयेत् ॥ १.५९.२४ ॥
ऊर्ध्वमुख्यान्युच्छ्रितानि सर्वाण्येतेषु कारयेत्
चतुर्थो चाशुभा षष्ठी अष्टमी नवमी तथा ॥ १.५९.२५ ॥
अमावास्या पूर्णिमा च तद्वादशी च चतुर्दशी
अशुक्ला प्रतिपच्छ्रेष्ठा द्वितीया चन्द्र सूनुना ॥ १.५९.२६ ॥
तृतीया भूमिपुत्रेण चतुर्थो च शनैश्चरे
गुरौ शुभा पञ्चमी स्यात्षष्टीमङ्गलशुक्रयोः ॥ १.५९.२७ ॥
सप्तमी सोमपुत्रेण अष्टमी कुजभास्करौ
नवमी चन्द्रवा(सौ) रेण दशमी तु गुरौ शुभा ॥ १.५९.२८ ॥
एकादश्या गुरुशुक्रौ द्वादश्यां च पुनर्बुधः
त्रयोदशी शुक्रभौमौ शनौ श्रेष्ठा चतुर्दशी ॥ १.५९.२९ ॥
पौर्णमास्यप्यमावास्या श्रेष्ठा स्याच्च बृहस्पतौ
द्वादशीं दहते भानुः शशी चैकादशीं दहेत् ॥ १.५९.३० ॥
कुजो दहेच्च दशामीं नवमीं च बुधो दहेत्
अष्टमीं दहते जीवः सप्तमीं भार्गवो दहेत् ॥ १.५९.३१ ॥
सूर्यपुत्रो दहेत्षष्ठीं गमनाद्यासु नास्ति वै
प्रतिपन्नवमीष्वेव चतुर्दश्यष्टमीषु च ॥ १.५९.३२ ॥
बुधवारेण प्रस्थानं दूरतः परिवर्जयेत्
मेषे कर्कटके षष्ठी कन्यायां मिथुनेऽष्टमी ॥ १.५९.३३ ॥
वृषे कुम्भे चतुर्थो च द्वादशी मकरे तुले
दशमी वृश्चिके सिंहे धनुर्मोने चतुर्दशी ॥ १.५९.३४ ॥
एता दग्धा न गन्तव्यं पीडादिः किल मानवैः
विशाखात्रयमादित्ये पूर्वाषाढात्रये शशी ॥ १.५९.३५ ॥
धनिष्ठात्रितयं भौमे बुधे वै रेवतीत्रयम्
रोहिण्यादित्रयं जीवे शुक्रे पुष्यात्रयं शिव ॥ १.५९.३६ ॥
शनिवारे वर्जयेच्च उत्तराफल्गुनीत्रयम्
एषु योगेषु चोत्पातमृत्युरोगादिकं भवेत् ॥ १.५९.३७ ॥
मूलेर्ऽकः श्रवणे चन्द्रः प्रोष्ठपद्युत्तरे कुजः
कृत्तिकासु बुधश्चैव गुरौ रुद्र पुनर्वसुः ॥ १.५९.३८ ॥
पूर्वफल्गुनी शुक्रे च स्वातिश्चैव शनैश्वरे
एतै चामृतयोगाः स्युः सर्वकार्यप्रसाधकाः ॥ १.५९.३९ ॥
कालं प्रवध्यन्नि?शक्तिदा? नेष्टमन्द?
पर्वादिस्तु ज्ञेयः कालः कालविशारदैः ॥ १.५९.४० ॥
एकीकृत्याक्षरान्मात्रं नाम्नोः स्त्रीपुंसयोस्त्रिभिः
भागे द्विशेषे स्त्रीनाशः पुसः स्यादेकशून्ययोः ॥ १.५९.४१ ॥
विष्कम्भे घटिकाः पञ्च शूले सप्त प्रकीर्तिताः
षड्गण्डे चातिगण्डे च नव व्याघातवज्रयोः ॥ १.५९.४२ ॥
व्यतीपाते च परिघे वैधृते च दिनेदिने
एतै मृत्युयुता ह्येषु सर्वकर्माणि वर्जयेत् ॥ १.५९.४३ ॥
हस्तेर्ऽकश्च गुरुः पुष्ये अनुराधा बुधे शुभा
रोहिणी च शनौ श्रेष्ठा सौमं सोमेन वै शुभम् ॥ १.५९.४४ ॥
शुक्रे च रेवती श्रेष्ठा अश्विनी मङ्गले शुभा
एतेषु सिद्धियोगा वै सर्वदोषविनाशनाः ॥ १.५९.४५ ॥
भार्गवे भपरणी चैव सोमे चित्रा वृषध्वज !
भौमे चै वोत्तराषाढा धनिष्ठा च बुधे हर ! ॥ १.५९.४६ ॥
गरौ शतभिषा रुद्र ! शुक्रे वै रोहिणी तथा
शनौ च रेवती शम्भो ! विषयोगाः प्रकीर्तिताः ॥ १.५९.४७ ॥
पुष्यः पुनर्वसुश्चैव रेवती चित्रया सह
श्रवणं च धनिष्ठा च हस्ताश्वनीमृगास्तथा ॥ १.५९.४८ ॥
कुर्याच्छतभिषायां च जातकर्मादि मानवः
विशाखा चोत्तरात्रीणि मघार्द्रा भरणी तथा
आश्लेषा कृत्तिका रुद्र ! प्रस्थाने मरणप्रदाः ॥ १.५९.४९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे नक्षत्रतद्देवतादग्धयोगादिनिरूपणं नामैकोनषष्टितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ६०
हरिरुवाच
षडादित्ये दशा ज्ञेया सोमे पञ्चदश स्मृताः
अष्टावङ्गारके चव बुधै स्पतदश स्मृताः ॥ १.६०.१ ॥
शनैश्चरे दश ज्ञेया गुरोरेकोनविंशतिः
राहोर्द्वादशवर्षाणि एकविंशतिर्भार्गवे ॥ १.६०.२ ॥
रवेर्दशा दुः खदा स्यादुद्वेगनृपनाशकृत्
विभूतिदा सोमदशा सुखमिष्टान्नदा तथा ॥ १.६०.३ ॥
दुः खप्रदा कुजदशा राज्यादेः स्याद्विनाशिनी
दिव्यस्त्रीदा बुधदशा राज्यदा कोशवृद्धिदा ॥ १.६०.४ ॥
शनेर्दशा राज्यनाशबन्धुदुः खकरी भवेत्
गुरोर्दशा राज्यदा स्यात्सुखधर्मादिदायिनी ॥ १.६०.५ ॥
राहोर्दशा राज्यनाशव्याधिदा दुः खदा भवेत्
हस्त्यश्वदा शुक्रदशा राज्यस्त्रीलाभदा भवेत् ॥ १.६०.६ ॥
मेष अङ्गारकक्षेत्रं वृषः शुक्रस्य कीर्तितः
मिथुनस्य बुधो ज्ञेयः सोमः कर्कटकस्य च ॥ १.६०.७ ॥
सूर्यक्षेत्रं भवेत्सिंहः कन्या क्षेत्रं बुधस्य च
भार्गवस्य तुला क्षेत्रं वृश्चिकोङ्गारकस्य च ॥ १.६०.८ ॥
धनुः सुर गुरोश्चैव शनेर्मकरकुम्भकौ
मीनः सुरगुरोश्चैव ग्रहक्षेत्रं प्रकीर्तितम् ॥ १.६०.९ ॥
पौर्णमास्याद्वयं तत्र पूर्वाषाढाद्वयं भवेत्
द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥ १.६०.१० ॥
अश्विनी रेवती चित्रा धनिष्ठा स्यादलङ्कृतौ
मृगाहिकपिमार्जारश्वानः सूकरपक्षिणः ॥ १.६०.११ ॥
नकुलो मूषकश्चैव यात्रायां दक्षिणे शुभः
विप्रकन्या शिवा एषां शङ्खभेरीवसुन्धराः ॥ १.६०.१२ ॥
वेणुस्त्रीपूर्णकुम्भाश्च यात्रायां दर्शनं शुभम्
जम्बूकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः ॥ १.६०.१३ ॥
कार्पासौषधितैलं च पक्राङ्गारभुजङ्गमाः
मुक्तकेशी रक्तमाल्यनग्नाद्यशुभमीक्षितम् ॥ १.६०.१४ ॥
हक्राय लक्षणं वक्ष्ये लभत्पूर्वे महाफलम्
आग्नेये शोकसन्तापौ दक्षिणे हानिमाप्नुयात् ॥ १.६०.१५ ॥
नैरृत्य शोकसन्तापौ मिष्टान्नं चैव पश्चिमे
अर्थ प्राप्नोति वायव्ये उत्तरे कलहोभवेत् ॥ १.६०.१६ ॥
ईशाने मरणं प्रोक्तं हिक्कायाश्चफलाफलम्
विलिख्य रविचक्रं तु भास्करो नरसन्निभः ॥ १.६०.१७ ॥
यस्मिन्नृक्षे वसद्भानुस्तदान्दि त्रीणि मस्तके
त्रयं वक्रे प्रदातव्यमेकैकं स्कन्धयोर्न्यसेत् ॥ १.६०.१८ ॥
एकैकं बाहुयुग्मे तु एकैक हस्तयोर्द्वयोः
हृदये पञ्च ऋक्षाणि एकं नाभौ प्रदापयेत् ॥ १.६०.१९ ॥
ऋक्षमेकं न्यसेद्गुह्ये एकैकं जानुके न्यसेत्
नक्षत्राणि च शेषाणि रविपादे नियोजयेत् ॥ १.६०.२० ॥
चरणस्येन ऋक्षेण अल्पायुर्जायते नरः
विदशगमनं जानौ गुह्यस्थे परदारवान् ॥ १.६०.२१ ॥
नाभिस्थेनाल्पसन्तुष्टो हृत्स्थेन स्यान्महेश्वरः
पाणिस्थेन भवेच्चौरः स्थानभ्रष्टो भवेद्धज ॥ १.६०.२२ ॥
स्कन्धस्थिते धनपतिर्मुखे मिष्टान्नमाप्नुयात्
मस्तके पदृवस्त्रं स्यान्नक्षत्रं यदि स्थितम् ॥ १.६०.२३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डं प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे ग्रहदशादिनिरूपणं नाम षष्टितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ६१
हरिरुवाच
सप्तमोपचयाद्यस्थश्चन्द्रः सर्वत्र शोभनः
शुक्लपक्षे द्वितीयस्तु पञ्चमो नवमस्तथा ॥ १.६१.१ ॥
संपूज्यमानो लोकैस्तु गुरुवद्दृश्यते शशी
चन्द्रस्य द्वादशावस्था भवन्ति शृणु ता अपि ॥ १.६१.२ ॥
त्रिषुत्रिषु च ऋक्षेषु अश्विन्यादि वदाम्यहम्
प्रवासस्थं पुनर्दृष्टं मृतावस्थं जयावहम् ॥ १.६१.३ ॥
हास्यावस्थं नता(क्रीडा) वस्थं प्रमोदावस्थमेव च
विषादावस्थभोगस्थे ज्वरावस्थं व्यवस्थितम् ॥ १.६१.४ ॥
कम्पा(न्या) वस्थं सुखावस्थं द्वादशावस्थगं भवेत्
प्रवासो हानिमृन्यृ च जयो हासेरतिः सुखम् ॥ १.६१.५ ॥
शोको भोगो ज्वरः कम्पः सुखं चेति क्रमात्फलम्
जन्मस्थः कुरुते तुष्टिं द्वितीये नास्ति निर्वृतिः ॥ १.६१.६ ॥
तृतीये राजसन्मानं चतुर्थे कलहागमः
पञ्चमेन मृगाङ्केन स्त्रीलाभो वै तथा भवेत् ॥ १.६१.७ ॥
घनधान्यागमः षष्ठे रतिः पूजा च सप्तमे
अष्टमे प्राणसन्देहो नवमे कोशसञ्चयः ॥ १.६१.८ ॥
दशमे कार्यनिष्पत्तिध्रुवमेकादशे जयः
द्वादशेन शशाङ्केन मृत्युरेव न संखयः ॥ १.६१.९ ॥
कृत्तिकादौ च पूर्वेण सप्तर्क्षाणि च वै व्रजेत्
मघादौ दक्षिणे गच्छेदनुराधादि पश्चिमे ॥ १.६१.१० ॥
प्रशस्ता चोत्तर यात्रा धनिष्ठादिषु सप्तसु
अश्विनी रेवती चित्रा धनिष्ठा समलङ्कृतौ ॥ १.६१.११ ॥
मृगाश्विचित्रापुष्याश्च मूला हस्ता शुभाः सदा
कन्याप्रदाने यात्रायां प्रतिष्ठादिषु कर्मसु ॥ १.६१.१२ ॥
शुक्रचन्द्रौ हि जन्मस्थौ शुभदौ च द्वितीयके
शशिज्ञशुक्रजीवाश्च राशौ राशौ चाथ तृतीयके ॥ १.६१.१३ ॥
भौममन्दशशाङ्कार्का बुधः श्रेष्ठश्चतुर्थके
शुक्रजीवौ पञ्चमे च चन्द्रकेतुसमाहितौ ॥ १.६१.१४ ॥
मन्दाकारै च कुजः षष्ठे गुरुचन्द्रौ च सप्तमे
ज्ञशुक्रावष्टमे श्रेष्ठौ नवमस्थो गुरुः शुभः ॥ १.६१.१५ ॥
अर्कार्किचन्द्रा दशमे ग्रहा एकादशे खिलाः
बुधोऽथ द्वादशे चैव भार्गवः सुखदो भवेत् ॥ १.६१.१६ ॥
सिंहेन मकरः श्रेष्ठः कन्यया मेष उत्तमः
तुलया सह मीनस्तु कुम्भेन सहकर्कटः ॥ १.६१.१७ ॥
धनुषा वृषभः श्रेष्ठो मिथुनेन च वृश्चिकः
एतत्षडष्टकं?प्रीत्यै भवत्येव न संशयः ॥ १.६१.१८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे ग्रहाणां शुभाशुभस्थानादिनिरूपणं नामैकपष्टितमोऽध्यायः


इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे लग्नघटिका प्रमाणादिनिरूपणं नाम द्विषष्टितमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६३


श्रीगरुडमहापुराणम् [GARUR PURANAM] ६३
हरिरुवाच
नरस्त्रीलक्षणं वक्ष्ये संक्षपाच्छृणु शङ्कर
अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ ॥ १.६३.१ ॥
श्लिष्टाङ्गुली ताम्रनखौ सुगुल्फौ शिरयोज्झितौ
कूर्मोन्नतौ च चरणौ स्यातां नृपवरस्य हि ॥ १.६३.२ ॥
विरूक्षपाण्डुरनखौ वक्रौ चैव शिरानतौ
सूर्पाकारौ च चरणौ संखुष्कौ विरलाङ्गुली ॥ १.६३.३ ॥
दुः खदारिद्यदौ स्याता नात्र कार्यां विचारणा
अल्परोमयुता श्रेष्ठा जङ्घा हस्तिकरोपमा ॥ १.६३.४ ॥
रोमैकैकं कूपके स्याद्भूपानां तु महात्मनाम्
द्वेद्वे रोम्णी पण्डितानां श्रोत्रियाणां तथैव च ॥ १.६३.५ ॥
रोमत्रयं दरिद्राणां रोगी निर्मांसजानुकः
अल्पलिङ्गी च धनवान्स्याच्च पुत्रादिवर्जितः ॥ १.६३.६ ॥
स्थूललिङ्गो दरिद्रः स्याद्दुख्येकवृष्णी भवेत्
विषमेस्त्रीचञ्चलो वै नृपः स्याद्वृषणे समे ॥ १.६३.७ ॥
प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यः कुमणिर्भवेत्
पाण्डुरैर्मलिनैश्चैव मणिभिश्च सुखी नरः ॥ १.६३.८ ॥
निः स्वाः सशब्दमूत्राः स्युर्नृपा निःशब्दधारया
भोगाढ्याः समजठरा निः स्वाः स्युर्घटसन्निभाः ॥ १.६३.९ ॥
सर्पोदरा दरिद्राः स्यू रेखाभिश्
चायुरुच्यते
ललाटे यस्य दृश्यन्ते तिस्रो रेखाः समाहिताः ॥ १.६३.१० ॥
सुखी पुत्रसमायुक्तः स षष्टिं जीवते नरः
चत्वारिंशच्च वर्षाणि द्विरेखादर्शनान्नरः ॥ १.६३.११ ॥
विंशत्यब्दं त्वेकरेखा आकर्णान्ताः शतायुषः ॥ १.६३.१२ ॥
सप्तत्यायुर्द्विरेखा तु षष्ट्यायुस्तिसृभिर्भवेत्
व्यक्ताव्यक्ताभी रेखाभिर्विंशत्यायुर्भवेन्नरः ॥ १.६३.१३ ॥
चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति
भिन्नाभिश्चैव रेखाभिरपमृत्युर्नरस्य हि ॥ १.६३.१४ ॥
त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते
धनपुत्र समायुक्तः स जीवेच्छरदः शतम् ॥ १.६३.१५ ॥
तर्जन्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः
संप्राप्ता या भवेद्रुद्र ! स जीवेच्छरदः शतम् ॥ १.६३.१६ ॥
प्रथमा ज्ञानरेखा तु ह्यङ्गुष्ठादनुवर्तते
मध्यमामूलगा रेखा आयूरेखा अतः परम् ॥ १.६३.१७ ॥
कनिष्ठिकां समाश्रित्य आयूरेखा समाविशेत्
अच्छिन्ना वा विभक्ता वा स जीवेच्छरदः शतम् ॥ १.६३.१८ ॥
यस्य पाणितले रेखा आयुस्तस्य प्रकाशयेत्
शतवर्षाणि जीवेच्च भोगी रुद्र ! न संशयः ॥ १.६३.१९ ॥
कनिष्ठिकां समाश्रित्य मध्यमायामुपागता
षष्ठिवर्षायुषं कुर्यादायूरेखा तु मानवम् ॥ १.६३.२० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके पुंल्लक्षणनिरूपणं नाम त्रिषष्टितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ६४
हरिरुवाच
यस्यास्तु कुञ्चिताः केशा मुखं च परिमण्डलम्
नाभिश्च दक्षिणावर्ता सा कन्या कुलवर्धिनी ॥ १.६४.१ ॥
या च काञ्चनवर्णाभा रक्तहस्तसरोरुहा
सहस्राणां तु नारीणां भवेत्सापि पतिव्रता ॥ १.६४.२ ॥
वक्रकेशा च या कन्या मण्डलाक्षी च या भवेत्
भर्ता च म्रियते तस्या नियतं दुः खभागिनी ॥ १.६४.३ ॥
पूर्णचन्द्रमुखी कन्या बालसूर्यसमप्रभा
विशालनेत्रा बिम्बोष्ठी सा कन्या लभते सुखम् ॥ १.६४.४ ॥
रेखाभिर्बहुभिः क्लेशं स्वल्पाभिर्धनहीनता
रक्ताभिः सुखमाप्नोति कृष्णाभिः प्रेष्यतांव्रजेत् ॥ १.६४.५ ॥
कार्ये च मन्त्री सत्स्त्री स्यात्सती (खी) स्यात्करणेषु च
स्त्रेहेषु भार्या माता स्याद्वेश्या च शयने शुभा ॥ १.६४.६ ॥
अङ्कुशं कुण्डलं चक्रं यस्याः पाणितले भवेत्
पुत्रं प्रसूयते नारी नरेन्द्रं लभते पतिम् ॥ १.६४.७ ॥
यस्यास्तु रोमशौ पार्श्वौ रोमशौ च पयोधरौ
अन्नतौ चाधरोष्ठौ च क्षिप्रं मारयते पतिम् ॥ १.६४.८ ॥
यस्याः पाणितले रेखा प्राकारस्तोरणं भवेत्
अपि दासकुले जाता राज्ञीत्वमुपगच्छति ॥ १.६४.९ ॥
उद्वृत्ता कपिला यस्य रोमराजी निरन्तरम्
अपि राजकुले जाता दासीत्वमुपगच्छति ॥ १.६४.१० ॥
यस्या अनामिकाङ्गुष्ठौ पृथिव्यां नैव तिष्ठतः
पतिं मारयते क्षिप्रं स्वेच्छाचारेण वर्तते ॥ १.६४.११ ॥
यस्या गमनमात्रेण भूमिकम्पः प्रजायते
पतिं मारयते क्षिप्रं स्वेच्छाचारेण वर्तते ॥ १.६४.१२ ॥
चक्षुः स्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम्
त्वचः स्नेहेन शाय्यां च पादस्नेहेन वाहनम् ॥ १.६४.१३ ॥
स्निग्धोन्नतौ ताम्रनखौ नार्याश्च चरणौ शुभौ
मत्स्याङ्कुशाब्जचिह्नौ च चक्रलाङ्गललक्षितौ ॥ १.६४.१४ ॥
अस्वेदिनौ मूदुतलौ प्रशस्तौ चरणौ स्त्रियाः
शुभे जङ्घे विरोमे च ऊरू हस्तिकरोपमौ ॥ १.६४.१५ ॥
अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम्
नाभिः प्रशस्ता गम्भीरा दक्षिणावर्तिका शुभा
अरोमा त्रिवली नार्या हृत्स्तनौ रोमवर्जितौ ॥ १.६४.१६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके स्त्रीलक्षणनिरूपणं नाम चतुः षष्टितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ६५
हरिरुवाच
समुद्रोक्तं प्रवक्ष्यामि नरस्त्रीलक्षणं शुभम्
येन विज्ञातमात्रेण अतीतानागताप्रमा ॥ १.६५.१ ॥
अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ
श्लेष्टाङ्गुली ताम्रनखौ पादाविष्णौ शिरोज्झितौ ॥ १.६५.२ ॥
कूर्मोन्नतौ गूढगुल्फौ सुपार्ष्णो नृपतेः स्मृतौ
शू(सर्) पाकारौ विरूक्षौ च वक्रौ पादौ शिरालकौ ॥ १.६५.३ ॥
संशुष्कौ पाण्डुरनखौ निः स्वस्य विरलाङ्गुली
मार्गायोत्कण्टकौ पादौ कषायसदृशौ तथा ॥ १.६५.४ ॥
विच्छित्तिदौ च वंशस्य ब्रह्मन्घौ शङ्कु (पक्र) सन्निभौ
अगम्यागमने प्रीतौ जङ्घा विरलरोमिका ॥ १.६५.५ ॥
मृदुरोमा समा जङ्घा तथा करिकरप्रभा
ऊरवो जानवस्तुल्या नृपस्योपचिताः स्मृताः ॥ १.६५.६ ॥
निः स्वस्य सृगालजङ्घा रौमैकैकं चकूपके
नृपाणां श्रोत्रियाणां च द्वेद्वे श्रिये च धीमताम् ॥ १.६५.७ ॥
त्र्याद्यैर्निः स्वा मानवाः स्युर्दुः स्वभाजश्च निन्दिताः
केशाश्च वै कुञ्चिताश्च प्रवासे म्रियते नरः ॥ १.६५.८ ॥
निर्मांसजानुः सौभाग्यमल्पैर्निम्नै रतिः स्त्रियाः
विकटैश्च दरिद्राः स्युः समांसै राज्यमेव च ॥ १.६५.९ ॥
महद्भिरायुराख्यातं ह्यल्पलिङ्गो धनी नरः
अपत्यरहितश्चैव स्थूललिङ्गो घनोज्झितः ॥ १.६५.१० ॥
मेढे वामनते चैव सुतार्थरहितो भवेत्
वक्रेऽन्यथा पुत्रवान्त्स्याद्दारिद्रयं विनतेत्वधः ॥ १.६५.११ ॥
अल्पे त्वतनयो लिङ्गेशिरालेऽथ सुखी नरः
स्थूलग्रन्थियुते लिङ्गे भवेत्पुत्रादिसंयुतः ॥ १.६५.१२ ॥
कोशगूढे दीर्घैर्भुग्नैश्च धनवर्जितः
बलवान्युद्धशीलश्च लघुशेक्तः स एव च ॥ १.६५.१३ ॥
दुर्बलस्त्वेकवृषणो विषमाभ्याञ्चलः स्त्रियाम्
समाभ्यां क्षितिपः प्रोक्तः प्रलम्बेन शताब्दवान् ॥ १.६५.१४ ॥
उद्वृं (द्ध) ताभ्यां च बह्वायू रूक्षैर्मणिभिरीश्वरः
पाण्डरैर्मणिभिर्निः स्वा मलिनैः सुखभागिनः ॥ १.६५.१५ ॥
सशब्दनिः शब्दमूत्राः स्युदंरिद्राश्च मानवाः
एकद्वित्रिचतुः पञ्चषड्भिर्धाराभिरेव च ॥ १.६५.१६ ॥
दक्षिणावर्तचलितमूत्रा भिश्च नृपाः स्मृताः
विकीर्णमूत्रा निः स्वाश्च प्रधानसुखदायिकाः ॥ १.६५.१७ ॥
एकधाराश्च वनिताः स्निग्धैर्मणिभिरुन्नतैः
समैः स्त्रीरत्नधनिनो मध्ये निम्नैश्च कन्यकाः ॥ १.६५.१८ ॥
शुष्कैर्निश्वा विशुष्कैश्च दुर्भगाः परिकीर्तिताः
पुष्पगन्धे नृपाः शुक्रे मधुगन्धे धनं बहुः ॥ १.६५.१९ ॥
पुत्राः शुक्रे मत्स्यगन्धे तनुशुक्रे च कन्यकाः
महाभोगी मांसगन्धे यज्वा स्यान्मदगन्धिनि ॥ १.६५.२० ॥
दरिद्रः क्षारगन्धे च दीर्घायुः शीघ्रमैथुनी
अशीघ्रमैथुन्यल्पायुः स्थूलस्फिक्स्याद्धनोज्झितः ॥ १.६५.२१ ॥
मांसलस्फिक्सुखी स्याच्च सिंहस्फिक्भूपतिः स्मृतः
भवेत्सिंहकटी राजा निः स्वः कपिकटिर्नरः ॥ १.६५.२२ ॥
सर्पोदरा दरिद्राः स्युः पिठरैश्च घटैः समैः
धनिनो विपुलैः पार्श्वैर्निः स्वा रक्तैश्च निम्नगैः ॥ १.६५.२३ ॥
समकक्षाश्च भोगाढ्या निम्नकक्षा धनोज्झिताः
नृपाश्चोन्नतकक्षाः स्युर्जिह्ना विषमकक्षकाः ॥ १.६५.२४ ॥
मत्स्योदरा बहुधना नाभिभिः सुखिनः स्मृताः
विस्तीर्णाभिर्बहुलाभिर्निम्नाभिः क्लेशभागिनः ॥ १.६५.२५ ॥
बलिमध्यगता नाभिः शूलबाधां करोति हि
वामावर्तश्च साध्यं वै मेधां दक्षिणतस्तथा ॥ १.६५.२६ ॥
पार्श्वायता चिरायुर्दा तूपविष्टा धनेश्वरम्
अधो गवाढ्यं कुर्याच्च नृपत्वं पद्मकर्णिका ॥ १.६५.२७ ॥
एकबलिः शतायुः स्याच्छ्रीभोगी द्विवलिः स्मृतः
त्रिवलिः क्ष्माप आचार्य ऋजुभिर्वालिभिः सुखी ॥ १.६५.२८ ॥
अगम्यागामी जिह्मबलिर्भूपाः पार्श्वैश्च मांसलैः
मृदुभिः सुसमैश्चैव दक्षिणावर्तरोमभिः ॥ १.६५.२९ ॥
विपरीतैः परप्रेष्या निर्द्रव्याः सुखवर्जिताः
अनुद्धतैश्चूचुकैश्च भवन्ति सुभगा नराः ॥ १.६५.३० ॥
निर्धना विषमैर्देर्घैः पीतोपचितकैर्नृपाः
समोन्नतं च हृदयमकम्पं मांसलं पृथु ॥ १.६५.३१ ॥
नृपाणामधमानां च खररोमशिरालकम्
अर्थवान्समवक्षाः स्यात्पीनैर्वक्षोभिरूर्जितः ॥ १.६५.३२ ॥
वक्षोभिर्विषमैर्निः स्वः शस्त्रेणनिधनास्तथा
विषमैर्जत्रुभिर्निः स्वा अस्थिनद्धैश्च मानवाः ॥ १.६५.३३ ॥
उन्नतैर्भोगिनो निम्नैर्निः स्वाः पीनैर्धनान्विताः
निः स्वश्चिपिटकण्ठः स्याच्छिराशुष्कगलः सुखी ॥ १.६५.३४ ॥
शूरः स्यान्महिषग्रीवः शास्त्रात्तो मृगकण्ठकः
कम्बुग्रीवश्च नृपतिर्लम्बकण्ठोऽतिभक्षकः ॥ १.६५.३५ ॥
अरोमशा भुग्नपृष्ठं शुभं चाशुभमन्यथा
कक्षाश्वत्थदला श्रेष्ठा सुगन्धिर्मृगरोमिका ॥ १.६५.३६ ॥
अन्यथा त्वर्थहीनानां दारिद्रयस्य च कारणम्
संमासौ चैव भुग्नाल्पौ श्लिष्टौ च विपुलौ शुभौ ॥ १.६५.३७ ॥
आजानुलम्बितौ बाहू वृत्तौ पीनौ नृपेश्वरे
निः स्वानां रोमशौ ह्रस्वौ श्रेष्ठौ करिकर प्रभौ ॥ १.६५.३८ ॥
हस्ताङ्गुलय एव स्युवायुद्वारयुताः शुभाः
मेधाविनां च सूक्ष्माः स्युर्भृत्यानां चिपिटाः स्मृताः ॥ १.६५.३९ ॥
स्थूलाङ्गुलीभिर्निः स्वाः स्युर्नताः स्युः सुकृशैस्तदा
कपितुल्यकराः निः स्वा व्याघ्रतुल्यकरैर्बलम् ॥ १.६५.४० ॥
पितृवित्तविनाशश्च निम्नात्करतलान्नराः
मणिबन्धैर्निगूढैश्च सुश्लिष्टैः शुभगन्धिभिः ॥ १.६५.४१ ॥
नृपा हीनाः करच्छैदैः सशब्दैर्धनवर्जिताः
संवृतैश्चैव निम्नैश्च धनिनः परिकीर्तिताः ॥ १.६५.४२ ॥
प्रोत्तानक रदातारो विषमैर्विषमा नराः
करैः करतलैश्चैव लाक्षाभैरीश्वरास्तलैः ॥ १.६५.४३ ॥
परदाररताः पीतैरूक्षैर्निः स्वा नरा मताः
तुषतुल्यनखाः क्लीबाः कुटिलैः स्फुटितैर्नराः ॥ १.६५.४४ ॥
निः स्वाश्च कुनखैस्तद्वद्विवर्णैः परतर्ककाः
ताम्रैर्भूपा धनाढ्याश्च अङ्गुष्ठैः सयवैस्तथा ॥ १.६५.४५ ॥
अङ्गुष्ठमूलजैः पुत्री स्याद्दीर्घाङ्गुलिपर्वकः
दीर्घायुः सुभगश्चैव निर्धनो विरलाङ्गुलिः ॥ १.६५.४६ ॥
घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्चयस्य वै
नृपतेः करतलगा मणिबन्धात्समुत्थिताः ॥ १.६५.४७ ॥
युगमीनाङ्कितनरो भवेत्सत्रप्रदो नरः
वज्राकाराश्च धनिनां मत्स्यपुच्छनिभा बुधे ॥ १.६५.४८ ॥
शङ्खातपत्रशिविकागजपद्मोपमा नृपे
कुम्भाङ्कुशपताकाभा मृणालाभा निधीश्वरे ॥ १.६५.४९ ॥
दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे
चक्रासितोमरधनुः कुन्ताभा नृपतेः करे ॥ १.६५.५० ॥
अलूखलाभा यज्ञाढ्या वेदीभा चाग्निहोत्रिणि
वापीदेवकुल्याभास्त्रिकोणाभाश्चधार्मिके ॥ १.६५.५१ ॥
अङ्गुष्ठमूलगा रेखाः पुत्राः सूक्ष्माश्च दारिकाः
प्रदेशिनीगता रेखा कनिष्ठामूलगामिनी ॥ १.६५.५२ ॥
शतायुषं च कुरुते छिन्नया तरुतो भयम्
निः स्वाश्च बहुरेखाः स्युनिर्द्रव्याश्चिबुकैः कृशैः ॥ १.६५.५३ ॥
मांसलैश्च धनोपेता आरक्तैरधरैर्नृपाः
बिम्बोपमैश्च स्फुटितैरोष्ठैरूक्षैश्चकण्डितैः ॥ १.६५.५४ ॥
विषमैर्धनहीनाश्च दन्ताः स्निग्धा घनाः शुभाः
तीक्ष्णा दन्ताः समाः श्रेष्ठा जिह्वा रक्ता समा शुभा ॥ १.६५.५५ ॥
श्लक्ष्णा दीर्घा च विज्ञेया तालू श्वेते धनक्षये
कृष्णे च परुषो वक्रं समं सौम्यं च संवृतम् ॥ १.६५.५६ ॥
भूपानाममलं श्लक्ष्णं विपरीतं च दुः खिनाम्
महा दुः खं दुर्भगाणां स्त्रीमुखं पुत्रमाप्नुयात् ॥ १.६५.५७ ॥
आढ्यानां वर्तुलं वक्रं निर्द्रव्याणां च दीर्घकम्
भीरुवक्रः पापकर्मा धूर्तानां चतुरश्रकम् ॥ १.६५.५८ ॥
निम्नं वक्रमपुत्राणां कृपणानां च ह्रस्वकम्
सम्पूर्णं भोगिनां कान्तं श्मश्रु स्निग्धं शुभं मृदु ॥ १.६५.५९ ॥
संहतं चास्फुटिताग्रं रक्तश्मश्रुश्च चौरकः
रक्ताल्पपरुषश्मश्रुकर्णाः स्युः पापमृत्यवः ॥ १.६५.६० ॥
निर्मांसैश्चिपिटैर्भोगाः कृपणा ह्रस्वकर्णकाः
शङ्कुकर्णाश्च राजानो रोमकर्णा गतायुषः ॥ १.६५.६१ ॥
बृहत्कर्णाश्च धनिनोराजानः परिकीर्तिताः
कर्णैः स्निग्धावनद्धैश्च व्यालम्बैर्मांसलैर्नृपाः ॥ १.६५.६२ ॥
भोगी वै निम्नगण्डः स्यान्मत्री सम्पूर्णगण्डकः
शुकनासः सुखी स्याच्च शुष्कनासोऽतिजीवनः ॥ १.६५.६३ ॥
छिन्नाग्रकूपनासः स्यादगम्यागमने रतः
दीर्घनासे च सौभाग्यं चौरश्चाकुञ्चितेन्द्रियः ॥ १.६५.६४ ॥
मृत्युश्चिपिटनासे स्याद्धीनो भाग्यवतां भवेत्
स्वल्पच्छिद्रौ सुपुटौ च अवक्रौ च नृपेश्वरे ॥ १.६५.६५ ॥
क्रूरे दक्षिणवक्रा स्याद्वलिनां च क्षुतं सकृत्
स्याद्विनिष्पिण्डितं ह्रादि सानुनादं च जीवकृत् ॥ १.६५.६६ ॥
वक्रान्तैः पद्मपत्राभैर्लोचनैः सुखभागिनः
मार्जारलोचनैः पाप्मा दुरात्मा मधुपिङ्गलैः ॥ १.६५.६७ ॥
क्रूराः केकरनेत्राश्च हरिताक्षाः सकल्मषाः
जिह्यैश्च लोचनैः शूराः सेनान्यो गजलोचनाः ॥ १.६५.६८ ॥
गम्भीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः
नीलोत्प लाक्षा विद्वांसः सौभाग्यं श्यामचक्षुषाम् ॥ १.६५.६९ ॥
स्यात्कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं किल
मण्डलाक्षाश्च पापाः स्युर्निः स्वाः स्युर्देनलोचनाः ॥ १.६५.७० ॥
दृक्स्निग्धा विपुला भोगे अल्पायुरधिकोन्नता
विशालोन्नता सुखिनी दरिद्रा विषमभ्रुवः ॥ १.६५.७१ ॥
घनदीर्घासुसक्तभ्रूर्बालेन्दून्नतसुभ्रुवः
आढ्यो निः स्वश्च खण्डभ्रृर्मध्ये च विनतभ्रुवः ॥ १.६५.७२ ॥
स्त्रीषु गम्यासु सक्ताः स्युः सुतार्थे परिवर्जिताः
अन्नतैर्विपुलैः शङ्खैर्ललाटैर्विषमैस्तथा ॥ १.६५.७३ ॥
निर्धना धनवन्तश्च अर्धेन्दुसदृशैर्नराः
आचार्याः शुक्तिविशालैः शिरालैः पापकारिणः ॥ १.६५.७४ ॥
अन्नताभैः शिराभिश्च स्वस्तिकाभिर्धनेश्वराः
निम्नैर्ललाटैर्बन्धार्हाः क्रूरकर्मरतास्तथा ॥ १.६५.७५ ॥
संवृतैश्च ललाटैश्च कृपणा उन्नतैर्नृपाः
अनश्रु स्निग्धरुदितमदीनं शुभदं नृणाम् ॥ १.६५.७६ ॥
प्रचुराश्रुदीनं रूक्षं च रुदितं च सुखावहम्
अकम्पं हसितं श्रेष्ठं मीलिताक्षमघावहम् ॥ १.६५.७७ ॥
असकृद्धसितं दुष्टं सोन्मादस्य ह्यनेकधा
ललाटोपसृतास्तिस्रो रेखाः स्युः शतवर्षिणाम् ॥ १.६५.७८ ॥
नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ
अरेखेणायुर्नवतिर्विच्छिन्नाभिश्च पुंश्ललाः ॥ १.६५.७९ ॥
केशान्तोपगताभिश्च अशीत्यायुर्नरो भवेत्
पञ्चभिः सप्तभिः षड्भिः पञ्चाशद्वहुभिस्तथा ॥ १.६५.८० ॥
चत्वारिंशच्च वक्राभिस्त्रिंशद्भ्रूलग्नगामिभिः
विंशतिर्वामवक्रा भिरायुः क्षुद्राभिरल्पकम् ॥ १.६५.८१ ॥
छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी
चिपिटैश्च पितुर्मृत्युर्गवाद्याः परिमण्डलैः ॥ १.६५.८२ ॥
घटमूर्धा पापरुचिर्धनाद्यैः परिवर्जितः
कृष्णैराकुञ्चितैः केशैः स्निग्धैरेकैकसम्भवैः ॥ १.६५.८३ ॥
अभिन्नाग्रैश्च मृदुभिर्न चातिबहुभिर्नृपाः
बहुमूलैश्च विषमैः स्थूलाग्रैः कपिलैस्तथा ॥ १.६५.८४ ॥
निः स्वाश्चैवातिकुचिलैर्घनैरसित (धिक) मूर्धजैः
यद्यद्गात्रं महारूक्षं शिरालं मांसवर्जितम् ॥ १.६५.८५ ॥
तत्तत्स्या दशुभं सर्वं ततोऽन्यथा
विपुलस्त्रिषु गम्भीरो दीर्घः सूक्ष्मश्च पञ्चसु ॥ १.६५.८६ ॥
षडुन्नतश्चतुर्ह्रस्वो रक्तः सप्तस्वसौ नृपः
नाभिः स्वरश्च ससत्त्वं च त्रयं गम्भीरमीरितम् ॥ १.६५.८७ ॥
पुंसः स्यादतिविस्तीर्णं ललाटं वदनं ह्युरः
चक्षुः कक्षा नासिका च षट्स्युर्नृपकृकाटिकाः ॥ १.६५.८८ ॥
उन्नतानि च ह्रस्वनि जङ्घा ग्रीवा च लिङ्गकम्
पृष्ठं चत्वारि रक्तानि करताल्वधरा नखाः ॥ १.६५.८९ ॥
नेत्रान्तपादजिह्वौष्ठाः पञ्च सूक्ष्माणि सन्ति वै
दशनाङ्गुलिपर्वाणि नखकेशत्वचः शुभाः ॥ १.६५.९० ॥
दीर्घाः स्तनान्तरं बाहुदन्तलोचननासिकाः
नराणां लक्षणं प्रोक्तं वदामि स्त्रीषु लक्षणम् ॥ १.६५.९१ ॥
राज्ञ्याः स्निग्धौ समौ पादौ तलौ ताम्रौ नखौ तथा
श्लिष्टाङ्गुली चोन्नताग्रौ तां पाप्य नृपतिर्भवेत् ॥ १.६५.९२ ॥
निगूढगुल्फोपचितौ पद्मकान्तितलौ शुभौ
अस्वेदिनौ मृदुतलौ मत्स्याङ्कुशघ्वजाञ्चितौ ॥ १.६५.९३ ॥
वज्राब्जहलचिह्नौ च दास्याः पादौ ततोऽन्यथा
जङ्घे च रोमरहिते सुवृत्ते विशिरे शुभे ॥ १.६५.९४ ॥
अनुल्बणं सन्धिदेशं समं जानुद्वयं शुभम्
ऊरू करिकराकारावरोमौ च समौ शुभौ ॥ १.६५.९५ ॥
अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम्
श्रोणीललाटकं स्त्रीणामूरु कूर्मोन्नतं शुभम् ॥ १.६५.९६ ॥
गूढो मणिश्च शुभदो नितम्बश्च गुरुः शुभः
विस्तीर्णमांसोपचिता गम्भीरा विपुला शुभा ॥ १.६५.९७ ॥
नाभिः प्रदक्षिणावर्ता मध्यं त्रिबलिशोभितम्
अरोमशौ स्तनौ पीनौ घनावविषमौ शुभौ ॥ १.६५.९८ ॥
कठिनौ रोमशा शस्ता मृदुग्रीवा च कम्बुभा
आरक्तावधरौ श्रेष्ठौ मांसलं वर्तुलं मुखम् ॥ १.६५.९९ ॥
कुन्दपुष्पसमा दन्ता भाषितं कोकिलासमम्
दाक्षिण्ययुक्तमशठं हंसशब्दसुखावहम् ॥ १.६५.१०० ॥
नासा समा समपुटा स्त्रीणां तु रुचिरा शुभा
नीलोत्पलनिभं चक्षुर्नासालग्नं न लम्बकम् ॥ १.६५.१०१ ॥
न पृथू बालेन्दुनिभे भ्रुवौ चाथ ललाटकम्
शुभमर्धेन्दुसंस्थानमतुङ्गं स्यादलोमशम् ॥ १.६५.१०२ ॥
सुमांसलं कर्णयुग्मं समं मृदु समाहितम्
स्निग्धा नीलाश्च मृदवो मूर्धजाः कुञ्चिताः कचाः ॥ १.६५.१०३ ॥
स्त्रीणां समं शिरः श्रेष्ठं पादे पाणितलेऽथ वा
वाजिकुञ्जरश्रीवृक्षयूपेषुयवतोमरैः ॥ १.६५.१०४ ॥
ध्वजचामरमालाभिः शैलकुण्डलवेदिभिः
शङ्खातपत्रपद्मैश्च मत्स्यस्वस्तिकसद्रथैः ॥ १.६५.१०५ ॥
लक्षणैरङ्कुशाद्यैश्च स्त्रियः स्यू राजवल्लभाः
निगूढमणिबन्धौ च पद्मगर्भोपमौ करौ ॥ १.६५.१०६ ॥
न निम्नं नोन्नतं स्त्रीणां भवेत्करतलं शुभम्
रेखान्वितं त्वविधवां कुर्यात्संभोगिनीं स्त्रियम्
रेखा या मणिबन्धोत्था गता मध्याङ्गुलिं करे ॥ १.६५.१०७ ॥
गता पाणितले या च योर्ध्वपादतले स्थिता
स्त्रीणां पुंसां तथा सा स्याद्राज्याय च सुखाय च ॥ १.६५.१०८ ॥
कनिष्ठिकामूलभवा रेखा कुर्याच्छतायुषम्
प्रदेशिनीमध्यमाभ्यामन्तरालगता सती ॥ १.६५.१०९ ॥
ऊना ऊनायुषं कुर्याद्रेखाश्चाङ्गुष्ठमूलगाः
बृहत्यः पुत्रास्तन्व्यस्तु प्रमदाः परिकीर्तिताः ॥ १.६५.११० ॥
स्वल्पायुषो बहु (लघु) च्छिन्ना दीर्घाछिन्ना महायुषम्
शुभं तु लक्षणं स्त्रीणां प्रोक्तं त्वशुभमन्यथा ॥ १.६५.१११ ॥
कनिष्ठिकानामिका वा यस्या न स्पृशते महीम्
अङ्गुष्ठं वा गतातीत्य तर्जनी कुलटा च सा ॥ १.६५.११२ ॥
ऊर्ध्वं द्वाभ्यां पिण्डिकाभ्यां जङ्घे चातिशिरालके
रोमशेचातिमांसे च कुम्भाकारं तथोदरम् ॥ १.६५.११३ ॥
वामावर्तं निम्नमल्पं दुः खितानां च गुह्यकम्
ग्रीवया ह्रस्वया निः स्वा दीर्घया च कुलक्षयः ॥ १.६५.११४ ॥
पृथुलया प्रचण्डाश्च स्त्रियः स्युर्नात्र संशयः
केकरे पिङ्गले नेत्रे श्यामे लोलेक्षणा सती ॥ १.६५.११५ ॥
स्मिते कूपे गण्डयोश्च सा ध्रुवं व्यभिचारिणी
प्रलम्बिनी ललाटे तु देवरं हन्ति चाङ्गना ॥ १.६५.११६ ॥
उदरे श्वशुरं हन्ति पतिं हन्ति स्फिचोर्द्वयोः
या तु रोमोत्तरौष्ठी स्यान्न शुभा भर्तुरेव हि ॥ १.६५.११७ ॥
स्तनौ सरोमावशुभौ कर्णौ च विषमौ तथा
कराला विषमा दन्ताः क्लेशाय च भवन्ति ते ॥ १.६५.११८ ॥
चौर्याय कृष्णमांसाश्च दीर्घा भुर्तुश्च मृत्यवे
क्रव्यादरूपैर्हस्तैश्च वृककाकादिसन्निभैः ॥ १.६५.११९ ॥
शिरालैर्विषमैः शुष्कैर्वित्तहीना भवन्ति हि
समुन्नतोत्तरेष्ठी या कलहे रूक्षभाषिणी ॥ १.६५.१२० ॥
स्त्रीषु दोषा विरूपासु पत्राकारो गुणास्ततः
नरस्त्रीलक्षणं प्रोक्तं वक्ष्ये तज्ज्ञानदायकम् ॥ १.६५.१२१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके स्त्रीनरलक्षणं नाम पञ्चषष्टितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ६६
हरिरुवाच
निर्लक्षणा शुभा स्याच्च चक्राङ्कितशिलार्चनात्
आदौ सुदर्शनो मूर्तिर्लक्ष्मीनारायणः परः ॥ १.६६.१ ॥
त्रिचक्रोऽसावच्युतः स्याच्चतुश्चक्रश्चतुर्भुजः
वासुदेवश्च प्रद्युम्नस्ततः सङ्कर्षणः स्मृतः ॥ १.६६.२ ॥
पुरुषोत्तमश्चाष्टमः स्यान्नव्यूहो दशात्मकः
एकादशोऽनिरुद्धः स्याद्द्वादशो द्वादशात्मकः ॥ १.६६.३ ॥
अत ऊर्ध्वमनन्तः स्याच्छक्रे रेकादिकैः क्रमात्
सुदर्शना लक्षिताश्च पूजिताः सर्वकामदाः ॥ १.६६.४ ॥
शालग्रामशिला यत्र देवो द्वारवतीभवः
उभयोः संगमो यत्र तत्र मुक्तिर्न संशयः ॥ १.६६.५ ॥
शालग्रामो द्वारका च नैमिषं पुष्करं गया
वाराणसी प्रयागश्च कुरुक्षेत्रं च सूकरम् ॥ १.६६.६ ॥
गङ्गा च नर्मदा चैव चन्द्रभागा सरस्वती
पुरुषोत्तमो महाकालस्तीर्थान्येतानि शङ्कर ॥ १.६६.७ ॥
सर्वपापहराण्येव भुक्तमुक्तिप्रदानि वै
प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः ॥ १.६६.८ ॥
अङ्गिराः श्रीमुखो भावः युवा धाता तथैव च
ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो विषुः ॥ १.६६.९ ॥
चित्रभानुः स्वबानुश्च तारणः पार्थिवो व्ययः
सर्वजित्सर्वधारी च विरोधी विकृतिः खरः ॥ १.६६.१० ॥
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ
हेमलम्बो विलंबश्च विकारः शर्वरी प्लवः ॥ १.६६.११ ॥
शुभकृच्छोभनः क्रोधी विश्वावमुपराभवौ
प्लवङ्गः कीलकः सौम्यः साधारणविरोधकृत् ॥ १.६६.१२ ॥
परिधावी प्रमादी च आनन्दो राक्षसो नलः
पिङ्गलः कालसिद्धार्थौ रौद्रिर्वै दुर्मतिस्तथा ॥ १.६६.१३ ॥
दुन्दुभी रुधिरोद्गारी रक्ताक्षः क्रोधनोऽक्षयः
अशोभनाः शोभनाश्च नाम्नैवैते हि वत्सराः ॥ १.६६.१४ ॥
कालं वक्ष्यामि संसिद्ध्यै रुद्र पञ्चस्वरोदयात्
राजा सा(मा) जा उदासा च पीडा मृत्युस्तथैव च ॥ १.६६.१५ ॥
आ ई ऊ ऐ औ स्वरांश्च लिखेत्पञ्चाग्निकोष्ठके
ऊर्ध्वतिर्यग्गतै रेखैः षड्वह्निक्रममागतैः ॥ १.६६.१६ ॥
तिथी एका ग्निकोष्ठेषु त्रयो राजाथ सा (मा) जयाः
उदासामृत्युपीडाश्च कुजः सोमसुतः क्रमात् ॥ १.६६.१७ ॥
गुरुशुक्रौ च मन्दश्च रविचन्द्रौ यथोदितम्
रेवत्यादिमृगान्ताश्च ऋक्षाणि प्रथमा कला ॥ १.६६.१८ ॥
पञ्चपञ्चान्यत्र भानि चैत्राद्य उदयस्तथा
द्वादशाहैर्द्वयोर्मासनाम्नोराद्यक्षरं तथा ॥ १.६६.१९ ॥
कलालिङ्गा च या तिष्ठेत्पञ्चमस्तस्य वै मृतिः
कला तिथिस्तथा वारो नक्षत्रं मासमेव च ॥ १.६६.२० ॥
नामोदयस्य पूर्वं च तथा भवति नान्यथा
ओं क्षैं (क्षौः) शिवाय नमः ॥ १.६६.२१ ॥
क्षामाद्यङ्गशिवामीक्षा विषग्रहमतिर्हर
त्रैलोक्यमोहनं बीजं नृसिंहस्य तु पद्म(न्न)गम् ॥ १.६६.२२ ॥
मृत्युञ्जयो गणो लक्ष्मी रोचनाद्यैस्तु लेखितः
भूर्जे तु धारिताः कण्ठे बाहौ चेति जयादिदाः ॥ १.६६.२३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे शालग्रामषष्ट्यूब्दस्वरोदयानां निरूपणं नाम षट्षष्टितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ६७
(इति ज्योतिः शास्त्रं समाप्तम्)
सूत उवाच [SUTA SAID]
हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत् ॥ १.६७.१ ॥
कुजो वह्नी रविः पृथ्वी सौरिरापः प्रकीर्तितः
वायुसंस्थास्थितो राहुर्दक्षरन्ध्रावभासकः ॥ १.६७.२ ॥
गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः
वामनाडीं तु मध्यस्थां कारयेदात्मनस्तथा ॥ १.६७.३ ॥
यदाचर इलायुक्तस्तदा कर्मसमाचरेत्
स्थानसेवां तथा ध्यानं वाणिज्यं राजदर्शनम् ॥ १.६७.४ ॥
अन्यानि शुभकर्माणि कारयेत प्रयत्नतः
दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैहिकः ॥ १.६७.५ ॥
इनश्चैव तथाप्ये पापानामुदयो भवेत्
शुभाशुभविवेको हि ज्ञायते तु स्वरोदयात् ॥ १.६७.६ ॥
देहमध्ये स्थिता नाड्यो बहुरूपाः सुविस्तराः
नाभेरधस्ताद्यः कन्दस्त्वङ्कुरास्तत्र निर्गताः ॥ १.६७.७ ॥
द्विसप्ततिसहस्राणि नाभिमध्ये व्यवस्थिते
चक्रवच्च स्थितास्तास्तु सर्वाः प्राणहराः स्मृताः ॥ १.६७.८ ॥
तासां मध्ये त्रयः श्रेष्ठा वामदक्षैणमध्यमाः
वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा ॥ १.६७.९ ॥
मध्यमा च भवेदग्निः फलन्ती कालपूरिणी
वामा ह्यमृतरूपा च जगदाप्यायने स्थिता ॥ १.६७.१० ॥
दक्षिणा रौद्रभागेन जगच्छोषयते सदा
द्वयोर्वाहे तु मृत्युः स्यात्सर्वकार्यविनाशिनी ॥ १.६७.११ ॥
निर्गमे तु भवेद्वामा प्रवेशे दक्षैणा स्मृता
इडाचारे तथा सौम्यं चन्द्रसूर्यगतस्तथा ॥ १.६७.१२ ॥
कारयेत्क्रूर कर्माणि प्राणे पिङ्गलसंस्थिते
यात्रायां सर्वकार्येषु विषापहारणे इडा ॥ १.६७.१३ ॥
भोजने मैथुने युद्धे पिङ्गला सिद्धिदायिका
उच्चाटमारणाद्येषु कर्मस्वेतेषु पिङ्गला ॥ १.६७.१४ ॥
मैथुने चैव संग्रामे भोजने सिद्धिदायिका
शोभनेषु च कार्येषु यात्रायां विषकर्मणि ॥ १.६७.१५ ॥
शान्तिमुक्त्यर्थसिद्ध्यै च इडा योज्या नराधिपैः
द्वाभ्यां चैव प्रवाहे च क्रूरसौम्यविवर्जने ॥ १.६७.१६ ॥
विषवत्तं तु जानीयात्संस्मरेत्तु विचक्षणः
सौम्यादिशुभकार्येषु लाभादिजयजीविते ॥ १.६७.१७ ॥
गमनागमने चैव वामा सर्वत्र पूजिता
युद्धादिभोजने घाते स्त्रीणां चैव तु संगमे ॥ १.६७.१८ ॥
प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्मणि
शुभाशुभानि कार्याणि लाभालाभौ जयाजयौ ॥ १.६७.१९ ॥
जीवाजीवाय यत्पृच्छेन्न सिध्यति च मध्यमा
वामाचारेऽथवा दक्षे प्रत्यये यत्र नायकः ॥ १.६७.२० ॥
तनुस्थः पृच्छते यस्तु तत्र सिद्धिर्न संशयः
वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि ॥ १.६७.२१ ॥
तत्र भागे स्थितः पृच्छेत्सिद्धिर्भवति निष्फला
वामे वा दक्षिणे वापि यत्र संक्रमते शिवा ॥ १.६७.२२ ॥
घोरे घोराणि कार्याणि सौम्ये वै मध्यमानि च
प्रस्थिते भागतो हंसे द्वाभ्यां वै सर्ववाहिनी ॥ १.६७.२३ ॥
तदा मृत्युं विजानीयाद्योगी योगविशारदः
यत्रयत्र स्थितः पृच्छेद्वामदक्षिणसंमुखः ॥ १.६७.२४ ॥
तत्रतत्र समं दिश्याद्वातस्योदयनं सदा
अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा ॥ १.६७.२५ ॥
वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा
वामे वामा शुभे चैव दक्षिणे दक्षिणा शुभा ॥ १.६७.२६ ॥
जीवो जीवति जीवेन यच्छून्यं तस्त्वरो भवेत्
यत्किञ्चित्कार्यमुद्दिष्टं जयादिशुभलक्षणम् ॥ १.६७.२७ ॥
तत्सर्वं पूर्णनाड्यां तु जायते निर्विकल्पतः
अन्यनाड्यादिपर्यन्तं पक्षत्रयमुदाहृतम् ॥ १.६७.२८ ॥
यावत्षष्ठी तु पृच्छायां पूर्णायां प्रथमो जयेत्
रिक्तायां तु द्वितीयस्तु कथयेत्तदशङ्कितः ॥ १.६७.२९ ॥
वामाचारसमो वायुर्जायते कर्मसिद्धिदः
प्रवृत्ते दक्षिणे मार्गे विषमे विषमाक्षरम् ॥ १.६७.३० ॥
अन्यत्र वामवाहे तु नाम वै विषमाक्षरम्
तदासौ जयमाप्नोति योधः संग्राममध्यतः ॥ १.६७.३१ ॥
दक्षवातप्रवाहे तु यदि नाम समाक्षरम्
जा(ज) यते नात्र सन्देहो नाडीमघ्ये तु लक्षयेत् ॥ १.६७.३२ ॥
पिङ्गलान्तर्गते प्राणे शमनीयाहवं जयेत्
यावन्नाड्युदयं चारस्तां दिशं यावदापयेत् ॥ १.६७.३३ ॥
न दातुं जायते सोऽपि नात्र कार्या विचारणा
अथ संग्राममध्ये तु यत्र नाडी सदा वहेत् ॥ १.६७.३४ ॥
सा दिशा जयमाप्नोति शून्ये भङ्गं विनिर्दिशेत्
जातचारे जयं विद्यान्मृतके मृतमादिशेत् ॥ १.६७.३५ ॥
जयं पराजयं चैव यो जानाति स पण्डितः
वामे वा दक्षिणे वापि यत्र सञ्चरते शिवम् ॥ १.६७.३६ ॥
कृत्वा तत्पदमाप्नोति यात्रा सन्ततशोभना
शशिसूर्यप्रवाहे तु सति युद्धं समाचरेत् ॥ १.६७.३७ ॥
यस्तु पृच्छति तत्रस्थः स साधुर्जयतिध्रुवम्
यां दिशं वहते वायुस्तां दिशं यावदाजयः ॥ १.६७.३८ ॥
जायते नात्र सन्देह हन्द्रो यद्यग्रतः स्थितः
मेष्याद्या दश या नाड्यो दक्षिणा वाम संस्थिताः ॥ १.६७.३९ ॥
चरेस्थिरे तद्विमार्गे तादृशेतादृशे क्रमात्
निर्गमे निर्गमं याति संग्रहे संग्रहं विदुः ॥ १.६७.४० ॥
पृच्छकस्य वचः श्रुत्वा घण्टाकारेण लक्षयेत्
वामे वा दक्षिणे वापि पञ्चतत्त्वस्थितः शिवे ॥ १.६७.४१ ॥
ऊर्ध्वेऽग्निरध आपश्च तिर्यक्संस्थः प्रभञ्जनः
मध्ये तु पृथिवी ज्ञेया नभः सर्वत्र सर्वदा ॥ १.६७.४२ ॥
ऊर्ध्वे मृत्युरधः शान्तिस्तिर्यक्चोच्चाटयेत्सुधीः
मध्ये स्तम्भं विजानीयान्मोक्षः सर्वत्र सर्वगे ॥ १.६७.४३ ॥

इति श्रीगारुडेमहापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्वरोदये शुभाशुभनिरूपणं नाम सप्तषष्टितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ६८
सूत उवाच [SUTA SAID]
परिक्षां वच्मिरत्नानां बलो नामासुरोऽभवत्
इन्द्राद्या निर्जितास्तेन विजेतुं तैर्न शक्यते ॥ १.६८.१ ॥
वरव्याजेन पशुतां याचितः स सुरैर्मखे
बलो ददौ स (स्व) पशुतामतिसत्त्व सुरैर्हतः ॥ १.६८.२ ॥
पशुवत्स विशस्तस्तैः स्ववाक्याशनियन्त्रितः
बलो लोकोपराय देवानां हितकाम्यया ॥ १.६८.३ ॥
तस्य सत्त्वविशुद्धस्य विशुद्धेन च कर्मणा
कायस्यावयवाः सर्वे रत्नबीजत्वमाययुः ॥ १.६८.४ ॥
देवानामथ यक्षाणां सिद्धानां पवनाशिनाम्
रत्नबीजंस्व(जम)यं ग्राहः सुमहानभवत्तदा ॥ १.६८.५ ॥
तेषां तु पततां वेगाद्विमानेन विहायसा
यद्यत्पपात रत्नानां बीजं क्रचन किञ्चन ॥ १.६८.६ ॥
महोदधौ सरिति वा पवर्त काननेऽपि वा
तत्तदाकरतां यातं स्थानमाधेयगौरवात् ॥ १.६८.७ ॥
तेषु रक्षोविषव्यालव्याधिघ्नान्यघहानि च
प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥ १.६८.८ ॥
वज्रं मुक्तामणयः सपद्मरागाः समरकताः प्रोक्ताः
अपि चेन्द्रनीलमणिवरवैदूर्याः पुष्परागाश्च ॥ १.६८.९ ॥
कर्केतनं सपुलकं रुधिराख्यसमन्वितं तथा स्फटिकम्
विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः ॥ १.६८.१० ॥
आकारवर्णौ प्रथमं गुणदोषौ तत्फलं परीक्षा च
मूल्यं च रत्नकुशलैर्विज्ञेयं सर्वशास्त्राणाम् ॥ १.६८.११ ॥
कुलग्नेषूपजायन्ते यानि चोपहतेऽहनि
दौषैस्तान्यपियुज्यन्ते हीयन्ते गुणसम्पदा ॥ १.६८.१२ ॥
परीक्षापरिशुद्धानां रत्नानां पृथिवीभुजा
धारणं संग्रहो वापि कार्यः श्रियमभीप्सता ॥ १.६८.१३ ॥
शास्त्रज्ञः कुशलाश्चापि रत्नभाजः परीक्षकाः
त एव मूल्यमात्राया वेत्तारः परिकीर्तिताः ॥ १.६८.१४ ॥
महा प्रभावं विबुधैर्यस्यमाद्वज्रमुदाहृतम्
वज्रपूर्वा परीक्षेयं ततोऽस्माभिः प्रकीर्त्यते ॥ १.६८.१५ ॥
तस्यास्थिलेशो निपपात येषु भुवः प्रदेशेषु कथञ्चिदेव
वज्राणि वज्रायुधनिर्जिगीषोर्भवन्ति नानाकृतिमन्ति तेषु ॥ १.६८.१६ ॥
हैममातङ्गसौराष्ट्राः पौण्ड्रकालिङ्गकोसलाः
वेण्वातटाः ससौवीरा वज्रस्याष्ट विहारकाः ॥ १.६८.१७ ॥
आताम्रा हिमशैलजाश्च शशिभा वेण्वातटीयाः स्मृताः सौवीरे त्वसिताब्जमेघसदृशास्ताभ्राश्च सौराष्ट्रजाः
कालिङ्गाः कन कावदातरुचिराः पीतप्रभाः कोसले श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्तपीतप्रभाः ॥ १.६८.१८ ॥
अत्यर्थं लघु वर्णतश्च गुणवत्पार्श्वेषु सम्यक्समंरेखाबिन्दुकलङ्ककाकपदकत्रासादिभिर्वर्जितम्
लोकेऽस्मिन्परामाणुमात्रमपि यद्वज्रं क्रचिद्दृश्यते तस्मिन्देवसमाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं यदि ॥ १.६८.१९ ॥
वज्रेषु वर्णयुक्त्या देवानामपि विग्रहः प्रोक्तः
वर्णेभ्यश्च विभागः कार्यो वर्णाश्रयादेव ॥ १.६८.२० ॥
हरितसितपीतपिङ्गश्यामास्ताम्राः स्वभावतो रुचिराः
हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वका वर्णाः ॥ १.६८.२१ ॥
विप्रस्य शङ्खकुमुदस्फटिकावदातः स्यात्क्षत्त्रियस्य शशबभ्रुविलोचनाभः
वैश्यस्य कान्तकदलीदलसन्निकाशः शूद्रस्य धौतकरवालसमानदीप्तिः ॥ १.६८.२२ ॥
द्वौ वज्रवर्णौ पृथिवीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ
यः स्याज्जवाविद्रुमभङ्गशोणो यो वा हरिद्रारसन्निकाशः ॥ १.६८.२३ ॥
ईशत्वात्सर्ववर्णानां गुणवत्सार्बवर्णिकम्
कामतो धारयेद्राजा न त्वन्योऽन्यत्कथञ्चन ॥ १.६८.२४ ॥
अधरोत्तरवृत्तया हि यादृक्स्याद्वर्णसङ्करः
ततः कष्टतरो वज्रवर्णानां सङ्करो मतः ॥ १.६८.२५ ॥
न च मार्गविभागमात्रवृत्त्या विदुषा वज्रपरिग्रहो विधेयः
गुणवद्गुणसम्पदां विभूतिर्विपरीतो व्यसनोदयस्य हेतुः ॥ १.६८.२६ ॥
एकमपि यस्य शृङ्गं विदलितमवलोक्यते विशीर्णं वा
गुणवदपि तन्न धार्यं वज्रं श्रेयोऽर्थिभिर्भवने ॥ १.६८.२७ ॥
स्फुटिताग्निवि शीर्णशृङ्गदेशं मलवर्णैः पृषतैरुपेतमध्यम्
न हि वज्रभृतोऽपि वज्रमाशु श्रियमप्याश्रयलालसां न कुर्यात् ॥ १.६८.२८ ॥
यस्यैकदेशः क्षतजावभासो यद्वा भवेल्लोहितवर्णचित्रम्
न तन्न कुर्याद्ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥ १.६८.२९ ॥
कोट्यः पार्श्वनि धाराश्च षडष्टौ द्वादशेति च
उत्तुङ्गसमतीक्ष्णाग्राः वज्रस्याकरजा गुणाः ॥ १.६८.३० ॥
षट्कोटि शुद्वममलं स्फुटतीक्ष्णधारं वर्णान्वितं लघु सुपार्श्वमपेतदोषम्
इन्द्रायुधांशुविसृतिच्छुरितान्तरिक्षमेवंविधं भुवि भवेत्सुलभं न वज्रम् ॥ १.६८.३१ ॥
तीक्ष्णाग्रं विमलमपेतसर्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम्
वृद्धिस्तं प्रतिदिनमेति यावदायुः स्त्रीसम्पत्सुतधनधान्यगोदशूनाम् ॥ १.६८.३२ ॥
व्यालवह्निविषव्याघ्रतस्कराम्बुभयानि च
दूरात्तस्य निवर्तन्ते कर्माण्याथर्वणानि च ॥ १.६८.३३ ॥
यदि वज्रमपेतसर्वदोषं बिभृयात्तण्डुलविंशतिं गुरुत्वे
मणिशास्त्रविदो वदन्ति तस्य द्विगुणं रूपकलक्षमग्रमूल्यम् ॥ १.६८.३४ ॥
त्रिभागहीनार्धतदर्धशेषं त्रयोदशं त्रिंशदतोर्ऽद्धभागाः
अशीतिभागोऽथ शतांशभागः सहस्रभागोऽल्पसमानयोगः ॥ १.६८.३५ ॥
यत्तण्डुलैर्द्वादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं प्रदिष्टम्
द्वाभ्यां क्रमाद्वानिमुपागतस्य त्वेकावमानस्य विनिश्चयोऽयम् ॥ १.६८.३६ ॥
न चापि तण्डुलैरेव वज्राणां धरणक्रमः
अष्टाभिः सर्षपैर्गैरैस्तंण्डुलं परिकल्पयेत् ॥ १.६८.३७ ॥
यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि
रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥ १.६८.३८ ॥
अल्पेनापि हि दोषेण लक्ष्यालक्ष्येण द्वषितम्
स्व (स) मूल्याद्दशमं भागं वज्रं लभति मानवः ॥ १.६८.३९ ॥
प्रकटानेकदोषस्य स्वल्पस्य महतोऽपि वा
स्व (सु) मूल्याच्छतशो भागो वज्रस्य न विधीयते ॥ १.६८.४० ॥
स्पष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते
रत्नानां परिकर्मार्थं मूल्यं तस्य भवेल्लघु ॥ १.६८.४१ ॥
प्रथमं गुणसम्पदाभ्युपेतं प्रतिबद्धं समुपैति यच्च दोषम्
अलमाभरणेन तस्य राज्ञो गुणहीनोऽपि मणिर्न भूषणाय ॥ १.६८.४२ ॥
नार्या वज्रमधार्यं गुणवदपि सुतप्रसूतिमिच्छन्त्या
अन्यत्र दीर्घाचिपिटत्र्यश्राद्यगुणैर्वियुक्ताच्च ॥ १.६८.४३ ॥
अयसा पुष्परागेण तथा गोमेदकेन च
वैदूर्यस्फटिकाभ्यां च काचैश्चापि पृथग्विधैः ॥ १.६८.४४ ॥
प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशला जनाः
परीक्षा तेषु कर्तव्या विद्वद्भिः सुपरीक्षकैः ॥ १.६८.४५ ॥
क्षारोल्लेखनशाणाभिस्तेषां कार्यं परीक्षणम्
पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ॥ १.६८.४६ ॥
सर्वाणि विलिखेद्वज्रं तच्च तैर्न विलिख्यते
गुरुता सर्वरत्नानां गौरवाधारकारणम् ॥ १.६८.४७ ॥
वज्रे तां वैपरीत्येन सूरयः परिचक्षते
जातिरजातिं विलिखति जातिं विलिखन्ति वज्रकुरुविन्दाः ॥ १.६८.४८ ॥
वज्रैर्वज्रं विलिखति नान्येन विलिख्यते वज्रम्
वज्राणि मुक्तामणयो ये च केचन जातयः ॥ १.६८.४९ ॥
न तेषां प्रतिबद्धानां भा भवत्यूर्ध्वगामिनी
तिर्यक्क्षतत्वात्केषाञ्चित्कथञ्चिद्यदि जायते
तिर्यग्विलिख्यमानानां सा (स) पार्श्वेषु विहन्यते ॥ १.६८.५० ॥
यद्यपि विशीर्णकोटिः सबिन्दुरेखान्वितो विवर्णो वा
तदपि धनधान्यपुत्रान्करोति सेन्द्रायुधो वज्रः ॥ १.६८.५१ ॥
सौदा मिनीविस्फुरिताभिरामं राजा यथोक्तं कलिशं दधानः
पराक्रमाक्रान्तपरप्रतापः समस्तसामन्तभुवं भुनक्ति ॥ १.६८.५२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रत्नतद्विशेषवज्रपरीक्षणादिवर्णनं नामाष्टषष्टितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ६९
सूत उवाच [SUTA SAID]
द्विपेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि
मुक्ताफलानि प्रथितानि लोके तेषां च शुक्त्युद्भवमेव भूरि ॥ १.६९.१ ॥
तत्रैव चैकस्य हि मूलमात्र निविश्यते रत्नपदस्य जातु
वेध्यं तु शुक्तयुद्भवमेव तेषां शेषाण्यवेध्यानि वदन्ति तज्ज्ञाः ॥ १.६९.२ ॥
त्वक्सारनागेन्द्रतिमिप्रसूतं यच्छङ्खजं यच्च वरा हजातम्
प्रायो विमुक्तानि भवन्ति भासा शस्तानि माङ्गल्यतया तथापि ॥ १.६९.३ ॥
या मौक्तिकानामिह जातयेऽष्टौ प्रकीर्तिता रत्नविनिश्चयज्ञैः
कम्बूद्भवं तेष्वधमं प्रदिष्टमुत्पद्यते यच्च गजेन्द्रकुम्भात् ॥ १.६९.४ ॥
स्वयोनिमद्यच्छवितुल्यवर्णं शाङ्खं बृहल्लोलफलप्रमाणम्
उत्पद्यते वारणकुम्भमध्यादापीतवर्णं प्रभया विहीनम् ॥ १.६९.५ ॥
ये कम्बवः शार्ङ्गमुखावमर्शपीतस्य शङ्खप्रवरस्य गोत्रे
मतङ्गजाश्चापि विशुद्धवंश्यास्ते मौक्तिकानां प्रभवाः प्रदिष्टाः ॥ १.६९.६ ॥
उत्पद्यते मौक्तिकमेषु वृत्तमापीतवर्णं प्रभया विहीनम्
पाठीनपृष्ठस्य समानवर्णं मीनात्सुवृत्तं लघु चातिसूक्ष्मम् ॥ १.६९.७ ॥
उत्पद्यते वारिचराननेषु मत्स्याश्चे ते मध्यचराः पयोधेः
वराहदंष्ट्राप्रभवं प्रदिष्टं तस्यैव दंष्ट्राङ्कुरतुल्यवर्णम् ॥ १.६९.८ ॥
क्रचित्कथञ्चित्स भुवः प्रदेशे प्रजायते सूकरराड्विशिष्टः
वर्षोपलानां समवर्णशोभं त्वक्सारपर्वप्रभवं प्रदिष्टम् ॥ १.६९.९ ॥
ते वेणवो दिव्यजनोपभोग्ये स्थाने प्ररोहन्ति न सार्वजन्ये
भौजं गमं मीनविशुद्धवृत्तं संस्थानतोऽत्युज्ज्वलवर्णशोभम् ॥ १.६९.१० ॥
नितान्तधौतप्रविकल्पमाननिस्त्रिंशधारासमवर्णकान्ति
प्राप्यातिरत्नानि महाप्रभाणि राज्यं श्रियं वा महतीं दुरापाम् ॥ १.६९.११ ॥
तेजोऽन्विताः पुण्यकृतो भवन्ति मुक्ताफलस्याहिशिरोभवस्य
जिज्ञासया रत्नधनं विधिज्ञैः शुभेमुहूर्ते प्रयतैः प्रयत्नात् ॥ १.६९.१२ ॥
रक्षाविधानं सुमहद्विधाय हर्म्योपरिष्ठं क्रियते यदा तत्
तदा महादुन्दुभिमन्द्रघोषैर्विद्युल्लताविस्फुरितान्तरालैः ॥ १.६९.१३ ॥
पयोधराक्रान्तिविलम्बिनम्रैर्घनैर्नवैराव्रियतेऽन्तरिक्षम्
न तं भुजङ्गा न तु यातुधाना न व्याधयो नाप्युपसर्गदोषाः ॥ १.६९.१४ ॥
हिंसन्ति यस्याहिशिरः समुत्थं मुक्ताफलं तिष्ठति कोशमध्ये
नाभ्येति मेघप्रभवं धरित्रीं विप्रद्गतं तद्विबुधा हरन्ति ॥ १.६९.१५ ॥
अर्चिः प्रभानावृतदिग्विभागमादित्यवहुः खविभाव्यबिम्बम्
तेजस्तिरस्कृत्य हुताशनेन्दुनक्षत्रताराप्रभवं समग्रम् ॥ १.६९.१६ ॥
दिवा यथा दीर्प्तिङ्करं तथैव तमोऽवगाढास्वपि तन्निशासु
विचित्ररत्नद्युतिचारुतोया चतुः समुद्राभरणोपपन्ना ॥ १.६९.१७ ॥
मूल्यं न वा स्यादिति निश्चयो मे कृत्स्ना मही तस्य मुवर्णपूर्णा
हीनोऽपियस्तल्लभते कदाचिद्विपाकयोगान्महतः शुभस्य ॥ १.६९.१८ ॥
सापत्न्यहीनां स महीं समग्रां भुनक्ति तत्तिष्ठति यावदेव
न केवलं तच्छुभकृन्नृपस्य भाग्यैः प्रजानामपि तस्य जन्म ॥ १.६९.१९ ॥
तद्योजनानां परितः सहस्रं सर्वाननर्थान्विमुखी करोति
नक्षत्रमालेव दिवो विशीर्णा दन्तावलिस्तस्य महामुरस्य ॥ १.६९.२० ॥
विचित्रवर्णेषु विशुद्धवर्णा पयः सु पत्युः पयसां पपात
सम्पूर्णचन्द्रांशुकलापकान्तेर्माणिप्रवेकस्य महागुणस्य ॥ १.६९.२१ ॥
तच्छुक्तिमत्सु स्थितिमाप बीजमासन्पुराप्यन्यभवानि यानि
यस्मिन्प्रदेशेऽम्बुनिधौ पपात सुचारुमुक्तामणिरत्नबीजम्
तस्मिन्पयस्तोयधरावकीर्णं शुक्तौ स्थितं मौक्तिकतामवाप ॥ १.६९.२२ ॥
सैंहलिकपारलौकिकसौराष्ट्रिकताम्रपर्णपारशवाः
कौवेरपाण्ड्यहाटकहेमकमित्याकरास्त्वष्टौ ॥ १.६९.२३ ॥
शुक्त्युद्भवं नातिनिकृष्टवर्णं प्रमाणसंस्थानगुणप्रभाभिः
उत्पद्यते वर्धनपारसीकपाताललोकान्तरसिंहलेषु ॥ १.६९.२४ ॥
चिन्त्या न तस्याकरजा विशेषा रूपे प्रमाणे च यतेत विद्वान्
न च व्यवस्थास्ति गुणागुणेषु सर्वत्र सर्वाकृतयो भवन्ति ॥ १.६९.२५ ॥
एतस्य शुक्तिप्रभस्य मुक्ताफलस्य चान्येन समुन्मितस्य
मूल्यं सहस्राणि तु रूपकाणां त्रिभिः शतैरप्याधिकानि पञ्च ॥ १.६९.२६ ॥
यन्माषकार्धेन ततो विहीनं तत्पञ्चभागद्वयहीनमूल्यम्
यन्माषकांस्त्रीन्बिभृयात्सहस्रे द्वे तस्य मूल्यं परमं प्रदिष्टम् ॥ १.६९.२७ ॥
अर्धाधिकौ द्वौ वहतोऽस्य मूल्यं त्रिभिः शतैरप्यधिकं सहस्रम्
द्विमाष कोन्मानितगौरवस्य शतानि चाष्टौ कथितानि मूल्यम् ॥ १.६९.२८ ॥
अर्धाधिकं माषकमुन्मितस्य समं च विंशत्रितयं शतानाम्
गुञ्जाश्च षड्धारयतः शते द्वे मूल्यं परं तस्य वदन्ति तज्ज्ञाः
अध्यर्धमुन्मान(प) कृतं शतं स्यान्मूल्यं गुणैस्तस्य समन्वितस्य ॥ १.६९.२९ ॥
यदि षोडशभिर्भवेदनूनन्धरणं तत्प्रवदन्ति दार्विकाख्यम्
अधिकं दशभिः शतं च मूल्यं समवाप्नोत्यपि बालिशस्य हस्तात् ॥ १.६९.३० ॥
द्विगुणैर्दशभिर्भवेदनूनं धरणं तद्भवकं वदन्ति तज्ज्ञाः
नवसप्ततिमाप्नुयात्स्वमूल्यं यदि न स्याद्गुणसम्पदा विहीनम् ॥ १.६९.३१ ॥
त्रिंशता धरणं पूर्णं शिक्यं तस्येति कीर्त्यते
चत्वारिंशद्भवेत्तस्याः परं मूल्यं विनिश्चयः ॥ १.६९.३२ ॥
चत्वारिंशद्र भवेत्तस्यास्त्रिंशन्मूल्यं लभेत्सा
पञ्चाशत्तु भवेत्सोमस्तस्य मूल्यं तु विंशतिः ॥ १.६९.३३ ॥
षष्टिर्निकरशीर्षं स्यात्तस्या मूल्यं चतुर्दश
अशीतिर्नवतिश्चैव कूप्येति परिकीर्तिता
एकादश स्यान्नव च तयोर्मूल्यमनुक्रमात् ॥ १.६९.३४ ॥
आदाय तत्सकलमेव ततोऽन्नभाण्डं जम्बीरजातरसयोजनया विपक्रम्
घृष्टं ततो मृदुतनूकृतपिण्डमूलैः कुर्याद्यथेष्टमनु मौक्तिकमाशु विद्धम् ॥ १.६९.३५ ॥
मृल्लिप्तमत्स्यपुटमध्यगतं तु कृत्वा पश्चात्पचेत्तनु ततश्च बिडालपुट्या
दुग्धे ततः पयसि तं विपचेत्सुधायां पक्रं ततोऽपि पयसा शुचिचिक्रणेन ॥ १.६९.३६ ॥
शुद्धं ततो विमलवस्त्रनिघर्षणेन स्यान्मौक्तिकं विपुलसद्गुणकान्तियुक्तम्
व्याडिर्जगाद जगतां हि महाप्रभावः सिद्धो विदग्धहिततत्परया दयालुः ॥ १.६९.३७ ॥
श्वेतकाचसमं तारं हेमांशशतयोजितम्
रसमध्ये प्रधार्येत मौक्तिकं देहभूषणम् ॥ १.६९.३८ ॥
एवं हि सिंहले देशे कुर्वन्ति कुशला जनाः
यस्मिन्कृत्रैमसन्देहः क्रचिद्भवति मौक्तिके ॥ १.६९.३९ ॥
उष्णे सलवणे स्नेहे निशां तद्वासयेज्जले
व्रीहिभिर्मर्दनीयं वा शुष्कवस्त्रोपवेष्टितम् ॥ १.६९.४० ॥
यत्तु नायाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम्
सितं प्रमाणवत्स्निग्धं गुरु स्वच्छं सुनिर्मलम् ॥ १.६९.४१ ॥
तेजोऽधिकं सुवृत्तं च मौक्तिकं गुणवत्स्मृतम् ॥ १.६९.४२ ॥
प्रमाणवद्गौरवरश्मियुक्तं सितं सुवृत्तं समसूक्ष्मवेधम्
अक्रेतुरप्यावहति प्रमोदं यन्मौक्तिकं तद्गुणवत्प्रदिष्टम् ॥ १.६९.४३ ॥
एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात्
न तस्य भर्तारमनर्थजात एकोऽपि कश्चित्समुपैति दोषः ॥ १.६९.४४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मुक्ताफलप्रमाणादिवर्णनं नाम मुक्ताफलपरीक्षा नामैकोनसप्ततितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ७०
सूत उवाच [SUTA SAID]
दिवाकरस्तस्य महामहिम्नो महासुरस्योत्तमरत्नबीजम्
असृग्गृहीत्वा चरितुं प्रतस्थे निस्त्रिंशनीलेन नभः स्थलेन ॥ १.७०.१ ॥
जेत्त्रा सुराणां समरेष्वजस्त्रं वीर्यावलेपोद्धतमानसेन
लङ्काधिपेनार्धपथे समेत्य स्वर्भानुनेव प्रसभं निरुद्धः ॥ १.७०.२ ॥
तत्सिंहलीचारुनितम्बबिम्बविक्षो भितागाधमहाह्रदायाम्
पूगद्रुमाबद्धतटद्वयायां मुमोच सूर्यः सरिदुत्तमायाम् ॥ १.७०.३ ॥
ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया
नाम्ना रावणगङ्गेति प्रथिमानमुपागता ॥ १.७०.४ ॥
ततः प्रभृत्येव च शर्वरीषु कूलानि रत्नैर्निचितानि तस्याः
सुवर्णनाराचशतैरिवान्तर्बहिः प्रदीप्तैर्निशितानि भान्ति ॥ १.७०.५ ॥
तस्यास्तटेपूज्ज्वचारुरागा भवन्ति तोयेषु च पद्मरागाः
सौगन्धिकोत्थाः कुरुविन्दजाश्च महागुणाः स्फाटिकसंप्रसूताः ॥ १.७०.६ ॥
बन्धू कगुञ्जासकलेन्द्रगोपजवासमासृक्समवर्णशोभाः
भ्राजिष्णवो दाडिमबीजवर्णास्तथापरे किशुकपुष्पभासः ॥ १.७०.७ ॥
खिन्दुरपद्मोत्पलकुङ्कुमानां लाक्षारसस्यापि समानवर्णः
सांद्रेऽपि रागे प्रभया स्वयैव भान्ति स्वलक्ष्याः स्फुटमध्यशोभाः ॥ १.७०.८ ॥
भानोश्च भासामनुवेधयोगामासाद्य रशमि प्रकरेण दूरम्
पार्श्वानि सर्वाण्यनुरञ्जयन्ति गुणापपन्नाः स्फटिकप्रसूताः ॥ १.७०.९ ॥
कुसुंभनीलव्यतिमिश्ररागप्रत्युग्ररक्ताबुजतुल्यभासः
तथापरेऽरुष्करकण्टकारिपुष्पत्विषो हिङ्गुलवत्त्विषोऽन्ये ॥ १.७०.१० ॥
चकोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति केचित्
अन्ये पुनः सन्ति च पुष्पितानां तुल्यत्विषा कोकनदोत्तमानाम् ॥ १.७०.११ ॥
प्रभावकाठिन्यगुरुत्वयोगैः प्रायः समानाः स्फटिकोद्भवानाम्
आनीलरक्तोत्पलचारुभासः सौगन्धिकोत्था मणयो भवन्ति ॥ १.७०.१२ ॥
कामं तु रागः कुरुविन्दजेषु स नैव यादृक्स्फटिकोद्भवेषु
निरर्चिषोऽन्तर्बहुला भवन्ति प्रभाववन्तोऽपि नतैः समस्तैः ॥ १.७०.१३ ॥
ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः
पद्मरागघनं रागं बिभ्राणाः स्फटिकार्चिषः ॥ १.७०.१४ ॥
वर्णानुयायिनस्तेषा मान्ध्रदेशे तथा परे
न जायन्ते हि ये केचिन्मूल्यलेशमवाप्नुयुः ॥ १.७०.१५ ॥
तथैव स्फाटिकोत्थानां देशे तुम्बुरुसंज्ञके
सधर्माणः प्रजायन्ते स्वल्पमूल्या हि ते स्मृताः ॥ १.७०.१६ ॥
वर्णाधिक्यं गुरुत्वं च स्निग्धता समताच्छता
अर्चिष्मत्ता महत्ता च मणीनां गुणसंग्रहः ॥ १.७०.१७ ॥
ये कर्करच्छिद्रमलोपदिग्धाः प्रभाविमुक्ताः परुषा विवर्णाः
न ते प्रशस्ता मणयो भवन्ति समानतो जातिगुणैः समस्तैः ॥ १.७०.१८ ॥
दोषोपसृष्टं मणिमप्रबोधाद्विभर्ति यः कश्चन कञ्चिदेव
तं शोकचिन्तामयमृत्युवित्तनाशादयो दोषगणा भजन्ते ॥ १.७०.१९ ॥
कामं चारुतराः पञ्च जातीना प्रतिरूपकाः
विजा तयः प्रयत्नेन विद्वांस्तनुपलक्षयेत् ॥ १.७०.२० ॥
कलशपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तपाणीयाः
श्रीपूर्णकाश्च सदृशा विजातयः पद्मरागाणाम् ॥ १.७०.२१ ॥
तुषोपसर्गात्कलशाभिधानमाताम्रभावादपि तुम्बुरूत्थम्
कार्ष्ण्यात्तथा सिंहलदेशजातं मुक्ताभिधानं नभसः स्वभावात् ॥ १.७०.२२ ॥
श्रीपूर्णकं दीप्तिविनाकृतत्वाद्विजातिलिङ्गाश्रय एव भेदः
यस्ताम्रिकां पुष्यति पद्मरागो योगात्तुषाणामिव पूर्णमध्यः ॥ १.७०.२३ ॥
स्त्रेहप्रदिग्धः प्रतिभाति यश्च यो वा प्रघृष्टः प्रजहाति दीप्तिम्
आक्रान्तमूर्धा च तथाङ्गुलिभ्यां यः कालिकां पार्श्वगतां बिभर्ति ॥ १.७०.२४ ॥
संप्राप्य चोत्क्षिप्य यथानुवृत्तिं विभर्तियः सर्वगुणानतीव
तुल्यप्रमाणस्य च तुल्यजातेर्यो वा गुरुत्वेन भवेत्तु तुल्यः
प्राप्यापि रत्नाकरजा स्वजातिं लक्षेद्गुरुत्वेन गुणेन विद्वान् ॥ १.७०.२५ ॥
अप्रणश्यति सन्देहे शाणे तु परिलेखयेत्
सु(स्व) जातकसमुत्थेन लिखित्वापि परस्परम् ॥ १.७०.२६ ॥
वज्रं वा कुरुविन्दं वा विमुच्यानेन केनचित्
नाशक्यं लेखनं कर्तुं पद्मरागेन्द्रनीलयोः ॥ १.७०.२७ ॥
जात्यस्य सर्वेऽपि मणेर्न जातु विजातयः सन्ति समानवर्णाः
तथापि नानाकरणार्थमेव भेदप्रकारः परमः प्रदिष्टः ॥ १.७०.२८ ॥
गुणोपपन्नेन सहावबद्धोमेणिर्न धार्यो विगुणो हि जात्या
न कौस्तुभेनापि सहावबद्धं विद्वान्विजातिं बिभृयात्कदाचित् ॥ १.७०.२९ ॥
चाण्डाल एकोऽपि यथा द्विजातीन्समेत्य भूरीनपि हन्त्ययत्नात्
अथो मणीन्भूरिगुणोपपन्नाञ्छक्रोति विप्लावयितुं विजात्यः ॥ १.७०.३० ॥
सपत्नमध्येऽपि कृताधिवासं प्रमादवृत्तावपि वर्तमानम्
न पद्मरागस्य महागुणस्य भर्तारमापत्स्पृशतीह काचित् ॥ १.७०.३१ ॥
दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तं समभिद्रवन्ति
गुणैः समुत्तेजितचारुरागं यः पद्मरागं प्रयतो बिभर्ति ॥ १.७०.३२ ॥
वज्रस्य यत्तण्डुलसंख्ययोक्तं मूल्यं समुत्पादितगौरवस्य
तत्पद्मरागस्य महागुणस्य तन्माषकल्पाकलितस्य मूल्यम् ॥ १.७०.३३ ॥
वर्णदाप्त्यपपन्नं हि मणिरत्नं प्रशस्यते
ताभ्यामीषदपि भ्रष्टं मणिमूल्यात्प्रहीयते ॥ १.७०.३४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पद्मरागपरीक्षणं नाम सप्ततितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ७१
सूत उवाच [SUTA SAID]
दानवाधिपतेः पित्तमादाय भुजगाधिपः
द्विधा कुर्वन्निव व्योम सत्वरं वासुकिर्ययौ ॥ १.७१.१ ॥
स तदा स्वशिरोरत्नप्रभादीप्ते नभोऽम्बुधौ
राजतः समहानेकः खण्डसेतुरिवाबभौ ॥ १.७१.२ ॥
ततः पक्षनिपातेन संहरन्निव रोदसी
गरुत्मान्पन्नगेन्द्रस्य प्रहर्तुमुपचक्रमे ॥ १.७१.३ ॥
सहसैव मुमोच तत्फणीन्द्रः सुरसाभ्यक्ततुरुष्क (रष्क) पादपायाम्
कलिकाघनगन्धवासिता यां वरमाणिक्यगिरेरुपत्यकायाम् ॥ १.७१.४ ॥
तस्य प्रपातसमनन्तरकालमेव तद्वद्वरालयमतीत्य रमासमीपे
स्थानं क्षितेरुपपयोनिधितीरलेखंयां वरमाणिक्यगिरेरुपत्यकायाम् ॥ १.७१.५ ॥
तत्रैव किञ्चित्पततस्तु पित्तादुपेत्य जग्राह ततो गरुत्मान्
मूर्छापरीतः सहसैव घोणारन्ध्रद्वयेन प्रमुमोच सर्वम् ॥ १.७१.६ ॥
तत्राकठोरशुककण्ठशिरीषपुष्पखद्योतपृष्ठचरशाद्वलशैवलानाम्
कल्हारशष्पकभुजङ्गभुजाञ्च पत्रप्राप्तत्विषो मरकताः शुभदा भवन्ति ॥ १.७१.७ ॥
तद्यत्र भोगीन्द्रभुजाभियुक्तं पपात पित्तं दितिजाधिपस्य
तस्याकरस्यातितरां स देशो दुः खोपलभ्यश्च गुणैश्च युक्तः ॥ १.७१.८ ॥
तस्मिन्मरकतस्थाने यत्किञ्चिदुपजायते
तत्सर्वं विषरोगाणां प्रशमाय प्रकीर्त्यते ॥ १.७१.९ ॥
सर्वमन्त्रौ षधिगणैर्यन्न शक्यं चिकित्सितुम्
महाहिदंष्ट्राप्रभवं विषं तत्तेन शाम्यति ॥ १.७१.१० ॥
अन्यदप्याकरे तत्र यद्दोषैरुपवर्जितम्
जायते तत्पवित्राणामुत्तमं परिकीर्तितम् ॥ १.७१.११ ॥
अत्यन्तहरितवर्णं कोमलमर्चिर्विभेदजटिलं च
काञ्चनचूर्णस्यान्तः पूर्णमिव लक्ष्यते यच्च ॥ १.७१.१२ ॥
युक्तं संस्थानगुणैः समरागं गौरवेण न विहीनम्
सवितुः करसंस्पर्शाच्छुरयति सर्वाश्रमं दीप्त्या ॥ १.७१.१३ ॥
हित्वा च हरितभावं यस्यान्तर्विनिहिता भवेद्दीप्तिः
अचिरप्रभाप्रभाहतनवशाद्वलसन्निभा भाति ॥ १.७१.१४ ॥
यच्च मनसः प्रसादं विदधाति निरीक्ष्यमतिमात्रम्
नन्मरकतं महागणमिति रत्नविदां मनोवृत्तिः ॥ १.७१.१५ ॥
वर्णस्याति विभुत्वाद्यस्यान्तः स्वच्छकिरणपरिधानम्
सान्द्रस्निग्धविशुद्धं कोमलबर्हिप्रभादिसमकान्ति ॥ १.७१.१६ ॥
वर्णोज्ज्वलया कान्त्या सान्द्राकारो विभासया भाति
तदपि गुणवत्संज्ञामाप्नोति हि यादृशी पूर्वम् ॥ १.७१.१७ ॥
शबलकठोरमलिनं रूक्षं पाषाणकर्करोपेतम्
दिग्धं शिलाजतुना मरकतमेवंविधं विगुणम् ॥ १.७१.१८ ॥
यत्सन्धिशोषितं रत्नमन्यन्मरकताद्भवेत्
श्रेयस्कामैर्न तद्धार्यं क्रेतव्यं वा कतञ्चन ॥ १.७१.१९ ॥
भल्लातकी पुत्रिका च तद्वर्णसमयोगतः
मणेर्मरकतस्यैते लक्षणीया विजातयः ॥ १.७१.२० ॥
क्षौमेण वाससा मृष्टा दीप्तिं त्यजति पुत्रिका
लाघवेनैव काचस्य शक्या कर्तुं विभावना ॥ १.७१.२१ ॥
कस्यचिदनेकरूपैर्मरकतमनुगच्छतोऽपि गुणवर्णैः
भल्लातकस्यस्वनात्तु वैषम्यमुपैति वर्णस्य ॥ १.७१.२२ ॥
वज्राणि मुक्ताः सन्त्यन्ये ये च केचिद्द्विजातयः
तेषां नाप्रतिबद्धानां भा भवत्यूर्ध्वगामिनी ॥ १.७१.२३ ॥
ऋजुत्वाच्चैव केषाञ्चित्कथञ्चिदुपजायते
तिर्यगालोच्यमानानां सद्यश्चैव प्रणश्यति ॥ १.७१.२४ ॥
स्नानाचमनजप्येषु रक्षामन्त्रक्रियाविधौ
ददद्भिर्गोहिरण्यानि कुर्वद्भिः साधनानि च ॥ १.७१.२५ ॥
दैवपित्र्यातिथेयेषु गुरुसंपूजनेषु च
बाध्यमानेषु विविधैर्देषजातैर्विषोद्भवैः ॥ १.७१.२६ ॥
दौषैर्हेनं गुणैर्युक्तं काञ्चनप्रतियोजितम्
संग्रामे विचरद्भिश्च धार्यं मरकतं बुधैः ॥ १.७१.२७ ॥
तुलया पद्मरागस्य यन्मूल्यमुपजायते
लभतेऽभ्यधिकं तस्माद्गुणैर्मरकतं युतम् ॥ १.७१.२८ ॥
तथा च पद्मरागाणां दोषैर्मूल्यं प्रहीयते
ततोऽस्याप्यधिका हानिर्देषैर्मरकते भवेत् ॥ १.७१.२९ ॥

इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्ड मरकतपरीक्षणं नामैकसप्ततितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ७२
सूत उवाच [SUTA SAID]
तत्रैव सिंहलवधूकरपल्लवाग्रव्यालूनबाललवलीकुसुमप्रवाले
देशे पपात दितिजस्य नितान्तकान्तं प्रोत्फुल्लनीरजसमद्युति नेत्रयुग्मम् ॥ १.७२.१ ॥
तत्प्रत्ययादुभयशोभनवीचिभासा विस्तारिणी जलनिधेरुपकच्छभूमिः
प्रोद्भिन्नकेतकवनप्रतिबद्धलेखासान्द्रेन्द्रनीलमणिरत्नवती विभाति ॥ १.७२.२ ॥
तत्रासिताब्जहलभृद्वसनासिभृङ्गशार्ङ्गायुधाङ्गहरकण्ठकषायपुष्पैः
शुष्केतरैश्च कुसुमैर्गिरिकर्णिकायास्तस्माद्भवन्ति मणयः सदृशावभासः ॥ १.७२.३ ॥
अन्ये प्रसन्नपयसः पयसां निधातुरम्बुत्विषः शिखिगणप्रतिमास्तथान्ये
नीलीरसप्रभवबुद्वुदभाश्च केचित्केचित्तथा समदकोकिलकण्ठभासः ॥ १.७२.४ ॥
एकप्रकारा विस्पष्टवर्णशोभावभासिनः
जायन्ते मणयस्तस्मिन्निन्द्रनीला महागुणाः ॥ १.७२.५ ॥
मृत्पाषाणशिलारन्ध्रकर्करात्राससंयुताः
अभ्रिकापटलच्छायावर्णदोषैश्च दूषिताः ॥ १.७२.६ ॥
तत एव हि जायन्ते मणयस्तत्र भूरयः
सास्त्रसम्बोधितधियस्तान्प्रशंसन्ति सूरयः ॥ १.७२.७ ॥
धार्यमाणस्य ये दृष्टा पद्मरागमणेर्गुणाः
धारणादिन्द्रनीलस्य तानेवाप्नोति मानवः ॥ १.७२.८ ॥
यथा च पद्मरागाणां जातकत्रितयं भवेत्
इन्द्र नीलेष्वपि तथा द्रष्टव्यमविशेषतः ॥ १.७२.९ ॥
परीक्षाप्रत्ययैर्यैश्च पद्मरागः परीक्ष्यते
त एव प्रत्यया दृष्टा इन्द्रनीलमणेरपि ॥ १.७२.१० ॥
यावन्तं च क्रमेदग्निं पद्मरागोपयोगतः
इन्द्रनीलमणिस्तस्मात्क्रमेत सुमहत्तरम् ॥ १.७२.११ ॥
तथापि न परीक्षार्थं गुणानामभि (ति) वृद्धये
मणिरग्नौ समाधेयः कथञ्चिदपि कश्चन ॥ १.७२.१२ ॥
अग्निमात्रापरिज्ञाने दाहदोषैश्च दूपितः
सोऽनर्थाय भवेद्भर्तुः कर्तुः कारयितुस्तथा ॥ १.७२.१३ ॥
काचोत्पलकरवीरस्फटिकाद्या इह बुधैः सवैदूर्याः
कथिता विजातय इमे सदृशा मणिनेन्द्रनीलेन ॥ १.७२.१४ ॥
गुरुभावकठिनभावावेतेषां नित्यमेव विज्ञेयौ
काचाद्यथावदुत्तरविवर्धमानौ विशेषेण ॥ १.७२.१५ ॥
इन्द्रनीलो यथा कश्चिद्विभर्त्याताम्रवर्णताम्
रक्षणयौ तथा ताम्रौ करवीरोत्पलावुभौ ॥ १.७२.१६ ॥
यस्य मध्यगता भाति नीलस्येन्द्रायुधप्रभा
तमिन्द्रनीलमित्याहुर्महार्हं भुवि दुर्लभम् ॥ १.७२.१७ ॥
यस्य वर्णस्य भूयस्त्वात्क्षीरे शतगुणे स्थितः
नीलतां तन्नयेत्सर्वं महानीलः स उच्यते ॥ १.७२.१८ ॥
यत्पद्मरागस्य महागुणस्य मूल्यं भवेन्माषसमुन्मितस्य
तदिन्द्रनीलस्य महागुणस्य सुवर्ण संख्यातु लितस्य मूल्यम् ॥ १.७२.१९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे इन्द्रनीलपरीक्षणं नाम द्विसप्ततितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ७३
सूत उवाच [SUTA SAID]
वैदूर्यपुष्परागाणां कर्केते भीष्मके वदे
परीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विजा ॥ १.७३.१ ॥
कल्पान्तकालक्षुबिताम्बुराशेर्निर्ह्रादकल्पाद्दितिजस्य नादात्
वैदूर्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिवर्णबीजम् ॥ १.७३.२ ॥
अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः
कामभूतिकसीमानमनु तस्याकरोभवत् ॥ १.७३.३ ॥
तस्य नादसमुत्थत्वादाकरः सुमहागुणः
अभूदुत्तरीतो लोके लोकत्रयविभूषणः ॥ १.७३.४ ॥
तस्यैव दानवपतेर्निनदानुरूपाः प्रवृट्पयोदवरदर्शित चारुरूपाः
वैदूर्यरत्नमणयो विविधावभासस्तस्मात्स्फुलिङ्गनिवहा इव संबभूवुः ॥ १.७३.५ ॥
पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ
सर्वांस्तान्वर्णशोभाभिर्वैदूर्यमनुगच्छति ॥ १.७३.६ ॥
तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्रकाशम्
चाषाग्रपक्षप्रतिमश्रियो ये न ते प्रशस्ता मणिशास्त्रविद्भिः ॥ १.७३.७ ॥
गुणवान्वैदूर्यमणिर्योजयति स्वामिनं परंभा (भो) ग्यैः
दोषैर्युक्तो दोषैस्तस्माद्यत्नात्परीक्षेत ॥ १.७३.८ ॥
गिरिकाचशिशुपालौ काच स्फटिकाश्च धूमनिर्भिन्नाः
वैदूर्यमणेरेते विजातयः सन्निभाः सन्ति ॥ १.७३.९ ॥
लिख्याभावात्काचं लघुभावाच्छैसुपालकं विद्यात्
गिरिकाचसदीप्तित्वात्स्फटिकं वर्णोज्ज्वलत्वेन ॥ १.७३.१० ॥
यदिन्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम्
तदेव वैदूर्यमणेः प्रदिष्टं पलद्वयोन्मापि तगौरवस्य ॥ १.७३.११ ॥
जात्यस्य सर्वेऽपि मणेस्तु यादृग्विजातयः सन्ति समानवर्णाः
तथापि नानाकरणानुमेयभेदप्रकारः परमः प्रदिष्टः ॥ १.७३.१२ ॥
सुखोपलक्ष्यश्च सदा विचार्यो ह्ययं प्रभेदो विदुषा नरेण
स्नेहप्रभेदो लघुता मृदुत्वं विजातिलिङ्गं खलु सार्वजन्यम् ॥ १.७३.१३ ॥
कुशलाकुशलैः प्रपूर्यमाणाः प्रतिबद्धाः प्रतिसत्क्रियाप्रयोगैः
गुणदोषसमुद्भवं लभन्ते मणयोर्ऽथोन्तरमूल्यमेव भिन्नाः ॥ १.७३.१४ ॥
क्रमशः समतीतवर्तमानाः प्रतिबद्धा मणिबन्धकेन यत्नात्
यदि नाम भवन्ति दोषहीना मणयः षड्गुणमाप्नुवन्ति मूल्यम् ॥ १.७३.१५ ॥
आकरान्समतीतानामुदधेस्तीरसन्निधौ
मूल्यमेतन्मणीनां तु न सर्वत्र महीतले ॥ १.७३.१६ ॥
सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः
तस्य सप्ततिमो भागः संज्ञारूपं करिष्यति ॥ १.७३.१७ ॥
शाणश्चतुर्माषमानो माषकः पञ्चकृष्णलः
पलस्य दशमो भागो धरणः परिकीर्तितः ॥ १.७३.१८ ॥
इत्थं मणिविधिः प्रोक्तो रत्नानां मूल्यनिश्चये ॥ १.७३.१९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्यपरीक्षणं नाम त्रिसप्ततितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ७४
सूत उवाच [SUTA SAID]
पतिताया हिमाद्रौ तु त्वचस्तस्य सुरद्विषः
प्रादुर्भवन्ति ताभ्यस्तु पुष्प (ष्य) रागा महागुणाः ॥ १.७४.१ ॥
आपीतपाण्डुरुचिरः पाषाणः पद्मरागसंज्ञस्तु
कौकण्टकनामा स्यात्स एव यदि लोहितापीतः ॥ १.७४.२ ॥
आलोहितस्तु पीतः स्वच्छः काषायकः स एकोक्तः
आनीलशुक्लवर्णः स्निग्धः सोमाल(न) कः सगुणः ॥ १.७४.३ ॥
अत्यन्तलोहितो यः स एव खलु पद्मरागसंज्ञः स्यात्
अपि चेन्द्रनीलसंज्ञः स एव कथितः सुनीलः सन् ॥ १.७४.४ ॥
मूल्यं वैदूर्यमणेरिव गादितं ह्यस्य रत्नसारविदा
धारणफलं च तद्वत्किं तु स्त्रीणां सुतप्रदो भवति ॥ १.७४.५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पुष्परागपरीक्षणं नाम चतुः सप्ततितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ७५
सूत उवाच [SUTA SAID]
वायुर्नखान्दैत्यपतेर्गृहीत्वा चिक्षेप सत्पद्मवनेषु हृष्टः
ततः प्रसूतं पवनोपपन्नं कर्केतनं पूजयतमं पृथिव्याम् ॥ १.७५.१ ॥
वर्णेन तद्रुधिरसोममधुप्रकाशमाताम्रपीतदहनोज्ज्वलितं विभाति
नीलं पुनः खलु सितं परुषं विभिन्नं व्याध्यादिदोषकरणेन च तद्विभाति ॥ १.७५.२ ॥
स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्णा गुरवो विचित्राः
त्रासव्रणव्यालविवर्जिताश्च कर्केतनास्ते परमं पवित्राः ॥ १.७५.३ ॥
पत्रेण काञ्चनमयेन तु वेष्टयित्वा तप्तं यदा हुतवहे भवति प्रकाशम्
रोगप्रणाशनकरं कलिनाशनं तदायुष्करं कुलकरं च सुखप्रदं च ॥ १.७५.४ ॥
एवंविधं बहुगुणं मणिमावहन्ति कर्केतनं शुभलङ्कृतये नरा ये
ते पूजिता बहुधना बहुबान्धवाश्च नित्योज्ज्वलाः प्रमुदिता अपिते भवन्ति ॥ १.७५.५ ॥
एकेऽपनह्य विकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरूपाः
तेजोऽतिदीप्ति कुलपुष्टिविहीनवर्णाः कर्केतनस्य सदृशं वपुरुद्वहन्ति ॥ १.७५.६ ॥
कर्केतनं यदि परीक्षितवर्णरूपं प्रत्यग्रभास्वरदिवाकरसुप्रकाशम्
तस्योत्तमस्य मणि शास्त्रविदां महिम्ना तुल्यं तु मूल्यमुदितं तुलितस्य कार्यम् ॥ १.७५.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्केतनपरीक्षणं नाम पञ्चसप्ततितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ७६
सूत उवाच [SUTA SAID]
हिमवत्युत्तरदेशे वीर्यं पतितं सुरद्विषस्तस्य
संप्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥ १.७६.१ ॥
शुक्लाः शङ्खाब्जनिभाः स्योनाकसन्निभा प्रभावन्तः
प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः ॥ १.७६.२ ॥
हेमादिप्रतिबद्धाः शुद्धमपि श्रद्धया विधत्ते यः
भीष्ममणिं ग्रीवादिषु सुसम्पदं स सर्वदा लभते ॥ १.७६.३ ॥
निरीक्ष्य पलायन्ते यं तमरण्यनिवासिनः समीपऽपि
द्वीपिवृकशरभकुञ्जरसिंहव्याघ्रादयो हिंस्त्राः ॥ १.७६.४ ॥
तसोयत्कलतष्टतरोर्भवति भयं न चास्तीशमुपहसन्ति
भीष्ममणिर्गुणयुक्तो सम्यक्प्राप्ताङ्गुलीकलत्रत्वः ॥ १.७६.५ ॥
पितॄतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति
शाम्यन्त्यद्भुतान्यपि सर्पाण्डजाखुवृश्चिकविषाणि
सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥ १.७६.६ ॥
शैवलबलाहकाभं पुरुषं पीतप्रभं प्रभाहीनम्
मलिनद्युति च विवर्णं दूरात्परिवर्जयेत्प्राज्ञः ॥ १.७६.७ ॥
मूल्यं प्रकल्प्यमेषां विबुधवरैर्दैशकालविज्ञानात्
दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम् ॥ १.७६.८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्यपरीक्षणं नाम षट्सप्ततितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ७७
सूत उवाच [SUTA SAID]
पुण्येषु पर्वतवरेषु च निम्नगासु स्थानान्तरेषु च तथोत्तरदेशगत्वात्
संस्थापिताः स्वनखबाहुगतेः प्रकाशं संपूज्य दानवपतिं प्रथिते प्रदेशे ॥ १.७७.१ ॥
दाशार्णवागदर (व) मेकलकालगादौ गुञ्जाञ्जनक्षौद्रमृणालवर्णाः
गन्धर्ववह्निकदलीसदृशावभासा एते प्रशस्ताः पुलकाः प्रसूताः ॥ १.७७.२ ॥
शङ्खाब्जभृङ्गार्कविचित्रभङ्गा सूत्रैरुर्(व्य) पेताः परमाः पवित्राः
मङ्गल्ययुक्ता बहुभक्तिचित्रा वृद्धिप्रदास्ते पुलका भवन्ति ॥ १.७७.३ ॥
काका (क.)श्वरासभसृगालवृकोग्ररूपैर्गृध्रैः समांसरुधिरार्द्रमुखैरुपेताः
मृत्युप्रदाश्च विदुषा परिवर्जनीया मूल्यं पलस्य कथितं च शतानि पञ्च ॥ १.७७.४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पुलकपरीक्षणं नाम सप्तसप्ततितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ७८
सूत उवाच [SUTA SAID]
हुतभुग्रूपमादाय दानवस्य यथेप्सितम्
नर्मदायां निचिक्षेप किञ्चिद्धीनादिभूमिषु ॥ १.७८.१ ॥
तत्रेन्द्रगोपकलितं शुकवक्रवर्णं संस्थानतः प्रकटपीलुसमानमात्रम्
नानाप्रकारविहितं रुधिराक्ष(ख्य) रत्नमुद्धृत्य तस्य खलु सर्वसमानमेव ॥ १.७८.२ ॥
मध्येन्दुपाण्डुरमतीव विशुद्धवर्णं तच्चेन्द्रनीलसदृशं पटलं तुले स्यात्
सैश्वर्यभृत्यजननं कथितं तदैव पक्रञ्च तत्किल भवेत्सुरवज्रवर्णम् ॥ १.७८.३ ॥
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रुधिराक्षरत्नपरीक्षणं नामाष्टसप्ततितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ७९
सूत उवाच [SUTA SAID]
कावेरविन्ध्ययवनचीननेपालभूमिषु
लाङ्गली व्यकिरन्मेदो दानवस्य प्रयत्नतः ॥ १.७९.१ ॥
आकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः
मृणालशङ्खधवलं किञ्चिद्वर्णान्तरन्वितम् ॥ १.७९.२ ॥
न त्तुल्यं हि रत्नानामथवा पापनाशनम्
संस्कृतं शिल्पिना सद्यो मूल्यं किञ्चिल्लभेत्ततः (दा) ॥ १.७९.३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्फटिकपरीक्षणं नामैकोनाशीतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ८०
सूत उवाच [SUTA SAID]
आदाय शेषस्तस्यान्त्रं बलस्य केलादिषु
चिक्षेप तत्र जायन्ते विद्रुमाः सुभहागुणाः ॥ १.८०.१ ॥
तत्र प्रधानं शशलोहिताभं गुञ्जाजपापुष्पनिभं प्रदिष्टम्
सुनीलकं देवकरोमकञ्च स्थानानि तेषु प्रभवं सुरागम् ॥ १.८०.२ ॥
अन्यत्र जातं च न तत्प्रधानं मूल्यं भवेच्छिल्पिविशेषयोगात्
प्रसन्नं कोमलं स्निग्धं सुरागं विद्रुमं हि तत् ॥ १.८०.३ ॥
धनधान्यकरं लोके विषार्तिभयनाशनम्
परीक्षा पुलकस्योक्ता रुधिराक्षस्य वै मणेः
स्फटिकस्य विद्रुमस्य रत्नज्ञानाय शौनक ! ॥ १.८०.४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रुमपरीक्षणं नामाशीतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ८१
(इति रत्नमुक्तादि परीक्षा समाप्ता )
(अथ तीर्थक्षेत्रमाहात्म्यमारभ्यते )
सूत उवाच [SUTA SAID]
सर्वतीर्थानि वक्ष्यामि गङ्गा तीर्थोत्तमोत्तमा
सर्वत्र सुलभा गङ्गात्रिषु स्थानेषु दुर्लभा ॥ १.८१.१ ॥
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे
प्रयागं परमं तीर्थं मृतानां भुक्तिमुक्तिदम् ॥ १.८१.२ ॥
सेवनात्कृतपिण्डानां पापजित्कामदं नृणाम्
वाराणसी परं तीर्थं विश्वेशो यत्र केशवः ॥ १.८१.३ ॥
कुरुक्षेत्रं परं तीर्थं दानाद्यैर्भुक्तिमुक्तिदम्
प्रभासं परं तीर्थं सोमनाथो हि तत्र च ॥ १.८१.४ ॥
द्वारका च पुरी रम्या भुक्तिमुक्तिप्रदायिका
प्राची सरस्वती पुण्या सप्तसारस्वतं परम् ॥ १.८१.५ ॥
केदारं सर्वपापघ्नं स (श) म्भलग्राम उत्तमः
नरनरायणं तीर्थं मुक्त्यै वदरिकाश्रमः ॥ १.८१.६ ॥
श्वेतद्वीपं पुरी माया नैमिषं पुष्करं परम्
अयोध्या चार्घ्यतीर्थं तु चित्रकूटं च गोमती ॥ १.८१.७ ॥
वैनायकं महीतीर्थं रामगिर्याश्रमं परम्
काञ्चीपुरी तुङ्गभद्रा श्रीशैलं सेतुबन्धनम् ॥ १.८१.८ ॥
रामेश्वरं परं तीर्थं कार्तिकेयं तथोत्तमम्
भृगुतुङ्गं कामतीर्थं तीर्थं चामरकण्टकम् ॥ १.८१.९ ॥
उज्जयिन्यां महाकालः कुब्जके श्रीधरो हरिः
कुब्जाम्रकं महातीर्थं कालसर्पिश्च कामदम् ॥ १.८१.१० ॥
महा केशी च कावेरी चन्द्रभागा विपाशया
एकाम्रं च तथा तीर्थं ब्रह्मेशं देवकोटकम् ॥ १.८१.११ ॥
मथुरा च पुरी रम्या शोणश्चैव महानदः
जम्बूसरो महातीर्थं तानि तीर्थानि विद्धि च ॥ १.८१.१२ ॥
सूर्यः शिवो गणो देवी हरिर्यत्र च तिष्ठति
एतेषु च यथान्येषु स्नानं दानं जपस्तपः ॥ १.८१.१३ ॥
पूजा श्राद्धं पिण्डदानं सर्वं भवति चाक्षयम्
शालग्रामं सर्वदं स्यात्तीर्थं पशुपतेः परम् ॥ १.८१.१४ ॥
कोकामुखं च वाराहं भा (भु) ण्डीरं स्वामिसंज्ञकम्
लो (मो) हदण्डे महाविष्णुर्मन्दारे मधुसूदनः ॥ १.८१.१५ ॥
कामरूपं महातीर्थं कामाख्या (क्षा) यत्र तिष्ठति
पुण्ड्रवर्धनकं तीर्थं कार्तिकेयश्च यत्र च ॥ १.८१.१६ ॥
विरजस्तु महातीर्थं तीर्थं श्रीपुरुषोत्तमम्
महेन्द्रपर्वतस्तीर्थं कावेरी च नदी परा ॥ १.८१.१७ ॥
गोदावरी महातीर्थं पयोष्णी वरदा नदी
विन्ध्यः पापहरं तीर्थं नर्मदाभेद उत्तमः ॥ १.८१.१८ ॥
गोकर्णं परमं तीर्थं तीर्थं माहिष्मती पुरी
कालञ्जरं महीतीर्थं शुक्लतीर्थमनुत्तमम् ॥ १.८१.१९ ॥
कृते शौचे मुक्तिदं च शार्ङ्गधारी तदन्तिके
विरजं सर्वदं तीर्थं स्वर्णाक्षं तीर्थमुत्तमम् ॥ १.८१.२० ॥
नन्दितीर्थं मुक्तिदं च कोटितीर्थफलप्रदम्
नासिक्यं च महातीर्थं गोवर्धनमतः परम् ॥ १.८१.२१ ॥
कृष्णवेणी भीमरथी गण्डकी या त्विरावती
तीर्थं बिन्दुसरः पुण्यं विष्णुपादोदकं परम् ॥ १.८१.२२ ॥
ब्रह्मध्यानं परं तीर्थं तीर्थमिन्द्रियनिग्रहः
दमस्तीर्थं तु परमं भवशुद्धिः परं तथा ॥ १.८१.२३ ॥
ज्ञानह्रदे ध्यानजले रागद्वेषमलापहे
यः स्नाति मानसे तीर्थे स याति परमां गतिम् ॥ १.८१.२४ ॥
इदं तीर्थमिदं नेति ये नरा भेददर्शिनः
तेषां विधीयते तीर्थगमनं तत्फलं च यत् ॥ १.८१.२५ ॥
सर्वं ब्रह्मेतियोऽवेति नातीर्थं तस्य किञ्चन
एतेषु स्नानदानानि श्राद्धं पिण्डमथाक्षयम् ॥ १.८१.२६ ॥
सर्वा नद्यः सर्वशैलाः तीर्थं देवादिसेवितम्
श्रीरङ्गं च हरेस्तीर्थं तापी श्रेष्ठा महानदी ॥ १.८१.२७ ॥
सप्तगोदावरं तीर्थं तीर्थं कोणगिरिः परम्
महालक्ष्मीर्यत्र देवी प्रणीता परमा नदी ॥ १.८१.२८ ॥
सह्याद्रौ देवदेवेश एकवीरः सुरेश्वरी
गङ्गाद्वारे कुशावर्ते विन्ध्यके नीलपर्वते ॥ १.८१.२९ ॥
स्नात्वा कनखले तीर्थे स भवेन्न पुनर्भवे
सू उवाच
एतान्यन्यानि तीर्थानि स्नानाद्यैः सर्वदानि हि ॥ १.८१.३० ॥
श्रुत्वाब्रवीद्धरेर्ब्रह्मा व्यासं दक्षादिसंयुतम्
एतान्युक्त्वा च तीर्थानि पुन स्तीर्थोत्तमोत्तमम्
गयाख्यं प्राह सर्वेषामक्षयं ब्रह्मलोकदम् ॥ १.८१.३१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्वतीर्थ माहात्म्यं नामैकाशीतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ८२


(अथ गयामाहात्म्यं प्रारभ्यते)

ब्रह्मोवाच
सारात्सारतरं व्यास गयाभाहात्म्य मुत्तमम्
प्रवक्ष्यामि समासेन बुक्तिमुक्तिप्रदं शृणु ॥ १.८२.१ ॥
गयासुरोऽभवत्पूर्वं वीर्यवान्परमः स च
तपस्तप्यन्महाघोरं सर्वभूतोपतापनम् ॥ १.८२.२ ॥
तत्तपस्तापिता देवास्तद्वधार्थं हरिं गताः
शरणं हरिरूचे तान् भवितव्यं शिवात्मभैः ॥ १.८२.३ ॥
पात्यतेऽस्य महादेहो तथेत्यूचुः सुरा हरिम्
कदाचिच्छिवपूजार्थं क्षीराब्धेः कमलानि च ॥ १.८२.४ ॥
आनीय कीकटे देशे शयनं चाकरोद्वली
विष्णुमायाविमूढोऽसौ गदया विष्णुना हतः ॥ १.८२.५ ॥
अतो गदाधरो विष्णुर्गयायां मुक्तिदः स्थितः
तस्य देहो लिङ्गरूपी स्थितः शुद्धे पितामहः ॥ १.८२.६ ॥
जनार्दनश्च कालेशस्तथान्यः प्रपितामहः
विष्णुराहाथ मर्यादां पुण्यक्षेत्रं भविष्यति ॥ १.८२.७ ॥
यज्ञं श्राद्धं पिण्डदानं स्नानादि कुरुते नरः
स स्वर्गं ब्रह्मलोकं च गच्छेन्न नरकं नरः ॥ १.८२.८ ॥
गयातीर्थं परं ज्ञात्वा यागं चक्रे पितामहः
ब्राह्मणान्पूजयामास ऋत्विगर्थमुपागतान् ॥ १.८२.९ ॥
महानदीं रसवहां सृष्ट्वा वाप्यादिकं तथा
भक्ष्यभोज्यफलादींश्च कामधेनुं तथासृजत् ॥ १.८२.१० ॥
पञ्चक्रोशं गयोक्षेत्रं ब्राह्मणेभ्यो ददौ प्रभुः
धरमयागेषु लोभात्तु प्रतिगृह्य धनादिकम् ॥ १.८२.११ ॥
स्थिता विप्रास्तदा शप्ता गयायां ब्राह्मणास्ततः
मा भूत्त्रैपुरुषी विद्या मा भूत्त्रैपुरुषं धनम् ॥ १.८२.१२ ॥
युष्माकं स्याद्वारिवहा नदी पाषाणपर्वतः
शप्तैस्तु प्रार्थितो ब्रह्मानुग्रहं कृतवान्प्रभुः ॥ १.८२.१३ ॥
लोकाः पुण्या गयायां हि श्राद्धिनो ब्रह्मलोकगाः
युष्मान्ये पूजयिष्यन्ति तैरहं पूजितः सदा ॥ १.८२.१४ ॥
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ॥ १.८२.१५ ॥
समुद्राः सरितः सर्वा वापीकूपह्रदास्तथा
स्नातुकामा गयातीर्थं व्यास यास यान्ति न संशयः ॥ १.८२.१६ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः
पापं तत्संगजं सर्वं गयाश्राद्धाद्विनश्यति ॥ १.८२.१७ ॥
असंस्कृता मृता य च पशुचोरहताश्च ये
सर्पदष्टा गयाश्राद्धान्मुक्ताः स्वर्गं व्रजन्ति ते ॥ १.८२.१८ ॥
गयायां पिण्डदानेन यत्फलं लभते नरः
न तच्छक्यं मया वक्तुं वर्षकोटिशतैरपि ॥ १.८२.१९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम द्व्यशीतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ८३
ब्रह्मोवाच
कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्
विषयश्चारणः पुण्यो नदीनां च पुनः पुना ॥ १.८३.१ ॥
मुण्डपृष्ठं तु पूर्वस्मिन्पश्चिमे दक्षिणोत्तरे
सार्धक्रोशद्वयं मानं गयायां परिकीर्तितम् ॥ १.८३.२ ॥
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः
तत्र पिण्डप्रदानेन तृप्तिर्भवति शाश्वती ॥ १.८३.३ ॥
नगाज्जनार्दनाच्चैव कूपाच्चोत्तरमानसात्
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥ १.८३.४ ॥
तत्र पिण्डप्रदानेन पितॄणा परमा गतिः
गयागमनमात्रेण पितॄणामनृणो भवेत् ॥ १.८३.५ ॥
गयायां पितृरूपेण देवदेवो जनार्दनः
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् ॥ १.८३.६ ॥
रथमार्गं गयतीर्थे दृष्ट्वा रुद्रपदादिके
कालेश्वरं च केदारं पितॄणामनृणो भवेत् ॥ १.८३.७ ॥
दृष्ट्वा पितामहं देवं सर्वपापैः प्रमुच्यते
लोकं त्वनामयं याति दृष्ट्वा च प्रपितामहम् ॥ १.८३.८ ॥
तथा गदाधरं देवं माधवं पुरुषोत्तमम्
तं प्रणम्य प्रयत्नेन न भूयो जायते नरः ॥ १.८३.९ ॥
मौनादित्यं महात्मानं कनकार्कं विशेषतः
दृष्ट्वा मौनेन विप्रर्षे पितॄणामनृणो भवेत् ॥ १.८३.१० ॥
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात्
गायत्त्रीं प्रतरुत्थाय यस्तु पश्यति मानवः ॥ १.८३.११ ॥
सन्ध्यां कृत्वा प्रयत्नेन सर्ववेदफलं लभेत्
सावित्रीं चैव मध्याह्ने दृष्ट्वा यज्ञफलं लभेत् ॥ १.८३.१२ ॥
सरस्वतीं च सायाह्ने दृष्ट्वा दानफलं लभेत्
नगस्थमीश्वरं दृष्ट्वा पितॄणामनृणो भवेत् ॥ १.८३.१३ ॥
धर्मारण्यं धर्ममीशं दृष्ट्वा स्यादृणनाशनम्
देवं गृध्रेश्वरं दृष्ट्वा को न मुच्येत बन्धनात् ॥ १.८३.१४ ॥
धेनुं दृष्ट्वा धेनुवने ब्रह्मलोकं नयेत्पितॄन्
प्रभासेशं प्रभासे च दृष्ट्वा याति परां गतिम् ॥ १.८३.१५ ॥
कोटीश्वरं चाश्वमेधं दृष्ट्वा स्यादृणनाशनम्
स्वर्गद्वारेश्वरं दृष्ट्वा मुच्यते भवबन्धनात् ॥ १.८३.१६ ॥
रामेश्वरं गदालोलं दृष्ट्वा स्वर्गमवाप्नुयात्
ब्रह्मेश्वरं तथा दृष्ट्वा मुच्यते ब्रह्महत्यया ॥ १.८३.१७ ॥
मुण्डपृष्ठे महाचण्डीं दृष्ट्वा कामानवाप्नुयात्
फल्ग्वीशं फल्गुचण्डीं च गौरीं दृष्ट्वा च मङ्गलाम् ॥ १.८३.१८ ॥
गोमकं गोपतिं देवं पितॄणामनृणो भवेत्
अङ्गारेशं च सिद्धेशं गयादित्यं गजं तथा ॥ १.८३.१९ ॥
मार्कण्डेयेश्वरं दृष्ट्वा पितॄणामनृणो भवेत्
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ॥ १.८३.२० ॥
एतेन किं न पर्याप्तं नॄणां सुकृतकारिणाम्
ब्रह्मलोकं प्रयान्तीह पुरुषा एकविंशतिः ॥ १.८३.२१ ॥
पृथिव्यां यानि तीर्थानी ये समुद्राः सरांसि च
फल्गुतीर्थं गमिष्यन्ति वारमेकं दिनेदिने ॥ १.८३.२२ ॥
पृथिव्यां च गया पुण्या गयायां च गयाशिरः
श्रेष्ठं तथा फल्गुतीर्थं तन्मुखं च सुरस्य हि ॥ १.८३.२३ ॥
उदीचि कनकानद्यो नाभितीर्थं तु मध्यतः
पुण्यं ब्रह्मसदस्तीर्थं स्नानात्स्याद्ब्रह्मलोकदम् ॥ १.८३.२४ ॥
कूपे पिण्डादिकं कृत्वा पितॄणामनृणो भवेम्
तथाक्षयवटे श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ॥ १.८३.२५ ॥
हंसतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते
कोटितीथ गयालोले वैतरण्यां च गोमके ॥ १.८३.२६ ॥
ब्रह्मलोकं नयेच्छ्राद्धी पुरुषानेकविंशतिम्
ब्रह्मतीर्थे रामतीर्थे आग्नेये सोमतीर्थके ॥ १.८३.२७ ॥
श्राद्धी रामह्रदे ब्रह्मलोकं पितृकुलं नयेत्
उत्तरे मानसे श्राद्धी न भूयो जायते नरः ॥ १.८३.२८ ॥
दक्षिणे मानसे श्राद्धी ब्रह्मलोकं पितॄन्नयेत्
स्वगद्वारे नरः श्राद्धी ब्रह्मलोकं नयेत्पितॄन्
भीष्मतर्पणकृत्तस्य कूटे तारयते पितॄन्
गृध्रेश्वरे तथा श्राद्धी पितॄणामनृणो भवेत् ॥ १.८३.२९ ॥
श्राद्धी च धेनुकारण्ये ब्रिह्मलोकं पितॄन्नयेत्
तिलधेनुप्रदः स्नात्वा दृष्ट्वा धेनुं न संशयः ॥ १.८३.३० ॥
ऐन्द्रे वा नरतीर्थे च वासवे वैष्णवे तथा
महानद्यां कृतश्राद्धो ब्रह्मलोकं नयेत्पितॄन् ॥ १.८३.३१ ॥
गायत्त्रे चैव सावित्रे तीर्थे सारस्वते तथा
स्नानस न्ध्यातर्पणकृच्छ्राद्धी चैकोत्तरं शतम् ॥ १.८३.३२ ॥
पितॄणां तु कुलं ब्रह्मलोकं नयति मानवः
ब्रह्मयोनिं विनिर्गच्छेत्प्रयतः पितृमानसः ॥ १.८३.३३ ॥
तर्पयित्वा पितॄन्देवान्न विशेद्योनिसङ्कटे
तर्पणे काकजङ्घार्या पितॄणां तृप्तिरक्षया ॥ १.८३.३४ ॥
धर्मारण्ये मतङ्गस्य वाप्यां श्राद्धाद्दिवं व्रजेत्
धर्मयूपे च कूपे त पितॄणामनृणो भवेत् ॥ १.८३.३५ ॥
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः
मयागत्य मतङ्गेऽस्मिन्पितॄणां निष्कृतिः कृता ॥ १.८३.३६ ॥
रामतीर्थे नराः स्नात्वा श्राद्धं कृत्वा प्रभासके
शिलायां प्रेतभावात्स्युर्मुक्ताः पितृगणाः किल ॥ १.८३.३७ ॥
श्राद्धकृच्छ स्वपुष्टायां त्रिः सफ्तकुंलमुद्धरेत्
श्राद्धकृन्मुण्डपृष्ठादौ ब्रह्मलोकं नयेत्पितॄन् ॥ १.८३.३८ ॥
गयायां न हि तत्स्थानं यत्र तीर्थं न विद्यते
पञ्चक्रोशे गयाक्षेत्रे यत्र तत्र तु पिण्डदः ॥ १.८३.३९ ॥
अक्षयं फलमाप्नोति ब्रह्मलोकं नयेत्पितॄन्
जनार्दनस्य हस्ते तु पिण्डं दद्यात्स्वकं नरः ॥ १.८३.४० ॥
एष पिण्डे मया दत्तस्तव हस्ते जनार्दन !
परलोकं गते मोक्षमक्षय्यमुपतिष्ठताम् ॥ १.८३.४१ ॥
ब्रह्मलोकमवाप्नोति पितृभिः सह निश्चितम्
गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा ॥ १.८३.४२ ॥
गयाशीर्षेऽक्षयवटे पितॄणां दत्तमक्षयम्
धर्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च ॥ १.८३.४३ ॥
दृष्ट्वैतानि पितॄंश्चार्यवंश्यान्विंशतिमुद्धरेत्
ब्रह्मारण्यं महानद्याः पश्चिमो भाग उच्यते ॥ १.८३.४४ ॥
पूर्वो ब्रह्मसदो भागो नागाद्रिर्भरताश्रमः
भरतस्याश्रमे श्राद्धी मतङ्गस्य पदे भवेत् ॥ १.८३.४५ ॥
गयाशीर्षाद्दक्षिणतो महानद्याश्च पश्चिमे
तत्स्मृतं चम्पकवनं तत्र पाण्डुशिलास्ति हि ॥ १.८३.४६ ॥
श्राद्धी तत्र तृतीयायां निश्चिरायाश्च मण्डले
महाह्रदे च कौशिक्यामक्षयं फलमाप्नुयात् ॥ १.८३.४७ ॥
वैतरण्या श्चोत्तरतस्तृतीयाख्यो जलाशयः
पदानि तत्र क्रौञ्चस्य श्राद्धी स्वर्गं नयेत्पितॄन् ॥ १.८३.४८ ॥
क्रौञ्चपादादुत्तरतो निश्चिराख्यो जलाशयः
सकृद्यत्राभिगमनं सकृत्पिंण्डप्रपातनम् ॥ १.८३.४९ ॥
दुर्लभं किं पुनर्नित्यमस्मिन्नेव व्यवस्थितिः
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः ॥ १.८३.५० ॥
अक्षयान्प्राप्नुयाल्लोकान्कुलं चापि समुद्धरेत्
सावित्रे पठ्यते सन्ध्या कृता स्याद्द्वादशाब्दिकी ॥ १.८३.५१ ॥
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नरः पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ॥ १.८३.५२ ॥
गयायां मुणाडपृष्ठं च अरविन्दं च पर्वतम्
तृतीयं क्रैञ्चपादं च दृष्ट्वा पापैः प्रमुच्यते ॥ १.८३.५३ ॥
मकरे वर्तमाने च ग्रहणे चन्द्रसूर्ययोः
दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥ १.८३.५४ ॥
महाह्रदे च कौशिक्यां मूलक्षेत्रे विशेषतः
गुहायां गृध्रकूटस्य श्राद्धं दत्तं (सप्त) महाफलम् ॥ १.८३.५५ ॥
यत्र माहेश्वरी धारा श्राद्धी तत्रानृणो भवेत्
पुण्यां विशालामासाद्य नदीं त्रैलोक्य विश्रुताम् ॥ १.८३.५६ ॥
अग्निष्टोममवाप्नोति श्राद्धी प्रायाद्दिवं नरः
श्राद्धी मासपदे स्नात्वा वाजपेयफलं लभेत् ॥ १.८३.५७ ॥
रविपादे पिण्डदानात्पतितोद्धारणं भवेत्
गयास्थो यो ददात्यन्नं पितरस्तेन पुत्रिणः ॥ १.८३.५८ ॥
काङ्क्षन्ते पितरः पुत्रान्नरकाद्भयभीरवः
गयां यास्यति यः कश्चित्सोऽस्मान्सन्तरयिष्यति ॥ १.८३.५९ ॥
गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत्
पभ्द्यामपि जलं स्पृष्ट्वा अस्मभ्यं किल दास्यति ॥ १.८३.६० ॥
आत्मजो वा तथान्यो वा गयाकूपे यदा तदा
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥ १.८३.६१ ॥
पुण्डरीकं विष्णुलोकं प्राप्नुयात्कोटितीर्थगः
या सा वैतरणी नाम त्रिषु लोकेषु विश्रुता ॥ १.८३.६२ ॥
सावतीर्णा गयाक्षेत्रे पितॄणां तारणाय हि
श्राद्धदः पिण्डदस्तत्र गोप्रदानं करोतियः ॥ १.८३.६३ ॥
एकविंशतिवंश्यान्स तारयेन्नात्र संशयः
यदि पुत्रो गयां गच्छेत्कदाचित्कालपर्यये ॥ १.८३.६४ ॥
तानेव भोजयेद्विप्रान्ब्रह्मणा ये प्रकल्पिताः
तेषां ब्रह्मसदः स्थानं सोमपानं तथैव च ॥ १.८३.६५ ॥
ब्रह्मप्रकल्पितं स्थानं विप्रा ब्रह्मप्रकल्पपिताः
पूजितैः पूजिताः सर्वे पितृभिः सह देवताः ॥ १.८३.६६ ॥
तर्पयेत्तु गयाविप्रान्हव्यकव्यैर्विधानतः
स्थानं देहपरित्यागे गयायां तु विधीयते ॥ १.८३.६७ ॥
यः करोति वृषोत्सर्गं गयाक्षेत्रे ह्यनुत्तमे
अग्निष्टोमशतं पुण्यं लभते नात्र संशयः ॥ १.८३.६८ ॥
आत्मनोऽपि महाबुद्धिर्गयायां तु तिलैर्विना
पिण्डनिर्वापणं कुर्यादन्येषामपि मानवः ॥ १.८३.६९ ॥
यावन्तो ज्ञातयः पित्र्या बान्धवाः सुहृदस्तथा
तेभ्यो व्यासगयाभूमौ पिण्डो देयो विधानतः ॥ १.८३.७० ॥
रामतीर्थे नरः स्नात्वा गोशतस्याप्नुयात्फलम्
मतङ्गवाप्यां स्नात्वा च गोसहस्रफलं लभेत् ॥ १.८३.७१ ॥
निश्चिरासंगमे स्नात्वा ब्रह्मलोकं नयेत्पितॄन्
वसिष्ठस्याश्रमे स्नात्वा वाजपेयं च विन्दति ॥ १.८३.७२ ॥
महाकौश्यां समावासादश्वमेधफलं लभेत्
पितामहस्य सरसः प्रसृता लोकपावनी ॥ १.८३.७३ ॥
समीपे त्वग्निधारेति विश्रुता कपिला हि सा
अग्निष्टोमफलं श्राद्धी स्नात्वात्र कृतकृत्यता ॥ १.८३.७४ ॥
श्राद्धी कुमारधारायामश्वमेधफलं लभेत्
कुमारमभिगम्याथ नत्वा मुक्तिमवाप्नुयात् ॥ १.८३.७५ ॥
सोमकुण्डे नरः स्नात्वा सोमलोकं च गच्छति
संवर्तस्य नरो वाप्यां सुभगः स्यात्तु पिण्डदः ॥ १.८३.७६ ॥
धौतपापो नरो याति प्रेतकुण्डे च पिण्डदः
देवनद्यां लेलिहाने मथने जानुगर्तके ॥ १.८३.७७ ॥
एवमादिषु तीर्थेषु पिण्डदस्तारयेत्पितॄन्
नत्वा देवान्वसिष्ठेशप्रभृतीनृणसंक्षयम् ॥ १.८३.७८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम त्र्यशीतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ८४
ब्रह्मोवाच
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः
विधाय कार्पटीविषं ग्रामस्यापि प्रदक्षिणम् ॥ १.८४.१ ॥
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम्
कृत्वा प्रदक्षिणं गच्छेत्प्रतिग्रहविवर्जितः ॥ १.८४.२ ॥
गृहाच्चलितमात्रस्य गयायां गमनं प्रति
स्वर्गारोहणसोपानं पितॄणां तु पदेपदे ॥ १.८४.३ ॥
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ॥ १.८४.४ ॥
दिवा च सर्वदा रात्रौ गयायां श्राद्धकृद्भवेत्
वाराणस्यां कृतं श्राद्धं तीर्थे शोणनदे तथा ॥ १.८४.५ ॥
पुनः पुनामहानद्यां श्राद्धी स्वर्गं पितॄन्नयेत्
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ १.८४.६ ॥
तस्मिन्निवर्तयेच्छ्राद्धं स्नानं चैव निवर्तयेत्
कामान्स लभते दिव्यान्मोक्षोपायं च सर्वशः ॥ १.८४.७ ॥
दक्षिणं मानसं गत्वा मौनी पिण्डादि कारयेत्
ऋणत्रयापाकरणं लभेद्दक्षिणमानसे ॥ १.८४.८ ॥
सिद्धानां प्रीतिजननैः पापानां च भयङ्करैः
लेलिहानैर्महाघोरैरक्षतैः पन्नगोत्तमैः ॥ १.८४.९ ॥
नाम्ना कनखलं तीर्थं त्रिषु लोकेषु विश्रुतम्
उदीच्यां मुण्डपृष्ठस्य देवर्षिगणसेवितम् ॥ १.८४.१० ॥
तत्र स्नात्वा दिवं याति श्राद्धं दत्तमथाक्षयम्
सूर्यं नत्वा त्विदं कुर्यात्कृतपिण्डादिसत्क्रियः ॥ १.८४.११ ॥
कव्यवाहस्तथा सोमो यमश्चैवार्यमा तथा
अग्निष्वात्ता बर्हिषदः सोमपाः पिदृदेवताः ॥ १.८४.१२ ॥
आगच्छन्तु महाभागा युषमाभी रक्षितास्त्विह
मदीयाः पितरो ये च कुले जाताः सनाभयः ॥ १.८४.१३ ॥
तेषां पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम्
कृतपिण्डः फल्गुतीर्थे पश्यैद्देवं पितामहम् ॥ १.८४.१४ ॥
गदाधरं ततः पश्येत्पितॄणामनृणामनृणो भवेत्
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ॥ १.८४.१५ ॥
आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान्
प्रथमेह्निविधिः प्रोक्तो द्वितीयदिवसे व्रजेत् ॥ १.८४.१६ ॥
धर्मारण्यं मतङ्गस्य वाप्यां पिण्डादिकृद्भवेत्
धर्मारण्यं समासाद्य वाजपेयफलं लभेत् ॥ १.८४.१७ ॥
राजसूयाश्वमेधाभ्यां फलं स्याद्ब्रह्मतीर्थके
श्राद्धं पिण्डोदकं कार्यं मध्ये वै कूपयूपयोः ॥ १.८४.१८ ॥
कूपोदकेन तत्कार्यं पितॄणां दत्तमक्षयम्
तृतीयेऽबह्नि ब्रह्मसदो गत्वा स्नात्वाथ तर्पणम् ॥ १.८४.१९ ॥
कृत्वा श्राद्धादिकं पिण्डं मध्ये वै यूपकूपयोः
गोप्रचारसमीपस्था आब्रह्म ब्रह्मकल्पिताः ॥ १.८४.२० ॥
तेषा सेवनमात्रेण पितरो मोक्षगामिनः
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥ १.८४.२१ ॥
फल्गुतीर्थे चतुर्थेऽहिनि स्नात्वा देवादितर्पणम्
कृत्वा श्राद्धङ्गयाशीर्षे कुर्याद्रुद्रपदादिषु ॥ १.८४.२२ ॥
पिणाडान्देहिमुखे व्यासे पञ्चाग्नौ च पदत्रये
सूर्येन्दुकार्तिकेयेषु कृतं श्राद्धं तथाक्षयम् ॥ १.८४.२३ ॥
श्राद्धं तु नवदेवत्यं कुर्याद्द्वादशदैवतम्
अन्वष्टकासु वृद्धौ च गयायां मृतवासरे ॥ १.८४.२४ ॥
अत्र मातुः पृथक्श्राद्धमन्यत्र पतिना सह
स्नात्वा दशाश्वमेधे तु दृष्ट्वा देवं पितामहम् ॥ १.८४.२५ ॥
रुद्रपादं नरः स्पृष्ट्वा न चेहावर्तते पुनः
त्रिर्वित्तपूर्णां पृथिवीं दत्त्वा यत्फलमाप्नुयात् ॥ १.८४.२६ ॥
स तत्फलमवाप्नोति कृत्वा श्राद्धं गयाशिरे
शमीपत्रप्रमाणेन पिण्डं दद्याद्गयाशिरे ॥ १.८४.२७ ॥
पितरो यान्ति देवत्वं नात्र कार्या विचारणा
मुण्डपृष्टे पदं न्यस्तं महादेवेन धीमता ॥ १.८४.२८ ॥
अल्पेन तपसा तत्र महापुण्यमवाप्नुयात्
गयाशीर्षे तु यः पिण्डान्नाम्ना येषां तु निर्वपेत् ॥ १.८४.२९ ॥
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः
पञ्चमेऽह्नि गन्दालोले स्नात्वा वटतले ततः ॥ १.८४.३० ॥
पिण्डान्दद्यात्पितॄणां च सकलं तारयेत्कुलम्
वटमूलं समासाद्य शाकेनोष्णोदकेन वा ॥ १.८४.३१ ॥
एकस्मिन् भोजिते विप्र कोटिर्भवति भोजिताः
कृते श्राद्धेऽक्षयवटे दृष्ट्वा च प्रपितामहम् ॥ १.८४.३२ ॥
अक्षयाल्लंभते लोकान्कुलानामुद्धरेच्छतम्
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ॥ १.८४.३३ ॥
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्
प्रेतः कश्चित्समुद्दिश्य वणिजं कञ्चिदब्रवीत् ॥ १.८४.३४ ॥
मम नाम्ना गयाशीर्षे पिण्डनिर्वपणं कुरु
प्रेतभावाद्विमुक्तः स्यांस्वर्गदो दातुरेव च ॥ १.८४.३५ ॥
श्रुत्वा वणिग्गयाशीर्ष प्रेतराजाय पिण्डकम्
प्रददावनुजैः सार्धं स्वपितृभ्यस्ततो ददौ ॥ १.८४.३६ ॥
सर्वे मुक्ता विशालोऽपि सपुत्रोऽभुच्च पिण्डदः
विशालायां विशालोऽभूद्राजपुत्रोब्रवीद्द्विजान् ॥ १.८४.३७ ॥
कथं पुत्रादयः स्युर्मे विप्राश्चोतुर्विशालकम्
गयायां पिण्डदानेन तव सर्वं भविष्यति ॥ १.८४.३८ ॥
विशालोऽथ गयाशीर्ष पिण्डदोऽभूच्च पुत्रवान्
दृष्ट्वाकाशे सितं रक्तं कृष्णं पुरुषमब्रवीत् ॥ १.८४.३९ ॥
के यूयं तेषु चैवैकः सितः प्रोचे विशालकम्
अहं सितस्ते जनक इन्द्रलोकं गतः शभम् ॥ १.८४.४० ॥
मम पुत्र पिता रक्तो ब्रह्महा पापकृत्परम्
अयं पितामहः कृष्ण ऋषयोऽनेन घातिताः ॥ १.८४.४१ ॥
अवीचिं नरकं प्राप्तौ मुक्तौ जातौ च पिण्डद
मुक्तीकृतास्ततः सर्वे व्रजामः स्वर्गमुत्तमम् ॥ १.८४.४२ ॥
कृतकृत्यो विशालोऽपि राज्यं कृत्वा दिवं ययौ
येऽस्मत्कुले तु पितरो लुप्तपिण्डोदकक्रियाः ॥ १.८४.४३ ॥
ये चाप्यकृतचूडास्तु ये च गर्भाद्विनिःसृताः
येषां दाहो न क्रियाच येऽग्निदग्धास्तथापरे ॥ १.८४.४४ ॥
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम्
पिता पितामहश्चैव तथैव प्रपितामहः ॥ १.८४.४५ ॥
माता पितामही चैव तथैव प्रपितामही
तथा मातामहश्चैव प्रमातामह एव च ॥ १.८४.४६ ॥
वृद्धप्रमातामहश्च तथा मातामही परम्
प्रमातामही तथा वृद्धप्रमातामहीति वै ॥ १.८४.४७ ॥
अन्येषां चैव पिण्डोऽयमक्षय्यमुपतिष्ठताम् ॥ १.८४.४८ ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम चतुरशीतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ८५
ब्रह्मोवाच
स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च
पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान् ॥ १.८५.१ ॥
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते
आवाहयिष्येतान्सर्वान् दर्भपृष्ठे तिलोदकैः ॥ १.८५.२ ॥
पितवंशे मृता ये च मातृवंशे च ये मृताः
तषामुद्धरणार्थाये इमं पिण्डे ददाम्यहम् ॥ १.८५.३ ॥
मातामहकुले ये च गतिर्येषां न विद्यते
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ १.८५.४ ॥
अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥ १.८५.५ ॥
बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः
स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥ १.८५.६ ॥
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये
आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥ १.८५.७ ॥
अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये
दंष्ट्रिभिः शृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम् ॥ १.८५.८ ॥
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे
विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥ १.८५.९ ॥
रौरवे चान्धतामिस्त्रे कालसूत्रे च ये गताः
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ १.८५.१० ॥
असिपत्रवने घोरे कंभीपाके च ये गताः
तेषामुद्धरणार्थाय इं पिण्डं ददाम्यहम् ॥ १.८५.११ ॥
अन्येषां यातना स्थानां प्रेतलोकनिवासिनाम्
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥ १.८५.१२ ॥

पुशुयोनिं गता ये च पक्षिकीटसरीसृपाः
अथवा वृक्षयोनि स्थास्तेभ्यः पिण्डं ददाम्यहम् ॥ १.८५.१३ ॥
असंख्ययातनासंस्था ये नीता यमशासनैः
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ १.८५.१४ ॥
जात्यन्तरसहस्रेषु भ्रमन्ति स्वेन कर्मणा
मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥ १.८५.१५ ॥
ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः
ते सर्वेतृप्तिमायान्तु पिण्डदानेन सर्वदा ॥ १.८५.१६ ॥
ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम
ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा ॥ १.८५.१७ ॥
ये मे पितृकुले जाताः कुले मातुस्तथैव च
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥ १.८५.१८ ॥
ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः
क्रियालो पहता ये च जात्यन्धाः पङ्गवस्तथा ॥ १.८५.१९ ॥
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम
तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम् ॥ १.८५.२० ॥
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा
मय गयां समासाद्य पितॄणां निष्कतिः कृता ॥ १.८५.२१ ॥
आगतोऽहं गयां देव ! पितृकार्ये गदाधर
तन्मे साक्षी भवत्वद्य अनृणोऽहमृणत्रयात् ॥ १.८५.२२ ॥
महानदी ब्रह्मसरोऽक्षयो वटः प्रभासमुद्यन्तमहो? गयाशिरः
सरस्वतीधर्मकधेनुपृष्ठा एते कुरुक्षेत्रगता गयायाम् ॥ १.८५.२३ ॥

इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम पञ्चाशीतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ८६
ब्रह्मोवाच
येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता
प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि ॥ १.८६.१ ॥
धर्मेण धारिता भूत्यै सर्वदेवमयी शिला
प्रेतत्वं ये गता नॄणां मित्राद्या बान्धवादयः ॥ १.८६.२ ॥
तेषामुद्धरणार्थाय यतः प्रेतशिला शुभा
अतोऽत्र मुनयो भूपा राजपत्न्यादयः सदा ॥ १.८६.३ ॥
तस्यां शिलायां श्राद्धादिकर्तारो ब्रह्मलोकगाः
गयासुरस्य यन्मुण्डं तस्य पृष्ठे शिला यतः ॥ १.८६.४ ॥
मुणाडपृष्ठो गिरिस्तस्मात्सर्वदेवमयो ह्ययम्
मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः ॥ १.८६.५ ॥
अरविन्दवनं तेषु तेन चैवोपलक्षितः
अरविन्दो गिरिर्नाम क्रौञ्चपादाङ्कितो यतः ॥ १.८६.६ ॥
तस्मा द्गिरिः क्रैञ्चपादः पितॄणां ब्रह्मलोकदः
गदाधरादयो देवा आद्या आदौ व्यवस्थिताः ॥ १.८६.७ ॥
शिलारूपेण चाव्यक्तास्तस्माद्देवमयी शिला
गया शिरश्छादयित्वा गुरुत्वादास्थिता शिला ॥ १.८६.८ ॥
कालान्तरेण व्यक्तश्चस्थित आदिगदाधरः
महारुद्रादिदेवैस्तु आनादिनिधनो हरिः ॥ १.८६.९ ॥
धर्म संरक्षणार्थाय अधर्मादिविनष्टये
दैत्यराक्षसनाशार्थं मत्स्यः पूर्वं यथाभवत् ॥ १.८६.१० ॥
कूर्मो वराहो नृहरिर्वामनो राम ऊर्जितः
यथा दाशरथी रामः कृष्णोबुद्धोऽथ कल्क्यपि ॥ १.८६.११ ॥
तथा व्यक्तोऽव्यक्तरूपी आसीदादिर्गदाधरः
आदिरादौ पूजितोऽत्र देवैर्ब्रह्मादिभिर्यतः ॥ १.८६.१२ ॥
पाद्याद्यैर्गन्धपुष्पाद्यैरत आदिगदाधरः
गदाधरं सुरैः सार्धमाद्यं गत्वा ददाति यः ॥ १.८६.१३ ॥
अर्घ्यं पात्रं च पाद्यं च गन्धपुष्पं च धूपकम्
दीपं नैवैद्यमुत्कष्टं माल्यानि विविधानि च ॥ १.८६.१४ ॥
वस्त्राणि मुकुटं घण्टा चामरं प्रेक्षणीयकम्
अलङ्कारादिकं पिण्डमन्नदानादिकं तथा ॥ १.८६.१५ ॥
तेषां तावद्धनं धान्यमायुरारो ग्यसम्पदः
पुत्त्रादिसन्ततिश्रेयोविद्यार्थं काम ईप्सितः ॥ १.८६.१६ ॥
भार्या स्वर्गादिवासश्च स्वर्गादागत्य राज्यकम्
कुलीनः सत्त्वसम्पन्नो रणे मर्दितशात्रवनः ॥ १.८६.१७ ॥
वधबन्धविनिर्मुक्तश्चान्ते मोक्षमवाप्नुयात्
श्राद्धपिण्डादिकर्तारः पितृभिर्ब्रह्मलोकगाः ॥ १.८६.१८ ॥
जगन्नाथं येऽप्चयन्ति सुभद्रां बलभद्रकम्
ज्ञानं प्राप्य श्रियं पुत्रान्व्रजन्ति पुरुषोत्तमम् ॥ १.८६.१९ ॥
पुरुषोत्तमराजस्य सूर्यस्य च गणस्य च
पुरतस्तत्र पिण्डादि पितॄणां ब्रिह्मलोकदः ॥ १.८६.२० ॥
नत्वा कपर्दिविघ्नेशं सर्वविघ्नैः प्रमुच्यते
कार्तिकेयं पूजयित्वा ब्रह्मलोकमवाप्नुयात् ॥ १.८६.२१ ॥
द्वादशादित्यमभ्यर्च्य सर्वरोगैः प्रमुच्यते
वैश्वानरं समभ्यर्च्य उत्तमां दीप्तिमाप्नुयात् ॥ १.८६.२२ ॥
रेवन्तं पूजयित्वाथ अश्वानाप्नोत्यनुत्तमान्
अभ्यर्च्येन्द्रं महैश्वर्यं गौरीं सौभाग्यमाप्नुयात् ॥ १.८६.२३ ॥
विद्यां सरस्वतीं प्रार्च्य लक्ष्मीं संपूज्य च श्रियम्
गरुडं च समभ्यर्च्य विघ्नवृन्दात्प्रमुच्यते ॥ १.८६.२४ ॥
क्षेत्रपालं समभ्यर्च्य ग्रहवृन्दैः प्रमुच्यते
मुण्डपृष्ठं समभ्यर्च्य सर्वकाममवाप्नुयात् ॥ १.८६.२५ ॥
नागाष्टकं समभ्यर्च्य नागदष्टो विमुच्यते
ब्रह्माणं पूजयित्वा च ब्रह्मलोकमवाप्नुयात् ॥ १.८६.२६ ॥
बलभद्रं समभ्यर्च्य बलारोग्यमवाप्नुयात्
सुभद्रां पूजयित्वा तु सौभाग्यं परमाप्नुयात् ॥ १.८६.२७ ॥
सर्वान्कामानवाप्नोति संपूज्य पुरुषोत्तमम्
नारायणं तु संपूज्य नराणामधिपो भवेत् ॥ १.८६.२८ ॥
स्पृष्ट्वा नत्वा नारसिंहं संग्रामे विजयी भवेत्
वराहं पूजयित्वा तु भूमिराज्यमवाप्नुयात् ॥ १.८६.२९ ॥
मालाविद्याधरौ स्पष्ट्वा विद्याधरपदं लभेत्
सर्वान्कामानवाप्नोति संपूज्यादिगदाधरम् ॥ १.८६.३० ॥
सोमनाथं समभ्यर्च्य शिवलोकमवाप्नुयात्
रुद्रेश्वरं नमस्कृत्य रुद्रलोके महीयते ॥ १.८६.३१ ॥
रामेश्वरं नरो नत्वा रामवत्सुप्रियो भवेत्
ब्रह्मेश्वरं नरः स्तुत्वा ब्रह्मलोकाय कल्प्यते ॥ १.८६.३२ ॥
कालेश्वरं समभ्यर्च्य नरः कालञ्जयो भवेत्
केदारं पूजयित्वा तु शिवलोके महीयते ॥ १.८६.३३ ॥
सिद्धेश्वरं च संपूज्य सिद्धो ब्रह्मपुरं व्रजेत्
आद्यै रुद्रादिभिः सार्धं दृष्ट्वा ह्यादिगदाधरम् ॥ १.८६.३४ ॥
कुलानां शतमुद्धृत्य नयेद्ब्रह्मपुरं नरः
धर्मार्थो प्राप्नुयाद्धर्ममर्थार्थो चार्थमाप्नुयात् ॥ १.८६.३५ ॥
कामान्संप्राप्नुयात्कामी मोक्षार्थो मोक्षमाप्नुयात्
राज्यार्थो राज्यमाप्नोति शान्त्यर्थो शान्तिमाप्नुयात् ॥ १.८६.३६ ॥
सर्वार्थो सर्वमाप्नोति संपूज्यादिगदाधरम्
पुत्रान्पुत्रार्थिनी स्त्री च सौभाग्यं च तदर्थिनी ॥ १.८६.३७ ॥
वंशार्थिनी च वंशान्वै प्राप्यार्च्यादिगदाधरम्
श्राद्धेन पिण्डदानेन अन्नदानेन वारिदः ॥ १.८६.३८ ॥
ब्रह्मलोकमवाप्नोति संपूज्यादिगदाधरम्
पृथिव्यां सर्वतीर्थेभ्यो यथा श्रेष्ठा गया पुरी ॥ १.८६.३९ ॥
तथा शिलादिरूपश्च श्रेष्ठश्चैव गदाधरः
तस्मिन्दृष्टे शिला दृष्टा यतः सर्वं गदाधरः ॥ १.८६.४० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम षडशीतितमोऽध्यायः
(इति गयामाहात्म्यं समाप्तम्)


श्रीगरुडमहापुराणम् [GARUR PURANAM] ८७
हरिरुवाच
चतुर्दश मनून्वक्ष्ये तत्सुताश्च सुकादिकान्
मनुः स्वायम्भुवः पूर्वमग्निघ्राद्याश्च तत्सुताः ॥ १.८७.१ ॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः
वसिष्ठश्च महातेजा ऋषयः सप्तकीर्तिताः ॥ १.८७.२ ॥
जयाख्याशाचमिताख्याश्च शुक्रा यामास्तथैव च
गणा द्वादशकाश्चैति चत्वारः सोमपायिनः ॥ १.८७.३ ॥
विश्वभुग्वामदेवेन्द्रो बाष्कलिस्तदरिर्ह्यभूत्
स हतो विष्णुना दैत्यश्चक्रेण सुमहात्मना ॥ १.८७.४ ॥
मनुः स्वारोचिषश्चाथ तत्पुत्रो मण्डलेश्वरः
चित्रको विनतश्चैव कर्णान्तो विद्युतो रविः ॥ १.८७.५ ॥
बृहद्गुणो नभश्चैव महाबलपराक्रमः
ऊर्ज स्तम्बस्तथा प्राण ऋषभो निश्चल (र) स्तथा ॥ १.८७.६ ॥
दत्तो (म्भो) लिश्चावरीवांश्च ऋष्यः सप्तकीर्तिताः
तुषिता द्वादश प्रोक्तास्तथा पारावताश्च ये ॥ १.८७.७ ॥
इन्द्रो विपश्चिद्देवानां तद्रिपुः पुरुकृत्सरः
जघान हस्तिरूपेण भगवान्मधुसूदनः ॥ १.८७.८ ॥
औत्तमस्य मनोः पुत्रा आजश्च परशुस्तथा
विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः ॥ १.८७.९ ॥
देवो देवावृधो रुद्र ! महोत्साहोजितस्तथा
रथौजा ऊर्ध्वबाहुश्च शरणश्चानघो मुनिः ॥ १.८७.१० ॥
सुतपाः शङ्कुरित्येते ऋषयः सप्त कीर्तिताः
वशवर्तिस्वधामानः शिवाः सत्याः प्रतर्दनाः ॥ १.८७.११ ॥
पञ्च देवगणाः प्रोक्ता सर्वे द्वादशकास्तु ते
इन्द्रः स्वशान्तिस्तच्छुक्रः प्रलम्बो नाम दानवः ॥ १.८७.१२ ॥
मत्स्यरूपी हरिर्विष्णुस्तं जघान च दानवम्
तामसस्य मनोः पुत्रा जानुजङ्घोऽथ निर्भयः ॥ १.८७.१३ ॥
नवख्यातिर्नयश्चैव प्रियभृत्यो विविक्षिपः
दृढेषुधिः प्रस्तलाक्षः कृबन्धुः कृतस्तथा ॥ १.८७.१४ ॥
ज्योतिर्धामा पृथुः (धृष्ट) काव्यश्चैत्रश्चेताग्निहेमकाः (कौ)
मुनयः कीर्तिताः सप्त सुरागाः सुधियस्तथा ॥ १.८७.१५ ॥
हरयो देवतामां च चत्वारः पञ्च (सप्त) विंशकाः
गणा इन्द्रः शिविस्तस्य शत्रुर्भोमरथाः स्मृताः ॥ १.८७.१६ ॥
हरिणा कूर्मरूपेण हतो भीमरथोऽसुरः
रैवतस्य मनोः पुत्रो महा प्राणश्च साधकः ॥ १.८७.१७ ॥
वन (ल) बन्धुर्निरमित्रः प्रत्यङ्गः परहा शुचिः
दृढव्रतः केतुशृगं ऋषयस्तस्य वर्ण्यते ॥ १.८७.१८ ॥
वेदश्रीर्वेदबाहुश्च ऊर्ध्वबाहुस्तथैव च
हिरण्यरोमा पर्जन्यः सत्यनेत्रः (नामा) स्वधाम च ॥ १.८७.१९ ॥
अभूतरजसश्चैव तथा देवाश्वमेधसः
वैकुण्ठ (ण्ठाः श्चामृत (ता) श्चैव चत्वारो देवतागणाः ॥ १.८७.२० ॥
गणे चतुर्दश सुरा विभुरिद्रः प्रतापवान्
शान्तः शत्रुर्हतो दैत्यो हंसरूपेण विष्णुना ॥ १.८७.२१ ॥
चाक्षुषस्य मनोः पुत्रा उरुः पुरुर्महाबलः
शतद्युम्नस्तपस्वी च सत्यबाहुः(क्यो) कृतिस्तथा ॥ १.८७.२२ ॥
अग्निष्णुरतिरात्रश्च सुद्युम्नश्च तथा नरः
हविष्मानुत्तमः श्रीमान्स्व (सु) धामा विरजस्तथा ॥ १.८७.२३ ॥
अभिमानः सहिष्णुश्च मधुश्रीरृषयः स्मृताः
आर्याः प्रभूता भाव्याश्च लेखाश्च पृथुकास्तथा ॥ १.८७.२४ ॥
अष्टकस्य गणाः पञ्च तथा प्रोक्ता दिवौकसाम्
इन्द्रो मनोजवः शत्रुर्महाकालो महाभजः ॥ १.८७.२५ ॥
अश्वरूपेण स हतो हरिणा लोकधारिणा
मनोर्वैवस्वतस्येते पुत्रा विष्णुपरायणाः ॥ १.८७.२६ ॥
इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च
नरिष्यन्तस्तथा पांसुर्नभो नेदिष्ठ एव च ॥ १.८७.२७ ॥
करूषश्च पृषध्रश्च सुद्युम्नश्च मनोः सुताः
अत्रिर्वसिष्ठो भगवाञ्जमदग्निश्च कश्यपः ॥ १.८७.२८ ॥
गौतमश्च भरद्वाजो विशामित्रोऽथ सप्तमः
तथा ह्येकोनपञ्चाशन्मरुतः परिकीर्तिताः ॥ १.८७.२९ ॥
आदित्या वसवः साध्यागणा द्वादशकास्त्रयः
एकादशा तथा रुद्रा वसवोऽष्टौ प्रकीर्तिताः ॥ १.८७.३० ॥
द्वावश्विनौ विनिर्दिष्टौ विश्वेदेवास्तथा दशा
दशौवाङ्गिरसो देवा नव देवगणास्तथा ॥ १.८७.३१ ॥
तेजस्वी नाम वै शक्रो हिरण्याक्षो रिपुः स्मृतः
हतो वराहरूपेण हरिण्याख्योऽथ विष्णुना ॥ १.८७.३२ ॥
वक्ष्ये मनोर्भविष्यस्य सावर्ण्याख्यस्य वै सुतान्
विजयश्चार्ववीरश्च निर्मोहः सत्यवाक्रृती ॥ १.८७.३३ ॥
वरिष्ठश्च गरिष्ठश्च वाचः संगतिरेव च
अश्वत्थामा कृपो व्यासो गालवो दीप्तिमानथ ॥ १.८७.३४ ॥
ऋष्यशृङ्गस्तथा राम ऋषयः सप्त कीर्तिताः
सुतपा अमृताभाश्च मुख्याश्चापि तथा सुराः ॥ १.८७.३५ ॥
तेषां गणस्तु देवाना मेकैको विंशकः स्मृतः
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ १.८७.३६ ॥
दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम्
ऋद्धिमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥ १.८७.३७ ॥
वारुणेर्दक्षसावर्णेर्नवमस्य सुताञ्छृणु
धृतिकेतुर्देप्तिकेतुः पञ्चहस्तो निरामयः
पृतुश्रवा बृहदूद्युम्न ऋचीको बृहतो गुणः ॥ १.८७.३८ ॥
मेधातिथिर्द्युतिश्चैव सवसो वसुरेव च
ज्योतिष्मान्हव्यकव्यौ च ऋषयो विभुरीश्वरः ॥ १.८७.३९ ॥
परो मरीचिर्गर्भश्च स्व (सु) धर्माणश्च ते त्रयः
देशशत्रु) कालकाक्षस्तद्धन्ता पद्मनाभकः ॥ १.८७.४० ॥
भविष्यन्ति तदा देवा एकैको द्वादशो गणः
तेषामिन्द्रो महावीर्यो भविष्यत्यद्भुतो हर ॥ १.८७.४०*१ ॥
धमपुत्रस्य पुत्रांस्तु दश मस्य मनोः शृणु
सुक्षेत्रश्चोत्तमौजाश्च भूरिश्रेण्यश्च वीर्यवान् ॥ १.८७.४१ ॥
शतानीको निरमित्रो वृषसेनो जयद्रथः
भूरिद्युम्नः सुवर्चाश्च शान्तिरिन्द्रः प्रतापवान् ॥ १.८७.४२ ॥
अयो (पो) मूर्तिर्हविष्मांश्च सुकृतिश्चाव्ययस्तथा
नाभागोऽप्रतिमौजाश्च सौरभ ऋषयस्तथा ॥ १.८७.४३ ॥
प्राणाख्याः शतसंख्यास्तु देवतानां गणस्तदा
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः
बलिः शत्रुस्तं हरिश्च गदया घातयिष्यति ॥ १.८७.४४ ॥
रुद्र पुत्रस्य ते पुत्रान्वक्ष्याम्येकादशस्य तु
सर्वत्रगः सुशर्मा च देवानीकः पुरुर्गुरुः ॥ १.८७.४५ ॥
क्षेत्रवर्णो दृढेषुश्च आर्द्रकः पुत्रकस्तथा
हविष्मांश्च हविष्यश्च वरुणो विश्वविस्तरौ ॥ १.८७.४६ ॥
विष्णुश्चैवाग्नितेजाश्च ऋषयः सप्त कीर्तिताः
विहङ्गमाः कामगं निर्माणरुचयस्तथा ॥ १.८७.४७ ॥
एकैकस्त्रिंशकस्तेषां गणश्चैन्द्रश्च वै वृषः
धसग्रीवो रिपुस्तस्य श्रीरूपी घातयिष्यति ॥ १.८७.४८ ॥
मनोस्तु दक्षपुत्रस्य द्वादशस्यात्मजाञ्छृणु
देववानु पदेवश्च देवश्रेष्ठो विदूरथः ॥ १.८७.४९ ॥
मित्रवान्मित्रदेवश्च मित्रबिन्दुश्च वीर्यवान्
मित्रवाहः प्रवाहश्च दक्षपुत्रमनोः सुताः ॥ १.८७.५० ॥
तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः
तपोधृतिर्द्युतिश्चान्यः सप्तमश्च तपोधनाः ॥ १.८७.५१ ॥
स्वधर्माणः सुतपसो हरितो होहितास्तथा
सुरारयो गणाश्चैते प्रत्येकं दशको गणः ॥ १.८७.५२ ॥
ऋतधामा च भद्रे (तत्रे) न्द्रस्तारको नाम तद्रिपुः
हरिर्नपुंसकं भूत्वा घातयिष्यति शङ्कर ॥ १.८७.५३ ॥
त्रयोदशस्य रौच्यस्य मनोः पुत्रान्निबोध मे
चित्रसेनो विचित्रश्च तपोधर्मरतो धृतिः ॥ १.८७.५४ ॥
सुनेत्रः क्षेत्रवृत्तिश्च सुनयो धर्मपो दृढः
धृतिमानव्ययश्चैव निशारूपो निरुत्सुकः ॥ १.८७.५५ ॥
निर्मोहस्तत्त्वदर्शो च ऋषयः सप्त कीर्तिताः
स्व (सु) रोमाणः स्व (सु) धर्माणः स्व (सु) कर्माणस्तथामराः ॥ १.८७.५६ ॥
त्रयस्त्रिंशद्विभेदास्ते देवानां तत्र वै गणाः
इन्द्रो दिवस्पतिः शत्रुस्त्विष्टिभो नाम दानवः ॥ १.८७.५७ ॥
मायूरेण च रूपेण घातयिष्यति माधवः
चतुर्दशस्य भौत्यस्य शृणु पुत्रान्मनोर्मम ॥ १.८७.५८ ॥
उरुर्गभीरो धृष्टश्च तरस्वीग्रा (ग्र) ह एव च
अभिमानि प्रवीरश्च जिष्णुः संक्रन्दनस्तथा
तेजस्वी दुर्लभश्चैव भौत्यस्यैते मनोः सुताः ॥ १.८७.५९ ॥
अग्नीध्रश्चाग्निबाहुश्च मागधश्च तथा शुचिः
अजितो मुक्तशुक्रौ च ऋषयः सप्त कीर्तिताः ॥ १.८७.६० ॥
चाक्षुषाः कर्मनिष्ठाश्च पवित्रा भ्राजिनस्तथा
वचोवृद्धा देवगणाः पञ्च प्रोक्तास्तु सप्तकाः ॥ १.८७.६१ ॥
शुचिरिन्द्रो महादैत्यो रिपुहन्ता हरिः स्वयम्
एको देवश्चतुर्धा तु व्यासरूपेण विष्णुना ॥ १.८७.६२ ॥
कृतस्ततः पुराणानि विद्याश्चाष्टादशैव तु
अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः ॥ १.८७.६३ ॥
पुराणं धर्मशास्त्रं च आयुर्वेदार्थशास्त्रकम्
धनुर्वेदश्च गान्धर्वो विद्या ह्यष्टादशैव ताः ॥ १.८७.६४ ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मनुतद्वंशनिरूपणं नाम स्पताशीतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ८८
सूत उवाच [SUTA SAID]
हरिर्मन्वन्तराण्याह ब्रह्मादिभ्यो हराय च
मार्कण्डेयः पितृस्तो त्रं क्रौञ्चुकिं प्राह तच्छृणु ॥ १.८८.१ ॥
मार्कण्डेय उवाच
रुचिः प्रजापतिः पूर्वं निर्ममो निरहङ्कृतिः
अत्रस्तोऽमितमायी च चचार पृथिवीमिमाम् ॥ १.८८.२ ॥
अनग्निमनिकेतं तमेकाहारमनाश्रमम्
निमुक्तसंगं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम् ॥ १.८८.३ ॥
पितर ऊचुः
वत्स कस्मात्त्वया पुण्यो न कृतो दार संग्रहः
स्वर्गापवर्गहे (से)तुत्वाद्वन्धस्तेनानिशं (निमिषं) विना ॥ १.८८.४ ॥
गृही समस्तदेवानां पितॄणां च तथार्हणम्
ऋषीणामर्थिनां चैव कुर्वल्लो कानवाप्नुयात् ॥ १.८८.५ ॥
स्वाहोच्चारणतो देवान्स्वधोच्चारणतः पितन्
विभजत्यन्नदानेन भृत्याद्यानतिथीनपि ॥ १.८८.६ ॥
स त्त्वं दैवादृणाद्वन्धमिममस्मदृणादपि
अवाप्तोऽसि मनुष्यर्षे भूतेभ्यश्च दिनेदिने ॥ १.८८.७ ॥
अनत्पाद्य सुतान्देवानसन्तर्प्य पितॄस्तथा
अकृत्वा च कथं माण्ड्यं स्वर्गतिं प्राप्तुमिच्छसि ॥ १.८८.८ ॥
क्लेशबोधैककं पुत्र अन्यायेन भवेत्तव
मृतस्य नरकं त्यक्त्वा क्लेश एवान्यजन्मनि ॥ १.८८.९ ॥
रुचिरुवाच
परिग्रहोऽतिदुः खाय पापाया धोगतेस्तथा
भवत्यतो मया पूर्वंन कृतो दारसंग्रहः ॥ १.८८.१० ॥
आत्मनः संशयोपायः क्रियते क्षणमन्त्रणात्
स्वमुक्तिहेतुर्न भवत्यसावपि परिग्रहात् ॥ १.८८.११ ॥
प्रक्षाल्यतेऽनुदिवसं य आत्मा निष्परिग्रहः
मम त्वपङ्कदिग्धोऽपि विद्याम्भोभिर्वरं हि तत् ॥ १.८८.१२ ॥
अनेकभवसंभूतकर्मपङ्काङ्कितो बुधैः
आत्मा तत्त्वज्ञानतोयैः प्रक्षाल्यो नियतेन्द्रियैः ॥ १.८८.१३ ॥
पितर ऊचुः
युक्तं प्रक्षालनं कर्तुमात्मनोऽपि यतेन्द्रियैः
किं तु नोपायमार्गोऽयं यतस्त्वं पुत्र वर्तसे ॥ १.८८.१४ ॥
पञ्चयज्ञैस्तपोदानैरशुभं नुदतस्तव
फलाभिसन्धिरहितैः पूर्वकम शुभाशुभैः ॥ १.८८.१५ ॥
एवं न बन्धो भवति कुर्वतः कारणात्मकम्
न च बन्धाय तत्कर्म भवत्यनतिसन्निभम् ॥ १.८८.१६ ॥
पूर्वकर्म कृतं बोगैः क्षीयते ह्यनिशन्तथा
सुखदुः खात्मकैर्वत्स पुण्या पुण्यात्मकं नृणाम् ॥ १.८८.१७ ॥
एवं प्रक्षाल्यते प्राज्ञैरात्मा बन्धाच्च रक्ष्यते
रक्ष्यश्च स्वविवेकैर्न पापपङ्केन दह्यते ॥ १.८८.१८ ॥
रुचिरुवाच
अविद्या पच्यते वेदे कर्ममार्गात्पितामहाः
तत्कथं कर्मणो मार्गे भवन्तो योजयन्ति माम् ॥ १.८८.१९ ॥
पितर उचुः
अविद्या सर्वमेवैतत्कर्मणैतन्मृषा वचः
किं तु विद्यापरिप्राप्तौ हेतुः कर्म न संशयः ॥ १.८८.२० ॥
विहिताकरणानर्थो न सद्भिः क्रियते तु यः
संयमो मुक्तये योऽन्यः प्रत्युताधोगतिप्रदः ॥ १.८८.२१ ॥
प्रक्षालयामीति भवान्यदेतन्मन्यते वरम्
विहिताकरणोद्भूतैः पापैस्त्वमपि दह्यसे ॥ १.८८.२२ ॥
अविद्याप्युपकाराय विषवज्जायते नृणाम्
अनुष्ठाना भ्युपायेन बन्धयोग्यापि नो हि सा ॥ १.८८.२३ ॥
तस्माद्वत्स कुरुष्व त्वं विधिवद्दारसंग्रहम्
आजन्म विफलन्तेऽस्तु असम्प्राप्यान्यलौकिकम् ॥ १.८८.२४ ॥
रुचिरुवाच
वृद्धोऽहं साम्प्रतं को मे पितरः सम्प्रिदास्यति
भार्यान्तथा दरिद्रस्य दुष्करो दारसंग्रहः ॥ १.८८.२५ ॥
पितर ऊचुः
अस्माकं पतनं वत्स भवतश्चाप्यधोगतिः
नूनं भावि भवित्री च नाभिनन्दसि नो वचः ॥ १.८८.२६ ॥
इत्युक्त्वा पितरस्तस्य पश्यतो मुनिसत्तम
बभूवुः सहसादृश्या दीपा वातहता इव ॥ १.८८.२७ ॥
मुनिः क्रैञ्चुकये प्राह मार्कण्डेयो महातपाः
रुचिवृत्तान्तमखिलं पितृसंवादलक्षणम् ॥ १.८८.२८ ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्मज्ञानमा नामाष्टाशीतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ८९
सूत उवाच [SUTA SAID]
पृष्टः क्रैञ्चुकिनोवाच मार्कण्डेयः पुनश्च तम्
स तेन पितृवाक्यने भृशमुद्वग्नमानसः ॥ १.८९.१ ॥
कन्याभिलाषी विप्रर्षिः परिबभ्राम मेदिनीम्
कन्यामलभमानोऽसौ पितृवाक्येन दीपितः
चिन्तामवाप महीतमतीवोद्वग्नमानसः ॥ १.८९.२ ॥
किं करोमि क्र गच्छामि कथं मे दारसंग्रहः
क्षिप्रं भवेन्मत्पितॄणां ममाभ्युदयकारकः ॥ १.८९.३ ॥
इति चिन्तयतस्तस्यमतिर्जाता महात्मनः
तपसाराधयाम्येनं ब्रह्माणं कमलोद्भवम् ॥ १.८९.४ ॥
ततो वर्षशतं दिव्यं तपस्तेपे महामनाः
तत्र स्थितश्चिरं कालं वनेषु नियमस्थितः
आराधनाय स तदा परं नियममास्थितः ॥ १.८९.५ ॥
ततः प्रदर्शयामास ब्रह्मा लोकपितामहः
उवाचाथ प्रसन्नोऽस्मीत्युच्यतामभिवाञ्छितम् ॥ १.८९.६ ॥
ततोऽसौ प्रणिपत्याह ब्रह्माणं जगतो गतिम्
पितॄणां वचनात्तेन यत्कर्तुमभिवाञ्छितम् ॥ १.८९.७ ॥
ब्रह्मोवाच
प्रजापतिस्त्वं भविता स्रष्टव्या भवता प्रजाः
सृष्ट्वा प्रजाः सुतान्विप्र समुत्पाद्य क्रियास्तथा ॥ १.८९.८ ॥
कृत्वा कृताधिकारस्त्वं ततः सिद्धिमवाप्यसि
सत्वं यथोक्तं पितृभिः कुरु दारपरिग्रहम् ॥ १.८९.९ ॥
कामं चेममभिध्याय क्रियतां पितृपूजनम्
त एव तुष्टाः पितरः प्रदास्यन्ति तवेप्सितम्
पत्नीं सुतांश्च सन्तुष्टाः किं न दद्युः पितामहाः ॥ १.८९.१० ॥
मार्कण्डेय उवाच
इत्यृषिर्वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः
नद्या विविक्ते पुलिने चकार पितृतर्पणम् ॥ १.८९.११ ॥
तुष्टाव च पितॄन्विप्रः स्तवैरेभिरथादृतः
एकाग्रप्रयतो भूत्वा भक्तिनम्रात्मकन्धरः ॥ १.८९.१२ ॥
रुचिरुवाच
नमस्येऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवतम्
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ १.८९.१३ ॥
नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ १.८९.१४ ॥
नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान्
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ १.८९.१५ ॥
नमस्येऽहं पितॄन् भक्त्या येर्ऽच्यन्ते गुह्यकैर्दिवि
तन्मयत्वेन वाधद्भिः ऋद्धिमात्यन्तिकीं पराम् ॥ १.८९.१६ ॥
नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ १.८९.१७ ॥
नमस्येऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ १.८९.१८ ॥
नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ १.८९.१९ ॥
नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥ १.८९.२० ॥
नमस्येऽहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान्
कव्यैरशेषैविधिवल्लोकद्वयफलप्रदान् ॥ १.८९.२१ ॥
नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा
स्वकर्माभिरतैर्न्नित्यं पुष्पधूपान्नवारिभिः ॥ १.८९.२२ ॥
नमस्येऽहं पितॄञ्छ्राद्धे शूद्रैरपि च भक्तितः
सन्तर्प्यते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ १.८९.२३ ॥
नमस्येऽहं पितॄञ्छ्राद्धे पाताले ये महासुरैः
सन्तर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ १.८९.२४ ॥
नमस्येऽहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ १.८९.२५ ॥
नमस्येऽहं पितॄञ्छ्राद्धैः सर्पैः सन्तर्पितान्सदा
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ १.८९.२६ ॥
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा
तथान्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम् ॥ १.८९.२७ ॥
पितॄन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्ताः
यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ १.८९.२८ ॥
पितॄन्नमस्ये दिवि ये च मूर्ताः स्वधाभुजः काम्यफलाभिसन्धौ
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥ १.८९.२९ ॥
तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान्
सुरत्वमिन्द्रत्वमितोऽधिकं वा गजाश्वरत्नानि महागृहाणि ॥ १.८९.३० ॥
सोमस्य ये रश्मिषु येर्ऽकबिम्बे शुक्ले विमाने च सदा वसन्ति
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु ॥ १.८९.३१ ॥
येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः ॥ १.८९.३२ ॥
ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्य मनोहरैश्च
कालेन शाकेन महर्षिवर्यैः संप्रीणितास्ते मुदमत्र यान्तु ॥ १.८९.३३ ॥
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम्
तेषाञ्च सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ १.८९.३४ ॥
दिनेदिने ये प्रतिगृह्णतेर्ऽचां मासान्तपूज्या भुवि येऽष्टकासु
ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥ १.८९.३५ ॥
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्त्रियाणां ज्वलनार्कवर्णाः
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ १.८९.३६ ॥
तेऽस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन
तथाग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ १.८९.३७ ॥
ये देवपूर्वाण्यभितृप्तिहेतोर श्रन्ति कव्यानि शुभाहृतानि
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ १.८९.३८ ॥
रक्षांसि भूतान्यसुरांस्तथोग्रात्रिर्णाशयन्तु त्वशिवं प्रजानाम्
आद्याः सुराणाममरेशपूज्यास्तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मितेभ्यः ॥ १.८९.३९ ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ १.८९.४० ॥
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम्
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ १.८९.४१ ॥
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ १.८९.४२ ॥
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ १.८९.४३ ॥
कल्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः
कल्यताहेतुरन्घः षडिमे ते गणाः स्मृताः ॥ १.८९.४४ ॥
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ १.८९.४५ ॥
महान्महात्मा महितो महिमावान्महाबलः
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ १.८९.४६ ॥
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः
पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ १.८९.४७ ॥
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत्
त एवात्र पितृगणास्तुष्यन्तु च मदाहितात् ॥ १.८९.४८ ॥
माक्रण्डेय उवाच
एवं तु स्तुवतस्तस्य तेजसोराशिरुच्छ्रितः
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ १.८९.४९ ॥
तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत्
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदञ्जगौ ॥ १.८९.५० ॥
रुचिरुवाच
अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम्
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ १.८९.५१ ॥
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा
सप्तर्षोणां तथान्येषां तान्नमस्यामि कामदान् ॥ १.८९.५२ ॥
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा
तान्नमस्याम्यहं सर्वान्पितॄनप्युदधावपि ॥ १.८९.५३ ॥
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ १.८९.५४ ॥
प्रजापतेः कश्यपाय सोमाय वरुणाय च
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ १.८९.५५ ॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ १.८९.५६ ॥
सोमाधारान्पितृगणान्योगमूर्तिधरांस्तथा
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ १.८९.५७ ॥
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम्
अग्निसोममयं विश्वं यत एतदशेषतः ॥ १.८९.५८ ॥
ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ १.८९.५९ ॥
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः
नमोनमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः ॥ १.८९.६० ॥
माक्रण्डेय उवाच
एवं स्तुतास्ततस्तेन तजसो मुनिसत्तमाः
निश्चक्रमुस्ते पितरो भासयन्तो दिशादश ॥ १.८९.६१ ॥
निवेदनञ्च यत्तेन पुष्पगन्धानुलेपनम्
तद्भूषितानथ स तान्ददृशे पुरतः स्थितान् ॥ १.८९.६२ ॥
प्रणिपत्य रुचिर्भक्त्या पुनरेव कृताञ्जलिः
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ॥ १.८९.६३ ॥
ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम्
वरं वृणीष्वेति स तानुवाचानतकन्धरः ॥ १.८९.६४ ॥
रुचिरुवाच
प्रजानां सर्गकर्तृत्वमादिष्टं ब्रह्मणा मम
सोऽहं पत्नीमभीप्सामि धन्यां दिव्यां प्रजावतीम् ॥ १.८९.६५ ॥
पितर ऊचुः
अत्रैव सद्यः पत्नी ते भवत्वतिमनोरमा
तस्याञ्च पुत्रो भविता भवतो मुनिसत्तम ! ॥ १.८९.६६ ॥
मन्वन्तराधिपो धीमांस्त्वन्नाम्नैवोपलक्षितः
रुचे ! रौच्य इति ख्यातिं प्रयास्यति जगत्त्रये ॥ १.८९.६७ ॥
तस्यापि बहवः पुत्रा महाबलपराक्रमाः
भविष्यन्ति महात्मानः पृथिवीपरिपालकाः ॥ १.८९.६८ ॥
त्वं च प्रिजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः
क्षीणाधिकारो धर्मज्ञस्ततः सिद्धिमवाप्स्यसि ॥ १.८९.६९ ॥
स्तोत्रेणानेन च नरो योऽस्मांस्तोष्यति भक्तितः
तस्य तुष्टा वयं भोगानात्मजं ध्यानमुत्तमम् ॥ १.८९.७० ॥
आयुरारोग्यमर्थं च पुत्रपौत्रादिकं तथा
वाञ्छद्भिः सततं स्तव्याः स्तोत्रेणानेन वै यतः ॥ १.८९.७१ ॥
श्राद्धेषु य इमं भक्त्या त्वस्मत्प्रीतिकरं स्तवम्
पठिष्यति द्विजाग्र्याणां भुञ्जतां पुरतः स्थितः ॥ १.८९.७२ ॥
स्तोत्रश्रवणसंप्रीत्या सन्निधाने परे कृते
अस्माभिरक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ॥ १.८९.७३ ॥
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत्
अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा ॥ १.८९.७४ ॥
अश्राद्धार्हैरुपतैरुपहारैस्तथा कृतैः
अकालेऽप्यथ वा देशे विधिहीनमथापि वा ॥ १.८९.७५ ॥
अश्रद्धया वा पुरुषैर्दम्भमाश्रित्य यत्कृतम्
अस्माकं तृप्तये श्राद्धन्तथाप्येतदुदीरणात् ॥ १.८९.७६ ॥
यत्रैतत्पठ्यते श्राद्धे स्तोत्रमस्तत्सुखावहम्
अस्माकं जायते तृप्तिस्तत्र द्वादशावर्षिकी ॥ १.८९.७७ ॥
हेमन्ते द्वादशाब्दानि तृप्तिमेतत्प्रयच्छति
शिशिरे द्विगुणाब्दानि तृप्तिं स्तोत्रमिदं शुभम् ॥ १.८९.७८ ॥
वसन्ते षोडश समास्तृप्तये श्राद्धकर्मणि
ग्रीष्मे च षोडशैवैतत्पठितं तृप्तिकारकम् ॥ १.८९.७९ ॥
विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते
वर्षासु तृप्तिरस्माकमक्षय्या जायते रुचे ॥ १.८९.८० ॥
शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति
अस्माकमेतत्पुरुषैस्तृप्तिं पञ्चदशाब्दिकीम् ॥ १.८९.८१ ॥
यस्मिन् गेहे च लिखितमेतत्तिष्ठति नित्यदा
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ॥ १.८९.८२ ॥
तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतां पुरः
श्रावणीयं महाभाग अस्माकं पुष्टिकारकम् ॥ १.८९.८३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रुचिकृतपितृस्तोत्रं नामैकोननवतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ९०
माक्रण्डेय उवाच
ततस्तस्मान्नदीमध्यात्समुत्तस्थौ मनोरमा
प्रम्लौचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥ १.९०.१ ॥
सा चोवाच महात्मानं रुचिं सुमधुराक्षरकम्
प्रसादयामास भूयः प्रम्लोचा च वराप्सराः ॥ १.९०.२ ॥
अतीवरूपिणी कन्या मत्प्रसाद्वराङ्गना
जाता वरुणपुत्रेण पुष्करेण महात्मना ॥ १.९०.३ ॥
तां गृहाण मया दत्तां भार्यार्थे वरवर्णिनीम्
मनुर्महामतिस्तस्यां समुत्पत्स्यति ते सुतः ॥ १.९०.४ ॥
मार्कण्डेय उवाच
तथेति तेन साप्युक्ता तस्मात्तोयाद्वपुष्मतीम्
उद्दधार ततः कन्यां मानिनीं नाम नामतः ॥ १.९०.५ ॥
नद्याश्च पुलिने तस्मिन्स मुनिर्मुनिसत्तमाः
जग्राह पाणिं विधिवत्समानीय महामुनिः ॥ १.९०.६ ॥
तस्यां तस्य सुतो जज्ञे महावीर्यो महाद्युतिः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ९१
सूत उवाच [SUTA SAID]
स्वायम्भुवाद्या मुनयो हरिं ध्यायन्ति कर्मणा
व्रताचारार्चनाध्यानस्तुतिजप्यपरायणाः ॥ १.९१.१ ॥
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम्
आकशेन विहीनं वै तेजसा परिवर्जितम् ॥ १.९१.२ ॥
उदकेन विहीनं वै तद्धर्मपरिवर्जितम्
पृथिवीरहितं चैव सर्वभतविवर्जितम् ॥ १.९१.३ ॥
भूताध्यक्षं तथा बद्धनियन्तारं प्रभुं विभुम्
चैतन्यरूपतारूपं सर्वाध्यक्षं निरञ्जनम् ॥ १.९१.४ ॥
मुक्तसङ्गं महेशानं सर्वदेवप्रपूजितम्
तेजोरूपमसत्त्वं च तपसा परिवर्जितम् ॥ १.९१.५ ॥
रहितं रजसा नित्यं व्यतिरिक्तं गुणैस्त्रिभिः
सर्वरूपविहीनं वै कर्तृत्वादिविवर्जितम् ॥ १.९१.६ ॥
वासनारहितं शुद्धं सर्वदोषविवर्जितम्
पिपासावर्जितं तत्तच्छो कमोहविवर्जितम् ॥ १.९१.७ ॥
जरामरणहीनं वै कूटस्थं मोहवर्जितम्
उत्पत्तिरहितं चैव प्रलयेन विवर्जितम् ॥ १.९१.८ ॥
सत्यं सर्वाचारहीनं निष्कलं परमेश्वरम्
जाग्रत्स्वप्नसुषुप्त्यादिवर्जितं नामवर्जितम् ॥ १.९१.९ ॥
अध्यक्षं जाग्रदादीनां शान्तरूपं सुरेश्वरम्
जाग्रदादिस्थितं नित्यं कार्यकारणवर्जितम् ॥ १.९१.१० ॥
सर्वदृष्टं तथा मूर्तं सूक्ष्मं सूक्ष्मतरं परम्
ज्ञानदृक्श्रोत्रविज्ञानं परमानन्दरूपकम् ॥ १.९१.११ ॥
विश्वेन रहितं तद्वत्तैजसेन विवर्जितम्
प्राज्ञेन रहितञ्चैव तुरीयं परमाक्षरम् ॥ १.९१.१२ ॥
सर्वगोप्तृ सर्वहन्तृ सर्वभूतात्मरूपि च
बुद्धिधर्मविहीनं वै निराधारं शिवं हरिम् ॥ १.९१.१३ ॥
विक्रियारहितं चैव वेदान्तैर्वेद्यमेव च
वेदरूपं परं भूतमिन्द्रियेभ्यः परं शुभम् ॥ १.९१.१४ ॥
शब्देन वर्जितञ्चैव रसेन च विवर्जितम्
स्पर्शेन रहितं देवं रूपमात्रविवर्जितम् ॥ १.९१.१५ ॥
रूपेण रहितं ञ्चैव गन्धेन परिवर्जितम्
अनादि ब्रह्म रन्ध्रान्तमहं ब्रह्मास्मि केवलम् ॥ १.९१.१६ ॥
एवं ज्ञात्वा महादेवध्यानं कुर्याज्जितेन्द्रियः
ध्यानं यः कुरुते ह्येवं स भवेद्बह्म मानवः ॥ १.९१.१७ ॥
इति ध्यानं समाख्यातमश्विरस्य मया तव
अधुना कथयाम्यन्यत्किन्तद्ब्रूहि वृषध्वज ॥ १.९१.१८ ॥

इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डे हरिध्यानं नामैकनवतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ९२
रुद्रौवाच
विष्णोर्ध्यानं पुनर्ब्रूहि शङ्खचक्रगदाधर
येन विज्ञातमात्रेण कृतकृत्यो भवेन्नरः ॥ १.९२.१ ॥
हरिरुवाच
प्रवक्ष्यामि हरेर्ध्यानं मायातन्त्रविमर्दकम्
मूर्तामूर्तादिभेदेन तद्ध्यानं द्विविधं हर ॥ १.९२.२ ॥
अमूर्तं रुद्र कथितं हन्त मूत्त ब्रवीम्यहम्
सूर्यकोटिप्रतीकाशो जिष्णुर्भाजिष्णुरेकतः ॥ १.९२.३ ॥
कुन्दगोक्षीरधवलो हरिर्ध्येयो मुमुक्षुभिः
विशालेन सुसौम्येन शङ्खेन च समन्वितः ॥ १.९२.४ ॥
सहस्रादित्यतुल्येन ज्वालामालोग्ररूपिणा
चक्रेण चान्वितः शान
्तो गदाहस्तः शुभाननः ॥ १.९२.५ ॥
किरीटेन महार्हेण रत्नप्रज्वलितेन च
सायुधः सर्वगो देवः सरोरुहधरस्तथा ॥ १.९२.६ ॥
वनमालाधरः शुभ्रः समांसो हेमभूषणः
सुवस्त्रः शुद्धदेहश्च सुकर्णः पद्मसंस्थितः ॥ १.९२.७ ॥
हिरण्मयशरीरश्च चारुहारी शुभाङ्गदः
केयूरेण समायुक्तो वनमालासमन्वितः ॥ १.९२.८ ॥
श्रीवत्सकौस्तुभयुतो लक्ष्मीवन्द्येक्षणान्वितः
अमिमादिगुणैर्युक्तः सृष्टिसंहारकारकः ॥ १.९२.९ ॥
मुनिध्येयोऽसुरध्येयो देवध्येयोऽतिसुन्दरः
ब्रह्मादिस्तम्बपर्यन्तभूतजातहृदिस्थितः ॥ १.९२.१० ॥
सनातनोऽव्ययो मेध्यः सर्वानुग्रहकृत्प्रभुः
नारायणो महादेवः स्फुरन्मकरकुण्डलः ॥ १.९२.११ ॥
सन्तापनाशनोऽभ्यर्च्यो मङ्गल्यो दुष्टनाशनः
सर्वात्मा सर्वरूपश्च सर्वगो ग्रहनाशनः ॥ १.९२.१२ ॥
चार्वङ्गुलीयसंयुक्तः सुदीप्तनख एव च
शरण्यः लसुखकारी च सौम्यरूपो महेश्वरः ॥ १.९२.१३ ॥
सर्वालङ्कारसंयुक्तश्चारुचन्दनचर्चितः
सर्वदेवसमायुक्तः सर्वदेवप्रियङ्करः ॥ १.९२.१४ ॥
सर्वलोकहितैषी च सर्वेशः सर्वभावनः
आदित्यमण्डले संस्थो अग्निस्थो वारिसंस्थितः ॥ १.९२.१५ ॥
वासुदेवो जगद्धाता ध्येयो विष्णुर्मुमुक्षुभिः
वासुदेवोऽहमस्मीति आत्मा ध्येयो हरिहरिः ॥ १.९२.१६ ॥
ध्यायन्त्येवं च ये विष्णुं ते यान्ति परमां गतिम्
याज्ञवल्क्यः पुरा ह्येवं ध्यात्वा विष्णुं सुरेश्वरम् ॥ १.९२.१७ ॥
धर्मोपदेशकर्तृत्वं संप्राप्यागात्परं पदम्
तस्मात्त्वमपि देवेश ! विष्णुं चिन्तय शङ्कर ! ॥ १.९२.१८ ॥
विष्णुध्यानं पठेद्यस्तु प्राप्नोति परमां गतिम् ॥ १.९२.१९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुध्यानं नाम द्विनवतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ९३
महेश्वर उवाच
याज्ञवल्क्येन यत्पूर्वं धर्मं प्रोक्तं कयं हरे !
तन्मे काथय केशिघ्न ! यथा तत्त्वेन माधव ! ॥ १.९३.१ ॥
हरिरुवाच
याज्ञवल्क्यं नमस्कृत्य मिथिलायां समास्थितम्
अपृच्छन्नॄषयो गत्वा वर्णधर्माद्यशेषतः
तेभ्यः स कथयामास विष्णुं ध्यात्वा जितेन्द्रियः ॥ १.९३.२ ॥
याज्ञवल्क्य उवाच
यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ॥ १.९३.३ ॥
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश
वक्तारो धर्मशास्त्राणां मनुर्विष्णुर्यमोऽङ्गिराः ॥ १.९३.४ ॥
वसिष्ठदक्षसंवर्तशातातपपराशराः
आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती ॥ १.९३.५ ॥
गौतमः शङ्खलिखितो हारीतोऽत्रिरहं तथा
एते विष्णुं समाराध्य जाता धर्मोपदेशकाः ॥ १.९३.६ ॥
देशकाल उपायेन द्रव्यं श्रद्धासमन्वितम्
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ १.९३.७ ॥
इज्याचारो दमोऽहिंसा दानं स्वाध्यायकर्म च
अयं च परमो धर्मो यद्योगेनात्मदर्शनम् ॥ १.९३.८ ॥
चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा
सा ब्रूते यत्स्वधर्मः स्यादेको वाध्यात्मवित्तमः ॥ १.९३.९ ॥
ब्रह्मक्षात्त्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ॥ १.९३.१० ॥
गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा
षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म च ॥ १.९३.११ ॥
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः
षष्ठेऽन्नप्राशनं मासि चूडां कुर्याद्यथाकुलम् ॥ १.९३.१२ ॥
एवमेनः शमं याति बीजगर्भसमुद्भवम्
तूष्ण ईमेताः क्रियाः स्त्रीणां विवाहश्च समन्त्रकः ॥ १.९३.१३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्ंमनिरूपणं नाम त्रिनवतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ९४
याज्ञवल्क्य उवाच
गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम्
रज्ञामेकादशे सैके विशामेके यथाकुलम् ॥ १.९४.१ ॥
उपनीय कुरुः शिष्यं महाव्याहृतिपूर्वकम्
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ १.९४.२ ॥
दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदड्मुखः
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ॥ १.९४.३ ॥
गृहीतशिश्रश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः
गन्धलेपक्षयकरं शौचं कुर्यान्महाव्रतः ॥ १.९४.४ ॥
अन्तर्जानुः शुचौ देश उपविष्ट उदङ्मुखः
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १.९४.५ ॥
कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ १.९४.६ ॥
त्रिः प्राश्यापो द्विरुन्मृज्य खान्याद्भिः समुपस्पृशेत्
अद्भिस्तु प्रकृतिस्थाभिर्हेनाभिः फेनबुहुदैः ॥ १.९४.७ ॥
हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः
शुध्येरंस्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ १.९४.८ ॥
स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः
सूर्यस्य चाप्युपस्थानं गायत्त्रयाः प्रत्ययं जपः ॥ १.९४.९ ॥
गायत्त्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम्
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥ १.९४.१० ॥
प्राणानायम्य सम्प्रोक्ष्य त्र्यृचेनाब्दैवतेन तु
जपन्नासीत सावित्त्रीं प्रत्यगातारकोदयात् ॥ १.९४.११ ॥
सन्ध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात्
अग्निकार्यं ततः कुर्यात्सन्ध्ययोरुभयोरपि ॥ १.९४.१२ ॥
ततोऽभिवादयेद्वृद्वानसावहमिति ब्रुवन्
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ॥ १.९४.१३ ॥
साहूतश्चाप्यधीयीत सर्वं चास्मै निवेदयेत्
हितं तस्याचरेन्नित्यं मनोवाक्रायकर्मभिः ॥ १.९४.१४ ॥
दण्डाजिनोपवीतानि मेखलां चैव धारयेत्
ब्राह्मणेषु चरेद्भैक्षमनिन्द्येष्वात्मवृत्तये ॥ १.९४.१५ ॥
आदिमध्यावसानेषु भवेच्छन्दोपलक्षिता
ब्राह्मणक्षत्त्रियविशां भैक्षचर्या यथाक्रमम् ॥ १.९४.१६ ॥
कृताग्निकार्यो भुञ्जीत विनीतो गुर्वनुज्ञया
आपोशानक्रियापूर्वं सत्कृत्यान्नमकुत्सयन् ॥ १.९४.१७ ॥
ब्रह्मचार्यास्थितो नैकमन्नमद्यादनापदि
ब्राह्मणः काममश्रीयाच्छ्राद्धे व्रतमपडियन् ॥ १.९४.१८ ॥
मधु मांसं तथा स्विन्नमित्यादि परिवर्जयेत्
स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति ॥ १.९४.१९ ॥
उपनीय ददात्येनामाचार्यः स प्रकीर्तितः
एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ॥ १.९४.२० ॥
एते मान्या यथापूर्वमेभ्यो माता गरीयसी
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ॥ १.९४.२१ ॥
ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे
आषोडशाऽद्वाविंशाच्चाचतुर्विंशाच्च वत्सरात् ॥ १.९४.२२ ॥
ब्रह्मक्षत्त्रविशां काल औपनायनिकः परः
अत ऊर्ध्वं पतन्त्येते सर्वधर्मविवर्जिताः ॥ १.९४.२३ ॥
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः
मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जबन्धनम् ॥ १.९४.२४ ॥
ब्राह्मणक्षत्त्रिय विशस्तस्मादेते द्विजातयः
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ॥ १.९४.२५ ॥
वेद एव द्विजातीनां निः श्रेयसकरः परः
मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः ॥ १.९४.२६ ॥
पितॄन्मधुघृताभ्यां च ऋचोऽधीते हि सोऽन्वहम्
यजुः साम पठेत्तद्वदथर्वाङ्गिरसं द्विजः ॥ १.९४.२७ ॥
सन्तर्पयेत्पितॄन्देवान्सोऽन्वहं हि घृतामृतैः
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः ॥ १.९४.२८ ॥
इतिहासांस्तथा विद्या योऽधीते शक्तितोऽन्वहम्
सन्तर्पयेत्पितॄन्देवान्मांसक्षीरोदनादिभिः ॥ १.९४.२९ ॥
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः
यंयं क्रतुमधीतेसौ तस्यस्याप्नुयात्फलम् ॥ १.९४.३० ॥
भूमिदानस्य तपसः स्वाध्यायफलभाग्द्विजः
नेष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ ॥ १.९४.३१ ॥
तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा
अनेन विधिना देहे साधयेद्विजितेन्द्रियः
ब्रह्मलोकमवाप्नोति न चेह जायते पुनः ॥ १.९४.३२ ॥

इत श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्मनिरूपणं नाम चतुर्नवतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ९५
याज्ञवल्क्य उवाच
शृण्वन्तु मुनयो धर्मान् गृहस्थस्य यतव्रताः
गुरवे च धनं दत्त्वा स्नात्वा च तदनुज्ञया ॥ १.९५.१ ॥
समापितब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ॥ १.९५.२ ॥
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम्
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥ १.९५.३ ॥
दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात्
सवर्णः श्रोत्रियो विद्वान्वरो दोषान्वितो न च ॥ १.९५.४ ॥
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः
न तन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥ १.९५.५ ॥
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम्
ब्राह्मणक्षत्त्रियविशां भार्याः स्वा शूद्रजन्मनः ॥ १.९५.६ ॥
ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता
तज्जः पुनात्युभयतः पुरुषोनेकविंशतिम् ॥ १.९५.७ ॥
यज्ञस्थायर्त्विजे दैवमादायार्षस्तु गोयुगम्
चतुर्दश प्रथमजः पुनात्युत्तरजश्च षटू ॥ १.९५.८ ॥
इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने
स कायः पावयेत्तज्जः षड्वंश्यानात्मना सह ॥ १.९५.९ ॥
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः
राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात् ॥ १.९५.१० ॥
चत्वारो ब्राह्मणस्याद्यास्तथा गान्धर्वराक्षसौ
राज्ञस्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः ॥ १.९५.११ ॥
पाणिर्ग्राह्यः सवर्णासु गृह्णीत क्षत्त्रिया शरम्
वैश्या प्रतोदमादद्याद्वेदने चाग्रजन्मनः ॥ १.९५.१२ ॥
पिता पितामहो भ्राता सकुल्यो जननी तथा
कन्याप्रदः पूर्वनाशे प्रकृतीस्थः परः परः ॥ १.९५.१३ ॥
अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ
एषामभावे दातॄणां कन्या कुर्यात्स्वयंवरम् ॥ १.९५.१४ ॥
सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक्
अदुष्टां हि त्यजन्दण्ड्यः सुदुष्टां तु परित्यजेत् ॥ १.९५.१५ ॥
अपुत्रा गुबपुज्ञातो देवरः पुत्रकान्यगा
सपिण्डो वा समोत्रो वा घृताभ्यक्त ऋतावियात् ॥ १.९५.१६ ॥
आगर्भसम्भवं गच्छेत्पतितस्त्वन्यथा भवेत्
अनेन विधिना जात क्षेत्रपस्य भवेत्सुतः ॥ १.९५.१७ ॥
हृताधिकारां मलिनां पिण्डमात्रोपसेविनीम्
परिभूतामधः शय्यां वासयेद्य्वभिचारिणीम् ॥ १.९५.१८ ॥
सोमः शौचं ददौ तासां गन्धर्वश्च सुभां गिरम्
पावकः सर्वमेध्यत्वं मेध्या वै योषितो यतः ॥ १.९५.१९ ॥
व्यभिचारादृतौशुद्धिर्गर्भेत्यागं करोति च
गर्भभर्तृवधे तासां तथा महति पातके ॥ १.९५.२० ॥
सुरापि व्याधिता द्वेष्ट्री वन्ध्यार्थघ्न्यप्रियंवदा
अधिविन्ना च भर्तव्या महदेनोन्यथा भवेत् ॥ १.९५.२१ ॥
यत्राविरोधो दम्पत्योस्त्रिवर्गस्तत्त्र वर्धते
मृते जीवति या पत्यौ या नान्यमुपगच्छति ॥ १.९५.२२ ॥
सेह कीर्तिमवाप्नोति मोदते चोमया सह
शुद्धां त्यजंस्तृतीयांशं दद्यादामरणं स्त्रियाः ॥ १.९५.२३ ॥
स्त्रीभिर्भर्तुर्वचः कार्यमेष धर्मः परः स्त्रियाः
षोडशर्तुनिशाः स्त्रीणां तासु युग्मासु संविशेत् ॥ १.९५.२४ ॥
ब्रह्मचारी च पर्वाण्याद्याश्ततस्त्रस्तु वर्जयेत्
एवं गच्छं स्त्रियं क्षामां मघां मूलां च वर्जयेत् ॥ १.९५.२५ ॥
लक्षण्यं जनयेदेव पुत्रं रोगविवर्जितम्
यथा कामी भवेद्वापि स्त्रीणां (स्म) वलमनुस्मरन् ॥ १.९५.२६ ॥
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतस्ततः
भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ॥ १.९५.२७ ॥
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः
संयतो पस्करा दक्षा हृष्टा व्ययपराङ्मुखी ॥ १.९५.२८ ॥
श्वश्रूश्वशुरयोः कुर्यात्पादयोर्वन्दनं सदा
क्रीडाशरीरसंस्कारसमाजोत्सवदशनम् ॥ १.९५.२९ ॥
हास्यं परगृहे यानं त्यजेत्प्रेषितभर्तृका
रक्षेत्कन्यां पिता बाल्ये यौवने पतिरेव ताम् ॥ १.९५.३० ॥
वार्धक्ये रक्षते पुत्रो ह्यन्यथा ज्ञातयस्तथा
पतिं विना न तिष्ठेत्तु दिवा वा यदि वा निशि ॥ १.९५.३१ ॥
ज्येष्ठां धर्मविधौ कुर्यान्न कनिष्ठां कदाचन
दाहयेदग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ॥ १.९५.३२ ॥
आहरेद्विधिवद्दारानग्निं चैवाविलम्बितः
हिता भर्तुर्दिवं गच्छेदिह कीर्तीरवाप्य च ॥ १.९५.३३ ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तगृहल्थधर्मनिर्णयो नाम पञ्चनवतितमोऽध्यायः


श्रागरुडमहापुराणम् ९६
याज्ञवल्क्य उवाच
वक्ष्ये सङ्करजात्यादिगृहस्थादि विधिं परम्
विप्रान्मूर्धावषिक्तो हि क्षात्त्रियायां विशः स्त्रियाम् ॥ १.९६.१ ॥
जातोऽम्बष्ठस्तु शूद्रायां निषादः पर्वतोऽपि वा
माहिष्यः क्षत्त्रियाज्जातो वैश्यायां म्लेच्छसंज्ञितः ॥ १.९६.२ ॥
शूद्रायां करणो वैश्याद्विन्नास्वेष विधिः स्मृतः
ब्राह्मण्यां क्षत्त्रियात्सूतो वैश्याद्वैदेहकस्तथा ॥ १.९६.३ ॥
शूद्राज्जातस्तु चाण्डालः सर्ववर्णविगर्हितः
क्षत्त्रिया मागधं वैश्याच्छूद्रा क्षत्तारमेव च ॥ १.९६.४ ॥
शूद्रादयोगवं वैश्या जनयामास वै सुतम्
माहिष्येण करण्यां तु रथकारः प्रजायते ॥ १.९६.५ ॥
असत्सन्तस्तु वै ज्ञेयाः प्रतिलोमानुलोमजाः
जात्युत्कर्षाद्द्विजो ज्ञेयः सप्तमे पञ्चमेऽपि वा ॥ १.९६.६ ॥
व्यत्यये कर्मणां साम्यं पूर्ववच्चोत्तरावरम्
कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ॥ १.९६.७ ॥
दायकालादृते वापि श्रौतं वैतानिकाग्निषु
शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः ॥ १.९६.८ ॥
प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम्
हुत्वाग्नौ सर्यदेवत्याञ्जपेन्मन्त्रान्समाहितः ॥ १.९६.९ ॥
वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च
योगक्षोमादिसिद्ध्यर्थमुपेयादीश्वरं गृही ॥ १.९६.१० ॥
स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा
वेदानथ पुराणानि सेतिहासानि शक्तितः ॥ १.९६.११ ॥
जपयज्ञानुसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत्
बलिकर्मस्वधाहोमस्वाध्यायातिथिसक्रियाः ॥ १.९६.१२ ॥
भूतपित्रमरब्रह्ममनुष्याणां महामखाः
देवेभ्यस्तु हुतं चाग्नौ क्षिपेद्भूतबलिं हरेत् ॥ १.९६.१३ ॥
अन्नं भूमौश्वचाण्डालवायसेभ्यश्च निः क्षिपेत्
अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ॥ १.९६.१४ ॥
स्वाध्यायमन्वहं कुर्यान्न पचेच्चान्नमात्मने
बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ॥ १.९६.१५ ॥
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम्
प्राणाग्निहोत्रविधिनाश्रीयादन्नमकुत्सयन् ॥ १.९६.१६ ॥
मितं विपाकं च हितं भक्ष्यं बालादिपूर्वकम्
आपोशानेनोपरिष्टादधस्ताच्चैव भुज्यते ॥ १.९६.१७ ॥
अनग्नममृतं चैव कार्यमन्नं द्विजन्मना
अतिथिभ्यस्तु वर्णेभ्यो देयं शक्त्यानुपूर्वशः ॥ १.९६.१८ ॥
अप्रणोद्योऽतिथिः सायमपि नात्र विचारणा
सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च ॥ १.९६.१९ ॥
आगतान् भोजयेत्सर्वान्महोक्षं श्रोत्रियाय च
प्रतिसंवत्सरं त्वर्च्याः स्नातकाचार्यपार्थिवाः ॥ १.९६.२० ॥
प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृर्त्विजः पुनः
अध्वनीनोऽतिथिः प्रोक्तः श्रोत्रियो वेदपारगः ॥ १.९६.२१ ॥
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः
परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ॥ १.९६.२२ ॥
वाक्पाणिपादचापल्यं वर्जयच्चातिभोजनम्
श्रोत्रियं वातिथिं तृप्तमासीमान्तादनुव्रजेत् ॥ १.९६.२३ ॥
अहः शेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः
उपास्य पश्चिमां सन्ध्यां हुत्वाग्नौ भोजनं ततः ॥ १.९६.२४ ॥
कुर्याद्भत्यैः समायुक्तैश्चिन्तयेदात्मनो हितम्
ब्राह्मे मुहूर्ते चोत्थाय मान्यो विप्रो धनादिभिः ॥ १.९६.२५ ॥
वृद्धार्तानां समादेयः पन्था वै भारवाहिनाम्
इज्याध्ययनदानानि वैश्यस्य क्षत्त्रियस्य च ॥ १.९६.२६ ॥
प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा
प्रधानं क्षत्त्रिये कर्म प्रजानां परिपालनम् ॥ १.९६.२७ ॥
कुसीदकृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम्
शूद्रस्य द्विजशुश्रूषा द्विजो यज्ञान्न हापयेत् ॥ १.९६.२८ ॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः
दमः क्षमार्जवं दानं सर्वेषां धर्मसाधनम् ॥ १.९६.२९ ॥
आचरेत्सदृशीं वृत्तिमजिह्मामशठान्तथा
त्रैवार्षिका धिकान्नो यः स सोमं पातुमर्हति ॥ १.९६.३० ॥
स्यादन्नं वार्षिकं यस्य कुर्यात्प्रकसौमिकीं क्रियाम्
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ॥ १.९६.३१ ॥
कर्तव्याऽग्रहणेष्टिश्च चातुर्मास्यानि यत्नतः
एषामसम्भवे कुर्यादिष्टिं वैश्वानरीं द्विजः ॥ १.९६.३२ ॥
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम्
चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात ॥ १.९६.३३ ॥
यज्ञार्थलब्धं नादद्याद्भासः काकोऽपि वा भवेत्
कुसूतकुम्भीधान्यो वा त्र्याहिकः श्वस्तनोऽपि वा ॥ १.९६.३४ ॥
जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः
न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ॥ १.९६.३५ ॥
राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा
दम्भहैतुकपाषण्डिबकवृत्तींश्च वर्जयेत् ॥ १.९६.३६ ॥
शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः
न भार्यादर्शनेऽश्रीयान्नैकवासा न संस्थितः ॥ १.९६.३७ ॥
अप्रियं न वदेज्जातु ब्रह्मसूत्री विनीतवान्
देवप्रदक्षिणाङ्कुर्याद्यष्टिमान्सकमण्डलुः ॥ १.९६.३८ ॥
न तु मेहेन्नदीच्छायाभस्मगोष्टाम्बुवर्त्मसु
न प्रत्यग्न्यर्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनाम् ॥ १.९६.३९ ॥
नेक्षेताग्न्यर्कनग्नां स्त्रीं न च संसृष्टमैथुनाम्
न च मूत्रं पुरीषं वा स्वपेत्प्रत्यकूशिरा न च ॥ १.९६.४० ॥
ष्टीवनासृक्शकृन्मूत्रविषाण्यप्सु न संक्षिपेत्
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १.९६.४१ ॥
पिबेन्नाञ्जलिना तोयं न शयानं प्रबोधयेत्
नाक्षैः क्रीजेच्च कितवैर्व्याधितैश्च न संविशेत् ॥ १.९६.४२ ॥
विरुद्धं वर्जयेत्कम प्रेतधूमं नदीतरम्
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ १.९६.४३ ॥
नाचक्षीत धयन्तीं गां नाद्वारेणाविशेत्क्रचित्
न राज्ञः प्रतिगृह्णायाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ १.९६.४४ ॥
अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य च ॥ १.९६.४५ ॥
पौषमासस्य रोहिण्यामष्टकायामथापि वा
जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्वहिः ॥ १.९६.४६ ॥
अनध्यायस्त्र्यहं प्रेते शिष्यर्त्विग्गुरुबन्धुषु
उपाकर्मणि चोत्सर्गे स्वशाखश्रोत्रिये मृते ॥ १.९६.४७ ॥
सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥ १.९६.४८ ॥
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके
ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १.९६.४९ ॥
पशुमण्डूकनकुलश्वाहिमार्जारसूकरैः
कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ १.९६.५० ॥
श्वक्रोष्टुगर्दभोलूकसामबाणार्तनिः स्वने
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ १.९६.५१ ॥
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे
भुक्त्वार्द्रपाणिरम्भोऽन्तरर्धरात्रेऽतिमारुते ॥ १.९६.५२ ॥
दिग्दाहे पांसुवर्षेषु सन्ध्यानी हारभीतिषु
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ १.९६.५३ ॥
खरोष्ट्रयानहस्त्यश्वनौवृक्षगिरिरोहणे
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥ १.९६.५४ ॥
वेददिष्टं तथाचार्यं राजच्छायां परस्त्रियम्
नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनानि च ॥ १.९६.५५ ॥
विप्राहिक्षत्त्रियात्मानो नावज्ञेयाः कदाचन
दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ॥ १.९६.५६ ॥
श्रुतिस्मृत्युक्तमाचारं कुर्यान्मर्मणि न स्पृशेत्
न निन्दाताडने कुर्यात्सुतं शिष्यं च ताडयेत् ॥ १.९६.५७ ॥
आचरेत्सर्वदा धर्मं तद्विरुद्धं तु नाचरेत्
मातापित्रतिथीभ्याढ्यैर्विवादं नाचरेद्गृही ॥ १.९६.५८ ॥
पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु
स्नायान्नदीप्रस्त्रवणदेवखातह्रदेषु च ॥ १.९६.५९ ॥
वर्जयेत्परशय्यादि न चाश्रीयादनापदि
कदर्यबद्धचो (वै) राणां तथा चानम्निकस्य च ॥ १.९६.६० ॥
वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम्
चिकित्सकातुरक्रुद्धक्लीबरङ्गोपजीविनाम् ॥ १.९६.६१ ॥
क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम्
शास्त्रविक्रयिणश्चैव स्त्रीजितग्रामयाजिनाम् ॥ १.९६.६२ ॥
नृशंसराजरजककृतघ्नवधजीविनाम्
पिशुनानृतिनोश्चैव सोमविक्रयिणस्तथा ॥ १.९६.६३ ॥
बन्दिनां स्वर्णकाराणामन्नमेषां कदाचन
न भोक्तव्यं वृथा मांसं केशकीटसमन्वितम् ॥ १.९६.६४ ॥
भक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितो (ते) क्षितम्
उदक्यास्पृष्टसंघुष्टमपर्याप्तं च वर्जयेत् ॥ १.९६.६५ ॥
घोघ्रातं शकुनोच्छिष्टं पादस्पृष्ट च कामतः
शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ॥ १.९६.६६ ॥
भोज्यान्नो नापितश्चैव यश्चात्मानं निवेदयेत्
अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंभृ (स्थि) तम् ॥ १.९६.६७ ॥
अस्नेहा अपि घोधूमयवगोरसविक्रियाः
औष्ट्रमैकशफं स्त्रीणां पयश्च परिवर्जयेत् ॥ १.९६.६८ ॥
क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत्
सारसैकशफान्हंसान्बलाकबकटिट्टिभान् ॥ १.९६.६९ ॥
वृथा कृसरसंयाव पायसापूपशष्कुलीः
कुररं जालपादं च खञ्जरीटमृगद्विजान् ॥ १.९६.७० ॥
चाषान्मत्स्यात्रक्तपादञ्चग्द्ध्वा वै कामतो नरः
बल्लूरं कामतो जग्द्ध्वा सोप वासस्त्र्यहं भवेत् ॥ १.९६.७१ ॥
पलाण्डुलशुनादीनि जग्द्ध्वा चान्द्रायणं चरेत्
श्राद्धे देवान्पितॄन्प्रार्च्य खादन्मांसं न दोषभाक् ॥ १.९६.७२ ॥
वसेत्स नरके घोर दिनानि पशुरोमतः
संमितानि दुराचारो यो हन्त्यविधिना पशून्
मांसं सन्त्यज्य संप्रार्थ्य कामान्याति ततो हरिम् ॥ १.९६.७३ ॥

इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धनिरूपणं नाम षण्णवतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ९७
याज्ञवल्क्य उवाच
द्रव्यशुद्धिंप्रवक्ष्यामि तन्निबोधत सत्तमाः
सौवर्णराजताब्जानां शङ्खरज्ज्वादिचर्मणाम् ॥ १.९७.१ ॥
पात्राणां चासनानां च वारिणा शुद्धिरिष्यते
उष्णवाभः स्त्रुक्स्त्रुवयोर्धान्यादेः प्रोक्षणेन च ॥ १.९७.२ ॥
तक्षणाद्दारुशृङ्गादेर्यज्ञपात्रस्य मार्जनात्
सोष्णैरुदकगोमूत्रैः शुध्यत्याविककौशिकम् ॥ १.९७.३ ॥
भैक्ष्यं योषिन्मुखं पश्यन्पुनः पाकान्महीमयम्
गाघ्नातेऽन्ने तथा केशमक्षिकाकीटदूषिते ॥ १.९७.४ ॥
भस्मक्षेपाद्विशुद्धिः स्याद्भूशुद्धिर्माजनादिना
त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ॥ १.९७.५ ॥
भस्माद्भिर्लोहकांस्यानामज्ञातं च सदा शुचि
अमेध्याक्तस्य मृत्तोयैर्गन्धलेपापकर्षणात् ॥ १.९७.६ ॥
शुचि गोतृप्तिदं तोयं प्रकृतिस्थं महीगतम्
तथा मांसं श्वचाण्डालक्रव्यादादिनिपातितम् ॥ १.९७.७ ॥
रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलाः
अश्वाजविप्रुषो मेध्या स्तथाचमनबिन्दवः ॥ १.९७.८ ॥
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्याप्रसर्पणे
आचान्तः पुनराचामेद्वासोऽन्यत्परिधाय च ॥ १.९७.९ ॥
क्षुते निष्ठीविते स्वापे परिधानेऽश्रुपातने
पञ्चस्वेतेषु नाचामेद्दक्षिणं श्रवणं स्पृशेत्
तिष्ठन्त्यग्न्यादयो देवा विप्रकर्णे तु दक्षिणे ॥ १.९७.१० ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तद्रव्यशुद्धिनिरूपणं नाम सप्तनवतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ९८
याज्ञवल्क्य उवाच
अथ दानिविधिं वक्ष्ये तन्मे शृणुत सुव्रताः
अन्येभ्यो ब्राह्मणाः श्रेष्ठास्तेभ्यश्चैव क्रियापराः ॥ १.९८.१ ॥
ब्रह्मवेत्ता च तेभ्योऽपि पात्रं विद्यात्तपोऽन्विताः (तम्)
गोभूधान्यहिरण्यादि पात्रे दातव्यमर्चितम् ॥ १.९८.२ ॥
विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः
गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ॥ १.९८.३ ॥
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः
याचितेनापि दातव्यं श्रद्धापूतं तु शक्तितः ॥ १.९८.४ ॥
हेमशृङ्गी शफैः रौप्यैः शुशीला वस्त्रसंयुता
सकांस्यापात्रा दातव्य क्षीरिणी गौः सदक्षिणा ॥ १.९८.५ ॥
दशसौवर्णिकं शृङ्गं शफं सप्तपलैः कृतम्
पञ्चाशत्पलिकं पात्रं कांस्यं वत्सस्य कीर्त्यते ॥ १.९८.६ ॥
स्वर्णपिप्पलपात्रेण वत्सो वा वत्सिकापि वा
अस्या अपि च दातव्यमपत्यं रोगवर्जितम् ॥ १.९८.७ ॥
दाता स्वर्गमवाप्नोति वत्सरान्रोमसंमितान्
कषिला चेतारयेत्भूयश्चासप्तमं कुलम् ॥ १.९८.८ ॥
यावद्वत्सस्य द्वौ पादौ मुखं योन्यां प्रदृश्यते
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ १.९८.९ ॥
यथा कथञ्चिद्दत्त्वा गान्धेनुं वाधेनुमेव वा
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥ १.९८.१० ॥
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम्
पादशौचं द्विजोच्छिष्टमार्जनं गाप्रदानवत् ॥ १.९८.११ ॥
द्विजाय यदभीष्टं तु दत्त्वा स्वर्गमवाप्नुयात्
भूदीपांश्चान्नवस्त्राणि सर्पिर्दत्त्वा व्रजेच्छियम् ॥ १.९८.१२ ॥
गृहधान्यच्छत्रमाल्यवृक्षया नघृतं जलम्
शय्यानुलेपनं दत्त्वा स्वर्गलोके महीयते ॥ १.९८.१३ ॥
ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्लभम्
वेदार्थयज्ञशास्त्राणि धर्मशास्त्राणि चैव हि ॥ १.९८.१४ ॥
मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयात्
एतन्मूलं जगद्यस्मादसृजत्पूर्वमीश्वरः ॥ १.९८.१५ ॥
तस्मात्सर्वप्रयत्नेन कार्यो वेदार्थसंग्रहः
इतिहासपुराणं वा लिखित्वा यः प्रयच्छति ॥ १.९८.१६ ॥
ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणोन्नतिम्
लोकायतं कुतर्कश्च प्राकृतम्लेच्छभाषितम् ॥ १.९८.१७ ॥
न श्रोतव्यं द्विजेनैतदधो नयति तं द्विजम्
समर्थो यो न गृह्णीयाद्दातृलोकानवाप्नुयात् ॥ १.९८.१८ ॥
कुशाः शाकं पयो गन्धाः प्रत्याख्येया न वारि च
अयचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः ॥ १.९८.१९ ॥
अन्यत्र कुलटाषण्ढपतितेभ्यो द्विषस्तथा
देवातिथ्यर्चनकृते पितृतृप्त्यर्थमेव च
सर्वतः प्रतिगृह्णीयादात्मतृप्सर्थमेव च ॥ १.९८.२० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तदानधर्मनिरूपणं नामाष्टनवतितमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ९९
याज्ञवल्क्य उवाच
अथ श्राद्धविधिं वक्ष्ये सर्वपापप्रणाशनम्
अमावस्याष्टकावृद्धिकृष्णपक्षायनद्वयम् ॥ १.९९.१ ॥
द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्यसंक्रमः
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ॥ १.९९.२ ॥
श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्तिताः
अग्नियः सर्वदेवेषु श्रोत्रियो वेदविद्युवा ॥ १.९९.३ ॥
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णिकः
स्वस्त्रीय ऋत्विगजामातायज्यश्वशुरमातुलाः ॥ १.९९.४ ॥
त्रिणाचिकेतदौहित्रशिष्यसम्बन्धिबान्धवाः
कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः ॥ १.९९.५ ॥
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धदेवताः
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ॥ १.९९.६ ॥
अवकीर्ण्याद यो ये च ये चाचारविवर्जिताः
अवैष्णवाश्च ते सर्वे न श्राद्धार्हाः कदाचन ॥ १.९९.७ ॥
निमन्त्रयेच्च पूर्वेद्युर्द्विजैर्भाव्यं च संयतैः
आजान्तांश्चैव पूर्वाह्नेह्यासनेषूपवेशयेत् ॥ १.९९.८ ॥
युग्मान्देवे तथा पित्र्ये स्वप्रदेशेषु शक्तितः
द्वौ दैव प्रागुदक्पित्र्ये त्रीण्येकं चोभयोः पृथक् ॥ १.९९.९ ॥
मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम्
हस्तप्रक्षालनं दत्त्वा विष्टरार्थे कुशानपि ॥ १.९९.१० ॥
आवाह्य तदनुज्ञातो विश्वदेवासैत्यृचा
यवैरन्नं विकीर्याथ भाजने सपवित्रके ॥ १.९९.११ ॥
शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा
यादिव्या इति मन्त्रेण हस्तेष्वेव विनिः क्षिपेत् ॥ १.९९.१२ ॥
गन्धोदके तथा दीपमाल्यदामप्रदीपकम्
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥ १.९९.१३ ॥
द्विगुणांस्तु कुशान्दत्त्वा उशन्तस्त्वेत्यृचा पितॄन्
आवाह्य तदनु ज्ञातो जपेदायन्तुनस्ततः ॥ १.९९.१४ ॥
यवार्थस्तु तिलैः कार्यः कुर्यादर्घ्यादि पूर्ववत्
दत्त्वार्घ्यं संस्त्रवांस्तेषां पात्रे कृत्वा विधानतः ॥ १.९९.१५ ॥
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः
अग्नौ करिष्य आदाय पृच्छत्यन्नं घृप्लुतम् ॥ १.९९.१६ ॥
कुरुष्वेति तथोक्तोसौ हुत्वाग्नौ पितृयज्ञवत्
हुतशेषं प्रदद्याच्च भाजनेषु समाहितः ॥ १.९९.१७ ॥
यथालाभोपपन्नेषु रौप्येषु च विशेषतः
दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् ॥ १.९९.१८ ॥
कृत्वे दंविष्णुरित्येवं द्विजाङ्गुष्ठं निवेशयेत्
सव्याहृतिं च गायत्त्रीं मधुवातेत्यृचस्तथा ॥ १.९९.१९ ॥
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः
अन्नमिष्टं हविष्यं च दद्यादक्रोधनोत्वरः ॥ १.९९.२० ॥
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा
अन्नमादाय तृप्ताः स्थः शेषं चैवानुमन्त्र्य च ॥ १.९९.२१ ॥
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत्
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ॥ १.९९.२२ ॥
उच्छिष्टसन्निधौ पिण्डान्प्रदद्यात्पितृयज्ञवत्
मातामहानामप्यवं दद्यादाचमनं ततः ॥ १.९९.२३ ॥
स्वस्ति वाच्यं ततो दद्यादक्षय्योदकमेव च
दत्त्वा च दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ॥ १.९९.२४ ॥
वाच्यतामिन्यनुज्ञातः पितृभ्यश्च स्वधोच्यताम्
विप्रैरस्तु स्वधेत्युक्तो भूमौ सिञ्चेत्ततो जलम् ॥ १.९९.२५ ॥
प्रीयन्तामिति चाहैवं विश्वेदेव्यं जलं ददत्
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥ १.९९.२६ ॥
श्रद्धा च नो मा व्यगमद्वहु देयं च नोऽस्त्विति
इत्युत्क्रोत्क्रा प्रिया वाचः प्रणिपत्य विसर्जयेत् ॥ १.९९.२७ ॥
वाजेवाजे इति प्रीत्या पितृपूर्वं विसर्जनम्
यस्मिंस्ते संस्त्रवाः पूर्वमर्घ्यपात्रे निपातिताः ॥ १.९९.२८ ॥
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत्
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ॥ १.९९.२९ ॥
ब्रह्मचारी भवेत्तां तु रजनीं भार्यया मह
एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखानपि ॥ १.९९.३० ॥
यजेत्तदधिकर्कन्धूमिश्राः पिण्डा यैवः श्रिताः
एकोद्दिष्टं दैवहीनं एकान्नैकपवित्रकम् ॥ १.९९.३१ ॥
आवाहनाग्नौकरणरहितं त्वपसव्यवत्
उपतिष्ठतामित्यक्षय्यस्थाने विप्रान्विसर्जयेत् ॥ १.९९.३२ ॥
अभिरण्यतां प्रबूयाद्ब्रुयुस्तेभिरताः स्म ह
गन्धो दकतिलैर्मिश्रं कुर्यात्पात्रचतुष्टयम् ॥ १.९९.३३ ॥
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्
येसमाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ॥ १.९९.३४ ॥
एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ॥ १.९९.३५ ॥
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः
पिण्डांश्च गोज विप्रेभ्यो दद्याद्ग्नौ जलेऽपि वा ॥ १.९९.३६ ॥
हविष्यान्नेन वै मासं पायसेन तु वत्सरम्
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥ १.९९.३७ ॥
ऐणरौरववा राहशाशमांसैर्यथाक्रमम्
मासवृद्ध्यापि तुष्यन्ति दत्तैरिह पितामहाः ॥ १.९९.३८ ॥
दद्याद्वर्षात्रयोदश्यां मघासु च न संशयः
प्रतिपत्प्रभृतिष्वेवं कन्या दीञ्छ्राद्धदो लभेत् ॥ १.९९.३९ ॥
शस्त्रेण निहतानां तु चतुर्दश्यां प्रदीयते
स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा ॥ १.९९.४० ॥
पुत्रश्रैष्ट्यं स सौभाग्यं समृद्धिं मुख्यतां शुभम्
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतींस्तथा ॥ १.९९.४१ ॥
अरोगित्वं यशो वीतशोकतां परमां गतिम्
धनं विद्यां च वाक्सिद्धिं कुप्यं गोजाविकं तथा ॥ १.९९.४२ ॥
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति
कृत्तिकादिभरण्यन्तं स कामान्प्राप्नुयादिमान् ॥ १.९९.४३ ॥
वस्त्राद्याः प्रीणयन्त्येव नरं श्राद्धकृतं द्विजाः
आयुः प्रजा धनं विद्यां स्वर्गमोक्षसुखानि च ॥ १.९९.४४ ॥
प्रयच्छति यथा राज्यं प्रीत्या नित्यं पितामहः ॥ १.९९.४५ ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धविधिनिरूपणं नाम नवनवतितमोऽध्यायः


श्रागरुडमहापुराणम् १००
याज्ञवल्क्य उवाच
विनायकोपसृष्टस्य लक्षणानि निबोधत
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥ १.१००.१ ॥
विमना विफलारम्भः संसदित्यनिमित्ततः
राजा राज्यं कुमारी च पतिं पुत्रं च गुर्विणी ॥ १.१००.२ ॥
नाप्नुयात्स्नापनं तस्य पुण्येऽह्निविधिपूर्वकम्
गौरसर्षपकल्केन साज्येनोत्सारितस्य तु ॥ १.१००.३ ॥
सर्वौषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा
भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजाञ्छुभान् ॥ १.१००.४ ॥
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निः क्षिपेत्
या आहृता एकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ॥ १.१००.५ ॥
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासने तथा
सहस्राक्षं शतधारमृषिभिः पावनं स्मृतम् ॥ १.१००.६ ॥
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते
भगं तु वरुणो राजा भगं सूर्यो बृहस्पतिः ॥ १.१००.७ ॥
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ॥ १.१००.८ ॥
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नुन्तु ते सदा
स्नातस्य सार्षपं तैलं स्नुवेणौदुम्बरेण तु ॥ १.१००.९ ॥
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च
मितश्चसमितश्चैव तथा शालकटङ्कटौ ॥ १.१००.१० ॥
कुष्माण्डो राजपुत्रश्च अन्ते स्वाहासमन्वितैः
दद्याच्चतुष्पथे भूमौ कुशानास्तीर्य सर्वशः ॥ १.१००.११ ॥
कृताकृतांस्तण्डुलांश्च पललौदनमेव च
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ॥ १.१००.१२ ॥
मूलकं पूरिकापूपं तथैवौण्डेरकस्त्रजः
दधि पायसमन्नं च गुडपिष्टं समोदकम् ॥ १.१००.१३ ॥
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः
अम्बिकामुपतिष्ठेच्च दद्यादर्घ्यं कृताञ्जलिः ॥ १.१००.१४ ॥
दूर्वासर्षपपुष्पैश्च पुत्रजन्मभिरन्ततः
कृतस्वस्त्ययनं चैव प्रार्थयेदम्बिकां सतीम् ॥ १.१००.१५ ॥
रूपं देहि यशोदेहि भगं भगवति ! देहि मे
पुत्रान्देहि श्रियं देहि सर्वान्कामांश्च देहि मे ॥ १.१००.१६ ॥
ब्राह्मणान् भोजयेत्पश्चाच्छुक्लवस्त्रानुलेपनैः
वस्त्रयुग्मङ्गुरोर्दद्यासंपूज्य च ग्रहांस्तथा
श्रेयः कर्मफलं विन्द्यात्सूर्यार्चनरतस्तथा ॥ १.१००.१७ ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्लोक्तगणपतिकल्पनिरूपणं नाम शततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १०१
याज्ञवल्क्य उवाच
श्रीकामः शान्तिकामो वा ग्रहदृष्ट्यभिचारवान्
ग्रहयञ्ज्ञं समं कुर्याद्गहाश्चैते बुधैः स्मृताः ॥ १.१०१.१ ॥
सूर्यः सोमो मङ्गलश्च बुधश्चैव बृहस्पतिः
शुक्रः शनैश्चरो राहुः केतुर्ग्रहगणाः स्मृताः ॥ १.१०१.२ ॥
ताम्रकात्स्फाटिकाद्रक्तचन्दनात्स्वर्णकादुभौ
रजतादयसः सीसात्कांस्याद्वर्णान्निबोधत ॥ १.१०१.३ ॥
रक्तः शुक्लस्तथा रक्तः पीतः पीतः सितोसितः
कृष्णः कृष्णः क्रमाद्वर्णा द्रव्याणि मुनयस्ततः ॥ १.१०१.४ ॥
स्थापयेद्गहवर्णानि होमार्थं प्रलिखेत्पटे
स्नापयेद्धोमयेच्चैव ग्रहद्रव्यैर्विधानतः
सुवर्णानि प्रदेयानि वासांसि सुसुमानि च ॥ १.१०१.५ ॥
गन्धाश्च बलयश्चैव धूपो देयश्चगुग्गुलुः
कर्तव्यास्तत्र मन्त्रैश्च चरवः प्रतिदैवतम् ॥ १.१०१.६ ॥
आकृष्णेन इमन्देवा अग्निर्मूर्धादिवः ककुत्
उब्दुध्यस्वेति जुहुयादेभिरेव यथाक्रमम् ॥ १.१०१.७ ॥
बृहस्पतेपरिदीयेति सर्वे अन्नात्परिसुतम्
शन्नोदेवी कयानश्च केतुङ्क्रण्वन्निति क्रमात् ॥ १.१०१.८ ॥
अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः
औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ १.१०१.९ ॥
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्वितः
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ॥ १.१०१.१० ॥
दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च
दद्याद्गहक्रमादेतान् ग्रहेभ्यो भाजनं ततः ॥ १.१०१.११ ॥
धेनुः शङ्खस्तथानड्वान्हेम वासो हयस्तथा
कृष्णा गौरायसं छाग एता वै दक्षिणाः क्रमात्
ग्रहाः पूज्याः सदा यस्माद्रज्यादि प्राप्यते फलम् ॥ १.१०१.१२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तग्रहशान्तिनिरूपणं नामैकोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १०२
याज्ञवल्क्य उवाच
वानप्रस्थाश्रमं वक्ष्ये तच्छृण्वन्तु महर्षयः
पुत्रेषु भार्यां निः क्षिप्य वनं गच्छेत्सहैव वा ॥ १.१०२.१ ॥
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी
अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा ॥ १.१०२.२ ॥
भृत्यांस्तु तर्पयेच्छ्मश्रुजटालोमभृदात्मवान्
दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ॥ १.१०२.३ ॥
स्वाध्यायवान्ध्यानशीलः सर्वभूतहित रतः (तिः)
अह्नो मासस्य मध्ये वा कुर्याद्वार्थपरिग्रहम् ॥ १.१०२.४ ॥
कृतं त्यजेदाश्वयुजे युञ्जेत्कालं व्रतादिना
पक्षे मासे थवाश्नीयाद्दन्तोलूखलिको भवेत् ॥ १.१०२.५ ॥
चान्द्रायणी स्वपेद्भूमौ कर्म कुर्यात्फलादिना
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ १.१०२.६ ॥
आर्द्रवासास्तु हेमन्ते योगाभ्यासाद्दिनं नयेत्
यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति
अक्रुद्धः परितुष्टश्च समस्तस्य च तस्य च ॥ १.१०२.७ ॥

इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थधर्मनिरूपणं नाम द्व्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १०३
याज्ञवल्क्य उवाच
भिक्षोर्धर्मं प्रवक्ष्यामितं निबोधत सत्तमाः
वनाद्गृहाद्वा कृत्वेष्टिं सर्ववेदसदक्षिणाम् ॥ १.१०३.१ ॥
प्राजापत्यन्तदन्तेऽपि अग्निमारोप्य चात्मनि
सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ॥ १.१०३.२ ॥
सर्वारामं परिव्रज्य भिक्षार्थो ग्राममाश्रयेत्
अप्रमत्तश्चरेद्भैक्ष्यं सायाह्ने नाभिलक्षितः ॥ १.१०३.३ ॥
रोहिते भिक्षुकैर्ग्रामे यात्रामात्र मलोलुपः
भवेत्परमहंसो वा एकदण्डी यमादितः ॥ १.१०३.४ ॥
सिद्धयोगस्त्यजन्देहममृतत्वमिहाप्नुयात्
दातातिथिप्रियो ज्ञानी गृही श्राद्धेऽपिमुच्यते ॥ १.१०३.५ ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थसन्न्यासधर्मनिरूपणं नाम त्र्युत्तरशततमोऽध्यायः


श्रागरुडमहापुराणम् १०४
याज्ञवल्क्य उवाच
नरकात्पताकोद्भूतात्क्षयात्पापस्य कमणः
ब्रह्महा श्वा खरोष्ट्रः स्याद्भेको यकः सुराप्यपि ॥ १.१०४.१ ॥
स्वर्णचोरः कृमिः कीटः तृणादिर्गुरुतल्पगः
क्षयरोगी श्यावदन्तः कुनखी शिपिविष्टकः ॥ १.१०४.२ ॥
ब्रह्महत्याक्रमात्स्युश्च तत्सर्वं वा शिशेर्भवेत्
अन्नहर्ता मयावी स्यान्मूको वागपहारकः ॥ १.१०४.३ ॥
धान्यहार्यतिरिक्ताङ्गः पिशुनः पूतिनासिकः
तैलाहारी तैलपायी पूतिवक्त्रस्तु सूचकः ॥ १.१०४.४ ॥
ब्रह्मस्वं कन्यकां क्रीत्वा वने रक्षो भवेद्वृषः
रत्नहृद्धीनजातः स्यात्पत्रशाकहरः शिखी ॥ १.१०४.५ ॥
गुच्छं चुचुन्दरी हृत्वा धान्यहृन्मूषको भवेत्
फलं कपिः पशून्हृत्वा त्वजा काकः पयस्तथा ॥ १.१०४.६ ॥
मांसं गृध्रः पटं श्वित्री चीरी लवणहारकः
यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ॥ १.१०४.७ ॥
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः
ततो निष्कलुषीभूता कुले महति योगिनः ॥ १.१०४.८ ॥
जायन्ते लक्षणोपेता धनधान्यसमन्विताः ॥ १.१०४.९ ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तकर्मविपाकनिरूपणं नाम चतुरुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १०५
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ १.१०५.१ ॥
तस्माद्यत्नेन कर्तव्यं प्रायश्चित्तं विशुद्धये
एवमस्यान्तरात्मा च लोकश्चैव प्रसदिति ॥ १.१०५.२ ॥
लोकः प्रसीदेदात्मैवं प्रायश्चित्तैरघक्षयः
प्रायश्चित्तमकुर्वाणाः पश्चात्तापविवर्जिताः ॥ १.१०५.३ ॥
नरकान्यान्ति पापा वै महारौरवरौरवान्
तामिस्त्रं लोहशङ्कुं च पूतिगन्धसमाकुलम् ॥ १.१०५.४ ॥
हंसाभं लोहितोदं च सञ्जीवननदीपथम्
महानिलयकाकोलमन्धतामिस्त्रवापनम् ॥ १.१०५.५ ॥
अवीचिं कुम्भीपाकं च यान्ति पापा ह्यपुण्यतः
ब्रह्महा मद्यपः स्तेयी संयोगी गुरुतल्पगः ॥ १.१०५.६ ॥
गुरुनिन्दा वेदनिन्दा ब्रह्महत्यासमे ह्युभे
निषिद्धभक्षणं जिह्मक्रियाचरणमेव च ॥ १.१०५.७ ॥
रजस्वलामुखास्वादः सुरापानसमानि तु
अश्वरत्नादिहरणं सुवर्णस्तेयसंमितम् ॥ १.१०५.८ ॥
सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च
सगोत्रासु तथा स्त्रीषु गुरुतल्पसमं स्मृतम् ॥ १.१०५.९ ॥
पितुः स्वसारं मातुश्च मातुलानीं स्नुषाम पि
मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ॥ १.१०५.१० ॥
आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः
छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा ॥ १.१०५.११ ॥
गोवधो व्रात्यतास्तेयमृणानां च परिक्रिया
अनाहिताग्नितापण्यविक्रयः परिवेदनम् ॥ १.१०५.१२ ॥
भृत्याचाध्ययनादानं भृतकाध्या पनन्तथा
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया ॥ १.१०५.१३ ॥
सच्छूद्रविट्क्षत्त्रबन्धोर्निन्दितार्थोपजीविता
नास्तिक्यं व्रतलोपश्च शूल्यं गोश्वेव विक्रयः ॥ १.१०५.१४ ॥
पितृमातृसुहृत्त्यागस्तडागारामविक्रयः
कन्यायादूषण चैव परिविन्दकयाजनम् ॥ १.१०५.१५ ॥
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम्
आत्मनोर्ऽथे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ॥ १.१०५.१६ ॥
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च
असच्छास्त्राभिगमनं भार्यात्मपरिवि क्रयः ॥ १.१०५.१७ ॥
उपपापानि चोक्तानि प्रायश्चित्तं निबोधत
शिरः कपालध्वजवान् भिक्षाशी कर्म वेदयन् ॥ १.१०५.१८ ॥
ब्रह्महा द्वादश समा मितभुक्शुद्धिमाप्नुयात्
लोमभ्यः स्वाहेति च वा लोमप्रभृति वै तनुम् ॥ १.१०५.१९ ॥
मज्जान्तां जुहुयाद्वापि स्वस्वमन्त्रैर्यथाक्रमम्
शुद्धिः स्याद्ब्राह्मणत्राणात्कृत्वैवं शुद्धिरेव च ॥ १.१०५.२० ॥
निरातङ्कं द्विजं गां च ब्राह्मणार्थे हतोऽपि वा
अरण्ये नियतो जुप्त्वा त्रिः कृत्वो वेदसंहिताम् ॥ १.१०५.२१ ॥
सरस्वतीं वा संसेव्यं धनं पात्रे समर्पयेत्
यागस्थक्षत्त्रविड्घात्चरेद्ब्रह्महणो व्रतम् ॥ १.१०५.२२ ॥
गर्भहा वा यथावर्णं तथात्रेयीनिषू (सू) दनम्
चरेद्ब्रतमहत्वापि घातनार्थमुपागतः ॥ १.१०५.२३ ॥
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमाचरेत्
सुराम्बुघृतगोमूत्रं पीत्वा शुद्धिः सुरापिणः ॥ १.१०५.२४ ॥
अग्निवर्णं घृतं वापि चीरवास जटी भवेत्
व्रतं ब्रह्महणः कुर्यात्पुनः संस्कारमर्हति ॥ १.१०५.२५ ॥
रेतेविण्मूत्रपानाच्च सुरापा ब्राह्मणी तथा
पतिलोकपरिभ्रष्टा गृध्री स्यात्सूकरी शुनी ॥ १.१०५.२६ ॥
स्वर्णहारी द्विजो राज्ञे दत्त्वा तु मुसलं तथा
कर्मणः ख्यापनं कृत्वा हतस्तेन भवेच्छुचिः ॥ १.१०५.२७ ॥
आत्मतुल्यं सुवर्णं वा दत्त्वा शुद्धिमियाद्द्विजः
शयने सार्धमायस्या योषिता निभृतं स्वपेत् ॥ १.१०५.२८ ॥
उच्छेद्य लिङ्गं वृषणं नैरृत्यामुत्सृजोद्दिशि
प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः ॥ १.१०५.२९ ॥
चान्द्रायणं वा त्रीन्मासनभ्यसेद्वेदसंहिताम्
पञ्चगव्यं पिबेद्गोघ्नो मासमासीत संयतः ॥ १.१०५.३० ॥
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति
उपपातकशुद्धिः स्याच्चान्द्रायणव्रतेन च ॥ १.१०५.३१ ॥
पयसा वापि मासेन पराकेणापि वा पुनः
ऋषभैकं सहस्रं गा दद्यात्क्षत्त्रवधे पुमान् ॥ १.१०५.३२ ॥
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत्
वैश्यहाब्दं च (ब्दांश्च) रेदेतद्दद्याद्वैकशतं गवाम् ॥ १.१०५.३३ ॥
षण्मासाच्छूद्रहा चैतद्दद्याद्वा धेनवो दश
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ॥ १.१०५.३४ ॥
मार्जारगोधानकुलपशुमण्डूकघातनात्
पिबेत्क्षीरं त्र्यहं पापी कृच्छ्रं वाप्यधिकं चरेत् ॥ १.१०५.३५ ॥
गजे नीलान्वृषान्पञ्च शुके वत्सं द्विहायनम्
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायणः ॥ १.१०५.३६ ॥
वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम्
अवकीर्णो भवेद्गत्त्वा ब्रह्मचारी च योषितम् ॥ १.१०५.३७ ॥
गर्दभं पशुमालभ्य नैरृतं च विशुध्यति
मधुमांसाशने कार्यं कृच्छ्रं शेषव्रतानि च ॥ १.१०५.३८ ॥
कृच्छ्रत्रयं गुरुः कुर्यान्म्रियेत्प्रहितो यदि
प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति ॥ १.१०५.३९ ॥
रिपून्धान्यप्रदानाद्यैः स्नेहाद्यैर्वाप्युपक्रमेत्
क्रियमाणोपकारे च मृते विप्रे न पातकम् ॥ १.१०५.४० ॥
महापापोपपापाभ्यां योभिशस्तो मृषा परम्
अब्भक्षो मासमासीत स जापी नियतन्द्रियः ॥ १.१०५.४१ ॥
अनियुक्तो भ्रातृभार्यां गच्छंश्चान्द्रायणं चरेत्
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां शुचिर्भवेत् ॥ १.१०५.४२ ॥
गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रती
गायत्त्रीजप्यनिरतो मुच्यतेऽसत्प्रतिग्रहात् ॥ १.१०५.४३ ॥
त्रिः कृच्छ्रमाचरेद्व्रात्ययाजकोऽपि चरन्नपि
वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतान् ॥ १.१०५.४४ ॥
प्राणायामत्रयं कुर्यात्खरयानोष्ट्रयानगः
नग्नः स्नात्वा च सुप्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ १.१०५.४५ ॥
गुरुन्त्वं कृत्य हुङ्कृत्य विप्रं निर्जित्य वाद तः
प्रसाद्य तं च मुनयस्ततो ह्युपवसेद्दिनम् ॥ १.१०५.४६ ॥
विप्रे दण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने
देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ॥ १.१०५.४७ ॥
प्रायश्चितं प्रकल्प्यं स्याद्यत्र योक्ता तु निष्कृतिः
गर्भत्यागो भर्तृनिन्दा स्त्रीणां पतनकारणम् ॥ १.१०५.४८ ॥
एष ग्रहान्तिके दोषः तस्मात्तां दूतरस्त्यजेत्
विख्यातदोषः कुर्वीत गुरोरनुमतं व्रतम् ॥ १.१०५.४९ ॥
असंविख्यातदोषस्तु रहस्यं व्रतमाचरेत्
त्रिरात्रोपोषणो जप्त्वा ब्रह्महा त्वघमर्षणम् ॥ १.१०५.५० ॥
अन्तर्जले विशुद्धे च दत्त्वा गां च पयस्विनीम्
लोमभ्यः स्वाहेति ऋचा दिवसं मारुताशनः ॥ १.१०५.५१ ॥
जले जप्त्वा तु जुहुयाच्चात्वारिंशद्घृताहुतीः
त्रिरात्रोपोषणो हुत्वा कूष्माण्डीभिर्घृतं शुचिः ॥ १.१०५.५२ ॥
सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः
सहस्रशीर्षाजप्येन मुच्यते गुरुतल्पगः ॥ १.१०५.५३ ॥
प्राणायामशतं कुर्यात्सर्वपापापनुक्त्ये
ओङ्काराभियुतं सोमसलिलप्रशनाच्छुचिः ॥ १.१०५.५४ ॥
कृत्वोपवासं रेतोविण्मूत्राणां प्राशनेद्विजः
अज्ञानकृतपापस्य नाशः सन्ध्यात्रये कृते ॥ १.१०५.५५ ॥
रुद्रैकादशजप्याद्धि पापनाशो भवेद्द्विजैः
वेदाभ्यासरतं शान्तं पञ्चयज्ञक्रियापरम् ॥ १.१०५.५६ ॥
न स्पृशन्ति हा पापानि चाशु स्मृत्वा ह्यपोहितः
जप्त्वा सहस्रगायत्त्रीं शुचिर्ब्रह्महणादृते ॥ १.१०५.५७ ॥
ब्रह्मचर्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता
अहिंसा स्तेयमाधुर्ये दमश्चैते यमाः स्मृताः ॥ १.१०५.५८ ॥
स्नानमौनोपवासोज्यास्वाध्यायोपस्थनिग्रहः
तपोऽक्रोधो गुरोर्भक्तिः शौचं च नियमाः स्मृताः ॥ १.१०५.५९ ॥
पञ्चगव्यं तु गोक्षीरं दधिमूत्रशकृद्घृतम्
जग्ध्वा परेह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत् ॥ १.१०५.६० ॥
पृथक्सान्तपनैर्द्रव्यैः षडहः सोपवासकः
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ १.१०५.६१ ॥
पर्णोदुम्बरराजीवबील्वपत्रकुशोदकैः
प्रत्येकं प्रत्यहाभ्यस्तैः पर्ण कृच्छ्र उदाहृतः ॥ १.१०५.६२ ॥
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत्
एकरात्रोपवासश्च तप्तकृच्छ्रश्च पावनः ॥ १.१०५.६३ ॥
एकभक्तेन नक्तेन तथैवायाचितेन च
उपवासेन चकन पादकृच्छ्र उदाहृतः ॥ १.१०५.६४ ॥
यथा कथञ्चित्त्रिगुणः प्रजापत्योऽयमुच्यते
अयमेवातिकृच्छ्रः स्यात्पाणिपूर्णाम्बुभोजनात् ॥ १.१०५.६५ ॥
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम्
द्वादशाहोपवासैश्च पराकः समुदाहृतः ॥ १.१०५.६६ ॥
पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम्
एकैकमुपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥ १.१०५.६७ ॥
एषां त्रिरात्रमभ्यासादेकैकं स्याद्यथाक्रमात्
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥ १.१०५.६८ ॥
तिथिपिण्डांश्चरेद्वृद्ध्या शुक्ले शिख्यण्डसंमितान्
एकैकं ह्रासयेत्कृष्णे पिण्डं चान्द्रायणं चरेत् ॥ १.१०५.६९ ॥
यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयम्
मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ॥ १.१०५.७० ॥
कृत्वा त्रिषवणं स्नानं पिण्डं चान्द्रायणं चरेत्
पवित्राणि जपेत्पिण्डान् गायत्त्र्या चाभिमन्त्रयेत् ॥ १.१०५.७१ ॥
अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु
धर्मार्थो यश्चरेदेतच्चन्द्रस्यैति सलोकताम् ॥ १.१०५.७२ ॥
कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमश्नुते ॥ १.१०५.७३ ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तप्रायश्चित्तविवेको नाम पञ्चोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १०६
याज्ञवल्क्य उवाच
प्रेता (त) शौचं प्रवक्ष्यामि तच्छृणुध्वं यतव्रताः
ऊनद्विवर्षं निखनेन्न कुर्यादु दकं ततः ॥ १.१०६.१ ॥
आ श्मशानादनुव्रज्य इतरैर्ज्ञातिभिर्युतः
यमसूक्तं तथा जप्यं जपद्भिर्लौकिकाग्निना ॥ १.१०६.२ ॥
स दग्धव्य उपेतश्चैदाहिताग्न्यावृतार्थवत्
सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयान्त्यपः ॥ १.१०६.३ ॥
अपनः शोशुचदघमनेन पितृदिङ्मुखाः
एवं मातामहाचार्यपत्नीनां चोदकक्रियाः ॥ १.१०६.४ ॥
कामोदकाः पुत्रसखिस्वस्त्रीयश्वशुरर्त्विजः
नामगोत्रेण ह्युदकं सकृत्सिञ्चन्ति वाग्यताः ॥ १.१०६.५ ॥
पाषण्डपतितानां तु न कुर्युरुदकक्रियाः
नब्रह्मचारिणो व्रात्या योषितः कामगास्तथा ॥ १.१०६.६ ॥
सुराप्यस्त्वात्मघातिन्यो नाशौचोदकभाजनाः
ततो न रोदितव्यं हि त्वनित्या जीवसं स्थितिः ॥ १.१०६.७ ॥
क्रिया कार्या यथाशक्ति ततो गच्छेद्गृहान्प्रति
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ १.१०६.८ ॥
आचम्याथाग्निमुदकं गोमयं गौरसर्षपान्
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ १.१०६.९ ॥
प्रवेशनादिकं कर्म प्रेतसंस्पर्शनादपि
ईक्षतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् ॥ १.१०६.१० ॥
क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक्पृथक्
पिण्डयज्ञकृता देयं प्रेतायान्नं दिनत्रयम् ॥ १.१०६.११ ॥
जलमेकाहमाकाशे स्थाप्यं क्षीरं तु मृन्मये
वैतानोपासनाः कार्याः क्रियाश्च श्रुतिचोदिताः ॥ १.१०६.१२ ॥
आदन्तजन्मनः सद्यः आचूडं नैशिकी स्मृता
त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥ १.१०६.१३ ॥
त्रिरात्रं दशरात्रं वा शावमाशौचमुच्यते
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ १.१०६.१४ ॥
अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति
दश द्वादश वर्णानां तथा पञ्चदशैव च ॥ १.१०६.१५ ॥
त्रिंशद्दिनानि च तथा भवति प्रेतसूतकम्
अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् ॥ १.१०६.१६ ॥
गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥ १.१०६.१७ ॥
निवासराजनि तथा तदहः शुद्धिकार(ण)म्
हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् ॥ १.१०६.१८ ॥
विषाद्यैश्च हतानां च नाशौचं पृथिवीपतेः
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ १.१०६.१९ ॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे
आपद्यपि च कष्टायां सद्यः शौचं विधीयते ॥ १.१०६.२० ॥
कालोऽग्निः कर्ममृद्वायुर्मनो ज्ञानं तपो जपः (लम्)
पश्चात्ताषो निराहारः सर्वेषां शुद्धिहेतवः ॥ १.१०६.२१ ॥
अकार्यकारिणां दानं वेगो नद्यास्तु शुद्धिकृत्
क्षात्त्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ॥ १.१०६.२२ ॥
फलसोमक्षौमवीरुद्दधि क्षीरं घृतं जलम्
तिलोदनरसक्षारमधु लाक्षा शृतं हविः ॥ १.१०६.२३ ॥
वस्त्रोपलासवं पुष्पं शाकमृच्चर्मपादुकम्
एणत्वचं च कौशेयं लवणं मासमेव च ॥ १.१०६.२४ ॥
पिण्याकमूलगन्धांश्च वैश्यवृत्तो न विक्रयेत्
धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥ १.१०६.२५ ॥
लवणादि न विक्रीयात्तथा चापद्गतो द्विजः
हीनाद्विप्रो विगृह्णंश्च लिप्यते नार्कवद्द्विजः ॥ १.१०६.२६ ॥
कुर्यात्कृष्यादिकं तद्वदविक्रेया हयास्तथा
बुभुक्षितस्त्र्यं स्थित्वा दृष्ट्वा वृत्तिविवर्जितम्
राजा धर्म्यां प्रकुर्वीत वृत्तिं विप्रादिकस्य च ॥ १.१०६.२७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्ताशौचापद्वृत्त्योर्निरूपणं नाम पडुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १०७
सूत उवाच [SUTA SAID]
पराशरोऽब्रवीद्व्यासं धर्मं वर्णाश्रमादिकम्
कल्पेकल्पे क्षयोत्पत्त्या क्षीयन्ते नु प्रजादयः ॥ १.१०७.१ ॥
श्रुतिः स्मृतिः सदाचरो यः कश्चिद्वे दकर्तृकः
वेदाः स्मृता ब्राह्मणादौ धर्मा मन्वादिभिः सदा ॥ १.१०७.२ ॥
दानं कलियुगे धर्मः कर्तारं च कलौ त्यजेत्
पापकृत्यं तु तत्रैव शापं फलति वर्षतः ॥ १.१०७.३ ॥
आचारात्प्राप्नुयात्सर्वं षट्कर्माणि दिनेदिने
सन्ध्या स्नानं जपो होमो देवातिथ्यादिपूजनम् ॥ १.१०७.४ ॥
अपूर्वः सुव्रती विप्रो ह्यपूर्वा यतयस्तदा
क्षत्त्रियः परसैन्यानि जित्वा पृथ्वीं प्रपालयेत् ॥ १.१०७.५ ॥
वणिक्कृष्यादि वैश्ये स्याद्द्विजभक्तिश्च शूद्रके
अभक्ष्यभक्षणाच्चौर्यादगम्या गमनात्पतेत् ॥ १.१०७.६ ॥
कृषिं कुर्वन्द्विजः श्रान्तं बलीवर्दं न वाहयेत्
दिनार्धं स्नानयोगादिकारी विप्रांश्च भोजयेत् ॥ १.१०७.७ ॥
निर्वपेत्पञ्च यज्ञानि क्रूरे निन्दां च कारयेत्
तिलाज्यं न विक्रीणित सूनायज्ञमघान्वितः ॥ १.१०७.८ ॥
राज्ञो दत्त्वा तु षड्भागं देवतानां च विंशतिम्
त्रयस्त्रिंशच्च विप्राणां कृषिकर्ता न लिप्यते ॥ १.१०७.९ ॥
कर्षकाः क्षत्त्रविट्छूद्राः खलेऽदत्त्वा तु चौरकः
दिनत्रयेण शुध्येत ब्राह्मणः प्रेतसूतके ॥ १.१०७.१० ॥
क्षत्त्रो दशाहाद्वैश्यास्तु द्वादशाहान्मासि शूद्रकः
याति विप्रो दशाहात्तु क्षत्त्रो द्वादशकाद्दिनात् ॥ १.१०७.११ ॥
पञ्चदशाहाद्वैश्यस्तु शूद्रो मासेन शुध्यति
एकपिण्डास्तु दायादाः पृथग्द्वारनिकेतनाः ॥ १.१०७.१२ ॥
जन्मना च विपत्तौ च भवेत्तेषां च सूतकम्
चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पञ्चमे ॥ १.१०७.१३ ॥
षष्ठे चतुर हाच्छुद्धिः सप्तमे च दिनत्रयम्
देशान्तरे मृते बाले सद्यः शुद्धिर्यतो मृते ॥ १.१०७.१४ ॥
अजातदन्ता ये बाला ये च गर्भाद्विनिः सृताः
न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥ १.१०७.१५ ॥
यदि गर्भो विपद्यत स्त्रवते वापि योषितः
यावन्मासं स्थितो गर्भस्तावद्दिनानि सूतकम् ॥ १.१०७.१६ ॥
आनामकरणात्सद्य आचूडान्तादहर्निशम्
आव्रतात्तु त्रिरात्रेण तदूर्ध्वन्दशभिर्दिनैः ॥ १.१०७.१७ ॥
आचतुर्थाद्भवेत्स्त्रवः पातः पञ्चमषष्ठयोः
ब्रह्मचर्या दग्निहोत्रान्नाशुद्धिः सङ्गवर्जनात् ॥ १.१०७.१८ ॥
शिल्पिनः कारवो वैद्या दासीदासाश्च भृत्यकाः
अग्निमाञ्छ्रोत्रियो राजा सद्यः शौचाः प्रकीर्तिताः ॥ १.१०७.१९ ॥
दशाहाच्छुध्यते माता स्नानात्सूते पिता शुचिः
सङ्गात्सूतौ सूतकं स्यादुपस्पृश्य पिता शुचिः ॥ १.१०७.२० ॥
विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके
पूर्वसंकल्पितादन्यवर्जनं च विधीयते ॥ १.१०७.२१ ॥
मृतेन शुध्यते सूतिः मृतवज्जातकं जनौ
गोग्रहादौ विपन्नानामेकरात्रं तु सूतकम् ॥ १.१०७.२२ ॥
अनाथप्रेतवहनात्प्राणायामेन शुध्यति
प्रेतशूद्रस्य वहनान्त्रिरात्रमशुचिर्भवेत् ॥ १.१०७.२३ ॥
आत्मघातिविषोद्वन्धकृमिदष्टे न संस्कृतिः
गोहतं कृमिदष्टं च स्पृष्ट्वा कृच्छ्रेण शुध्यति ॥ १.१०७.२४ ॥
अदुष्टापतितं भार्या यौवने या परित्यजेत्
सप्तजन्म भवेत्स्त्रीत्वं वैधव्यं च पुनः पुनः ॥ १.१०७.२५ ॥
बालहत्या त्वगमनादृतौ च स्त्री तु सूकरि
अगम्या व्रतकारिण्यो भ्रष्टपानोदकक्रियाः ॥ १.१०७.२६ ॥
औरसः क्षेत्रजः पुत्रः पितृजौ पिण्डदौ पितुः
परिवित्तेस्तु कृच्छ्रं स्यात्कन्यायाः कृच्छ्रमेव च ॥ १.१०७.२७ ॥
अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणञ्चरेत्
कुब्जवामनषण्डेषु गद्गदेषु जडेषु च ॥ १.१०७.२८ ॥
जात्यन्धबधिरे मूके न दोषः परिवेदने
नष्टे मृते प्रव्रजिते क्लीबे वा पतिते पतौ ॥ १.१०७.२९ ॥
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते
भर्त्रा सहमृता नारी रोमाब्दानि वसेद्दिवि ॥ १.१०७.३० ॥
श्वादिदष्टस्तु गायत्त्र्या जपाच्छुद्धो भवेन्नरः
दाह्यो लोकाग्निना विप्रश्चाण्डालाद्यैर्हतोऽग्निमान् ॥ १.१०७.३१ ॥
क्षीरैः प्रक्षाल्य तस्यास्थि स्वाग्निना मन्त्रतो दहेत्
प्रवासे तु मृते भूयः कृत्वा कुशमयं दहेत् ॥ १.१०७.३२ ॥
कृष्णाजिने समास्तीर्य षट्शतानि पलाशजान्
शमीं शिश्रे विनिः क्षिप्य अरणिं वृषणे क्षिपेत् ॥ १.१०७.३३ ॥
कण्डं दक्षिणहस्ते तु वामहस्ते तथोपभृत्
पार्श्वे तूलूखलं दद्यात्पृष्ठे तु मुसलं ददेत् ॥ १.१०७.३४ ॥
उरे निः क्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे
श्रोत्र च प्रोक्षणीं दाद्यदाज्यस्थालीं च चक्षुषोः ॥ १.१०७.३५ ॥
कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलान् क्षिपेत्
अग्निहोत्रोपकरणाद्ब्रह्मलोकगतिर्भवेत् ॥ १.१०७.३६ ॥
असौ स्वर्गाय लोकाय स्वाहेत्याज्याहुतिः सकृत्
हंससारसक्रौञ्चानां चक्रवाकं च कुक्रुटम् ॥ १.१०७.३७ ॥
मयरमेषघाती च अहोरात्रेण शुध्यति
पक्षिणः सकलान्हत्वा अहोरात्रेण शुध्यति ॥ १.१०७.३८ ॥
सर्वांश्चतुष्पदान्हत्वा अहोरात्रो षितो जपेत्
शूद्रं हत्वा चरेत्कृच्छ्रमतिकृच्छ्रं तु वैश्यहा
क्षत्त्रं चान्द्रायणं विप्रं द्वाविंशात्रिंशमाहरे (वहे) त् ॥ १.१०७.३९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे पराशरोक्तधर्मनिरूपणं नाम सप्तोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १०८
सूत उवाच [SUTA SAID]
नीतिसारं प्रवक्ष्यामि अर्थशास्त्रादिसंश्रितम्
राजादिभ्यो हितं पुण्यमायुः स्वर्गादिदायकम् ॥ १.१०८.१ ॥
सद्भिः सङ्गं प्रकुर्वीत सिद्धिकामः सदा नरः
नासद्भिरिहलोकाय परलोकाय वा हितम् ॥ १.१०८.२ ॥
वर्जयेत्क्षुद्रसंवादमदुष्टस्य तु दर्शनम्
विरोधं सह मित्रेण संप्रीतिं शत्रुसेविना ॥ १.१०८.३ ॥
मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च
दुष्टानां संप्रयोगेण पण्डितोऽप्यवसीदति ॥ १.१०८.४ ॥
ब्राह्मणं बालिशं क्षत्त्रमयोद्धारं विशं जडम्
शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥ १.१०८.५ ॥
कालेन रिपुणासन्धिः काले मित्रेण विग्रहः
कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ॥ १.१०८.६ ॥
कालः पचति भूतानि कालः संहरते प्रजाः
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ १.१०८.७ ॥
कालेषु हरते वीर्यं काले गर्भे च वर्तते
कालो जनयते सृष्टिं पुनः कालोऽपि संहरेत् ॥ १.१०८.८ ॥
कालः सूक्ष्मगतिर्नित्यं द्विविधश्चेह भाव्यते
स्थूलसंग्रहचारेण सूक्ष्मचारान्तरेण च ॥ १.१०८.९ ॥
नीतिसारं सुरेन्द्राय इममूच बृहस्पतिः
सर्वज्ञो येन चेन्द्रोऽभूद्दैत्यान्हत्वाप्नुयाद्दिवम् ॥ १.१०८.१० ॥
राजर्षिब्राह्मणैः कार्यं देवविप्रादिपूजनम्
अश्वमेधेन यष्टब्यं महापातकनाशनम् ॥ १.१०८.११ ॥
उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम्
अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ १.१०८.१२ ॥
परीवादं परार्थं च परिहासं परस्त्रियम्
परवेश्मनि वासं च न कुर्वीत कदाचन ॥ १.१०८.१३ ॥
परोऽपि हितवाबन्धुर्बन्धुरप्यहितः परः
अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ १.१०८.१४ ॥
स बन्धुर्यो हिते युक्तः स पिता यस्तु पोषकः
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ १.१०८.१५ ॥
स भृत्यो यो विधेयस्तु तद्बीजं यत्प्ररोहति
सा भार्या या प्रियं ब्रूते स पुत्रो यस्तु जीवति ॥ १.१०८.१६ ॥
स जीवति गुणा यस्य धर्मो यस्य स जीवति
गुणधर्मविहीनो यो निष्फल तस्य जीवनम् ॥ १.१०८.१७ ॥
सा भार्या या गृहे दक्षा सा भार्याया प्रियंवदा
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ १.१०८.१८ ॥
नित्य स्नाता सुगन्धा च नित्यं च प्रियवादिनी
अल्पभुक्ताल्पभाषी च सततं मङ्गलैर्युता ॥ १.१०८.१९ ॥
सततं धर्मबहुला सततं च पतिप्रिया
सततं प्रियवक्री च सततं त्वृतुकामिनी ॥ १.१०८.२० ॥
एतदादिक्रियायुक्ता सर्वसौ भाग्यवर्धिनी
यस्येदृशी भवेद्भाय्या स देवेन्द्रोन मानुषः ॥ १.१०८.२१ ॥
यस्य भार्या विरूपाक्षी कश्मला कलहप्रिया
उत्तरोत्तरवादा स्या सा जरा न जरा जरा ॥ १.१०८.२२ ॥
यस्य भार्या श्रितान्यञ्च परवेश्माभिकाङ्क्षिणी
कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा ॥ १.१०८.२३ ॥
यस्य भार्या गुणज्ञा च भर्तारमनुगामिनी
अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया ॥ १.१०८.२४ ॥
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः
ससर्पे च गृहे वासोमृत्युरेव न संशयः ॥ १.१०८.२५ ॥
त्यज दुर्जनसंसर्गं भज साधुसमागमम्
कुरु पुण्यमहोरात्र स्मर नित्यमनित्यताम् ॥ १.१०८.२६ ॥
व्यालीकण्ठप्रदेशाह्यपि च फणभृद्भाषणा या च रौद्री या कृष्णा व्याकुलागी रुधिरनयनसंव्याकुला व्याघ्रकल्पा
क्रोधे यैवोग्रवक्त्रा स्फुरदनलशिखा काकजिह्वा कराला सेव्या न स्त्री विदग्धा परपुरगमना भ्रान्तचित्ता विराक्त ॥ १.१०८.२७ ॥
सक्तिः सुतोके सुकृतं कृतघ्ने शतिं च वह्नौ (सीतापहौ ह्यतपयैव)?हैमे
उत्पद्यते दैववशात्कदाचिद्वेश्यासु रागो न भवेत्कदाचित् ॥ १.१०८.२८ ॥
भुजङ्गमे वेश्मनि दृष्टिदृष्टे व्याधौ चिकित्साविनिवर्तिते च
देहे च बाल्यादिवयोऽन्विते च काला वृतोऽसौ लभते धृतिं कः ॥ १.१०८.२९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहस्पतिप्रोक्तनीतिसारनिरूपणं नामाष्टोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १०९
सूत उवाच [SUTA SAID]
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १.१०९.१ ॥
त्यजेदकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १.१०९.२ ॥
वरं हि नरके वासो न तु दुश्चरिते गृहे
नरकात्क्षीयते पाप कुगृहान्न निवर्तते ॥ १.१०९.३ ॥
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्
न परीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १.१०९.४ ॥
त्यजेद्देशमसद्वृत्तं वासं सोपद्रवं त्यजेत्
त्यजेत्कृपणराजानं मित्रं मायामयं त्यजेत् ॥ १.१०९.५ ॥
अर्थेन किं कृपणहस्तगतेन केन ज्ञानेन किं बहुशठाग्रहसंकुलेन
रूपेण किं गुणपराक्रमवर्जितेन मित्रेण किं व्यसनकालपराङ्मुखेन ॥ १.१०९.६ ॥
अदृष्टपूर्वा बहवः सहायाः सर्वे पदस्थस्य भवन्ति मित्राः
अर्थैर्विहीनस्य पदच्युतस्य भवत्यकाले स्वजनोऽपि शत्रुः ॥ १.१०९.७ ॥
आपत्सु मित्रं जानी याद्रणे शूरं रहः शुचिम्
मार्या च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥ १.१०९.८ ॥
वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसानिर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः
पुष्पं पर्युषितं त्यजन्ति मधुपाः दर्ग्ध वनान्तं मृगाः सर्वः कार्यवशाज्जनो हि रमते कस्यास्ति को वल्लभः ॥ १.१०९.९ ॥
लुब्धमर्थप्रदानेन श्लाध्यमञ्जलिकर्मणा
मूर्खं छन्दानुवृत्त्या च याथातथ्येन पण्डितम् ॥ १.१०९.१० ॥
सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः
इतरेः खाद्यपानेन मानदानेन पण्डिताः ॥ १.१०९.११ ॥
उत्तमं प्रणिपातेन शठं भेदेन योजयेत्
नीचं स्वल्पप्रदानेन समं तुल्यपराक्रमैः ॥ १.१०९.१२ ॥
यस्ययस्य हि यो भावस्तस्यतस्य हितं वदन्
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ १.१०९.१३ ॥
नदीनां च नखीनां च शृङ्गिणां शस्त्रपाणिनाम्
विश्वासो नैव गन्तव्यः स्त्रिषु राजकुलेषु च ॥ १.१०९.१४ ॥
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च
वञ्चनं चाप मानं च मतिमान्न प्रिकाशयेत् ॥ १.१०९.१५ ॥
हीनदुर्जनसंसर्ग अत्यन्तविरहादरः
स्नेहोऽन्यगेहवासश्च नारीसच्छीलनाशनम् ॥ १.१०९.१६ ॥
कस्य दोषः कुले नास्ति व्याधिना को पीडितः
केन न व्यसनं प्राप्तं श्रियः कस्य निरन्तराः ॥ १.१०९.१७ ॥
कोर्ऽथं प्राप्य न गर्वितो भुवि नरः कस्यापदोनागताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः
कः कालस्य न गोचरान्तरगतः कोर्ऽथो गतो गौरवं को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ॥ १.१०९.१८ ॥
सुहृत्स्वजनबन्धुर्न बुद्धिर्यस्य न चात्मनि
यस्मिन्कर्मणि सिद्धेऽपि न दृश्येत फलोदयः
विपत्तौ च महद्दुःखं तद्वुधः कथमाचरेत् ॥ १.१०९.१९ ॥
यस्मिन्देशे न संमानं न प्रीतिर्न च बान्धवाः
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १.१०९.२० ॥
धनस्य यस्य राजतो भयं न चास्ति चौरतः
मृतं च यन्न मुच्यते समर्जयस्व तद्धनम् ॥ १.१०९.२१ ॥
यदर्जितं प्राणहरैः परिश्रमैर्मृतस्य तं वै विभजन्तिरिक्थिनः
कृतं च यद्दुष्कृतमर्थलिप्सया तदेव दोषोपहतस्य यौतुकम् ॥ १.१०९.२२ ॥
सञ्चितं निहितं द्रव्यं परामृश्यं मुहुर्मुहुः
आखोरिव कदर्यस्य धनं दुः खाय केवलम् ॥ १.१०९.२३ ॥
नग्ना व्यसनिनो रूक्षाः कपालाङ्कितपाणयः
दर्शयन्तीह लोकस्य अदातुः फलमीदृशम् ॥ १.१०९.२४ ॥
शिक्षयन्ति च याचन्ते देहीति कृपणा जनाः
अवस्थेयमदानस्य मा भूदेवं भवानपि ॥ १.१०९.२५ ॥
सञ्चितं क्रतुशतैर्न युज्यते याचितं गुणवते न दीयते
तत्कदर्यपरिरक्षितं धनं चोरपार्थिवगृहे प्रयुज्यते ॥ १.१०९.२६ ॥
न देवेभ्यो न विप्रोभ्यो बन्धुभ्यो नैव चात्मने
कदर्यस्य धनं याति त्वग्नितस्करराजसु ॥ १.१०९.२७ ॥
अतिक्लेशेन येऽप्यर्था धर्मस्यातिक्रमेण च
अरेर्वा प्रणिपातेन मा भूतस्ते कदाचन ॥ १.१०९.२८ ॥
विद्याघातो ह्यनभ्यासः स्त्रीणां घातः कुचैलता
व्याधीनां भोजनं जीर्णं शत्रोर्घातः प्रपञ्चता ॥ १.१०९.२९ ॥
तस्करस्य वधो दण्डः कुमित्रस्याल्पभाषणम्
पृथक्शय्या तु नारीणां ब्राह्मणस्यानिमन्त्रणम् ॥ १.१०९.३० ॥
दुर्जनाः शिल्पिनो दासा दुष्टाश्च पटहाः स्त्रियः
ताडिता मार्दवं यान्ति न ते सत्कारभाजनम् ॥ १.१०९.३१ ॥
जानीयात्प्रेषणे भृत्यान्बान्धवान्व्यसनागमे
मित्रमापदि काले च भार्याञ्च विभवक्षये ॥ १.१०९.३२ ॥
स्त्रीणां द्विगुण आहारः प्रज्ञा चैव चतुर्गुणा
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ १.१०९.३३ ॥
न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत्
न चेन्धनैर्जयेद्वह्निं न मद्येन तृषां जयेत् ॥ १.१०९.३४ ॥
समांसैर्भोजनैः स्निग्धैर्मद्यैर्गन्धविलेपनैः
वस्त्रैर्मनोरमैर्माल्यैः कामः स्त्रीषु विजृम्भते ॥ १.१०९.३५ ॥
ब्रह्मचर्येऽपि वक्तव्यं प्राप्तं मन्मथचेष्टितम्
हृद्यं हि पुरुषं दृष्ट्वा योनिः प्रक्लिद्यते स्त्रियाः ॥ १.१०९.३६ ॥
सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम्
योनिः क्लिद्यति नारीणां सत्यंसत्यं हि शौनक ! ॥ १.१०९.३७ ॥
नद्यश्च नार्यश्च समस्वभावाः स्वतन्त्रभावे गमनादिकेच
तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुला नि नार्यः ॥ १.१०९.३८ ॥
नदी पातयते कूलं नारी पातयते कुलम्
नारीणाञ्च नदीनां च स्वच्छन्दा ललिता गतिः ॥ १.१०९.३९ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ १.१०९.४० ॥
न तृप्तिरस्ति शिष्टानामिष्टानां प्रियवादिनाम्
सुखानाञ्च सुतानाञ्च जीवितस्य वरस्य च ॥ १.१०९.४१ ॥
राजा न तप्तो धनसंचयेन न सागरस्तृप्तिमगाज्जलेन
न पण्डितस्तृप्यति भाषितेन तृप्तं न चक्षुर्नृपदर्शनेन ॥ १.१०९.४२ ॥
स्वकर्म धर्मार्जितजीवितानां शास्त्रेषु दारेषु सदा रतानाम्
जितेन्द्रियाणामतिथिप्रियाणां गृहेऽपि मोक्षः पुरुषोत्तमानाम् ॥ १.१०९.४३ ॥
मनोऽनुकूलाः प्रमदारूपवत्यः स्वलङ्कृताः
वसः प्रासादपृष्ठेषु स्वर्गः स्याच्छुभकर्मणः ॥ १.१०९.४४ ॥
न दानेन न मानेन नार्जवेन न सवया
न शस्त्रेण न शास्त्रेण सर्वथा विषमा स्त्रियः ॥ १.१०९.४५ ॥
शनैर्विद्या शनैर्थाः शनैः पर्वतमारुहेत्
शनैः कामं च धर्मं च पञ्चैतानि शनैः शनैः ॥ १.१०९.४६ ॥
शाश्वतं देवपूजादि विप्रदानं च शाश्वतम्
शाश्वतं सगुणा विद्या सुहृन्मित्रं च शाश्वतम् ॥ १.१०९.४७ ॥
ये बालभावान्न पठन्ति विद्यां ये यौवनस्था ह्यधनात्मदाराः
ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥ १.१०९.४८ ॥
पठने भोजने चित्तं न कुर्याच्छास्त्रसेवकः
सुदूरमपि विद्यार्थो व्रजेद्गरुडवेगवान् ॥ १.१०९.४९ ॥
ये बालभावे न पठन्ति विद्यां कामातुरा यौवननष्टवित्ताः
ते वृद्धबावे परिभूयमानाः संदह्यमानाः शिशिरे यथाब्जम् ॥ १.१०९.५० ॥
तर्केऽप्रतिष्ठा श्रुतयो विभिन्नाः नासावृषिर्यस्य मतं न भिन्नम्
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ १.१०९.५१ ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च
नेत्रवक्रविकाराभ्यां लक्ष्यतेऽन्तर्गतं मनः ॥ १.१०९.५२ ॥
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः
उदीरितोर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति दर्शितम् ॥ १.१०९.५३ ॥
अर्थाद्भ्रष्टस्तीर्थयात्रां तु गच्छेत्सत्याद्भ्रष्टो रौरवं वै व्रजेच्च
योगाद्भ्रष्टः सत्यघृतिञ्च गच्छेद्राज्याद्भ्रष्टो मृगयायां व्रजेच्च ॥ १.१०९.५४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे नवोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ११०
सूत उवाच [SUTA SAID]
योध्रुवाणि परित्यज्य ह्यधुवाणि निषेवते
ध्रुवाणि तस्य नश्यन्ति ह्यध्रुवं नष्टमेव च ॥ १.११०.१ ॥
वाग्यन्त्रहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते
न तुष्टिमुत्पादयते शरीरे ह्यन्धस्य दारा इव दर्शनीयाः ॥ १.११०.२ ॥
भोज्ये भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः
विभवे दानशक्तिश्च नाल्पस्य तपसः फलम् ॥ १.११०.३ ॥
अग्निहोत्रफला वेदाः शीलवृत्तिफलं शुभम्
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥ १.११०.४ ॥
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम्
सुरूपां सुनितम्बाञ्च नाकुलीनां कदाचन ॥ १.११०.५ ॥
अर्थेनापि हि किं तेन यस्यानर्थे तु संगतिः
को हि नाम शिखाजातं पन्नगस्य मणिं हरेत् ॥ १.११०.६ ॥
हविर्दुष्टकुलद्वाह्यं बालादपि सुभाषितम्
अमेध्यात्काञ्चनं ग्राह्यं स्त्रीरत्नं दुष्कुलादपि ॥ १.११०.७ ॥
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम्
नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ॥ १.११०.८ ॥
न राज्ञा सह मित्रत्वं न सर्पो निर्विषः क्रचित्
न कुलं निर्मलं तत्र स्त्रीजनो यत्र जायते ॥ १.११०.९ ॥
कुले नियोजयेद्भक्तं पुत्रं विद्यासु योजयेत्
व्यसने योजयेच्छत्रुमिष्टं धर्मे नियोज्येत् ॥ १.११०.१० ॥
स्थानेष्वेव प्रयोक्ताव्या भृत्याश्चाभरणानि च
न हि चूडामणिः पादे शोभते वै कदाचन ॥ १.११०.११ ॥
चूडामणिः समुद्रोऽग्निर्घण्टा चाखण्डमम्बरम्
अथवा पृथिवीपालो मूर्ध्नि पादे प्रमादतः ॥ १.११०.१२ ॥
कुसुमस्तबकस्येव द्वे गती तु मनस्विनः
मूर्ध्नि वा सर्वलोकानां शीर्षतः पतितो वने ॥ १.११०.१३ ॥
कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते
न च विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥ १.११०.१४ ॥
वाजिवारणलौहानां काष्ठपाषाणवाससाम्
नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ १.११०.१५ ॥
कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते सर्वगुणप्रमाथः
अधः खलेनापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिदेव ॥ १.११०.१६ ॥
न सदश्वः कशाघातं सिंहो न गजगर्जितम्
वीरो वा परनिर्दिष्टं न सहेद्भीमनिः स्वनम् ॥ १.११०.१७ ॥
यदि विभवविहीनः प्रच्युतो वाशु दैवान्न तु खलजनसेवां काङ्क्षयेन्नैव नीचाम्
न तृणमदनकार्ये सुक्षुधार्तोऽत्ति सिंहः पिबति रुधिरमुष्णं प्रायशः कुञ्चराणाम् ॥ १.११०.१८ ॥
सकृद्दुष्टञ्च यो मित्रं पुनः सन्धातुमिच्छति
स मृत्युमेव गृह्णीयाद्गर्भमश्वतरी यथा ॥ १.११०.१९ ॥
शत्रोरपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैर्मनुष्यैः
तान्येव कालेषु विपत्कराणि विषस्य पात्राण्यपि दारुणानि ॥ १.११०.२० ॥
उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत्
पादलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥ १.११०.२१ ॥
अपकारपरान्नित्यं चिन्त येन्न कदाचन
स्वयमेव पतिष्यन्ति कूलजाता इव द्रुमाः ॥ १.११०.२२ ॥
अनर्था ह्यर्थरूषाश्च अर्थाश्चानर्थरूपिणः
भवन्ति ते विनाशाय दैवायत्तस्य वै सदा ॥ १.११०.२३ ॥
कार्यकालोचितापापा मतिः सञ्जायते हि वै
सानुकूले तु दैवे शं पुंसः सर्वत्र जायते ॥ १.११०.२४ ॥
धनप्रयोगकार्येषुः तथा विद्या गमेषु च
आहारे व्यवहारे च त्यक्तलज्जः सदा भवेत् ॥ १.११०.२५ ॥
धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्रत्र संस्थितिम् ॥ १.११०.२६ ॥
लोकयात्रा भयं लज्जा दाक्षिण्यं दानशीलता
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत् ॥ १.११०.२७ ॥
कालविच्छोत्रियो राजा नदी साधुश्च पञ्चमः
एते यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ १.११०.२८ ॥
नैकत्र परिनिष्ठास्ति ज्ञानस्य किल शौनक
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कुत्रचित् ॥ १.११०.२९ ॥
न सर्ववित्कश्चिदिहास्ति लोके नात्यन्तमूर्खो भुवि चापि कश्चित्
ज्ञानेन नीचोत्तममध्यमेन योऽयं विजानाति स तेन विद्वान् ॥ १.११०.३० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे दशोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १११
सूत उवाच [SUTA SAID]
पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम्
सर्वाणि हि महीपालः सम्यङ्नित्यं परीक्षयेत् ॥ १.१११.१ ॥
राज्यं पालयते नित्यं सत्यधर्मपरायणः
निर्जित्य परसैन्यानि क्षितं धर्मेण पालयेत् ॥ १.१११.२ ॥
पुष्पात्पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्
मालाकार इवारण्ये न यथाङ्गारकारकः ॥ १.१११.३ ॥
दोग्धारः क्षीरभुञ्जाना विकृतं तन्न भुञ्जते
परराष्ट्रं महीपालैर्भोक्तव्यं न च दूषयेत् ॥ १.१११.४ ॥
नोधश्छिन्द्यात्तु यो धेन्वाः क्षारार्थो लभते पयः
एवं राष्ट्रं प्रयोगेण पीड्यमानं न वर्धते ॥ १.१११.५ ॥
तस्मात्सर्वप्रयत्नेन पृथिवीमनुपालयेन्
पालकस्य भवेद्भूमिः कीर्तिरायुर्यशो बलम् ॥ १.१११.६ ॥
आभ्यर्च्य विष्णुं धर्मात्मा गोब्राह्मणहिते रतः
प्रजाः पालयितुं शक्तः पार्थिवो विजितेन्द्रियः ॥ १.१११.७ ॥
ऐश्वर्यमध्रुवं प्राप्य राजा धर्मे मतिञ्चरेत्
क्षणेन विभवो नश्येन्नात्मायत्तं धनादिकम् ॥ १.१११.८ ॥
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः
किन्तु वै वनितापाङ्गभङ्गिलोलं हि जीवितम् ॥ १.१११.९ ॥
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रभवन्ति गात्रे
आयुः परिस्त्रवति भिन्नघटादिवाम्भो लोको न चात्महितमाचरतीह कश्चित् ॥ १.१११.१० ॥
निः शङ्कं किं मनुष्याः कुरुत परहितं युक्तमग्रे हितं यन्मोदध्वं कामिनीभिर्मदनशरहता मन्दमन्दातिदृष्ट्या
मा पापं संकुरुध्वं द्विजहरिपरमाः संभजध्वं सदैव आयुर्निः शेषमेति स्खलति जलघटीभूतमृत्युच्छलेन ॥ १.१११.११ ॥
मातृवत्परदारेषु परद्रव्येषु लोष्टवत्
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १.१११.१२ ॥
एतदर्थं हि विप्रेन्द्रा राज्यमिच्छन्ति भूभृतः
यदेषां सर्वकार्येषु वचो न प्रतिहन्यते ॥ १.१११.१३ ॥
एतदर्थं हि कुर्वन्ति राजानो धनसञ्चयम्
रक्षयित्वा तु चात्मानं यद्धनं तद्द्विजातये ॥ १.१११.१४ ॥
ओङ्कारशब्दो विप्राणां येन राष्ट्रं प्रवर्धते
स राजा वर्धते योगाद्व्याधिभिश्च न बध्यते ॥ १.१११.१५ ॥
असमर्थाश्च कुर्वन्ति मुनयो द्रव्यसञ्चयम्
किं पुनस्तु महीपालः पुत्रवत्पालयन्प्रजाः ॥ १.१११.१६ ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः
यस्यार्थाः स मुमांल्लाके यस्यार्थाः स च पण्डितः ॥ १.१११.१७ ॥
त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च
ते चार्थवन्तं पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥ १.१११.१८ ॥
अन्धा हि राजा भवति यस्तु सास्त्रविवर्जितः
अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ॥ १.१११.१९ ॥
यस्य पुत्राश्च भृत्याश्च मन्त्रिणश्च पुरोहिताः
इन्द्रियाणि प्रसुप्तानि तस्य राज्यं चिरं न हि ॥ १.१११.२० ॥
येनार्जितास्त्रयोऽप्योऽप्येते पुत्रा भृत्याश्च बान्धवाः
जिता तेन समं भूपैश्चतुरब्धिर्वसुन्धरा ॥ १.१११.२१ ॥
लङ्घयेच्छास्त्रयुक्तानि हेतुयुक्तानि यानि च
सहि नश्यति वै राजा इह लोके परत्र च ॥ १.१११.२२ ॥
मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः
समबुद्धिः प्रसन्नात्मा प्रसन्नात्मा सुखदुःखे समो भवेत् ॥ १.१११.२३ ॥
धीराः कष्टमनुप्राप्य न भवन्ति विषादिनः
प्रविश्य वदनं राहोः किं नोदति पुनः शशी ॥ १.१११.२४ ॥
धिग्धिक्शरीरसुखलालितमानवेषु मा खेदयेद्धनकृशं हि शरीरमेव
सद्दारका ह्यधनपाण्डुसुताः श्रुता हि दुःखं विहाय पुनरेव सुखं प्रपन्नाः ॥ १.१११.२५ ॥
गन्धर्वविद्यामालोक्य वाद्यं च गणिकागणान्
धनुर्वेदार्थशास्त्राणि लोके रक्षेच्च भूपतिः ॥ १.१११.२६ ॥
कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः
स गृह्णाति विषोन्मादं कृष्णसर्पविसर्जितम् ॥ १.१११.२७ ॥
चापलाद्वारयेद्दृष्टिं मिथ्यावाक्यञ्च वारयेत्
मानवे श्रोत्रिये चैव भृत्यवर्गे सदैव हि ॥ १.१११.२८ ॥
लीलां करोति यो राजा भृत्यस्वजनगर्वितः
शासने सर्वदा क्षिप्रं रिपुभिः परिभूयते ॥ १.१११.२९ ॥
हुङ्कारे भृकुटीं नैव सदा कुर्वीत पार्थिवः
विना दोषेण यो भृत्यान्राजाधमण शास्ति च
लीलासुखानि भोग्यानि त्यजेदिह महीपतिः ॥ १.१११.३० ॥
सुखप्रवृत्तैः साध्यन्तै शत्रवो विग्रहे स्थितैः ॥ १.१११.३१ ॥
उद्योगः साहसंधैर्यं बुद्धिः शक्तिः पराक्रमः
षड्विधो यस्य उत्साहस्तस्य देवोऽपि शङ्कते ॥ १.१११.३२ ॥
उद्योगेन कृते कार्ये सिद्धर्यस्य न विद्यते
दैवं तस्य प्रमाणं हि कर्तव्यं पौरुषं सदा ॥ १.१११.३३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे एकादशोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ११२
सूत उवाच [SUTA SAID]
भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः
नियोक्तव्या यथार्हेषु त्रिविधेष्वेव कर्मसु ॥ १.११२.१ ॥
भृत्ये परिक्षणं वक्ष्ये यस्ययस्य हि यो गुणः
तमिमं संप्रवक्ष्यामि ये यथाकथितं किल ॥ १.११२.२ ॥
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः
तथा चतुर्भिर्भृतकं परीक्षयेद्वतेन शीलेन कलेन कर्मणा ॥ १.११२.३ ॥
कुलशीलगुणोपेतः सत्यधर्मपरायणः
रूपवान्सुप्रसन्नश्च कोशाध्यक्षो विधीयते ॥ १.११२.४ ॥
मूल्यरूपपरीक्षाकृद्भवे द्रत्नपरीक्षकः
बलाबलपरिज्ञाता सेनाध्यक्षो विधीयते ॥ १.११२.५ ॥
इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः
अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥ १.११२.६ ॥
मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः
सर्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥ १.११२.७ ॥
बुद्धिमान्मतिमांश्चैव परचित्तोपलक्षकः
क्रूरो यथोक्तवादी च एष दूतो विधीयते ॥ १.११२.८ ॥
समस्तस्मृतिशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः
शौर्यवीर्यगुणोपेतो धर्माध्यक्षो विधीयते ॥ १.११२.९ ॥
पितृपैतामहो दक्षः शास्त्रज्ञः सत्यवाचकः
शुचिश्च कठिनश्चैव सूपकारः स उच्यते ॥ १.११२.१० ॥
आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः
आयुः शीलगुणोपेतो वैद्य एव विधीयते ॥ १.११२.११ ॥
वेदवेदाङ्गतत्त्वज्ञो जपहमपरायणः
आशीर्वादपरो नित्यमेष राजपुरोहित ॥ १.११२.१२ ॥
लेखकः पाठकश्चैव गणकः प्रतिरोधकः
आलस्ययुक्तश्चैद्राजा कर्म संवर्जयेत्सदा ॥ १.११२.१३ ॥
द्विजिह्वमुद्वेगकरं क्रूरमेकान्तदारुणम्
खलस्याहेश्च वदनमपकाराय केवलम् ॥ १.११२.१४ ॥
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपिसन्
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १.११२.१५ ॥
अकारणविष्कृतकोपधारिणः खलाद्भयं कस्य न नाम जायते
विषं महाहेर्विषमस्य दुर्वचः सदुः सहं सन्निपतेत्सदा मुखे ॥ १.११२.१६ ॥
तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम्
अर्धराज्यहरं भृत्यं यो हन्यात्स न हन्यते ॥ १.११२.१७ ॥
शूरत्वयुक्ता मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च
प्रागेव पश्चाद्विपरी तरुपा ये ते तु भृत्या न हिता भवन्ति ॥ १.११२.१८ ॥
निरालस्याः सुसन्तुष्टाः प्रतिबोधकाः
सुखदुः खसमा धीरा भृत्या लोकेषु दुर्लभाः ॥ १.११२.१९ ॥
क्षान्तिस्तयविहीनश्च क्रूरबुद्धिश्च निन्दकः
दाम्भिकः कपटी चैव शठश्च स्पृहयान्वितः
अशक्तो भयभीतश्च राज्ञा त्यक्तव्य एव सः ॥ १.११२.२० ॥
सुसन्धानानि चास्त्राणि शस्त्राणि विविधानि च
दुर्गे प्रवेशितव्यानि ततः शत्रुं निपातयेत् ॥ १.११२.२१ ॥
षण्मासमथ वर्षं वा सन्धिं कुर्यान्नराधिपः
पश्यन्सञ्चितमात्मानं पुनः शत्रुं निपातयेत् ॥ १.११२.२२ ॥
मूर्खान्नियोजयेद्यस्तु त्रयोऽप्येते महीपतेः
अयशश्चार्थनाशश्च नरके चैव पातनम् ॥ १.११२.२३ ॥
यत्किञ्चित्कुरुते कर्म शुभं वा यादि वाशुभम्
तेन स्म वर्धते राजा सूक्ष्मतो भृत्यकार्यतः ॥ १.११२.२४ ॥
तस्माद्भूमीश्वरः प्राज्ञं धर्मकामार्थसाधने
नियोज येद्धिसततं गोब्राह्मणहिताय वै ॥ १.११२.२५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहस्पत्युक्त नीतिप्तारे द्वादशोत्तरकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ११३
सूत उवाच [SUTA SAID]
गुणवन्तं नियुञ्जीत गुणहीनं विवर्जयेत्
पण्डितस्य गुणाः सर्वे मूर्वे दोषाश्च केवलाः ॥ १.११३.१ ॥
सद्भिरासीत सततं सद्भिः कुर्वीत सङ्गतिम्
सद्भिर्विवादं मैत्रीञ्च नासद्भिः किञ्चिदाचरेत् ॥ १.११३.२ ॥
पण्डितैश्च विर्नातैश्च धर्मशैः सत्यवादिभिः
बन्ध्स्थोऽपि तिष्ठेच्च न तु राज्ये खलैः सह ॥ १.११३.३ ॥
सावशेषाणि कार्याणि कुवत्रर्थे युज्यते
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ १.११३.४ ॥
मधुहेव दुहेत्सारं कुसुमञ्च न घातयेत्
वत्सापेक्षी दुहेत्क्षीरं भूमिं गाञ्चैव पार्थिपः ॥ १.११३.५ ॥
यथाक्रमेण पुष्पेभ्यश्चिनुते मधु षट्पदः
तथा वित्तमु पादाय राजा कुर्वीत सञ्चयम् ॥ १.११३.६ ॥
वल्मीकं मधुजालञ्च शुक्लण्क्षे तु चन्द्रमाः
राजद्रव्यञ्च भैक्ष्यञ्च स्तोकंस्तोकं प्रवर्धते ॥ १.११३.७ ॥
अर्जितस्य क्षयं दृष्टा संप्रदत्तस्य सञ्चयम्
अवन्ध्यं दिवसं कुर्याद्दानध्ययनकर्मसु ॥ १.११३.८ ॥
वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः
अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥ १.११३.९ ॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते
मृजया रक्ष्यते पात्रं कुलं शलिन रक्ष्यते ॥ १.११३.१० ॥
वरं विन्ध्याटव्यां निवसनमभुक्तस्य मरणं वरं सर्पाकीर्णे शयनमथ कूपे निपतनम्
वरं भ्रान्तावर्ते सभयजलमध्ये प्रविशनं न तु स्वीये पक्षे हि धनमणु देहीति कथनम् ॥ १.११३.११ ॥
भाग्यक्षयेषु क्षीयन्ते नोपभोगेन सम्पदः
पूर्वार्जिते हि सुकृते न नश्यन्ति कदाचन ॥ १.११३.१२ ॥
विप्राणां भूषणं विद्या पृथिव्या भूषणं नृपः
नभसो भूषणं चन्द्रः शीलं सर्वस्य भूषणम् ॥ १.११३.१३ ॥
एते ते चन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः शुराः सत्यप्रतिज्ञा दिनकरवपुषः केशवेनोपगूढाः
ते वै दुष्टग्रहस्थाः कृपणवशगता भैक्ष्यचर्यां प्रयाताः को वा कस्मिन्समर्थो भवति विधिवशाद्भ्रामयेत्कर्मरेखा ॥ १.११३.१४ ॥
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे
रुद्रोयेन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तरमै नमः कर्णणे ॥ १.११३.१५ ॥
दाता बलिर्याचकको मुरारिर्दानं मही विप्रमुखस्य मध्ये
दत्त्वा फलं बन्धनमेव लब्धं नमोऽस्तु ते दैव यथेष्टकारिणे ॥ १.११३.१६ ॥
माता यदि भवेल्लक्ष्मीः पिता साक्षाज्जनार्दनः
कुबुद्धौ प्रतिपत्तिश्चैत्तस्मिन्दण्डः पतेत्सदा ॥ १.११३.१७ ॥
येनयेन यथा यद्वत्पुरा कर्म सुनिश्चितम्
तत्तदेवान्तरा भुङ्क्ते स्वयमाहितमात्मना ॥ १.११३.१८ ॥
आत्मना विहितं दुः खमात्मना विहितं सखम्
गर्भशय्यामुपादाय भुङ्क्ते वै पौर्वदैहिकम् ॥ १.११३.१९ ॥
न चान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरप्रवेशे
न मातृमूर्ध्नि प्रधृतस्तथाङ्के त्यक्तुं क्षमः कर्म कृतं नरो हि ॥ १.११३.२० ॥
दुगस्त्रिकूटः परिखा समुद्रो रक्षांसि योधाः परमा च वृत्तिः
शास्त्रञ्च वै तूशनसा प्रदिष्टं स रावणः कालवशाद्विनष्टः ॥ १.११३.२१ ॥
यस्मिन्वयसि यत्काले यद्दिवा यच्च वा निशि
यन्मुहूर्ते क्षणे वापि तत्तथा न तदन्यथा ॥ १.११३.२२ ॥
गच्छन्ति चान्तरिक्षे वा प्रविशन्ति महीतले
धारयन्ति दिशः सर्वा नादत्तमुपलभ्यते ॥ १.११३.२३ ॥
पुराधीता च या विद्या पुरा दत्तञ्च यद्धनम्
पुरा कृतानि कर्माणि ह्यग्रे धावन्ति धावतः ॥ १.११३.२४ ॥
कर्माण्यत्र प्रधानानि सम्यगृक्षे शुभग्रहे
वसिष्ठकृतलग्नापि जानकी दुः खभाजनम् ॥ १.११३.२५ ॥
स्थूलजङ्घो यदा रामः शब्दगामी च लक्ष्मणः
घनकेशी यदा सीता त्रयस्ते दुः खभाजनम् ॥ १.११३.२६ ॥
न पितुः कर्मणा पुत्रः पिता वा पुत्रकर्मणा
स्वयं कृतेन गच्छन्ति स्वयं बद्धाः स्वकर्मणा ॥ १.११३.२७ ॥
कर्मजन्यशरीरेषु रोगाः शरीरमानसाः
शरा इव पतन्तीह विमुक्ता दृढधन्विभिः ॥ १.११३.२८ ॥
अन्यथा शास्त्रगार्भिण्या धिया धीरोर्ऽथमीहते
स्वामिवत्प्राक्कृतं कर्म विदधाति तदन्यथा ॥ १.११३.२९ ॥
बालो युवा च वृद्धश्च यः करोति शुभाशुभम्
तस्यान्तस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥ १.११३.३० ॥
अनीक्षमाणोऽपि नरो विदेशस्थोऽपि मानवः
स्वकर्मपातवातेन नीयते यत्र तत्फलम् ॥ १.११३.३१ ॥
प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं वारयितुं न शक्तः
अतो न शोचामि न विस्मयो मे ललाटलेखा न पुनः प्रयाति (यदस्मदीयं न तु तत्परेषाम् ॥ १.११३.३२ ॥
सर्पः कूपे गजः स्कन्धे बिल आखुश्च धावति
नरः शीघ्रतरादेव कर्मणः कः पलायते ॥ १.११३.३३ ॥
नाल्पा भवति सद्विद्या दीयमानापि वर्धते
कूपस्थमिव पानीयं भवत्येव बहूदकम् ॥ १.११३.३४ ॥
येर्ऽथा धर्मेण ते सत्या येऽधर्मेण गताः श्रियः
धर्मार्थो च महांल्लोके तत्स्मृत्वा ह्यर्थकारणात् ॥ १.११३.३५ ॥
अन्नार्थो यानि दुः खानि करोति कृपणो जनः
तान्येव यदि धर्मार्थो न भूयः क्लेशभाजनम् ॥ १.११३.३६ ॥
सर्वेषामेव शौचानामन्नशौचं विशिष्यते
योऽन्नार्थैः शुचिः शौचान्न मृदा वारिणा शुचिः ॥ १.११३.३७ ॥
सत्यं शौचं मनः शौचं शौचमिन्द्रियनिग्रहः
सर्वभूते दया शौचं जलशौचञ्च पञ्चमम् ॥ १.११३.३८ ॥
यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्लभः
सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते ॥ १.११३.३९ ॥
मृत्तिकानां सहस्रेण चोदकानां शतेन हि
न शुध्यति दुराचारो भावोपहतचेतनः ॥ १.११३.४० ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ १.११३.४१ ॥
न प्रहृष्यति संमानैर्नावमानैः प्रकुप्यति
न क्रुद्धः परुषं ब्रूयादेतत्साधोस्तु लक्षणम् ॥ १.११३.४२ ॥
दरिद्रस्य मनुष्यस्य प्राज्ञस्य मधुरस्य च
काले श्रुत्वा हितं वाक्यं न कश्चित्परितुष्यति ॥ १.११३.४३ ॥
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च
अलभ्यं लभ्यते मर्त्यैस्तत्र का परिवेदना ॥ १.११३.४४ ॥
अयाचितो मया लब्धो पुनर्मत्प्रेषणाद्गतः
यत्रागतस्तत्र गतस्तत्र का परिवेदना ॥ १.११३.४५ ॥
एकवृक्षे सदा रात्रौ नानापक्षिसमागमः
प्रभातेऽन्यदिशो यान्ति का तत्र परिवेदना ॥ १.११३.४६ ॥
एकसार्थप्रयाताना सर्वेषान्तत्र गामिनाम्
यस्त्वेकस्त्वरितो याति का तत्र परिवेदना ॥ १.११३.४७ ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि शौनक
अव्यक्तनिधनान्येनव का तत्र परिवेदना ॥ १.११३.४८ ॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि
कुशाग्रेण तु संस्पृष्टं प्राप्तकालो न जीवति ॥ १.११३.४९ ॥
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति
प्राप्तव्यान्येव प्राप्नाति दुः खानि च सुखानि च ॥ १.११३.५० ॥
तत्तत्प्राप्नोति पुरुषः कि प्रलापैः करिष्यति
आचोद्यमानानि यथा पुष्पाणि च फलानि च
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ १.११३.५१ ॥
शीलं कुलं नैव न चैव विद्या ज्ञानं गुणा नैव न बीजशुद्धिः
भाग्यानि पूर्वं तपसार्जितानि काले फलन्त्यस्य यथैव वृक्षाः ॥ १.११३.५२ ॥
तत्र मृत्युर्यत्र हन्ता तत्र श्रीर्यत्र सम्पदः
तत्र तत्र स्वयं याति प्रेर्यमाणः स्वकर्मभिः ॥ १.११३.५३ ॥
भूतपूर्वं कृतं कर्म कर्तारमनुतिष्ठति
यथा धेनुसहस्रेषु वत्सो विन्दन्ति मातरम् ॥ १.११३.५४ ॥
एवं पूर्वकृतं कर्म कर्तारमनुतिष्ठाति
सुकृतं भुङ्क्ष्व चात्मीयं मूढ किं परितप्यसे ॥ १.११३.५५ ॥
यथा पूर्वकृतं कर्म शुभं वा यदि वाशुभम्
तथा जन्मान्तरे तद्वै कर्ता रमनुगच्छति ॥ १.११३.५६ ॥
नीचः सर्षपमात्राणि परच्छिद्राणि पश्यति
आत्मनो बलिवमात्राणि पश्यन्नपि न पश्यति ॥ १.११३.५७ ॥
रागद्वेषादियुक्तानां न सुखं कुत्रचिद्द्विज
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ १.११३.५८ ॥
यत्र स्नेहो भयं तत्र स्नेहो दुः खस्य भाजनम्
स्नेहमूलानि दुः खानि तस्मिस्त्यक्ते महत्सुखम् ॥ १.११३.५९ ॥
शरीरमेवायतनं दुः खस्य च सुखस्य च
जीवितञ्च शरीरञ्च जात्यैव सह जायते ॥ १.११३.६० ॥
सर्वं परवशं दुः खं सर्व मात्मवशं सुखम्
एतद्विद्यात्समासेन लक्षणं सुखदुः खयोः ॥ १.११३.६१ ॥
सुखस्यानन्तरं दुः खं दुः खस्यानन्तरं सुखम्
शुखं दुः खं मनुष्याणां चक्रवत्परिवर्तते ॥ १.११३.६२ ॥
यद्गतं तदतिक्रान्तं यदि स्यात्तच्च दूरतः
वर्तमानेन वर्तेत न स शोकेन बाध्यते ॥ १.११३.६३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे त्रयोशोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ११४
सूत उवाच [SUTA SAID]
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः
कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥ १.११४.१ ॥
शोकत्राणं भयत्राणं प्रीतिविश्वासभाजनम्
केन रत्नांमदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १.११४.२ ॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ १.११४.३ ॥
न मातरि न दारेषु न सोदर्ये न चात्मजे
विश्वासस्तादृशः पुंसां यादृङ्मित्रे स्वभावजे ॥ १.११४.४ ॥
यदिच्छेच्छाश्वतीं प्रीतिं त्रीन्दोषान्परिवर्जयेत्
द्युतमर्थप्रयोगञ्च परोक्षे दारदर्शनम् ॥ १.११४.५ ॥
मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो वसेत्
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १.११४.६ ॥
विपरीतरतिः कामः स्वायतेषु न विद्यते
यथोपायो वधो दण्डस्तथैव ह्यनु वर्तते ॥ १.११४.७ ॥
अपि कल्पानिलस्यैव तुरगस्य महोदधेः
शक्यते प्रसरो बोद्धुं न ह्यरक्तस्ये चतसः ॥ १.११४.८ ॥
क्षणो नास्ति रहो नास्ति न स्ति प्रार्थयिता जनः
तेन शौनक नारीणां सतीत्वमुपजायते ॥ १.११४.९ ॥
एक वै सेवते नित्यमन्यश्चेतपि रोचते
पुरुषाणामलाभेन नारी चैव पतिव्रता ॥ १.११४.१० ॥
जननी यानि कुरुते रहस्यं मदनातुरा
सुतैस्तानि न चिन्त्यानि शीलविप्रतिपत्तिभिः ॥ १.११४.११ ॥
पराधीना निद्रा परदृदयकृत्यानुसरणं सदा हेला हास्यं नियतमपि शोकेन रहितम्
पणे न्यस्तः कायो विटजनखुरैर्दारितगलो बहूत्कण्ठवृतिर्जगति गणिक्राया बहुमतः ॥ १.११४.१२ ॥
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च
नित्यं परोपसेव्यानि सद्यः प्राणहराणि षट् ॥ १.११४.१३ ॥
किं चित्रं यदि वेद (शब्द) शास्त्रकुशलो विप्रो भवेत्पण्डितः किं चित्रं यदि दण्डनीतिकुशलो राजा भवेद्धार्मिकः
किं चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी तच्चित्रं यदि निर्धनोऽपि पुरुषः पापं न कुर्यात्क्रचित् ॥ १.११४.१४ ॥
नात्मच्छिद्रं परे दद्याद्विद्याच्छिद्रं परस्य च
गूहेत्कूर्म इवाङ्गानि परभावञ्च लक्षयेत् ॥ १.११४.१५ ॥
पातालतलवा सिन्य उच्चप्राकारसंस्थिताः
यदि नो चिकुरोद्भेदाल्लभ्यन्ते कैः स्त्रियो न हि ॥ १.११४.१६ ॥
समधर्मा हि मर्मज्ञस्तीक्ष्णः स्वजनकण्टकः
न तथा बाधते शत्रुः कृतवैरो बहिः स्थितः ॥ १.११४.१७ ॥
स पण्डितो यो ह्यनुञ्जयेद्वै मिष्टेन बालं विनियेन शिष्टम्
अर्थेन नारीं तपसा हि देवान्सर्वांश्च लोकांश्च सुसंग्रहेण ॥ १.११४.१८ ॥
छलेन मित्रं कलुषेण धर्मं परोपतापेन समृद्धिभावनम्
सुखेन विद्यां पुरुषेण नारीं वाञ्छन्ति वै ये न च पण्डितास्ते ॥ १.११४.१९ ॥
फलार्थो फलिनं वृक्षं यश्छिन्द्याद्दुर्मतिर्नरः
निष्फलं तस्य वै कार्यां महादोषमवाप्नुयात् ॥ १.११४.२० ॥
सधनो हि तपस्वी च दूरतो वै कृतश्रमः
मद्यप स्त्री सतीत्येवं विप्र न श्रद्दधाम्यहम् ॥ १.११४.२१ ॥
न विश्वसेदविश्वस्ते मित्रस्यापि न विश्वसेत्
कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ १.११४.२२ ॥
सर्वभूतेषु विश्वासः सर्वभूतेषु सात्त्विकः
स्वबावमात्मना गूहेदेतत्साधोर्हि लक्षणम् ॥ १.११४.२३ ॥
यस्मिन्कस्मिन्कृते कार्ये कर्तारमनुवर्तते
सर्वथा वर्तमानोऽपि धैर्यबुद्धिन्तु कारयेत् ॥ १.११४.२४ ॥
वृद्धाः स्त्रियो नवं मद्यं शुष्कं मांसं त्रिमूलकम्
रात्रौ दधि दिवा स्वप्नं विद्वान्षट्परिवर्जयेत् ॥ १.११४.२५ ॥
विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम्
विषं कुशिक्षिता विद्या अजीर्णे भोजनं विषम् ॥ १.११४.२६ ॥
प्रियं गानमकुण्ठस्य नीचस्योच्चासनं प्रियम्
प्रियं दानं दरिद्रस्य भूनश्चतरुणी प्रिया ॥ १.११४.२७ ॥
अत्यम्बुपानं कठिनाशनञ्च धातुक्षयोवेगविधारणञ्च
दिवाशयो जागरणञ्च रात्रौ षड्भिर्नराणां निवसन्ति रोगाः ॥ १.११४.२८ ॥
बालातपश्चाप्यतिमैथुनञ्च श्मशानधूमः करतापनञ्च
रजस्वलावत्क्रनिरीक्षणञ्च सुदीर्घमायुर्ननु कर्षयेच्च ॥ १.११४.२९ ॥
शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥ १.११४.३० ॥
सद्यः पक्रघृतं द्राक्षा बाला स्त्री क्षीरभोजनम्
उष्णोदकं तरुच्छाया सद्यः प्राणहराणि षट् ॥ १.११४.३१ ॥
कूपादकं वटच्छाया नारीणाञ्च पयोधरः
शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥ १.११४.३२ ॥
त्रयो बलकराः सद्यो बालाभ्यङ्गसुभोजनम्
त्रयो बलहराः सद्यो ह्यध्वा वे मैथुनं ज्वरः ॥ १.११४.३३ ॥
शुष्कं मांसं पयो नित्यं भार्यामित्रैः सहैव तु
न भाक्तव्यं नृपैः सार्धं वियोगं कुरुते क्षणात् ॥ १.११४.३४ ॥
कुचेलिन दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्यभाषिणम्
सूर्योदये ह्यस्तमयेऽपि शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥ १.११४.३५ ॥
नित्यं छेदस्तृणानं धरणिविलखनं पादयोश्चापमार्ष्टिः दन्तानामप्यशौचं मलिनवसनता रूक्षता मूर्धजानाम्
द्वे सध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः स्वाङ्गे पीठे च वाद्यं निधनमुपनयेत्केशवस्यापि लक्ष्मीम् ॥ १.११४.३६ ॥
शिरः सुधौतं चरणौ सुमार्जितौ वराङ्गनासेवनमल्पभोजनम्
अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट् ॥ १.११४.३७ ॥
यस्य कस्य तु पुष्पस्य पाणाडरस्य विशेषतः
शिरसा धार्यमाणस्य ह्यलक्ष्मीः प्रतिहन्यते ॥ १.११४.३८ ॥
दीपस्य पश्चिमा छाया छाया शय्यासनस्य च
रजकस्य तु यत्तीर्थलक्ष्मीस्तत्र तिष्ठति ॥ १.११४.३९ ॥
बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि
आयुष्कामो न सेवेत तथा संमार्जनीरजः ॥ १.११४.४० ॥
गजाश्वरथधान्यानां गवाञ्चैव रजः शुभम्
अशुभं च विजानीयात्खरोष्ट्रजाविकेषु च ॥ १.११४.४१ ॥
गवां रजो धान्यरजः पुत्रस्याङ्गभवं रजः
एतद्रजो महाशस्तं महापातकनाशनम् ॥ १.११४.४२ ॥
अजारजः खररजो यत्तु संमार्जनीरजः
एतद्रजो महापापं महाकिल्बिषकारकम् ॥ १.११४.४३ ॥
शूर्पवातो नखाग्राम्बु स्नानवस्त्रमृजोदकम्
केशाम्बु मार्जनीरेणुर्हन्ति पुण्यं पुरा कृतम् ॥ १.११४.४४ ॥
विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिनोस्तथा
अन्तरेण न गन्तव्यं हयस्य वृषभस्य च ॥ १.११४.४५ ॥
स्त्रीषु राजाग्निसर्पेषु स्वाध्याये शत्रुसेवने
भोगास्वादेषु विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ १.११४.४६ ॥
न विश्वसेदविश्वस्तं विश्वस्तं विश्वस्तं नातिविश्वसेत्
विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥ १.११४.४७ ॥
वैरिणा सह सन्धाय विश्वस्तो यदि तिष्ठति
स वृक्षाग्रे प्रसुप्तो हि पतितः प्रतिबुध्यते ॥ १.११४.४८ ॥
नात्यन्तं मृदुना भाव्यं नात्यन्तं कूरकर्मणा
मृदुनैव मृदुं हन्ति दारुणेनैव दारुणम् ॥ १.११४.४९ ॥
नात्यन्तं सरलैर्भाव्यं नात्यन्तं मृदुना तथा
सरलास्तत्र छिद्यन्ते कुब्जास्तिष्ठन्ति पादपाः ॥ १.११४.५० ॥
नमन्ति फलिनो वृक्षा नमन्ति गुणिनो जनाः
शुष्कवृक्षाश्च मूर्खाश्च भिद्यन्ते न नमन्ति च ॥ १.११४.५१ ॥
अप्रार्थितानि दुः खानि यथैवायान्ति यान्ति च
मार्जार इव लुम्पेत तथा प्रार्थयितार नरः ॥ १.११४.५२ ॥
पूर्वं पश्चाच्चरन्त्यार्ये सदैव बहुसम्पदः
विपरीतमनार्ये च यथेच्छसि तथा चर ॥ १.११४.५३ ॥
षट्कर्णो भिद्यते मन्त्रश्चतुः कर्णश्चधार्यते
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्त न बुध्यते ॥ १.११४.५४ ॥
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी
कोर्ऽथ पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥ १.११४.५५ ॥
एकेनापि सुपुत्रेण विद्यायुक्तेन धीमता
कुलं पुरुषसिंहेन चन्द्रेण गगनं यथा ॥ १.११४.५६ ॥
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना
वनं सुवासितं सर्वं सुपुत्रेण कुलं यथा ॥ १.११४.५७ ॥
एको हि गुणवान्पुत्रो निर्गुणेन शतेन किम्
चन्द्रो हन्ति तमांस्येको न च ज्योतिः सहस्रकम् ॥ १.११४.५८ ॥
लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत्
प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ १.११४.५९ ॥
जायमानो हरेद्दारान् वर्धमानो हरेद्धनम्
म्रियमाणो हरेत्प्राणान्नास्ति पुत्रसमो रिपुः ॥ १.११४.६० ॥
केचिन्मृगमुखा व्याघ्राः केचिद्व्याघ्रमुखा मृगाः
तत्स्वरूपपहिज्ञाने ह्यविश्वासः पदेपदे ॥ १.११४.६१ ॥
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ १.११४.६२ ॥
एतदेवानुमन्येत भोगा हि क्षणभङ्गिनः
स्निग्धेषु च विदग्धस्य मतयो वै ह्यनाकुलाः ॥ १.११४.६३ ॥
ज्येष्ठः पितृसमो भ्राता मृते पितरि शौनक
सर्वेषां स पिता हि स्यात्सर्वेषामनुपालकः ॥ १.११४.६४ ॥
कनिष्ठेषु च सर्वेषु समत्वेनानुवर्तते
समापभोगजीवेषु यथैवं तनयेषु च ॥ १.११४.६५ ॥
बहूनामल्पसाराणां समवायो हि दारुणः
तृणैरावेष्टिता रज्जुस्तया नागोऽपि बध्यते ॥ १.११४.६६ ॥
अपहृत्य परस्वं हि यस्तु दानं प्रयच्छति
स दाता नरकं याति यस्यार्थास्तस्य तत्फलम् ॥ १.११४.६७ ॥
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १.११४.६८ ॥
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १.११४.६९ ॥
नाश्रन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः
भार्याजितस्य नाश्रन्ति यस्याश्चोपपतिर्गृहे ॥ १.११४.७० ॥
अकृजज्ञमनार्यञ्च दीर्धरोषमनार्जवम्
चतुरो विद्धि चाण्डालाञ्जात्या जायेत पञ्चमः ॥ १.११४.७१ ॥
नोपेक्षितव्यो दुर्बद्धि शत्रुरल्पोऽप्यवज्ञया
वह्निरल्पोऽप्यसंहार्यः कुरुते भस्मसाज्जगत् ॥ १.११४.७२ ॥
नवे वयसि यः शान्तः स शान्त इति मे मतिः
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ १.११४.७३ ॥
पन्थान इव विप्रेन्द्र सर्वसाधारणाः श्रियः
मदीया इति मत्वा वै न हि हर्षयुतो भवेत् ॥ १.११४.७४ ॥
चित्तायत्तं धातुवश्यं शरीरं चित्ते नष्टे धातवो यान्ति नाशम्
तस्माच्चित्तं सर्वदा रक्षणीयं स्वस्थे चित्ते धातवः सम्भवन्ति ॥ १.११४.७५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे चतुर्दशोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ११५
सूत उवाच [SUTA SAID]
कुमार्यां च कुमित्रं च कुराजानं कुपुत्रकम्
कुकन्यां च कुदेशं च दूरतः परिवर्जयेत् ॥ १.११५.१ ॥
धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं पृथ्वी वन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः
मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नताः हा कष्टं खलुजीवितं कलियुगे धन्या जना ये मृताः ॥ १.११५.२ ॥
धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम्
परचित्तगतान् दारान्पुत्रं कुव्यसने स्थितम् ॥ १.११५.३ ॥
कुपुत्रे निर्वृतिर्नास्ति कुभार्यायां कुतो रतिः
सुमित्र नास्ति विश्वासः कुराज्ये नास्ति जीवितम् ॥ १.११५.४ ॥
परान्नं च परस्वं च परशय्याः परस्त्रियः
परवेश्मनि वासश्च शक्रादपि हरेच्छ्रियम् ॥ १.११५.५ ॥
आलापाद्गात्रसंस्पर्शात्संसर्गात्सह भोजनात्
आसनाच्छयनाद्यानात्पापं संक्रमते नृणाम् ॥ १.११५.६ ॥
स्त्रियो नश्यन्ति रूपेण तपः क्रोधन नश्यति
गावो द्वरप्रचारेण शूद्रान्नेन द्विजोत्तमः ॥ १.११५.७ ॥
आसनादेकशय्यायां बोजनात्पङ्क्तिसङ्करात्
ततः संक्रमते पापं घटाद्धट इवोदकम् ॥ १.११५.८ ॥
लालने बहवो दोषास्ताडने बहवो गुणाः
तस्माच्छिष्यं च पुत्रं च ताडयेन्न तु लालयेत् ॥ १.११५.९ ॥
अध्वा जरा देहवतां पर्वतानां जलं जरा
असंभोगश्च नारीणां वस्त्राणामातपो जरा ॥ १.११५.१० ॥
अधमाः कलिमिच्छन्ति सन्धिमिच्छति मध्यमाः
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १.११५.११ ॥
मानो हि मूलमर्थस्य माने सति धनेन किम्
प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥ १.११५.१२ ॥
अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १.११५.१३ ॥
वनेऽपि सिंहा न नमन्ति कं च बुभु क्षिता मांसनिरीक्षणं च
धनैर्विहीनाः सुकुलेषु जाता न नीचकर्माणि समारभन्ते ॥ १.११५.१४ ॥
नाभिषेको न संस्कारः सिंहस्य क्रियते वने
नित्यमूर्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ १.११५.१५ ॥
वणिक्प्रमादी भृकश्च मानी भिक्षुर्विलासी ह्यधनश्च कामी
वराङ्गना चाप्रियवादिनी च न ते च कर्माणि समारभन्ते ॥ १.११५.१६ ॥
दाता दरिद्रः कृपणोर्ऽथयुक्तः पुत्त्रोऽविधेयः कुजनस्य सेवा
परोपकारेषु नरस्य मृत्युः प्रजायते दुश्चरितानि पञ्च ॥ १.११५.१७ ॥
कान्तावियोगः स्वजनापमानं ऋणस्य शेषः कुजनस्य सेवा
दारिद्रयाभावाद्विमुखाश्च मित्रा विनाग्निना पञ्च दहन्ति तीव्राः ॥ १.११५.१८ ॥
चिन्तासहस्रेषु च तेषु मध्ये चिन्ताश्चतस्रोऽप्यसिधारतुल्याः
नीचापमानं क्षुधितं कलत्रं भार्या विरक्ता सहजोपरोधः ॥ १.११५.१९ ॥
वश्यश्च पुर्त्रेर्ऽथ करी च विद्या अरोगिता सज्जनसङ्गतिश्च
इष्टा च भार्या वशवर्तिनी च दुः खस्य मूलोद्धरणानि पञ्च ॥ १.११५.२० ॥
कुरङ्गमातङ्गपतङ्गंभृग मीना हताः पञ्चबिरेव पञ्च
एकः प्रमाथी स कथं न घात्यो यः सेवते पञ्चभिरेव पञ्च ॥ १.११५.२१ ॥
अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः
पञ्च विप्रा न पूज्यन्ते बृहस्पतिसमा अपि ॥ १.११५.२२ ॥
आयुः कर्म च वित्तं च विद्या निधनमेव च
पञ्चैतानि विविच्यन्ते जायमानस्य देहिनः ॥ १.११५.२३ ॥
पर्वतारोहणे तोये गोकुले दुष्टनिग्रहे
पतितस्य समुत्थाने शस्ताः पञ्च (ह्येते) गुणाः स्मृताः ॥ १.११५.२४ ॥
अभ्रच्छाया खले प्रीतिः परनारीषु संगतिः
पञ्चैते ह्यस्थिरा भावा यौवनानि धनानि च ॥ १.११५.२५ ॥
अस्थिरं जीवितं लोके अस्थिरं धनयौवनम्
अस्थिरं पुत्त्रदाराद्यं धर्मः कीर्तिर्यशः स्थिरम् ॥ १.११५.२६ ॥
शत जीवितमत्यल्पं रात्रिस्तस्यार्धहारिणी
व्याधिशोकजरायासैरर्धं तदपि निष्फलम् ॥ १.११५.२७ ॥
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्थितकिञ्चिदर्धमधिकं बाल्यस्य काले गतम्
किञ्चिद्वन्धुवियोगदुः खमरणैर्भूपालसेवागतं शेषं वारितरङ्गगर्भचपलं मानेन किं मानिनाम् ॥ १.११५.२८ ॥
अहोरात्रमयो लोके जरारूपेण संचरेत्
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ १.११५.२९ ॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न चेत्
सर्वसत्त्वहितार्थाय पशोरिव विचेष्टितम् ॥ १.११५.३० ॥
अहितहितविचारशून्यबुद्धेः श्रुतिसमये बहुभिर्वितर्कितस्य
उदरभरणमात्रतुष्टबुद्धेः पुरुषपशोश्च पशोश्च को विशेषः ॥ १.११५.३१ ॥
शौर्ये तपसि दाने च यस्य न प्रथितं यशः
विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥ १.११५.३२ ॥
यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरभग्नमानैः
तन्नाम जीवितमिति प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १.११५.३३ ॥
किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीतिसशङ्कितेन
सिंहव्रतं चरत गच्छत मा विषादं काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १.११५.३४ ॥
यो वात्मनीह न गुरौ न च भृत्यवर्गे दीने दयां न कुरुते न च मित्रकार्ये
किं तस्य जीवितफलेनमनुष्यलोके काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १.११५.३५ ॥
यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च
स लौहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १.११५.३६ ॥
स्वाधीनवृत्तेः साफल्यं न पराधीनवर्तिता
ये पराधीनकर्माणो जीवन्तोऽपि च ते मृताः ॥ १.११५.३७ ॥
सु(स्व) पूरा वै कापुरुषाः सु(स्व) पूरो मूषिकाञ्जलिः
असन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १.११५.३८ ॥
अभ्रच्छाया तृणादग्निर्नोचसेवा पथो जलम्
वेश्यारागः खले प्रीतिः षडेते बुद्वुदोपमाः ॥ १.११५.३९ ॥
वाचा विहितसार्थेन लोको न च सुखायते
जीवितं मानमूलं हि माने म्लाने कुतः सुखम्? ॥ १.११५.४० ॥
अबलस्य बलं राजा बालस्य रुदितं बलम्
बलं मूर्खस्य मौनं हि तस्करस्यानृतं बलम् ॥ १.११५.४१ ॥
यथायथा हि पुरुषः शास्त्रं समधिगच्छति
तथातथास्य मेधा स्याद्विज्ञानं चास्य रोचते ॥ १.११५.४२ ॥
यथायथा हि पुरुषः कल्याणे कुरुते मतिम्
तथातथा हि सर्वत्र श्लिष्यते लोकसुप्रियः ॥ १.११५.४३ ॥
लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः
तस्माल्लोभो न कर्तव्यः प्रमादो नोन विश्वसेत् ॥ १.११५.४४ ॥
तावद्भयस्य भेतव्यं यावद्भयमनागतम्
उत्पन्ने तु भये तीव्रे स्थातव्यं वै ह्यभीतवत् ॥ १.११५.४५ ॥
ऋणशेषं चाग्निशेषं व्याधिशेषं तथैव च
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ १.११५.४६ ॥
कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम्
न तत्र दोषं पश्यामि दुष्टे दोषं समाचरेत् ॥ १.११५.४७ ॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्
वर्जयेत्तादृशं मित्रं मायामयमरिं तथा ॥ १.११५.४८ ॥
दुर्जनस्य हि संगेन सुजनोऽपि विनश्यति
प्रसन्नमपि पानीयं कर्दमैः कलुषीकृतम् ॥ १.११५.४९ ॥
स भुङ्क्ते सद्विजो भुङ्क्ते समशेषनिरूपणम्
तस्मात्सर्वप्रयत्नेन द्विजः पूज्यः प्रयत्नतः ॥ १.११५.५० ॥
तद्भुज्यते यद्द्विजभुक्तशेषं स बुद्धिमान्यो न करोति पापम्
तत्सौहृदं यक्रियते परोक्षे दम्भैर्विना यः क्रियते स धर्मः ॥ १.११५.५१ ॥
न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम्
धर्मः स नो यत्र न सत्यमस्ति नैतत्सत्यं यच्छलेनानुविद्धम् ॥ १.११५.५२ ॥
ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम्
शिरोऽपि सर्वगात्राणां व्रतानां सत्यमुत्तमम् ॥ १.११५.५३ ॥
तन्मङ्गलं यत्र मनः प्रसन्नं तज्जीवनं यन्न परस्य सेवा
तदर्जितं यत्स्वजनेन भुक्तं तद्गर्जितं यत्समरे रिपूणाम् ॥ १.११५.५४ ॥
सा स्त्रीया न मदं कुर्यात्स सुखी तृष्णयोज्झितः
तन्मित्रं यत्र विश्वासः पुरुषः स जितेन्द्रियः ॥ १.११५.५५ ॥
तत्र मुक्तादरस्नेहो विलुप्तं यत्र सौहृदम्
तदेव केवलं श्लघ्यं यस्यात्मा क्रियते स्तुतौ ॥ १.११५.५६ ॥
नदीनामग्निहोत्राणां भारतस्य कलस्य च
मूलान्वेषो न कर्तव्यो मूलाद्दोषो न हीयते ॥ १.११५.५७ ॥
लवणजलान्ता नद्यः स्त्रीभेदान्तं च मैथुनम्
षैशुन्यं जनवार्तान्तं वित्तं दुः खत्रयान्तकम् ॥ १.११५.५८ ॥
राज्यश्रीर्ब्रह्मशापान्ता पापान्तं ब्रह्मवर्चसम्
आचान्तं घोषवासान्तं कुलस्यान्तं स्त्रिया प्रभो (भुः) ॥ १.११५.५९ ॥
सर्वे क्षयान्ता निलयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ १.११५.६० ॥
यदीच्छेत्पुनरागन्तुं नातिदूरमनुव्रजेत्
उदकान्तान्निवर्तेत स्निग्धवर्णाच्च पादपात् ॥ १.११५.६१ ॥
अनायके न वस्तव्यं न चैव बहुनायके
स्त्रीनायके न वस्तव्यं वस्तव्यं बालनायके ॥ १.११५.६२ ॥
पिता रक्षति कौमारे भत्ता रक्षति यौवने
पुत्रस्तु स्थविरे काले न स्त्री स्वातन्त्र्यमर्हति ॥ १.११५.६३ ॥
त्यजेद्वन्ध्यामष्टमेऽब्दे नवमे तु मृतप्रिजाम्
एकादशे स्त्रीजननीं सद्यश्चाप्रियावादिनीम् ॥ १.११५.६४ ॥
अनर्थित्वान्मनुष्याणां भिया परिजनस्य च
अर्थादपेतमर्यादास्त्रयस्तिष्ठन्ति भर्तृषु ॥ १.११५.६५ ॥
अश्वं श्रान्तं गजं मत्तं गावः प्रथमसूतिकाः
अनूदके च मण्डूकान्प्राज्ञो दूरेण वर्जयेत् ॥ १.११५.६६ ॥
अर्थातुराणां न सुहृन्न बन्धुः कामातुराणां न भयं न लज्जा
चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न बलं न तेजः ॥ १.११५.६७ ॥
कुतो निद्रा दरिद्रस्य परप्रेष्यवरस्य च
परनारीप्रसक्तस्य परद्रव्यहरस्य च ॥ १.११५.६८ ॥
सुखं स्वपित्यनृणवान्व्याधिमुक्तश्च यो नरः
सावकाशस्तु वै भुङ्क्ते यस्तु दारैर्न सङ्गतः ॥ १.११५.६९ ॥
अम्भसः परिमाणे उन्नतं कमलं भवेत्
स्वस्वामिना बलवता भृत्यो भवति गर्वितः ॥ १.११५.७० ॥
स्थानस्थितस्य पद्मस्य मित्रे वरुणभास्करौ
स्थानच्युतस्य तस्यैव क्लेदशोषणकारकौ ॥ १.११५.७१ ॥
ये पदस्थस्य मित्त्राणि ते तस्य रिपुतां गताः
भानोः पद्मे जले प्रीतिः स्थलोद्धरणशोषणः ॥ १.११५.७२ ॥
स्थानस्थितानि पूज्यन्ते पूज्यन्ते च पदे स्थिताः
स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः ॥ १.११५.७३ ॥
आचारः कुलमाख्यति देशमाख्याति भाषितम्
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ १.११५.७४ ॥
वृथा वृष्टिः समुद्रस्य वृथा तृप्तस्य भोजनम्
वृथा दानं समृद्धस्य नीचस्य सुकृतं वथा ॥ १.११५.७५ ॥
दूरस्थोऽपि समीपस्थो यो यस्य हृदये स्थितः
हृदयादपि निष्क्रान्तः समीपस्थोऽपि दूरतः ॥ १.११५.७६ ॥
मुखभङ्गः स्वरो दीनो गात्रस्वेदो महद्भयम्
मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ १.११५.७७ ॥
कुब्जस्य कीटघातस्य वातान्निष्कासितस्य च
शिखरे वसतस्तस्य वरं जन्म न याचितम् ॥ १.११५.७८ ॥
जगत्पतिर्हि याचित्वा विष्णुर्वामनतां यतः
कान्योऽधिकतरस्तस्य योर्ऽथो याति न लाघवम् ॥ १.११५.७९ ॥
माता शत्रुः पिता वैरी बाला येन न पाठिताः
सभामध्ये न शोभन्ते हंसमध्ये बकायथा ॥ १.११५.८० ॥
विद्या नाम कुरूपरूपमधिकं विद्यातिगुप्तं धनं विद्या साधुकरी जनप्रियकरी विद्या गुरूणां गुरुः
विद्या बन्धुजनार्तिनाशनकरी विद्या परं दैवतं विद्या राजसु पूजिता हि मनुजो विद्यविहीनः पशुः ॥ १.११५.८१ ॥
गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते
अशेषं हरणीयं च विद्या न ह्रियते परैः ॥ १.११५.८२ ॥
शौनकीयं नीतिसारं विष्णुः सर्वत्रतानि च
कथयामास वैपूर्वं तत्र शुश्राव शङ्करः
शङ्करादशृणोद्व्यासो व्यासादस्माभिरेव च ॥ १.११५.८३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शौनकोक्तनीतिसारादिवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ११६
ब्रह्मोवाच
व्रतानि व्यास वक्ष्यामि हरिर्यैः सर्वदो भवेत्
सर्वमासर्क्षतिथिषु वारेषु हरिरर्चितः ॥ १.११६.१ ॥
एकभक्तेन नक्तेन उपवासफलादिना
ददाति धनधान्यादि पुत्रराज्यजयादिकम् ॥ १.११६.२ ॥
वैश्वानरः प्रतिपदि कुबेरः पूजितोर्ऽथदः
पोष्य ब्रह्मो प्रतिपद्यर्चितः श्रिस्तथाश्विनी ॥ १.११६.३ ॥
द्वितीयायां यमो लक्ष्मीनारायण इहार्थदः
तृतीयायां त्रिदेवाश्च गौरीविघ्नेशशङ्कराः ॥ १.११६.४ ॥
चतुर्थ्यां च चतुर्व्यूहः पञ्चम्यामर्चितो हरिः
कार्तिकेयो रविः षष्ठ्यां सप्तम्यां भास्करोर्ऽथदः ॥ १.११६.५ ॥
दुर्गाष्टम्यां नवम्यां च मातरोऽथ दिशोर्ऽथदाः
दशम्यां च यमश्चन्द्र एकादश्यामृषीन्यजेत् ॥ १.११६.६ ॥
द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोर्ऽथदाः ॥ १.११६.७ ॥
अमावास्यां पूजनीया वारा वै भास्करादयः
नक्षत्राणि च योगाश्च पूजिताः सर्वदायकाः ॥ १.११६.८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथ्यादिव्रतवर्णनं नाम षोडशोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ११७
ब्रह्मोवाच
मार्गशीर्षे सिते पक्षे व्यासांनङ्गत्रयोदशी
मल्लिकाजं दन्तकाष्ठं धुतूरैः पूजयेच्छिवम् ॥ १.११७.१ ॥
अनङ्गायेति नैवेद्यं मधप्राश्याथ पौषके
योगेश्वरं पूजयेच्च बिल्वपत्रैः कदम्बजम्
दन्तकाष्ठं चन्दनादि नैवेद्यं कृसरादिकम् ॥ १.११७.२ ॥
माघे नटेश्वरायार्च्य कुन्दैर्मौक्तिकमालया
प्लक्षेण दन्तकाष्ठं च नैवेद्यं पूरिका मुने ॥ १.११७.३ ॥
वीरेश्वरं फाल्गुने तु पूजयेत्तु मरूबकैः
शर्कराशाकमण्डाश्च चूतजं दन्तधावनम् ॥ १.११७.४ ॥
चैत्रे यजेत्सु रूपाय कर्पूरं प्राशयेन्निशि
दन्तधावनाटजं नैवेद्यं शष्कुलीं ददेत् ॥ १.११७.५ ॥
पूजा दमनकः शम्भोर्वेशाखेऽशोक्रपुष्पकैः
महारूपाय नैवेद्यं गुडभक्तं पुट्टबरम् ॥ १.११७.६ ॥
दन्तकाष्ठं प्राशयेच्च ददेज्जतीफलं तथा
प्रद्युम्नं पूजयेज्ज्येष्ठे चम्पकैर्बिल्वजं दशेत् ॥ १.११७.७ ॥
लवगारा तथा षढि उमामदति शासनः?
अगुरुं दन्तकाष्ठं च तमपामार्गकैर्यजेत् ॥ १.११७.८ ॥
श्रावणे करवीरं च शम्भवे शूलपाणये
गन्धाशनो घृताद्यैश्च करवीरजशोधनम् ॥ १.११७.९ ॥
सद्योजातं भाद्रपदे बकुलैः पूपकैर्यजेत्
गन्धर्वाशो मदनकमाश्विने च सुराधिपम् ॥ १.११७.१० ॥
चम्पकैः स्वर्णवा (धार्) यादो जिन्मोदकसंप्रदः
खादिरं दन्तकाष्ठं च कार्तिके रुद्रमर्चयेत् ॥ १.११७.११ ॥
बदर्या दन्तकाष्ठं च मदनो दशमाशनः
क्षीरशाकप्रदः पद्मैरब्दन्ते शिवमर्चयेत् ॥ १.११७.१२ ॥
रतिमुक्तमनङ्गं च स्वर्णमण्डलसंस्थितम्
गन्धाद्यैर्दशसाहस्रं तिलव्रीह्यादि होमयेत् ॥ १.११७.१३ ॥
जागरं गीतवदित्रं प्रभितऽभ्यार्च्य वेदयेत्
द्विजाय शय्यां पात्रं च छत्रं वस्त्रमुपानहौ ॥ १.११७.१४ ॥
गां द्विजं भोजयेद्भक्त्या कृतकृत्यो भवेन्नरः
एतदुद्यापनं सर्वं व्रतेषु ध्येपमीदृशम्
फलञ्च श्रीसुतारोग्यसौभाग्यस्वर्गतं भवेत् ॥ १.११७.१५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेऽनङ्गत्रयोदशीव्रतं नाम सप्तदशोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ११८
ब्रह्मोवाच
व्रतं कैवल्यशमनमखण्डद्वादशीं वदे
मागशीर्षे सिते पक्षे गव्याशी समुपोषितः ॥ १.११८.१ ॥
द्वादश्यां पूजये द्विष्णुं दद्यान्मासचतुष्टयम्
पञ्चव्रीहियुतं पात्रं विप्रायेदमुदाहरेत् ॥ १.११८.२ ॥
सप्तजन्मनि हे विष्णो यन्मया हि व्रतं कृतम्
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥ १.११८.३ ॥
यथाखण्डं जगत्सर्वं त्वमेव पुरुषोत्तम
तथाखिलान्यखण्डानि व्रितानि मम सन्ति वै ॥ १.११८.४ ॥
सक्तुपात्राणि चैत्रादौ श्रावणादौ घृतान्वितान्
व्रतकृद्वतपूर्णस्तु स्त्रीपुत्रस्वर्गभाग्भवेत् ॥ १.११८.५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेऽखण्डद्वादशीव्रतकथनंनामाष्टादशोत्तर शततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] ११९
ब्रह्मोवाच
अगस्त्यार्घ्यव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकम्
अप्राप्ते भास्करे कन्यां सति भागे त्रिभिर्दिनैः ॥ १.११९.१ ॥
अर्घ्यं दद्यादगस्त्याय मूर्तिं संपूज्य वै मुने !
काशपुष्पमयीं कुम्भे प्रदोषे कृतजागरः ॥ १.११९.२ ॥
दध्यक्षताद्यैः संपूज्य उपोष्य फलपुष्पकैः
पञ्चवर्णसमायुक्तं हेमरौप्यसमन्वितम् ॥ १.११९.३ ॥
सप्तधान्ययुतं पात्रं दधिचन्दनचर्चितम्
अगस्त्यः खनमानेति मन्त्रेणार्घ्यं प्रिदापयेत् ॥ १.११९.४ ॥
खासपुष्पप्रतीकाश अग्निमारुतसम्भव !
मित्रावारुणयोः पुत्त्रो कुम्भयोने नमोऽस्तु ते ॥ १.११९.५ ॥
शूद्रस्त्र्यादिरनेनैव त्यजेद्धान्यं फलं रसम्
दद्याद्द्विजातये कुम्भं सहिरण्यं सदक्षिणम्
भोजयेच्च द्विजान्सप्त वर्षं कृत्वा तु सर्वभाक् ॥ १.११९.६ ॥

इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डेऽगस्त्यार्घ्यव्रतं नामकोनविंशत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १२०
ब्रह्मोवाच
रम्भातृतीयां वक्ष्य च सौभग्यश्रीसुतादिदाम्
मार्गशीर्षेसिते पक्षे तृतीयायामुपोषितः ॥ १.१२०.१ ॥
गौरीं यजेद्विल्वपत्रैः कुशोदककरस्ततः
कदम्बादौ गिरिसुतां पौषे मरुबकैर्यजेत् ॥ १.१२०.२ ॥
कर्पूरादः कृसरदो मल्लिकादन्तकाष्ठकृत्
माघेसुभद्रां कल्हारैर्घृताशो मण्डकप्रदः ॥ १.१२०.३ ॥
गीतीमयं तन्तकाष्ठं फाल्गुने गोमतीं यजेत्
कुन्दैः कृत्वा दन्तकाष्ठं जीवाशः शष्कुलीप्रदः ॥ १.१२०.४ ॥
विशालाक्षीं दमनकैश्चैत्रे च कृसरप्रदः
दधिप्राशो दन्तकाष्ठं तगरं श्रीमुखीं यजेत् ॥ १.१२०.५ ॥
वैशाखे कर्णिकारैश्च अशोकाशो वटप्रदः
ज्येष्ठे नारायणीमर्चेच्छतपत्रैश्च खण्डदः
लवङ्गाशो भवेदेव आषाढे माधवीं यजेत् ॥ १.१२०.६ ॥
तिलाशो बिल्वपत्रैश्च क्षीरान्नवटकप्रदः
औदुम्बरं दन्तकाष्ठं तगर्याः श्रावणे श्रियम् ॥ १.१२०.७ ॥
दन्तकाष्ठं मल्लिकाया क्षीरदो ह्युत्तमां यजेत्
पद्मैर्यजेद्भाद्रपदे शृङ्गदाशो गृडादिदः ॥ १.१२०.८ ॥
राजपुत्रीं चाश्वयुजे जपापुष्पैश्च जीरकम्
प्राशयेन्निशि नैवेद्यैः कृसरैः कार्तिके यजेत् ॥ १.१२०.९ ॥
जातीपुष्पैः पद्मजां च पञ्चगव्याशनो यजेत्
घृतोदनं च वर्षान्ते सपत्नीकान्द्विजान्यजेत् ॥ १.१२०.१० ॥
उमामहेश्वरं पूज्य प्रदद्याच्च गुडादिकम्
वस्त्रच्छत्रसुवर्णाद्यैः रात्रौ च कृतजागरः
गीतवाद्यैर्ददत्प्रतर्गवाद्यं सर्वमान्पुयात् ॥ १.१२०.११ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रम्भातृतीयाव्रतं नाम विंशत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १२१
ब्रह्मोवाच
चातुर्मास्यव्रतान्यूचे एकादश्यां समाचरेत्
आषाढ्यां पौर्णमास्यां वा सर्वेणहरिमर्च्यच ॥ १.१२१.१ ॥
इदं व्रतं मया देव गृहीतं पुरतस्तव
निर्विघ्नं सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव ॥ १.१२१.२ ॥
गृहीतेऽस्मिन्व्रते देव यद्यपूर्णे म्रियाम्यहम्
तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन ॥ १.१२१.३ ॥
एवमभ्यर्च्य गृह्णीयाद्व्रतार्चनजपादिकम्
सर्वाघं च क्षयं याति चिकीर्षेद्यो हरेर्व्रतम् ॥ १.१२१.४ ॥
स्नात्वायोभ्यच्य गृह्णीयाद्व्रतार्चनजपादिकम्
स्नात्वा यच्चतुरो मासानेकभक्तेन पूजयेत्
विष्णुं स याति विष्णोर्व लोकं मलविवर्जितम् ॥ १.१२१.५ ॥
मद्यमांससुरात्यगी वेदविद्धरिपूजनात्
तैलवर्जि विष्णुलोकं विष्णुभाक्कृच्छ्रपादकृत् ॥ १.१२१.६ ॥
एकरात्रोपवासाच्च देवो वैमानिको भवेत्
श्वेतद्वीपं त्रिरात्रात्तु व्रजेत्षष्ठान्नकृन्नरः ॥ १.१२१.७ ॥
चान्द्रायणाद्धरेर्धाम लभेन्मुक्तिमयाचिताम्
प्राजापत्यं विष्णुलोकं पराकव्रतकृद्धरिम् ॥ १.१२१.८ ॥
सक्तुयावकभिक्षाशी पयोदधिघृताशनः
गोमूत्रयावकाहारः पञ्चगव्यकृताशनः
शाकमलफलाद्याशी रसवर्जो च विष्णुभाक् ॥ १.१२१.९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चातुर्मास्यव्रतनिरूपणं नामकावशत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १२२
ब्रह्मोवाच
व्रतं मासोपवासाख्यं सर्वोत्कृष्टं वदामिते
वानप्रस्थो यतिर्नारी कुर्यान्मासोपवासकम् ॥ १.१२२.१ ॥
आश्विनस्य सिते पक्षे एकादश्यामुपोषितः
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥ १.१२२.२ ॥
अद्यप्रभृत्यहं विष्णो यावदुत्थानकं तव
अर्चयेत्वामनश्रंस्तु दिनानि त्रिंशदेव तु ॥ १.१२२.३ ॥
कार्तिकाश्विनयोर्विष्णो द्वादश्योः शुक्लयोरहम्
म्रियेयद्यन्तराले तु व्रतभङ्गो न मे भवेत् ॥ १.१२२.४ ॥
हरिं यजोत्त्रिषवणस्नायी गन्धादिभिर्व्रती
गात्राभ्यङ्गं गन्धलेपं देवतायतने त्यजेत् ॥ १.१२२.५ ॥
द्वादश्यामथ संपूज्य प्रदद्याद्द्विजभोजनम्
ततश्च पारणं कुर्याद्धरेर्मासोपवासकृत् ॥ १.१२२.६ ॥
दुग्धादिप्राशनं कुर्याद्व्रतस्थो मूर्छितोऽन्तरा
दुग्धाद्यैर्न व्रतं नश्येद्भुक्तिमुक्तिमवाप्नुयात् ॥ १.१२२.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मासोपवासव्रतं नाम द्वाविंशत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १२३
ब्रह्मोवाच
व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत्
एकभक्तेन नक्तेन मासं वायाचितेन वा ॥ १.१२३.१ ॥
दुग्धशाकफलाद्यैर्वा उपवासेन वा पुनः
सर्वपापविनिर्मुक्तः प्राप्तकामो हरिं व्रजेत् ॥ १.१२३.२ ॥
सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने
चातुर्मास्ये ततस्तस्मात्कार्तिके भीष्मपञ्चकम् ॥ १.१२३.३ ॥
ततः श्रेष्ठव्रतं शुक्लस्यैकादश्यां समाचरेत्
स्नात्वा त्रिकालं पित्रादीन्यवाद्यैरर्चयेद्धरिम् ॥ १.१२३.४ ॥
यजेन्मौनी घृताद्यैश्च पञ्चगव्येन वारिभिः
स्नापयित्वाथ कर्पूरमुखैश्चैवानुलेपयेत् ॥ १.१२३.५ ॥
घृताक्तगुग्गुलैर्धूपं द्विजः पञ्चदिनं दहेत्
नैवद्यं परमान्नं तु जपेदष्टोत्तरं शतम् ॥ १.१२३.६ ॥
ओं नमो वा
सुदेवाय घृतव्रीहितिलादिकम्
अष्टाक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत् ॥ १.१२३.७ ॥
प्रथमेऽह्नि हरेः पादौ यजेत्पद्मैर्द्वितयिक
बिल्वपत्रैर्जानुदेशं नाभि गन्धेन चापरे ॥ १.१२३.८ ॥
स्कन्धा बिल्वजवाभिश्च पञ्चमेऽह्नि शिरोर्ऽचयत्
मालत्या भूमिशायी स्याद्गोमयं प्राशयेत्क्रमात् ॥ १.१२३.९ ॥
गोमूत्रं च दधि क्षीरं पञ्चमे पञ्चगव्यकम्
नक्तं कुर्यात्पञ्चदश्यां व्रती स्याद्भुक्तिमुक्तिभाक् ॥ १.१२३.१० ॥
एकादशीव्रतं नित्यं तत्कुर्यात्पक्षयोर्द्वयोः
अघौघनरकं हन्यात्सर्वदं विष्णुलोकदम् ॥ १.१२३.११ ॥
एकादशी द्वादशी च निशान्ते च त्रयोदशी
नित्यमेकादशी यत्र तत्र सन्निहितो हरिः ॥ १.१२३.१२ ॥
दशम्येकादशी यत्र तत्रस्थाश्चासुरादयः
द्वादश्यां पारण कुर्यात्सूतके मृतके चरेत् ॥ १.१२३.१३ ॥
चतुर्दशीं प्रतिपदं पूर्वमिश्रामुपावसेत्
पौर्णमास्या ममावास्यां प्रतिपन्मिश्रितां मुने ॥ १.१२३.१४ ॥
द्वितीयां तृतीयामिश्रां तृतीयाञ्चाप्युपावसेत्
चतुर्थ्या सङ्गतां नित्यं चतुर्थोञ्चनया युताम्
पञ्चमींषष्ठ्यसंयुक्तां षष्ठ्या युक्ताञ्च सप्तमीम् ॥ १.१२३.१५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भीष्मपञ्चकादिव्रतं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १२४
ब्रह्मोवाच
शिवरात्रिव्रतं वक्ष्ये कथां वै सर्वकामदाम्
यथा च गौरी भूतेशं पृच्छति स्म परं व्रतम् ॥ १.१२४.१ ॥
ईश्वरौवाच
माघफाल्गुनयोर्मध्ये कृष्णा या तु चतुर्दशी
तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः ॥ १.१२४.२ ॥
कामयुक्तो हरः पूज्यो द्वादश्यामि केशवः
उपोषितैः पूजितः सन्नरकात्तरयत्तथा ॥ १.१२४.३ ॥
निषादश्चर्बुदे राजा पापी सुन्दरसेनकः
स कुक्रुरैः समायुक्तो मृगान्हन्तुं वनं गतः ॥ १.१२४.४ ॥
मृगादि कमसंप्राप्य क्षुत्पिपासार्दितो गिरौ
रात्रौ तडागतीरेषु निकुञ्जे जाग्रदास्थितः ॥ १.१२४.५ ॥
तत्रास्ति लिङ्गं स्वं रक्षञ्छरीरं चाक्षिपत्ततः
पर्णानि चापतन्मूर्ध्नि लिङ्गस्यैव न जानतः ॥ १.१२४.६ ॥
तेन धूलिनिरोधाय क्षिप्तं नीरं च लिङ्गके
शरः प्रमादेनैकस्तु प्रच्युतः करपल्लवात् ॥ १.१२४.७ ॥
जानुभ्यामवनीं गत्वा लिङ्गं स्प्टष्ट्वा गृहीतवान्
एवं स्नानं स्पर्शनं च पूजनं जागरोऽभवत् ॥ १.१२४.८ ॥
प्रातर्गृहागतो भार्यादत्तान्नं भुक्तवान्स च
काले मृतो यमभटैः पाशैर्बद्ध्वा तु नीयते ॥ १.१२४.९ ॥
तदा मम गणैर्युद्धे जित्वा मुक्तीकृतः स च
कुक्कुरेण सहैवाभूद्गणो मत्पार्श्वगोऽमलः ॥ १.१२४.१० ॥
एवमज्ञानतः पुण्यञ्ज्ञानात्पुण्यमथाक्षयम्
त्रयोदश्यां शिवं पूज्य कुर्यात्त नियमं व्रती ॥ १.१२४.११ ॥
प्रातर्देव ! चतुर्दश्यां जागरिष्याम्यहं निशि
पूजां दानं तपो होमं करिष्याम्यात्मशक्तितः ॥ १.१२४.१२ ॥
चतुर्दश्यां निराहारो भूत्वा शम्भो परेऽहनि
भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥ १.१२४.१३ ॥
पञ्चगव्यामृतैः स्नाप्य तत्काले गुरुं श्रितः
ओं नमो नमः शिवाय गन्धाद्यः पूजयेद्धरम् ॥ १.१२४.१४ ॥
तिलतण्डुलव्रीहींश्च जुहुयात्सघृतं चरुम्
हुत्वा पूर्णाहुतिं दत्त्वा शृणुयाद्गीतसत्कथाम् ॥ १.१२४.१५ ॥
अर्धरात्रे त्रियामे च चतुर्थे च पुनयर्जत्
मूलमन्त्रं तथा जप्त्वा प्रभाते तु क्षमापयेत् ॥ १.१२४.१६ ॥
अविघ्नेन व्रतं देव ! त्वत्प्रसदान्मयार्चितम्
क्षमस्व जगतां नाथ ! त्रैलोक्याधिपते हर ! ॥ १.१२४.१७ ॥
यन्मयाद्य कृतं पुण्यं यद्रुद्रस्य निवेदितम्
त्वत्प्रसादान्मया देव ! व्रतमद्य समापितम् ॥ १.१२४.१८ ॥
प्रसन्नो भव मे श्रीमन् गृहं प्रति च गम्यताम्
त्वदालोकनमात्रेण पवित्रोऽस्मि न संशयः ॥ १.१२४.१९ ॥
भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत्
देवादिदेव भूतेश लोकानुग्रहकारक ॥ १.१२४.२० ॥
यन्मया श्रद्धया दत्तं प्रीयतां तेन मे प्रभुः
इति क्षमाप्य च व्रती कुर्याद्वादशवार्षिकम् ॥ १.१२४.२१ ॥
कीर्तिश्रीपुत्रराज्यादि प्राप्य शैवं पुरं व्रजेत्
द्वादशेष्वपि मासेषु प्रकुर्यादिह जागरम् ॥ १.१२४.२२ ॥
व्रती द्वादश संभोज्य दीपदः स्वर्गमाप्नुयात् ॥ १.१२४.२३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवरात्रिव्रतं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १२५
पितामह उवाच
मान्धाता चक्रवर्त्यासीदुपोष्यैकादशीं नृपः
एकादश्यां न भुञ्जीत पक्षयोरुभयारपि ॥ १.१२५.१ ॥
दशम्येकादशीमिश्रा गान्धार्या समुपोषिता
तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥ १.१२५.२ ॥
द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः
दशम्येकादशी यत्र तत्र सन्निहितोऽसुरः
बहुवाक्यविरोधेन सन्देहो जायते यदा ॥ १.१२५.३ ॥
द्वादशी तु तदा ग्राह्या त्रयोदश्यान्तु पारणम्
एकादशी कलापिस्यादुपोष्या द्वादशी तथा ॥ १.१२५.४ ॥
एकादशी द्वादशी च विशेषेण त्रयोदशी
त्रिमिश्रा सा तिथिर्ग्राह्या सर्वपापहरा शुभा ॥ १.१२५.५ ॥
एकादशीमुपोष्यैवद्वादशीम थवा द्विज !
त्रिमिश्रां चैव कुर्वीत न दशम्या युतां क्रचित् ॥ १.१२५.६ ॥
रात्रौ जागरणं कुर्वन्पुराणश्रवणं नृपः
गदाधरं पूजयंश्च उपोष्यैका दशीद्वयम्
रुक्माङ्गदो ययौ मोक्षमन्ये चैकादशीव्रतम् ॥ १.१२५.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकादशीमाहात्म्यं नाम पञ्चविंशत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १२६
ब्रह्मोवाच
येनार्चनेन वै लोको जगाम परमां गतिम्
तमर्चनं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् ॥ १.१२६.१ ॥
सामान्यमण्डलं न्यस्य धातारं द्वारदेशतः
विधातारं तथा गङ्गां यमुनां च महानदीम् ॥ १.१२६.२ ॥
द्वारश्रियं च दण्डं च प्रचण्डं वास्तुपूरुषम्
मध्ये चाधारशक्तिं च कूर्मं चानन्तमर्चयेत् ॥ १.१२६.३ ॥
भूमिं धर्मं तथा ज्ञानं वैरग्यैश्वर्यमेव च
अधर्मादींश्च चतुरः कन्दं नालं च पङ्कजम् ॥ १.१२६.४ ॥
कर्णिकां केसरं सत्त्वं राजसं तामसं गुणम्
सुर्यादिमण्डलान्येव विमलाद्याश्च शक्तयः ॥ १.१२६.५ ॥
दुर्गां गणं सरस्वतीं क्षेत्रपालं च कोणके
आसनं मूर्तिमभ्यर्च्य वासुदेवं बलं स्मरन् ॥ १.१२६.६ ॥
अनिरुद्धं महात्मानं नारायणमथार्चयेत्
हृदयादीनि चाङ्गानि शङ्खादीन्यायुधानि च ॥ १.१२६.७ ॥


श्रीगरुडमहापुराणम् [GARUR PURANAM] १२७
ब्रह्मोवाच
माघमासे शुक्लपक्षे सूर्यर्क्षेण युता पुरा
एकादशी तथा चैका भीमेन समुपोषिता ॥ १.१२७.१ ॥
आश्चर्य तु व्रतं कृत्वा पितॄणामनृणोऽभवत्
भीमद्वादशी विख्याता प्राणिनां पुण्यवर्धिनी ॥ १.१२७.२ ॥
नक्षत्रेण विनाप्येषा ब्रह्महत्यादि नाशयेत्
विनिहन्ति महापापं कुनृपो विषयं यथा ॥ १.१२७.३ ॥
कुपुत्त्रस्तु कुलं यद्वत्कुभार्या च पतिं यथा
अधर्मं च यथा धर्मः कुमन्त्री च यथा नृपम् ॥ १.१२७.४ ॥
अज्ञानेन यथा ज्ञानं शौचमाशौचकं यथा
अश्रद्धया यथा श्रद्धा सत्यञ्चैवानृतैर्यथा ॥ १.१२७.५ ॥
हिमं यथोष्णमाहन्यादनर्थं चार्थसंचयः
यथा प्रकर्तिनाद्दानं तपो वै विस्मयाद्यथा ॥ १.१२७.६ ॥
अशिक्षया यथा पुत्रो गावो दूरगतैर्यथा
क्रोधेन च यथा शान्तिर्यथा वित्तमवद्धनात् ॥ १.१२७.७ ॥
ज्ञानेनैयथा विद्या निष्कामेन यथा फलम्
तथैव पापनाशाय प्रोक्तेयं द्वादशी शुभा ॥ १.१२७.८ ॥
ब्रह्महत्या सुरा पान स्तेयं गुर्वङ्गनागमः
युगपत्तुप्रजातानिहन्ति त्रिपुष्करम् ॥ १.१२७.९ ॥
न चापि नैमिषं क्षेत्रं कुरुक्षेत्रं प्रभासकम्
कालिन्दी यमुना गङ्गा न चैव न सरस्वती ॥ १.१२७.१० ॥
चैव सर्वतीर्थानि एकादश्याः समानि हि
न दानं न जपो होमो न चान्यत्सुकृतं क्रचित् ॥ १.१२७.११ ॥
एकतः पृथिवीदानमेकतो हरिवासरः
ततोऽप्येका महापुण्या इयमेकादशी वरा ॥ १.१२७.१२ ॥
अस्मिन्वराहपुरुषं कृत्वा देवं तु हाटकम्
घटोपरि नवे पात्रे कृत्वा वै ताम्रभाजने ॥ १.१२७.१३ ॥
सर्वबीजभृते विप्राः सितवस्त्रावगण्ठिते
सहिरण्यप्रदीपाद्यैः कृत्वा पूजां प्रयत्ननः ॥ १.१२७.१४ ॥
वराहाय नमः पादौ क्रोडाकृतये नमः कटिम्
नाभिं गंभीरघोषया उरः श्रीवत्सधारिणे ॥ १.१२७.१५ ॥
बाहुं सहस्रशिरसे ग्रीवां सर्वेश्वराय च
मुखं सर्वात्मने पूज्यं ललाटं प्रभवाय च ॥ १.१२७.१६ ॥
केशाः शतमयूखाय पूज्या देवस्य चक्रिणः
विधिना पूजयित्वा तु कृत्वा जागरणं निशि ॥ १.१२७.१७ ॥
श्रुत्वा पुराणं देवस्य माहात्म्यप्रतिपादकम्
प्रातर्विप्राय दत्त्वा च याचकाय शुभाय तत् ॥ १.१२७.१८ ॥
कनकक्रोडसहितं सन्निवेद्य परिच्छदम्
पश्चात्तु पारणं कुर्यान्नातितृप्तः सकृद्व्रतः ॥ १.१२७.१९ ॥
एवं कृत्वा नरो विद्यान्न भूय स्तनपो भवेत्
उपोष्यैकादशीं पुण्यां मुच्यते वै ऋणत्रयात्
मनोऽभिलषितावाप्तिः कृत्वा सर्वव्रतादिकम् ॥ १.१२७.२० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकादशीमाहात्म्यं नाम सप्तविंशत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १२८
ब्रह्मोवाच
व्रतानि व्यास वक्ष्यामि यैस्तुष्टः सर्वदो हरिः
शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतम् ॥ १.१२८.१ ॥
नियमास्तु विशेषाः स्युः व्रतस्यास्य दमादयः
नित्यं त्रिषवणं स्नायादधः शयी जितेन्द्रियः ॥ १.१२८.२ ॥
स्त्रीशूद्रपतितानां तु वर्जयेदभिभाषणम्
पवित्राणि च पञ्चैव जुहुयाच्चैव शक्तितः ॥ १.१२८.३ ॥
कृच्छ्राण्येतानि सर्वाणि चरेत्सुकृतवान्नरः
केशानां रक्षणार्थं तु द्विगुणं व्रतमाचरेत् ॥ १.१२८.४ ॥
कांस्यं माषं मसूरं चचणकं कोरदूषकम्
शाकं मधु परान्नं च वर्जयेदुपवासवान् ॥ १.१२८.५ ॥
पुष्पालङ्कारवस्त्राणि धूपगन्धानुलेपनम्
उपवासेन दुष्येत्तु दन्तधावनमञ्जनम् ॥ १.१२८.६ ॥
दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतं चरेत्
असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात् ॥ १.१२८.७ ॥
उपवासः प्रदुष्येत दिवास्वप्ना क्षमैथुनात्
क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः ॥ १.१२८.८ ॥
देवपूजाग्निहवने सन्तोषोस्तेयमेव च
सर्वव्रतेष्वयं धर्मः सामान्यो दशधास्मृतः ॥ १.१२८.९ ॥
नक्षत्रदर्शनान्नक्तमनक्तं निशि भोजनम्
गोमूत्रं च पल दद्यादर्धाङ्गुष्ठं तु गोमयम् ॥ १.१२८.१० ॥
क्षीरं सप्तपलं दद्याद्दध्नश्चैव पलत्रयम्
घृतमेकफलं दद्यात्पलमेकं कुशोदकम् ॥ १.१२८.११ ॥
गायत्त्र्या चैव गन्धेति आप्यायस्व दृ दधिग्रहः
तेजोऽसीति च देवस्य ब्रह्मकूर्चव्रतं चरेत् ॥ १.१२८.१२ ॥
अग्न्याधानं प्रतिष्ठां तु यज्ञदानव्रतानि च
वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥ १.१२८.१३ ॥
माङ्गल्यमभिषेकं च मलमासे विवर्जयत्
दर्शाद्दर्शस्य चान्द्रः स्यात्त्रिंशाहोभिस्तु सावनः ॥ १.१२८.१४ ॥
रविसंक्रमणात्सौरो नाक्षत्रः सप्तविंशतिः
सौरो मासो विवाहाय यज्ञादौ सावनस्थितिः ॥ १.१२८.१५ ॥
युग्माग्नियुगभूतानि षण्मुन्योर्वसुरन्ध्रयोः
रुद्रेण द्वादशी युक्ता चतुर्दश्याथ पूर्णिमा ॥ १.१२८.१६ ॥
प्रतिपद्यप्यमावास्या तिथ्योर्मस्यं महाफलम्
एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुरा कृतम् ॥ १.१२८.१७ ॥
प्रारब्धतपसा स्त्रीणां रजो हन्याद्व्रतं न हि
अन्यैर्दानादिकं कुर्यात्कायिकं स्वयमेव च ॥ १.१२८.१८ ॥
क्रोधात्प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि
दिनत्रयं न भुञ्जीत शिरसो मुण्डनं भवेत् ॥ १.१२८.१९ ॥
असामर्थ्ये शरीरस्य पुत्रादीन्कारयेद्व्रतम्
व्रतस्थं मूर्छितं विप्रं जलादीन्यनुपाययेत् ॥ १.१२८.२० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्रतपरिभाषा नामाष्टाविंशत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १२९
ब्रह्मोवाच
वक्ष्ये प्रतिपदादीनि व्रतानि व्यास शृण्वथ
वाश्वानरपदं याति शिखिव्रतमिदं स्मृतम् ॥ १.१२९.१ ॥
प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः
चैत्रादौ कारयेच्चैव ब्रह्मपूजां यथाविधि
गन्धपुष्पार्चनैर्दानैर्माल्याद्यैश्च मनोरमैः ॥ १.१२९.२ ॥
सहोमैः पूजयेद्देवं सर्वान्कामानवाप्नुयात्
कार्तिके त सितेऽष्टम्यां पुष्पहारी च वत्सरम् ॥ १.१२९.३ ॥
पुष्पादिदाता रूपेण रूपभागी भवेन्नरः
कृष्णपक्षे तृतीयायां श्रावणे श्रीधरं श्रिया ॥ १.१२९.४ ॥
यजेदशून्यशय्यायां फलं दद्याद्द्विजातये
शय्यां दत्त्वा प्रार्थयेच्च श्रीधराय नमः श्रियै ॥ १.१२९.५ ॥
उमांशिवं हुताशं च तृतीयायां च पूजयेत्
हविष्यमन्न नैवेद्य देय दमनकं तथा ॥ १.१२९.६ ॥
चैत्रादौ फलमाप्नोति उमया मे प्रभाषितम्
फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत् ॥ १.१२९.७ ॥
समाप्ते शयनं दद्याद्गृहं चोपस्करान्वितम्
संपूज्य विप्रमिथनं भवानी प्रीयतामिति ॥ १.१२९.८ ॥
गौरीलोके वसेन्नित्यं सौभाग्यकरमुत्तमम्
गौरी काली उमा भद्रा दुर्गा कान्तिः सरस्वती ॥ १.१२९.९ ॥
मङ्गला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात्
मार्गेतृतीयामारभ्य अवियोगादिमाप्नुयात् ॥ १.१२९.१० ॥
चतुर्थ्यां सितमाघादौ निराहारो व्रतान्वितः
दत्त्वा तिलांस्तु विप्राय स्वयं भुङ्क्ते तिलोदकम् ॥ १.१२९.११ ॥
वर्षद्वये समाप्तिश्च निर्विघ्नादिं समाप्नुयात्
गः स्वाहा मूलमन्त्रोऽयं प्रणवेन समन्वितः ॥ १.१२९.१२ ॥
ग्लैं ग्लांहृदये गां गीं हूं ह्रीं ह्रीं शिरः शिखा
गूं वर्म गों च गैं नेत्रं गों च आवाहनादिषु ॥ १.१२९.१३ ॥
आगच्छोल्काय गनन्धोल्कः पुष्पोल्को धूपकोल्ककः
दीपोल्काय महोल्काय बलिश्चाथ विस (मार्) जनम् ॥ १.१२९.१४ ॥
सिदेधोल्काय च गायत्त्री (त्र) न्यासोंगुष्ठादिरीरितः
ओं महाकर्णाय विद्महेवक्रतुण्डाय धीमहितन्नो दन्तिः प्रचोदयात् ॥ १.१२९.१५ ॥
पूजयोत्तिलहोमैश्च एते पूज्या गणास्तथा
गणाय गणपतये स्वाहा कूष्माण्डकाय च ॥ १.१२९.१६ ॥
अमोघोल्कायैकदन्ताय त्रिपुरान्तकरूपिणे
ओं श्याम (व) दन्तविकरालास्याहवेपाय वै नमः ॥ १.१२९.१७ ॥
पद्मदंष्टाय स्वाहान्ते मुद्रा वै नर्तनं गणे
हस्ततालश्च हसनं सौभाग्यादिफलं भवेत् ॥ १.१२९.१८ ॥
मार्गशीर्षे तथा शुक्लचतुर्थ्यां पूजयेद्गण
अब्दं प्राप्नोति विद्याश्रीकीर्त्यायुः पुत्रसन्ततिम् ॥ १.१२९.१९ ॥
सोमवारे चतुर्थ्यां च समुपोष्यार्चयेद्गणम्
जपञ्जुह्वत्स्मरन्विद्या स्वर्गं निर्वाणतां व्रजेत् ॥ १.१२९.२० ॥
यजेच्छुक्लचतुर्थ्यां यः खण्डलड्डुकमोद (मण्ड) कैः
विघ्नाचनेन सर्वान्स कामान्सौभाग्यमाप्नुयात् ॥ १.१२९.२१ ॥
पुत्रादिकं दमनकैर्दमनाख्या चतुर्थ्यपि
आं गणपतये नमः चतुर्थ्यन्तं यजेद्गणम् ॥ १.१२९.२२ ॥
मासे तु यस्मिन्कस्मिंश्चिज्जुहुयाद्वा जपेत्स्मरेत्
सर्वान्कामानवाप्नोति सर्वविघ्नविनाशनम् ॥ १.१२९.२३ ॥
विनायकं मूर्तिकाद्यं यजेदेभिश्च नामभिः
सोऽपि सद्गतिमाप्नोति स्वर्गमोक्षसुखानि च ॥ १.१२९.२४ ॥
गणपूज्यो वक्रतुण्ड एकदंष्ट्री त्रियम्बकः
नीलग्रीवो लम्बोदरो विकटो विघ्नराजकः ॥ १.१२९.२५ ॥
धूम्रवर्णो भालचन्द्रो दशमस्त विनायकः
गणपतिर्हस्तिमुखो द्वादशारे यजेद्गणम् ॥ १.१२९.२६ ॥
पृथक्समस्तं मधावी सर्वान्कामान वाप्नुयात्
श्रावणे चाश्विने भाद्रे पञ्चम्यां कात्तिक शुभे ॥ १.१२९.२७ ॥
वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः
ऐरावतो धृतराष्टः कर्कोटकधनञ्जयौ ॥ १.१२९.२८ ॥
घृताद्यैः स्नापिता ह्येते आयुरारोग्यसम्पदः
अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च ॥ १.१२९.२९ ॥
तथा कर्काटकं नागं धृतराष्ट्रं च शङ्खकम्
कालीयं तक्षकं चैव पिङ्गलं मासिमासि च ॥ १.१२९.३० ॥
यजेद्भाद्रसिते नागानष्टौ मुक्तिं दिवं व्रजेत्
द्वारस्योभयतो लेख्याः श्रावणे तु सिते यजेत् ॥ १.१२९.३१ ॥
पञ्चम्यां पूजयेन्नागाननन्तान्द्यान्महोरगान्
क्षीरं सर्पिश्च नैवेद्यं देयं सर्वविषापहम्
नागा अभयहस्ताश्च दष्टोद्धारातु पञ्चमी ॥ १.१२९.३२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दष्टोद्धारपञ्चमव्रितं नामैकोनत्रिंशोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १३०
ब्रह्मोवाच
एवं भाद्रपदे मासि कार्तिकेयं प्रपूयेत्
स्नानदानादिकं सर्वमस्यामक्षय्यमुच्यते ॥ १.१३०.१ ॥
सप्तम्यां प्राशयेच्चपि भोज्यं विप्रान्रविं यजेत्
ओं खखोल्कायमृतत्वं (तन्तं) प्रियसङ्गमो भव सद स्वाहा ॥ १.१३०.२ ॥

अष्टम्यां पारणं कुर्यान्मरीचं प्राश्य स्वर्गभाक्
सप्तम्यां नियतः स्नात्वा पूजयित्वा दिवाकरम् ॥ १.१३०.३ ॥
दद्यात्फलानि विप्रेभ्यो मार्तण्डः प्रीयतामिति
खर्जूरं नारिकेलं वा प्राशयेन्मातुलुङ्गकम् ॥ १.१३०.४ ॥
सर्वे भवन्तु सफला मम कामाः समन्ततः
(इति फलसप्तमी)
संपूज्य देवं सप्तम्यां पायसेनाथ भोजयेत् ॥ १.१३०.५ ॥
विप्रांश्च दक्षिणां दत्त्वा स्वयं चाथ पयः पिबेत्
भक्ष्यं चोष्यं तथा लेह्यं ओदनं चेति कीर्तितम् ॥ १.१३०.६ ॥

धनपुत्रादिकामस्तु त्यजेदेतदनोदनः
वाय्वाशी विजयेत्क्षुच्च कुर्याद्विजयसप्तमीम्
अद्यादर्कं च कामेच्छुरुपवासे तरेन्मदम् ॥ १.१३०.७ ॥
गोधूममाषयवषष्टिककांस्यपात्रं पाषाणपिष्टमधुमैषुनमद्यमांसम्
अभ्यञ्जनाञ्जनतिलांश्च विवर्जयेद्यः तस्येषितं भवति सप्तसु सप्तमीषु ॥ १.१३०.८ ॥
(इति विजयसप्तमीव्रतम्)

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सप्तमीव्रतनिरूपणं नाम त्रिंशोत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १३१
ब्रह्मोवाच
ब्रह्मन् भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः
दूर्वां सौरीं गणेशं च फलपुष्पैः शिवं यजेत् ॥ १.१३१.१ ॥
फलव्रीह्यादिभिः सर्वैः शम्भवेनमः शिवाय च
त्वं दूर्वेऽमृजन्मासि ह्यष्टमी सर्वकामभाक् ॥ १.१३१.२ ॥
अनग्निपक्रमश्रीयान्मुच्यते ब्रह्महत्यया
(इति दूर्वाष्टमीव्रतम्)
कृष्णाष्टम्यां च रोहिण्यामर्धरात्रेर्ऽचनं हरेः ॥ १.१३१.३ ॥
कार्या विद्धापि सप्तम्या हन्ति पापं त्रिजन्मनः
उपोषितोर्ऽचयेन्मन्त्रैस्तिथि भान्ते च पारणम् ॥ १.१३१.४ ॥
योगाय योगपतये योगेश्वराय योगसम्भवाय गोविन्दाय नमोनमः
(स्नानमन्त्रः( यज्ञाय यज्ञेश्वराय यज्ञपतये गोविन्दाय नमोनमः ॥ १.१३१.५ ॥
(अर्चनदृ)विश्वाय विश्वेश्वराय विश्वपतये गोविन्दाय नमोनमः
(शयनदृ)सर्वाय सर्वेश्वराय सर्वेताय सर्वसम्भवाय गोविन्दाय नमोनमः ॥ १.१३१.६ ॥
स्थण्डिले पूजयेद्देवं सचन्द्रां रोहिणीं तथा
शङ्खे तोयं समादाय सपुष्पफलचन्दनम् ॥ १.१३१.७ ॥
जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत्
क्षिरोदार्णवसंभूत ! अत्रिनेत्रसमुद्भव ! ॥ १.१३१.८ ॥
गृहाणार्घ्यं शशाङ्केश (मं) रोहिण्या सहितो मम
श्रियै च वसुदे वाय नन्दाय च बलाय च ॥ १.१३१.९ ॥
यशोदायै ततो दद्यादर्घ्यं फलसमन्वितम्
अनन्तं (घं) वामनं शौरिं वैकुष्ठं पुरुषोत्तमम् ॥ १.१३१.१० ॥
वासुदेवं हृषीकेशं माधवं मधुसूदनम्
वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ॥ १.१३१.११ ॥
दामोदरं पद्मनाभं केशवं गारुडध्वजम्
गोविन्दमच्युतं देवमनन्तम पराजितम् ॥ १.१३१.१२ ॥
अधोक्षजं जगद्वीजं सर्गस्थित्यन्तकारणम्
अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् ॥ १.१३१.१३ ॥
नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम्
पीतम्बरधरं दिव्यं वनमालाविभूषितम् ॥ १.१३१.१४ ॥
श्रीवत्साङ्कं जगद्धाम श्रीपतिं श्रीधरं हरिम्
यं देवं देवकी देवी वसुदेवादजीजनत् ॥ १.१३१.१५ ॥
भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः
नामान्येतानि संकीर्त्य गत्यर्थं प्रार्थयेत्पुनः ॥ १.१३१.१६ ॥
त्राहि मां देवदेवेश ! हरे ! संसारसागरात्
त्राहि मां सर्वपापघ्न ! दुः खशोकार्णवात्प्रभो ! ॥ १.१३१.१७ ॥
देवकीनन्दन ! श्रीश ! हरे ! संसारसागरात्
दुर्वृत्तांस्त्रायसे विष्णो ! ये स्मरन्ति सकृत्सकृत् ॥ १.१३१.१८ ॥
सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात्
पुष्कराक्ष ! निमग्नोऽहं मह्तयज्ञानसागरे ॥ १.१३१.१९ ॥
त्राहि मां देवदेवेश ! त्वामृतेऽन्यो न रक्षिता
स्वजन्म वासुदेवाप गोब्राह्मणहिताय च ॥ १.१३१.२० ॥
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः
शान्तिरस्तु शिवं चास्तु धनविख्यातिराज्यभाक् ॥ १.१३१.२१ ॥
(इति कृष्णाष्टमीव्रतम्)

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कृष्णाष्टमीव्रतनिरूपणं ना मैकत्रिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १३२
ब्रह्मोवाच
नक्ताशी त्वष्टमीं यावद्वर्षान्ते चैव धेनुदः
पौरन्दरपदं याति सद्गतिव्रतमुच्यते ! ॥ १.१३२.१ ॥
शुक्लाष्टभ्यां पौषमासे महारुद्रेति साधु वै
मत्प्रीतये कृतं देवि शथसाहस्रिकं फलम् ॥ १.१३२.२ ॥
अष्टमी बुधवारेण पक्षयोरुभयोर्यदा
भविष्यति तदा तस्यां व्रतमेतत्कथा परा ॥ १.१३२.३ ॥
तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः
तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलिद्वयम् ॥ १.१३२.४ ॥
भक्तं सद्भक्तिश्रद्धाभ्यां मुक्तिकामी हि मानवः
आम्र पत्रपुटे कृत्वा यो भुड्क्ते कुशवोष्टिते ॥ १.१३२.५ ॥
कलम्बिकाम्लिकोपेतं काम्यं तस्य फलं भवे (लभे) त्
बुधं पञ्चोपचारेण पूजयित्वा जलाशये ॥ १.१३२.६ ॥
शक्तितो दक्षिणं दद्यात्कर्करीं तण्डुलान्विताम्
बुं बुधायेति बीजं स्यात्स्वाहान्तः कमलादिकः ॥ १.१३२.७ ॥
बाणचापधरंश्यामं दले चाङ्गनि मध्यतः
बुधाष्टमीकथा पुण्या श्रोतव्या कृतिभिर्ध्रुवम् ॥ १.१३२.८ ॥
पुरे पाटलिपुत्राख्ये वीरो नाम द्विजोत्तमः
रम्भा भार्या तस्य चासीत्कौशिकः पुत्र उत्तमः ॥ १.१३२.९ ॥
दुहिता विजयानाम्नी व (ध) नपालो वृषोऽभवत्
गृहीत्वा कौशिकस्तं च ग्रीष्मे गङ्गां गतोऽरमत् ॥ १.१३२.१० ॥
गोपालकैर्वृषश्चौरैः क्रीडास्थोपहृतो बलात्
गङ्गातः स च उत्थाय वनं बभ्राम दुः खितः ॥ १.१३२.११ ॥
जलार्थं विजया चागाद्भ्रा(न्मा) त्रा सार्धं च साप्यगात्
पिपासितो मृणालार्थो आगतोऽथ सरोवरम् ॥ १.१३२.१२ ॥
दिव्यस्त्रीणां च पूजादीन्दृष्ट्वा चाप्यथ विस्मितः
स ता गत्वा ययाचेऽन्नं सानुजोऽहं बुभुक्षितः ॥ १.१३२.१३ ॥
स्त्रियोऽब्रुवन्व्रतं कर्तुं दास्यामश्च कुरु व्रतम्
पत्न्यर्थं धनपाना (लार्) थं पूजयामासतुर्बुधम् ॥ १.१३२.१४ ॥
पुटद्वयं गृहीत्वान्नं बुभुजाते प्रदत्तकम्
स्त्रियो गतास्तौ धनदौ धनपानमपश्यताम् ॥ १.१३२.१५ ॥
चौरैर्दत्तं गृहीत्वाथ प्रदोषे प्राप्तवान् गृहम्
वीरं च दुः खितं नत्वा रात्रौ सुप्तो यथासुखम् ॥ १.१३२.१६ ॥
कन्यां च युवतीं दृष्ट्वा कस्मै देया सुता मया
यमायेत्यब्रवीद्दुः खात्साचाराद्व्रतसत्फलात् ॥ १.१३२.१७ ॥
स्वर्गं गतौ च पितरौ व्रतं राज्याय कौ शिकः
चक्रेऽयोध्यामहाराज्यं दत्त्वा च भगिनीं यमे ॥ १.१३२.१८ ॥
यमोऽपि विजयामाह गृहस्था भव मे पुरे
नोद्धाटयान्यत्रगते यमे सा न तथाकरोत्
अपश्यन्मातरं स्वां सा पाशयातनया स्थिताम् ॥ १.१३२.१९ ॥
अथोद्विग्ना कोशिकोक्तं ज्ञात्वा मुक्तिप्रदं व्रतम्
चक्रे च सा ततो मुक्ता माता तस्माच्चरेद्व्रतम् ॥ १.१३२.२० ॥
व्तपुण्यप्रभावेण स्वर्गं गत्वावसत्सुखम् ॥ १.१३२.२१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बुधाष्टमीव्रतनिरूपणं नाम द्वात्रिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १३३
ब्रह्मोवाच
अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥ १.१३३.१ ॥
त्वामशोक ! हराभीष्ट ! मधुमाससमुद्भव
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ॥ १.१३३.२ ॥
(इत्यशोकाष्टमीव्रतम्)
ब्रह्मोवाच
शुक्लाष्टम्यामाश्वयुजे उत्तराषाढया युता
सा महानवमीत्युक्ता स्नानदानादि चाक्षयम् ॥ १.१३३.३ ॥
नवमी केवला चापि दुर्गां चैव तु पूजयेत्
महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ॥ १.१३३.४ ॥
अयाचितादि षष्ठ्यादौ राजा शत्रुजयाया च
जपहोमसमायुक्तः कन्यां वा भोजयेत्सदा ॥ १.१३३.५ ॥
दुर्गेदुर्गे रक्षिणि स्वाहा मन्त्रोऽयं पूजनादिषु
दीर्घाकारादिमात्राभिर्नव देव्यो नमोऽन्तिकाः ॥ १.१३३.६ ॥
षड्भिः पदैर्नमः स्वाहा वषडादिहृदादिकम्
अङ्गुष्ठादिकनिष्ठान्तं न्यस्य वै पृजयेच्छिवाम् ॥ १.१३३.७ ॥
अष्टम्यां नव गेहानि दारुजान्येकमेव वा
तस्मिन्देवी प्रकर्तव्या हैमी वाराजतापि वा ॥ १.१३३.८ ॥
शूले खङ्गे पुस्तके वा पटे वा मण्डले (पे) यजेत्
कपालं खेटकं घण्टां दर्पणं तर्जनीं धनः ॥ १.१३३.९ ॥
ध्वजं डमरुकं पाशं वामहस्तेषु बिभ्रती
शक्तिं च मुद्गरं शूलं वज्रं खङ्गं तथाङ्कुशम् ॥ १.१३३.१० ॥
शरं चक्रं शलाकां च दुर्गामायुधसंयुताम्
शेषाः षोडशहस्तां स्युरञ्जनं डमरुं विना ॥ १.१३३.११ ॥
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥ १.१३३.१२ ॥
नवमी चोग्रचण्डा च मध्यमाग्निप्रभाकृतिः
रोचना त्वरुणा कृष्णा नीलं धूम्रा च शुक्रका ॥ १.१३३.१३ ॥
पाता च पाण्डुरा प्रोक्ता आलीढं हरितं तथा
म (मा) हिषोऽस्य स खड्गाग्रप्रकचग्रहमुष्टिकः ॥ १.१३३.१४ ॥
जप्त्वा दशाक्षरीं विद्यां नासौ केनापि बध्यते
पञ्च (ञ्चा) दशाङ्गुलं खड्गं त्रिशूलं च ततो यजेत्
लिङ्गस्यां पूजयेद्वापि पादुकेऽथ जलेऽपि वा ॥ १.१३३.१५ ॥
विचित्रां रक्षयेत्पूजामष्टम्यामुपवासयेत्
पञ्चाब्दं महिषं बस्तं रात्रिशेषे च घातयेत् ॥ १.१३३.१६ ॥
विधिवत्कालिकालीति तदुत्थरुधिरादिकम्
नेरृत्यां पूतनां चैव वायव्यां पापराक्षसीम् ॥ १.१३३.१७ ॥
दद्याच्चरक्यै चैशान्यामाग्नेय्यां च विदारिकाम् ॥ १.१३३.१८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महानवमीव्रतं नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १३४
ब्रह्मोवाच
महाकौशिकमन्त्रश्च कथ्यतेऽत्र महाफलः ॥ १.१३४.१ ॥
(महाकौशिकमन्त्रः)ओं महाकौशिकाय नमः
ओं हूं हूं प्रस्फुर लल लल कुल्व कुल्व चुल्व चुल्व खल्ल खल्ल मुल्व मुल्व गुल्व गुल्व तुल्व पुल्ल पुल्ल धल्व धुल्व धुम धुम धमधम मारय मारय धकधक वज्ञापयज्ञापय विदारयविदारय कम्पकम्प कम्पयकम्पय पूरयपूरय आवेशयावेशय ओं ह्रीं ओं ह्रीं हं वं वं हुं तटतट मदमद ह्रीं ओं हूं नैरृताया नमः निरृतये दातव्यम्
महाकौशिकमन्त्रेण मन्त्रितं बलिमर्पयेत् ॥ १.१३४.२ ॥
तस्याग्रतो नृपः स्नायाच्छत्रं कृत्वा च पैष्टिकम्
खड्गेन घातयित्वा तु दद्यात्स्कन्दविशाखयोः ॥ १.१३४.३ ॥
मातॄणां चैव देवीनां पूजा कार्या तथा निशि
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ॥ १.१३४.४ ॥
वाराही चैव माहेन्द्री चामुण्डा चण्डिका तथा
जयन्ती मङ्गला काली भद्रकाली कपालिनी ॥ १.१३४.५ ॥
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते
क्षीराद्यैः स्नापयेद्देवीं कन्यकाः प्रमदास्तथा ॥ १.१३४.६ ॥
द्विजाती (दी) नथ पाषण्डानन्नदानेन पूजयेत्
ध्वजपत्रपताकाद्यै रथयात्रासु वस्त्रकैः
महानवम्यां पूजेयं जयराज्यादिदायिका ॥ १.१३४.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महानवम्यां महाकौशिकमन्त्रकृत्यादिविवरणं नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १३५
ब्रह्मोवाच
नवम्यामाश्विने शुक्ले एकभक्तेन पूजयेत्
देवीं विप्रंल्लक्षमेकञ्जपेद्वीरं व्रती नरः ॥ १.१३५.१ ॥
(ति वीरनवमीव्रतम्)
ब्रह्मोवाच
चैत्रे शुक्लनवम्यां च देवीं दमनकैर्यजेत्
आयुरारोग्यसौभाग्यं शत्रुभिश्चापराजितः ॥ १.१३५.२ ॥
(इति दमनकनवमीव्रतम्)
ब्रह्मोवाच
दशम्यामेकभक्ताशी समान्ते दशधेनुदः
दिशश्च काञ्चनीर्दत्त्वा ब्रह्माण्डाधिपतिर्भवेत् ॥ १.१३५.३ ॥
(इति दिग्दशमीव्रतम्) ब्रह्मोवाच
एकादश्यामृषिपूजा कार्या सर्वोपकारिका
धनवान्पुत्रवांश्चान्ते ऋषिलोके महीयते ॥ १.१३५.४ ॥
मरीचिरत्र्यं गिरसौ पुलसत्यः पुलहः क्रतुः
प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च ॥ १.१३५.५ ॥
चैत्रादौ कारयेत्पूजां माल्यैश्च दमनोद्भवैः
अशोकाख्याष्टमीप्रोक्ता वीराख्या नवमीतथा ॥ १.१३५.६ ॥
दमनाख्या दिग्दशमी नवम्येकादशी तथा ॥ १.१३५.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऋष्येकादशीव्रतं नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १३६
ब्रह्मोवाच
श्रवणद्वादशों वक्ष्ये भुक्तिमुक्तिप्रदायिनीम्
एकादशी द्वादशी च श्रवणेन च संयुता ॥ १.१३६.१ ॥
विजया सा तिथिः प्रोक्ता हरिपूजादि चाक्षयम्
एक भक्तेन नक्तेन तथैवायाचितेन च ॥ १.१३६.२ ॥
उपवासेन भैक्ष्येण नैवाद्बादशिको भवेत्
कास्यं मांसं तथा क्षौद्रं लोभं वितथभाषणम् ॥ १.१३६.३ ॥
व्यायामं च व्यवायं च दिवास्वप्नमथाञ्जनम्
शिलाषिष्टं मसूरं च द्वादश्यां वर्जयेन्नरः ॥ १.१३६.४ ॥
मासी भाद्रपदे शुक्ला द्वादशी श्रवणान्विता
महती द्वादशी ज्ञेया उपवासे महाफला ॥ १.१३६.५ ॥
संगम सरितां स्नानं बुधयुक्ता महाफला
कुंभे सरत्ने सजले यजेत्स्वर्णं तु वामनम् ॥ १.१३६.६ ॥
सितवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम्
ओं नमो वासुदेवाय शिरः संपूजयेत्ततः ॥ १.१३६.७ ॥
श्रीधराय मुखं तद्वत्कण्ठं कृष्णाय वै नमः
नमः श्रीपतये वक्षो भुजौ सर्वास्त्रधारिणे ॥ १.१३६.८ ॥
व्यापकाय नमः कुक्षौ केशवायोदरं बुधः
त्रैलोक्यपतये मेढ्रं जङ्घे सर्वभृते नमः ॥ १.१३६.९ ॥
सर्वात्मने नमः पादौ नैवेद्यं घृतपायसम्
कुम्भांश्च मोदकान्दद्याज्जागरं कारयेन्निशि ॥ १.१३६.१० ॥
स्नात्वाचान्तोर्ऽचयित्वा तु कृतपुष्पाञ्जलिर्वदेत्
नमोनमस्ते गोविन्द बुध श्रवणसंज्ञक ! ॥ १.१३६.११ ॥
अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव
प्रीयतां देवदेवेशो विप्रेभ्यः कलशान्ददेत्
नद्यस्तीरेऽयः वा कुर्यात्सर्वान्कामानवाप्नुयात् ॥ १.१३६. १२ ॥

इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रवणद्वादशीव्रतनिरूपणं नाम षट्त्रिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १३७
ब्रह्मोवाच
कामदेवत्रयोदश्यां पूज्यो दमनकादिभिः
रतिप्रीतिसमायुक्तो ह्यसोको मणिभूषितः ॥ १.१३७.१ ॥
(इति मदनकत्रयोदशीव्रतम्)
चतुर्दश्यां तथाष्टभ्यां पक्ष्योः शुक्लकृष्णयोः
योऽब्दमेकं न भुञ्जीत मुक्तिभाक्शिवपूजनात् ॥ १.१३७.२ ॥
(इति शिवचतुर्दश्यष्टमीव्रतम्)
त्रिरात्रोपोषितो दद्यात्कार्तिक्यां भवनं शुभम्
सूर्यलोकमवाप्नोति धामव्रतमिदं शुभम् ॥ १.१३७.३ ॥
अमावस्यां पितॄणां च दत्तं जलादितदक्षयम्
नक्ताभ्याशी वारनाम्ना यजन्वाराणि सर्वभाक् ॥ १.१३७.४ ॥
(इति वारव्रतानि)
द्वादशर्क्षाणि विप्रर्षे ! प्रतिमासं तु यानि वै
तन्नाम्नान्तेऽतच्युतं तेषु सम्यक्संपूजयेन्नरः ॥ १.१३७.५ ॥
केशवं मार्गशीर्षे तु इत्यादौ कृतिकादिके (का)
घृतहोमश्चतुर्मासं कृसरञ्च निवेदयेत् ॥ १.१३७.६ ॥
आषाढादौ पायसं तु विप्रांस्तेनैव भोजयेत्
पञ्चाव्यजलस्नाननैवेद्यैर्नक्तमाचरेत् ॥ १.१३७.७ ॥
अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते
विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात् ॥ १.१३७.८ ॥
पाञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते स्वयम्
एवं संवत्सरस्यान्ते विशेषेण प्रपूजयेत् ॥ १.१३७.९ ॥
नमोनमस्तेऽच्युत ! संक्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम्
ऐश्वर्यवित्तादि सदाक्षयं मे तथास्तु मे सन्ततिरक्षयैव ॥ १.१३७.१० ॥
यथाच्युत !त्वं परतः परस्मात्स ब्रह्मभूतः परतः परस्मात्
तथाच्युतं मे कुरु वाञ्छितं सदा मया कृतं पापहराप्रमेय ॥ १.१३७.११ ॥
अच्युतानन्त ! गोविन्द ! प्रसीद यदभीप्सितम्
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥ १.१३७.१२ ॥
कुर्याद्वै सप्त वर्षाणि आयुः श्रीसद्गतीर्नरः
उपोष्यैकादशीब्दमष्टमीं च चतुर्दशीम् ॥ १.१३७.१३ ॥
सप्तमीं पूजयेद्विष्णुं दुर्गां शम्बुं रविं क्रमात्
तेषां लोकं समाप्नोति सर्वकामांश्च निर्मलः ॥ १.१३७.१४ ॥
एकभक्तेन नक्तेन तथैवायाचितेन च
उपवासेन शाकाद्यैः पूजयन्तसर्वदेवताः ॥ १.१३७.१५ ॥
सर्वः सर्वासु तिथिषु भुक्तिं मुक्तिमवाप्नुयात्
धनदोऽग्निः प्रतिपदि नासत्यो दस्त्र अर्चितः ॥ १.१३७.१६ ॥
श्रीर्यमश्च द्वितीयायां पञ्चम्या पार्वती श्रिया
नागाः षष्ठ्यां कार्तिकेयः सप्तम्यां भास्करोर्ऽथदः ॥ १.१३७.१७ ॥
दुर्गाष्टम्यां मातरश्च नवम्यामथ तक्षकः
इन्द्रो दशम्यां धनद एकादश्यां मुनीश्वराः ॥ १.१३७.१८ ॥
द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोऽपरे ॥ १.१३७.१९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथिवारनक्षत्रादिव्रतनिरूपणं नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १३८
(इति व्रतानि समाप्तानि)
हरिरुवाच
राज्ञां वंशान्प्रवक्ष्यामि वंशानुचरितानि च
विष्णुनाभ्यब्जतो ब्रह्मा दक्षोऽङ्गुष्ठाच्च तस्य वै ॥ १.१३८.१ ॥
ततोऽपितर्विवस्वांश्च ततः सूनुर्विवस्वतः मनुरिक्ष्वाकुशर्याती नृगो धृष्टः प्रषध्रकः ॥ १.१३८.२ ॥
नरिष्यन्तश्च नाभागो दिष्टः शशक एव च
मनोरासीदिला कन्या सुद्युम्नोऽस्य सुतोऽभवत् ॥ १.१३८.३ ॥
इलायां तु बुधाज्जातो राजा रुद्र पुरूरवाः
सुतास्त्रयश्च सुद्युम्नादुत्कलो विनतो गयः ॥ १.१३८.४ ॥
अभृच्छ्रद्रो गोवधात्तु पृषध्रस्तु मनोः सुतः
करूषात्क्षत्त्रिया जाता कारूषा इति विश्रुताः ॥ १.१३८.५ ॥
दिष्टपुत्रस्तु नाभागो वैश्यातामगमत्स च
तस्माद्भलन्दनः पुत्रो वत्सप्रीतिर्भलन्दनात् ॥ १.१३८.६ ॥
ततः पांशुः खनित्रोऽभूद्भूपस्तस्मात्ततः क्षुपः
क्षुपाद्विंशोऽभवत्पुत्रो विंशाज्जातो विविंशकः ॥ १.१३८.७ ॥
विविंशाच्च खनीनेत्रो विभूतिस्तत्सुतः स्मृतः
करन्धमो विभूतेस्तु ततो जातोऽप्यविक्षितः ॥ १.१३८.८ ॥
मरुत्तोऽविक्षितस्यापि नरिष्यन्तस्ततः स्मृतः
नरिष्यन्तात्तमो जातस्ततोभूद्राजवर्धनः ॥ १.१३८.९ ॥
राजवर्धात्सुधृतिश्च नरोऽभूत्सुधृतेः सुतः
नराच्च केवलः पुत्रः केवलाद्धुन्धुमानपि ॥ १.१३८.१० ॥
धुन्धुमतो वेगवांश्च बुधो वेगवतः सुतः
तृणबिन्दुर्बुधाज्जातः कान्या चैलविला तथा ॥ १.१३८.११ ॥
विशालं जनयामास तृणबिन्दोस्त्वलम्बुसा
विशालाद्धेमचन्द्रोऽभूद्धेम चन्द्राच्च चन्द्रकः ॥ १.१३८.१२ ॥
धूम्राश्वश्चैव चन्द्रात्तु धूम्राश्वात्सृञ्जयस्तथा
सञ्जयात्सहदेवोऽभूत्कृशाश्वस्तत्सुतोऽभवत् ॥ १.१३८.१३ ॥
कृशाश्वात्सोमदत्तस्तुततोऽभूज्जनमेजयः
तत्पुत्रश्च सुमन्तिश्च एते वैशालका नृपाः ॥ १.१३८.१४ ॥
शर्यातेस्तु सुकन्याबूत्सा भार्या च्यवनस्य तु
अनन्तो नाम शार्यते रनन्ताद्रेवतोऽभवत् ॥ १.१३८.१५ ॥
रैवतो रेवतस्यापि रैवताद्रेवती सुता
धृष्टस्य धार्ष्टर्(त) कं क्षेत्रं वैष्णवं (श्यकं) तद्वभूव ह ॥ १.१३८.१६ ॥
नाभागपुत्रो नेष्ठो ह्यम्बरीषोऽपि तत्सुतः
अम्बरीषाद्विरूपोऽभूत्पृषदश्वो विरूपतः ॥ १.१३८.१७ ॥
रथीनरश्च तत्पुत्रो वासुदेवपरायणः
इक्ष्वाकोस्तु त्रयः पुत्राः विकुक्षिनिमिदण्डकाः ॥ १.१३८.१८ ॥
इक्ष्वाकुजो विकुक्षिस्तु शशादः शशभक्षणात्
पुरञ्जयः शशादाच्च ककुत्स्थाख्योऽभवत्सुतः ॥ १.१३८.१९ ॥
अनेनास्तु ककुत्सथाच्च पृथुः पुत्रस्त्वनेनसः
विश्वरातः पृथोः पुत्र आर्द्रेऽभूद्विश्वराततः ॥ १.१३८.२० ॥
युवनाश्वोऽभवच्चार्द्राच्छावस्तो युवनाश्वतः
बृहदश्वस्तुशावस्तात्तत्पुत्रः कुवलाश्वकः ॥ १.१३८.२१ ॥
धुन्धुमारो हि विक्यातो दृढश्वश्चततोऽभवत्
चन्द्राश्वः कपिलाश्वश्च हर्यश्वश्च दृढश्वतः ॥ १.१३८.२२ ॥
हर्यश्वाच्च निकुम्बोऽभूद्धिताश्वश्च निकुम्भतः
पूजाश्वश्च हिताश्वाच्च तत्सतो युवनाश्वकः ॥ १.१३८.२३ ॥
युवनाश्वाच्च मान्धाता बिन्दुमत्यास्ततोऽभवत्
मुचुकुन्दोऽम्बरीषश्च पुरुकुत्सस्त्रयः सुताः ॥ १.१३८.२४ ॥
पञ्चाशत्कन्यकाश्चैव भार्यास्ताः सौभरेर्मुनेः
युवनाश्वोऽम्बरीषाच्च हरितो युवनाश्वतः ॥ १.१३८.२५ ॥
पुरुकुत्सान्नर्मदायां त्रसदस्युरबूत्सुतः
अनरण्यस्ततो जातो हर्यश्वोऽप्यनरण्यतः ॥ १.१३८.२६ ॥
तत्पुत्रोऽभूद्वसुमनास्त्रिधन्वा तस्य चात्मजः
त्रय्यारुणस्तस्य पुत्रस्तस्त सत्यरतः सुतः ॥ १.१३८.२७ ॥
यस्त्रिशङ्कुः समाख्यातो हरिश्चन्द्रोऽभवत्ततः
हरिश्चन्द्राद्रोहिताश्वो हरितो रोहिताश्वतः ॥ १.१३८.२८ ॥
हरितस्य सुतश्चञ्चुश्चञ्चोश्च विजयः सुतः
विजयाद्रुरुको जज्ञे रुरुकात्तु वृकः सुतः ॥ १.१३८.२९ ॥
वृकाद्बाहुर्नृपोऽभूच्च बाहोस्तु सगरः स्मृतः
षष्टिः पुत्र सहस्राणि सुमत्यां सगराद्धर ॥ १.१३८.३० ॥
केशिन्यामेक एवासावसमञ्जससंज्ञकः ॥ १.१३८.३१ ॥
तस्यांशुमान्सुतो विद्वान्दिलीपस्तत्सुतोऽभवत्
भगीरथो दिलीपाच्च यो गङ्गामानयद्भुवम् ॥ १.१३८.३२ ॥
श्रुतो भगीरथसुतो नाभगश्च श्रुतात्किल
नाभागादम्बरीषोऽभूत्सिन्दुद्वीपोऽम्बरीषतः ॥ १.१३८.३३ ॥
सिन्दुद्वीपस्यायुतायुरृतुपर्णस्तदात्मजः
ऋतुषर्णात्सर्वकामः सुदासोऽभूत्तदात्मजः ॥ १.१३८.३४ ॥
सुदासस्य च सौदासो नाम्ना मित्रसहः स्मृतः
कल्माष पादसंज्ञश्च दमयन्त्यां तदात्मजः ॥ १.१३८.३५ ॥
अश्वकाख्योऽभवत्पुत्रो ह्यश्वकान्मूल(न्मृच्छ) कोऽभवत्
ततो दशरथो राजा तस्य चैलविलः सुतः ॥ १.१३८.३६ ॥
तस्य विश्वसहः पुत्रः खट्वाङ्गश्च तदात्मजः
खट्वाङ्गद्दीर्घबाहुश्च दीर्घबाहोर्ह्यजः सुतः ॥ १.१३८.३७ ॥
तस्य पुत्त्रो दशरथश्चत्वारस्तत्सुताः स्मृताः
रामलक्ष्मणशत्रुघ्नभरताश्च महाबलाः ॥ १.१३८.३८ ॥
रामात्कुशलवौ जातौ भरतात्तार्क्षपुष्करौ
चित्राङ्गदश्चन्द्रकेतुर्लक्ष्मणात्संबभूवतुः ॥ १.१३८.३९ ॥
सुबाहुशूरसेनौ च शत्रुघ्नात्संबभूवतुः
कुशस्य चातिथिः पुत्रो निषधो ह्यतिथेः सुतः ॥ १.१३८.४० ॥
निषधस्य नलः पुत्रो नलस्य च नभाः स्मृतः
नभसः पुण्डरीकस्तुक्षेमधन्वा तदात्मजः ॥ १.१३८.४१ ॥
देवानीकस्तस्य पुत्रो देवानीकादहीनकः
अहीनकाद्रुरुर्यज्ञे पारियात्रो रुरोः सुतः ॥ १.१३८.४२ ॥
पारियात्राद्दलो यज्ञे दल पुत्रश्छलः स्मृतः
छलादुक्थस्ततो ह्युक्थाद्वज्रनाभस्ततो गणः ॥ १.१३८.४३ ॥
उषिताश्वो गणाज्जज्ञे ततो विश्वसहोऽभवत्
हिरण्यनाभस्तत्पुत्रस्तत्पुत्रः पुष्पकः स्मृतः ॥ १.१३८.४४ ॥
ध्रुवसन्धिरभूत्पुष्पाद्ध्रुवसन्धेः सुदर्शनः
सुदर्शनादग्निवर्णः पद्मवणोऽग्निवर्णतः ॥ १.१३८.४५ ॥
शीघ्रस्तु पद्मवर्णात्तु शीघ्रात्पुत्रो मरुस्त्वभूत्
मरोः प्रसुश्रुतः पुत्रस्तस्य चोदावसुः सुतः ॥ १.१३८.४६ ॥
उदावसोर्नन्दिवर्धनः सुकेतुर्नन्दिवर्धनात्
सुकेतोर्देवरातोऽभूद्वृहदुक्थस्ततः सुतः ॥ १.१३८.४७ ॥
बृहदुक्थान्महावीर्यः सुधृतिस्तस्य चात्मजः
सुधृतेर्धृष्टकेतुश्च हर्यश्वो धृष्टकेतुतः ॥ १.१३८.४८ ॥
हर्यश्वात्तु मरुर्जातो मरोः प्रतीन्धकोऽभवत्
प्रतीन्धकात्कृतिरथो देवमीढस्तदात्मजः ॥ १.१३८.४९ ॥
विबुधो देवमीढात्तु विबुधात्तु महाधृतिः
महाधृतेः कीर्तिरातो महारोमा तदात्मजः ॥ १.१३८.५० ॥
महारोम्णः स्वर्णरोमा ह्रस्वरोमा तदात्मजः
सीरध्वजो ह्रस्वरोम्णः तस्य सीताभवत्सुता ॥ १.१३८.५१ ॥
भ्राता कुशध्वजस्तस्य सीरध्वजात्तु भानुमान्
शतद्युम्नो भानुमतः शतद्युम्नाच्छुचिः स्मृतः ॥ १.१३८.५२ ॥
ऊर्जनामा शुचेः पुत्रः सनद्वाजस्तदात्मजः
सनद्वाजात्कुलिर्जातोऽनञ्जनस्तु कुलेः सुतः ॥ १.१३८.५३ ॥
अनञ्जनाच्च कुलजित्तस्यापि चाधिनेमिकः
श्रुतायुस्तस्य पुत्रोऽभूत्सुपार्श्वश्च तदात्मजः ॥ १.१३८.५४ ॥
सुपार्श्वात्सृंजयो जातः क्षेमारिः सृजयात्समृतः
क्षेमारि तस्त्वनेनाश्च तस्य रामरथः स्मृतः ॥ १.१३८.५५ ॥
सत्यरथो रामरथात्तस्मादुपगुरुः स्मृतः
उपगुरोरुपगुप्तः स्वागतश्चोपगुप्ततः ॥ १.१३८.५६ ॥
स्वनरः स्वागताज्जज्ञे सुवर्चास्तस्य चात्मजः
सुवर्चसः सुपार्श्वस्तु सुश्रुतश्च सुपार्श्वतः ॥ १.१३८.५७ ॥
जयस्तु सुश्रुताज्जज्ञे जयात्तु विजयोऽभवत्
विजयस्य ऋतः पुत्रः ऋतस्य सुनयः सुतः ॥ १.१३८.५८ ॥
सुनयाद्वीतहव्यस्तु वीतहव्याद्धतिः स्मृतः
बहुलाश्वो धृतेः पुत्रो बहुलाश्वात्कृतिः स्मृतः ॥ १.१३८.५९ ॥
जनकस्य द्वये वंशे उक्तो योगसमाश्रयः ॥ १.१३८.६० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यवंशवर्णनं नामाष्टत्रिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १३९
हरिरुवाच
सूर्यस्य कथितो वंशः सोमवंशं शृणुष्व मे
नारायणसुतो ब्रह्मा ब्रह्मणोऽत्रेः समुद्भवः ॥ १.१३९.१ ॥
अत्रेः सोमस्तस्य भार्या तारा सुरगुरोः प्रिया
सोमात्तरा बुधं जज्ञे बुधपुत्रः पुरूरवाः ॥ १.१३९.२ ॥
बुधपुत्रादथोर्वश्यां षट्पुत्रास्तु श्रुतात्मकः
विश्वावसुः शतायुश्च आयुर्धोमानमावसुः ॥ १.१३९.३ ॥
अमावसोर्भोमनामा भीमपुत्रश्च काञ्चनः
काञ्चनस्य सुहोत्रोऽभूज्जह्रुश्चाभूत्सुहोत्रतः ॥ १.१३९.४ ॥
जह्नोः सुमन्तुरभवत्सुमन्तोरपजापकः
बलाकाश्वस्तस्य पुत्रो बलाकाश्वात्कुशः स्मृतः ॥ १.१३९.५ ॥
कुशाश्वः कुशनाभश्चामूर्तरयो वसुः कुशात्
गाधिः कुशाश्वात्संजज्ञे विश्वामित्रस्तदात्मजः ॥ १.१३९.६ ॥
कन्या सत्यवती दत्ता ऋचीकाय द्विजाय सा
ऋचीकाज्जमदाग्निश्च रामस्तस्याभवत्सुतः ॥ १.१३९.७ ॥
विश्वामित्राद्देवरातमदुच्छन्दादयः सुताः
आयुषो नहुषस्तस्मादनेना रजिरम्भकौ ॥ १.१३९.८ ॥
क्षत्त्रवृद्धः क्षत्त्रवृद्धात्सुहोत्रश्चाभवन्नृपः
काश्यकाशौगृत्समदः सुहोत्रादभवंस्त्रयः ॥ १.१३९.९ ॥
गृत्समदाच्छौन कोऽभूत्काश्याद्दीर्घतमास्तथा
वैद्यो धन्वन्तरिस्तस्मात्केतुमांश्च तदात्मजः ॥ १.१३९.१० ॥
भीमरथः केतुमतो दिवोदासस्तदात्मजः
दिवोदासात्प्रतर्दनः शत्रुजित्सोऽत्र विश्रुतः ॥ १.१३९.११ ॥
ऋतध्वजस्तस्य पुत्रो ह्यलर्कश्च ऋतध्वजात्
अलर्कात्सन्नतिर्जज्ञे सुनीतः सन्नतेः सुतः ॥ १.१३९.१२ ॥
सत्यकेतुः सुनीतस्य सत्यकेतोर्विभुः सुतः
विभोस्तु सुविभुः पुत्रः सुविभोः सुकुमारकः ॥ १.१३९.१३ ॥
सुकुमाराद्धृष्टकेतुर्वोतिहोत्रस्तदात्मजः
वीतिहोत्रस्य भर्गोऽभूद्भर्गभूमिस्तदात्मजः ॥ १.१३९.१४ ॥
वैष्णवाः स्युर्महात्मान इत्येते काशयो नृपाः
पञ्चपुत्रशतान्यासन्रजेः शक्रेण संहृताः ॥ १.१३९.१५ ॥
प्रतिक्षत्त्रः क्षत्त्रवृद्धात्संजयश्च त दात्मजः
विजयः संजयस्यापि विजयस्य कृतः सुतः ॥ १.१३९.१६ ॥
कृताद्वृषधनश्चाभूत्सहदेवस्तदात्मजः
सहदेवाददीनोऽभूज्जयत्सेनोऽप्यदीनतः ॥ १.१३९.१७ ॥
जयत्सेनात्संकृतिश्च क्षत्त्रधर्मा च संकृतेः
यतिर्ययातिः संयातिरयातिर्विकृतिः क्रमात् ॥ १.१३९.१८ ॥
नहुषस्य सुताः ख्याता ययातेर्नृपतेस्तथा
यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ १.१३९.१९ ॥
द्रुह्युं चानुं च पूरुञ्च शर्मिष्ठा वार्षपार्वणी
सहस्रजीत्क्रोष्टुमना रघुश्चैव यदोः सुताः ॥ १.१३९.२० ॥
सहस्रजितः शतजित्तस्माद्वै हयहैहयौ
अनरण्यो हयात्पुत्रो धर्मो हैहयतोऽभवत् ॥ १.१३९.२१ ॥
धर्मस्य धर्मनेत्रोऽबूत्कुन्तिर्वै धर्मनेत्रतः
कुन्तेर्बभूत साहञ्जिर्महिष्मांश्च तदात्मजः ॥ १.१३९.२२ ॥
भद्रश्रेण्यस्तस्य पुत्त्रो भद्रश्रेणयस्य दुर्दमः
धनको दुर्दमाच्चैव कृतवीर्यश्च जानकिः ॥ १.१३९.२३ ॥
कृताग्निः कृतकर्मा च कृतौजाः सुमहाबलः
कृतवीर्यादर्जुनोऽभूदर्जुनाच्छूरसेनकः ॥ १.१३९.२४ ॥
जयध्वजो मधुः शूरो वृषणः पञ्च सव्रताः
जयध्वजात्तालजङ्घो भरतस्तालजङ्गतः ॥ १.१३९.२५ ॥
वृषणस्य मधुः पुत्त्रो मधोर्वृष्ण्यादिवंशकः
क्रोष्टोर्विजज्ञिवान्पुत्त्र आहिस्तस्य महात्मनः ॥ १.१३९.२६ ॥
आहेरुशङ्कुः संजज्ञेतस्य चित्ररथः सतः
शशबिन्दुश्चित्ररथात्पत्न्यो लक्षञ्च तस्य ह ॥ १.१३९.२७ ॥
दशलक्षञ्च पुत्राणां पृथुकीर्त्यादयो वराः
पृथुकीर्तिः पृथुजयः पृथुदानः पृथुश्रवाः ॥ १.१३९.२८ ॥
पृथुश्रवसोऽभूत्तम उशनास्तमसोऽभवत्
तत्पुत्रः शितगुर्नाम श्रीरुक्मकवचस्ततः ॥ १.१३९.२९ ॥
रुक्मश्च पृथुरुक्मश्च ज्यामघः पालितो हरिः
श्रीरुक्मकवचस्यैते विदर्भो ज्यामघात्तथा ॥ १.१३९.३० ॥
भार्यायाञ्चैव शैब्यायां विदर्भात्क्रथकौशिकौ
रोमपादो रोमपादाद्बभ्रुर्बभ्रोर्धृतिस्तथा ॥ १.१३९.३१ ॥
कौशिकस्य ऋचिः पुत्रः ततश्चैद्यो नृपः किल
कुन्तिः किलास्य पुत्रोऽभूत्कुन्तेर्वृष्णिः सुतः स्मृतः ॥ १.१३९.३२ ॥
वृष्णेश्च निवृतिः पुत्रो दशार्हे निवृतेस्तथा
दशार्हस्य सुतो व्योमा जीमूतश्च तदात्मजः ॥ १.१३९.३३ ॥
जीमूताद्विकृतिर्जज्ञे ततो भीमरथोऽभवत्
ततो मधुरथो जज्ञे शकुनिस्तस्य चात्मजः ॥ १.१३९.३४ ॥
करम्भिः शकुनेः पुत्रस्तस्य वै देववान्स्मृतः
देवक्षत्त्रो देवनतो देवक्षत्त्रान्मधुः स्मृतः ॥ १.१३९.३५ ॥
कुरुवंशो मधोः पुत्रो ह्यनुश्च कुरुवंशतः
पुरुहोत्रो ह्यनोः पुत्रो ह्यंशुश्च पुरुहोत्रतः ॥ १.१३९.३६ ॥
सत्त्वश्रुतः सुतश्चांशोस्ततो वै सात्त्वतो नृपः
भजिनो भजमानश्च सात्वतादन्धकः सुतः ॥ १.१३९.३७ ॥
महाभोजो वृष्णि दिव्यावन्यो देवावृधोऽभवत्
निमिवृष्णी भजमानादयुताजित्तथैव च ॥ १.१३९.३८ ॥
शतजिच्च सहस्राजिद्बभ्रुर्देवो बृहस्पतिः
महाभोजात्तु भोजोऽभूत्तद्वृष्णेश्च सुमित्रकः ॥ १.१३९.३९ ॥
स्वधाजित्संज्ञकस्तस्मादनमित्राशिनी तथा
अनमित्रस्य निघ्नोऽभून्निघ्नाच्छत्राजितोऽभवत् ॥ १.१३९.४० ॥
प्रसेनश्चापरः ख्यातो ह्यनमित्राच्छिबिस्तथा
शिबेस्तु सत्यकः पुत्रः सत्यकात्सात्यकिस्तथा ॥ १.१३९.४१ ॥
सात्यकेः सञ्जयः पुत्रः कुलिश्चैव तदात्मजः
कुलेर्युगन्धरः पुत्रस्ते शैबेयाः प्रकीर्तिताः ॥ १.१३९.४२ ॥
अनमित्रान्वये वृष्णिः श्वफल्कश्चित्रकः सुतः
श्वफल्काच्चैवगान्दिन्यामक्रूरो वैष्णवोऽभवत् ॥ १.१३९.४३ ॥
उपमद्गुरथाक्रूराद्देवद्योतस्ततः सुतः
देववानुपदेवश्च ह्यक्रूरस्य सुतौ स्मृतौ ॥ १.१३९.४४ ॥
पृथुर्विपृथुश्चित्रस्य त्वन्धकस्य शुचिः स्मृतः
कुकुरो भजमानस्य तथा कम्बलबर्हिषः ॥ १.१३९.४५ ॥
धृष्टस्तु कुकुराज्जज्ञे तस्मात्कापोतरोमकः
तदात्मजो विलोमा च विलोम्नस्तुम्बुरुः सुतः ॥ १.१३९.४६ ॥
तस्माच्चदुन्दुभिर्जज्ञे पुनर्वसुरतः स्मृतः
तस्याहुकश्चाहुकी च कन्या चैवाहुकस्य तु ॥ १.१३९.४७ ॥
देवकश्चोग्रसेनश्च देवकाद्देवकी त्वभूत्
वृकदेवोपदेवाच सहदेवा सुरक्षिता ॥ १.१३९.४८ ॥
श्रीदेवी शान्तिदेवी च वसुदेव उवाह ताः
देववानुपदेवश्च सहदेवासुतौ स्मृतौ ॥ १.१३९.४९ ॥
उग्रसेनस्य कंसोऽभूत्सुनामा च वटादयः
विदूरथो भजमानाच्छूरश्चाभूद्विदूरथात् ॥ १.१३९.५० ॥
विदूरथसुतस्याथ सूरस्यापि शमी सुतः
प्रतिक्षत्त्रश्च शमिनः स्वयम्भोजस्तदात्मजः ॥ १.१३९.५१ ॥
हृदिकश्च स्वयम्भोजात्कृतवर्मा तदात्मजः
देवः शतधनुश्चैव शूराद्वै देवमीढुषः ॥ १.१३९.५२ ॥
दश पुत्रा मारिषायां वसुदेवादयोऽभवन्
पृथा च श्रुतदेवी च श्रुतकीर्तिः श्रुतश्रवाः ॥ १.१३९.५३ ॥
राजाधिदेवो शूराच्च पृथां कुन्तेः सुतामदात्
सा दत्ता कुन्तिना पाण्डोस्तस्यां धर्मानिलेन्द्रकैः ॥ १.१३९.५४ ॥
युधिष्ठिरो भीमपार्थो नकुलः सहदेवकः
माद्रयां नासत्यदस्त्राभ्यां कुन्त्यां कर्णः पुराभवत् ॥ १.१३९.५५ ॥
श्रुतदेव्यां दन्तवक्रो जज्ञे वै युद्धदुर्मदः
सन्तर्दनादयः पञ्च श्रुतकीर्त्याञ्च कैकयात् ॥ १.१३९.५६ ॥
राजाधिदेव्यां जज्ञाते विन्दश्चैवानुविन्दकः
श्रुतश्रवा दमघोषात्प्रजज्ञे शिशुपालकम् ॥ १.१३९.५७ ॥
पौरवी रोहीणा भार्या मदिरानकदुन्दुभेः
देवकीप्रमुखा भद्रा रोहिण्यां बलभद्रकः ॥ १.१३९.५८ ॥
सारणाद्याः शठश्चैव रेवत्यां बलभद्रतः
निशठश्चोल्मुको जातो देवक्यां षट्च जज्ञिरे ॥ १.१३९.५९ ॥
कीर्तिमांश्च सुषेणश्च ह्युदार्यो भद्रसेनकः
ऋजुदासो भद्रदेवः कंस एवावधीच्च तान् ॥ १.१३९.६० ॥
संकर्षणः सप्तमोऽभूदष्टमः कृष्ण एव च
षोडशस्त्रीसहस्राणि भार्याणाञ्चाभवन्हरेः ॥ १.१३९.६१ ॥
रुक्मिणी सत्यभामा च लक्ष्मणा चारुहासिनी
श्रेष्ठा जाम्बवती चाष्टौ जज्ञिरे ताः सुतान्बहून् ॥ १.१३९.६२ ॥
प्रद्युम्नश्चारुदेष्णश्च प्रधानाः साम्ब एव च
प्रद्युम्नादनिरुद्धोऽभूत्ककुद्मिन्यां महाबलः ॥ १.१३९.६३ ॥
अनिरुद्धात्सुभद्रायां वज्रो नाम नृपोऽभवत्
प्रतिबाहुर्वज्रसुतश्चारुस्तस्य सुतोऽभवत् ॥ १.१३९.६४ ॥
वह्निस्तु तुर्वसोर्वंशे वह्नेर्भर्गोऽभवत्सुतः
भर्गाद्भानुरभूत्पुत्रो भानोः पुत्रः करन्धमः ॥ १.१३९.६५ ॥
करन्धमस्य मरुतो द्रुह्योर्वंशं निबोध मे
द्रह्योस्तु तनयः सेतुरारद्धश्च तदात्मजः ॥ १.१३९.६६ ॥
आरद्धस्यैव गान्ध रो घर्मो गान्धारतोऽभवत्
घृतस्तु घर्मपुत्रोऽभूद्दुर्गमश्च घृस्य तु ॥ १.१३९.६७ ॥
प्रचेता दुर्गमस्यैव अनोर्वंशं शृणुष्व मे
अनोः सभानरः पुत्रस्तस्मा कालञ्जयोऽभवत् ॥ १.१३९.६८ ॥
कालञ्जयात्सृञ्जयोऽभूत्सृञ्जयात्तु पुरुञ्जयः
जनमेजयस्तु तत्पुत्रो महाशालस्तदात्मजः ॥ १.१३९.६९ ॥
महामना महाशालदुशीनर इह स्मृतः
अशीनराच्छिबिर्जज्ञे वृषदर्भः शिवेः सुतः ॥ १.१३९.७० ॥
महामनोजात्तितिक्षोः पुत्रोऽभूच्च रुषद्रथः
हेमो रुषद्रथाज्जज्ञे सुतपा हेमतोऽभवत् ॥ १.१३९.७१ ॥
बलिः सुतपसो जज्ञे ह्यङ्गवङ्गकलिङ्गकाः
अन्धः पैण्ड्रश्च बालेया ह्यनपानस्तथाङ्गतः ॥ १.१३९.७२ ॥
अनपानाद्दिविरथस्ततो धर्मरथोऽभवत्
रोमपादो धर्मरथाच्चतुरङ्गस्तदात्मजः ॥ १.१३९.७३ ॥
पृथुलाक्षस्तस्य पुत्रश्चम्पोऽभूत्पृथुलाक्षतः
चम्पपुत्रश्च हर्यङ्गस्तस्य भद्ररथः सुतः ॥ १.१३९.७४ ॥
बृहत्कर्मा सुतस्तस्य बृहद्भानुस्ततोऽभवत्
बुहन्मना बृहाद्भानोस्तस्य पुत्रो जयद्रथः ॥ १.१३९.७५ ॥
जयज्रथस्य विजयो विजयस्य धृतिः सुतः
धृतेर्धृव्रतः पुत्रः सत्यधर्मा धृतव्रतात् ॥ १.१३९.७६ ॥
तस्य पुत्रस्त्वधिरथः कर्णस्तस्य सुतोऽभवत् ॥ १.१३९.७७ ॥
वृर्षसेनस्तु कर्णस्य पुरुवंश्याञ्छणुष्व मे ॥ १.१३९.७८ ॥

इति श्रीगारुडे महुपाराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चन्द्रवंशवर्णनं नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १४०
हरिरुवाच
जनमेजयः पुरोश्चाभून्नमस्युर्जनमेजयात्
तस्य पुत्रश्चाभयदः सुद्युश्चाभयदादभूत् ॥ १.१४०.१ ॥
सुद्योर्बहुगतिः पुत्रः संजातिस्तस्य चात्मजः
वत्सजातिश्च सञ्जातेः रौद्राश्वश्च तदात्मजः ॥ १.१४०.२ ॥
ऋतेयुः स्थण्डिलेयुश्च कक्षेयुश्च कृतेयुकः
जलेयुः सन्ततेयुश्च रोद्राश्वस्य सुता वराः ॥ १.१४०.३ ॥
रतिनार ऋतेयोश्च तस्य प्रतिरथः सुतः
तस्य मेधातिथिः पुत्रस्तत्पुत्रश्चैनिलः स्मृतः ॥ १.१४०.४ ॥
ऐनिलस्य तु दुष्यन्तो भरतस्तस्य चात्मजः
शकुन्तलायां संजज्ञे वितथो भरतादभूत् ॥ १.१४०.५ ॥
वितथस्य सुतो मन्युर्मन्योश्चैव नरः स्मृतः
नरस्य संकृतिः पुत्रो गर्गो वै संकृतेः सुतः ॥ १.१४०.६ ॥
गर्गादमन्युः पुत्रो वै शिनिः पुत्रो व्यजायत
मन्युपुत्रान्महावीर्यात्सुतोऽभवदुरुक्षयः ॥ १.१४०.७ ॥
उरुक्षयात्त्रय्यारुणिर्व्यूहक्षत्राच्च मन्युजात्
सुहोत्रस्तस्य हस्ती च अजमीढद्विमीढकौ ॥ १.१४०.८ ॥
हस्तिनः पुरुमीढश्च कण्वोऽभूदजमीढतः
कण्वान्मेधातिथिर्जज्ञे यतः काण्वायना द्विजाः ॥ १.१४०.९ ॥
अजमीढाद्वृहदिषुस्तत्पुत्रश्च बृहद्धनुः
बृहत्कर्मा तस्य पुत्रस्तस्य पुत्रो जयद्रथः ॥ १.१४०.१० ॥
जयद्रथाद्विश्वजिच्च सेनजिच्च तदात्मजः
रुचिराश्वः सेनजितः पृथुसेनस्तदात्मजः ॥ १.१४०.११ ॥
पारस्तु पृथुसेनस्य पाराद्द्वीपोऽभवन्नृपः
नृपस्य सृमरः पुत्रः सुकृतिश्च पृथोः सुतः ॥ १.१४०.१२ ॥
विभ्राजः सुकृतेः पुत्रो विभ्राजादश्वहोऽभवत्
कृत्यां तस्माद्ब्रह्मदत्तो विष्वक्सेनस्तदात्मजः ॥ १.१४०.१३ ॥
यवीनरो द्विमीढस्य धृतिमांश्च यवीनरात्
धतिमतः सत्यधृतिर्दृढनेमिस्तदात्मजः ॥ १.१४०.१४ ॥
दृढनेमेः सुपार्श्वोऽभूत्सुपार्श्वात्सन्नतिस्तथा
कृस्तु सन्नतेः पुत्रः कृतादुग्रायुधोऽभवत् ॥ १.१४०.१५ ॥
उग्रायुधाच्च क्षेम्यौऽभूत्सुधीरस्तु तदात्मजः
पुरञ्जयः सुधीराच्च तस्य पुत्रो विदूरथः ॥ १.१४०.१६ ॥
अजमीढान्नलिन्याञ्च नीलो नाम नृपोऽभवत्
नीलाच्छान्तिरभूत्पुत्रः सुशान्तिस्तस्य चात्मजः ॥ १.१४०.१७ ॥
सुशान्तेश्च पुरुर्जातो ह्यर्कस्तस्य सुतोऽभवत्
अर्कस्य चैव हर्यश्वो हर्यश्वान्मुकुलोऽभवत् ॥ १.१४०.१८ ॥
यवीनरो बृहद्भानुः कम्पिल्लः सृञ्जयस्तथा
पाञ्चालान्मुकुलाज्जज्ञे शरद्वान्वैष्णवो महान् ॥ १.१४०.१९ ॥
दिवोदासो द्वितीयोऽस्य ह्यहल्यायां शरद्वतः
शतानन्दोऽभवत्पुत्रस्तस्य सत्यधृतिः सतः ॥ १.१४०.२० ॥
कृपः कृपी सत्यधृतेरुर्वश्यां वीर्यहानितः
द्रोणपत्नी कृपी जज्ञे अश्वत्थामानमुत्तमम् ॥ १.१४०.२१ ॥
दिवोदासान्मित्रयुश्च मित्रयोश्च्यवनोऽभवत्
सुदासश्च्यवनाज्जज्ञे सौदासस्तस्य जात्मजः ॥ १.१४०.२२ ॥
सहदेवस्तस्य पुत्रः सहदेवात्तु सोमकः
जन्तुस्तु सोमकाज्जज्ञे पृषतश्चापरो महान् ॥ १.१४०.२३ ॥
पृषताद्द्रुपदो जज्ञे धृष्टद्युम्नस्ततोऽभवत्
धृष्टद्युम्नाद्धृष्टकेतुरृक्षोऽभूतजमीढतः ॥ १.१४०.२४ ॥
ऋक्षात्संवरणो जज्ञे कुरुः संवरणादभूत्
सुधनुश्च पीक्षिच्च जह्नुश्चैव कुरोः सुताः ॥ १.१४०.२५ ॥
सुधनुषः सुहोत्रोऽभूच्च्यवनोऽभूत्सुहोत्रतः
च्यवनात्कृतको जज्ञे तथोपरिचरो वसुः ॥ १.१४०.२६ ॥
बृहद्रथश्च प्रत्यग्रः सत्याद्याश्च वसोः सुताः
बृहद्रथात्कुशाग्रश्च कुशाग्रादृषभोऽभवत् ॥ १.१४०.२७ ॥
ऋषभात्पुष्पवांस्तस्माज्जज्ञे सत्यहितो नृपः
सत्यहितात्सुधन्वाभूज्जह्रुश्चव सुधन्वनः ॥ १.१४०.२८ ॥
बृहद्रथाज्जरासन्धः सहदेवस्तदात्मजः
सहदेवाच्च च सोमापिः सोमापेः श्रुतवान्सुतः ॥ १.१४०.२९ ॥
भीमसेनोग्रसेनौ च श्रुतसेनोऽपराजितः
जनमेजयस्तथान्योऽभूज्जह्नोस्तु सुरथोऽभवत् ॥ १.१४०.३० ॥
विदूरथस्तु सुरथात्सार्वभौमो विदूरथात्
जयसेनः सार्वभौमादावधीतस्तदात्मजः ॥ १.१४०.३१ ॥
अयुतायुस्तस्य पुत्रस्तस्य चाक्रोधनः सुतः
अक्रोधनस्यातिथिश्च ऋक्षोऽभूदतिथेः सुतः ॥ १.१४०.३२ ॥
ऋक्षाच्च भीमसेनोऽभूद्दिलीपो भीमसेनतः
प्रतीपोऽभूद्दिलीपाच्च देवापिस्तु प्रतीपतः ॥ १.१४०.३३ ॥
शन्तनुश्चैव बाह्लीकस्त्रयस्ते भ्रातरो नृपाः
बाह्लीकात्सोमदत्तोऽभूद्भूरिर्भूरिश्रवास्ततः ॥ १.१४०.३४ ॥
शलश्च शन्तनोर्भोष्मो गङ्गायां धार्मिको महान्
चित्राङ्गदविचित्रौ तु सत्यवत्यान्तु शन्तनोः ॥ १.१४०.३५ ॥
भार्ये विचित्रवीर्यस्य त्वम्बिकाम्बालिके तयोः
धृराष्ट्रं च पाण्डुञ्च तद्दास्यां विदुरन्तथा ॥ १.१४०.३६ ॥
व्यास उत्पादयामास गान्धागी धृतराष्ट्रतः
शतपुत्रं दुर्योधनाद्यं पाण्डोः पञ्च प्रजज्ञिरे ॥ १.१४०.३७ ॥
प्रतिबिन्ध्यः श्रुतसोमः श्रुतकीर्तिस्तथार्जुनात्
शतानीकः श्रुतकर्मा द्रौपद्यां पञ्च वै क्रमात् ॥ १.१४०.३८ ॥
यौधेयी च हिडिम्बा च कौशी चैव सुभद्रिका
विजया वै रेणुमती पञ्चभ्यस्तु सुताः क्रमात् ॥ १.१४०.३९ ॥
देवको घचोत्कचश्च ह्यभिमन्युश्च सर्वगः
सुहोत्रो निरमित्रश्च परीक्षिदभिमन्युजः ॥ १.१४०.४० ॥
जनमेजयोऽस्य ततो भविष्यांश्च नृपाञ्छृणु ॥ १.१४०.४१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चन्द्रवंशवर्णनं नाम चत्वारिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १४१
हरिरुवाच
शतानीको ह्यश्वमेधदत्तश्चाप्यधिसोमकः
कृष्णोऽनिरुद्धश्चाप्युष्णस्ततश्चित्ररथो नृपः ॥ १.१४१.१ ॥
शुचिद्रथो वृष्णिमांश्च सुपेणश्च सुनीथकः
नृचक्षुश्च मुखाबाणः मेधावी च नृपञ्जयः ॥ १.१४१.२ ॥
पारिप्लवश्च मुनयो मेधावी च नृपञ्जयः
बृहद्रथो हरिस्तिग्मो शतानीकः सुदानकः ॥ १.१४१.३ ॥
उदानोऽह्निनरश्चैव दण्डपाणिर्निमित्तकः
क्षेमकश्च ततः शूद्रः पिता पूर्वस्ततः सुतः ॥ १.१४१.४ ॥
बृहद्बलास्तु कथयन्ते नृपोश्चैक्ष्वाकुवंशजाः
बृहद्बलादुरुक्षयो वत्सव्यूहस्ततः परः ॥ १.१४१.५ ॥
वत्सव्यूहात्ततः सूर्यः सहदेवस्तदात्मजः
बृहदश्वो भानुरथः प्रतीच्यश्च प्रतीतकः
मनुदेवः सुनक्षत्रः किन्नरश्चान्तरिक्षकः ॥ १.१४१.६ ॥
सुपर्णः कृतजिच्चैव बृहद्भ्राजश्च धार्मिकः
कृतञ्जयो धनञ्जयः संजयः शाक्य एव च ॥ १.१४१.७ ॥
शुद्धोदनो बाहुलश्च सेनजित्क्षुद्रकस्तथा
सुमित्रः कुडवश्चातः सुमित्रान्मागधाञ्छणु ॥ १.१४१.८ ॥
जरासन्धः सहदेवः सोमापिश्च श्रुतश्रवाः
अयुतायुर्निरमित्रः सुक्षत्रो बहुकर्मकः ॥ १.१४१.९ ॥
श्रुतञ्जयः सेनजिच्च भूरिश्चैव शुचिस्तथा
क्षेम्यश्च सुव्रतो धर्मः श्मश्रुलो दृढसेनकः ॥ १.१४१.१० ॥
सुमतिः सुबलो नीतो सत्यजिद्विश्वजित्तथा
इषुञ्जयश्च इत्येते नृपा बार्हद्रथाः स्मृताः ॥ १.१४१.११ ॥
अधर्मिष्ठाश्च शूद्राश्च भविष्यन्ति नृपास्ततः
स्वर्गादिकृद्धि भगवान्साक्षान्नारायणोऽव्ययः ॥ १.१४१.१२ ॥
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः
याति भूः प्रलयं चाप्सु ह्यापस्तेजसि पावकः ॥ १.१४१.१३ ॥
वायौ वायुश्च वियति त्वाकाशौ यात्यहङ्कृतौ
अहं बुद्धौ मतिर्जोवे जीवोऽव्यक्ते तदात्मनि ॥ १.१४१.१४ ॥
आत्मा परेश्वरो विष्णुरेको नारायणो नरः
अविनाश्यपरं सर्वं जगत्स्वर्गादि नाशि हि ॥ १.१४१.१५ ॥
नृपादयो गता नाशमतः पापं विवर्जयेत्
धर्मं कुर्यात्स्थिरं येन पापं हित्वा हरिं व्रजेत् ॥ १.१४१.१६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भविष्य राजवंश दृ नामैकचत्वारिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १४२
ब्रह्मोवाच
विंशादीन्पालयामास ह्यवतीर्णो हरिः प्रभुः
दैत्यधर्मस्य नाशार्थं वेदधर्मादिगुप्तये ॥ १.१४२.१ ॥
मत्स्यादिकस्वरूपेण त्ववतारं करोत्यजः
मत्स्यो भूत्वा हयग्रीवं दैत्यं हत्वाजिकण्टकम् ॥ १.१४२.२ ॥
वेदानानीय मन्वादीन्पालयामास केशवः
मन्दरं धारयामास कूर्मो भूत्वा हिताय च ॥ १.१४२.३ ॥
क्षीरोदमथने वै द्यो देवो धन्वन्तरिर्ह्यर्भूत्
बिभ्रत्कमण्डलुं पूर्णममृतेन समुत्थितः ॥ १.१४२.४ ॥
आयुर्वेदमथाष्टाङ्गं सुश्रुताय स उक्तवान्
अमृतं पाययामास स्त्रीरूपी च सुरान्हरिः ॥ १.१४२.५ ॥
अवतीर्णो वराहोऽथ हिरण्याक्षं जघान ह
पृथिवीं धारयामास पालयामास देवताः ॥ १.१४२.६ ॥
नरसिंहोऽवर्तोर्णोऽथ हिरण्यकशिपुंरिपुम्
दैत्यान्निहतवान्वेदधर्मादीनभ्यपालयत् ॥ १.१४२.७ ॥
ततः परशुरामोऽभूज्जमदग्नेर्जगत्प्रभुः
त्रिः सप्तकृत्वः पृथिवीं चक्रे निः क्षत्त्रियां हरिः ॥ १.१४२.८ ॥
कार्तवीर्यं जघानाजौ कश्यपाय महीं ददौ
यागं कृत्वा महाबाहुर्महेन्द्रे पर्वते स्थितः ॥ १.१४२.९ ॥
ततो रामो भविष्णुश्च चतुर्धा दुष्टर्मदनः
पुत्रो दशरथाज्जज्ञे रामश्च भरतोऽनुजः ॥ १.१४२.१० ॥
लक्ष्मणश्चाथ शत्रुघ्नो रामभार्या च जानकी
रामश्च पितृसत्यार्थं मातृभ्यो हितमाचरन् ॥ १.१४२.११ ॥
शृङ्गवेरं चित्रकूटं दण्डकारण्यमागतः
नासां शूर्पणखायाश्च च्छित्त्वाथ खरदूषणम् ॥ १.१४२.१२ ॥
हत्वा स राक्षसं सीतापहारिरजनीचरम्
रावणं चानुजं तस्य लङ्कापुर्यां विभीषणम् ॥ १.१४२.१३ ॥
रक्षोराज्ये च संस्थाप्य सुग्रीवनुमन्मुखैः
आरुह्य पुष्पकं सार्धं सीतया पतिभक्तया ॥ १.१४२.१४ ॥
लक्ष्मणेनानुकूलेन ह्ययोध्यां स्वपुरीं गतः
राज्यं चकार देवादीन्पालयामास स प्रजाः ॥ १.१४२.१५ ॥
धर्मसंरक्षणं चक्रे ह्यश्वमेधादिकान्क्रतून्
सा महीपतिना रेमे रामेणैव यथासुखम् ॥ १.१४२.१६ ॥
रावणस्य गृहे सीता स्थिता भेजे न रावणम्
कर्मणा मनसा वाचा सा गता राघवं सदा ॥ १.१४२.१७ ॥
पतिव्रता तु सा सीता ह्यनसूया यथैव तु
पतिव्रताया माहात्म्यं शृणु त्वं कथयाम्यहम् ॥ १.१४२.१८ ॥
कौशिको ब्राह्मणः कुष्ठी प्रतिष्ठानेऽभवत्पुरा
तं तथा व्याधितं भार्या पतिं देवमिवार्चयत् ॥ १.१४२.१९ ॥
निर्भर्त्सितापि भर्तारं तममन्यत दैवतम्
भर्त्रोक्ता सानयद्वेश्यां शुल्कमादाय चाधिकम् ॥ १.१४२.२० ॥
पथि सूले तदा प्रोतमचौरं चौरशङ्कया
माण्डव्यमतिदुः खार्तमन्धकारेऽथ स द्विजः ॥ १.१४२.२१ ॥
पत्नीस्कन्धसमारूढश्चालयामास कौशिकः
पादावमर्शणत्क्रुद्धो माण्डव्यस्तमुवाच ह ॥ १.१४२.२२ ॥
सूर्योदये मृतिस्तस्य येनाहं चालितः पदा
तच्छ्रुत्वा प्राह तद्भार्या सूर्यो नोदयमेष्यति ॥ १.१४२.२३ ॥
ततः सूर्योदयाभावाद भवत्सततं निशा
बहून्यब्दप्रमाणानि ततो देवा भयं ययुः ॥ १.१४२.२४ ॥
ब्रह्माणं शरणं जग्मुस्तामूचे पद्मसम्भवः
प्रशाम्यते तेजसैव तपस्तेजस्त्वनेन वै ॥ १.१४२.२५ ॥
पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः
तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा ॥ १.१४२.२६ ॥
तस्मात्पतिव्रतामत्रेरनसूयां तपस्विनीम्
प्रसादयत वै पत्नीं भानोरुदयकाम्यया ॥ १.१४२.२७ ॥
तैः सा प्रसादिता गत्वा ह्यनसूया पतिव्रता
कृत्वादित्योदयं सा च तं भर्तारमजीवयत्
पतिव्रतानसूयायाः सीताभूदधिका किल ॥ १.१४२.२८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दशावतारदृ नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १४३
ब्रह्मोवाच
रामायणमतो वक्ष्ये श्रुतं पापविनाशनम्
विष्णुनाभ्यब्जतो ब्रह्मा मरीचिस्तत्सुतोऽभवत् ॥ १.१४३.१ ॥
मरीचेः कश्यपस्तस्माद्रविस्तस्मान्मनुः स्मृतः
मनोरिक्ष्वाकुरस्याभूद्वंशे राजा रघुः स्मृतः ॥ १.१४३.२ ॥
रघोरजस्ततो जातो राजा दशरथो बली
तस्य पुत्रास्तु चत्वारो महाबलपराक्रमाः ॥ १.१४३.३ ॥
कौसल्यायाम भूद्रामो भरतः कैकयीसुतः
सुतौ लक्ष्मणशक्षुघ्नौ सुमित्रायां बभूवतुः ॥ १.१४३.४ ॥
रामो भक्तः पितुर्मातुर्विश्वामित्रादवाप्तवान्
अस्त्रग्रामं ततो यक्षीं ताटकां प्रजघान ह ॥ १.१४३.५ ॥
विशावमित्रस्य यज्ञे वै सुबाहुं न्यवधीद्बली
जनकस्य क्रतुं गत्वा उपयेमेऽथ जानकीम् ॥ १.१४३.६ ॥
ऊर्मिलां लक्ष्मणो वीरो भरतो माण्डवीं सुताम्
शत्रुघ्नो वै कीर्तिमतीं कुशध्वजसुते उभे ॥ १.१४३.७ ॥
पित्रादिभिरयोध्यायां गत्वा रामादयः स्थिताः
युधाजितं मातुलञ्च शत्रुघ्नभरतौ गतौ ॥ १.१४३.८ ॥
गतयोर्नृपवर्योऽसौ राज्यं दातुं समुद्यतः
स रामाय तत्पुत्राय कैकेय्या प्रार्थितस्तदा ॥ १.१४३.९ ॥
चतुर्दशसमावासो वनेरामस्य वाञ्छितः
रामः पितृहितार्थञ्च लक्ष्मणेन च सीतया ॥ १.१४३.१० ॥
राज्यञ्च तृणवत्त्यक्त्वा शृङ्गवेरपुरं गतः
रथं त्यक्त्वा प्रयागञ्च चित्रकूटगिरिं गतः ॥ १.१४३.११ ॥
रामस्य तु वियोगेन राजा स्वर्गं समाश्रितः
संस्कृत्य भरतश्चागाद्राममाह बलान्वितः ॥ १.१४३.१२ ॥
अयोध्यान्तु समागत्य राज्यं कुरु महामते
स नैच्छत्पादुके दत्त्वा राज्याय भरताय तु ॥ १.१४३.१३ ॥
विसर्जितोऽथ भरतो रामराज्यमपालयत्
नन्दिग्रामे स्थितो भक्तो ह्ययोध्यां नाविशद्व्रती ॥ १.१४३.१४ ॥
रामोऽपि चित्रकूटाच्च ह्यत्रेराश्रममाययौ
नत्वा सुतीक्ष्णं चागस्त्यं दण्डकारण्यमागतः ॥ १.१४३.१५ ॥
तत्र शूर्पणखा नाम राक्षसी चात्तुमागता
निकृत्य कर्णो नासे च रामेणाथापवारिता ॥ १.१४३.१६ ॥
तत्प्रेरितः खरश्चागाद्दूषणस्त्रिशिरास्तथा
चतुर्दशसहस्रेण रक्षसान्तु बलेन च ॥ १.१४३.१७ ॥
रामोऽपि प्रेषयामास बाणैर्यमपुरञ्च तान्
राक्षस्या प्रेरितोऽभ्यागाद्रावणो हरणाय हि ॥ १.१४३.१८ ॥
मृगरूपं स मारीचं कृत्वाग्रेऽथ त्रिदण्डधृक्
सीतया प्रेरितो रामो मारीचं निजघान ह ॥ १.१४३.१९ ॥
म्रियमाणः स च प्राह हा सीते ! लक्ष्मणोति च
सीतोक्तो लक्ष्मणोऽथागाद्रामश्चानुददर्श तम् ॥ १.१४३.२० ॥
उवाच राक्षसी माया नूनं सीता हृतेति सः
रावणोऽन्तरमासाद्य ह्यङ्केनादाय जानकीम् ॥ १.१४३.२१ ॥
जटायुषं विनिर्भिद्य ययौ लङ्कां ततो बली
अशोकवृक्षच्छायायां रक्षितां तामधारयत् ॥ १.१४३.२२ ॥
आगत्य रामः सून्याञ्च पर्णशालां ददर्श ह
शोकं कृत्वाथ जानक्या मार्गणं कृतवान्प्रभुः ॥ १.१४३.२३ ॥
जटायुषञ्च संस्कृत्य तदुक्तो दक्षिणां दिशम्
गत्वा सख्यं ततश्चक्रे सुग्रीवेण च राघवः ॥ १.१४३.२४ ॥
सप्त तालान्विनिर्भिद्य शरेणानतपर्वणा
वालिनञ्च विनिर्भिद्य किष्किन्धायां हरीश्वरम् ॥ १.१४३.२५ ॥
सुग्रीवं कृतवान्राम ऋश्यमूके स्वयं स्थितः
सुग्रीवः प्रेषयामास वानरान्पर्वतोपमान् ॥ १.१४३.२६ ॥
सीताया मार्गणं कर्तुं पूर्वाद्याशासु सोत्सवान्
प्रतीचीमुत्तरां प्राचीं दिशं गत्वा समागताः ॥ १.१४३.२७ ॥
दक्षिणान्तु दिशं ये च मार्गयन्तोऽथ जानकीम्
वनानि पर्वतान्द्वीपान्नदीनां पुलिनानि च ॥ १.१४३.२८ ॥
जानकीन्ते ह्यपश्यन्तो मरणे कृतनिश्चयाः
सम्पातिवचनाज्ज्ञात्वा हनूमान्कपिकुञ्जरः ॥ १.१४३.२९ ॥
शतयोजनविस्तीर्णं पुप्लुवे मकरालयम्
अपश्यज्जानकीं तत्र ह्यशोकवनिकास्थिताम् ॥ १.१४३.३० ॥
भर्त्सितां राक्षसीभिश्च रावणेन च रक्षसा
भव भार्येति वदता चिन्तयन्तीञ्च राघवम् ॥ १.१४३.३१ ॥
अङ्गुलीयं कपिर्दत्त्वा सीतां कौशल्यमब्रवीत्
रामस्य तस्य दूतोऽहं शोकं मा कुरु मैथिलि ॥ १.१४३.३२ ॥
स्वाभिज्ञानञ्च मे देहि येन रामः स्मरिष्यति
तच्छ्रुत्वा प्रददौ सीता वेणीरत्नं हनूमते ॥ १.१४३.३३ ॥
यथा रामो नयेच्छीघ्रं तथा वाच्यं त्वया कपे
तथेत्युक्त्वा तु हनुमान्वनं दिव्यं बभञ्ज ह ॥ १.१४३.३४ ॥
हत्वाक्षं राक्षसांश्चान्यान्बन्धनं स्वयमागतः
सर्वैरिन्द्रजितो बाणैर्दृष्ट्वा रावणमब्रवीत् ॥ १.१४३.३५ ॥
रामदूतोऽस्मि हनुमान्देहि रामाय मैथिलीम्
एतच्छ्रुत्वा प्रकुपितो दीपयामास पुच्छकम् ॥ १.१४३.३६ ॥
कपिर्ज्वलितलाङ्गूलो लङ्कां देहेऽ महाबलः
दग्ध्वा लङ्कां समायातो रामपार्श्वं स वानरः ॥ १.१४३.३७ ॥
जग्ध्वा फलं मधुवने दृष्टा सीतत्यवेदयत्
वेणीरत्नञ्च रामाय रामो लङ्कापुर्री ययौ ॥ १.१४३.३८ ॥
ससुग्रीवः स हनुमान्सांगदश्च सलक्ष्मणः
विभीषणोऽपि सम्प्राप्तः शरणं राघवं प्रति ॥ १.१४३.३९ ॥
लङ्कैश्वर्येष्वभ्यषिञ्चद्रामस्तं रावणानुजम्
रामो नलेन सेतुञ्च कृत्वाब्धौ चोत्ततार तम् ॥ १.१४३.४० ॥
सुवेलावस्थितश्चैव पुरीं लङ्कां ददर्शह
अथ ते वानरा वीरा नीलाङ्गदनलादयः ॥ १.१४३.४१ ॥
धूम्रधूम्राक्षवीरेन्द्रा जाम्बवत्प्रमुखास्तदा
मैन्दद्विविदमुख्यास्ते पुरीं लङ्कां बभञ्जिरे ॥ १.१४३.४२ ॥
राक्षसांश्च महाकायान्कालाञ्जनचयोपमान्
रामः सलक्ष्मणो हत्वा सकपिः सर्वराक्षसान् ॥ १.१४३.४३ ॥
विद्युज्जिह्वञ्च धूम्राक्षं देवान्तकनरान्त कौ
महोदरमहापार्श्वावतिकायं महाबलम् ॥ १.१४३.४४ ॥
कुम्भं निकुम्भं मत्तञ्च मकराक्षं ह्यकम्पनम्
प्रहस्तं वीरमुन्मत्तं कुम्भकर्णं महाबलम् ॥ १.१४३.४५ ॥
रावणिं लक्ष्मणोऽच्छिन्त ह्यस्त्राद्यै राघवो बली
निकृत्य बाहुचक्राणि रावणन्तु न्यपातयन् ॥ १.१४३.४६ ॥
सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके स्थितः
सवानरः समायातो ह्ययोध्यां प्रवरां पुरीम् ॥ १.१४३.४७ ॥
तत्र राज्यं चकाराथ पुत्त्रवत्पालयन्प्रजाः
दशाश्वमेधानाहृत्य गयाशिरसि पातनम् ॥ १.१४३.४८ ॥
पिण्डानां विधिवत्कृत्वा दत्त्वा दानानि राघवः
पुत्रौ कुशलवौ दृष्ट्वा तौ च राज्येऽभ्यषेचयत् ॥ १.१४३.४९ ॥
एकादशसहस्राणि रामो राज्यमकारयत्
शत्रुघ्नो लवणं जघ्ने शैलूषं भतस्ततः ॥ १.१४३.५० ॥
अगस्त्यादीन्मुनीन्नत्वा श्रुत्वोत्पत्तिञ्च रक्षसाम्
स्वर्गं गतो जनैः सार्धमयोध्यास्थैः कृतार्थकः ॥ १.१४३.५१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रामायणवर्णनं नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १४४
ब्रह्मोवाच
हरिवंशं प्रवक्ष्यामि कृष्णमाहात्म्यमुत्तमम्
वसुदेवात्तु देवक्यां वासुदेवो बलोऽभवत् ॥ १.१४४.१ ॥
धर्मादिरक्षणार्थाय ह्यधर्मादिविनष्टये
कृष्णः पीत्वा स्तनौ गाढं पूतनामनयत्क्षयम् ॥ १.१४४.२ ॥
शकटः परिवृत्तोऽथ भग्नौ च यमलार्जुनौ
दमितः कालियो नागो धेनुको विनिपातितः ॥ १.१४४.३ ॥
धृतो गोवर्धनः शैल इन्द्रेण परिपूजितः
भारावतरणं चक्रे प्रतिज्ञां कृतवान्हरिः ॥ १.१४४.४ ॥
रक्षणायार्जुनादेश्च ह्यरिष्टादिर्निपातितः
केशी विनिहतो दैत्यो गोपाद्याः परितोषिताः ॥ १.१४४.५ ॥
चाणूरो मुष्टिको मल्लः कंसो मञ्चान्निपातितः
रुक्मिणीसत्यभामाद्याः ह्यष्टौ पत्न्यो हरेः पराः ॥ १.१४४.६ ॥
षोढश स्त्रीसहस्राणि ह्यन्यान्यास महात्मनः
तासां पुत्राश्च पौत्राद्याः शतशोऽथ सहस्रशः ॥ १.१४४.७ ॥
रुक्मिण्याञ्चैव प्रद्युम्नो न्यवधीच्छंबरञ्च यः
तस्य पुत्रोऽनिरुद्धोऽभूदुषाबाणसुतापतिः ॥ १.१४४.८ ॥
हरिशकरयोर्यत्र महायुद्धं बभूव ह
बाणबाहुसहस्रञ्च च्छिन्नं बाहुद्वयं ह्यभूत् ॥ १.१४४.९ ॥
नरको निहतो येन पारिजातं जहार यः
बलश्च शिसुपालश्च हतश्च द्विविदः कपिः ॥ १.१४४.१० ॥
अनिरुद्धादभूद्वज्रः स च राजा गते हरौ
सन्दीपनिं गुरुञ्चक्रे सपुत्रञ्च चकार सः
मथुरायां चोग्रसेनं पालनं च दिवौकसाम् ॥ १.१४४.११ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हरिवंशवर्णनं नाम चतुश्चात्वारिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १४५
ब्रह्मोवाच
भारतं संप्रवक्ष्यामि भारावतरणं भुवः
चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्ततः ॥ १.१४५.१ ॥
विष्णुनाभ्यब्जतो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः
सोमस्ततो बुधस्तस्मादिलायां च पुरूरवाः ॥ १.१४५.२ ॥
तस्यायुस्तत्र वंशेऽभूद्ययातिर्भरतः कुरुः
शन्तनुस्तस्य वंशेऽभूद्गङ्गायां शन्तनोः सुतः ॥ १.१४५.३ ॥
भीष्मः सर्वगुणैयुक्तो ब्रह्मवैवर्तपारगः ॥ १.१४५.४ ॥
शन्तनोः सत्यवत्यां च द्वौ पुत्रौ संबभूवतुः
चित्राङ्गदन्तु गन्धर्वः पुत्रं चित्राङ्गदोऽवधीत् ॥ १.१४५.५ ॥
अन्यो विचित्रवीर्योऽभूत्काशीराजसुतापतिः
विचित्रवीर्ये स्वर्याते व्यासात्तत्क्षेत्रतोऽभवत् ॥ १.१४५.६ ॥
धृतराष्टोऽम्बिकापुत्रः पाण्डुराम्बालिकासुतः
भुजिष्यायान्तु विदुरो गान्धार्यां धृतराष्ट्रतः ॥ १.१४५.७ ॥
दुर्योधनप्रधानास्तु शतसंख्या महाबलाः
पाण्डोः कुन्त्याञ्च माद्यां च पञ्च पुत्राः प्रजज्ञिरे ॥ १.१४५.८ ॥
युधिष्ठिरो भीमसेनो ह्यर्जुनो नकुलस्तथा
सहदेवश्च पञ्चैते महाबलपराक्रमाः ॥ १.१४५.९ ॥
कुरुपाण्डवयोर्वैरं दैवयो गाद्बभूव ह
दुर्योधनेनाधीरेण पाण्डवाः समुपद्रुताः ॥ १.१४५.१० ॥
दग्धा जतुगृहे वीरास्ते मुक्ताः स्वधियामलाः ॥ १.१४५.११ ॥
ततस्तदेकचक्रायां ब्राह्मणस्य निवेशने
विविशुस्ते महात्मानो निहत्य बकराक्षसम् ॥ १.१४५.१२ ॥
ततः पाञ्चालविषयेद्रौपद्यास्ते स्वयंवरम्
विज्ञाय वीर्यशुल्कान्तां पाण्डवा उपयेमिरे ॥ १.१४५.१३ ॥
द्रोणभीष्मानुमत्या तु धृतराष्ट्रः समानयत्
अर्द्वराज्यं ततः प्राप्ता इन्द्रप्रस्थे पुरोत्तमे ॥ १.१४५.१४ ॥
राजसूयन्ततश्चक्रुः सभां कृत्वा यतव्रताः
अर्जुनो द्वारवत्यान्तु सुभद्रां प्राप्तवान्प्रियाम्
वासुदेवस्य भगिनीमनुमत्या मुरद्विषः ॥ १.१४५.१५ ॥
नन्दिघोषं रथं दिव्यमग्नेर्घनुरनुत्तमम्
गाण्डीवं नाम तद्दिव्यं त्रिषु लोकेषु विश्रुतम्
अक्षयान्सायकांश्चैव तथाभेद्यञ्च दंशनम् ॥ १.१४५.१६ ॥
स तेन धनुषा वीरः पाण्डवो जातवेदसम्
कृष्णद्वितीयो बीभत्सुरतर्पयत वीर्यवान् ॥ १.१४५.१७ ॥
नृपान्दिग्विजये जित्वा रत्नान्यादाय वै ददौ
युधिष्ठिराय महते भ्रात्रे नीतिविदे मुदा ॥ १.१४५.१८ ॥
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः परिवारितः
जितो दुर्योधनेनैव मायाद्यूतेन पापिना
कर्णदुः शासनमते स्थितेन शकुनेर्मते ॥ १.१४५.१९ ॥
अथ द्वादश वर्षाणि वने तेपुर्महत्तपः
सधौम्या द्रौपदीषष्ठा मुनिवृन्दाभिसंवृताः ॥ १.१४५.२० ॥
ययुर्विराटनगरं गुप्तरूपेण संश्रिताः
वर्षमेकं महाप्राज्ञा गोग्रहात्तमपालयन् ॥ १.१४५.२१ ॥
तते याताः स्वकं राष्ट्रं प्रार्थयामासुरादृताः
पञ्चग्रामानर्धराज्याद्वीरा दुर्योधनं नृपम् ॥ १.१४५.२२ ॥
नाप्तवन्तः कुरुक्षेत्रे युद्धञ्चक्रुर्बलान्विताः
अक्षौहिणीभिर्दिव्याभिः सप्तभिः परिवारिताः ॥ १.१४५.२३ ॥
एकादशभिरुद्युक्ता युक्ता दुर्योधनादयः
आसीद्युद्धं संकुलं च देवासुररणोपमम् ॥ १.१४५.२४ ॥
भीष्मः सेनापतिरभूदादौ दौर्योधने बले
पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह
शस्त्राशस्त्रि महाघोरं धसरात्रं शराशरि ॥ १.१४५.२५ ॥
शिखण्ड्यर्जुनबाणैश्च भीष्मः शरशतैश्चितः
उत्तरायणमावीक्ष्य ध्यात्वा देवं गदाधरम् ॥ १.१४५.२६ ॥
उक्त्वा धर्मान्बहुविधांस्तर्पयित्वा पितॄन्बहून्
आनन्दे तु पदे लीनो विमले मुक्तकिल्बिषे ॥ १.१४५.२७ ॥
ततो द्रोणो ययौ योद्धुं धृष्टद्युम्नेन बीर्यवान्
दिनानि पञ्च तद्युद्धमासीत्परमदारुणम् ॥ १.१४५.२८ ॥
यत्र ते पृथिवीपाला हताः पार्थेन संगरे
शोकसागरमासाद्य द्रोणोऽपि स्वर्गमाप्तवान् ॥ १.१४५.२९ ॥
ततः कर्णा ययौ योद्धुमर्जुनेन मिहात्मना
दिनद्वयं महायुद्धं कृत्वा पार्थास्त्रसागरे
निमग्नः सूर्यलोकन्तु ततः प्राप स वीर्यवान् ॥ १.१४५.३० ॥
ततः शल्यो ययौ योद्धुं धर्मराजेन धीमता
दिनार्धेन हतः शल्यो बाणैर्ज्वलनसन्निभैः ॥ १.१४५.३१ ॥
दुर्योधनोऽथ वेगेन गदामादाय वीर्यवान्
अभ्यधावत वै भीभं कालान्तकयमोपमः ॥ १.१४५.३२ ॥
अथ भीमेन वीरेण गदया विनिपातितः
अश्वत्थामा गतो द्रौणिः सुप्तसैन्यं ततो निशि ॥ १.१४५.३३ ॥
जघान बाहुवीर्येण पितुर्वधमनुस्मरन्
धृष्टद्युम्नं जघानाथ द्रौपदेयांश्च वीर्यवान् ॥ १.१४५.३४ ॥
द्रौपद्यां रुद्यमानायामश्वत्थाम्नः शिरोमणिम्
ऐषिकास्त्रेण तं जित्वा जग्राहार्जुन उत्तमम् ॥ १.१४५.३५ ॥
युधिष्ठिरः समाश्वास्य स्त्रीजनं शोकसंकुलम्
स्नात्वा सन्तर्प्य देवांश्च पितॄनथ पितामहान् ॥ १.१४५.३६ ॥
आश्वासितोऽथ भीष्मेण राज्यञ्चैवाकरोन्महत्
विष्णुमीजेऽश्वमेधेन विधिवद्दक्षिणावता ॥ १.१४५.३७ ॥
राज्ये परीक्षितं स्थाप्य यादवानां विनाशनम्
श्रुत्वा तु मौसले राजा जप्त्वा नामसहस्रकम् ॥ १.१४५.३८ ॥
विष्णोः स्वर्गं जगामाथ भीमाद्यैर्भ्रातृभिर्युतः
वासुदेवः पुनर्बुद्धसंमोहाय सुरद्विषाम् ॥ १.१४५.३९ ॥
कल्किर्विष्णुश्च भविता शंभलग्रामके पुनः
अश्वारूढोऽखिलांल्लोकांस्तदा भस्मीकरिष्यति ॥ १.१४५.४० ॥
देवादीनां रक्षणाय ह्यधर्महारणाय च
दुष्टानाञ्च वधार्थाय ह्यवतारं करोति च ॥ १.१४५.४१ ॥
यथा धन्वन्तरिर्वंशे जातः क्षीरोदमन्थने
देवादीनां जीवनाय ह्यायुर्वेदमुवाच ह ॥ १.१४५.४२ ॥
विश्वामित्रसुतायैव शुश्रुताय महात्मने
भारतांश्चावतारांश्च श्रुत्वा स्वर्गं व्रजेन्नरः ॥ १.१४५.४३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भारतादिवर्णनं नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १४६
धन्वन्तरिरुवाच
सर्वरोगनिदानञ्च वक्ष्ये सुश्रुत तत्त्वतः
आत्रेयाद्यैर्मुनिवरैर्यथा पूर्वमुदीरितम् ॥ १.१४६.१ ॥
रोगः पाप्मा ज्वरो व्याधिर्विकारो दुष्ट आमयः
यक्ष्मातङ्कगदा बाधाः शब्दाः पर्यायवाचिनः ॥ १.१४६.२ ॥
निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा
संप्राप्तिश्चैति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ १.१४६.३ ॥
निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः
निदानमाहुः पर्यायैः प्राग्रूपं येन लक्ष्यते ॥ १.१४६.४ ॥
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः
लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ॥ १.१४६.५ ॥
तदेव व्यक्ततां यातं रूपमित्यभिधीयते
संस्थानां व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः ॥ १.१४६.६ ॥
हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम्
औषधान्नविहाराणामुपयोगं सुखावहम् ॥ १.१४६.७ ॥
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः
विपरीतोऽनुपशयो व्याध्यसात्म्येतिसंज्ञितः ॥ १.१४६.८ ॥
यथा दुष्टेन दोषेण यथा चानुविसर्पता
निर्वृत्तिरामयस्यासौ संप्राप्तिरभिधीयते ॥ १.१४६.९ ॥
संख्याविकल्पप्राधान्यबलकालविशेषतः
सा भिद्यते यथात्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति ॥ १.१४६.१० ॥
दोषाणां समवेतानां विकल्पोशांशकल्पना
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ॥ १.१४६.११ ॥
हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषषणम्
नक्तन्दिनार्धभुक्तांशैर्व्याधिकालो यथामलम् ॥ १.१४६.१२ ॥
इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते
सर्वेषामेव रोगाणां निदानं कुपिता मलाः ॥ १.१४६.१३ ॥
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम्
अहितस्त्रिविधो योगस्त्रयाणां प्रागुदाहृतः ॥ १.१४६.१४ ॥
तिक्तोषणकषायाम्लरूक्षाप्रमितयोजनैः
धावनोदीरणनिशाजागरात्युच्चभाषणैः ॥ १.१४६.१५ ॥
क्रियाभियोगबीशोकचिन्ताव्यायाममैथुनैः
ग्रीष्माहोरात्रभुक्त्यन्ते प्रकुप्यति समीरणः ॥ १.१४६.१६ ॥
पित्तं कट्वालतीक्ष्णोष्णकटुक्रोधविदाहिभिः
शरन्मध्याह्नरात्र्यर्धविदाहसमयेषु च ॥ १.१४६.१७ ॥
स्वाद्वम्ललवणस्निग्धगुर्वभिष्यन्दिशीतलैः
आस्यास्वप्नसुखाजीर्णदिवास्वप्नादिबृंहणैः ॥ १.१४६.१८ ॥
प्रिच्छर्दनाद्ययोगेन भुक्तान्नस्याप्यजीर्णके
पूर्वाह्ने पूर्वरात्रे च श्लेष्मा वक्ष्यामि सङ्करान् ॥ १.१४६.१९ ॥
मिश्रीभावात्समस्तानां सन्निपातस्तथा पुनः
संकीर्णाजीर्णविषमविरुद्धाद्यशनादिभिः ॥ १.१४६.२० ॥
व्यापन्नमद्यपानीयशुष्कशाकाममूलकैः
पिण्याकमृत्यवसरपूतिशुष्ककृशमिषैः ॥ १.१४६.२१ ॥
दोषत्रयकरैस्तैस्तैस्तथान्नपरिवर्ततः
धातोर्दुष्टात्पुरो वाताद्द्विग्रहावेशविप्लवात् ॥ १.१४६.२२ ॥
दुष्टामान्नैरतिश्लैष्मग्रहैर्जन्मर्क्षपीडनात्
मिथ्यायोगाच्च विविधात्पापानाञ्च निषेवणात्
स्त्रीणां प्रसववैषम्यात्तथा मिथ्योपचारतः ॥ १.१४६.२३ ॥
प्रतिरोगमिति क्रुद्धा रोगविध्यनुगामिनः
रसायनं प्रपद्याशु दोषा देहे विकुर्वते ॥ १.१४६.२४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे सर्वरोगनिदानं नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १४७
धन्वन्तरिरुवाच
वक्ष्ये ज्वरनिदानं हि सर्वज्वरविबुद्धये
ज्वरो रोगपतिः पाप्मा मृत्युराजोऽशनोऽन्तकः
क्रुद्धदक्षाध्वरध्वंसिरुद्रोर्ध्वनयनोद्भवः ॥ १.१४७.१ ॥
तत्सन्तापो मोहमयः सन्तापात्मापचारजः
विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते ॥ १.१४७.२ ॥
पाकलो गजेष्वभितापो वाजिष्वलर्कः कुक्रुरेषु
इन्द्रमदो जलदेष्वप्सु नीलिका ज्योतिरोषधीषु भूम्यामूषरो नाम ॥ १.१४७.३ ॥
हृल्लासश्छर्दनं कासः स्तंभः शैत्य त्वगादिषु
अङ्गेषु च समुद्भूताः पिडकाश्च कफोद्भवे ॥ १.१४७.४ ॥
काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा
निदानोक्तोनुपशयो विपरीतोपशायिता ॥ १.१४७.५ ॥
अरुचिश्चाविपाकश्च स्तंभमालस्यमेव च
हृद्दाहश्च विपाकश्च तन्द्रा चालस्यमेव च
वस्तिर्विमर्दावनया दोषाणामप्रवर्तनम् ॥ १.१४७.६ ॥
लालाप्रसेको हृल्लासः क्षुन्नाशो रसदं मुखम्
स्वच्छमुष्णगुरुत्वञ्च गात्राणां बहुमूत्रता
न विजीर्णं न च म्लानिर्ज्वरस्यामस्य लक्षणम् ॥ १.१४७.७ ॥
क्षुत्क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम्
दोषप्रवृत्तिरष्टाहान्निरामज्वरलक्षणम् ॥ १.१४७.८ ॥
यथा स्वलिङ्गं संसर्गे ज्वरसंसर्गजोऽपि वा
शिरोर्तिमूर्छावमिदेहदाहकण्ठास्यशोषारुचिपर्वभेदाः
उन्निद्रता संभ्रमरोमहर्षा जृंभातिवाक्त्वं पवनात्सपित्तात् ॥ १.१४७.९ ॥
तापहान्यरुचिपर्वशिरोरुक्ष्ठीवनश्वसनकासविवर्णाः
शीतजाड्यतिमिरभ्रमितन्द्राश्लेष्मवातजनितज्वरलिङ्गम् ॥ १.१४७.१० ॥
शीतस्तम्भस्वेददाहाव्यवस्थास्तृष्णा कासः श्लेष्मपित्तप्रवृत्तिः
मोहस्तन्द्रालिप्ततिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य ॥ १.१४७.११ ॥
सर्वजो लक्षणैः सर्वैर्दाहोऽत्र च मुहुर्मुहुः
तदुच्छीतं महा निद्रा दिवा जागरणं निशि ॥ १.१४७.१२ ॥
सदा वा नैव वा निद्रा महास्वेदो हि नैव वा
गीतनर्तनहास्यादिः प्रकृतेहाप्रवर्तनम् ॥ १.१४७.१३ ॥
साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणी
अक्षिणी पिण्डिकापार्श्वशिरः पर्वास्थिरुग्भ्रमः ॥ १.१४७.१४ ॥
सस्वनौ सरुजौ कर्णौ महाशीतौ हि नैव वा
परिदग्धा खरा जिह्वा गुरुस्त्रस्ताङ्गसन्धिता ॥ १.१४७.१५ ॥
ष्ठीवनं रक्तपित्तस्य लोठनं शिरसोऽतितृट्
कोष्ठानां श्यावरक्तानां मण्डलानां च दर्शनम् ॥ १.१४७.१६ ॥
हृद्व्यथा मलंससर्गः प्रवृत्तिर्वाल्पशोऽति वा
स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापितः ॥ १.१४७.१७ ॥
दोषपाकश्चिरं तन्द्रा प्रततं कण्ठकूजनम्
सन्निपातमभिन्यासं तं ब्रूयाच्च हतौजसम् ॥ १.१४७.१८ ॥
वायुना कण्ठरुद्धेन पित्तमन्तः सुपीडितम्
व्यवायित्वाच्च सौख्याच्च बहिर्मर्गं प्रपद्यते
तेन हारिद्रनेत्रत्वं सन्निपातोद्भवेज्वरे ॥ १.१४७.१९ ॥
दोषे विवृद्धे नष्टेऽग्नौ सर्वसंपूर्णलक्षणः
सान्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्ततोऽन्यथा ॥ १.१४७.२० ॥
अन्यत्र सन्निपातोत्थं यत्र पित्तं पृथक्स्थितम्
त्वचि कोष्ठे च वा दाहं विदधाति पुरोऽनु वा ॥ १.१४७.२१ ॥
तद्वद्वातकफे शीतं दाहादिर्दुस्तरस्तयोः
शीतादौ तत्र पित्तेन कफे स्यान्दितशोषिते ॥ १.१४७.२२ ॥
पित्ते शान्तेऽथ वै मूर्छा मदस्तृष्णा च जायते
दाहादौ पुनरन्तेषु तन्द्रालस्ये वमिः क्रमात् ॥ १.१४७.२३ ॥
आगन्तुरभिगाताभिषङ्गशापाभिचारतः
चतुर्धा तु कृतः स्वेदो दाहाद्यैरभिघातजः ॥ १.१४७.२४ ॥
श्रमाच्च तस्मिन्पवनः प्रायो रक्तं प्रदूषयन्
सव्यथाशोकवैवर्ण्यं सरुजं कुरुते ज्वरम् ॥ १.१४७.२५ ॥
ग्रहावेशौषधिविषक्रोधभीशोककामजः ॥ १.१४७.२६ ॥
अभिषङ्गग्रहोऽप्यस्मिन्नकस्माद्वासरोदने
ओषधीगन्धजे मूर्छा शिरोरुग्वमथुः क्षयः ॥ १.१४७.२७ ॥
विषान्मूर्छातिसारश्च श्यावता दाहकृद्भ्रमः
क्रोधात्कम्पः शिरोरुक्च प्रलापो भयशोकजे ॥ १.१४७.२८ ॥
कामाद्भ्रमोऽरुचिर्दाहो ह्रीनिद्राधीधृतिक्षयाः
ग्रहादौ सन्निपातस्य रूपादौ मरुतस्तयोः ॥ १.१४७.२९ ॥
कोपात्कोपेऽपि पित्तस्य यौ तु शापाभिचारजौ
सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ ॥ १.१४७.३० ॥
तन्त्रा भिचारिकैर्मन्त्रैर्दूयमानञ्च तप्यते
पूर्वञ्चैतस्ततो देहस्ततो विस्फोटदिग्भ्रमैः ॥ १.१४७.३१ ॥
सदाहमूर्छाग्रस्तस्य प्रत्यहं वर्धते ज्वरः
इति ज्वरोऽष्टधा दृष्टः समासाद्द्विबिधस्तु सः ॥ १.१४७.३२ ॥
शारीरो मानसः सौम्यस्तीक्ष्णोंन्तर्बहिराश्रयः
प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः ॥ १.१४७.३३ ॥
पूर्वं शरिरे शरीरे तापो मनसि मानसे
पवनैर्योगवाहित्वाच्छीतं श्लेष्मयुते भवेत् ॥ १.१४७.३४ ॥
दाहः पित्तयुते मिश्रं मिश्रेऽन्तः संश्रये पुनः
ज्वरेऽधिकं विकाराः स्युरन्तः क्षोभो मलग्रहः ॥ १.१४७.३५ ॥
बहिरेव बहिर्वेगे तापोऽपि च स साधितः
वर्षाशरद्वसन्तेषु वाताद्यैः प्रकृतः क्रमात् ॥ १.१४७.३६ ॥
वैकृतोऽन्यः स दुः साध्यः प्रायश्च प्राकृतोऽनिलात्
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितं ज्वरम् ॥ १.१४७.३७ ॥
कुर्याच्च पित्तं शरदि तस्य चानुचरः कफः
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् ॥ १.१४७.३८ ॥
कफो वसन्ते तमपि वातपित्तं भवेदनु
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः ॥ १.१४७.३९ ॥
सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः
ज्वरोपद्रवतीक्ष्णत्वं मन्दाग्निर्बहुमूत्रता ॥ १.१४७.४० ॥
न प्रवृत्तिर्न विजीर्णा न क्षुत्सामज्वराकृतिः
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः ॥ १.१४७.४१ ॥
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्
जीर्णतामविपर्यासात्सप्तरात्रं च लङ्घनम् ॥ १.१४७.४२ ॥
ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात्
प्रायशः सन्निपातेन भूयसामुपदिश्यते ॥ १.१४७.४३ ॥
सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ
धातुमूत्रशकृद्वाहिस्नोत सां व्यापिनो मलाः ॥ १.१४७.४४ ॥
तापयन्तस्तनुं सर्वां तुल्यदृष्ट्यादिवर्धिताः
बलिनो गुरवस्तस्याविशेषेण रसाश्रिताः ॥ १.१४७.४५ ॥
सततं निष्प्रतिद्वन्द्वाज्वरं कुर्युः सुदुः सहम्
मलं ज्वरोष्णधातून्वा स शीघ्रं क्षपयेत्ततः ॥ १.१४७.४६ ॥
सर्वाकारं रसादीनां शुद्ध्यासुद्ध्यापि वा क्रमात्
वातपित्तकफैः सप्तद शद्वादशवासरात् ॥ १.१४७.४७ ॥
प्रायोऽनुयाति मर्यादां मोक्षाय च वधाय च
इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः ॥ १.१४७.४८ ॥
द्विगुणा सप्तमी या च नवम्येकादशी तथा
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ॥ १.१४७.४९ ॥
शुद्ध्याशुद्ध्या ज्वरः कालं दीर्घमप्यत्र वर्तते
कृशानां व्याधियुक्तानां मिथ्याहारादिसेविनाम् ॥ १.१४७.५० ॥
अल्पोऽपि दोषो दुष्ट्यादेर्लब्ध्वान्यतमतो बलम्
स प्रत्यनीको विषमं यस्माद्वृद्धिक्षयान्वितः ॥ १.१४७.५१ ॥
सविक्षेपो ज्वरं कुर्याद्विषमक्षयवृद्धिभाक्
दोषः प्रवर्तते तेषां स्वे काले ज्वरयन्बली ॥ १.१४७.५२ ॥
निवर्तते पुनश्चैव प्रत्यनीकबलाबलः
क्षीणदोषो ज्वरः सूक्ष्मो रसादिष्वेव लीयते ॥ १.१४७.५३ ॥
लीनत्वात्कार्श्यवैवर्ण्यजाड्यादीनां दधाति सः
आसन्नविकृतास्यत्वात्स्रोतसां रसवाहिनाम् ॥ १.१४७.५४ ॥
आशु सर्वस्य वपुषो व्याप्तिदोषो न जायते
सन्तः सततस्तेन विपरीतो विपर्ययात् ॥ १.१४७.५५ ॥
विषमो विषमारम्भः क्षपाकालेन सङ्गवान्
दोषो रक्ताश्रयः प्रायः करोति सन्ततं ज्वरम् ॥ १.१४७.५६ ॥
अहोरात्रस्य सन्धौ स्यात्सकृदन्येद्युराश्रितः
तस्मिन्मांसवहा नाडी मेदोनाडी तृतीयके ॥ १.१४७.५७ ॥
ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः
सपृष्ठस्यानिलकफात्स चैकाहान्तरः स्मृतः ॥ १.१४७.५८ ॥
चतुर्थको मलैर्मेदोमज्जास्थ्यन्यतरे स्थितः
मज्जास्थ एव ह्यपरः प्रभावमनुदर्शयेत् ॥ १.१४७.५९ ॥
द्विधा कफोणिजङ्घाभ्यां स पूर्वं शिरसानिलात्
अस्थिमज्जोरुपगतश्चतुर्थकविपर्ययः ॥ १.१४७.६० ॥
त्रिधा त्र्यहं ज्वरयति दिनमेकन्तु मुञ्चति
बला बलेन दोषणामन्यचेष्टादिजन्मनाम् ॥ १.१४७.६१ ॥
पक्रानामविपर्यासात्सप्तरात्रञ्च लङ्घयेत्
ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदातदा ॥ १.१४७.६२ ॥
गम्भीरधातुचारित्वात्सन्निपातेन सम्भवात्
तुल्योच्छ्रयाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः ॥ १.१४७.६३ ॥
सूक्षामात्सूक्ष्मज्वरेष्वेषु दूरद्दूरतरेषु च
दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत् ॥ १.१४७.६४ ॥
याति देहञ्च नाशेषं सन्तापादीन्करोत्यतः
क्रमो यत्नेन विच्छिन्नः सतापो लक्ष्यते ज्वरः ॥ १.१४७.६५ ॥
विषमो विषमारम्भः क्षपाकालानुसारवान्
यथोत्तरं मन्दगतिर्मन्दशक्तिर्यथायथम् ॥ १.१४७.६६ ॥
कालेनाप्नोति सदृशान्स रसादींस्तथातथा
दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च ॥ १.१४७.६७ ॥
भूमौ स्थितं जलैः सिक्तं कालं नैव प्रतीक्षते
अङ्कुराय यथा बीजं दोषबीजं भवेत्तथा ॥ १.१४७.६८ ॥
वेगं कृत्वाविषं यद्वदाशये नयते बलम्
कुप्यत्याप्तबलं भूयः कालदोषविषन्तथा ॥ १.१४७.६९ ॥
एवं ज्वराः प्रवर्तन्ते विषमाः सततादयः
उत्क्लेशो गौरवं दैन्यं भङ्गोऽङ्गानां विजृम्भणम् ॥ १.१४७.७० ॥
अरोचको वमिः श्वासः सर्वस्मिन्रसगे ज्वरे
रक्तनिष्ठीवनं तृष्णा रूक्षोष्णं पीडकोद्यमः ॥ १.१४७.७१ ॥
दाहरागभ्रममदप्रलापो रक्तसंश्रिते
तृड्ग्लानिः स्पृष्टवर्चस्कमन्तर्दाहो भ्रमस्तमः ॥ १.१४७.७२ ॥
दौर्गन्ध्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते
स्वेदोऽतितृष्णा वमनं दौर्गन्ध्यं वा सहिष्णुता ॥ १.१४७.७३ ॥
प्रलापो ग्लानिररुचिरस्थिगे त्वस्थिभेदनम्
दोषप्रवृत्तिरुद्बोधः श्वासांगक्षेपकूजनम् ॥ १.१४७.७४ ॥
अन्तर्दाहो बहिः शैत्यं श्वासो हिक्का हि मज्जमे
तमसो दर्शनं मर्मच्छेदनं स्तब्धमेढ्रता ॥ १.१४७.७५ ॥
शुक्रप्रवृत्तौ मृत्युस्तु जायते शुक्रसंश्रये
उत्तरोत्तरदुः साध्याः पञ्चान्ये तु विपर्यये ॥ १.१४७.७६ ॥
प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेण च
मन्दज्वरप्रलापस्तु सशीतः स्यात्प्रलेपकः ॥ १.१४७.७७ ॥
नित्यं मन्दज्वरो रूक्षः शीतकृच्छ्रेण गच्छति
स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेदङ्गबलाशकः ॥ १.१४७.७८ ॥
हरिद्राभेदवर्णाभस्तद्वल्लेपं प्रमेहति
स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः ॥ १.१४७.७९ ॥
कफवातौ समौ यत्र हीनपित्तस्य देहिनः
तीक्ष्णोऽथ वा दिवा मन्दो जायते रात्रिजो ज्वरः ॥ १.१४७.८० ॥
दिवाकरार्पितबले व्यायामाच्च विशोषिते
शरीरे नियतं वाताज्ज्वरः स्यात्पौर्वरात्रिकः ॥ १.१४७.८१ ॥
आमाशये यदात्मस्थे श्लेष्मपित्ते ह्यधः स्थिते
तदर्धं शीतलं देहे ह्यर्धं चोष्णं प्रजायते ॥ १.१४७.८२ ॥
काये पित्तं यदा न्यस्तं श्लेष्मा चान्ते व्यवस्थितः
उष्णत्वं तेन देहस्य शीतत्वं करपादयोः ॥ १.१४७.८३ ॥
रसरक्ताश्रयः साध्यो मांस मेदोगतश्च यः
अस्थिमज्जागतः कृच्छ्रस्तैस्तैः स्वाङ्गैर्हतप्रभः ॥ १.१४७.८४ ॥
विसंज्ञो ज्रवेगार्तः सक्रोध इव वीक्षते
सदोषमुष्णञ्च सदा शकृन्मुञ्चति वेगवत् ॥ १.१४७.८५ ॥
देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम्
स्वेदः क्षुवः प्रकृतियोगिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगत्ज्वरलक्षणानि ॥ १.१४७.८६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरनिदानादिकं नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १४८
धन्वन्तरिरुवाच
अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम्
भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः ॥ १.१४८.१ ॥
कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरति सेवितैः
कुपितं पैत्तिकैः पित्तं द्रवं रक्तञ्च मूर्छति ॥ १.१४८.२ ॥
तैर्मिथस्तुल्यरूपत्वमागम्य व्याप्नुवंस्तनुम्
पित्तरक्तस्य विकृतेः संसर्गाद्दषणादपि ॥ १.१४८.३ ॥
गन्धवर्णानुवृत्तेषु रक्तेन व्यपदिश्यते
प्रभवत्यसृजः स्थानात्प्लीहतो यकृतश्च सः ॥ १.१४८.४ ॥
शिरोगुरुत्वमरुचिः शीतेच्छा धूमकोऽम्लकः
छर्धितश्छर्दिबै भत्स्यं कासः श्वासो भ्रमः क्लमः ॥ १.१४८.५ ॥
लोहितो न हितो मत्स्यगन्धास्यात्वञ्च विज्वरे
रक्तहारिद्रहरितवर्णता नयनादिषु ॥ १.१४८.६ ॥
नीललोहित पीतानां वर्णानामविवेचनम्
स्वप्ने इन्मादधर्मित्वं भवत्यस्मिन्भविष्यति ॥ १.१४८.७ ॥
उर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते ॥ १.१४८.८ ॥
ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधितम्
बह्वौषधानि पित्तस्य विरेको हि वरौषधम् ॥ १.१४८.९ ॥
अनुबन्धी कफो यत्र तत्र तस्यापि शुद्धिकृत्
कषायाः स्वादवो यस्य विशुद्धौ श्लेष्मला हिताः ॥ १.१४८.१० ॥
कटुतिक्तकषाया वा ये निसर्गात्कफावहाः
अधो याप्यञ्च नायुष्मांस्तत्प्रच्छर्दनसाधकम् ॥ १.१४८.११ ॥
अल्पौषधञ्च पित्तस्य वमनं नावमौषधम्
अनुबन्धि बलं यस्य शान्तपित्तनरस्य च ॥ १.१४८.१२ ॥
कषायश्च हितस्तस्य मधुरा एव केवलम्
कफमारुतसंस्पृष्टमसाध्यमुपनामनम् ॥ १.१४८.१३ ॥
असह्यं प्रतिलोमत्वादसाध्यादौषधस्य च
न हि संशोधनं किञ्चिदस्य च प्रतिलोमिनः ॥ १.१४८.१४ ॥
शोधनं प्रतिलोमञ्च रक्तपित्तेऽभिसर्जितम्
एवमेवोपशमनं संशोधनमिहेष्यते ॥ १.१४८.१५ ॥
संसृष्टेषु हि दोषेषु सर्वथा छर्दनं हितम्
तत्र दोषोऽत्र गमनं शिवास्त्र इव लक्ष्यते ॥ १.१४८.१६ ॥
उपद्रवाश्च विकृतिं फलतस्तेषु साधितम् ॥ १.१४८.१७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रक्तपित्तनिदानं नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १४९
धन्वन्तरिरुवाच
आशुकारी यतः कासः स एवातः प्रवक्ष्यते
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः ॥ १.१४९.१ ॥
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम्
तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः ॥ १.१४९.२ ॥
शुष्ककर्णास्यकण्ठत्वं तत्राधोविहितोऽनिलः
ऊर्ध्वं प्रवृत्तः प्राप्यो रस्तस्मिन्कण्ठे च संसृजन् ॥ १.१४९.३ ॥
शिरास्रोतांसि संपूर्य ततोऽङ्गान्युत्क्षिपन्ति च
क्षिपन्निवाक्षिणी क्लिष्टस्वरः पार्श्वे च पीडयन् ॥ १.१४९.४ ॥
प्रवर्तते सवक्रेण भिन्नकांस्योपमध्वनिः
हृत्पार्श्वेरुशिरः शूलमोहक्षोभस्वरक्षयान् ॥ १.१४९.५ ॥
करोति शुष्ककासञ्च महावेगरुजास्वनम्
सोंगहर्षो कफं शुष्कं कृछ्रान्मुक्त्वाल्पतां व्रजेत् ॥ १.१४९.६ ॥
पित्तात्पीताक्षिकत्वं च तिक्तास्यत्वं ज्वरो भ्रमः
पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमको मदः ॥ १.१४९.७ ॥
प्रततं कासवेगे च ज्योतिषामिव दर्शनम्
कफादुरोऽल्परुङ्मूर्धि हृदयं स्तिमिते गुरु ॥ १.१४९.८ ॥
कण्ठे प्रलेपमदजं पीनसच्छर्द्यरोचकाः
रोमहर्षो धनस्निग्धंश्लेष्मणाञ्च प्रवर्तनम् ॥ १.१४९.९ ॥
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम्
उपस्यन्तः क्षतो वायुः पित्तेनानुगतो बली ॥ १.१४९.१० ॥
कुपितः कुरुते कासं कफं तेन सशोणितम्
पीतं श्यावञ्च शुष्कञ्च ग्रथितं कुपितं बहु ॥ १.१४९.११ ॥
ष्ठीवेत्कण्ठेन रुजता विभिन्नेनैव चोरसा
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ॥ १.१४९.१२ ॥
दुः खस्पर्शेन शूलेन भेदपीडाहितापिना
पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान् ॥ १.१४९.१३ ॥
पारावत इवोत्कूजन्पार्श्वशूली ततोऽस्य च
कफाद्यैर्वमनं पक्तिबलवर्णञ्च हीयते ॥ १.१४९.१४ ॥
क्षीणस्य सासृङ्मूत्रत्वं श्वासपृष्टकटिग्रहः
षायुप्रधानाः कुपिता धावतो राजयक्ष्मणः ॥ १.१४९.१५ ॥
कर्वन्ति यक्ष्मायतने कासं ष्ठीवत्कफं ततः
पूतिपूयोपमं वीतं मिश्रं हरितलोहितम् ॥ १.१४९.१६ ॥
सुप्यते तुद्यत इव हृदयं पचतीव च
अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः ॥ १.१४९.१७ ॥
स्निग्धप्रसन्नवक्रत्वं श्रीमद्दर्शननेत्रता
ततोऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च ॥ १.१४९.१८ ॥
इत्येष क्षयजः कास क्षीणानां देहनाशनः
याप्यौ वा बलिनां तद्वत्क्षतजोऽपि नवौ तु तौ ॥ १.१४९.१९ ॥
सिध्येतामपि सामर्थ्यात्साध्यादौ च पृथक्क्रमः
मिश्रा याप्याश्च ये सर्वे जरसः स्थविरस्य च ॥ १.१४९.२० ॥
कासश्वासक्षयच्छर्दिस्वरसादादयो गदाः
भवन्त्युपेक्षया यस्मात्तस्मात्तास्त्वरया जयेत् ॥ १.१४९.२१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कासनिदाना नामैकोनपञ्चाशदुत्तरशततमोध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १५०
धन्वन्तरिरुवाच
अथातः श्वासरोगस्य निदानं प्रवदाम्यहम्
कासवृद्ध्या भवेच्छ्वासः पूर्वैर्वा दोषकोपनैः ॥ १.१५०.१ ॥
आमातिसारवमथुविषपाण्डुज्वरैरपि
रजोधूमानिलैर्मर्मघातादपि हिमाम्बुना ॥ १.१५०.२ ॥
क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः
कफोपरुद्धगमनपवनो विष्वगास्थितः ॥ १.१५०.३ ॥
प्राणोदकान्नवाहीनि दुष्टस्रोतांसि दूषयन्
उरः स्थः कुरुते श्वासमामाशयसमुद्भवम् ॥ १.१५०.४ ॥
प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता
आनाहः शङ्खभेदश्च तत्रायासोऽतिभोजनैः ॥ १.१५०.५ ॥
प्रेरितः प्रेरयन्क्षुद्रं स्वयं स समलं मरुत्
प्रतिलोमं शिरा गच्छेदुदीर्य पवनः कफम् ॥ १.१५०.६ ॥
परिगृह्यशिरोग्रीवमुरः पार्श्वे च पीडयन्
कासं घुर्घुरकं मोहमरुचिम्पीनसं भृशम् ॥ १.१५०.७ ॥
करोति तीव्रवेगञ्च श्वासं प्राणोपतापिनम्
प्रताम्येत्तस्य वेगेनष्ठीवनान्ते क्षणं सुखी ॥ १.१५०.८ ॥
कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्यमर्हति
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान् ॥ १.१५०.९ ॥
विशुष्कास्यो मुहुः श्वासः काङ्क्षत्युष्णं सवेपथुः
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते ॥ १.१५०.१० ॥
स याप्यस्तमकः साध्यो नरस्य बलिनो भवेत्
ज्वरमूर्छावतः सीतैर्न शाम्येत्प्रथमस्तु सः ॥ १.१५०.११ ॥
कासश्वसितवच्छीर्णमर्मच्छेदरुजार्दितः
सस्वेदमूर्छः सानाहो बस्तिदाहविबोधवान् ॥ १.१५०.१२ ॥
अधोदृष्टिः शुताक्षस्तु स्निह्यद्रक्तैकलोचनः
शुष्कास्यः प्रलपन्दीनो नष्टच्छायो विचेतनः ॥ १.१५०.१३ ॥
महातामहता दीनो नादेन श्वसिति क्रथन्
उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम् ॥ १.१५०.१४ ॥
प्रनष्टज्ञानविज्ञानो विभ्रान्तनयनाननः
नेत्रे समाक्षिपन्बद्धमूत्रवर्चा विशीर्णवाक् ॥ १.१५०.१५ ॥
शुष्ककण्ठो मुहुश्चैव कर्णशङ्खाशिरोऽतिरुक्
यो दीर्घमुच्छ्वसित्यूर्ध्वं न च प्रत्याहरत्यधः ॥ १.१५०.१६ ॥
श्लेष्मावृतमुखश्रोत्रः क्रुद्धगन्धवहार्दितः
ऊर्ध्वं समीक्षते भ्रान्तमक्षिणी परितः क्षिपन् ॥ १.१५०.१७ ॥
मर्मसु च्छिद्यमानेषु परिदेवी निरुद्धवाक्
एते सिध्येयुरव्यक्ताः व्यक्ताः प्राणहरा ध्रुवम् ॥ १.१५०.१८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्वासनिदाना नाम पञ्चाशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १५१
धन्वन्तरिरुवाच
हिक्रारोगनिदानञ्च वक्ष्ये सुश्रुत ! तच्छृणु
श्वासैकहेतुः प्राग्रूपं संख्या प्रकृतिसंश्रया ॥ १.१५१.१ ॥
हिक्रा भक्ष्योद्भवा क्षुद्रा यमला महतीति च
गम्भीरा च मरुत्तत्र त्वरयायुक्तिसेवितैः ॥ १.१५१.२ ॥
रूक्षतीक्ष्णखराशान्तैरन्नपानैः प्रपीडितः
करोति हिक्रां श्वसनः मन्दशब्दां क्षुधानुगाम् ॥ १.१५१.३ ॥
समं सन्ध्यान्नपानेन या प्रयाति च सान्नजा
आयासात्पवनः क्रुद्धः क्षुद्रां हिक्रां प्रवर्तयेत् ॥ १.१५१.४ ॥
जत्रुमूलात्परिसृता मन्दवेगवन्ती हि सा
वृद्धिमायासतो याति भुक्तमात्रे च मार्दबम् ॥ १.१५१.५ ॥
चिरेण यमलैर्वेगैर्या हिक्रा संप्रवर्तते
परिणामान्मुखे वृद्धिं परिणामे च गच्छति ॥ १.१५१.६ ॥
कम्पयन्ती शिरो ग्रीवां यमलां तां विनिर्दिशेत्
प्रलापच्छर्द्यतीसारनेत्रविप्लुतजृम्भिता ॥ १.१५१.७ ॥
यमला वेगिनी हिक्रा परिणामवती च सा
ध्वस्तभ्रूशङ्खयुग्मस्य श्रुतिविप्लुतचक्षुषः ॥ १.१५१.८ ॥
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुञ्चती
तुदन्ती मार्गमाणस्य कुर्वती मर्मघट्टनम् ॥ १.१५१.९ ॥
पृष्ठतो नमनं सार्ष्यं महाहिक्रा प्रवर्तते
महाशूला महाशब्दा महावेगा महाबला ॥ १.१५१.१० ॥
पक्राशयाच्च नाभेर्वा पूर्ववत्सा प्रवर्तते ॥ १.१५१.११ ॥
तद्रूपा सा महत्कुर्याञ्जृम्भणां गप्रसारणम्
गम्भीरेण निदानेन गम्भीरा तु सुसाधयेत् ॥ १.१५१.१२ ॥
आद्ये द्वे वर्जयेदन्ये सर्वलिङ्गां च वेगिनीम्
सर्वस्य संचितामस्य स्थविरस्य व्यवायिनः ॥ १.१५१.१३ ॥
व्याधिभिः क्षीणदेहस्य भक्तच्छेदकृशस्य च
सर्वेऽपि रोगा नाशाय न त्वेवं शाघ्रकारिणः ॥ १.१५१.१४ ॥
हिक्राश्वासौ यथा तौ हि मृत्युकाले कृतालयौ ॥ १.१५१.१५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हिक्रानिदाना नामैकपञ्चाशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १५२
धन्वन्तरिरुवाच
अथातो यक्ष्मरोगस्य निदानं प्रवदाम्यहम्
अनेकरोगानुगतो बहुरोगपुरोगमः ॥ १.१५२.१ ॥
राजयक्ष्मा क्षयः शोषो रोगराडिति कथ्यते
नक्षत्राणां द्विजानाञ्च राज्ञोऽभूद्यदयं पुरा ॥ १.१५२.२ ॥
यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः
देहौषधक्षयकृतेः क्षयस्तत्सम्भवाच्च सः ॥ १.१५२.३ ॥
रसादिशोषणाच्छोषो रोगराडिति राजवत्
साहसं वेगसंरोधः शुक्रौजः स्नेहसंक्षयः ॥ १.१५२.४ ॥
अन्नपानविधित्यागश्चत्वारस्तस्यहेतवः
तैरुदीर्णोऽनिलः पित्तं व्यर्थं चोदीर्य सर्वतः ॥ १.१५२.५ ॥
शरिरसन्धिमाविश्य ताः शिराः प्रतिपीडयन्
मुखानि स्रोतसां रुद्ध्वा तथैवातिविसृज्य वा ॥ १.१५२.६ ॥
मध्यमूर्ध्वमधस्तिर्यगव्यथां सञ्जनयेद्धृदः
रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं ज्वरः ॥ १.१५२.७ ॥
प्रसेको मुखमाधुर्यं मार्दवं वह्निदे हयोः
लौल्यभावोऽन्नपानादौ शुचावशुचिवीक्षणम् ॥ १.१५२.८ ॥
मक्षिकातृणकेशादिपातः प्रायोऽन्नपानयोः
हृल्लासश्छर्दिररुचिरस्नातेऽपि बलक्षयः ॥ १.१५२.९ ॥
पाण्योरुवक्षः पादास्यकुक्ष्यक्ष्णोरतिशुक्लता
बाह्वोः प्रतोदो जिह्वायाः काये बैभत्स्यदर्शनम् ॥ १.१५२.१० ॥
स्त्रीमद्यमांसप्रियता घृणिता मूर्धगुण्ठनम्
नखकेशास्थिवृद्धिश्च स्वप्ने चाभिभवो भवेत् ॥ १.१५२.११ ॥
पतनं कृकलासाहिकपिश्वापदपक्षिभिः
केशास्थितुषभस्मादितरौ समधिरोहणम् ॥ १.१५२.१२ ॥
शून्यानां ग्रामदेशानां दर्शनं शुष्यतोऽम्भसः
ज्योतिर्दिवि दवाग्नीनां ज्वलतां च महीरुहाम् ॥ १.१५२.१३ ॥
पीनसश्वासकासं च स्वरमूर्धरुजोऽरुचिः
ऊर्ध्वनिः श्वाससंशोषावधश्छर्दिश्च कोष्ठगे ॥ १.१५२.१४ ॥
स्थिते पार्श्वे च रुग्बोधे सन्धिस्थे भवति ज्वरः
रूपाण्यैकादशैतानि जायन्ते राजयक्ष्मणः ॥ १.१५२.१५ ॥
तेषामुपद्रवान्विद्यात्कण्ठध्वंसकरी रुजाः
जृम्भाङ्गमर्दनिष्ठीववह्निमान्द्यास्यपूतिता ॥ १.१५२.१६ ॥
तत्र वाताच्छिरः पार्श्वशूलनं सांगमर्दनम्
कण्ठरोधः स्वरभ्रंशः पित्तात्पादांसपाणिषु ॥ १.१५२.१७ ॥
दाहोऽतिसारोऽसृक्छर्दिर्मुखगन्धो ज्वरो मदः
कफादरोचकच्छर्दिकासा अर्ध्वां गगौरवम् ॥ १.१५२.१८ ॥
प्रसेकः पीनसः श्वासः स्वरभेदोऽल्पवह्निता
दोषैर्मन्दानलत्वेन शोथलेपकफोल्बणैः ॥ १.१५२.१९ ॥
स्रोतोमुखेषु रुद्धेषु धातुषु स्वल्पकेषु च
विदाहो मनसः स्थाने भवन्त्यन्ये ह्युपद्रवाः ॥ १.१५२.२० ॥
पच्यते कोष्ठ एवान्नमम्लयुक्तै रसैर्युतम्
प्रायोऽस्य क्षयभागानां नैवान्नं चाङ्गपुष्टये ॥ १.१५२.२१ ॥
रसो ह्यस्य न रक्ताय मांसाय कुरुते तु तत्
उपष्टब्धः समन्ताच्च केवलं वर्तते क्षयी ॥ १.१५२.२२ ॥
लिङ्गेष्वल्पेष्वतिक्षीणं व्याधौ षट्करणक्षयम्
वर्जयेत्साधयेदेव सर्वेष्वपि ततोऽन्यथा ॥ १.१५२.२३ ॥
दोषैर्व्यस्तैः समस्तैश्च क्षयात्सर्वस्य मेदसः
स्वरभेदो भवेत्तस्य क्षामो रूक्षश्चलः स्वरः ॥ १.१५२.२४ ॥
शुकवर्णाभकण्ठत्वं स्निग्धोष्णोपशमोऽनिलात्
पित्तात्तालुगले दाहः शोषो भवति सन्ततम् ॥ १.१५२.२५ ॥
लिम्पन्निव कफैः कण्ठं मुखं घुरघुरायते
स्वयं विरुद्धैः सर्वैस्तु सर्वालिङ्गैः क्षयो भवेत् ॥ १.१५२.२६ ॥
धूमायतीव चात्यर्थमुदेति श्लेष्मलक्षणम्
कृच्छ्रसाध्याः क्षयाश्चात्र सर्वैरल्पञ्च वर्जयेत् ॥ १.१५२.२७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे यक्ष्मनिदाना नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १५३
धन्वन्तरिरुदाच
अरोचकनिदान्ते वक्ष्येऽहं सुश्रुताधुना
अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः ॥ १.१५३.१ ॥
सन्निपातेन मनसः सन्तापेन च पञ्चमः
कषायतिक्तमधुरं वातादिषु मुखं क्रमात् ॥ १.१५३.२ ॥
सर्वं वीतरसं शोकक्रोधादिषु यथा मनः
छर्दिदोषैः पृथक्सर्वैर्दुष्टैरन्यैश्च पञ्चमः ॥ १.१५३.३ ॥
उदानोऽधिकृतान्दोषान्सर्वं सन्ध्यर्हमस्यति
आशु क्लेशोऽस्य लावण्यप्रसेकारुचयः क्रमात् ॥ १.१५३.४ ॥
नाभिपृष्ठं रुजत्याशु पार्श्वे चाहारमुत्क्षिपेत्
ततो विच्छ्रिन्नल्पाल्पकषायं फेनिलं वमेत् ॥ १.१५३.५ ॥
शब्दोद्गरयुतः कृच्छ्रमनुकृच्छ्रेण वेगवत्
कासास्यशोषकं वातात्स्वरपीडासमन्वितम् ॥ १.१५३.६ ॥
पित्तात्क्षारोदकनिभं धूम्रं हरितपीतकम्
सासृगम्लं कटुतिक्तं तृण्मूर्छादाहपाकवत् ॥ १.१५३.७ ॥
कफात्स्निग्धं घनं पीतं श्लेष्मतस्तु समाक्षिकम्
मधुरं लवणं भूरि प्रसक्तं लोमहर्षणम् ॥ १.१५३.८ ॥
मखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान्
सर्वैर्लिङ्गैः समापन्नस्त्याज्यो भवति सर्वथा ॥ १.१५३.९ ॥
सर्वं यस्य च विद्विष्टं दर्शनश्रवणादिभिः
वातादिनैव संक्रुद्धकृमिदुष्टान्नजे गदे
शूलवेपतुहृल्लासो विशेषात्कृमिजे भवेत् ॥ १.१५३.१० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेऽरोचकनिदाना नाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १५४
धन्वन्तरिरुवाच
हृद्रोगादिनिदानं ते वक्ष्येऽहं सुश्रुताधुना
कृमिहृद्रोगलिङ्गैश्च स्मृताः पञ्च तु हृद्गताः ॥ १.१५४.१ ॥
वातेन शून्यातात्यर्थं भुज्यते रोरुदीति च
भिद्यते शुष्यते स्तब्धं हृदयं शून्यता भ्रमः ॥ १.१५४.२ ॥
अकस्माद्दीनता शोको भयं शब्देऽसैष्णुता
वेपथुर्वेपनान्मोहः श्वासरोधोऽल्पनिद्रता ॥ १.१५४.३ ॥
पित्तात्तृष्णा श्रमो दाहो स्वेदोऽम्लकफजः क्रमः
छर्दनं ह्यम्लपित्तस्य धूमकल्पितको ज्वरः ॥ १.१५४.४ ॥
श्लेष्मणा हृदयं स्तब्धं भारिकं साश्मगर्भवत्
कासास्थिसादनिष्ठीवनिद्रालस्यारुचिज्वराः ॥ १.१५४.५ ॥
हृद्रोगे हि त्रिभिर्देषैः कृमिभिः श्यावनेत्रता
तमः प्रवेशो हृल्लासः शोथः कण्डूः कफस्त्रुतिः ॥ १.१५४.६ ॥
हृदयं सततं चात्र क्रकचेनेव दीर्यते
चिकित्सदामयं (रं) घोरं तच्छीघ्रं शीघ्रमारिणम् ॥ १.१५४.७ ॥
वातात्पित्तात्कफात्तृष्णा सन्निपाताद्बलक्षयः
षष्ठी स्यादुपसर्गाच्च वातपित्ते च कारणम् ॥ १.१५४.८ ॥
सर्वेषु तत्प्रकोपो हि सम्यग्धातुप्रशोषणात्
सर्वदेहभ्रामोत्कम्पतापहृद्दाहमोहकृत् ॥ १.१५४.९ ॥
जिह्वामूलगलक्लोमतालुतोयवहाः शिराः
संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम् ॥ १.१५४.१० ॥
मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः
कण्ठोष्ठतालुकार्कश्याज्जिह्वानिष्क्रमणे क्लमः ॥ १.१५४.११ ॥
प्रलापश्चित्तविभ्रंशो ह्युद्गराढ्यस्तथामयः
मारुतात्क्षामतादैन्यं शङ्खभे (तो) दः शिरौभ्रमः ॥ १.१५४.१२ ॥
गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः
शीताम्लफेनवृद्धिश्च पित्तान्मूर्छास्यतिक्तता ॥ १.१५४.१३ ॥
रक्तेक्षणत्वं सततं शोषो दाहोऽतिधूमकः
कफो रसाद्विकुपितस्तोयवाहिषु मारुतः ॥ १.१५४.१४ ॥
स्रोतस्तु सकफं तेन पङ्कवच्छोष्यते ततः
शूकैरिवाचितः कण्ठो निद्रा मधुरवक्रता ॥ १.१५४.१५ ॥
आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकम्
आलस्यमविपाकञ्च यः स स्यात्सर्वलक्षणः ॥ १.१५४.१६ ॥
आमोद्भवाच्च रक्तस्य संरोधाद्वातपित्तता
उष्णाक्रान्तस्य सहसा शीताम्भो भजतस्तृषा ॥ १.१५४.१७ ॥
उष्णादूर्ध्वं गतः कोष्ठं कुर्याद्वै पित्तजैवसा
या च पानातिपानोत्था तीक्ष्णाग्रे स्नेहपाकजा ॥ १.१५४.१८ ॥
स्निग्धकट्वम्ललवणभोजनेन कफोद्भवा
तृष्णारसक्षयोक्तेन लक्षणेन क्षयात्मिका ॥ १.१५४.१९ ॥
शोषमोहज्वराद्यन्यदीर्घरोगोपसर्गतः
या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥ १.१५४.२० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आम्लपित्तनिदाना नाम चतुः पञ्चाशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १५५
धन्वन्तरिरुवाच
वक्ष्ये मदात्ययादेश्च निदानं मुनिभाषितम्
तीक्ष्णाम्लरूक्षसूक्ष्माम्लव्यवायासुकरं लघु ॥ १.१५५.१ ॥
विकाशि विशदं मद्यं मेदसोऽस्माद्विपर्ययः
तीक्ष्णोदयाश्च दिव्युक्ताश्चित्तोपप्लविनो गुणाः ॥ १.१५५.२ ॥
जीवितान्ताः प्रजायन्ते विषेणोत्कर्षवर्तिना
तीक्ष्णादिभिर्गुणैर्मद्यं मान्द्यदीनोजसो गुणान् ॥ १.१५५.३ ॥
दशभिर्गुणैः संक्षोम्यं चेतो नयति चाक्रियम्
आद्ये मदे द्वितीयेऽपि प्रम (मो) दायतने स्थितः ॥ १.१५५.४ ॥
दुर्विकल्पहतो मूढः सुखमित्यभिमुच्यते
मध्यमोत्तमयोः सन्धिं प्राप्य राजासनो मदः ॥ १.१५५.५ ॥
निरङ्कुश इव व्यालो न किञ्चिन्नाचरेत्ततः
इयं भूमिरवाच्यानां दौः शीलस्येदमास्पदम् ॥ १.१५५.६ ॥
एकोऽयं बहुमार्गायाः दुर्गर्(म) तेर्दर्शकः परम्
निश्चेष्टः सन्नवाक्शेते तृतीयेऽत्र मदे स्थितः ॥ १.१५५.७ ॥
मरणादपि पापात्मा गतः पापतरां दशाम्
धर्माधर्मं सुखं दुः खं मानानर्थं हिताहितम् ॥ १.१५५.८ ॥
न वेद शीकमोहार्तं शोष (क) मोहादिसंयुतः
सोन्मादभ्रममूर्छायां सापस्मारः पतत्यधः ॥ १.१५५.९ ॥
नाति माद्यन्ति बलिनः कृताहारा महाशनाः
वातात्पित्तात्कफात्सर्वैर्भवेद्रोगो मदात्ययः ॥ १.१५५.१० ॥
सामान्यलक्षणं तेषां प्रमोहो हृदयव्यथा
विभेदं प्रसभं तृष्णा सौम्यो ग्लानिर्ज्वरोऽरुचिः ॥ १.१५५.११ ॥
पुरोविबन्धस्तिमिरं कासः श्वासः प्रजागरः
स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः ॥ १.१५५.१२ ॥
स्वप्नेनेवाभिभवति न चोक्तश्च स भाषतेः
पित्ताद्दाहज्वरः स्वेदो मोहो नित्यं च विभ्रमः ॥ १.१५५.१३ ॥
श्लेष्मणश्छर्दिर्हृल्लासो निद्रा चोदरगौरवम्
सर्वजे सर्वलिङ्गत्वं ज्ञात्वा मद्यं पिबेत्तु यः ॥ १.१५५.१४ ॥
सहसा रुचिरं चान्यतरध्वंसकशोषिणौ
भवेतां?मारुतात्कष्टाद्भवेत्त स्य विशेषतः ॥ १.१५५.१५ ॥
ध्वंसकश्लेष्मनिष्ठिवाः कण्ठशोषोऽतिनिद्रता
शब्दासहत्वं तच्चित्तविक्षेपोऽङ्गे हि वातरुक् ॥ १.१५५.१६ ॥
हृत्कण्ठरोगः संमोहः श्वासतृष्णावमिज्वराः
निवर्तेद्यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत् ॥ १.१५५.१७ ॥
विकारैः क्लिश्यते जातु न स शरीरमानसः
रजोमोहहिताहारपास्य स्युस्त्रयो गदाः ॥ १.१५५.१८ ॥
वसासृक्क्लेदनावाहिस्रोतोरोधः सुद्भवाः
मदमूर्छापसंन्यासा यथोत्तरबलोद्भवाः ॥ १.१५५.१९ ॥
मदोऽत्र दोषैः सर्वैस्तु रक्तमद्यविषैरपि
शक्त्यानन्त्याद्गताभासश्चलश्छलितवेष्टितः ॥ १.१५५.२० ॥
रूक्षश्यामारुणतनुर्मद्ये वातोद्भवे भवेत्
पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः ॥ १.१५५.२१ ॥
स्वप्नेऽसम्बद्धवाक्यादिः कफाद्ध्यानपरो हि सः
सर्वोत्थसन्निपातेन रक्तस्तम्भाङ्गदूषणम् ॥ १.१५५.२२ ॥
पित्तलिङ्गत्वमाद्येन विकृतेहा स्वराज्ञता
विसत्कम्पोतिनिद्रा च सर्वेभ्योऽभ्यधिकं श्रमः ॥ १.१५५.२३ ॥
लक्षयेल्लक्षणोत्कर्षाद्वातादीञ्छोणितादिषु
अरुणं नीलकृष्णं वा सम्प्रविश्यन्विशेत्तमः ॥ १.१५५.२४ ॥
शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः
कासः श्यावारुणा च्छाया मूर्छायां मारुतात्मकः ॥ १.१५५.२५ ॥
पित्तेन रक्तं पीतं वा नभः पश्यन्विशेत्तमः
विबुध्येत च सस्वेदो दाहतृष्णोपपीडितः ॥ १.१५५.२६ ॥
भिन्नवत्पीतनीलाभो रक्तनीलाकुलेक्षणः
कफेन मेघसंकाशं पश्यत्याकाशमाविशेत् ॥ १.१५५.२७ ॥
तमश्चिराच्च बुध्ये हृदुरः सुप्रसेकवान्
गुरुभिस्तिमितै (रै) रङ्गे राजधर्मावबन्धान् (वत्) ॥ १.१५५.२८ ॥
सर्वाकृतिस्त्रिभिर्देषैरपस्मार इवापरः
पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः ॥ १.१५५.२९ ॥
दोषैस्तु मदमूर्छायां कृतवेगेषु देहिनाम्
स्वयमेवोपशाम्यन्ति संन्यासेनौषधैर्निवा ॥ १.१५५.३० ॥
वाग्देहमनसां चेष्टामाक्षिप्यातिबलाबलाः
ससन्यासं निपतिताः प्राणाघातनसंश्रयाः ॥ १.१५५.३१ ॥
भवन्ति तेन पुरुषाः काष्ठभूता मृतोपमाः
म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते ॥ १.१५५.३२ ॥
अगाधे ग्राहबहुले सलिलौघ इवार्णवे
संन्यासे विनिमज्जन्तं नरमाशु निवर्तयेत् ॥ १.१५५.३३ ॥
मदमानरोषतोष प्रवृत्तिभिरितस्ततः
युक्तायुक्तं च समं युक्तिं युङ्क्ते न मद्येन ॥ १.१५५.३४ ॥
बलकासदेशपात्रं प्रकृतिसहतामथवा वयांसि?
प्रविभज्ज्यात्तनुरूपं पिबति ततः पिबत्यमृत ॥ १.१५५.३५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मदात्ययादिनिदानं नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १५६
धन्वन्तरिरुवाच
अथार्शसां निदानं च व्याख्यास्यमि च सुश्रुत !
सर्वदा प्राणिनां मांसे कीलकाः प्रभवन्ति ये ॥ १.१५६.१ ॥
अर्शांसि तस्मादुच्यन्ते गुदमार्गनिरोधनात्
दोषस्त्वङ्मांसमेदांसि सन्दूष्य विविधाकृतीन् ॥ १.१५६.२ ॥
मांसांकुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जगुः
सहजन्मान्तरोत्थेन भेदो द्वेधा समासतः ॥ १.१५६.३ ॥
शुष्काग्रावाविभेदाश्च गुदस्थानानुसंश्रयाः
अर्धपञ्चाङ्गुलिस्तस्मिंस्तिस्रोऽघ्यर्धाङ्गुलिस्थिताः ॥ १.१५६.४ ॥
बाल्यप्रवाहिणी तासामन्त्रमध्ये विसर्जिनी
बाह्यासंवरणे तस्या गुदादौ बहिरङ्गुले ॥ १.१५६.५ ॥
सार्धाङ्गुलप्रमाणेन रोमाण्यत्र ततः परम्
तत्र हेतुः सहोत्थानां बाल्ये बीजोपतप्तता ॥ १.१५६.६ ॥
अर्शसां बीजसृष्टिस्तु मातापित्रपचारतः
देवतानां प्रकोपे हि सान्निपातस्य चान्यतः ॥ १.१५६.७ ॥
असाध्या एवमाख्याताः सर्वे रोगाः कुलोद्भवाः
सहजानि विशेषेण रूक्षदुर्दर्शनानि तु ॥ १.१५६.८ ॥
अन्तर्मुखानि पाण्डूनि दारुणोपद्रवाणि च
योज्यानि च पृथोग्दोषसंसर्गनिचयात्स्वतः ॥ १.१५६.९ ॥
शुष्काणि वातश्लेष्मभ्यामार्द्राणि त्वस्य पित्ततः
दोषप्रकोपहेतुस्तु प्रागुक्तेवस्त्रसादिनि ॥ १.१५६.१० ॥
अग्नौ मलेऽतिनिचिते पुनश्चायं (ति) व्यवायतः
पानसंक्षोभविषमकठिनक्षुद्रकाशनात् ॥ १.१५६.११ ॥
बस्तिनेत्रगलौष्ठोत्थतलभेदादिघट्टनात्
भृशशीताम्बुसंस्पर्शप्रततातिप्रवाहणात् ॥ १.१५६.१२ ॥
गतमूत्रशकृद्वेगधारणात्तदुदीरणात्
जुगुप्सातीसारमेव ग्रहणी सोऽप्युपद्रवः ॥ १.१५६.१३ ॥
कर्षणाद्विषमादेश्चचेष्टाभ्यो योषितां पुनः
आमगर्भप्रपतनाद्गर्भवृद्धिप्रपीडनात् ॥ १.१५६.१४ ॥
ईदृशैश्चापरैर्वायुरपानः कुपितो मले
पायोर्वलीषु सद्रवृत्तिभास्वन्निः पूर्णमूर्तिषु ॥ १.१५६.१५ ॥
जायन्तेर्ऽशांसितु तत्पूर्वं लक्षणं वह्निमन्दता
विष्टम्भः सास्थिसदनं पिण्डि (ष्ट) कोद्वेष्टनं भ्रमः ॥ १.१५६.१६ ॥
सान्द्रोत्थोनेत्रयोः शोथः शकृद्भवेदोऽथ वा ग्रहः
मारुतः पुरतो मूढः प्रायो नाभेरधश्चरन् ॥ १.१५६.१७ ॥
सरक्तः परिकृन्तंश्च कृच्छ्रादाकुञ्चति श्वसन्
अन्त्रकूजनमाटोपः क्षारितोद्गारभूरिता ॥ १.१५६.१८ ॥
प्रभूतमूत्रमल्पा विडश्रद्धा धूम्रकोष्ठकः
शिरः पृष्ठोरसां शूलमालस्यं भिन्नवर्चसम् ॥ १.१५६.१९ ॥
इन्द्रियार्थेषु लौल्यं च क्रोधो दुः खोपचारतः
आशङ्का ग्रहणी शोथः पाण्डुगुल्मोदरेषु च ॥ १.१५६.२० ॥
एतान्येव विवर्धन्ते जातेष्वहतनामसु
निवर्तमानो मानो हि तैरधोमार्गरोधतः ॥ १.१५६.२१ ॥
क्षोभयेदनिलानन्यान् सर्वेन्द्रियशरीगान्
तथा मूत्रशकृत्पित्तकफान्वायुश्च शोषयन् ॥ १.१५६.२२ ॥
मुष्णात्यग्निं ततः सर्वे भवन्ति प्रायशोर्ऽशसः
कृशो भृशं हतोत्साहो दीनः क्षामोऽथ निष्प्रभः ॥ १.१५६.२३ ॥
असारी विगतच्छायो जन्तुदग्ध इवद्रुम
कृच्छ्रैरुग्रद्रवैर्ग्रस्तो यक्ष्मोक्तैर्मर्मपीडनैः ॥ १.१५६.२४ ॥
तथा काशपिपासास्यवैरस्यश्वासपीनसैः
क्लमाङ्गभङ्गवमथुक्षवथुश्वयथुज्वरैः ॥ १.१५६.२५ ॥
क्लैब्यबाधिर्यस्तैमित्यशर्करापरिपीडितः
क्षामो भिन्नस्वरो ध्यायन्मुहुः ष्ठीवन्नरोचकी ॥ १.१५६.२६ ॥
सर्वपर्वास्थिहृन्नाभीपायुवङ्क्षणशूलवान्
गुदेनस्त्रवता पित्तं बलाकोदरसन्निभम् ॥ १.१५६.२७ ॥
विशुष्कं चैव मुक्ताग्रं पक्वामं चान्तरान्तरम्
पाण्डुपित्तं हरिद्राक्तं पिच्छिलं चोपवेश्यते ॥ १.१५६.२८ ॥
गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमचिमान्विताः
पीनाङ्गारारुणाः स्तब्धा विषमाः परुषाकराः ॥ १.१५६.२९ ॥
मिथो विसदृश वक्रास्तीक्ष्णा विस्फुटि(रि) ताननाः
शिम्बीखर्जृरकर्कन्धूकार्पासफलसन्निभाः ॥ १.१५६.३० ॥
केचित्कदम्बपुष्पाभाः केचित्सिद्धार्थकोपमाः
शिरः पार्श्वांसजङ्घोरुवङ्क्षणाद्यधिकव्यथाः ॥ १.१५६.३१ ॥
क्षवथूद्गारविष्टम्भहृद्गहारोचकप्रदाः
कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः ॥ १.१५६.३२ ॥
तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम्
रुक्फेनपिच्छानुगतं विबद्धमुपवेश्यते ॥ १.१५६.३३ ॥
कृष्णत्वग्बद्धविण्मूत्रनेत्रवक्त्रश्च जायते
गुल्मप्लीहोदराष्ठीलासंभवस्तस्य चैव हि ॥ १.१५६.३४ ॥
पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः
तन्वग्रस्त्राविणो विश्रास्तनवो मृदवः श्लथाः ॥ १.१५६.३५ ॥
शुकजिह्वा यकृत्खण्डजलौकावक्त्रसन्निभाः
दाहशो (ष) कज्वरस्वेदतृण्मूर्छारुचिमोहदाः ॥ १.१५६.३६ ॥
सोष्माणो द्रवनीलोष्णपीतरक्तामवर्चसः
यवमध्या हरित्पीतहारिद्रत्वङ्नखादयः ॥ १.१५६.३७ ॥
श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः
उत्सन्नोपचितस्निग्धस्तब्धवृत्तगुरुस्थिराः ॥ १.१५६.३८ ॥
पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः
करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः ॥ १.१५६.३९ ॥
वङ्क्षणानाहिनः पुयुबस्तिनाभिविकर्तनाः
सकाशश्वासहृल्लासप्रसेकारुचिपीनसाः ॥ १.१५६.४० ॥
महकृच्छ्रशिरोजाड्यशिशिरक्षारकारिणः
क्लैब्याग्निमार्दवच्छर्द्यतीसारादिविकारदाः ॥ १.१५६.४१ ॥
वसाभसकफप्राज्यपुरीषासृक्प्रवाहिकाः
न स्त्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ॥ १.१५६.४२ ॥
संसृष्टलिङ्गत्संसर्गनिचयात्सर्वलक्षणाः
रक्तोल्बणा गुदे कीलाः पीताकृतिसमन्विताः ॥ १.१५६.४३ ॥
वटप्रसेहसदृशाः गुञ्जाविद्रुमसन्निभाः
तेऽत्यर्थं दुष्टमुष्णं च गाढविष्टंभपीडिताः ॥ १.१५६.४४ ॥
स्त्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः
केकाभः पीड्यते दुः खैः शोणितक्षयसम्भवैः ॥ १.१५६.४५ ॥
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः
मुद्गकोद्रवजंबीरकरीरचणकादिभिः ॥ १.१५६.४६ ॥
रूक्षैः संग्राहिभिर्वायुर्विट्स्थाने कुपितो बली
अधोवहानि स्रोतांसि संरुध्याधः प्रशोषयन् ॥ १.१५६.४७ ॥
पुरीषं वातविष्णूत्रसंगं कुर्वीत दारुणम्?
तेन तीव्रा रुजा कोष्ठपृष्ठहृत्पार्श्वगा भवेत् ॥ १.१५६.४८ ॥
आध्मानमुदरे विष्ठा हृल्लासपरिकर्तने
बस्तौ च सुतरां शूलो गण्डश्वयथुसंभवः ॥ १.१५६.४९ ॥
पवनस्योर्ध्वगामित्वात्ततश्छर्द्यरुचिज्वराः
हृद्रोगग्रहणीदोषमूत्रसंगप्रवाहिकाः ॥ १.१५६.५० ॥
बाधिर्यातिशिरः श्वासशिरोरुक्काशपीनसाः?
मनोविकारस्तृट्श्वासपित्तगुल्मोदरादयः ॥ १.१५६.५१ ॥
एते च वातजा रोगा जायन्ते भृशदारुणाः
दुर्नामामृत्यूदावर्तपरमोऽयमुपद्रवः ॥ १.१५६.५२ ॥
वाताभिभूतकोष्ठानां तैर्विनापि विजायते
सहजानि तु दोषाणि यानि चाभ्यन्तरे वलौ ॥ १.१५६.५३ ॥
स्थितानि तान्यसाध्यानि याप्यन्तेऽग्निबलादिभिः
द्वन्द्वजानि द्वितीयायां वला यान्याश्रितानि च ॥ १.१५६.५४ ॥
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च ॥ १.१५६.५५ ॥
अर्शांसि सुखसाध्यानि न चिरोत्पत्तिकानि च
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि तु ॥ १.१५६.५६ ॥
गण्डूपदस्य रूपाणि पिच्छिलानि मृदूनि च
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः ॥ १.१५६.५७ ॥
कीलोपमं स्थिरखरं चर्मकीलं च तद्विदुः
वातेन तोदः पारुष्यं पित्तादसितवक्त्रता ॥ १.१५६.५८ ॥
श्लेष्मणः स्निग्धता तस्य ग्रथितत्वं सवर्णता
अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान्
तान्याशु हि गदन्धा (कार्) य्य कुर्युर्बद्धगुदोदरम् ॥ १.१५६.५९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेर्ऽशोनिदाना नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १५७
धन्वन्तरिरुवाच
अतीसारग्रहण्योश्च निदानं वच्मि सुश्रुत
दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः ॥ १.१५७.१ ॥
अतीसारः स सुतरां जायतेऽत्यम्बुपानतः
विशुष्कान्नवसास्नेहतिलपिष्टविरूढकैः ॥ १.१५७.२ ॥
मद्यरूक्षातिमात्रादिरसातिस्नेहविभ्रमात्
कृमिघोषविरोधाच्च तद्विधेः कुपितानिलः ॥ १.१५७.३ ॥
विस्त्रंसयत्यधोवातं हत्वा तेनैव चानलम्
व्यापार्यान्नशकृत्कोष्ठपुरीषद्रवतादयः ॥ १.१५७.४ ॥
प्रकल्पतेऽतीसारस्य लक्षणं तस्य भाविनः
भेदो हृद्गुदकोष्ठेषु गात्रस्वेदो मलग्रहः ॥ १.१५७.५ ॥
आध्मानमविपाकश्च तत्र वातेन विज्वरम्
अल्पाल्पं शब्दशून्याढ्यं विरु (ब)द्धमुपवेश्यते ॥ १.१५७.६ ॥
रूक्षं सफेनमच्छं च गृहीतं व मुहुर्मुहुः
तथादग्धगदाभासं पिच्छिलं परिकर्तयन् ॥ १.१५७.७ ॥
सशुष्कभ्रष्टपायुश्च हृष्टरोमा विनिश्वसन्
पित्तेन पीतमशितं हारिद्रं शाद्वलप्रभम् ॥ १.१५७.८ ॥
सरक्तमतिदुर्गन्धं तृण्मूर्छास्वेददाहवान्
सशूलपायुसन्तापपाकवाञ्छ्लेष्मणा घनम् ॥ १.१५७.९ ॥
पिच्छिलं तत्रानुसारमल्पाल्पं सप्रवाहिकम्
सरोमहर्पः सेक्लेशो गुरुबस्तिगुदोदरः ॥ १.१५७.१० ॥
कृतेऽप्यकृतसङ्गश्च सर्वात्मा सर्वलक्षणः
भयेन क्षुभिते चित्ते शायिते द्रावयेत्स (च्छ) कृत् ॥ १.१५७.११ ॥
वायुस्ततो निवार्येत क्षिप्रमुष्णं द्रवं प्लवम्
वातपित्ते समं लिङ्गमाहुस्तद्वच्च शोकतः ॥ १.१५७.१२ ॥
अतीसारः समासेन द्वेधा सामो निरामकः
सासृग्जातं रसद्रोगो गौरवादप्सु मुञ्चति?
शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः ॥ १.१५७.१३ ॥
विपरीतो निरामस्तु कफात्कोऽपि न मज्जति
अतीसारेषु यो नाति यत्नवान् ग्रहणीगदः ॥ १.१५७.१४ ॥
तस्य स्यादग्निनिर्वाणकार्यैरत्यर्थसञ्चितैः
सामं शकृन्निरामं वा जीर्णं येनातिसार्यते ॥ १.१५७.१५ ॥
सोऽतिसारोऽतिसरणा दाशुकारीः स्वभावतः
सामंशीर्णमजीर्णेन जीर्णे पक्वं तु नैव च ॥ १.१५७.१६ ॥
चिरकृद्ग्रहणीदोषः सञ्चयांश्चोपवेशयेत्
अकस्माद्वारसुर्वेधमकस्मात्सन्धिनीमुहुः?
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते ॥ १.१५७.१७ ॥
प्राग्रूपाङ्गस्य सदनं चिरात्पवन अल्पकः
प्रसेको वक्त्रवैरस्यमरुचिस्तृट्श्रमोभ्रमः ॥ १.१५७.१८ ॥
आब (न) द्धोदरता छर्दिः कर्णकेऽप्यनुकूजकम्
सामान्यलक्षणं कार्श्यं वमक स्तमको ज्वरः ॥ १.१५७.१९ ॥
मूर्छा शिरोरुविष्टम्भः श्वयथुः करपादयोः
तन्द्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः ॥ १.१५७
.२० ॥
पार्श्वोरुवङ्क्षणग्रीवारुजा तीक्ष्णविषूचिका
रुग्णेषु वृद्धिः सर्वषु क्षुत्तृष्णापरिहर्त्रिका ॥ १.१५७.२१ ॥
जीर्णेजीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते
वाताद्धृद्रोगगुल्मार्शःप्लीहपाण्डुरशङ्किताः ॥ १.१५७.२२ ॥
चिराद्दुः खं द्रवं शुष्कं तुन्दारं शब्दफेनवत्
पुनः पुनः सृजेद्वर्चं पायुरुच्छ्वासकासवान् ॥ १.१५७.२३ ॥
पीतेन पीतनीलाभं पीताभं सृजति द्रवम्
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः ॥ १.१५७.२४ ॥
श्लेष्मणा पच्यते दुःखे मनश्छर्दिररोचकः
आस्योपदाहनिष्ठीवकासहृल्लासपीनसाः ॥ १.१५७.२५ ॥
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु
उद्गारो दुष्टमधुरः सदनं सप्रहर्षणम् ॥ १.१५७.२६ ॥
सम्भिन्नश्लेष्मसंश्लिष्टगुरुचाम्लैः (वर्चः) प्रवर्तचम्
अकृशस्यापि दौर्बल्यं सर्वजे सर्वदर्शनम् ॥ १.१५७.२७ ॥
विभागेऽङ्गस्य ये प्रोक्ता पिपासाद्यास्त्रयो मलाः
तेऽप्यस्य ग्रहणीदोषाः समन्तेष्वस्ति कारणम् ॥ १.१५७.२८ ॥
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दरम्
अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः ॥ १.१५७.२९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेतिसारनिदान नाम सप्तञ्चाशदुत्तरशतमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १५८
धन्वन्तरिरुवाच
अथातो मूत्रघातस्य निदानं शृणु सुश्रुत
बस्तिबस्तिशिरोमेढ्रकटीवृषणपायु च ॥ १.१५८.१ ॥
एकसंवहनाः प्रोक्ता गुदास्थिविवराश्रयाः
अधोमुखोऽपि बस्तिर्हि मूत्रवाहिशिरामुखैः ॥ १.१५८.२ ॥
पार्श्वेभ्यः पूर्यते श्लक्ष्णै (सूक्ष्मैः) स्यन्दमानैरनारतम्
तैस्तैरेव प्रविश्यैवन्दोषान्कुवन्ति विंशतिम् ॥ १.१५८.३ ॥
मूत्राघातः प्रमेहश्च कृच्छ्रान्मर्म समाश्रयेत्
बस्तिवङ्क्षणमेढ्रार्तियुक्तोल्पाल्पं मुहुर्मुहुः ॥ १.१५८.४ ॥
मूत्राण्यावातजे कृच्छ्रपीत्ते पीतं सदाहरुक्
रक्तं वा कफजो बस्तिमेढ्रगौरवशोथवान् ॥ १.१५८.५ ॥
सपिच्छं सनिरुद्धं च सर्वैः सर्वात्मकं मलैः
यदा वायुर्मुखं बस्तेर्व्यावर्त्य पारिशोषयन् ॥ १.१५८.६ ॥
मूत्रं सपित्तं सकफं सशुक्रं वा तदा क्रमात्
संजायतेऽश्मरी घोरा पित्तं गोरिव रोचना ॥ १.१५८.७ ॥
श्लेष्माश्रया च सर्वा स्यादथास्याः पूर्वलक्षणम्
बस्त्याध्मानं तदासन्नदेशोहि परितोऽतिरुक् ॥ १.१५८.८ ॥
बस्तौ च मूत्रसङ्गित्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः
सामान्यलिङ्गं रुङ्नाभिसीवनीबस्तिमूर्धसु ॥ १.१५८.९ ॥
विस्तीर्णवा सं मूत्रं स्यात्तथा मार्गनिरोधने
बद्धं बद्ध्वा सुखं मेहेदच्छं गोमेदकोपमम् ॥ १.१५८.१० ॥
तत्संक्षोभाद्भवेत्सासृङ्मांसमध्वनि रुग्भवेत्
तत्र बाताभिसृत्यार्तोदन्तान् खादति वेपते ॥ १.१५८.११ ॥
गृह्णाति मेहनं नाभिं पीडयत्यतिलक्षणम्
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः ॥ १.१५८.१२ ॥
श्यामरूक्षाश्मरी चास्य स्याच्चिता कण्टकैरिव
पित्तेन दह्यते बस्तिः पच्यमान इवोष्णवान् ॥ १.१५८.१३ ॥
भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरा
बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ॥ १.१५८.१४ ॥
अश्मरी महती श्लक्ष्णा मधुवर्णाथ वा सिता
एता भवन्ति बालनां तेषामेव च भूयसाम् ॥ १.१५८.१५ ॥
आशयोपचयाल्पत्वाद्गहणाहरणे सुखी
सुक्राश्मरी तु महती जायते शुक्रधारणात् ॥ १.१५८.१६ ॥
स्थानच्युतमभुक्तं वा अण्डयोरन्तरेऽनिलः
शोषयत्युपसंगृह्य शुक्रं तच्छुक्रमश्मरी ॥ १.१५८.१७ ॥
बस्तिरुक्कृच्छ्रमूत्रत्वं शुक्ला श्वयथुकारिणी
तस्यामुत्पन्नमात्रायां शुष्कमेत्य विलीयते ॥ १.१५८.१८ ॥
पीडिते ज्वरकासेऽस्मिन्नश्मर्येव च शर्करा
असौ वा वायुना भिन्ना सा त्वस्मिन्नमुलोमगे ॥ १.१५८.१९ ॥
निरेति सह मूत्रेण प्रतिलोमे विपच्यते
मूत्रसंधारणं कुर्यात्क्रुद्धो बस्तेर्मुखे मरुत् ॥ १.१५८.२० ॥
मूत्रसङ्गं रुजं कण्डूं कदाचिच्च सुवामतः
प्रच्छाद्य बस्तिमुद्धृत्य गर्मान्तं स्थूलविप्लुताम् ॥ १.१५८.२१ ॥
करोति तत्र रुग्दाहं स्पन्दनोद्वेष्टनानि च
बिन्दुशश्च प्रवर्तेत मूत्रं बस्तौ तु पीडिते ॥ १.१५८.२२ ॥
धारावरोधश्चाप्येष वातबस्तिरिति स्मृतः
दुस्तरो दुस्तरतरो द्वितीयः प्रबलोऽनिलः ॥ १.१५८.२३ ॥
शकृप्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः
अष्ठीलाभं घनं ग्रन्थिं करोत्यच (ब) लमुन्नतम् ॥ १.१५८.२४ ॥
वाताष्ठीलेति सात्मानं विष्णूत्रानिल (ति) सर्गकृत्
विगुणः कुण्डलीभूतो बस्तौ तीव्रव्यथोनिलः ॥ १.१५८.२५ ॥
आबध्य मूत्रं भ्रमति संस्तम्भोद्वेष्टगौरवम्
मूत्रमल्पाल्पमथवा विमुञ्चति सकृत्सकृत् ॥ १.१५८.२६ ॥
वातकुण्डलिकेत्येव मूत्रं तु विधृतेऽचिरम्
न निरेति निरुद्धं वा मूत्रातीतं तदल्परुक् ॥ १.१५८.२७ ॥
विधारणात्प्रतिहतं वातादावर्तितं यदा
नाभेरधस्तादुदरं मूत्रमापूरयेत्तदा ॥ १.१५८.२८ ॥
कुर्यात्तीव्ररुगाध्मानमशक्तिं मलसंग्रहम्
तन्मूत्रं जाठरच्छिद्रवैगुण्येनानिलेन वा ॥ १.१५८.२९ ॥
आक्षिप्तमल्पमूत्रस्य वस्तौ नाभौ च वा मले
स्थित्वा प्लवेच्छनैः पश्चात्सरुजं वाथवारुजम् ॥ १.१५८.३० ॥
मूत्रोत्सर्गं सविच्छिन्नं तच्छ्रेयो गुरुशेफसोः
अन्तर्वस्ति मुखे तृष्णा स्थिराल्पं सहसा भवेत् ॥ १.१५८.३१ ॥
अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते
मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धृतम् ॥ १.१५८.३२ ॥
स्थानाच्च्युतं मूत्रयतः प्राक्पश्चाद्वा प्रवर्तते
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ॥ १.१५८.३३ ॥
रूक्षदुर्बलयोर्वातेनोदावर्तं शकृद्यदा
मूत्रस्रोतोऽनुपर्येति संसृष्टं शकृता तदा ॥ १.१५८.३४ ॥
मूत्रबिन्दुं तुल्यगन्धं स्याद्विघातं तमादिशेत्
पित्तव्यायामतीक्ष्णाम्लभोजनाध्मानकादिभिः ॥ १.१५८.३५ ॥
प्रवृद्धवायुना मूत्रे वस्तिस्थे चैव दाहकृत्
मूत्रं वर्तयते पूर्वं सरक्तं रक्तमेव वा ॥ १.१५८.३६ ॥
उष्णं पुनः पुनः कृच्छ्रादुष्णवातं वदन्ति तम्
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ ॥ १.१५८.३७ ॥
मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम्
पित्तं कफो द्वादपि वा संहन्येतेनिलेनचेत् ॥ १.१५८.३८ ॥
कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत्
सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत् ॥ १.१५८.३९ ॥
शुष्कं समस्तवर्णं वा मूत्रसादं वदन्तितम्
इति विस्तारतः प्रोक्ता रोगा मूत्रप्रवर्तिताः ॥ १.१५८.४० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मूत्राघातमूत्राकृच्छनिदान नामाष्टपञ्चाशदुत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १५९
धन्वन्वरिरुवाच
प्रमेहाणां निदानन्ते वक्ष्येऽहं शृणु सुश्रुत !
प्रमेहा विंशतिस्तत्र श्लेष्मणो दश पित्ततः ॥ १.१५९.१ ॥
षट्चत्वारोऽनिलात्तेच मेदोमत्रकफावहाः
हारिद्रमेही कटुकं हरिद्रासन्निभं शकृत् ॥ १.१५९.२ ॥
विस्त्रं माञ्जिष्ठमेहेच मञ्जिष्ठा सलिलोपमम्
विस्त्रमुष्णं सलवणं रक्ताभ रक्तमेहतः ॥ १.१५९.३ ॥
वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः
मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः ॥ १.१५९.४ ॥
हस्ती मत्त इवाजस्त्रं मूत्रं वेगविवर्जितम्
सलसीकं विवद्धं च हस्तिमेही प्रमेहति ॥ १.१५९.५ ॥
मधुमेही मधुसमं जायते स किल द्विधा
क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथे यदा ॥ १.१५९.६ ॥
आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयेत्
क्षणात्क्षीणः क्षणात्पूर्णो भजते कृच्छ्रसाघ्यताम् ॥ १.१५९.७ ॥
कालेनोपेक्षितः सर्वोह्यायाति मधुमेहताम्
मधुरं यच्च मेहेषु प्रायो मध्विव मेहति ॥ १.१५९.८ ॥
सर्वे ते मधुमेहाख्या माधुर्याच्च तनोर्यतः
अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः ॥ १.१५९.९ ॥
उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम्
बस्तिमेहनयोस्तोदोमुष्कावदरणं ज्वरः ॥ १.१५९.१० ॥
दाहस्तृष्णाम्लिका मूर्छा विड्भेदः पित्तजन्मनाम्
वातजानामुदावर्तः कम्पहृद्गहलोलताः ॥ १.१५९.११ ॥
शूलमुन्निद्राता शोषः श्वासः कासञ्च जायते
शराविका कच्छपिका ज्वालिनी विनतालजी ॥ १.१५९.१२ ॥
मसूरिका सर्षपिका पुत्रिणी सविदारिका
विद्रधिश्चेति पिडिकाः प्रमेहोपेक्षया दश ॥ १.१५९.१३ ॥
अन्नस्य कफसंश्लेषात्प्रायस्तत्र प्रवर्तनम्
स्वाद्वम्ललवणस्निग्धगुरुपिच्छिलशीतम् ॥ १.१५९.१४ ॥
नवं धान्यं सुरासूपमांसेक्षुगुडगोरसम्
एकस्थानासनवति शयनं विनिवर्तनम् ॥ १.१५९.१५ ॥
बस्तिमाश्रित्य कुरुते प्रमेहाद्दूषितः कफः
दूषयित्वा वपुः क्लेदं स्वेदमेदोवसामिषम् ॥ १.१५९.१६ ॥
पित्तं रक्तमतिक्षीणे कफादौ मूत्रसंश्रयम्
धातुं बस्तिमुपानीय तत्क्षयेच्चैव मारुतः ॥ १.१५९.१७ ॥
साध्यासाध्यप्रतीत्याद्याः मेहास्तेनैव तद्भवाः
समे समकृता दोषे परमत्वात्तथापि च ॥ १.१५९.१८ ॥
सामान्य लक्षणन्तेषां प्रभूताविलमूत्रता
दोषदूष्या विशेषेऽपि तत्संयोगविशेषतः ॥ १.१५९.१९ ॥
मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते
अच्छं बहुसितं शीतं निर्गन्धमुदकोपमम् ॥ १.१५९.२० ॥
मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम्
इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः ॥ १.१५९.२१ ॥
सान्द्री भवेत्पर्युषितं सान्द्रमेहेन मेहति
सुरामेही सुरातुल्यमुपर्यच्छमधोघनम् ॥ १.१५९.२२ ॥
सहृष्टरोमा पिष्टेन पिष्टबद्बहुलं सितम्
शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ॥ १.१५९.२३ ॥
मूत्रयेत्सिकतामेही सिकतारूपिणो मलान्
शीतमेही सुबहुशो मधुरं भृशशीतलम् ॥ १.१५९.२४ ॥
शनैः शनैः शनैर्मेही मन्दं मन्दंप्रमेहति
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ॥ १.१५९.२५ ॥
गन्धवर्णरसस्पर्शेः क्षारेण क्षारतोयवत्
नीलमेहन नीलाभं कालमेही मसीनिभम् ॥ १.१५९.२६ ॥
सन्धिमर्मसु जायन्ते मांसलेषु च धामसु
अन्तोन्नता मध्यनिन्मा अक्लेदसुरुजान्विता ॥ १.१५९.२७ ॥
शरावमानसंस्थाना पिडिका स्याच्छराविका
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः ॥ १.१५९.२८ ॥
महती पिडिका नीला विनता नाम सा स्मृता
दहति त्वचमुत्थाने ज्वालिनी कष्टदायिनी ॥ १.१५९.२९ ॥
रक्ता सिता स्फोटचिता दारुणा त्वलजी भवेत्
मसूराकृति संस्थाना विज्ञेया तु मसूरिका ॥ १.१५९.३० ॥
सर्षपोपमसंस्थाना जिह्वापाकमहारुजा
पुत्रिणी महती चाल्पा सुसूक्ष्मा पिडिका स्मृता ॥ १.१५९.३१ ॥
विदारीकन्दवद्वृत्ता कठिना च विदारिका
विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा ॥ १.१५९.३२ ॥
पुत्रिणी च विदारी च दुः सहा बहुमेदसः
सद्यः पित्तोल्बणास्त्वन्याः सम्भवन्त्यल्पमेदसः ॥ १.१५९.३३ ॥
पिडिकास्ता भवेयुः स्याद्दोषोद्रेको यथायथम्
प्रमेहेण विनाप्येता जायन्ते दुष्टमेदसः ॥ १.१५९.३४ ॥
तावच्च नोपलक्ष्यन्ते यावद्वर्णञ्च वर्जितम्
हारिद्रं रक्तवर्णं वा मेहप्राग्रूपवर्जितम् ॥ १.१५९.३५ ॥
यो मूत्रयेत तन्महें रक्तपित्तन्तु तद्विदुः
स्वेदोऽङ्गगान्धः शिथिलत्वमङ्गे श्य्याशनस्वप्नसुखाभिषङ्गः
हृन्नेत्रजिह्वाश्रवणोपदाहा घनोग्रता केशनखाभिवृद्धिः ॥ १.१५९.३६ ॥
शीतप्रियत्वं गलतालुशोषो माधुर्य मास्ये करपाददाहः
भविष्यतो मेहगणस्य रूपं मूत्रेऽपि धावन्ति पिपीलिकाश्च ॥ १.१५९.३७ ॥
तृष्णा प्रमेहे मधुरं प्रपिच्छं मध्वामये स्याद्विविधोविकारः
सम्पूरणाद्वा कफसम्भवः स्यात्क्षीणेषु दोषेष्वनिलात्मको वा ॥ १.१५९.३८ ॥
सम्पूर्णरूपाः कफपित्तमेहाः क्रमेण ये वै रतिसम्भवाश्च
सक्रामते पित्तकृतास्तु याप्याः साध्योऽस्ति मेहो यदि नास्ति दिष्टम् ॥ १.१५९.३९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रमेहनिदान नामैकोनषष्ट्युत्तरशततमोऽध्यायः

श्रीगरुडमहापुराणम् [GARUR PURANAM] १६०
धन्वन्तरिरुवाच
निदानं विद्रधेर्वक्ष्ये गुल्मस्य शृणु शुश्रुत !
भुक्तैः पर्युषितात्युष्णशुष्करूक्षविदाहिभिः ॥ १.१६०.१


श्रीगरुडमहापुराणम् [GARUR PURANAM] १६०
धन्वन्तरिरुवाच
निदानं विद्रधेर्वक्ष्ये गुल्मस्य शृणु शुश्रुत !
भुक्तैः पर्युषितात्युष्णशुष्करूक्षविदाहिभिः ॥ १.१६०.१ ॥
जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः
दुष्टसत्वङ्मांसमेदोऽस्थिमदामृष्टोदराश्रयः ॥ १.१६०.२ ॥
यः शोथो बहिरन्तश्च महाशूलो महारुजः
वृत्तः स्यादायतो यो वा स्मृतो रोगः स विद्रधिः ॥ १.१६०.३ ॥
दोषैः पृथक्समुदितैः शोणितेन स्त्रतेन च
वहते तत्र तत्राङ्गे दारुणे ग्रथितोऽस्त्रुतः ॥ १.१६०.४ ॥
अन्तरा दारुणश्चैव गम्भीरो गुल्मवर्धनः
वल्मीकवत्समुत्स्त्रावी ह्यग्निमान्द्यञ्च जायते ॥ १.१६०.५ ॥
नाभिबस्तियकृत्प्लीहक्लोमहृत्कुक्षिवङ्क्षणि
हृदये वेपमाने तु तत्रतत्रातितीव्ररुक् ॥ १.१६०.६ ॥
श्यामारुणशिरोत्थानपाको विषमसंस्थितिः
संज्ञाच्छेदभ्रमानाहस्यन्दसर्पणशब्दवान् ॥ १.१६०.७ ॥
रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान्
क्षिप्तोत्थानप्रपाकश्च पाण्डुः कण्डूयुतः कफात् ॥ १.१६०.८ ॥
संक्लेशशीतकस्तम्भजृम्भारोचकगौरवाः
चिरोत्थानोऽविपाकश्च संकीर्णः सन्निपातजः ॥ १.१६०.९ ॥
सामर्थ्याच्चात्र विड्भेदो बाह्याभ्यन्तरलक्षणम्
कृष्णस्फोटावृतश्यामस्तीव्रदाहरुजाज्वरः ॥ १.१६०.१० ॥
पित्तलिङ्गोऽसृजा बाह्ये स्त्रीणामेव तथान्तरम्
शस्त्राद्यैरभिघातोत्थरक्तैश्च रोगकारणम् ॥ १.१६०.११ ॥
क्षतोत्थो वायुना क्षिप्तः स रक्तः पित्तमीरयन्
पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्युपद्रवम् ॥ १.१६०.१२ ॥
तेनोपद्रवभेदश्च स्मृतोऽधिष्ठानभेदतः
नाभौ हि ध्मातं चेद्बस्तौ मूत्रकृच्छ्रञ्चजायते ॥ १.१६०.१३ ॥
श्वासप्रश्वासरोधश्च प्लीहायामतितृट्परम्
गलरोधश्च क्लोम्नि स्यात्सर्वाङ्गप्ररुजा हृदि ॥ १.१६०.१४ ॥
प्रमोहस्तमकः कासौ हृदयोद्धट्टनन्तथा
कुक्षिपार्श्वान्तरे चैव कुक्षौ दोषोपजन्म च ॥ १.१६०.१५ ॥
तथा चेदूरुसन्धौ च वङ्क्षणे कटिपृष्ठयोः
पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम् ॥ १.१६०.१६ ॥
आमपक्वविदग्धत्वं तेषां शोथवदादिशेत्
नाभेरूर्ध्वमुखात्पक्वात्प्रद्रवन्त्यपरे गुदात् ॥ १.१६०.१७ ॥
गुदास्तनाभिजे विद्याद्दोषक्लेदोच्चविद्रधौ
कुरुते स्वाधिष्ठानस्य विवर्तं सन्निपातजः ॥ १.१६०.१८ ॥
पक्वो हि नाभिवस्तिस्थो भिन्नोऽन्तर्बहिरेव वा
पाकश्चान्तः प्रवृद्धस्य क्षीणस्योपद्रवार्दितः ॥ १.१६०.१९ ॥
विद्रधिश्च भवेत्तत्र पापानां पापयोषिताम्
मृते तु गर्भगे चैव सम्भवेच्छ्वयथर्घनः ॥ १.१६०.२० ॥
स्तने समत्थे दुःखं वा बाह्यविद्रधिलक्षणम्
नारीणां सूक्ष्मरक्तत्वात्कन्यायान्तु न जायते ॥ १.१६०.२१ ॥
क्रुद्धो रुद्धगतिर्वायुः शेफमूलकरो?हि सः
मुष्कवङ्क्षणतः प्राप्य फलकोषातिवाहिनीम् ॥ १.१६०.२२ ॥
आपीड्य धमनीवृद्धिं करोति फलकोषयोः
दोषो मेदःसु तत्रास्ते सवृद्धिः सप्तधा गदः ॥ १.१६०.२३ ॥
मूत्रन्तयोरप्यनिलाद्बाह्ये वाभ्यन्तरे तथा
वातपूर्णः खरस्पर्शो रूक्षो वाताच्च दाहकृत् ॥ १.१६०.२४ ॥
पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान्
कफात्तीव्रो गुरुः स्निग्धः कण्डूमान्कठिनोऽल्परुक् ॥ १.१६०.२५ ॥
कृष्णः स्फोटावृतः पिण्डों वृद्धिलिङ्गश्च रक्ततः
कफवन्मेदसां वृद्धिर्मृदुतालफलोपमः ॥ १.१६०.२६ ॥
मूत्रधारणशीलस्य मूत्रजस्तत्र गच्छतः
अलोभः पूर्णधृतिमान्क्षोभं याति सरन्मृदु ॥ १.१६०.२७ ॥
मूत्रकृच्छ्रमधस्ताच्च वलयः फलकोषयोः
वातकोपिभिसहारैः शीततोयावगाहनैः ॥ १.१६०.२८ ॥
विण्मूत्रधारणाच्चैव विषमाङ्गविचेष्टनैः
क्षोभितैः क्षोभितौजाश्च क्षीणान्तर्देहिनो यदा ॥ १.१६०.२९ ॥
पवनो विगुणीभूय शोणितं तदधोनयेत्
कुर्यात्तत्क्षणसन्धिस्थो ग्रन्थ्याभः श्वयथुस्तदा ॥ १.१६०.३० ॥
उपेक्ष्यमाणस्य च गुल्मवृद्धिमाध्मानरुग्वै विविधाश्च रोगाः
सुपीडितोऽन्तः स्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मूर्ध्नि ॥ १.१६०.३१ ॥
रक्तवृद्धिरसाध्येऽयं वातवृद्धिसमाकृतिः
रूक्षकृष्णारुणशिरा ऊर्णावृतगवाक्षवत् ॥ १.१६०.३२ ॥
वातोऽष्टधा पृथदौषैः संस्पृष्टैर्निचयं गतः
आर्तवस्य च दोषेण नारीणां जायतेऽष्टमः ॥ १.१६०.३३ ॥
ज्वरमूर्छातिसारैश्च वमनाद्यैश्च कर्मभिः
कर्शितो बलवान्याति शीतार्तश्च बुभुक्षितः ॥ १.१६०.३४ ॥
यः पिबत्यन्नपानानि लङ्घनप्लावनादिकम्
सेवते हीनसंज्ञाभिरर्दितः समुदीरयन् ॥ १.१६०.३५ ॥
स्नेहस्वेदावनभ्यस्य शोषणं वा निषेवयेत्
शुद्धो वा सुद्धिहानिर्वा भजेत स्पन्दनानि वा ॥ १.१६०.३६ ॥
वातोल्बणास्तस्य मलाः पृथक्चैव हि तेऽथवा
सर्वो रक्तयुतो वाताद्देहस्नोतोऽनुसारिणः ॥ १.१६०.३७ ॥
ऊर्ध्वाधोमार्गमावृत्य वायुः शूलं करोति वै
स्पर्शोपलभ्यं गुल्मोत्थमुष्णं ग्रन्थिस्वरूपिणम् ॥ १.१६०.३८ ॥
कर्षणात्कफविड्घातैर्मार्गस्यावरणेन वा
वायुः कृताश्रयः कोष्ठे रौक्ष्यात्काठिन्यमागतः ॥ १.१६०.३९ ॥
स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये
ततः पिण्डकवच्छ्लेष्मा मलसंसृष्ट एव च ॥ १.१६०.४० ॥
गुलम इत्युच्यते बस्तिनाभिहृत्पार्श्वसंश्रयः
वातजन्ये शिरः शूलज्वर प्लीहान्त्रकूजनम् ॥ १.१६०.४१ ॥
वेधः सूच्येव विड्भ्रंशः कृच्छ्रे मूत्रं प्रवर्तते
गात्रे मुखे पदे शोथः ह्यग्निमान्द्यं तथैव च ॥ १.१६०.४२ ॥
रूक्षकृष्णत्वगादित्वं चलत्वादनिलस्यच
अनिरूपितसंस्थानो विविधाञ्जनयेद्व्यथाम् ॥ १.१६०.४३ ॥
पिपीलिकाव्याप्त इव गुल्मः स्फुरति नुद्यते
पित्ताद्दाहाम्लकौ मूर्छा विड्भेदः स्वेदतृड्ज्वराः ॥ १.१६०.४४ ॥
हारिद्रयं सर्वगात्रेषु गुल्माच्छोथस्य दर्शनम्
हीयते दीप्यते श्लेष्मा स्वस्थानं दहतीवच ॥ १.१६०.४५ ॥
कफात्स्तैमित्यमरुचिः सदनं शिरसि ज्वरः
पीनसालस्यहृल्लासौ शुक्लकृष्णत्वगादिता ॥ १.१६०.४६ ॥
गुल्मो गभीरः कठिनो गुरुर्गर्भस्थबालवत्
स्वस्थानस्था अधावन्तस्तत एवात्र मारकाः ॥ १.१६०.४७ ॥
प्रायस्तु यत्तद्द्वन्द्वोत्था गुल्माः संसृष्टमैथुनाः
सर्वजस्तीव्ररुग्दाहः शीघ्रपाकी घनोन्नतः ॥ १.१६०.४८ ॥
सोऽसाध्यो रक्तगुल्मस्तु स्त्रिया एव प्रजायते
ऋतौ या चैव शूलार्ता यति वा योनिरोगिणी ॥ १.१६०.४९ ॥
सेवते वानिलांश्च स्त्री क्रुद्धस्तस्याः समीरणः
निरुध्यात्यार्तवं योन्यां प्रतिमासं व्यवस्थितम् ॥ १.१६०.५० ॥
सुक्षौ करोति तद्गर्भे लिङ्गमाविष्करोति च
हृल्लासदौहृदस्तन्यदर्शनं कामचारिता ॥ १.१६०.५१ ॥
क्रमेण वायोः संसर्गात्पित्तं योनिषु सञ्चयम्
रक्तस्य कुरुते तस्या वातपित्तोक्तगुल्मजान् ॥ १.१६०.५२ ॥
गर्भाशये च सुतरां शूलांश्चैवासृगाश्रये
योनिस्त्रावश्च दौर्गन्ध्यं भूयः स्यन्दनवेदने ॥ १.१६०.५३ ॥
कदापि गर्भवद्गुल्मः सर्वे ते रतिसम्भवाः
पाकञ्चिरेण भजते नैधते विद्रधिः पुनः ॥ १.१६०.५४ ॥
पच्यते शीघ्रमत्यर्थं दुष्टरक्ताश्रयस्तु सः
अतः शीघ्रं विदाहित्वाद्वद्रधिः सोऽभीधीयते ॥ १.१६०.५५ ॥
गुल्मान्तारश्रये बस्तिदाहश्च प्लीहवेदना
अग्निवर्णबलभ्रंशो वेगानां वा प्रवर्तनम् ॥ १.१६०.५६ ॥
अतो विपर्यये बाह्यकोष्ठाङ्गेषु च नातिरुक्
वैवर्ण्यमथ वा कासो बहिरुन्नतताधिकम् ॥ १.१६०.५७ ॥
साटोपमत्युग्ररुजमाध्मानमुदरे भृशम्
ऊर्ध्वाधो वातरोधेन तमानाहं प्रचक्षते ॥ १.१६०.५८ ॥
धनश्चाष्ठ्युपमो ग्रन्थिलोऽष्ठीलातु समुन्नता
समस्तालिङ्गसंयुक्तः प्रत्यष्ठीला तदाकृतिः ॥ १.१६०.५९ ॥
पक्वशयोद्भवोऽप्येवं वायुस्तीव्ररुजाश्रयात्
उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि ॥ १.१६०.६० ॥
आचोपमाध्मानमपक्तिशक्तिः आसन्नगुल्मस्य भवेच्च चिह्नम् ॥ १.१६०.६१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रधिगुल्मनिदान नाम षष्ट्युत्तरशततमोध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १६१
धन्वन्तरिरुवाच
उदराणां निदानञ्च वक्ष्ये सुश्रुत तच्छृणु
रोगाः सर्वेऽपि मन्दाग्नौ सुतरामुदराणि तु ॥ १.१६१.१ ॥
अनीर्णामयाश्चाप्यन्ये जायन्ते मलसंचयात्
ऊर्ध्वाधो वायवो रुद्ध्वा व्याकुलाविप्रवाहिणी? ॥ १.१६१.२ ॥
प्राणानपानान्संदूष्य कुर्युस्तान्मांससन्धिगान्
आध्माप्य कुक्षिमुदरमष्टधा ते च भेदतः ॥ १.१६१.३ ॥
पृथग्दोषैः समस्तौश्च प्लीहवङ्क्षक्षतोदकैः
तेनार्ताः शुष्कताल्वोष्ठाः सर्वपादकरोदराः ॥ १.१६१.४ ॥
नष्टचेष्टबलाहाराः कृतप्रध्मात्कुक्षयः
पुरुषाः स्युः प्रेतरूपा भाविनस्तस्य लक्षणम् ॥ १.१६१.५ ॥
क्षुन्नाशोऽरुचिवत्सर्वं सविदाहञ्च पच्यते
जीर्णान्नं यो न जानाति सोऽपथ्यं सेवतेनरः ॥ १.१६१.६ ॥
क्षीयते बलमङ्गस्य श्वसित्यल्पोऽविचेष्टितः
विषयावृत्तिबुद्धिश्च शोकशोषादयोऽपिच ॥ १.१६१.७ ॥
रुग्बस्तिसन्धौ सततं लघ्वल्पभोजनैरपि
जराजीर्णो बलभ्रंशो भवेज्जठररोगिणः ॥ १.१६१.८ ॥
स्वतन्त्रतन्द्रालसता मलसर्गोऽल्पवह्निता
दाहः श्वयथुराध्मानमन्त्रे सलिलसम्भवे ॥ १.१६१.९ ॥
सर्वत्र तोये मरणं शोचनं तत्र निष्फलम्
गवाक्षवच्छिराजालैरुदरं गुड्गुडायते ॥ १.१६१.१० ॥
नाभिमन्त्रश्च विष्टभ्य वेगं कृत्वा प्रणश्यति
मारुते हृत्कटीनाभिपायुवङ्क्षणवेदनाः ॥ १.१६१.११ ॥
सशब्दो निः सरेद्वायुर्वहते मूत्रमल्पकम्
नातिमात्रं भवेल्लौल्यं नरस्य विरसं मुखम् ॥ १.१६१.१२ ॥
तत्रवातोदरे शोथः पाणिपान्मुखकुक्षिषु
कुर्क्षिपार्श्वोदरकटीपृष्ठरुक्पर्वभदनम् ॥ १.१६१.१३ ॥
शुष्ककासाङ्गमर्दाधोगुरुतामलसंग्रहः
श्यामारुणत्वगादित्वं मुखे च रसवद्धिता ॥ १.१६१.१४ ॥
सतोदभेदमुदरं नीलकृष्णशिराततम्
आध्मातमुदरे शब्दमद्भुतं वा करोति सः ॥ १.१६१.१५ ॥
वायुश्चात्र सरुक्च्छब्दं विधत्ते सर्वथा गतिम्
पित्तोदरे ज्वरो मूर्छा दाहित्वं कटुकास्यता ॥ १.१६१.१६ ॥
भ्रमोतिसारः पीतत्वं त्वगादावुदरं हरित्
पीतताम्रशिरादित्वं सस्वेदं सोष्म दह्यते ॥ १.१६१.१७ ॥
धूमायते मृदुस्पर्शं क्षैप्रपाकं प्रदूयते
श्लेष्मोदरेषु सदनं स्वेदश्वयथुगौरवम् ॥ १.१६१.१८ ॥
निद्रा क्लेशोऽरुचिः श्वासः काशः शुक्लत्वगादिता
उदरं तिमिरं स्निग्धं शुक्लकृष्णशिरावृतम् ॥ १.१६१.१९ ॥
नीरातिवृद्धौ कठिनं शीतस्पर्शं गुरु स्थिरम्
त्रिदोषकोपने तैस्तैस्त्रिदोषजीनैतर्मलैः ॥ १.१६१.२० ॥
सर्वदूषणदुष्टाश्च सरक्ताः सञ्चिता मलाः
कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्छाभ्रमान्वितम् ॥ १.१६१.२१ ॥
कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम्
वर्धते तच्च सुतरां शीतवातप्रदर्शने ॥ १.१६१.२२ ॥
अत्यशनाच्च संक्षोभाद्यानपानादिचेष्ठितैः
अविहितैश्च पानाद्यैर्वमनव्याधिकर्षणैः ॥ १.१६१.२३ ॥
वामपार्श्वास्थितः प्लीहा त्युतस्थानो विवर्धते
शोणिताद्वा रसादिभ्यो विवृद्धो जनयेद्व्यथाम् ॥ १.१६१.२४ ॥
सोऽष्ठीला चातिकठिनः प्रोन्नतः कूर्मपृष्ठवत्?
क्रमेण वर्धमानश्च कुक्षौ व्याततिमाहरेत् ॥ १.१६१.२५ ॥
श्वासकासपिपासास्यवैरस्याध्मानकज्वरैः
पाण्डुत्वमूर्छाछर्दित्वग्दाहमोहैश्च संयुतः ॥ १.१६१.२६ ॥
अरुणाभं विचित्राभं नीलहारिद्रराजितम्
उदावर्तेन चानाहमोहतृड्द्गहनज्वरैः ॥ १.१६१.२७ ॥
गौरवारुचिकाठिन्यैर्विघातभ्रमसंक्रमात्
प्लीहवद्दक्षिणात्पार्श्वात्कुर्याद्यकृदपि च्युतम् ॥ १.१६१.२८ ॥
पक्वे भूते यकृति च सदा बद्धमलो गुदे
दुर्नामभिरुदावर्तैरन्यैर्वा पीडितो भवेत् ॥ १.१६१.२९ ॥
वर्चः पित्तकफान्बद्धान्करोति कुपितोऽनिलः
अपानो जठरे तेन संरुद्धो ज्वररुक्करः ॥ १.१६१.३० ॥
काशश्वासोरुसद्गनं शिरोरुङ्नाभिपार्श्वरुक्
मलासंगोऽरुचिश्छर्दिरुदरे मलमारुतः ॥ १.१६१.३१ ॥
स्थिरनीलारुणशिराजालैरुदरमावृतम्
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते ॥ १.१६१.३२ ॥
अस्थ्यादिशल्यै रन्यैश्च विद्धे चैवोदरे तथा
पच्यते यकृतादिश्च तच्छिद्रैश्च सरन्बहिः ॥ १.१६१.३३ ॥
आम एव गुदाहेति ततोऽल्पाल्पः शकृद्रसः
स स्याद्विकृतगन्धोऽपि पिच्छिलः पीतलोहितः ॥ १.१६१.३४ ॥
शेषश्चापूर्य जठरं घोरमारभते ततः
वर्धते तदधो नाभेराशु चैति जलात्मताम् ॥ १.१६१.३५ ॥
उद्रिक्ते दोषरूपे च व्याप्ते च श्वासतृट्भ्रमैः
छिद्रोदरमिदं प्राहुः परिस्त्रावीति चापरे ॥ १.१६१.३६ ॥
प्रवृत्तस्नेहपानादेः सहसापथ्यसेविनः
अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य च ॥ १.१६१.३७ ॥
रुद्धः स्वमार्गादनिलः कफश्च जलमूर्छितः
वर्धते तु तदेवाम्बु तन्मात्राद्विन्दुराशितः ॥ १.१६१.३८ ॥
तत्कोपादुदरं तृष्णागुदस्नुतिरुजान्वितम्
काशश्वासारुचियुतं नानावर्णाशिराततम् ॥ १.१६१.३९ ॥
तोयपूर्णान्मृदुस्पर्शात्सदृशक्षोभवेपथु
बकोदरं स्थिरंस्निग्धं नाडीमावृत्य जायते ॥ १.१६१.४० ॥
उपेक्षायाञ्च सर्वेषां स्वस्थानां परिचालिताः
पाका द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि ॥ १.१६१.४१ ॥
स्वेदे चैव तु संरुद्धे मूर्छिताश्चान्तरस्थिताः
तदेवोदरमापूर्य कुर्यादुदरामयम् ॥ १.१६१.४२ ॥
गुरूदरं स्थितं वृत्तमाहतञ्च न शब्दकृत्
हीनबलं तथा घोरं नाड्यां स्पृष्टञ्च सपति ॥ १.१६१.४३ ॥
शिरान्तर्धानमुदरे सर्वलक्षणमुच्यते
वातपित्तकफप्लीहसन्निपातोदकोदरम् ॥ १.१६१.४४ ॥
पक्षाच्च जातसलिलं विष्टम्भोपद्रवान्वितम्
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् ॥ १.१६१.४५ ॥

इति श्रीगारुडे महापुराण्मे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकषष्ट्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १६२
धन्वन्तरिरुवाच
पाण्डुशोथनिदानञ्च शृणु सुश्रत वच्मि ते
पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः ॥ १.१६२.१ ॥
नत्रानिलेन बलिना क्षिप्ताक्षिप्तं यदि स्थितम्
धमनीर्दशमीः प्राप्य व्याप्नुवन्सकलां तनुम् ॥ १.१६२.२ ॥
त्वगसृक्छ्लेष्ममांसानि प्रदूष्यन्रसमाश्रितम्
त्वङ्मांसयोस्तु कुरुते त्वचि वर्णान् पृथग्विधान् ॥ १.१६२.३ ॥
स्वयं हरिद्रा हारिद्रं पाण्डुत्वं तेषु चाधिकम्
यातोऽयं प्रहतेदुग्रः स रोगस्तेन गौरवम् ॥ १.१६२.४ ॥
धातूनां स्पर्शशैथिल्यमामजश्च गुणक्षयः
ततोऽल्परक्तमेदोऽस्थिनिः सारः स्याच्छ्लथेन्द्रियः ॥ १.१६२.५ ॥
शीर्यमाणैरिवाङ्गैस्तु द्रवता हृदयेन च
शूलोक्षिकूटवदने स्तैमित्यं तत्र लालया ॥ १.१६२.६ ॥
हीनतृट्शिशिरद्वेषी शीर्णलोभो हतानलः
मन्दशक्तिर्ज्वरी श्वासी कर्णशूली तथा भ्रमी ॥ १.१६२.७ ॥
स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्
प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि ॥ १.१६२.८ ॥
अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पमृत्रता
मेदः समानिलात्तत्र गाढरुक्क्लेदगात्रता ॥ १.१६२.९ ॥
कृष्णेक्षणं कृष्णशिरानखविण्मूत्रनेत्रता
शोथो नासास्यवैरस्यं विट्शोषः पार्श्वमूर्छना ॥ १.१६२.१० ॥
पित्ते हरितपित्ताभः शिरादिषु ज्वरस्तमः
तृट्शोषमूर्छादौर्गन्ध्यं शीतेच्छा कटुवक्रता ॥ १.१६२.११ ॥
विड्भेदश्चाम्लको दाहः कफाच्च हृदयार्द्रता
तन्द्रा लवणवक्रत्वं रोमहर्षः स्वरक्षयः ॥ १.१६२.१२ ॥
काशश्छर्दिश्च निचयान्नष्टलिङ्गोऽतिदुः सहः
उत्कृष्टेनिलपित्ताभ्या कटुर्वा मधुरः कफः ॥ १.१६२.१३ ॥
दूषयित्वा वसादींश्च रौक्ष्याद्रक्तविमोक्षणम्
स्रोतसां संक्षयं कुर्यादनुरुध्य च पूर्ववत् ॥ १.१६२.१४ ॥
पाण्डुरोगेक्षयेजाते नाभिपादास्यमेहनम्
पुरीषं कृमिवन्मुञ्चेद्भिन्नं सास्त्रं कफान्वितम् ॥ १.१६२.१५ ॥
यः पित्तरोगी सेवेत पित्तलं तस्य कामलम्
कोष्ठशा खोद्गतं पित्तं दग्ध्वासृङ्मांसमाहरेत् ॥ १.१६२.१६ ॥
हारिद्रमूत्रनेत्रत्वं मुखं रक्तं शकृत्तथा
दाही विपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः ॥ १.१६२.१७ ॥
भवेत्पित्तानुगः शोथः पाण्डुरोगावृतस्य च
उपेक्षया च शोथाद्याः सकृच्छ्राः कुम्भकामलाः ॥ १.१६२.१८ ॥
हरितश्यामपित्तत्वे पाण्डुरोगो यदा भवेत्
वातपित्ते भ्रमस्तृष्णा स्त्रीषु हर्षो मृदुज्वरः ॥ १.१६२.१९ ॥
तन्द्रा वा चानलभ्रंशस्तं वदन्ति हलीमकम्
आलस्यञ्चातिभवति तेषां पूर्वमुपद्रवः ॥ १.१६२.२० ॥
शोथः प्रधानः कथितः स एवातो निगद्यते
पित्तरक्तकफान्वायुर्दुष्टो दुष्टान्बहिः शिराः ॥ १.१६२.२१ ॥
नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम्
उत्सेधं संहतं शोथं तमाहुर्निचयादतः ॥ १.१६२.२२ ॥
सर्वहेतुविशषैस्तु रूपभेदान्नवात्मकम्
दोषैः पृथग्विधैः सर्वैरभिघाताद्विषादपि ॥ १.१६२.२३ ॥
तदेव नीयमानन्तु सर्वाङ्गे कामजम्भवेत्
पृथून्नताग्रग्रथितैर्विशेषैश्च त्रिधा विदुः ॥ १.१६२.२४ ॥
सामान्यहेतुः शोथानां दोषजातो विशेषतः
व्याधिः कर्मोपवासादिक्षीणस्य भवति द्रुतम् ॥ १.१६२.२५ ॥
अतिमात्रं यदासेवेद्गुरुमत्यन्तशीतलम्
लवणक्षारतीक्ष्णाम्लशाकाम्बुस्वप्नजागरम् ॥ १.१६२.२६ ॥
रोधो वेगस्य वल्लूरमजीर्णश्रममैथुनम्
पच्यते मार्गगमनं यानेन क्षोभिणापि वा ॥ १.१६२.२७ ॥
श्वासकासातिसारार्शोजठरप्रदरज्वराः
विष्टम्भालस्यकच्छर्दिहिक्कापाण्डुविसर्पकम् ॥ १.१६२.२८ ॥
ऊर्ध्वशोथमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः
सर्वाङ्गगः सर्वगतः प्रत्यप्रत्यगेति तदाश्रयः ॥ १.१६२.२९ ॥
तत्पूर्वरूपं क्षवथुः शिरायामङ्गगौरवम्
वाताच्छोथश्चलो रूक्षः खररोमारुणोऽसितः ॥ १.१६२.३० ॥
शङ्खबस्त्यन्त्रशोफर्तिमेदोभेदाः प्रसुप्तिता
वातोत्तानः क्लमः शीघ्रमुन्नमेत्पीडितां तनुम् ॥ १.१६२.३१ ॥
सिग्धस्तु मर्दनैः शाम्येद्रात्रावल्पो दिवा महान्
त्वक्सर्षपविलिप्ते च तस्मिंश्चिमिचिमायते ॥ १.१६२.३२ ॥
पीतरक्तासिंताभासः पित्तजातश्च शोषकृत्
शीघ्रं नासौ वा प्रशमेन्मध्ये प्राग्दहते तनुम् ॥ १.१६२.३३ ॥
सतृट्दाहज्वरस्वेदो भ्रमक्लोदमदभ्रमाः
साभिलाषी शकृद्भेदो गन्धः स्पर्शसहो मृदुः ॥ १.१६२.३४ ॥
कण्डूमान्पाण्डुरोमा त्वक्कठिनः शीतलो गुरुः
स्निग्धःश्लक्ष्णः स्थिरः शूलो निद्राच्छर्द्यग्निमान्द्यकृत् ॥ १.१६२.३५ ॥
आघातेन च शस्त्रादिच्छेदभेदक्षतादिभिः
हिमानिलैर्दध्यनिलैर्भल्लातकपिकच्छजैः ॥ १.१६२.३६ ॥
रसैः शुष्कैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान्
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ॥ १.१६२.३७ ॥
विषजः सविषप्राणिपरिसर्पणमूत्रणात्
दंष्ट्रादन्तनखाघातादविषप्राणिनामपि ॥ १.१६२.३८ ॥
विण्मूत्रशुक्रोपहतमलवद्वस्तुसंङ्करात्
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात् ॥ १.१६२.३९ ॥
मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः
नवोऽनुपद्रवः शोथः साध्योऽसाध्यः पुरेरितः ॥ १.१६२.४० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पाण्डुसोथनिदानं नाम द्विषष्ट्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १६३
धन्वन्तीररुवाच
विसर्पादिनिदानन्ते वक्ष्ये सुश्रुत तच्छृणु
स्याद्विसर्पो विघातात्तु दोषैर्दुष्टैश्च शोथवत् ॥ १.१६३.१ ॥
अधिष्ठानञ्च तं प्राहुर्बाह्यं तत्र भयाच्छ्रमात्
यथात्तरञ्च दुः साध्यस्तत्र दोषो यथायथम् ॥ १.१६३.२ ॥
प्रकोपनैः प्रकुपिता विशेषेण विदाहिभिः
देहे शीघ्रं विशन्तीह तेऽन्तरे हि स्थिता बहिः ॥ १.१६३.३ ॥
तृष्णाभियोगाद्वेगानां विषमाच्च प्रवर्तनात्
आशु चाग्निबलभ्रंशादतो बाह्यं विसर्पयेत् ॥ १.१६३.४ ॥
तत्र वातात्स वीसर्पो वातज्वरसमव्यथः
शोथस्फुरणनिस्तोदभेदायासार्तिहर्षवान् ॥ १.१६३.५ ॥
पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः
कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक् ॥ १.१६३.६ ॥
सन्निपातसमुत्थाश्च सर्वलिङ्गसमन्विताः
स्वदोषलिङ्गैश्चीयन्ते सर्वैः स्फोटैरुपेक्षिताः
तेऽपि स्वेदान्विमुञ्चति बिभ्रतो व्रणलक्षणम् ॥ १.१६३.७ ॥
वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः
गन्थिभेदाग्निसदनतमकारोचकैर्युतः ॥ १.१६३.८ ॥
करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत्
यंयं देशं विसर्पश्च विसर्पति भवेत्ससः ॥ १.१६३.९ ॥
शान्ताङ्गारासितो नीलो रक्तो वासु च चीयते
अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतं स च ॥ १.१६३.१० ॥
मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः
व्यथतेऽङ्गं हरेत्संज्ञां निद्राञ्च श्वासमीरयेत् ॥ १.१६३.११ ॥
हिक्काञ्च स गतोऽवस्थामीदृशीं लभते नरः
क्वचिन्मर्मारतिग्रस्तो भूमिशय्यासनादिषु ॥ १.१६३.१२ ॥
चेष्टमानस्ततः क्लिष्टो मनोदेहप्रमोहवान्
दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते ॥ १.१६३.१३ ॥
कफेन रुद्धः पवनो भित्त्वातं बहुधा कफम्
रक्तं वा वृद्धरक्तस्य त्वक्छिरास्नायुमांसगम् ॥ १.१६३.१४ ॥
दूषयित्वा तु दीर्घानुवृत्तस्थूलखरात्मिकाम्
ग्रन्थीनां कुरुते मालां सरक्तान्तीव्ररुग्ज्वराम् ॥ १.१६३.१५ ॥
श्वासकासातिसारास्यशोषहिक्कावमिभ्रमैः
मोहवैवर्ण्यमूर्छाङ्गभङ्गग्निसदनैर्युताम्
इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः ॥ १.१६३.१६ ॥
कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा
अङ्गावसादविक्षेंपौ प्रलापारोचकभ्रमाः ॥ १.१६३.१७ ॥
मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम्
आमोपवेशनं लेपः स्रोतसां स च सर्पति ॥ १.१६३.१८ ॥
प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक्
पीडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः ॥ १.१६३.१९ ॥
स्निध्नोऽसितो मेचकाभो मलिनः शोथवान्गुरुः
गम्भीरपाकः प्रायोष्मस्पृष्टः क्लिन्नोंऽवदीर्यते ॥ १.१६३.२० ॥
पक्ववच्छीर्णमांसश्च स्पष्टस्नायुशिरागणः
सर्वगो लक्षणैः सर्वेः सर्वगत्वक्समर्पणः
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् ॥ १.१६३.२१ ॥
बाह्यहेतोः क्षतात्क्रुद्ध्वः सरक्तं पित्तमीरयन्
वीसर्पं मारुतः कुर्यात्कुलत्थसदृशैश्चितम् ॥ १.१६३.२२ ॥
स्फोटैः शोथज्वररुजादाहाढ्यं श्यावशोणितम्
पथग्दोषैस्त्रयः साध्या द्वन्द्वजाश्चानुपद्रवाः ॥ १.१६३.२३ ॥
असाध्याः कृतसर्वोत्थाः सर्वे चाक्रान्तमर्मणः
शीर्णस्नायुशिरामांसाः क्लिन्नाश्चशवगन्धयः ॥ १.१६३.२४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वीसर्पनिदानं नाम त्रिपष्ट्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १६४
धन्वन्तरिरुवाच
मिथ्याहारविहारेण विशेषेण विरोधिना
साधुनिन्दावधाद्युद्धहरणाद्यैश्च सेवितैः ॥ १.१६४.१ ॥
पाप्मभिः कर्मभिः सद्यः प्राक्तनैः प्रेरितामलाः
शिराः प्रपद्य तैर्युक्तास्त्वग्वसारक्तमामिषम् ॥ १.१६४.२ ॥
दूषयन्ति च संशोष्य निश्चरन्तस्ततो बहिः
त्वचः कुर्वान्ति वैवर्ण्यं शिष्टाः कुष्ठमुशन्तितम् ॥ १.१६४.३ ॥
कालेनोपेक्षितं यत्स्यात्सर्वं कोष्ठानि तद्वपुः
प्रपद्य धातून्बाह्यान्तः सर्वान्संक्लेद्य चावहेत् ॥ १.१६४.४ ॥
सस्वेदक्लेदसङ्कोचान्कृमीन् सूक्ष्मांश्चदारुणान्
लोमत्वक्स्नायुधमनीराक्रामति यथाक्रमम् ॥ १.१६४.५ ॥
भस्माच्छादितवत्कुर्याद्बाह्यं कुष्ठमुदाहृतम्
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः ॥ १.१६४.६ ॥
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकस्ततः
वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात् ॥ १.१६४.७ ॥
मण्डलाख्यं विचर्चो च ऋष्याख्यं वातपित्तजम्
चर्मैककुष्ठं किटिमं सिध्मालसविपादिकाः ॥ १.१६४.८ ॥
वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रूशतारुषी
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा ॥ १.१६४.९ ॥
सर्वेभ्यः काकणं पूर्वत्रिकं दद्रु सकाकणम्
पुण्डरीकर्यजिह्वे च महाकुष्ठानि सप्त तु ॥ १.१६४.१० ॥
अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः
दाहः कण्डूस्त्वचि स्वापस्तोदः कोचोन्नतिस्तमः ॥ १.१६४.११ ॥
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽतिकोपनम् ॥ १.१६४.१२ ॥
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्
कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ॥ १.१६४.१३ ॥
विस्तृताकृतिपर्यस्तन्दूषितैर्लोमभिश्चितम्
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् ॥ १.१६४.१४ ॥
उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत्
वर्तुलं बहुलकेत्युक्तं दाहरुजाधिकम् ॥ १.१६४.१५ ॥
असंच्छन्नमदरणं कृमिवत्स्यादुदुम्बरम्
स्थिरं सत्यानं गुरु स्निग्धं श्वेतरक्तं मलान्वितम् ॥ १.१६४.१६ ॥
अन्योन्यसक्तपुच्छूनबहुकण्डूस्नुतिकृमि
श्लक्ष्णपीताभासंयुक्तं मण्डलं परिकीर्तितम् ॥ १.१६४.१७ ॥
सकण्डूपिटिका श्यावा सक्लेदा च विचर्चिका
परुषन्तत्ररक्तान्तमन्तः श्यामं समुन्नतम् ॥ १.१६४.१८ ॥
ऋष्यजिह्वाकृतिप्रोक्तं ऋष्यजिह्वं बहुक्रिमि
हस्तिचर्मखरस्पर्शं चर्माख्यं कुष्ठमुच्यते ॥ १.१६४.१९ ॥
अस्वेदञ्चमत्स्यशल्कसन्निभं किटिमं पुनः
रूक्षाग्निवर्णं दुः स्पर्शं कण्डूमत्परुषासितम् ॥ १.१६४.२० ॥
अन्ता रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत्
श्लक्ष्णस्पर्शं तनु स्निग्धं स्वच्छमस्वेदपुष्पवत् ॥ १.१६४.२१ ॥
प्रायेण चोर्ध्वकार्श्यञ्च कुण्डैः कण्डूपरैश्चितम्
रक्तैरलंशुका पाणिपादे कुर्याद्विपादिका ॥ १.१६४.२२ ॥
तीव्रार्तिं गाढकण्डूञ्च सरागपिडिकाचितम्
दीर्घप्रतानदूर्वावदतसीकुसुमच्छवि ॥ १.१६४.२३ ॥
उच्छूनमण्डलो दद्रुः कण्डूमानिति कथ्यते
स्थूलमूलं सदाहार्ति रक्तस्त्रावं बहुव्रणम् ॥ १.१६४.२४ ॥
सादहकक्लेदरुजं प्रायशः सर्वजन्म च
रक्ताक्तमण्डलं पाण्डु कण्डूदाहरुजान्वितम् ॥ १.१६४.२५ ॥
सोत्सेधमाचितं रक्तैः कञ्जपर्णमिवाम्बुभिः
पुण्डरीकं भवेत्तद्धि चितं स्फोटैः सितारुणैः ॥ १.१६४.२६ ॥
विस्फोटपिटिका पामा कण्डूक्लेदरुजान्विताः
सूक्ष्मा श्यामारुणा रूक्षा प्रायः स्फिक्पाणिकूर्परे ॥ १.१६४.२७ ॥
सस्फोटसंस्पर्शसहं कण्डूरक्तातिदाहवत्
रक्तदलं चर्मदलं काकणं तीव्रदाहरुक् ॥ १.१६४.२८ ॥
पूर्वरक्तञ्च कृष्णञ्च काकणं त्रिफलोपमम्
कृष्णलिङ्गैर्युतैः सर्वैः स्वस्वकारणतो भवेत् ॥ १.१६४.२९ ॥
दोषभेदाय विहितैरादिशेल्लिङ्गकर्मभिः
कुष्ठस्वदोषानुगतं सर्वदोषगतं त्यजेत् ॥ १.१६४.३० ॥
कुष्ठोक्तं यच्च यच्चास्थिमज्जाशुक्रसमाश्रयम्
कृच्छ्रं मेदोमतञ्चैव याप्यं स्नाप्वास्थिमांसगम् ॥ १.१६४.३१ ॥
अकृच्छ्रं कफवातोत्थं त्वग्गतं त्वमलञ्च यत्
तत्र त्वचि स्थिते कष्ठे काये वैवर्ण्यरूक्षाता ॥ १.१६४.३२ ॥
स्वेदतापश्वयथवः शोणिते पिशिते पुनः
पाणिपादाश्रिताः स्फोटाः क्लेशात्सन्धिषु चाधिकम् ॥ १.१६४.३३ ॥
दोषस्याभीक्ष्णयोगेन दलनं स्याच्च मेदसि
नातिसंज्ञास्ति मज्जास्थिनेत्रवेगस्वरक्ष्यः ॥ १.१६४.३४ ॥
क्षते च क्रिमिभिः शुक्रे स्वदारापत्यबाधनम्
यथापूर्वाणि सर्वाणि स्वलिङ्गानि मृगादिषु ॥ १.१६४.३५ ॥
कष्ठैकसम्भवं श्वित्रं किलासं दारुणं भवेत्
निर्दिष्टमपरिस्त्रावि त्रिधातूद्भवसंश्रयम् ॥ १.१६४.३६ ॥
वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत्
सदाहं रोमविध्वंसि कफाच्छ्वेतं घन गुरु ॥ १.१६४.३७ ॥
सकण्डूरं क्रमाद्रक्तमांसमेदः सु चादिशेत्
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥ १.१६४.३८ ॥
अशुक्लरोमबहुलमसंश्लिष्टं मिथो नवम्
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ॥ १.१६४.३९ ॥
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तरम्
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छिता ॥ १.१६४.४० ॥
स्पर्शैकाहारसंगादिसेवनात्प्रायशो गदाः
एकशय्यासनाच्चैव वस्त्रमाल्यानुलेपनात् ॥ १.१६४.४१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कुष्ठरोगनिदान नाम चतुः षष्ट्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १६५
धन्वन्तरिरुवाच
क्रिमयश्च द्विधा प्रोक्ता बाह्यभ्यन्तरभेदतः
बहिर्मलकफासृग्विट्जन्मभेदाच्चतुर्विधाः ॥ १.१६५.१ ॥
नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ॥ १.१६५.२ ॥
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः
द्विधा ते कोष्ठपिडिकाः कण्डूगण्डान्प्रकुर्वते ॥ १.१६५.३ ॥
कुष्ठैकहेतवोऽन्तर्जाः श्लेष्मजा बाह्यसम्भवाः
मधुरान्नगुडक्षीरदधिमत्स्यनवौदनैः ॥ १.१६५.४ ॥
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः
पृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः ॥ १.१६५.५ ॥
रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ॥ १.१६५.६ ॥
अन्त्रादा उदरावेष्टा हृदयादा महागुदाः
च्युरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते ॥ १.१६५.७ ॥
हृल्लासमास्यश्रवणमविपाकमरोचकम्
मूर्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान् ॥ १.१६५.८ ॥
रक्तवाहिशिरास्थानरक्तजा जन्तवोऽणवः
अपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः ॥ १.१६५.९ ॥
केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः
षट्ते कुष्ठैककर्माणः सहसौरसमातरः ॥ १.१६५.१० ॥
पक्वाशये पुरीषोत्था जायन्तेऽथोविसर्पिणः
वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः ॥ १.१६५.११ ॥
तदास्योद्गारनिः श्वामविड्गन्धानुविधायिनः
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ॥ १.१६५.१२ ॥
ते पञ्चनाम्ना क्रिमयः ककेरुकमकेरुकाः
सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि ॥ १.१६५.१३ ॥
वङ्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः
रोमहर्षाग्निसदनं गुदकण्डूंर्विमार्गगाः ॥ १.१६५.१४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे क्रिमिनिदानं नाम पञ्चषष्ठ्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १६६
धन्वन्तरिरुवाच
वातव्याधिनिदानं ते वक्ष्ये सुश्रुत तच्छृणु
सर्वथानर्थकथने विघ्न एव च कारणम् ॥ १.१६६.१ ॥
अदृष्टदुष्टपवनशरीरमविशेषतः
स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः ॥ १.१६६.२ ॥
स्रष्टा धाता विभुर्विष्णुः संहर्ता मृत्युरन्तकः
तद्वदुक्तं च यत्नेन यतितव्यमतः सदा ॥ १.१६६.३ ॥
तस्योक्ते दोषविज्ञाने कर्म प्राकृतवैकृतम्
समासव्यासतो दोषभेदानामवधार्य च ॥ १.१६६.४ ॥
प्रत्येकं पञ्चधा वीरो व्यापारश्चेह वैकृतः
तस्योच्यते विभागेन सनिदानं सलक्षणम् ॥ १.१६६.५ ॥
धातुक्षयकरैर्वायुः क्रुद्धो नातिनिषेव्यते
चतुः स्नोतोऽवकाशेषु भूयस्तान्येव पूरयेत् ॥ १.१६६.६ ॥
तेभ्यस्तु दोषपूर्णेभ्यः प्रच्छाद्य विवरं ततः
तव वायुः सकृत्क्रुद्धः शूलानाहान्त्रकूजनम् ॥ १.१६६.७ ॥
मलरोधं स्वरभ्रंशं दृष्टिपृष्ठकटिग्रहम्
करोत्येव पुनः काये कृच्छ्रानन्यानुपद्रवान् ॥ १.१६६.८ ॥
आमाशयोत्थवमथुश्वासकासविषूचिकाः
कण्डूपरोधघर्मादिव्याधीनूर्ध्वञ्च नाभितः ॥ १.१६६.९ ॥
श्रोत्रादीन्द्रियबाधां च त्वचि स्फोटनरूक्षताम्
चक्रेतीव्ररुजाश्वासगरामयविवर्णताः ॥ १.१६६.१० ॥
अन्त्रस्यान्तञ्च विष्टम्भमरुचिं कृशतां भ्रमम्
मांसमेदोगतग्रन्थिं चर्मादावुपकर्कशम् ॥ १.१६६.११ ॥
गुर्वङ्गन्तुद्यतेऽत्यर्थं दण्डमुष्टिहतं यथा
अस्थिस्थः सक्थिसन्ध्यस्थिशूलं तीव्रञ्च लक्षयेत् ॥ १.१६६.१२ ॥
मज्जस्थोऽस्थिषु चास्थैर्यमस्वप्नं यत्तदा रुजाम्
शुक्रस्य शीघ्रमुत्सङ्गसर्गान्विकृतिमेव वा ॥ १.१६६.१३ ॥
तत्तद्गर्भस्थशुक्रस्थः शिरस्याध्मानरिक्ताता
तत्र स्थानस्थितः कुर्यात्क्रुद्धः श्वयथुकृच्छ्रताम् ॥ १.१६६.१४ ॥
जलपूर्णदृतिस्पर्शं शोषं सन्धिगतोऽनिलः
सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम् ॥ १.१६६.१५ ॥
स्तम्भनाक्षेपणं स्वप्नः सन्धिभञ्जनकम्पनम्
यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः
तदाङ्गमाक्षिपत्येष व्याधिराक्षेपणः स्मृतः ॥ १.१६६.१६ ॥
अधः प्रतिहतो वायुर्व्रजेदूर्ध्वं यदा पुनः
तदावष्टभ्य हृदयं शिरः शङ्खौ च पीडयेत् ॥ १.१६६.१७ ॥
सक्षिपेत्परितो गात्रं हनुं वा चास्य नामयत्
कृच्छ्रादुच्छ्वसितं चापि निमीलन्नयनद्वयम् ॥ १.१६६.१८ ॥
कपोत इव कूजेच्च निः संगः सोपतन्त्रकः
स एव वामनासायां युक्तस्तु मरुता हृदि ॥ १.१६६.१९ ॥
प्राप्नोति च मुहुः स्वास्थ्यं मुहुरस्वास्थ्यवान्भवेत्
अभिघातसमुत्थश्च दुश्चिकित्स्यतमो मतः ॥ १.१६६.२० ॥
स्वेदस्तम्भं तदा तस्य वायुश्छिन्नतनुर्यदा
व्याप्नोति सकलं देहं यत्र चायाम्यते पुनः ॥ १.१६६.२१ ॥
अन्तर्धान्तुगतश्चैव वेगस्तम्भं च नेत्रयोः
करोति जृम्भां सदनं दशनानां हतोद्यमम् ॥ १.१६६.२२ ॥
पार्श्वयोर्वेदनां बाह्यां हनुपृष्ठसिरोग्रहम्
देहस्य बहिरायामं पृष्ठतो हृदये शिरः ॥ १.१६६.२३ ॥
उरश्चोत्क्षिप्यते तत्र स्कन्धो वा नाम्यते तदा
दन्तेष्वास्ये च वैवर्ण्यं ह्यस्वेदस्तत्र गात्रतः ॥ १.१६६.२४ ॥
बाह्यायामं हनुस्तम्भं ब्रवते वातरोगिणम्
विण्मूत्रमसृजं प्राप्य ससमीरसमीरणाः? ॥ १.१६६.२५ ॥
आयच्छन्ति तनोर्देषाः सर्वमापादमस्तकम्
तिष्ठतः पाण्डुमात्रस्य व्रणायामः सुवर्धितः ॥ १.१६६.२६ ॥
गात्रवेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपणेन तत्
जिह्वाविलेखनादुष्णभक्षणादतिमानतः ॥ १.१६६.२७ ॥
कुपितो हनुमूलस्थः स्तम्भयित्वानिलो हनुम्
करोति विवृतास्यत्वमथवा संवृतास्यताम् ॥ १.१६६.२८ ॥
हनस्तम्भः स तेन स्यात्कृच्छ्राच्चर्वणभाषणम्
वाग्वादिनी शिरास्तम्भो जिह्वां स्तम्भयतेऽनिलः ॥ १.१६६.२९ ॥
जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता
शिरसा भारहरणादतिहास्यप्रभाषणात् ॥ १.१६६.३० ॥
विषमादुपधानाच्च कठिनानां च चर्वणात्
वायुर्विवर्धते तैश्च वातूलैरूर्ध्वमास्थितः ॥ १.१६६.३१ ॥
वक्रीकरोति वक्त्रं च ह्युच्चैर्हसितमीक्षितम्
ततोऽस्य कुरुते मृद्वीं वाक्शक्तिं स्तब्धनेत्रताम् ॥ १.१६६.३२ ॥
दन्तचालं स्वरभ्रंशः श्रुतिहानीक्षितग्रहौ
गन्धाज्ञानं स्मृतिध्वंसस्त्रासः श्वासश्च जायते ॥ १.१६६.३३ ॥
निष्ठीवः पार्श्वतोदश्च ह्येकस्याक्ष्णो निमीलनम्
जत्रोरूर्ध्वं रुजस्तीव्राः शरीरार्धधरोऽपि वा ॥ १.१६६.३४ ॥
तमाहुरर्दितं केचिदेकाङ्गमथ चापरे
रक्तमाश्रित्य च शिराः कुर्यान्मूर्धधराः शिराः? ॥ १.१६६.३५ ॥
रूक्षः सवेदनः कृष्णः सोऽसाध्यः स्याच्छिरोग्रहः
तनुं गृहीत्वा वायुश्च स्नायुस्तथैव च ॥ १.१६६.३६ ॥
पक्षमन्यतरं हन्ति पक्षाघातः स उच्यते
कृत्स्नस्य कायस्यार्धं स्यादकर्मण्यमचेतनम् ॥ १.१६६.३७ ॥
एकाङ्गरोगतां केचिदन्ये कक्षरुजां विदुः
सर्वाङ्गरोधः स्तम्भश्च सर्वकायाश्रितेऽनिले ॥ १.१६६.३८ ॥
शुद्धवातकृतः पक्षः कृच्छ्रसाध्यतमो मतः
कृच्छ्रश्चान्येन संसृष्टो विवृद्धः क्षयहेतुकः ॥ १.१६६.३९ ॥
आमबद्धायनः कुर्यात्संस्तभ्याङ्गं कफान्वितः
असाध्य एव सर्वो हि भवेद्दण्डापतानकः ॥ १.१६६.४० ॥
अंसमूलोत्थितो वायुः शिराः संकुच्य तत्रगः
बहिः प्रस्यन्दितहरं जनयत्येव बाहुकम् ॥ १.१६६.४१ ॥
तलं प्रत्यङ्गुलीनां यः कण्डरा बाहुपृष्ठतः
बाह्वोः कर्मक्षयकरी विपूची वेति सोच्यते ॥ १.१६६.४२ ॥
वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षैपेद्यदा
तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् ॥ १.१६६.४३ ॥
कम्पते गमनारम्भे खञ्जन्निव च गच्छति
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ॥ १.१६६.४४ ॥
शीतोष्णद्रवसंसुष्कगुरुस्निग्धैश्च सेवितैः
जीर्णाजीर्णे तथायासक्षोभस्निग्धप्रजागरैः ॥ १.१६६.४५ ॥
श्लेष्मभेदः समये परमत्यर्थसंचितम्
अभिभूयेतरं दोषं शरीरं प्रतिपद्यते ॥ १.१६६.४६ ॥
सक्थ्यस्थीनि प्रपूर्यान्तः श्लेष्मणा स्तम्भितेन तत्
तदास्थि स्नाति तेनोरोस्तथा शीतानिलेन तु ॥ १.१६६.४७ ॥
श्यामाङ्गमङ्गस्तैमित्यतन्द्रामूर्छारुचिज्वरैः
तमूरुस्तम्भमित्याह बाह्यवातमथापरे ॥ १.१६६.४८ ॥
वातशोणितसंशोथो जानुमध्ये महारुजः
ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलक्रोष्टुकशीर्षवत् ॥ १.१६६.४९ ॥
रुक्पादविषमन्यस्ते श्रमाद्वा जायते यदा
वातेन गुल्फमाक्षित्य तमाहुर्वातकण्टकम् ॥ १.१६६.५० ॥
पार्ष्णिप्रत्यङ्गुलीनाभौ कण्ठे वा मारुतार्दिते
सतिक्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते ॥ १.१६६.५१ ॥
हृष्येते चरणौ यस्य भवेतां चापि सुप्तकौ
पादहर्षः स विज्ञेयः कफमारुतकोपजः ॥ १.१६६.५२ ॥
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः
विशेषतश्चङ्क्रमतः पाददाहं तमादिशेत् ॥ १.१६६.५३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वातव्याधिनिदानं नाम षटूषष्ट्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १६७
धन्वन्तरीरुवाच
वातरक्तनिदानं ते वक्ष्ये सुश्रुत तच्छृणु
विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः ॥ १.१६७.१ ॥
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्
स्थूलानां सुखिनां चापि कुप्यते वातशोणितम् ॥ १.१६७.२ ॥
अग्निघातादशुद्धेश्च नृणामसृजि दूषिते
वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः ॥ १.१६७.३ ॥
तादृशैवासृजा रुद्धः प्राक्तदैव प्रदूषयेत्
तथा वातो गुदे पीडां बलासं वातशोणितम् ॥ १.१६७.४ ॥
संस्तभ्य जनयेत्पूर्वं पश्चात्सर्वत्र धावति
विशेषाद्वमनाद्यैश्च प्रलम्बस्तस्य लक्षणम् ॥ १.१६७.५ ॥
भविष्यतः कुष्ठसमं तथा साम्बुदसंज्ञकम्
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु ॥ १.१६७.६ ॥
कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः
भूत्वा भूत्वा प्रशाम्यन्ति मुहुराविर्भवन्ति च ॥ १.१६७.७ ॥
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि
आखोरिव विलं क्रुद्धः कृत्स्नं देहं बिधावति ॥ १.१६७.८ ॥
त्वङ्मांसाश्रयमत्तानं तत्पूर्वं जायते ततः
कालान्तरेण गम्भीरं सर्वधातूनभिद्रवेत् ॥ १.१६७.९ ॥
कट्यादिसंयतस्थाने त्वक्ताम्रश्यावलोहिताः
श्वयथुर्ग्रथितः पाकः स वायुश्चास्थिमज्जसु ॥ १.१६७.१० ॥
छिन्दन्निव चरत्यन्तश्चकीकुर्वंश्च वेगवान्
करोति खञ्जं पङ्गुं वा शरीरं सर्वतश्चरन् ॥ १.१६७.११ ॥
वाताधिकेऽधिकं तत्र शूलस्फुरणभञ्जनम्
शोथस्य रौक्ष्यं कृष्णत्वं श्यावतावृद्धिहानयः ॥ १.१६७.१२ ॥
धमन्यङ्गुलिसन्धीनां संकोचोङ्गग्रहो तिरुक्
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥ १.१६७.१३ ॥
रक्ते शोथोऽतिरुक्तोदस्ताम्राश्चिमिचिमायते
स्निग्धरूक्षैः समं नैति कण्डुक्लेदसमन्वितः ॥ १.१६७.१४ ॥
पित्ते विदाहः संमोहः स्वादो मूर्छा मदस्तृषा
स्पर्शासहत्वं रुग्रावः शोषः पाको भृशोष्मता ॥ १.१६७.१५ ॥
कफे स्तैमित्यगुरुता सुप्तिस्निग्धत्वशीतता
कण्डूर्मन्दा च रुग्द्बन्द्वं सर्वलिङ्गञ्च संकरात् ॥ १.१६७.१६ ॥
एकदोषञ्च संसाध्यं याप्यञ्चैव द्विदोषजम्
त्रिदोषजन्त्यजेदाशु रक्तपित्तं सुदारुणम् ॥ १.१६७.१७ ॥
रक्तमङ्गे निहन्त्याशु शाखासन्धिषु मारुतः
निवेश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून् ॥ १.१६७.१८ ॥
वायौ पञ्चात्मके प्राणे रौक्ष्याच्चापल्यलङ्घनैः
अत्याहाराभिघाताच्च वेगोदीरणचारणैः ॥ १.१६७.१९ ॥
कुपितश्चक्षुरादीनामुपघातं प्रकल्पयेत्
पीनसो दाहतृट्कासश्वासादिश्चैव जायते ॥ १.१६७.२० ॥
कण्ठरोधोमलभ्रंशच्छर्द्यरोचकपीनसान्
कुर्याच्च गलगण्डदींस्तञ्जत्रुमूर्ध्वसंश्रयः ॥ १.१६७.२१ ॥
व्यानोऽतिगमनस्नानक्रीडाविषयचोष्टितैः
विरुद्धरूक्षभीहर्षविषादाद्यैश्च दूषितः ॥ १.१६७.२२ ॥
पुंस्त्वोत्साहबलभ्रंशशोकचित्तप्लवज्वरान्
सर्वाकारादिनिस्तोदरोमहर्षं सुषुप्तताम् ॥ १.१६७.२३ ॥
कुष्ठं विसर्पमन्यच्च कुर्यात्सर्वाङ्गसादनम्
समानो विषमाजीर्णशीतसङ्कीर्णभोजनैः ॥ १.१६७.२४ ॥
करोत्यकालशयनजागराद्यैश्च दूषितः
शूलगुल्मग्रहण्यादीन्यकृत्कामाश्रयान्गदान् ॥ १.१६७.२५ ॥
अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः
यानपानसमुत्थानचङ्क्रमैश्चातिसेवितैः ॥ १.१६७.२६ ॥
कुपितः कुरुते रोगान्कृत्स्नान् पक्वाशयाश्रयान्
मूत्रसुक्रप्रदोषार्शोगुदभ्रंशादिकान्बहून् ॥ १.१६७.२७ ॥
सर्वाङ्गमाततं सामं तन्द्रास्तैमित्यगौरवैः
स्निग्धत्वाद्बोध कालस्य शैत्यशोथाग्निहानयः ॥ १.१६७.२८ ॥
कण्डूरूक्षातिनाशेन तद्विधोपशमेन च
मुक्तिं विद्यान्निरामं तं तन्द्रादीनां विपर्ययात् ॥ १.१६७.२९ ॥
वायोरावरणं वातो बहुभेदं प्रचक्षते
पित्तलिङ्गावृते दाहस्तृष्णा शूलं भ्रमस्तमः ॥ १.१६७.३० ॥
कटुकोष्णाम्ललवणैर्विदाहशीतकामता
शैत्यगौरवशूलाग्निकट्वाज्यपयसोऽधिकम् ॥ १.१६७.३१ ॥
लङ्घनायासरूक्षोष्णकामता च कफावृते
कफावृतेऽङ्गमर्दः स्याद्धृल्लासो गुरुतारुचिः ॥ १.१६७.३२ ॥
रक्तवृते सदाहार्तिस्तवङ्मांसाश्रयजा भृशम्
भवेत्सरागः श्वयथुर्जायन्ते मण्डलानि च ॥ १.१६७.३३ ॥
शोथो मांसेन कठिनो हृल्लासपिटिकास्तथा
हर्षः पिपीलिकानां च संचार इव जायते
चललग्रनो मृदुः शीतः शोथो गात्रेषु रोचकः ॥ १.१६७.३४ ॥
आढ्यवात इव ज्ञेयः स कृच्छ्रो मेदसावतः
स्पर्श आच्छादितेत्युष्णशीतलश्च त्वनावृते
मज्जावृते तु विषमं जृम्भणं परिवेष्टनम् ॥ १.१६७.३५ ॥
शूलञ्च पड्यिमानश्च पाणिभ्यां लभते सुखम्
शुक्रावृते तु शोथे वै चातिवेगो न विद्यते ॥ १.१६७.३६ ॥
भुक्ते कुक्षौ रुजा जीर्णे निकृत्तिर्भवति ध्रुवम्
मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत् ॥ १.१६७.३७ ॥
छिद्रावृते विबन्धोऽथ स्वस्थानं परिकृन्त ति
पतत्याशु ज्वराक्रान्तो मूर्छां च लभते नरः ॥ १.१६७.३८ ॥
सकृत्पीडितमन्येन दुष्टं शुक्रं चिरात्सृजेत्
सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक् ॥ १.१६७.३९ ॥
विलोमे मारुते चैव हृदयं परिपीड्यते
भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ॥ १.१६७.४० ॥
रुजा तन्द्रा स्वरभ्रंशो दाहो व्याने तु सर्वशः
क्रमों गचेष्टाभङ्गश्च सन्तापः सहवेदनः ॥ १.१६७.४१ ॥
समान ऊष्मोपहतिः सस्वेदोपरतिः सुतृट्
दाहश्च स्यादपाने तु मले हारिद्रवर्णता ॥ १.१६७.४२ ॥
रजोवृद्धिस्तापनञ्च तथा चानाहमेहनम्
श्लेष्मणा प्रावृते प्राणे नादः स्नोतोऽवरोधनम् ॥ १.१६७.४३ ॥
ष्ठीवनञ्चैव सस्वेदश्वासनिः श्वाससंग्रहः
उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः ॥ १.१६७.४४ ॥
बलवर्णप्रणाशश्चा पाने पर्वास्थिसंग्रहः
गुरुताङ्गेषु सर्वेषु स्थूलत्वञ्चागतं भृशम् ॥ १.१६७.४५ ॥
समानेऽतिक्रियाज्ञत्वमस्वेदो मन्दवह्निता
अपाने सकलं मूत्रं शकृतः स्यात्प्रवर्तनम्? ॥ १.१६७.४६ ॥
इति द्वाविंशतिविधं वातरक्तामयं विदुः
प्राणादयस्तथान्योऽन्यं समाक्रान्ता यथाक्रमम् ॥ १.१६७.४७ ॥
सर्वेऽपि विंशतिविधं विद्यादावरणञ्च यत्
हृल्लासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः ॥ १.१६७.४८ ॥
हृद्रोगो मुखशोषश्च प्राणेनापान आवृते
उदानेनावृते प्राणे भवेद्धै बलसंक्षयः ॥ १.१६७.४९ ॥
विचारणेन विभजेत्सर्वमावरणं भिषक्
स्थानान्यपेक्ष्य वातानां वृर्धिहानिं च कर्मणाम् ॥ १.१६७.५० ॥
प्राणादीनाञ्च पञ्चानां पित्तमावरणं मिथः
पित्तादीनामावसतिर्मिश्राणां मिश्रितैश्च तैः ॥ १.१६७.५१ ॥
मिश्रैः पित्तादिभिस्तद्वन्मिश्राण्यपित्वनेकधा
तांल्लक्षयेदवहितो यथास्वं लक्षणोदयात् ॥ १.१६७.५२ ॥
शनैः शनैश्चोपशयान्दृढानपि मुहुर्मुहुः
विशेषाज्जीवितं प्राण उदानो बलमुच्यते
स्यात्तयोः पीडनाद्धनिरायुषञ्च बलस्य च ॥ १.१६७.५३ ॥
आवृता वायवोऽज्ञाता ज्ञाता वा स्थानविच्युताः
प्रयत्नेनापि दुः साध्या भवेयुर्वानुपद्रवाः ॥ १.१६७.५४ ॥
विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षया ॥ १.१६७.५५ ॥
निदानं सुश्रुत ! मया आत्रेयोक्तं समीरितम्
सर्वरोगविवेकाय नराद्यायुः प्रवृद्धये ॥ १.१६७.५६ ॥
एवं विज्ञाय रोगादींश्चिकित्सामथ वै चरेत्
त्रिफला सर्वरोगघ्नी मध्वाज्यगुडसंयुता ॥ १.१६७.५७ ॥
सव्योषा त्रिफला वापि सर्वरोगप्रमर्दिनी
शतावरीगुडूच्यग्निविडङ्गेन युताथवा ॥ १.१६७.५८ ॥
शतावरी गुडूच्यग्निः शुण्ठीमूषलिका बला
पुनर्नवा च बृहती निर्गुण्डी निम्बपत्रकम् ॥ १.१६७.५९ ॥
भृङ्गराजश्चामलकं वासकस्तद्रसेन वा
भाविता त्रिफला सप्तवारमेखमथापिवा ॥ १.१६७.६० ॥
पूर्वोक्तश्च यथालाभयुक्तैश्चूर्णञ्च मोदकः
वटिका घृततैलं वा कषायो शोषरोगनुत्
पलं पलार्धकं वापि कर्षं कर्षार्धमेव वा ॥ १.१६७.६१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वातरक्तनि सप्तषष्ट्याधिकशततमोध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १६८
निदानं समाप्तम्
धन्वन्तरिरुवाच
सर्वरोगहरं सिद्धं योगसारं वदाम्यहम्
शृणु सुश्रुतं संक्षेपात्प्राणिनां जीवहेतवे ॥ १.१६८.१ ॥
कषायकटुतिक्ताम्लरूक्षाहारादिभोजनात्
चिन्ताव्यवयव्यायामभयशोकप्रजागरात् ॥ १.१६८.२ ॥
उच्चैर्भाषातिभाराच्च कर्मयोगातिकर्षणात्
वायुः कुप्यति पर्जन्ये जीर्णान्ने दिनसंक्षये ॥ १.१६८.३ ॥
उष्णाम्ल लवणक्षारकटुकाजीर्णभोजनात्
तीक्ष्णातपाग्निसन्तापमद्यक्रोधनिषेवणात् ॥ १.१६८.४ ॥
विदाहकाले भुक्तस्य मध्याह्ने जलदात्यये
ग्रीष्मकालेर्ऽद्धरात्रेऽपि पित्तं कुप्यति देहिनः ॥ १.१६८.५ ॥
स्वाद्वम्ललवणस्निग्धगुरुशीतातिभोजनात्
नवान्नपिच्छिलानूपमांसादेः सेवनादपि ॥ १.१६८.६ ॥
अव्यायाम दिवास्वप्नशय्यासनसुखादिभिः
कफप्रदोषो भुक्ते च वसन्ते च प्रकुप्यति ॥ १.१६८.७ ॥
देहपारुष्यसंकोचतोदविष्टम्भकादयः
तथा च सुप्ता रोमहर्षस्तम्भनशोषणम् ॥ १.१६८.८ ॥
श्यामत्वमङ्गविश्लेषबलमायासवर्धनम्
वायोर्लिङ्गानि तैर्युक्तं रोगं वातात्मकं वदेत् ॥ १.१६८.९ ॥
दाहोष्मपादसंक्लेदकोपरागपरिश्रमाः
कट्वम्लशववैगन्ध्यस्वेदमूर्छातितृट्भ्रमाः ॥ १.१६८.१० ॥
हारिद्रं हरितत्वञ्च पित्तलिङ्गान्वितैर्नरः
देहे स्निग्धत्वमाधुर्यचिरकारित्वबन्धनम् ॥ १.१६८.११ ॥
स्तैमित्यतृप्तिसङ्घातशोथशतिलगौरवम्
कण्डूनिद्राभियोगश्च लक्षणं कफसम्भवम् ॥ १.१६८.१२ ॥
हेतुलक्षणसंसर्गाद्विद्याद्व्याधिं द्विदोषजम्
सर्वहेतुसमुत्पन्नं त्रिलिङ्गं सान्निपातिकम् ॥ १.१६८.१३ ॥
दोषधातुमलाधारो देहिनां देह उच्यते
तेषां समत्वमारोग्यं क्षयवृद्धेर्विपर्ययः ॥ १.१६८.१४ ॥
वसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः
वातपित्तकफा दोषा विण्मूत्राद्या मलाः स्मृताः ॥ १.१६८.१५ ॥
वायुः शीतो लघुः सूक्ष्मः स्वरनाशीस्थिरो बली
पित्तमम्लकटूष्णञ्चापङ्क्ती रोगकारणम् ॥ १.१६८.१६ ॥
मधुरो लवणः स्निग्धो गुरुः श्लेषमातिपिच्छिलः
गुदश्रोण्याश्रयो वायुः पित्तं पक्वाशयस्थितम् ॥ १.१६८.१७ ॥
कफस्यामाशयस्थानं कण्ठो वा मूर्धसन्धयः
कटुतिक्तकषायाश्च कोपयन्ति समीरणम् ॥ १.१६८.१८ ॥
कट्वम्ललवणाः पित्तं स्वादूष्णलवणाः कफम्
एत एव विपर्यस्ताः शमायैषां प्रयोजिताः
भवन्ति रोगिणां शान्त्यै स्वस्थाने सुखहेतवः ॥ १.१६८.१९ ॥
चक्षुष्यो मधुरो ज्ञेयो रसधातुविवह्द्धनः
अम्लोत्तरो मनोहृद्यं तथा दीपनपाचनम् ॥ १.१६८.२० ॥
दीपनोज्वरतृष्णाघ्नस्तिक्तः शोधनशोषणः
पित्तलो लेखन स्तम्भी कषायो ग्राहिशोषणः ॥ १.१६८.२१ ॥
रसवीर्यविपाकानामाश्रयं द्रव्यमुत्तमम्
रसपाकान्तरस्थायि सर्वद्रव्याश्रयं द्रुतम् ॥ १.१६८.२२ ॥
शीतोष्णं लवणं वीर्यमथ वा शक्तिरिष्यते
रसानां द्विविधः पाको कटुरेव च ॥ १.१६८.२३ ॥
भिषग्भेषजरोगार्तपरिचारकसम्पदः
चिकित्साङ्गानिचत्वारि विपरीतान्यसिद्धये ॥ १.१६८.२४ ॥
देशकालवयोवह्निसाम्यप्रकृतिभेषजम्
देहसत्त्वबलव्याधीन्बुद्ध्वा कर्म समाचरेत् ॥ १.१६८.२५ ॥
बहूदकनगोऽनूपः कफमारुतकोपवान्
जाङ्गलोऽपरशाखी च रक्तपित्तगदोत्तरः ॥ १.१६८.२५*१ ॥
संसृष्टलक्षणोपेतो देशः साधारणः स्मृतः
बाल आ षोडशान्मध्यः सप्ततेर्वृद्ध उच्यते ॥ १.१६८.२६ ॥
कफपित्तानिलाः प्रायो यथाक्रममुदीरिताः
क्षाराग्निशस्त्ररहिता क्षीणे प्रवयसि क्रियाः ॥ १.१६८.२७ ॥
कृशस्य वृंहणं कार्यंस्थूलदेहस्य कर्षणम्
रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः ॥ १.१६८.२८ ॥
स्थैर्यव्यायामसन्तोषैर्बोद्धव्यं यत्नतो बलम्
अविकारी महोत्साहो महासाहसिको नरः ॥ १.१६८.२९ ॥
पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि
श्वसुखायोपकल्प्यन्ते तत्साम्यमिति कथ्यते ॥ १.१६८.३० ॥
गर्भिण्याः श्लैष्मिकैर्भक्ष्यैः श्लैष्मिको जायते नरः
वातलैः पित्तलैस्तद्वत्समधातुर्हिताशनात् ॥ १.१६८.३१ ॥
कृशो रूक्षोऽल्पकेशश्च चलचित्तो नरः स्थितः
बहुवाक्यरतः स्वप्नेवातप्रकृतिको नरः ॥ १.१६८.३२ ॥
अकालपलितो गौरः प्रस्वेदी कोपनो बुधः
स्वप्नेऽपि दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ॥ १.१६८.३३ ॥
स्थिरचित्तः स्वरः सूक्ष्मः प्रसन्नः स्निग्धमूर्धजः
स्वप्ने जलशिलालोकी श्लेष्म प्रकृतिको नरः ॥ १.१६८.३४ ॥
संमिश्रलक्षणैर्ज्ञेयो द्वित्रिदोषान्वयो नरः
दोषस्येतरसद्भावेऽप्यधिका प्रकृतिः स्मृताः ॥ १.१६८.३५ ॥
मन्दस्तीक्ष्णोऽथ विषमः समश्चैति चतुर्विधाः
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ॥ १.१६८.३६ ॥
समस्य पालनं कार्यं विषमे वातनिग्रहः
तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम् ॥ १.१६८.३७ ॥
प्रभवः सर्वरोगाणामजीर्णं चाग्निनाशनम्
आमाम्लरसविष्टम्भ लक्षणन्तच्चतुर्विधम् ॥ १.१६८.३८ ॥
आमाद्विषूचिका चैव हृदालस्यादयस्तथा
वचालवणतोयेन छर्दनं तत्र कारयेत् ॥ १.१६८.३९ ॥
शुक्राभावो भ्रमो मूर्छा तर्षोऽम्लात्संप्रवर्तते
अपक्वं तत्र शीताम्बुपानं वातनिषेवणम् ॥ १.१६८.४० ॥
गात्रभङ्गं शिरोजाड्यं भक्तदोषादयो गदान्
तस्मिन्स्वापो दिवा कार्योलङ्घनं च विवर्जनम् ॥ १.१६८.४१ ॥
शूलगुल्मौ च विण्मूत्रस्थानविष्टम्भसूचकौ
विधेयं स्वेदनं तत्र पानीयं लवणोदकम् ॥ १.१६८.४२ ॥
आममम्लं च विष्टब्धं कफपित्तानिलैः क्रमात्
आलिप्य जठरं प्राज्ञो हिङ्गुत्र्यूषणसैन्धवैः ॥ १.१६८.४३ ॥
दिवास्वप्नं प्रकुर्वीत सर्वाजीर्णविनाशनम्
अहितान्नै रोगराशिरहितान्नं ततस्त्यजेत् ॥ १.१६८.४४ ॥
उष्णाम्बु वानुपानं च माक्षिकैः पाचनं भवेत्
करीरदधिमत्स्यैश्च प्रायः क्षीरं विरुध्यते ॥ १.१६८.४५ ॥
बिल्वः शोणा च गम्भारी पाटला गणिकारिका
दीपनं कफवातघ्नं पञ्चमूलमिदं महत् ॥ १.१६८.४६ ॥
शालपर्णो पृश्रिपर्णो बृहतीद्वयगोक्षुरम्
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ॥ १.१६८.४७ ॥
उभयं दशसूलं स्यात्सन्निपातज्वरापहम्
कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ॥ १.१६८.४८ ॥
एतैस्तैलानि सर्पोषि प्रलेपादलकां जयेत्
क्वाथाच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम् ॥ १.१६८.४९ ॥
स्नेहञ्च तत्समं क्षीरं कल्कश्च स्नेहपादकः
संवर्तितौषधैः पाको बस्तौ पाने भवेत्समः
खरोऽभ्यङ्गे मृदुर्नस्ये पाकोऽपि संप्रकल्पयेत् ॥ १.१६८.५० ॥
स्थूलदेहन्द्रियाश्चिन्त्या प्रकृतिर्या त्वधिष्ठिता
आरोग्यमिति तं विद्यादायुष्मन्तमुपाचरेत् ॥ १.१६८.५१ ॥
यो गृह्णातीन्द्रियैरर्थान्विपरीतान्स मृत्युभाक्
भिषङ्मित्रगुरुद्वेषी प्रियारातिश्च यो भवेत् ॥ १.१६८.५२ ॥
गुल्फजानुललाटं च हनुर्गण्डस्तथैव च
भ्रष्टं स्थानच्युतं यस्य स जहात्यचिरादसून् ॥ १.१६८.५३ ॥
वामाक्षिमज्जनं जिह्वा श्यामा नासा विकारिणी
कृष्णौ स्थानच्युतौ चोष्ठौ कृष्णास्यं यस्यतं त्यजेत् ॥ १.१६८.५४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैद्यकशास्त्रपरिभाषा नामाष्टषष्ट्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १६९
धन्वन्तरिरुवाच
हिताहितविकेकाय अनुपानविधिं ब्रुवे
रक्तशालि त्रिदोषघ्नं तृष्णामेदोनिवारकम् ॥ १.१६९.१ ॥
महाशालि परं वृष्यं कलमः श्लेष्मपित्तहा
शीत्तो गुरुस्त्रिदोषघ्नः प्रायशो गौरषष्टिकः ॥ १.१६९.२ ॥
श्यामाकः शोषणो रूक्षो वातलः श्लेष्मपित्तहा
तद्वत्प्रियङ्गुनीवारकोरदूषाः प्रकीर्तिताः ॥ १.१६९.३ ॥
बहुवारः सकृच्छीतः श्लेष्मपित्तहरो यवः
वृष्यः शीतो गुरुः स्वादुर्गोधूमो वातनाशनः ॥ १.१६९.४ ॥
कफपित्तास्त्रजिन्मुद्गः कषायो मधुरोलघुः
माषो बहुबलो वृष्यः पित्तश्लेष्महरो गुरुः ॥ १.१६९.५ ॥
अवृष्यः श्लेष्मपित्तघ्नो राजमाषोऽनिलार्तिनुत्
कुलत्थः श्वासहिक्काहृत्कफगुल्मानिलापहः ॥ १.१६९.६ ॥
रक्तपित्तज्वरोन्माथो शीतो ग्राही मकुष्ठकः
पुंस्त्वासृक्कफपित्तघ्नश्चणको वातलः स्मृतः ॥ १.१६९.७ ॥
मसूरो मधुरः शीव संग्रही कफपित्तहा
तद्वत्सर्वगुणाढ्यश्च कलायश्चातिवातलः ॥ १.१६९.८ ॥
आग्की कफपित्तघ्नो शुक्रला च तथा स्मृता
अतसी पित्तला ज्ञेया सिद्धार्थः कफवातजित् ॥ १.१६९.९ ॥
सक्षारमधुरस्निग्धो बलोष्णपित्तकृत्तिलः
बलघ्ना रूक्षलाः शीता विविधाः सस्यजातयः ॥ १.१६९.१० ॥
चित्रकेङ्गुदिनालीकाः पिप्पलीमधुशिग्रवः
चव्याचरणनिर्गुण्डीतर्कारीकाशमर्दकाः ॥ १.१६९.११ ॥
सबिल्वाः कफपित्तघ्नाः क्रिमिघ्ना लघुदीपकाः
वर्षाभूमार्करौ वातकफघ्नौ दोषनाशनौ ॥ १.१६९.१२ ॥
तिक्तरसः स्यादेरण्डः काकमाची त्रिदोषहृत्
चाङ्गेरी कफवातघ्नी सर्षपः सर्वदोषदम् ॥ १.१६९.१३ ॥
तद्वदेव च कौस्मसुम्भं राजिका वातपित्तला
नाडीचः कफपित्तघ्नः चुचुर्मधुरशीतलः ॥ १.१६९.१४ ॥
दोषघ्नं पद्मपत्रञ्च त्रिपुटं वातकृत्परम्
सक्षारः सर्वदोषघ्नो वास्तुको रोचनः परः ॥ १.१६९.१५ ॥
तण्डुकीयोविपहरः पालङ्क्याश्च तथापरे
मूलकं दोषकृच्छामं स्विन्नं वातकफापदम् ॥ १.१६९.१६ ॥
सर्वदोषहरं ह्यद्यं कण्ठ्यं तत्पक्वमिष्यते
कर्कोटकं सवार्ताकं पदोलं कारवेल्लकम् ॥ १.१६९.१७ ॥
कुष्ठमेहज्वरश्वासकासपित्तकफापहम्
सर्वदोषहरं हृद्यं कूष्माण्डं बस्तिशोधनम् ॥ १.१६९.१८ ॥
कलिङ्गालाबुनी पित्तनाशिनी वातकारिणी
त्रपुषोर्वारुके वातश्लेष्मले पित्तवारणे ॥ १.१६९.१९ ॥
वृक्षाम्लं कफवातघ्नं जम्बीरं कफवातनुत्
वातघ्नं दाडिमं ग्राहि नागरङ्गफलं गुरु ॥ १.१६९.२० ॥
केशरं मातुलुङ्गं च दीपनं कफवातनुत्
वातपित्तहरो माषस्त्वक्स्निग्धोष्णानिलापहः ॥ १.१६९.२१ ॥
सरमामलकं वृष्यं मधुरं हृद्यमम्लकृत्
भुक्तप्ररोचका पुण्या हरीतक्यमृतोपमा ॥ १.१६९.२२ ॥
स्त्रंसनी कफवातघ्नी ह्यक्षस्तद्वत्त्रिदोषजित्
वातश्लेष्महरं त्वम्लं स्त्रंसनं तिन्तिडीफलम् ॥ १.१६९.२३ ॥
दोषलं लकुचं स्वादु बकुलं कफवातजित्
गुल्मवातकफश्वासकासघ्नं बीजपूरकम् ॥ १.१६९.२४ ॥
कपित्थं ग्राहि दोषघ्नं पक्वं गुरु विषापहम्
कफपित्तकरं बालमापूर्णं पित्तवर्धनम् ॥ १.१६९.२५ ॥
पक्वाम्रं वातकृन्मांसशुक्रवर्णबलप्रदम्
वातघ्नं कफपित्तघ्नं ग्राहि विष्टम्भि जाम्बवम् ॥ १.१६९.२६ ॥
तिन्दुकं कफवातघ्नं बदरं वातपित्तहृत्
विष्टम्भि वातलं बिल्वं प्रियालं पवनापहम् ॥ १.१६९.२७ ॥
राजादनफलं मोचं पनसं नारिकेलजम्
शुक्रमांसकराण्याहुः स्वादुस्निग्धगुरूणि च ॥ १.१६९.२८ ॥
द्राक्षामधूकखर्जूरं कुङ्कुमं वातरक्तजित्
मागधी मधुरा पक्वा श्वासपित्तहरा परा ॥ १.१६९.२९ ॥
आर्द्रकं रोचकं वृष्यं दीपनं कफवातहृत्
शुण्ठीमरिचपिप्पल्यः कफवातजितो मताः ॥ १.१६९.३० ॥
अवृष्यं मरिचं विद्यादिति वैद्यकसंमतम्
गुल्मशूलविबन्धघ्नं हिङ्गुवातकफापहम् ॥ १.१६९.३१ ॥
यवानीधन्यकाजाज्यः वातश्लेष्मनुदः परम्
चक्षुष्यं सैन्धवं वृष्यं त्रिदोषशमनं स्मृतम् ॥ १.१६९.३२ ॥
सौवर्चलं विबन्धघ्नमुष्णं हृच्छूलनाशनम्
उष्णं शूलहरं तीक्ष्णं विडङ्गं वातनाशनम् ॥ १.१६९.३३ ॥
रोमकं वातलं स्वादु रोचनं क्लेदनं गुरु
हृत्पाण्डुगलरोगघ्नं यवक्षारोऽग्निदीपनः ॥ १.१६९.३४ ॥
दहनो दीपनस्तीक्ष्णः सर्जिक्षारो विदारणः
दोषघ्नं नाभसं वारिलघु हृद्यं विषापहम् ॥ १.१६९.३५ ॥
नादेयं वातलं रूक्षं सारसं मदुर लघु
वातश्लेष्महरं वार्प्यं ताडागं वातलं स्मृतम् ॥ १.१६९.३६ ॥
रौच्यमग्निकरं रूक्षं कफघ्नंलघु नैर्झरम्
दीपनं पित्तलं कौपमौद्भिदं पित्तनाशनम् ॥ १.१६९.३७ ॥
दिवार्ककिरणैर्जुष्टं रात्रौ चैवेन्दुरश्मिभिः
सर्वदोषविनिर्मुक्तं तत्तुल्यं गगनाम्बुना ॥ १.१६९.३८ ॥
उष्णं वारि ज्वरश्वासमेदोऽनिलकफापहम्
शृतं शीतत्रिदोषघ्नमुषितं तच्च दोषलम् ॥ १.१६९.३९ ॥
गोक्षीरं वातपित्तग्नं स्निग्धं गुरुरसायनम्
गव्याद्गुरुतरं स्निग्धं माहिष्वह्निनाशनम् ॥ १.१६९.४० ॥
छागं रक्तातिसारघ्नं कासश्वासकफापहम्
चक्षुष्यं जीवनं स्त्रीणां रक्तपित्ते चनावनम् ॥ १.१६९.४१ ॥
परं वातहरं वृष्यं पित्तश्लेष्मकरं दधि
दोषघ्नं मन्थजातन्तु मस्तु स्रोतोविशोधनम् ॥ १.१६९.४२ ॥
ग्रहण्यर्शोऽर्दितार्तिघ्नं नवनीतं नवोद्धृतम्
विकाराश्च किलाटाद्या गुरवः कुष्ठहेतवः ॥ १.१६९.४३ ॥
परं ग्रहणीशोथार्शः पाण्ड्वतीसारगुल्मनुत्
त्रिदोषशमनं तक्रं कथितं पूर्वसूरिभिः ॥ १.१६९.४४ ॥
वृष्यञ्च मधुरं सर्पिर्वातपित्तकफापहम्
गव्यं मेध्यञ्च चाक्षुष्यं संस्काराच्च त्रिदोषजित् ॥ १.१६९.४५ ॥
अपस्मारगदोन्मादमूर्छाघ्नं संस्कृतङ्घृतम्
अजादीनाञ्च सर्पोषि विद्याद्गोक्षीरसद्गुणैः
कफवातहरं मूत्रं सर्वक्रिमिविषापहम् ॥ १.१६९.४६ ॥
पाण्डुत्वोदरकुष्ठार्शः शोथगुल्मप्रमेहनुत्
वातश्लेष्महरं बल्यं तैलं कश्यं तिलोद्भवम् ॥ १.१६९.४७ ॥
सार्षपं कृमिपाण्डुघ्नं कफमेदोऽनिलापहम्
क्षौमं तैलमचक्षुष्यं पित्तहृद्वातनाशनम् ॥ १.१६९.४८ ॥
अक्षजं कफपित्तघ्नं केश्यं त्वक्श्रोत्रतर्पणम्
त्रिदोषघ्नं मधु प्रोक्तं वातलञ्च प्रकीर्तितम् ॥ १.१६९.४९ ॥
हिक्काश्वासकृमिच्छर्दिमेहतृष्णाविषामहम्
इक्षवोरक्तपित्तघ्नो बल्या वृष्याः कफप्रदाः ॥ १.१६९.५० ॥
फाणितं पित्तलं तव्रिं सुरा मत्स्यण्डिका लघुः
खण्डं वृष्यं तथा स्निग्धं स्वाद्वसृक्पित्तवातजित् ॥ १.१६९.५१ ॥
वातपित्तहरो रूक्षो वातघ्नः कफकृद्गुडः
स पित्तघ्नः परः पथ्यः पुराणोऽसृक्प्रसादनः ॥ १.१६९.५२ ॥
रक्तिपित्तहरा वृष्या सस्नेहा गडशर्करा
सर्वपित्तकरं मद्यमम्लत्वात्कफवातजित् ॥ १.१६९.५३ ॥
रक्तपित्तकरास्तीक्ष्णास्तथा सौवीरजातयः
पाचनो दीपनः पथ्यो मण्डः स्याद्भृष्टतण्डुलः ॥ १.१६९.५४ ॥
वातानुलोमनी लघ्वी पेया वस्तिविशोधनी
सतक्रदाडिमव्योषा सगुडा मधुपिप्पली ॥ १.१६९.५५ ॥
इन्तीयं सुकृता पेया कासश्वा सप्रवाहिकाः
पायसः कफकृद्बल्यः कृशरा वातनाशिनी ॥ १.१६९.५६ ॥
सुधौतः प्रस्त्रुतः स्निग्धः सुखोष्णो लघुरोचनः
कन्दमूलफलेहैः साधितो बृंहणोगुरुः ॥ १.१६९.५७ ॥
ईषदुष्णसेवनाच्च लघुः सूपः सुसाधितः
स्विन्न निष्पीडितं शाकं हितं स्नेहादिसंस्कृतम् ॥ १.१६९.५८ ॥
दाडिमामलकैर्यूषो वह्निकृद्वातपित्तहा
श्वासकासप्रतिश्यायकफघ्नो मलकैः कृतः ॥ १.१६९.५९ ॥
यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः
मुद्गामलकजो ग्राही श्लेष्मपित्तविनाशनः ॥ १.१६९.६० ॥
सगुडं दधि वातघ्नं सक्तवो रूक्षवातुलाः
घृतपूर्णोऽग्निकारी स्याद्वृष्या गुर्वो च शष्कुली ॥ १.१६९.६१ ॥
बृंहणाः सामिषा भक्ष्यपिष्ट का गुखः स्मृताः
तैलसिद्धाश्च दृष्टिघ्नास्तोयस्विन्नाश्च दुर्जराः ॥ १.१६९.६२ ॥
अत्युष्णा मण्डकाः पथ्याः शीतला गुखो मताः
अनुपानञ्च पानीयं श्रमतृष्णादिनाशनम् ॥ १.१६९.६३ ॥
अन्नपानादिना रक्षा कृत्स्याद्रोगवर्जितः
अनुष्णः शिखिकण्ठाभो विषञ्चैव विवर्णकृत् ॥ १.१६९.६४ ॥
गन्धस्पर्शरसास्तीव्राभोक्तुश्च स्यान्मनोव्यथा
आघ्राणे चाक्षिरोगः स्यादसाध्यश्च भिषग्वरैः
वेपथुर्जृम्भणाद्यं स्याद्विषस्यैतत्तु लक्षणम् ॥ १.१६९.६५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे अनुपानादिविधिकथनं नामैकोनसप्तत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १७०
धन्वन्तरिरुवाच
ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः
मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः
शृतशीतं जलं दद्यात्पिपासाज्वरशान्तये ॥ १.१७०.१ ॥
नागरं देवकाष्ठञ्च धान्याकं बृहतीद्वयम्
दद्यात्पाचनकं पूर्वं ज्वरिताय ज्वरापहम् ॥ १.१७०.२ ॥
आरग्वधाभयामुस्तातिक्ताग्रन्थिकनिर्मितः
कषायः पाचनः सामे सशूले च ज्वरेहितः ॥ १.१७०.३ ॥
मधूकसारसिन्धूत्थवचोषणकणाः समाः
श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम् ॥ १.१७०.४ ॥
त्रिवृद्विशालात्रिफलाकटुकारग्वधैः कृतः
सक्षारो भेदनः क्वाथः पेयः सर्वज्वरापहः ॥ १.१७०.५ ॥
महौषधामृतामुस्तचन्दनोशीरधान्यकैः
क्वाथस्तृतीयकं हन्ति शर्करामधुयोजितः ॥ १.१७०.६ ॥
अपामगजटाकट्यां लोहितैः सप्ततन्तुभिः
बद्ध्वा वारे रवेर्नूनं ज्वरं हन्ति तृतीयकम् ॥ १.१७०.७ ॥
गङ्गाया उत्तरे कूले अपुत्रस्तापसो मृतः
तस्मै तिलोदकं दद्यान्मुञ्चत्यैकाहिको ज्वरः ॥ १.१७०.८ ॥
गुडूच्याः क्वाथकल्काभ्यां विफलावासकस्य च
मृद्वीकाया बलायाश्च सिद्धाः स्नेहा ज्वरच्छिदः ॥ १.१७०.९ ॥
धात्रीशिवाकणावह्निक्वाथः सर्वज्वरान्तकः
ज्वरातिसारहरणमौषधं प्रवदाम्यथ ॥ १.१७०.१० ॥
पृश्रिपर्णोबलाविल्वनागरोत्पलधान्यकैः
पाठेन्द्रयवभूनिम्बमुस्तपर्पटकैः शृताः
ज्यन्त्याममतीसारं सज्वरं समहौषधाः ॥ १.१७०.११ ॥
नागरातिविषामुस्तभूनिम्बामृतवत्सकैः
सर्वज्वरहरः क्वथः सर्वातीसारनाशनः ॥ १.१७०.१२ ॥
मुस्तपर्पटकदिव्यशृङ्गवेरशृतं पयः
शालपर्णो पृश्रिपर्णो बृहती कण्टकारिका ॥ १.१७०.१३ ॥
बलाश्वदंष्ट्राबिल्वादि पाठानागरधान्यकम्
एतदाहारसंयोगे हितं सर्वातिसारिणाम् ॥ १.१७०.१४ ॥
बिल्वचूतास्थिक्वाथश्च खण्डं मध्वतिसारनुत्
अतिसारे हिता तद्वत्कुटजत्वक्कणायुता ॥ १.१७०.१५ ॥
वत्सकातिविषाविश्वकणाकन्दकषायकः
प्रयुक्तश्चामशूलाढ्ये ह्यतीसारे सशोणित ॥ १.१७०.१६ ॥
चिकित्साथ ग्रहण्यास्तुग्रहणी चाग्रिनाशिनी
चित्रकाक्वाथक्लकाभ्यां ग्रहणीघ्नं क्षृतं हविः
गुल्मशोथोदरप्लीहशूलार्शोघ्नं प्रदीपनम् ॥ १.१७०.१७ ॥
सौवर्चलं सैन्धवञ्च विडङ्गौद्भिदमेव च
सामुद्रेण समं पञ्चलवणान्यत्र योजयेत् ॥ १.१७०.१८ ॥
भेषजं शस्त्रक्षाराग्न्यस्त्रिधा वै चार्शसां हरम्
विद्धि तच्चार्शसोघ्नन्तु यद्धि तक्रं नवोद्धृतम् ॥ १.१७०.१९ ॥
गुडूटीं पिप्पलीयुक्तामभयां घृतभर्जिताम्
त्रिवृदर्शोविनाशार्थं भक्षयेदम्ललोणिकाम् ॥ १.१७०.२० ॥
तिलेक्षुरससंयोगश्चार्शः कुष्ठ विनाशनः
पञ्चकोलं समरिचं सत्र्यूषणमथाग्निकृत् ॥ १.१७०.२१ ॥
हरीतकी भक्ष्यमाणा नागेरण गुडेन वा
सैन्धवोपहिता वापि सातत्येनाग्निदीपनी ॥ १.१७०.२२ ॥
फलत्रिकामृतासातिक्ताभूनिम्बनिम्बजः
क्वाथः क्षौद्रयुतो हन्यात्पाण्डुरोगं सकामलम् ॥ १.१७०.२३ ॥
त्रिवृच्च त्रिफला श्यामा पिप्पली शर्कग मधु
मोदकः सन्निपातान्तो रक्तपित्तज्वरापहः ॥ १.१७०.२४ ॥
वासायां विद्यमानायामाशायां जीवितस्य च
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥ १.१७०.२५ ॥
आटरूपकमृद्वीकापथ्याक्वाथः सशर्करः
क्षौद्राढ्यः कासनिः श्वासरक्तपित्तनिबर्हणः ॥ १.१७०.२६ ॥
वासारसः खण्डमधुयुतः पीतोऽथरक्तजित्
सल्लकीबदरीजम्बुप्रियालाम्रार्जुनं धवः
पीतं क्षीरञ्च मध्वाढ्यं पृथक्छोणितवारणम् ॥ १.१७०.२७ ॥
समूलफलपत्राया निर्गुण्ड्याः स्वरसैर्घृतम्
सिद्धं पीत्वा क्षयक्षीणी निर्व्यादिर्भाति देववत् ॥ १.१७०.२८ ॥
हरीतकी कणा शुण्ठी मरिचं गुडसंयुतम्
कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ १.१७०.२९ ॥
कण्टकारिगुडूचीभ्यां पृथक्त्रिंशत्पले रसे
प्रस्थं सिद्धं घृतं स्याच्च कासनुद्वह्निदापनम् ॥ १.१७०.३० ॥
कृष्णा धात्री शिता शुण्ठी हक्काघ्नी मधुसंयुता
हिक्काश्वासी पिवेद्भार्ङ्गो सविश्वामुष्णवारिणा ॥ १.१७०.३१ ॥
तैलाक्तं स्वरभेदे वा खादिरं धारयेन्मुखे
पथ्यां पिप्पलिकायुक्तां संयुक्तां नागरेण वा ॥ १.१७०.३२ ॥
विडङ्गत्रिलाचूर्णं छर्दिहृन्मधुना सह
आम्रजम्बूकषायं वा पिबोन्माक्षिकसंयुतम् ॥ १.१७०.३३ ॥
छर्दि सर्वां प्रणुदति तृष्णाञ्चैवापकर्षति
त्रिफला भ्रममूर्छाहृत्पीता सा मधुनापि वा ॥ १.१७०.३४ ॥
पञ्चगव्यं हितं पानादपस्मारग्रहादिनुत्
कूष्माण्डकरसो वाज्यं सयष्टिकं तदर्थकृत् ॥ १.१७०.३५ ॥
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च
पुराणं सेव्यमुन्मादग्रहापस्मारद्घृनुतम् ॥ १.१७०.३६ ॥
अश्वगन्धाकषाये च कल्के क्षीरे चतुर्गुणे
घृतपक्वन्तु वातघ्नं वृष्यं मां साय पुत्रकृत् ॥ १.१७०.३७ ॥
नीलीमुण्डीरिकाचूर्णं मधुसर्पिः समन्वितम्
छिन्नाक्वाथं पिबन्हन्ति वातरक्तं सुदुस्तरम् ॥ १.१७०.३८ ॥
सगुडाः पञ्च पथ्याश्च कुष्टार्शोवातसादनाः
गडचीस्वरसं कल्कं चूर्णं वा क्वाथमेव वा ॥ १.१७०.३९ ॥
वातरक्तान्तकं कालागुडूचीक्वाथकल्कतः
कुष्ठव्रणादिशमनं शृतमाज्यं सदुग्धकम् ॥ १.१७०.४० ॥
त्रिफलागुग्गुलुर्वातरक्तमूर्छापहारकः
ऊरुस्तम्भविनाशाय गोमूत्रेण च गुग्गुलुः ॥ १.१७०.४१ ॥
शुण्ठीगोक्षुरकक्वाथः सामवातार्तिशूलनुत्
दशमूलामृतैरण्डरास्नानागरदारुभिः ॥ १.१७०.४२ ॥
क्वाथो हन्ति माहशोथं मरीचगुडसंयुतः
कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ १.१७०.४३ ॥
कण्टकारिगुडूचीभ्यां पृथक्त्रिंशत्पले रसे
प्रस्थसिद्धं घृतञ्चैव कासनुद्धृदि दीपनः ॥ १.१७०.४४ ॥
कृष्णाधात्रीसिताशुण्ठीमरीचसैन्धवान्वितः
क्वाथ एरण्डतैलेन सामं हन्त्यनिलं गुरुम् ॥ १.१७०.४५ ॥
बला पुनर्नवैरण्डबृहतीद्वयगोक्षुरैः
सहिङ्गुलवर्ण पीतं वातशूलविमर्दनम् ॥ १.१७०.४६ ॥
त्रिफलानिम्बयष्टीककटुकारग्वधैः शृतम्
पाययेन्मधुना मिश्रं दाहशूलोपशान्तये ॥ १.१७०.४७ ॥
त्रिफलापः सयष्टीकाः परिणामार्तिनाशनाः
गोमूत्रशुद्धमण्डूरं त्रिफलाचूर्णसंयुतम्
विलिहन्मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम् ॥ १.१७०.४८ ॥
त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः
गुटिका गुडतुल्यास्ता विड्विबन्धगदापहाः ॥ १.१७०.४९ ॥
हरीतकीयवक्षारपिप्पलीत्रिवृतस्तथा
घृतैश्चूर्णमिदं पेयमुदावर्ताविनाशनम् ॥ १.१७०.५० ॥
त्रिवृद्धरीतकीश्यामाः स्नुहीक्षीरेण भाविताः
वटिका मूत्रपीतास्ताः श्रेष्टाश्चानाहभेदिकाः ॥ १.१७०.५१ ॥
त्र्यूषणत्रिफलाधन्यविडङ्गचव्यचित्रकैः
कल्कीकृतैर्घृतं सिद्धं संस्कारं वातगुल्मनुत् ॥ १.१७०.५२ ॥
मूलं नागरमानीतं सक्षीरं हृदयार्तिनुत्
सौवचलं तदर्धन्तु शिवानाञ्च घृतं पिबेत् ॥ १.१७०.५३ ॥
कणापाषाणभेदैर्वा शिलाजतुकचूर्णकम्
तण्डुलीभिर्गुडेनापि मूत्रकृच्छ्रीति जीवति ॥ १.१७०.५४ ॥
अमृतानागरीधात्रीवाजिगन्धात्रिकण्टकाम्
प्रपिबेद्वातरेगार्तः सशूलो मूत्रकृच्छ्रवान् ॥ १.१७०.५५ ॥
सितातुल्यो यवक्षारः सर्वकृच्छ्रनिवारणः
निदिग्धिकारसो वापि सक्षौद्रः कृच्छ्रनाशनः ॥ १.१७०.५६ ॥
लवणं त्रिफलाकल्कैर्मूत्राघातहरं स्मृतम्
मूत्रे विरुद्धे कर्पूरचूर्णं लिङ्गे प्रवेशयेत् ॥ १.१७०.५७ ॥
क्वाथश्च शिग्रुमूलोत्थः कटूष्णोश्मानिपातनः
सर्वमेहहरोधात्र्या रसःक्षौद्रनिशायुतः
त्रिफलादारुदार्व्यष्टक्वाथः क्षौद्रेण मेहहा ॥ १.१७०.५८ ॥
अस्वप्नं च व्यवायं च व्यायामाश्चिन्तनानि च
स्थौल्यमिच्छन्पपरित्यक्तं क्रमेणाभिप्रवर्धयेत् ॥ १.१७०.५९ ॥
यवश्यामाकभोजी स्यास्थौल्यकृन्मधुवारिणा
उष्णमन्नं समण्डं वा पिबन्कृशतनुर्भवेत् ॥ १.१७०.६० ॥
सचव्यजीरकं व्योषा हिङ्गुसौवर्चलामलाः
मधुना रक्तवः पीता मेधोघ्ना सर्वदीपनाः ॥ १.१७०.६१ ॥
चतुर्गुणे जले मूत्रे द्विगुणे चित्रकाणि च
कल्कैः सिद्ध घृत प्रस्थं सक्षीरं जठरी पिबेत् ॥ १.१७०.६२ ॥
क्रमवृद्ध्या दशाहानि दश पैप्पालिकं दिनम्
वर्धयेत्पयसा सार्धं तथैवापानयेत्पुनः ॥ १.१७०.६३ ॥
क्षीरषष्टिकभोजीस्यादेवं कृष्णसहस्रकम्
बृंहणं मुद्गमायुष्यं प्लीहोदरविनाशनम् ॥ १.१७०.६४ ॥
पुनर्नवाक्वाथकल्कैः सिद्धं शोथहरं घृतम्
गावा मत्रेण संसेव्यं पिप्पली वा पयोऽन्विताः
गुडन वाभयां तुल्यां विश्वं वा शोथरोगिणा ॥ १.१७०.६५ ॥
तैलमेरण्डजं पीत्वा बलासिद्धं पयोऽन्वितम्
आध्मानशूलोपचितामन्त्रवृद्धिञ्जयेन्नरः ॥ १.१७०.६६ ॥
भ्रष्टोरुचकतैलेन कल्कः पथ्यासमुद्भवः
कृष्णसैन्धवसंयुक्तो वद्धिरोगहरः परः ॥ १.१७०.६७ ॥
निर्गुण्डीमूलनस्येन गण्डमाला विनश्यति
स्मुहीगण्डीरिकास्वेदो नाशयेदर्बुदानि च ॥ १.१७०.६८ ॥
हस्तिकर्णपलाशस्य गलगण्डं तु लेपतः
धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः ॥ १.१७०.६९ ॥
प्रलेपःश्लीपदं हन्ति चिरोत्थमतिदारुणम्
शोभाञ्जनकसिन्धृत्थहिङ्गुं विद्रधिनाशनम् ॥ १.१७०.७० ॥
शरपुङ्खा मधुयुता यात्सर्स्वव्रणगेपणी
निम्बपत्रस्य वालेपः श्वयथुव्रणगेपणः ॥ १.१७०.७१ ॥
त्रिफला खदिरो दार्वो न्यग्रोधो व्रणशोधनः
सद्यः क्षतं व्रणं वैद्यः सशूलं परिषेचयेत् ॥ १.१७०.७२ ॥
यष्टीमधुकयुक्तेन किञ्चिदुष्णेन सर्पिषा
बुद्ध्वागन्तुव्रणान्वैद्यो घृतक्षौद्रसमन्विताम् ॥ १.१७०.७३ ॥
शीतां क्रियां प्रयुञ्जीत पित्तरक्तोष्मनाशिनीम्
क्वाथो वंशत्वगेरण्डश्वदंष्ट्रवनिदाकृतः ॥ १.१७०.७४ ॥
सहिङ्गुसैन्धवः पीतः कोष्ठस्थं स्त्रावयेदसृक्
यवकोलकुलत्थानां निःस्नेहेन रसेन वा ॥ १.१७०.७५ ॥
भुञ्जीतान्नं यवाग्वा वा पिवेत्सैन्धवसंयुतम्
करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रिमीन् ॥ १.१७०.७६ ॥
त्रिफलाचूर्णसंयुक्तो गुग्गुलुर्वटकीकृतः
निर्यन्त्रणो विबन्धघ्नो व्रधनगेपणः ॥ १.१७०.७७ ॥
दूर्वास्वरससिद्धं वा तलं कम्पिल्लकेन वा
दार्वोत्वचश्च कल्केन प्रधानं व्रणरोपणम् ॥ १.१७०.७८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरादिचिकित्सानिरूपणं नाम सप्तत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १७१
धन्वन्तरिरुवाच
नाडीव्रणादिरोगाणां चिकित्सां शृणु सुश्रुत
नाडीं शस्त्रेण संपाट्य नाजीनां व्रणवत्क्रिया ॥ १.१७१.१ ॥
गुग्गुलुत्रिफलाव्योपैः समांशैराज्ययोजितैः
नाडीदुष्टव्रणं शूलं भगन्दरमथो जयेत् ॥ १.१७१.२ ॥
निर्गुण्डीरसतस्तैलं नाडीदुष्टव्रणापहम्
हितं पामामयानां तु पानाभ्यञ्जननावनैः ॥ १.१७१.३ ॥
गग्गुत्रिफलाकृष्णात्रिपञ्चैकांशयोजिता
घुटि (गुडि) काशोथगुल्मार्शोभगन्दरवतां हिता ॥ १.१७१.४ ॥
ध्वजमध्ये शिरावेधे विशुद्धिरुपदंशके
पाको रक्ष्यः प्रयत्नेन शिश्रक्षयकरो हि सः ॥ १.१७१.५ ॥
पटोलनिम्बत्रिफलागुडूचीक्वाथमापिबेत्
सगुग्गुलुं सखदिरमुपदंशो विनश्यति ॥ १.१७१.६ ॥
दहेत्कटाहे त्रिफलां सामसी (षी) मधसंयुताम्
उपदंशे प्रलेपोऽय सद्यो रोपयते व्रणम् ॥ १.१७१.७ ॥
त्रिफलानिम्बभूनिम्बकरञ्जखदिरादिभिः
कल्कैः क्वाथैर्घृतं पक्वमुपदंशहरं परम् ॥ १.१७१.८ ॥
आदौ भग्नं विदित्वा तु सेचयेच्छीतलांबुना
पक्वेनालेपनं कार्यं बन्धनं च कुशान्वितम् ॥ १.१७१.९ ॥
माषं मांसं तथा सर्पिः क्षीरं यूषः सतीजलः
बृंहणं चान्नपानं स्यात्प्रदेयं भग्नरोगिणे ॥ १.१७१.१० ॥
रसोनमधुनासाज्यसिताकल्कं समश्नुता
छिन्नभिन्नच्युतास्थीनां सन्धानमचिराद्भवेत् ॥ १.१७१.११ ॥
अश्वत्थत्रिफलाव्योषाः सवरभिः समीकृतैः
तुल्यो गुग्गुलुना योज्यो भग्नसन्धिप्रसाध (कृत्) कः ॥ १.१७१.१२ ॥
सर्वकुष्ठेषु वमनं रेचनं रक्तमोक्षण
वचावासापटोलानां निम्बस्य कलिनीत्वचः ॥ १.१७१.१३ ॥
कषायो मधुना पीतो वातहृन्मदनान्वितः
विरेचनं प्रयोक्तव्यं त्रिवृत्कर्णफलत्रिकैः ॥ १.१७१.१४ ॥
मनः शिलांमरीचैस्तु तैलं कुष्ठविनाशनम्
सर्वकुष्ठे विलेपोऽयं शिवापञ्चगुडौदनम् ॥ १.१७१.१५ ॥
करञ्जैलगजैः कुष्ठं गोमूत्रेण प्रलेपतः
करवीरोद्वर्तनं च तैलाक्तस्य च कुष्ठहृत् ॥ १.१७१.१६ ॥
हरिद्रा मलयं रास्ना गुडूच्येडगजस्तथा
आरग्वधः करञ्जश्च लेपः कुष्ठहरः परः ॥ १.१७१.१७ ॥
मनः शिलाविडङ्गानि वागजी सर्षपास्तथा
करञ्जैर्मूत्रपिष्टोऽयं लेपः कुष्टहरोर्ऽकवत् ॥ १.१७१.१८ ॥
विडङ्गैडवचा कुष्ठनिशासिन्धूत्थसर्षपैः
मूत्राम्लपिष्टो लेपोऽयं दद्रूकुष्टविनाशनः ॥ १.१७१.१९ ॥
प्रपुन्नाटसुबीजानि धात्री सर्जरसः स्नुही
सौवीरपिष्टं दद्रूणामेतदुद्वर्तनं परम् ॥ १.१७१.२० ॥
आरग्वधस्य पत्राणि आरनालेन पेषयेत्
दद्रूकिट्टिम (भ) कुष्ठानि हन्ति सिध्मानमेव च ॥ १.१७१.२१ ॥
उष्णो पीता वागुजी च कुष्ठजित्क्षीरभोजनः
तिलाज्यत्रिफलाक्षौद्रव्योषभल्लातशर्कराः
वृष्याः सप्त समा मेध्याः कष्ठहाः कामचारिणः ॥ १.१७१.२२ ॥
विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम्
हन्ति कुष्ठक्रिमिमेहनाडीव्रणभगन्दरान् ॥ १.१७१.२३ ॥
यः खादेदभयारिष्टमरिष्टामलकानिशाः
स जयेत्सर्वकुष्ठानिमासादूर्ध्वं न संशयः ॥ १.१७१.२४ ॥
दह्यमानायुतः कुम्भे मूलगे खदिराङ्कुरः
साक्षधात्रीरसः क्षौद्रो हन्यात्कुष्ठं रसायनम् ॥ १.१७१.२५ ॥
धात्री खदिरयोः क्काथं पीत्वा वागजिसंयुतम्
शङ्खेन्दुधवलं श्वित्रं हन्ति तूर्णं न संशयः ॥ १.१७१.२६ ॥
पीत्वा भल्लातकं तैलं मासाद्व्याधिं जयेन्नरः
सेवितं खादिरं वारि पानाद्यैः कुष्ठजिद्भवेत् ॥ १.१७१.२७ ॥
भावितं मलपूक्वाथैः सोमराजीफलं बहु
कर्षं भक्षेदलवणो ह्यक्षफल्गुशृतं पिबेत् ॥ १.१७१.२८ ॥
हन्ति श्वित्रमसाध्यं च लेपे योज्यापराजिता
वासा शुद्धा च त्रिफला पटोलं च करञ्जकम् ॥ १.१७१.२९ ॥
निम्बाशनं कृष्णवेत्रं क्वाथकल्केन यद्धृतम्
वज्रकं तद्भवेत्कुष्ठं शतवर्षाणि जीवति ॥ १.१७१.३० ॥
स्वरसेन च दूर्वायाः पचेत्तैलं चतुर्गुणम्
कच्छूर्विचर्चिका पामा अभ्यङ्गादेव नश्यति ॥ १.१७१.३१ ॥
द्रुमत्वगर्ककुष्ठानि लवणानि च मूत्रकम्
गम्भारिकाचित्रकैस्तैस्तैलं कुष्ठव्रणादिनुत् ॥ १.१७१.३२ ॥
(अथाम्लपित्तचिकित्सा) धात्रीनिम्बफलं तद्वद्गोमूत्रेण च चित्रकम्
वासामृतापर्पटिकानिम्बभूनिम्बमार्करैः (वैः)
त्रिफलाकुलत्थैः क्वाथः सक्षौद्रश्चाम्लपित्तहा ॥ १.१७१.३३ ॥
फलत्रिकं पटोलं च तिक्तक्वाथः सितायुतः
पीतो यष्टीमधुयुतो ज्वरच्छर्द्यम्लपित्तजित् ॥ १.१७१.३४ ॥
वासाघृतं तिक्तघृतं पिप्पलीघृतमेव च
अम्लपित्ते प्रयोक्तव्यं गुडकूष्माण्डकं तथा ॥ १.१७१.३५ ॥
पिप्पली मधुसंयुक्ता अम्लपित्तविनाशिनी
श्लेष्माग्निमान्द्यनुत्पथ्यापिप्पलीगुडमोदकः ॥ १.१७१.३६ ॥
पिष्ट्वाजाजीं सधन्याकां घृप्रस्थं विपाचयेत्
कफपित्तारुचिहरं मन्दानलवमिं हरेत् ॥ १.१७१.३७ ॥
(इत्यम्लपित्तचिकित्सा) पिप्पल्यमृतभूनिम्बवासकारिष्टपर्पटैः
खदिरारिष्टकैः क्वाथो विस्फोटार्तिज्वरापहः ॥ १.१७१.३८ ॥
त्रिफलारससंयुक्तं सर्पिस्त्रिवृतयासह
प्रयोक्तव्यं विरेकार्थं वीसर्पज्वरशान्तये ॥ १.१७१.३९ ॥
खादिरात्रिफलारिष्टपटोलामृतवासकैः
क्वाथोऽष्टकाख्यो जयति रोमान्तिकमसूरिकाम् ॥ १.१७१.४० ॥
कुष्ठवीसर्पविस्फोटकण्ड्वादीनां विघातकः
लशुनानां तु चृर्णस्य घर्षो मशकनाशनः ॥ १.१७१.४१ ॥
चर्मकीलं जरुमणिं मशकांस्तिलकालकान्
उत्कृत्य शस्त्रेण दहेत्क्षागग्निभ्यामशेषतः ॥ १.१७१.४२ ॥
पटोलनीलीलेपः स्याज्जाल (ज्वाला) गर्दभरोगनुत्
गुञ्जाफलैः शृतं तलं भृङ्गराजरसेन तु
कण्ठ (ण्डु) दारुणकृत्कुष्ठवातव्याधिविनाशनम् ॥ १.१७१.४३ ॥
अर्कास्थिमज्जात्रिफलानालीछा भृङ्गराजकम्
जीर्णे पक्वे लौहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥ १.१७१.४४ ॥
क्षीरात्सशर्करसाद्द्विप्रस्थो मधुकात्पले
तैलम्य कुडवं पक्वं तन्नस्यं पलितापहम् ॥ १.१७१.४५ ॥
मुखरोगे तु त्रिफलागण्डूषपरिधारणम्
गृहधूम यवक्षारपाठाव्योपरसाञ्जनम् ॥ १.१७१.४६ ॥
तेजोदं त्रिफलालोध्रं चित्रकं चेति चूर्णितम्
सक्षौद्रं धारयेद्वक्त्रे ग्रीवादन्तास्यरोगनुत् ॥ १.१७१.४७ ॥
पटोल निम्बजम्व्वाग्रमालतीनवपल्लवाः
पञ्चपल्लवकः श्रेष्ठः कषयो मुखधावने ॥ १.१७१.४८ ॥
लशुनार्द्रकशिग्रूणां पारुल्या मूलकस्य च
रुदन्त्याश्च रसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥ १.१७१.४९ ॥
तीव्रशूलोत्तरे कर्णे सशब्दे क्लेदवाहिनि
बस्तमूत्रं क्षिपेत्कोष्णं सैन्धवेनावचूर्णितम् ॥ १.१७१.५० ॥
जातीपत्ररसे तैलं पक्वं पूतिककर्णजित्
शुण्ठीतैलं सार्षपं च क्रोष्णं स्यात्कर्णशूलनुत् ॥ १.१७१.५१ ॥
पञ्चमूलिशृतं क्षीरं स्याच्चित्रकहरीतकी
सर्पिर्गुडः षडङ्गश्चयूषः पीनसशान्तये ॥ १.१७१.५२ ॥
अक्षिकुक्षिभवा रोगाः प्रतिश्यायव्रणज्वराः
पञ्चैते पञ्चरात्रेण प्रशमं यान्ति लङ्घनात् ॥ १.१७१.५३ ॥
धात्रीरसानाञ्च दृशः कोपं हरति पूरणात्
सक्षौद्रः सैन्धवो वापि शिग्रुदार्विरसाञ्जनम् ॥ १.१७१.५४ ॥
हरिद्रादारुसिन्धूत्थपथ्याजनवगौरिकैः
पिष्टैर्दत्तो बहिर्लपो नेत्रव्याधिनिवारकः ॥ १.१७१.५५ ॥
मृतभ्रष्टाभयालेपात्त्रिफला क्षीरसंयुता
शुण्ठीनिम्बदलैः पिष्टैः सुखोष्णैः स्वल्पसैन्धवैः
धार्यश्चक्षुषि संक्षेपाच्छोथकण्डूरुजापहः ॥ १.१७१.५६ ॥
अभयाक्षामृतं चैकद्विचतुर्भागिकं युतम्
मध्वाज्यलीढं क्वाथो वा सर्वनेत्ररुगर्दनम् ॥ १.१७१.५७ ॥
चन्दनत्रिफलापूगपलाशतरुमूलकैः
जलपिष्टैरियं विर्तिरशेषतिमिरापहा ॥ १.१७१.५८ ॥
दध्नातिघृष्टं मरिचं रात्र्यान्ध्यापहमञ्जनम्
त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम् ॥ १.१७१.५९ ॥
तिमिराण्यचिराद्धन्यात्पीतमेतन्निशामुखे
पिप्पलीत्रिफला द्राक्षालोहचूर्णं ससैन्धवम् ॥ १.१७१.६० ॥
भृङ्गराजरसैर्घृष्टं घुटिकाञ्जनमिष्यते
आन्ध्यं सतिमिरं काचं हन्त्यन्यान्नेत्ररोगकान् ॥ १.१७१.६१ ॥
त्रिकटु त्रिफला नक्त सैन्धवं च मनः शिला
रुचकं शङ्खनाभिश्च जातीपुष्पाणि निम्बकम् ॥ १.१७१.६२ ॥
रसाञ्जनं भृङ्गराजं घृतं मधु पयस्तथा
एतत्पिष्ट्वा च वटिका सर्वनेत्ररुगर्दिनी ॥ १.१७१.६३ ॥
दग्धमेरण्डकं मूलं लेपात्काकिकपेषितम्
शिरोऽर्तिं नाशयत्याशु पुष्पं वा मुचुकुन्दक (ज) म् ॥ १.१७१.६४ ॥
शतमूल्यैरण्डमूलचक्राव्याघ्रीपलैः शृतम्
तैलं नस्यमरुश्लेष्मतिमिरोर्ध्वर्(द्ध) गदापहम् ॥ १.१७१.६५ ॥
नाचनं (लनणं) सगुडं विश्वं पिप्पली वा ससैन्धवा
भुजस्तम्भादिरोगेषु सर्वेषूर्ध्वगदेषु च ॥ १.१७१.६६ ॥
सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम्
दशमूलीकषायं तु सर्पिः सैन्धवसंयुतम्
नस्यमङ्गविभेदघ्नं सूर्यावर्तशिरोऽर्तिनुत् ॥ १.१७१.६७ ॥
दध्ना सौवर्चलाजाजीमधूकं नीलमुत्पलम्
पिबेत्क्षौद्रयुतं नारी वातासृग्दरपीडिता ॥ १.१७१.६८ ॥
वासकस्वरसं पैत्ते गुडूच्या रसमेव वा
जलेनामलकीबीजं कल्कं वाससितामधु ॥ १.१७१.६९ ॥
आमलक्या मधुरसं मूलं कार्पासमेव वा
पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा ॥ १.१७१.७० ॥
तण्डुलीयकमूलं तु सक्षौद्रे सरसाञ्जनम्
तण्डुलोदकसंपीतं सर्वांश्चासृक्दराञ्जयेत्
कुशमूलं तण्डुलाद्भिः पीतं चासृक्दरं जयेत् ॥ १.१७१.७१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नाडीव्रणादिचिकित्सावर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १७२
धन्वन्तरिरुवाच
स्त्रीरोगादिचिकित्सां च वक्ष्ये सुश्रुत तच्छृणु
योनिव्यापत्सु भूयिष्टं शस्यते कर्म वातजित् ॥ १.१७२.१ ॥
वचोपकुञ्चिकाजातीकृष्णावासकसैन्धवम्
अजमोदायवक्षारं चित्रकं शर्करान्वितम् ॥ १.१७२.२ ॥
पिष्ट्वालोड्य जलाद्यैश्च खादयेद्धृतभर्जितम्
योनिपार्श्वार्तिहृद्रोगगुल्मार्शो विनिवर्तयेत् ॥ १.१७२.३ ॥
बदरीपत्रसंलेपाद्योनिर्भिन्ना प्रशाम्यति
लोध्रतुम्बीफलालेपाद्योनेर्दार्ढ्यं करोति च ॥ १.१७२.४ ॥
पञ्चपल्लवपिष्टाह्वमालतीकुसुमैर्घृतम्
रविपक्वमसृग्धारं योनिगन्धविनाशनम् ॥ १.१७२.५ ॥
सकाञ्जिकं जपापुष्पपुष्पं ज्योतिष्मतीदलम्
दूर्वापिष्टं च संप्राश्य चित्रकं शर्करान्वितम् ॥ १.१७२.६ ॥
धात्र्यञ्जनाभयाचूर्णं तोयपीतं रजो हरेत्
सदुग्धा लक्ष्मणा पीता नस्याद्वा पुत्रदा ऋतौ ॥ १.१७२.७ ॥
दुग्धस्यार्धाढकं चाज्यमश्वगन्धा च पुत्रदा
वन्ध्या पुत्रं लभेत्पीत्वा घृतेन व्योपकेसरम् ॥ १.१७२.८ ॥
कुशकाशोरुचृकानां मृलैर्गोक्षुरकस्य च
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलनुत्परम् ॥ १.१७२.९ ॥
पाठालाङ्गलिसिंहाम्यमयूरकूटजैः पृथक्
नाभिबस्ति भगालेपात्सुखं नारी प्रसूयते ॥ १.१७२.१० ॥
सूताया हृच्छिरोबस्तिशूलमर्कन्द (क्वल्ल) संज्ञितम्
यवक्षारं पिबेत्तत्र मस्तु कोष्णोदकेन वा ॥ १.१७२.११ ॥
दशमूलीकृतः क्ताथः साज्यः मूतिरुजापहः
शातिलण्डुलचूर्णं तु सदुग्धं दुग्धकृद्भवेत् ॥ १.१७२.१२ ॥
विदारी कन्दस्वरसं मूलं कार्पासजं तथा
धात्री स्तन्यविशुद्ध्यर्थं मुद्गयूपरसाशिनी ॥ १.१७२.१३ ॥
कुष्ठा वचाभया ब्राह्मी मधुरा क्षौद्रसर्पिषा
वर्णायुः कान्तिजननं लेह्यं वालम्य दापयेत् ॥ १.१७२.१४ ॥
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिवेत्
स्वेदनं नाग्निशोफार्ते मृदा स्यादग्नितप्तया ॥ १.१७२.१५ ॥
लेहो मुस्तविपायाश्च वमिकासज्वरे पिबेत्
सुस्तशुण्ठीविषाविल्वकूटजैरतिसारनुत ॥ १.१७२.१६ ॥
मधु व्योषं मातुलुङ्गं हिक्काच्छर्दिनिवारणम्
कुष्ठेन्द्रयवसिद्धार्था निशा दूर्वा च कुष्ठजित् ॥ १.१७२.१७ ॥
महामुण्जितिकोजीच्यकाथैः स्नानं ग्रहापहम्
सप्तच्छदामयनिशाचन्दनैश्चानुलेपनम् ॥ १.१७२.१८ ॥
शङ्खाब्जबीजरुद्राक्षवचालौहादिधारणम्
ओं कं टं यं गं वैनतेयाय नमः
ओं हों हां हः मन्त्रेण शान्तिर्वालानां मार्जनाद्वलिदानतः
ओं ह्रीं बालम्रहाद्वलिं गृह्णीत वालं मुञ्चत स्वाहा ॥ १.१७२.१९ ॥
तण्डुलाद्भिः शिरीपस्य पलं पीतं विषापहम्
तण्डुलाद्भिश्च वर्षाभ्वाः शुक्लायाः सर्पदंशनुत् ॥ १.१७२.२० ॥
दध्याज्यं तण्डुलीयं च गृहधृमो निशा तथा
पिष्टं पानं तथा क्षौद्रं सिन्धृत्थस्य विपान्तकम् ॥ १.१७२.२१ ॥
अङ्कोटमूलनिष्क्वाथः साज्यः पीतो विषान्तकः
यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम् ॥ १.१७२.२२ ॥
सिन्दूत्यरार्कराशुण्ठीकणामधुगुडैः क्रमात्
वर्षादिष्वभया सेव्या रसायनगुणौषिणा ॥ १.१७२.२३ ॥
ज्वरस्यान्तेऽभयां चैकां प्रभुङ्क्ते द्वे विभीतके
भुक्त्वा मध्वाज्यधात्रीणां चतुष्कं शतवर्षकृत् ॥ १.१७२.२४ ॥
पीताश्वगन्धा पयसा घृतेनाशेपरोगनुत्
मण्डूकपर्ण्याः स्वरसो विदार्याश्चामृतोपमः ॥ १.१७२.२५ ॥
तिलधात्रीभृङ्गराजौ जग्ध्वा वर्षशती भवेत्
त्रिकटु त्रिफला वह्निर्गुडूची च शतावरी ॥ १.१७२.२६ ॥
विडङ्गलोहचूर्णं तु मधुना सह रोगनुत्
त्रिफला च कणा शुण्ठी गुडूची च शतावरी ॥ १.१७२.२७ ॥
विडङ्गभृङ्गराजादि भावितं सर्वरोगनुत्
चूर्णं विदार्या मध्वाज्यं लीढ्वा दश स्त्रियो व्रजेत् ॥ १.१७२.२८ ॥
घृतं शतावरीकल्कैः क्षीरैर्दशगुणैः पचेत्
शर्करापिप्पलीक्षौद्रयुक्तं वा जारकं विदुः ॥ १.१७२.२९ ॥
प्रतिमर्षोऽवपीडश्च नस्यं प्रवपनं तथा
शिरोविरेचनं चेति पञ्चकर्म च कथ्यते ॥ १.१७२.३० ॥
मासैर्द्विसंख्यैर्माघाद्यैः क्रमात्षडृतवः स्मृताः
अग्निसेवामधुक्षीरविकृतीः परिपेवयेत् ॥ १.१७२.३१ ॥
स्त्रीयुक्तः शिशिरे तद्वद्वसन्ते न दिवा स्वपेत्
त्यजेद्वर्षासु स्वप्नादीञ्छरदिन्दोश्च रश्मयः ॥ १.१७२.३२ ॥
पथ्यानि शालयो मुद्रा वर्षाम्भः क्वथितं पयः
निम्वातसीकुसुम्भानां शिग्रुसर्षपयोस्तथा ॥ १.१७२.३३ ॥
ज्योतिष्मतीमूलकानां तैलानि च हरन्ति हि
कृमिकुष्ठप्रमेहांश्च वातश्लेष्मशिरोरुजः ॥ १.१७२.३४ ॥
दाडिमामलकीकोलकरमर्द्पियालकम्
जम्बीरं नागग्गं च आम्रातककपिन्थकम् ॥ १.१७२.३५ ॥
पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणिच
जलं जीमूतकेक्ष्वाकुकुटजाकृतबन्धनम् ॥ १.१७२.३६ ॥
धामार्गवश्च संयोज्याः सर्वथा वमनेष्वमी
पूर्वाह्ने वमनायेते मदनेन्द्रयवी वचा ॥ १.१७२.३७ ॥
मृदुकोष्टश्च पित्तेन खरो वातकफाश्रयात्
मध्यमः समदोषे स्यात्त्रिवृत्तिते विरेचनम् ॥ १.१७२.३८ ॥
शर्करामधुसंयुक्तं सैन्धवं नगरं त्रिवृत्
हरीतकीविहङ्गानि गोमूत्रेण विरेचनम् ॥ १.१७२.३९ ॥
एरण्डतैलं त्रिफलाक्वाथश्च द्विगुणस्तथा
वातोल्बणेषु दोषेषु भोजयित्वाथ वामयेत् ॥ १.१७२.४० ॥
वंशादिनेत्रं कुर्वीत पडष्टद्वादशाङ्गुलम्
कर्कन्धृफलवच्छिद्रं वस्तिरुत्तानशायिने ॥ १.१७२.४१ ॥
निरूहदानेऽपि विधिरयमेवमुदीरितः
अर्धत्रिपट्पले मात्रा लघुमध्योत्तमः क्रमात् ॥ १.१७२.४२ ॥
पथ्याक्षवात्र्योकद्विचतुर्भाग रुगर्दनाः
शतवर्यसृताभृङ्गसिन्धुवारादिभाविताः ॥ १.१७२.४३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्त्रीरोगचिकित्सादिकयनं नाम द्विसप्तत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १७३
धन्वन्तरिरुवाच
द्रव्याणि मधुरादीनि वक्ष्ये रागहराण्यहम्
शालिषष्टिकगोधृमक्षीरं घृतं रसा मध ॥ १.१७३.१ ॥
मज्जाशृङ्गाटकयवकशेर्विवारुगीक्षुरम्
गम्भगी पौष्करं बीजं द्राक्षा खर्जूरकं बला ॥ १.१७३.२ ॥
नारिकलेक्ष्वात्मणुप्ता विदारी च प्रियालकम्
मधुकं तालकष्माण्डं मुख्योऽयं मधुरो गणः ॥ १.१७३.३ ॥
मूर्छादाहप्रशमनः पडिन्द्रियप्रसादनः
कृमिकृत्कफकृच्चैव एकोऽत्यर्थ निपेवितः ॥ १.१७३.४ ॥
श्वासकासाम्यमाधुर्यस्वरघातार्वुदानि च
गलगण्डश्लीपदानि गुडलेपादि कारयेत् ॥ १.१७३.५ ॥
दाडिमामलकाम्रं च कपित्थकरमर्दकौ
मातुलुङ्गाम्रातकं च बदरं तिन्तडीफलम् ॥ १.१७३.६ ॥
दधि तक्रं काञ्जिकं च लकुचं चाम्लवे तसम्
अम्लो लोणः शुण्ठीयुक्तो जारणः पाचनो रसः ॥ १.१७३.७ ॥
क्लेदनो वातकृद्धृप्यो विदाही चानुलोमनः
अम्लोऽत्यर्थं सेव्यमानः कुर्याद्धै दन्तहर्षकम् ॥ १.१७३.८ ॥
शरीरस्य च शैतिल्यं स्वरकण्ठास्यहृद्दहेत्
छिन्नभिन्नव्रणादीनि पाचयित्वाग्निभावितः ॥ १.१७३.९ ॥
लवणानि यवक्षारसर्जिकादिश्च लावणः
शोधनः पाचनः क्लेदी विश्लेषसर्पणादिकृत् ॥ १.१७३.१० ॥
मार्गरोधी मार्दवकृत्स एकः परिषेवितः
गात्रकण्डूकोष्ठशोथवैवर्ण्यं जनयेद्रसः
रक्तवातं पित्तरक्तं पुंस्त्वेन्द्रियरुजादिकम् ॥ १.१७३.११ ॥
व्योषशिग्रूमूलकं देवदारु च कुष्ठकम्
लशुनं वल्गुजी फलं मुस्तागुग्गुलुलाङ्गली ॥ १.१७३.१२ ॥
कटुको दीपनः शोधी कुष्ठकण्डूकफान्तकृत्
स्थौल्यालस्यक्रिमिहरः शुक्रमेदोविरोधनः
एकोऽत्यर्थं सेव्यमानः भ्रमदाहादिकृद्भवेत् ॥ १.१७३.१३ ॥
कृतमालः कीराणि हरिद्रेन्द्रयवास्तथा
स्वादुकण्टकवेत्राणि बृहतीद्वयशङ्खिनी ॥ १.१७३.१४ ॥
गुडूची चद्रवन्ती च त्रिवृन्मण्डूकपर्ण्यपि
कारवेल्लकवार्ताकुकरवीरकवासकाः ॥ १.१७३.१५ ॥
रोहिणी शङ्खचूर्णं च कर्कोटो वै जयन्तिका
जातीवारुणकं निम्बो ज्योतिष्मती पुनर्नवा ॥ १.१७३.१६ ॥
तिक्तो रसश्छेदनः स्याद्रोचनी दीपनस्तथा
शोधनो ज्वरतृष्णाघ्नो मूर्छाकण्ठार्तिकादिजित् ॥ १.१७३.१७ ॥
विण्मूत्रक्लेदसंशोषो ह्यत्यर्थं स च सेवितः
हनुस्तम्भाक्षेपकार्तिशिरः शूलब्रणादिकृत् ॥ १.१७३.१८ ॥
त्रिफलासल्लकीजम्बु आम्रातकवचादिकम्
तिन्दुकं वकुलं शालं पालङ्कीमुद्गचिल्लकम् ॥ १.१७३.१९ ॥
कषायो ग्राहको रोपी स्तम्भनक्लेदशोषणः
एकोऽत्यर्थं सेव्यमानो हृदये चाथ पीडकः
मुखशोषज्वराध्मानमन्यास्तम्भादिकारकः ॥ १.१७३.२० ॥
हरिद्राकुष्ठलवणं मेषशृङ्गिबलाद्वयम्
कच्छुरा सल्लकी पाठा पुनर्नवा शतावरी ॥ १.१७३.२१ ॥
अग्नि मन्थो ब्रह्मदण्डी श्वदंष्ट्रैरण्डके तथा
यवकोलकुलत्थादिकर्षाशी दशमूलकम्
पृथक्समस्तो वातातोर्बहुपित्तहरस्तथा ॥ १.१७३.२२ ॥
शतावरी विदारी च बालकोशीरचन्दनम्
दूर्वा वटः पिप्पली च बदरी सल्लकी तथा ॥ १.१७३.२३ ॥
कदली चोत्पलं पद्ममुदुम्बरपटोलकन्
अथ श्लेष्महरो वर्गो हरिद्रागुडकुष्ठकम् ॥ १.१७३.२४ ॥
शतपुष्पी च जाती च व्योषारग्वधलाङ्गली
सर्पिस्तैलवसामज्जाः स्नेहेषु प्रवरं स्मृतम् ॥ १.१७३.२५ ॥
तथा धीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम्
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् ॥ १.१७३.२६ ॥
देयं बहुकफे वापि व्योषक्षारसमायुतम्
ग्रन्थिनाडीकृमिस्लेष्ममेदोमारुतरोगिषु ॥ १.१७३.२७ ॥
तैलं लाघवदार्ढ्याय क्रूरकोष्ठेषु देहिषु
वातातपाम्बुभारस्त्रीव्यायामक्षीणधातुषु ॥ १.१७३.२८ ॥
रूक्षक्लेशक्षयात्याग्निवाता वृतपथेषु
अथ दग्ध्वा शिराजालं योनिकर्म शिरोरुजि (जम् ) ॥ १.१७३.२९ ॥
उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे
जघन्यस्य पलार्धेन स्नेहक्वाथौषधेषु च ॥ १.१७३.३० ॥
जलमुष्णं घृते देयं पृथक्तैले तु शस्यते
सेनेहे पित्ते तु तृष्णायां पिबेदुष्णोदकं नरः ॥ १.१७३.३१ ॥
वातानुलोमं दीप्ताग्रर्वर्चः स्निग्धस्य तन्मतम्
रूक्षम्य स्नेदृनं कार्यमभिस्निग्धस्य रूक्षणम् ॥ १.१७३.३२ ॥
श्यामाककोरदोषान्नतक्रपिण्याकसकुभिः
वातश्लेष्माणि वाते वा कफे वा स्वेद इष्यते
न स्वेदयेदतिम्थूलरूक्षदुर्वलमूर्छितान् ॥ १.१७३.३३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे योगसमदिवर्णनं नाम त्रिसप्तन्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १७४
धन्वतरिरुवाच
घृततैलादि वक्ष्यामि शृणु सुश्रुत रोगनुत्
शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्चला ॥ १.१७४.१ ॥
अभया च गुडूची च अटरूपकवागुजी
एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ १.१७४.२ ॥
कण्टकार्या रसप्रस्थक्षीरप्रस्थममन्वितम्
एतद्ब्राह्मीघृतं नाम श्रुतिमेधाकरं परम् ॥ १.१७४.३ ॥
त्रिफलाचित्रकबलानिर्गुण्डी निम्बवासकाः
पुनर्नवा गुडूची च बृहती च शतावरी ॥ १.१७४.४ ॥
एतैर्घृतं यथालाभं सर्वरोगविमर्दनम्
बलाशतकषाये तु तैलस्यार्धाढकं पचेत्
कल्कैर्मधूकमञ्जिष्ठाचन्दनोत्पलपद्मकैः ॥ १.१७४.५ ॥
सूक्ष्मैलापिप्पलीकुष्ठत्वगेलागुरुकेसरैः
गन्धाश्वजीवनीयैश्च क्षीराढकसमाश्रितम् ॥ १.१७४.६ ॥
एतन्मृद्वग्निना पक्वं स्थापयेद्राजते शुभे
सर्ववातविकारांस्तु सर्वधात्वन्तराश्रयान् ॥ १.१७४.७ ॥
तैलमेतत्प्रशमयेद्वल्याक्यं राजवल्लभम्
शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव च ॥ १.१७४.८ ॥
शतपुष्पं देवदारु मांसी शैलेयकं बला
चन्दनं तगरं कुष्टं मनः शिला ज्योतिष्मती ॥ १.१७४.९ ॥
एतैः कर्षसमैः कल्कैः घृतप्रस्थं विपाचयेत्
कुव्जवामनपङ्गूनां बधिरव्यङ्गकुष्ठिनाम् ॥ १.१७४.१० ॥
वायुना भग्नगात्राणां ये च सीदन्ति मैथुने
जराजर्जरगात्राणां चाध्मानमुख शोषिणाम् ॥ १.१७४.११ ॥
त्वग्गताश्चापि ये वाता शिरास्नायुगताश्च ये
सर्वांस्तान्नाशयत्याशु तैलं रोगकुलान्तकम् ॥ १.१७४.१२ ॥
नारायणमिदं तैलं विष्णुनोक्तं रुगर्दनम्
पृथक्तैलं घृतं कुर्यात्समस्तैरौषधैः पृथक् ॥ १.१७४.१३ ॥
शतावर्या गुडूच्या वा चित्रकै गोचनान्वितैः
निर्गुण्ड्या वा प्रसारः स्यात्कण्टकार्या रसादिभिः ॥ १.१७४.१४ ॥
वर्षाभूवालया वापि वासकन फलत्रिकैः
ब्राहया चैग्ण्डकेनापि भृङ्गराजेन कुष्टिना ॥ १.१७४.१५ ॥
मुसल्या दशमूलेन खदिरेण वटादिभिः
वटिका मोदको वापि चूर्ण स्यात्सर्वरोगनुत् ॥ १.१७४.१६ ॥
घृतेन मधुना वापि अद्भिः खण्डगुडादिभिः
लवणैः कटुकैर्युक्तं यथालाभं च गेगनुत् ॥ १.१७४.१७ ॥
चित्रकार्कत्रिवृद्वापि यवानीहयमारकम्
सुधां च बालां गणिकां सप्तपर्णसुवर्चिकाम् ॥ १.१७४.१८ ॥
ज्योतिष्मतीञ्च संभृत्य तैलं धीरो विपाचयेत्
एतन्निष्यन्दनं तैलं भृशं दद्याद्भगन्दरे ॥ १.१७४.१९ ॥
शोधनं गेपणं चैव सर्ववर्णकरं परम्
चित्रकाद्यं महातैलं सर्वरोगप्रभञ्जनम् ॥ १.१७४.२० ॥
अजमोदं ससिन्दूरं हरितालं निशाद्वयम्
क्षारद्वयं फेनयुतमार्द्रक सर (शवः लोद्भवम् ॥ १.१७४.२१ ॥
इन्द्रवारुण्यपामार्गकदलैः स्यन्दनैः समम्
एभिः सर्षपजं तैलमजामूत्रैश्चयोजितम् ॥ १.१७४.२२ ॥
मृद्वग्निना पचेदेत्गव्यक्षीरेण संयुतम्
अजमोदादिकं तैलं गण्डमालां व्यपोहति ॥ १.१७४.२३ ॥
विदग्धस्तु पचेत्पक्वं चैव विशोधयेत्
रोपणं मृदुभावं च तैलेनानेन कारयेत् ॥ १.१७४.२४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्राह्मीघृतादिवर्णनं नाम चतुः सप्तत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १७५
रुद्र उवाच
एवं धन्वन्तरिर्विष्णुः सुश्रुतादीनुवाच ह
हरिः पुनर्हरायाह नानायोगान्रुगर्दनान् ॥ १.१७५.१ ॥
हरिरुवाच
सर्वज्वरेषु प्रथमं कार्यं शङ्कर लङ्घनम्
क्वथितोदकपानं च तथा निर्वातसेवनम् ॥ १.१७५.२ ॥
अग्निस्वेदाज्ज्वरास्त्वेवं नाशमायान्तिहीश्वर
वातज्वरहरः क्वाथो गुडूच्या मुस्तकेन च ॥ १.१७५.३ ॥
दुरालभैश्चैव घृतं पित्तज्वरहरः शृणु
शुण्ठीपर्पटमुस्तैश्च बालकोशीरचन्दनैः ॥ १.१७५.४ ॥
साज्यः क्वाथः श्लेष्मजं तु सशुण्ठिः सदुरालभः
सवालकः सर्वज्ज्वरं सशुण्ठिः सहपर्पटः ॥ १.१७५.५ ॥
किराततिक्तैर्नारीगुडूचीशुण्ठिमुस्तकैः
पित्तज्वरहरः स्याच्च शृण्वन्यं योगमुत्तमम् ॥ १.१७५.६ ॥
वालकोशीरपाठाभिः कण्टकारिकमुस्तकैः
ज्वरनुच्च कृतः क्वाथस्तथा वै सुरदारुणा ॥ १.१७५.७ ॥
धन्याकनिम्बमुस्तानां समधुः स तु शङ्कर
पटोलपत्रयुक्तस्तु गुडूचीत्रिफलायुतः ॥ १.१७५.८ ॥
पीतोऽखिलज्वरहरः क्षुधाकृद्वातनुत्त्विदम्
हरीतकीपिप्लीनामामलीचित्रकोद्भवम् ॥ १.१७५.९ ॥
चूर्णं ज्वरं च क्वथितं धान्य (धन्या) कोशीरपपर्पटैः
आमलक्या गुडूच्या च मधुयुक्तं सचन्दनम् ॥ १.१७५.१० ॥
समस्तज्वरनुच्च स्यात्सन्निपातहरं शृणु
हरिद्रानिम्बत्रिफलामुस्तकैर्देवदारुणा ॥ १.१७५.११ ॥
कषायं कटुरोहिण्या सपटोलं सपत्रकम्
त्रिदोषज्वरनुच्चस्यात्पीतं तु क्वथितं जलम् ॥ १.१७५.१२ ॥
कण्टकार्या नागरस्य गुडूच्या पुष्करेण च
जग्ध्वा नागबलाचूर्णं श्वसकासादिनुद्भवेत् ॥ १.१७५.१३ ॥
कफवातज्वरे देयं जलमुष्णं पिपासिने
विश्वपर्पटकोशीरमुस्तचन्दनसाधितम् ॥ १.१७५.१४ ॥
दद्यात्सुशीतलं वारि तृट्छर्दिज्वरदाहनुत्
बिल्वादिप पञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे ॥ १.१७५.१५ ॥
पाचनं पिप्पलीमूलं गुडृचीविश्वभेषजम्
वातज्वरे त्वयं क्वाथो दत्तः शान्तिकरः परः ॥ १.१७५.१६ ॥
पित्तज्वरघ्नः समधुः क्वाथः पर्पटनिम्बयोः
विधाने क्रियमाणेऽपि य्सय संज्ञा न जायते ॥ १.१७५.१७ ॥
पादयोस्तु ललाटे वा दहेल्लौहशलाकया
तिक्ता पाठा पर्पटाश्च विशाला त्रिफला त्रिवृत्
सक्षीरो भेदनः क्वाथः सर्वज्वरविशोधनः ॥ १.१७५.१८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरहरनानायोगादिवर्णनं नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १७६
श्रीभगवानुवाच
सप्तरात्रात्प्रजायन्ते खल्वाटस्य कचाः शुभाः
दग्धहस्तिदन्तलेपात्साजाक्षीररसाञ्जनात् ॥ १.१७६.१ ॥
भृङ्गराजरसेनैव चतुर्भागेन साधितम्
केशवृद्धिकरं तैलं गुञ्जाचूर्णान्वितेन च ॥ १.१७६.२ ॥
एलामांसीकुष्ठमुरायुक्तमभ्यङ्गतः शिवम्
गुञ्जाफलं समादेयं लेपनं चन्द्रलुप्तनुत् ॥ १.१७६.३ ॥
आम्रास्थिचूर्णलेपाद्वै केशाः सूक्ष्मा भवन्ति च
करञ्जामलकैलाललाक्षालेपोऽरुणापहः ॥ १.१७६.४ ॥
आम्रास्थिमज्जामलकलेपात्केशा भवन्ति वै
बद्धमूला घना दीर्घाः स्नग्धाः स्युर्नोत्पतन्ति च ॥ १.१७६.५ ॥
विडङ्गगन्धपाषाणसाधितं तैलमुत्तमम्
सचतुर्गुणगोमूत्रं मनसः शिलमेव वा ॥ १.१७६.६ ॥
शिरोऽभ्यङ्गाच्छिराजन्मयूकालिख्याः क्षयं नयेत्
नवदग्धं शङ्खचूर्णं घृष्टसीसकलेपितम् ॥ १.१७६.७ ॥
कचाः श्लक्ष्णा महाकृष्णा भवन्ति वृषभध्वज
भृङ्गराजं लोहचूर्णं त्रिफला बीजपूरकम् ॥ १.१७६.८ ॥
नीली च करवीरं च गुडमेतैः समं शृतम्
पलितानीह कृष्णानि कुर्याल्लेपान्महौषधम् ॥ १.१७६.९ ॥
आम्रास्थिमज्जा त्रिफला नी (ता) ली च भृङ्ग राजकम्
जीर्णं पक्वं लोहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥ १.१७६.१० ॥
चक्रमर्दकबीजानि कुष्ठमेरण्डमूलकम्
अत्यम्लकाञ्जिकं पिष्ट्वा लेपान्मस्तकरोगनुत् ॥ १.१७६.११ ॥
सैन्धवं च वचा हिङ्गु कुष्ठं नागेश्वरं तथा
शतपुष्पा देवदारु एभिस्तैलं तु साधितम् ॥ १.१७६.१२ ॥
गोपुरीपरसेनैव चतुर्भागेन संयुतम्
तत्कणभरणादुग्रकर्णशूलं क्षयं नयेत् ॥ १.१७६.१३ ॥
मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणाच्छिव
कर्णयोः पूतिनाशः स्यात्कृमिस्त्रावादिकस्य च ॥ १.१७६.१४ ॥
मालतीपुप्पदलयो रसेन भरणात्तथा
गोजलेनैव पूरेण पूयस्त्रावो विनश्यति ॥ १.१७६.१५ ॥
कष्ठमाषमरीचानि तगरं मधु पिप्पली
अपामार्गोऽश्वगन्धा च बृहती सितसर्षपाः ॥ १.१७६.१६ ॥
यवास्तिलाः सैन्धवं च पादिकोद्वर्तनं शुभम्
लिङ्गबाहुस्तनानां च कर्णयोर्वृद्धिकृद्भवेत्
कटुतैलं भल्लातकं बृहती फलदाडिमम् ॥ १.१७६.१७ ॥
वल्कलैः साधितैर्लिप्तं लिङ्गं तेन विवर्धते ॥ १.१७६.१८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे केशोत्पत्त्यादिवर्णनं नाम षट्सप्तत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १७७
हरिरुवाच
सोभाञ्जनपत्ररसं मधुयुक्तं हि चक्षुषोः
भ (च) रणाद्रोगहरणं भवेन्नास्त्यत्र संशयः ॥ १.१७७.१ ॥
अशीतितिलपुष्पाणि जात्याश्च कुसुमापि च
उषानिम्बामलाशुण्ठीपिप्पलीतण्डुलीयकम् ॥ १.१७७.२ ॥
छायासुष्कां वटीं कुर्यात्पिष्ट्वा तण्डुलवारिणा
मधुना सहसा चाक्ष्णोरञ्जनात्तिमिरादिनुत् ॥ १.१७७.३ ॥
बिभीतकास्थिमज्जा तु शङ्खनाभिर्मनः शिला
निम्बपत्रमरीचा नि अजामूत्रेण पेषयेत् ॥ १.१७७.४ ॥
पुष्पं रात्र्यन्धतां हन्ति तिमिरं पटलं तथा
चतुर्भागानि शङ्खस्य तदर्धेन मनः शिला ॥ १.१७७.५ ॥
सैन्धवं च तदर्धेनत्वेतत्पिष्ट्वादकेन तु
छायाशुष्कां तु वटिकां कृत्वा नयनमञ्जयेत् ॥ १.१७७.६ ॥
तिमिरं पटलं हन्ति पिचिटं च महौषधम्
त्रिकटु त्रिफलां चैव करं जस्य फलानि च ॥ १.१७७.७ ॥
सैन्धवं रजनीद्वे व भृङ्गराजरसेन हि
पिष्ट्वा तदञ्जनादेव तिमिरादिविनाशनम् ॥ १.१७७.८ ॥
आटरूषकमूलं तु काञ्जिकापिष्टमेव तु
तेनाक्षिबूमिलेपाच्च चक्षुः शूलं विनश्यति ॥ १.१७७.९ ॥
सतक्रं बदरीमूलं पीतं वाक्षिव्यथां हरेत्
सैन्धंवं कटुतैलं च अपामार्गस्य मूलकम् ॥ १.१७७.१० ॥
क्षीरकाञ्जिकसंघृष्टं ताम्रपात्रे तु तेन च
अञ्जनात्पिञ्जटस्यैव नाशो भवति शङ्कर ॥ १.१७७.११ ॥
ओं दद्रु सर क्रों ह्रीं ठः ठः दद्रु सर ह्रीं ह्रीं ओं उं ऊ सर क्रीं क्रीं ठः ठः
आद्या हि वशामायान्ति मन्त्रेणानेन चाञ्जनात् ॥ १.१७७.१२ ॥
बिल्वकनीलिकामूलं पिष्टमभ्यञ्जनेन च
अनेनाञ्जितमात्रेण नश्यन्ति तिमिराणि हि ॥ १.१७७.१३ ॥
कटुकं (पिप्पली) तगरं चैव हरिद्रामलकं वचा
खदिरपिष्टवात्तश्च अञ्जनान्नेत्ररोगनुत् ॥ १.१७७.१४ ॥
नीरपूर्णमुखो धौति बृहन्मानेन योऽक्षिणी
प्रभाते नेत्ररोगैश्च नित्यं सर्वैः प्रमुच्यते ॥ १.१७७.१५ ॥
शुक्लैरण्डस्य मूलेन पत्रेणापि प्रसाधितम्
छगदग्धसेकमौष्ण्याच्चक्षुषोर्वातशलनत् ॥ १.१७७.१६ ॥
चन्दनं सैन्धवं वृद्धपालाशश्च हरीतकी
पटलं कुसुमं नीली च (व) क्रिकां हरतेऽञ्जनम् ॥ १.१७७.१७ ॥
गुञ्जामूलं छागमूत्रे घृष्टं तिमिरनुच्च तत्रौप्यताम्रसुवर्णानां हस्तघृष्टशलाकया ॥ १.१७७.१८ ॥
घृष्टमुद्वर्तनं रुद्र कामलाव्याधिनाशनम्
घोषाफलमपाघ्रातं पीतकामलनाशनम् ॥ १.१७७.१९ ॥
दूर्वादाडिमपुष्पं तु अलक्तकहरीतकी
नासार्शवातरक्तनुन्नस्याद्वै स्वरसेन हि ॥ १.१७७.२० ॥
आपिष्ट्वा जाङ्गली मू (तू) लं तद्रसेन वृषध्वज
नस्यादाराद्विनश्येत नाशार्शो नीललोहित ॥ १.१७७.२१ ॥
गव्यं घृतं सर्जरसं रुद्र धन्याकसैन्धवम्
धुत्तूरकं गैरिकं च एतैः साधितसिक्थकम् ॥ १.१७७.२२ ॥
सतैलं व्रणनुत्स्याच्च स्फुटितोद्धटिताधरे
जातीपत्रं च चर्वित्वा विधृतं मुखरोगनुत् ॥ १.१७७.२३ ॥
भक्षात्केसरबीजस्य दन्ताः स्युश्चलिताःस्थिराः
मुष्टकं कुष्ठमेला च यष्टिकं मधुवालकम् ॥ १.१७७.२४ ॥
धन्याकमेतददनान्मुखदुर्गन्धनुद्धर
कषायं कटुकं वापि तिक्तशाकस्य भक्षणात् ॥ १.१७७.२५ ॥
तलयुक्तस्य नित्यं स्यान्मुखदुर्गन्धताक्षयः
दन्तव्रणानि सर्वाणि क्षयं गच्छन्त्यनेन तु ॥ १.१७७.२६ ॥
काञ्जिकस्य सतैलस्य गण्डूषकवलास्थितिः
ताम्बूलचूर्णदग्धस्य मुखस्य व्याधिनुच्छिव ! ॥ १.१७७.२७ ॥
परित्यक्तश्लेष्मणश्च शुण्ठीचर्वणतो यथा
मातुलुङ्गदलान्येला यष्टी मधु च पिप्पली ॥ १.१७७.२८ ॥
जातीपत्रमथैषां च चूर्णं लीढ्वा तथा कृतम्
शेफालिकजटायाश्च चर्वणं गलशुण्ठिनुत् ॥ १.१७७.२९ ॥
नासाशिरारक्तकर्षान्नश्येच्छंशकर जिह्विका
रसः शिरीषबीजानां हरिद्रायाश्चतुर्गुणः ॥ १.१७७.३० ॥
तेन पक्वेन भूतेश नस्यं मस्तकरोगनुत्
गलरोगा विनश्यन्ति नस्यमात्रेण तत्क्षणात् ॥ १.१७७.३१ ॥
दन्तकीटविनाशः म्याद्गुञ्जामूलस्य चर्वणात्
काकजङ्घास्नुहीनीलीकवायो मधुमोजितः ॥ १.१७७.३२ ॥
दन्ताक्रान्तान्दन्तजांश्च कृमीन्नाशयते शिव
घतं कर्कटपादेन दुग्धोन्मिश्रेण साधितम् ॥ १.१७७.३३ ॥
तेन चाम्यङ्गितादन्ताः कुर्युः कटकटान्न हि
लिप्त्वा कर्कटपादेन केवलेनाथवाशिव ॥ १.१७७.३४ ॥
त्रिसप्ताहं वाः पिष्टानि ज्योतिष्मत्याः फलानि हि
शुक्लाभयामज्जलेपाद्दन्तस्याङ्ककलङ्कनुत् ॥ १.१७७.३५ ॥
लोध्रकुङ्कुममञ्जिष्ठालोहका लेयकानि च
यवतण्डुलमेतैश्च यष्टी मधुसमन्वितैः ॥ १.१७७.३६ ॥
वारिपिष्टैर्वक्त्रलेपः स्त्रीणां शोभनवक्त्रकृत्
द्विभागं छागदुग्धेन तैलप्रस्थं तु साधितम् ॥ १.१७७.३७ ॥
रक्तवन्दनमञ्जिष्ठालक्षाणां कर्षकेण वा
यष्टीमधुकुङ्कुमाभ्यां सप्ताहान्मुखकान्तिकृत् ॥ १.१७७.३८ ॥
शुण्ठीपिप्पलिचूर्णं तु गुडूची कण्टकारिका
एभिश्च क्वथितं वारि पीतं चाग्निं करोति वै ॥ १.१७७.३९ ॥
वातशूलक्षयं चैव कगेति प्रथमेश्वर
करञ्जपर्पटोशीरं बहती कटुरोहिणी ॥ १.१७७.४० ॥
गोक्षुरं क्वथितं त्वभिर्वारि पीतं श्रमापहन्
दाहं पित्तं ज्वरं शोषं मूर्छां चैव क्षयं नयेत् ॥ १.१७७.४१ ॥
मध्वाज्यपिप्पलीचूर्णं क्वथितं क्षीरसंयुतम्
पीतं हृद्रोगकासस्य विषमज्वरनुद्भवेत् ॥ १.१७७.४२ ॥
क्वाथौपधीनां सर्वासां कर्षार्धं ग्राह्यमेव च
वयोऽनुरूयतो ज्ञेयो विशेषो वृषभध्वज ॥ १.१७७.४३ ॥
दुग्धं पीतं तु संयुक्तं गोपुरीषरसेन च
विषमज्वरनुत्स्याच्च काकजन्धारसस्तथा ॥ १.१७७.४४ ॥
मशुण्ठि क्वथितं क्षीग्मजाया ज्वरनुद्भवेत्
यष्टीमधुकमुस्तं च सैन्धवं बृहतीफलम् ॥ १.१७७.४५ ॥
एतैर्नस्वप्रिदानाच्च निद्रा स्यात्पुरुपस्य च
मरीचप्रध्वश्वलालानस्यान्निद्रा भवेच्छिव ॥ १.१७७.४६ ॥
मूलं तु काकजङ्घाया निद्राकृत्स्याच्छिरस्थितम्
सिद्धं तैलं काञ्जिकेन तथा सर्जरसेन च ॥ १.१७७.४७ ॥
शीतोदकसमायुक्तं लेपात्सन्तापनाशनम्
शोणितज्वरदाहेभ्यो जातसन्तापनुत्तथा ॥ १.१७७.४८ ॥
शृकशैवालमन्थश्च शुण्ठीपापाणभेदकम्
शौवाञ्जनं गोक्षुरं वा वरुणच्छन्नमेव च ॥ १.१७७.४९ ॥
सौभाञ्जनस्य मूलं च एतैः क्वथितवारि च
दत्त्वा हिङ्गुयवक्षारं पीतं वातविनाशनम् ॥ १.१७७.५० ॥
पिप्पली पिप्पलीमूलं तथा भल्लातकं शिव
वार्येतैः क्वथितं पीतं वरशूलापहारकृत् ॥ १.१७७.५१ ॥
अश्वगन्धामूलकाभ्यां सिद्धा वल्मीकमृत्तिका
एतया मर्दनाद्रुद्र ऊरुस्तम्भः प्रशाम्यति ॥ १.१७७.५२ ॥
बृहतीकस्य वै मूलं संपिष्टमुदकेन च
पीतं संघातवातस्य विपाटनकृदेव च ॥ १.१७७.५३ ॥
पीतं तक्रेण मूलं च आर्द्रस्य तगरस्य च
हरेत्झिञ्जिनीवातं?वै वृक्षमिन्द्राशनिर्यथा ॥ १.१७७.५४ ॥
अस्थिसंहारमेकेन भक्तेन सह वादितम्
पतिं मांसरसेनापि वातनुच्चास्थिभङ्गनुत् ॥ १.१७७.५५ ॥
घृतलिप्तं सशुष्कं च छागीक्षीरेण संयुतम्
तल्लोपात्पादयार्नंश्येत्सक्षेप्ये चात्र संशयः ॥ १.१७७.५६ ॥
मध्वाज्यसैन्धवं सिक्थं गुडकैरिकगुग्गुलैः
ससर्जरसस्फुटितः क्लोमशुद्धिश्च लेपनात् ॥ १.१७७.५७ ॥
कटुतैलेन लिप्तो वै विधूमाग्नौ प्रतापितः
मृत्तिकारखादितः पादः समः स्याद्वृषभध्वज ॥ १.१७७.५८ ॥
सर्जरसाः सिक्थकं च जीरकं च हरीतकी
उत्साधितघृताभ्यङ्गो ह्यग्निदग्धव्यथापनुत् ॥ १.१७७.५९ ॥
तिलतैलं चाग्निदग्धं यवभस्मसमन्वितम्
अग्निदग्धव्रणं नश्येद्ब्रहुशः कृतलेपतः ॥ १.१७७.६० ॥
नवनीतं माहिषं च दग्धपिष्टतिलानि च
सभल्लाकं व्रणं नश्येद्धृच्छूलं नस्यलेपनात् ॥ १.१७७.६१ ॥
कर्पूरगव्यसर्पिर्भ्यां प्रहारः पूरितो हर
शस्त्रोद्भवः सबद्धश्च शुक्लवर्णेन शङ्कर !
पाकं च वेदनां चैव संस्पृशेद्वृषभध्वज ॥ १.१७७.६२ ॥
आम्र (तस्य) मूलरसेनैव शस्त्रघातः प्रपूरितः
ढौकते शस्त्रघाताभ्यां निर्व्रणो घृपूरितः ॥ १.१७७.६३ ॥
शरपुङ्खा लज्जालुका पाठा चैषां तु मूलकम्
जलपिष्टं तस्य लेपाच्छस्त्रघातः प्रशाम्यति ॥ १.१७७.६४ ॥
मूलं च काकजङ्घायास्त्रिरात्रेणैव शोषितः
पाकपूतिं वेदनां च हन्ति वै रोहितो व्रणे ॥ १.१७७.६५ ॥
सजलं तिलतैलं च अपामार्गस्य मूलकम्
तत्सेकदानान्नश्येच्च प्रहारोद्भववेदना ॥ १.१७७.६६ ॥
अभयां सैन्धवं शुण्ठीमेतत्पिष्ट्वोदकेन तु
भक्षयित्वा ह्यजीर्णस्य नाशो भवति शङ्कर ! ॥ १.१७७.६७ ॥
कटिबद्धं निम्बमूलमक्षिसूलहरं भवेत्
शणमूलं सताम्बूलं दग्धमिन्द्रियकस्य (ल्प) हृत् ॥ १.१७७.६८ ॥
अन्नस्विन्नहरिद्रा च श्वेतसर्षपमूलकम्
बीजानि मातुलुङ्गस्य एषामुद्वर्तनं समम्
सप्तरात्रप्रयोगेण शुभदेहकरं भवेत् ॥ १.१७७.६९ ॥
श्वेतापराजितापत्रं निम्बपत्ररसेन तु
नस्यदानाड्डाकिनीनां मातॄणां ब्रह्मरक्षसाम्
मोक्षः स्यान्मधुसारेण नस्याच्च वृषभध्वज ॥ १.१७७.७० ॥
मूलं श्वेतजयन्त्याश्च पुष्यर्क्षे तु समाहृतम्
श्वेतापराजितार्कस्य चित्रकस्य च मूलकम्
कृत्वा तु वटिकां नारी तिलकेन वशी भवेत् ॥ १.१७७.७१ ॥
पिप्पलीलोहचूर्णं तु शुण्ठीश्चामलकानि च
समानि रुद्र जानीयात्सैन्धवं मधुशर्करा ॥ १.१७७.७२ ॥
उदुम्बरप्रमाणेन सप्ताहं भक्षणात्समम्
पुमांश्च बलवान्स स्याज्जीवेद्वर्षशतद्वयम्
ओं ठ ठ ठ इति सर्ववश्यप्रयोगेषु प्रयुक्तः सर्वकामकृत् ॥ १.१७७.७३ ॥
संगृह्य विद्वान्काकस्य निलयं प्रदहेच्च तत्
चिताग्नौ भस्म तच्छत्रोर्दत्तं शिरसि शङ्कर ॥ १.१७७.७४ ॥
तमुच्चाटयते रुद्र शृणु तद्योगमुत्तमम्
निः क्षिप्तं च पुरीषं वै वनमूषिकचर्मणि ॥ १.१७७.७५ ॥
कटितन्तुनिबद्धं वै कुर्यान्मलनिरोधनम्
कृष्णकाकस्य रक्तेन यस्य नाम प्रलिप्य च ॥ १.१७७.७६ ॥
च्युतदले मध्यमध्ये ततो निः क्षिप्यते हर !
स खाद्यते काकवृन्दैर्नारी पुरुष एव च ॥ १.१७७.७७ ॥
शर्करामध्वजाक्षीरं तिलगोक्षुरकं समम्
स शत्रुं नाशयेद्रुद्र ! उच्चाटितमिदं हर ! ॥ १.१७७.७८ ॥
उलूककृष्णकाकस्य बिल्वस्याथ समिच्छतम्
रुधिरेण समायुक्तं ययोर्नाम्ना तु हूयते
तयोर्मध्ये महावैरं भवेन्नास्त्यत्र संशयः ॥ १.१७७.७९ ॥
भावितं ऋक्षदुग्धेन मत्स्यस्य रोहितस्य च
मांसं तत्साधितं तैलं तदभ्यङ्गाच्च रोगनुत्
चन्दनोदकनस्यात्तु रोमोत्थानं भवेत्पुनः ॥ १.१७७.८० ॥
हस्ते लाङ्गलिकाकन्दं गृहीतं तेन लेपितम्
शरीरं येन स पुमान्वृद्धेर्दर्पं व्यपोहति ॥ १.१७७.८१ ॥
मयूररुधिरेणैव जीवं संहरते शिव
ज्वलतां तु भुजङ्गानां बिलस्थानामपीश्वर ॥ १.१७७.८२ ॥
देहश्चिताग्नौ दग्धश्च सर्पस्याजगरस्य हि
तद्भस्म संमुखे क्षिप्तं शत्रणां भङ्गकृद्भवेत् ॥ १.१७७.८३ ॥
मन्त्रेणानेन तत्क्षिप्तं महाभङ्गकरं रिपोः
ओं ठ ठ ठ चाहीहिचाहीहि स्वाहा
ओं उदरं पाहिहि पाहिहिस्वाहा ॥ १.१७७.८४ ॥
सुदर्शनाया मलं तु पुष्यर्क्षे तु समाहृतम्
निः क्षिप्तं गृहमध्ये तु भुजङ्गा वर्जयन्ति तत् ॥ १.१७७.८५ ॥
अर्कमूलेन रविणा अर्काग्निज्वलिता शिव
युक्ता सिद्धार्थतैलेन वर्तिर्मार्गाहिनाशिनी ॥ १.१७७.८६ ॥
मार्जारपललं विष्ठा हरितालं च भावितम्
छाग मूत्रेण तल्लिप्तो मूषिको मूषिकान्हरेत् ॥ १.१७७.८७ ॥
मुक्तो हि मन्दिरे रुद्र नात्र कार्या विचारणा
विफलार्जुनपुष्पाणि भल्लातकशिरीषकम् ॥ १.१७७.८८ ॥
लाक्षा सर्जरसश्चैव विडङ्गश्चैव गुग्गुलुः
एतैर्धूपो मक्षिकाणां मशकाणां विनाशनः ॥ १.१७७.८९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नेत्राञ्जनादिनिरूपणं नाम सप्तसप्तत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १७८
हरिरुवाच
ब्रह्मदण्डीवचाकुष्ठं प्रियङ्गर्नागकेशरम्
दद्यात्ताम्बूलसंयुक्तं स्त्रीणां मन्त्रेण तद्वशम्
ओं नारायण्यै स्वाहा ॥ १.१७८.१ ॥
ताम्बूलं यस्य दीयेत स वशी स्यात्सुमन्त्रतः
ओं हरिः हरिः स्वाहा ॥ १.१७८.२ ॥
गोदन्तं हरितालञ्च संयुक्तं काकजिह्वया
चूर्णोकृत्य यस्य शिरे दीयते स वशी भवेत्
श्वेतसर्षपनिर्माल्यं यद्गृहे तद्विनाशकृत् ॥ १.१७८.३ ॥
वैभी तकं शाखोटकं मूलं पत्रेण संयुतम्
स्थाप्यते यद्गृहद्वारे तत्र वै कलहो भवेत् ॥ १.१७८.४ ॥
खञ्जरीटस्य मांसं तु मधुना सह पेषयेत्
ऋतुकालेयोनिलेपात्पुरुषो दासतामियात् ॥ १.१७८.५ ॥
अगुरुं गुग्गुलुं चैव नीलोत्पलसमन्वितम्
गुडेन धूपयित्वा तु राजद्वारे प्रियो भवेत् ॥ १.१७८.६ ॥
श्वेताप राजितामूलं पिष्टं रोचनया युतम्
यं पश्येत्तिलकेनैव वशी कर्यान्नृपालये ॥ १.१७८.७ ॥
काकजङ्घा वचा कुष्ठं निम्बपत्रं सुकुङ्कुमम्
आत्मरक्तसमायुक्तं वशी भवति मानवः ॥ १.१७८.८ ॥
आरण्यस्य बिडालस्य गृहित्वा रुधिरं शुभम्
करञ्जतैले तद्भाव्यं रुद्राग्नौ कज्जलं ततः
पातयेत्पद्मपत्रेण हादृश्यः स्यात्तदञ्जनात् ॥ १.१७८.९ ॥
ओं नमः खड्गवज्रपाणये महायक्षसेनापतये स्वाहा
ओं रुद्रं ह्रां ह्रीं वरशक्ता त्वरिताविद्या
ओं मातरः स्तम्भयस्वाहा
सहस्रं परिजप्यात्तु विद्येयं चौरवारिणी
महासुगन्धिकामूलं शुक्रं स्तम्भेत्कटौ स्थितम् ॥ १.१७८.१० ॥
ओं नमः सर्वसत्त्वेभ्यो नमः सिद्धिं कुरु कुरु स्वाहा
सप्ताभिमन्त्रितं कृत्वा करवीरस्य पुष्पकम्
स्त्रीणामग्रे भ्रामयच्च क्षणाद्वै सा वशे भवेत् ॥ १.१७८.११ ॥
ब्रह्मदण्डीं वचां पत्रं मधुना सह
पेषयेत्
अङ्गलेपाच्च वनिता नान्यं भर्तारमिच्छति ॥ १.१७८.१२ ॥
ब्रह्मदण्डीशिखा वक्त्रे क्षिप्ता शुक्रस्य स्तम्भनम्
मूलं जयन्त्या वक्त्रस्थं व्यवहारे जयप्रदम् ॥ १.१७८.१३ ॥
भृङ्गराजस्य मूलं तु पिष्टं शुक्रेण संयुतम्
अक्षिणी चाञ्जयित्वा तु वशी कर्यान्नरं किल ॥ १.१७८.१४ ॥
अपराजिताशिखान्तु नीलोत्पलसमन्विताम्
ताम्बूलेन प्र (दाना) दद्याच्च वशीकरणमुत्तमम् ॥ १.१७८.१५ ॥
अङ्गुष्ठे च पदे गुल्फे जानौ च जघने तथा
नाभौ वक्षसि कुक्षौ च कक्षे कण्ठे कपोलके ॥ १.१७८.१६ ॥
ओष्ठे नेत्रे ललाटे च मूर्ध्नि चन्द्रकलाः स्थिताः
स्त्रीणां पक्षे सिते कृष्णे ऊर्ध्वाधः संस्थिता नृणाम् ॥ १.१७८.१७ ॥
वामाङ्गे दक्षिणाङ्गे च क्रमाद्रुद्र द्रवादिकृत्
चतुः षष्टि कलाः प्रोक्ताः कामशास्त्रे वशीकराः
आलिङ्गनाद्या नारीणां कमारीणां वशीकराः ॥ १.१७८.१८ ॥
रोचनागन्धुपुष्पाणि निम्बपुष्पं प्रियङ्गवः
कुङ्कमं चन्दनञ्चैव तिलकेन जगद्वशेत् ॥ १.१७८.१९ ॥
ओं ह्रीं गौरि देवि सौभाग्यं पुत्रवशादि देहि मे
ओं ह्रीं लक्ष्मि ! देवि सौभाग्यं सर्वं त्रैलोक्यमोहनम् ॥ १.१७८.२० ॥
सगन्धस्य हरिद्रायाः कुङ्कमानां च लेपतः
वशयेद्रुद्र धूपश्च तथापुष्पसुगन्धयोः ॥ १.१७८.२१ ॥
दुरालभा वचा कुष्ठं कुङ्कुमञ्च शतावरी
तिलतैलेन संयुक्तं योनिलेपाद्वशी नरः ॥ १.१७८.२२ ॥
निम्बकाष्ठस्य धूमेन धूपयित्वा भगं वधूः
सुभगास्यात्साति रुद्र पतिर्दासो भविष्यति ॥ १.१७८.२३ ॥
माहिषं नवनीतञ्च कष्टञ्च मधुयष्टिका
सौभाग्यं भगलेपात्स्यात्पतिर्दासो भवेत्तथा ॥ १.१७८.२४ ॥
मधुयष्टिश्च गोक्षीरं तथा च कण्टकारिका
एतानि समभागानि पिबेदुष्णेन वारिणा
चतुर्भागावशेषेण गर्भसम्भवमुत्तमम् ॥ १.१७८.२५ ॥
मातुलुङ्गस्य बीजानि क्षीरेण सह भावयेत्
तत्पीत्वा लभते गर्भं नात्र कार्या विचारणा ॥ १.१७८.२६ ॥
मातुलुङ्गस्य बीजानि मूलान्येरण्डकस्य च
घृतेन सह संयोज्य पाययेत्पुत्रकाक्षिणी ॥ १.१७८.२७ ॥
पश्वगन्धा मृत दुग्ध क्वथितं मुत्रकारकम्
पलाशस्य तु बीजानि क्षौद्रेण सह पेषयेत्
रजस्वला तु पीत्वा स्यात्मुष्पगर्भविवर्जिता ॥ १.१७८.२८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ह्यष्टसप्तत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १७९
हरिरुवाच
हरितालं यवक्षांरं पत्राङ्गं रक्तचन्दनम्
जातिहिङ्गुलकं लाक्षां पक्त्वा दन्तान्प्रलेपयेत् ॥ १.१७९.१ ॥
हरीतकीकषायेण मृष्ट्वा दन्तान्प्रलेपयेत्
दन्ताः स्युर्लोहिताः पुंसः श्वेता रुद्र न संशयः ॥ १.१७९.२ ॥
मूलकं स्विद्य मन्दाग्नौ रसं तस्य प्रपूरयेत्
कर्णयोः पूरणात्तेन कर्णस्त्रावो विनश्यति ॥ १.१७९.३ ॥
अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः
निष्पीड्य पूरयेत्कर्णौ कर्णशूलं विनश्यति ॥ १.१७९.४ ॥
प्रियङ्गुमधुका चैव धातक्युत्पलपाङ्क्तिभिः
मञ्जिष्ठा लोध्रलाक्षाभिः कपित्थस्वरसेन च
पचेत्तैलं तथा स्त्रीणां नश्येत्क्लेदः प्रपूरणात् ॥ १.१७९.५ ॥
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुमहौषधम्
सतपुष्पावचा कुष्ठं दारु शिग्र रसाञ्जनम् ॥ १.१७९.६ ॥
सौवर्चलं यवक्षारं तथा सर्जकसैन्धवम्
तथा ग्रन्थिर्विडं मुस्तं मधुयुक्तं चतुर्गुणम् ॥ १.१७९.७ ॥
मातुलुं गरसस्तद्वत्कदल्याश्च रसो हि तैः
पक्वतैलं हरेदाशु स्त्रावादींश्च न संशयः ॥ १.१७९.८ ॥
कर्णयोः कृमिनाशः स्यात्कटुतैलस्य पूरणात्
हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च ॥ १.१७९.९ ॥
विडङ्गभद्रं मुस्तञ्च सप्तमं विश्वभेषजम्
गोमूत्रेण च पिष्ट्वैव कृत्वा च वटिकां हर !
अजीर्णहृद्भवेच्चैकं द्वयं विषूचिकापहम् ॥ १.१७९.१० ॥
पटोलं मधुना हन्ति गोमूत्रेण तथाबुदम्
एषा च शङ्करी वर्तिः सर्वनेत्रामया पहा ॥ १.१७९.११ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकोनाशीत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १८०
हरिरुवाच
वचा मांसी च बिल्वञ्च तगरं पद्मकेसरम्
नागपुष्पं प्रियङ्गुञ्च समभागानि चूर्णयेत्
अनेन धूपितो मर्त्यः कामवद्विचरेन्महीम् ॥ १.१८०.१ ॥
कर्पूरं देवदारुञ्च मधुना सह योजयेत्
लिङ्गलेपाच्च तेनैव वशीकुर्यात्स्त्रियं किल ॥ १.१८०.२ ॥
मैथुनं पुरुषो गच्छेद्गृह्णीयात्स्वकमिन्द्रियम्
वामहस्तेन वामञ्च हस्तं लिंपेत्तु यत्स्त्रियाः
आलिप्ता स्त्री वशं याति नान्यं पुरुषमिच्छति ॥ १.१८०.३ ॥
ओं रक्तचामुण्डे अमुकं मे वशमानय आनय ओं ह्रीं ह्रैं ह्रः फट्
इमं जप्त्वायुतं मन्त्रं तिलकेन च शङ्कर !
गोरोचनासंयुतेन स्वरक्तेन वशी भवेत् ॥ १.१८०.४ ॥
सैन्धवं कृष्णलवणं सौवीरं मत्स्यपित्तकम्
मधु सर्पिः सितायुक्तं स्त्रीणां तद्भगलेपनात् ॥ १.१८०.५ ॥
यः पुमान्मैथुनं गच्छेन्नान्यां नारीं गमिष्यति
शङ्कपुष्पी वचा मांसी सोम राजी च फल्गुकम् ॥ १.१८०.६ ॥
माहिषं नवनीतञ्च त्वकीकृत्य भिषग्वरः
समूलानि स पत्राणि क्षीरेणाज्येन पेषयेत् ॥ १.१८०.७ ॥
गुटिकां शोधितां कृत्वा नारीयोन्या प्रवेशयेत्
दशवारं प्रसूतापि पुनः कन्या भविष्यति ॥ १.१८०.८ ॥
सर्षपाश्च वचा चैव मदनस्य फलानि च
मार्जारविष्ठा धत्तुर स्त्रीकेशेन समन्वितः ॥ १.१८०.९ ॥
चातुर्थिकहरो धूपो डाकिनीज्वरनाशकः
अर्जुनस्य च पुष्पाणि भल्लातकविडङ्गके ॥ १.१८०.१० ॥
बला चैव सर्जरसं सौवीरसर्षपास्तथा
सर्पयूकामक्षिकाणां धूमो मशकनाशनः ॥ १.१८०.११ ॥
भूतलायाश्च चूर्णेन स्तम्भः स्याद्योनिपूरणात्
तेन लेपनतो योनौ भगस्तम्भस्तु जायते ॥ १.१८०.१२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे अशीत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १८१
हरिरुवाच
ताम्बूलञ्च घृतं क्षौद्रं लवणं ताम्रभाजने
तथा पयः समायुक्तं चक्षुः शूलहरं परम् ॥ १.१८१.१ ॥
हरीतकी वचा कुष्ठं व्योषं हिङ्गु मनः शिला
कासे श्वासे च हिक्कायां लिह्यात्क्षौद्रं घृप्लुतम् ॥ १.१८१.२ ॥
पिप्पलीत्रिफलाचूर्णं मधुना लेहयेन्नरः
नश्यते पीनसः कासः श्वासश्च बलवत्तरः ॥ १.१८१.३ ॥
समूलचित्रकं भस्मपिप्पलीचूर्णकं लिहेत्
श्वासं कासञ्च हिक्काञ्च मधुमिश्रं वृषध्वज ! ॥ १.१८१.४ ॥
नीलोत्पलं शर्करा च मधुकं पद्मकं समम्
तण्डुलोदकसंमिश्रं प्रशमेद्रक्तविक्रियाः ॥ १.१८१.५ ॥
शुण्ठी च शर्करा चैव तथा क्षौद्रेण संयुता
कोकिलस्वर एव स्याद्गुटिका भुक्तिमात्रतः ॥ १.१८१.६ ॥
हरितालं शङ्खचूर्णं कदलीदलभस्मना
एतद्द्रव्येण चोद्वर्त्य लोमशातनमुत्तमम् ॥ १.१८१.७ ॥
लवणं हरितालञ्च तुम्बिन्याश्च फलानि च
लाक्षारससमायुक्तं लोमशातनमुत्तम् ॥ १.१८१.८ ॥
सुधा च हरितालञ्च शङ्खभस्म मनः शिला
सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत् ॥ १.१८१.९ ॥
तत्क्षणोद्वर्तनादेव लोमशातनमुत्तमम्
शङ्खमामलकं पत्रं धातक्याः कुसुमानि च ॥ १.१८१.१० ॥
पिष्ट्वा तत्पयसा सार्धं सप्ताहं धारयेन्मुखे
स्निग्धाः श्वेताश्च दन्ताश्च भवन्ति विमलप्रभाः ॥ १.१८१.११ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकाशीत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १८२
हरिरुवाच
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम्
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥ १.१८२.१ ॥
भुक्ते तु शर्करा पीता नवनीतेन बुद्धिकृत्
गुडस्य तु पुराणस्य पलमेकन्तु भक्षयेत्
स्त्रीसहस्रञ्च संगच्छेत्पुमान्बलयुतो हर ! ॥ १.१८२.२ ॥
कुष्ठं संचूर्णितं कृत्वा घृतमाक्षिकसंयुतम्
भक्षयेत्स्वप्नवेलायां बलीपलितनाशनम् ॥ १.१८२.३ ॥
अतसीमाषगोधूमचूर्णं कृत्वा तु पिप्पली
घृतेन लेपयेद्गत्रमोभिः सार्धं विचक्षणः
कन्दर्पसदृशो मर्त्यो नित्यं भवति शङ्कर ! ॥ १.१८२.४ ॥
यवास्तिलाश्वगन्धा च मुशली सरला गुडम्
एभिश्च रचितां जग्ध्वा तरुणो बलवान्भवेत् ॥ १.१८२.५ ॥
हिङ्गु सौवर्चलं शुण्ठीं पीत्वा तु क्वथितोदकैः
परिणामाख्यशूलञ्च अजीर्णञ्चैव नश्यति ॥ १.१८२.६ ॥
धातकीं सोमराजीञ्च क्षीरेण सह पेषयेत्
दुर्बलश्च भवेत्स्थूलो नात्र कार्या विचारणा ॥ १.१८२.७ ॥
शर्करामधुसंयुक्तं नवनीतं बली लिहेत्
क्षीराशी च क्षयी पुष्टिं मेधाञ्चैवातुलां व्रजेत् ॥ १.१८२.८ ॥
कुलीरचूर्णं सक्षीरं पीतञ्च क्षयरेगनुत्
भल्लातकं विडङ्गञ्च यवक्षारञ्च सैन्धवम् ॥ १.१८२.९ ॥
मनः शिला शङ्खचूर्णं तैलपक्वं तथैव च
लोमानि शातयत्येव नात्र कार्या विचारणा ॥ १.१८२.१० ॥
मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत्
हस्तौ संलेपयेत्तेन त्वग्निस्तम्भनमुत्तमम् ॥ १.१८२.११ ॥
शाल्मलीरसमादाय खरमूत्रे निधाय तम्
अग्नयादौ विक्षिपेत्तेन ह्यग्निस्तम्भनमुत्तमम् ॥ १.१८२.१२ ॥
वायस्या उदरं गृह्य मण्डूकवसया सह
गुटिकां कारयेत्तेन ततोऽग्नौ संक्षैपेत्सुधीः
एवमेतत्प्रयोगेण ह्यग्निस्तम्भनमुत्तमम् ॥ १.१८२.१३ ॥
मुण्डीत्वक्च वचा मुस्तं मरिचं तगरं तथा
चर्वित्वा च त्विमं सद्यो जिह्वया ज्वलनं लिहेत् ॥ १.१८२.१४ ॥
गोरोचनां भृङ्गराजं चूर्णोकृत्यघृतं समम्
दिव्याम्भसः स्तम्भनं स्यान्मन्त्रेणानेन वै तथा
ओं अग्निस्तम्भनं कुरु कुरु ॥ १.१८२.१५ ॥
ओं नमो भगवते जलं स्तम्भय सं सं सं केक केकः चरचर
जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव ! ॥ १.१८२.१६ ॥
गृध्रास्थिञ्च गवास्थिञ्च तथा निर्माल्यमेव च
अरेर्यो निखनेद्द्वारे पञ्चत्वमु पयाति सः ॥ १.१८२.१७ ॥
पञ्चरक्तानि पुष्पाणि पृथग्जात्या समालभेत्
कुङ्कुमेन समायुक्तमात्मरक्तसमन्वितम् ॥ १.१८२.१८ ॥
पुष्पेण तु समं पिष्ट्वा रोचनायाः पलैकतः
स्त्रिया पुंसा कृतो रुद्र ! तिलकोऽयं वशीकरः ॥ १.१८२.१९ ॥
ब्रह्मदण्डी तु पुष्येण भक्ष्ये पाने वशीकरः
यष्टि मधु पलैकेन पक्वमुष्णोदकं पिबेत् ॥ १.१८२.२० ॥
विष्टम्भिकाञ्च हृच्छूलं हरत्येव महेश्वर !
ओं ह्रूं जः
मन्त्रोऽयं हरते रुद्र ! सर्ववृश्चिकजं विषम् ॥ १.१८२.२१ ॥
पिप्पली नवनीतञ्च शृङ्गवेरं च सैन्धवम्
मरिचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत् ॥ १.१८२.२२ ॥
त्रिफलार्द्रककुष्ठं च चन्दनं घृतसंयुतम्
एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव ! ॥ १.१८२.२३ ॥
पारावतस्य चाक्षीणि हरितालं मनः शिला
एतद्योगाद्विषं हन्ति वैनतेय इवोरगान् ॥ १.१८२.२४ ॥
सैन्धवं त्र्यूषणं चैव दधिमध्वाज्यसंयुतम्
वृश्चिकस्य विषं हन्ति लेपोऽयं वृषभध्वज ! ॥ १.१८२.२५ ॥
ब्रह्मदण्डीतिलान्क्वाथ्य चूर्णं त्रिकटुकं पिबेत्
नाशयेद्रुद्र ! गुल्मानि निरुद्धं रक्तमेव च ॥ १.१८२.२६ ॥
पीत्वा क्षीरं क्षौद्रयुतं नाशयेदसृजः स्त्रुतिम्
आटरूपकमूलेन भगं नाभिं च लेपयेत्
सुखं प्रसूयते नारी नात्र कार्या विचारणा ॥ १.१८२.२७ ॥
शर्करां मधुसंयुक्तां पीत्वा तण्डुलवारिणा
रक्तातिसारशमनं भवतीति वृषध्वज ! ॥ १.१८२.२८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्व्याशीत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १८३
हरिरुवाच
मरिचं शृङ्गवेरं च कुटजत्वचमेव च
पानाच्च ग्रहणी नश्येच्छशाङ्काङ्कितशेखर ! ॥ १.१८३.१ ॥
पिप्पली पिप्पलीमूलं मरिचं तगरं वचा
देवदारुरसं पाठां क्षीरेण सह पेषयेत् ॥ १.१८३.२ ॥
अनेनैव प्रयोगेण ह्यतिसारो विनश्यति
मरीचतिलपुष्पाभ्या मञ्जनं कामलापहम् ॥ १.१८३.३ ॥
हरीतकी समगुडा मधुना सह योजिता
विरेचनकरी रुद्र ! भवतीति न संशयः ॥ १.१८३.४ ॥
त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी
उरुस्तम्भहरं ह्येतदुत्तमन्तु विरेचनम् ॥ १.१८३.५ ॥
हरीतकी शृङ्गवेरं देवदारु च चन्दनम्
क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम्
ऊरुस्तम्भं जयन्त्या वा सप्तरात्रेण नाशयेत् ॥ १.१८३.६ ॥
अनन्ताशृङ्गवेरस्य सूक्ष्मचूर्णानि कारयेत्
गुग्गुलं गुडतुल्यं च गुटिकामुपयुज्यच
वायुः स्नायुगतं चैव अग्निमान्द्यं च नाशयेत् ॥ १.१८३.७ ॥
सङ्खपुष्पीन्तु पुष्पेण समुद्धृत्य सपत्रिकाम्
समूलां छागदुग्धेन अपस्मारहरं पिबेत् ॥ १.१८३.८ ॥
अश्वगन्धाभये चैव उदकेन समं पिबेत्
रक्तपित्तं विनश्येत्तु नात्र कार्या विचारणा ॥ १.१८३.९ ॥
हरीतकीकुष्ठचूर्णं कृत्वा आस्यं च पूरयेत्
शीतं पीत्वाथ पानीयं सर्वच्छर्दिनिवारणम् ॥ १.१८३.१० ॥
गडूचीपद्मकारिष्टधान्याकं रक्तचंन्दनम्
पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत्
ओं हुं नम इति ॥ १.१८३.११ ॥
श्रोत्रे बद्ध्वा शङ्खपुष्पीं ज्वरं मन्त्रेण वै हरेत्
ओं जम्भिनी स्तम्भिनी मोहय सर्वव्याधीन्मे वज्रेण ठः ठः सर्वव्याधीन्मे वज्रेण फटिति ॥ १.१८३.१२ ॥
पुष्पमष्टशतं जप्त्वा हस्ते दत्त्वा नखं स्पृशेत्
चातुर्थिको ज्वरो रुद्र अन्ये चैव ज्वरास्तथा ॥ १.१८३.१३ ॥
ज्म्बूफलं हरिद्रा च सर्पस्यैव तु कञ्चुकम्
सर्वज्वराणां धूपोऽयं हरश्चातुर्थिकस्य च ॥ १.१८३.१४ ॥
करवीरं भृङ्गपत्रं लवणं कुष्ठकर्कटे
चतुर्गुणेन मूत्रेण पचेत्तैलं हरेच्च तत्
पामां विचर्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै ॥ १.१८३.१५ ॥
पिप्पलीमधुपानाच्च तथा मधुरभोजनात्
प्लीहा विनश्यते रुद्र तथा सूरणसेवनात् ॥ १.१८३.१६ ॥
पिप्पलीञ्च हरिद्राञ्च गोमूत्रेण समन्विताम्
प्रक्षिपेच्च गुदद्वारे अर्शांसि विनिवारयेत् ॥ १.१८३.१७ ॥
अजादुग्धमार्द्रकञ्च पीतं प्लीहादिनाशनम्
सैन्धवञ्च विडङ्गानि सोमराजी तु सर्षपाः ॥ १.१८३.१८ ॥
रजनी द्वे विषञ्चैव गोमूत्रेणैव पेषयेत्
कुष्ठनाशश्च तल्लेपान्निम्बपत्रादिना तथा ॥ १.१८३.१९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्र्यशीत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १८४
हरिरुवाच
रजनीकदलीक्षारलेपः सिध्मविनाशनः
कुष्ठस्य भागमेकन्तु पथ्याभागद्वयं तथा
उष्णोदकेन संपीय कटिशूलविनाशनम् ॥ १.१८४.१ ॥
अभया नवनीतञ्च शर्करापिप्पलीयुतम्
पानादर्शोहरं स्याच्च नात्र कार्या विचारणा ॥ १.१८४.२ ॥
आटरूषकपत्रेण घृतं मृद्वग्निना पचेत्
चूर्णं कृत्वा तु लेपोऽयं अर्शरोगहरः परः ॥ १.१८४.३ ॥
गुग्गुलुत्रिफलायुक्तं पीत्वा नश्येद्भगन्दरम्
अजाजीशृङ्गवेरञ्च दथा मण्डं विपाचयेत् ॥ १.१८४.४ ॥
लवणेन तु संयुक्तं मूत्रकृच्छ्रविनाशनम्
यवक्षारं शर्करा च मूत्रकृच्छ्रविनाशकृत् ॥ १.१८४.५ ॥
चिताग्निः खञ्जरीटस्य विष्ठा फेनो हयस्य च
सौभाञ्जनं वासनेत्रं नर एतैस्तु धूपितः
अदृश्यस्त्रिदशैः सर्वैः किं पुनर्मानवैः शिव ॥ १.१८४.६ ॥
तिलतैलं यवान्दग्ध्वा मषीं कृत्वा तु लेपयेत्
तेनैव सह तैलेन अग्निदग्धः सुखी भवेत् ॥ १.१८४.७ ॥
लज्जालोः शरपुङ्खाया लेपः साज्योऽग्निनाशनः
ओं नमो भगवते ठ ठ छिन्धि छिन्धि ज्वलनं प्रज्वलितं नाशय नाशय हुं फट् ॥ १.१८४.८ ॥
करे बद्धं तु निर्गुण्ड्या मूलं ज्वरहरं द्रुतम्
मूलञ्च श्वेतगुञ्जायाः कृत्वा तत्सप्तखण्डकम् ॥ १.१८४.९ ॥
हस्ते बध्वा नाशयेच्च अर्शांस्येव न संशयः
विष्णुक्रान्ताजमूत्रेण चौरव्याघ्नादिरक्षणम् ॥ १.१८४.१० ॥
ब्रह्मदण्ड्यास्तु मूलानि सर्वकर्माणि कारयेत्
त्रिफलायास्तु चूर्णं हि साज्यं कुष्ठविनाशनम् ॥ १.१८४.११ ॥
आज्यं पुनर्नवाबिल्वैः पिप्पलीभि साधितम्
हरेद्धक्कां श्वासकासौ पीतं स्त्रीणाञ्च गर्भकृत् ॥ १.१८४.१२ ॥
भक्षयेद्वा नरीबीजं पयसाज्येन पाचितम्
घृतशर्करया युक्तं शुक्रः स्यादक्षयस्ततः ॥ १.१८४.१३ ॥
विडङ्गं मधुकं पाठां मांसीं सर्जरसं तथा
रहिद्रां त्रिफलाञ्चैव मपामार्गं मनः शिलाम् ॥ १.१८४.१४ ॥
उदुम्बरं धातकीञ्च तिलतैलेन पषेयेत्
योनिं लिङ्गं च म्रक्षेत स्त्रीपुसोः स्यात्प्रियं मिथः ॥ १.१८४.१५ ॥
नमस्ते ईशवरदाय आकर्षिणि विकर्षिणि मुग्धे स्वाहा इति
योनिलङ्गस्य तैलेन शङ्कर म्लक्षणात्ततः ॥ १.१८४.१६ ॥
पुनर्नवामृता दूर्वा कनकञ्चैन्द्रवारुणी
बीजे नैषां जातिकाया रसेन रसमर्दनम् ॥ १.१८४.१७ ॥
मूषाय मध्यगं कृत्वा रसं मारणमीरितम्
मध्वाज्यसहितं दुग्धं वलीपलितनाशनम् ॥ १.१८४.१८ ॥
मध्वाज्यं गुडताम्रञ्च कारवेल्लरसस्तथा
दहनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥ १.१८४.१९ ॥
पीतं धरत्तूपुष्पञ्च सीसकञ्च पलं मतम्
लाङ्गलिकायाः शाखा च स्वर्णञ्च दहनाद्भवेत् ॥ १.१८४.२० ॥
धत्तूरबीजतैलेन दीपप्रज्वलनाद्धर
समाधावुपविष्टन्तु गगनस्थो न पश्यति ॥ १.१८४.२१ ॥
वृषस्य मृन्मयस्यैव युक्तो भेको निगृह्यते
शङ्करावयवैर्युक्तो धूपं घ्रात्वा च गर्जति
विस्मयं कुरुते चैव वृषवन्नात्र संशयः ॥ १.१८४.२२ ॥
रात्रौ च सार्षपं तैलं कीटं खद्यो तनामकम्
ताभ्यां दीपः प्रज्वलितो वाग्मिज्वालकलापवत् ॥ १.१८४.२३ ॥
चूर्णं छुच्छुन्दरीधं दग्ध्वा रुद्र प्रलेपयेत्
तप्यते तक्षणाद्दग्धो यदि सम्यक्प्रलेपयेत्
चन्दनेन भवेन्मोक्षः पानाल्लेपात्सुखी भवेत् ॥ १.१८४.२४ ॥
कुञ्जरस्य मदाक्तस्य स्वयं नेत्रे शिववाञ्जयेत्
युद्धे विजयते सोऽपि महाशूरश्च जायते ॥ १.१८४.२५ ॥
दन्तं डुण्डुभसर्पस्य मुखे संगृह्य वै क्षिपेत्
तिष्ठते च जलान्तस्तु निर्विकल्पं स्थले यथा ॥ १.१८४.२६ ॥
कुम्भीरनेत्रदंष्ट्राश्च अस्थीनि रुधिरं तथा
वसातैलसमायुक्तमेकत्र तन्नियोजयेत्
आत्मानं म्लक्षयेत्तेन जले तिष्ठेद्दिनत्रयम् ॥ १.१८४.२७ ॥
कुम्भीरकस्य नेत्राणि हृदयं कच्छपस्य च
मूषिकस्य वसास्थीनि शिशुमारवसा तथा
एतान्येकत्र संलेपाज्जले तिष्ठेद्यथा गृहे ॥ १.१८४.२८ ॥
लोहचूर्णं तक्रपीतं पाण्डुरोगहरं भवेत्
तण्डुलीय कगोक्षूरमूलं पीतं पयोन्वितम् ॥ १.१८४.२९ ॥
कमलादिहरंपितं मुखरोगहरं तथा
जातीमूलं तक्रपीतं कोलमूलं त्वजीर्णनुत् ॥ १.१८४.३० ॥
सतक्रं कुशमलं वा मर्कटी मूलमेव वा
काञ्जिकेन च वाकुच्या मूलं वै दन्तरोगनुत् ॥ १.१८४.३१ ॥
तथेन्द्रवारुणीमूलं वारिपीतं विषादिहृत्
सुरभिकामूलपा नाद्वा तन्नाशो भवेच्छिव ॥ १.१८४.३२ ॥
शिरोरोगहरं लेपाद्गुञ्जाचूर्णं सकाञ्जिकम्
बला चातिबला यष्टी शर्करा मधुसंयुता ॥ १.१८४.३३ ॥
वन्ध्यागर्भकरी पीता नात्र कार्या विचारणा
श्वेतापराजितामूलं पिप्पलीशुण्ठिकायुतम् ॥ १.१८४.३४ ॥
परिपिष्टं शिरोलेपाच्छिरः शूलविनाशनम्
निर्गुण्डिकाशिखां पीत्वा गण्डमालां विनाशयेत् ॥ १.१८४.३५ ॥
केतकीपत्रजं क्षारं गुडेन सह भक्षयेत्
तक्रेण शरपुङ्खां वा पीत्वा प्लीहां विनाशयेत् ॥ १.१८४.३६ ॥
मातुलङ्गस्य निर्यासं गुडाज्येन समन्वितम्
वातपित्तजशूलानि हन्ति वै पानयोगतः
शुण्ठी सौवर्चलं हिङ्गु पीतं हृदयरोगनुत् ॥ १.१८४.३७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैद्यशास्त्रे चतुरशीत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १८५
हरिरुवाच
आं गणपतये इति अयं गणपतेर्न्मन्त्रो धनविद्याप्रदायकः ॥ १.१८५.१ ॥
इममष्टसहस्रञ्च जप्त्वा बद्ध्वा शिखां ततः
व्यवहारे जयः स्याच्च शतं जापान्नृणां प्रियः ॥ १.१८५.२ ॥
तिलानां तु घृताक्तानां कृष्णानां रुद्र होमयेत्
अष्टोत्तरसहस्रन्तु राजा वश्यस्त्रिभिर्दिनैः ॥ १.१८५.३ ॥
अष्टम्याञ्च चतुर्दश्यामुपोष्याभ्यर्च्य विघ्नराट्
तिलाक्षतानां जुहुयादष्टोत्तरसहस्रकम्
अपाजितः स्याद्युद्धे च सर्वे तञ्च सिषेविरे ॥ १.१८५.४ ॥
जप्त्वा चाष्टसहस्रन्तु ततश्चाष्टशतेन हि
शिखां बद्ध्वा राजकुले व्यवहारे जयो भवेत् ॥ १.१८५.५ ॥
ह्रीङ्कारं सविसर्गञ्च प्रातः काले नरस्तु यः
स्त्रीणां ललाटे विन्यस्य वशतां नयति ध्रुवम् ॥ १.१८५.६ ॥
सुसमाहितचित्तेन विन्यस्य प्रमदालये
सोत्कामां कामिनीं कुर्यान्नात्र कार्या विचारणा ॥ १.१८५.७ ॥
जुहुयादयुतं यस्तु शुचिः प्रयतमानसः
दृष्टिमात्रे सदा तस्य वश्यमायान्ति योषितः ॥ १.१८५.८ ॥
मनः शिलापत्रकञ्च सगोरोचनकुङ्कुमम्
कृत एभिश्च तिलके वश्यमायान्ति योषितः ॥ १.१८५.९ ॥
भृङ्गराट्सहदेवा च वचा श्वेतापराजिता
तेनैव तिलकं कृत्वा त्रैलोक्यं वशतां नयेत् ॥ १.१८५.१० ॥
गोरोचना मीनपित्तमाभ्याञ्च कृतवर्तिकः
यः पुमांस्तिलकं कुर्याद्वामहस्तकनिष्ठया
स करोति वशे सर्वं त्रैलोक्यं नात्र संशयः ॥ १.१८५.११ ॥
गोरोचना महादेव ! धातुशोणितभाविता
एतैर्वैतिलकं कृत्वा सा नरं यं निरीक्षते
तत्क्षणात्तं वशे कुर्या न्नात्र कार्या विचारणा ॥ १.१८५.१२ ॥
नागेश्वरञ्च शैलेयं त्वक्पत्रञ्च हरीतकी
चन्दनं कुष्ठसूक्ष्मैलारक्तशालिसमन्विता ॥ १.१८५.१३ ॥
एतैर्धूपो वशकरः स्मरबाणैः स्मारार्दनः
रतिकाले महादेव पार्वतीप्रिय शङ्कर ॥ १.१८५.१४ ॥
निजशुक्रं गृही त्वा तु वामहस्तेन यः पुमान्
कामिनीचरणं वामं लिंपेत्स स्यात्स्त्रियाः प्रियः ॥ १.१८५.१५ ॥
सैन्धवञ्च महादेव पारावतमलं मधु
एभिर्लिप्ते तु लिङ्गे वै कामिनीवशकृद्भवेत् ॥ १.१८५.१६ ॥
पुष्पाणि पञ्चरक्तानि गृहीत्वा यानि कानि च
तत्तुल्यञ्च प्रियङ्गुञ्च पेषयेदेकयोगतः
अनेन लिप्तलिङ्गस्य कामिनीवशतामियात् ॥ १.१८५.१७ ॥
हयगन्धा च मञ्जिष्ठा मालतीकुसुमानि च
श्वेतसषर्प एतैश्च लिप्तलिङ्गः स्त्रियाः प्रियः ॥ १.१८५.१८ ॥
मूलन्तु काकजङ्घाया दुग्धपीतन्तु शोषनुत्
अश्वगन्धानागबलागुडमाषनिषेविणः
रूपं भवेद्यथा तद्वन्नवयौवनचारिणाम् ॥ १.१८५.१९ ॥
लौहचूर्णसमायुक्तं त्रिफलाचूर्णमेव वा
मधुना सेवितं रुद्र परिणामाख्यशूलनुत् ॥ १.१८५.२० ॥
क्वथितोदकपानन्तु शम्बूकक्षारकं तथा
मृगशृङ्गं ह्यग्निदग्धं गव्याज्येन समन्वितम्
पीत हृत्पृष्ठशूलानां भवेन्नाशकरं शिव ॥ १.१८५.२१ ॥
हिङ्गु सौवर्चलं शुण्ठी वृषध्वज महौषधम्?
एभिस्तु क्वथितं वारि पीतं वै सर्वशूलनुत् ॥ १.१८५.२२ ॥
अपामार्गस्य वै मूलं सामुद्रलवणान्वितम्
आस्वादि तमजीर्णस्य शूलस्य स्याद्विमर्दनम् ॥ १.१८५.२३ ॥
वटरोहाङ्कुरो रुद्र तण्डुलोदकघर्षितः
पीतः सतक्रोऽतीसारं क्षयं नयति शङ्कर ॥ १.१८५.२४ ॥
अङ्कोटमूलं कर्षार्धं पिष्टं तण्डुलवारिणा
सर्वातीसारग्रहणीं पीतं हरति भूतप ॥ १.१८५.२५ ॥
मरीचशुण्ठिकुटजत्वक्चूर्णञ्च गुडान्वितम्
क्रमात्तद्द्विगुणं पीतं ग्रहणीव्याधिनाशनम् ॥ १.१८५.२६ ॥
श्वेतापराजितामूलं हरिद्रासिक्थतण्डुलाः
अपामार्गत्रिकटुकमेषाञ्च वटिका शिव
विषूचिकामहाव्याधिं हरत्येव न संशयः ॥ १.१८५.२७ ॥
त्रिफलागुरु भूतेश शिलाजतु हरीतकी
एकैकमेषां चूर्णन्तु मधुना च विमिश्रितम्
पीतं सर्वञ्च मेहन्तु क्षयं नयति शङ्कर ॥ १.१८५.२८ ॥
अर्कक्षीरप्रस्थमेकं तिलतैलं तथैव च
मनः शिलामरीचानां सिन्दूरस्य पलं पलम् ॥ १.१८५.२९ ॥
चूर्णं कृत्वा ताम्रपात्रे त्वातपैः शोषयेत्ततः
पीतं स्नुहीगतं दुग्धं सैन्धवं शूलनुद्भवेत् ॥ १.१८५.३० ॥
त्रिकटुत्रिफलानक्तं तिलतैलं तथैव च
मनः शिला निम्बपत्रं जातीपुष्पमजापयः ॥ १.१८५.३१ ॥
तन्मूत्रं सङ्खनाभिश्च चन्दनं घर्षयेत्ततः
एभिश्च वर्तिकां कृत्वा त्वक्षिणी चाञ्जयेत्ततः ॥ १.१८५.३२ ॥
नश्यते पटलं काचं पुष्पञ्च तिमिरादिकम्
विभीतकस्य वै चूर्णं समधु श्वासनाशनम् ॥ १.१८५.३३ ॥
पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुतम्
सर्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥ १.१८५.३४ ॥
देवदारोश्च वै चूर्णं अजामत्रेण भावयेत्
एकविंशतिवारंवैत्वक्षिणी तेन चाञ्जयेत्
रात्र्यन्धता पटलता नश्येन्निर्लोमता तथा ॥ १.१८५.३५ ॥
पिप्पलीकेतकं रुद्र हरिद्रामलकं वचा
सर्वाक्षिरोगा नश्येयुः सक्षीरादञ्जनात्ततः ॥ १.१८५.३६ ॥
काकजङ्घाशिग्रुमूले मुखेन विधृते शिव
चर्वित्वा दन्तकीटानां विनाशो हि भवेद्धर ॥ १.१८५.३७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मन्त्रतन्त्रवैद्यप्रयोदृपञ्चाशीत्यधिशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १८६
हरिरुवाच
पीतः सारो गुडूच्याश्च मधुना च प्रमेहनुत्
पीतं गोहालिकामूलं तिलदध्याज्यसंयुतम् ॥ १.१८६.१ ॥
निरुद्धमूत्रं क्वथितं निवर्तयति शङ्कर
तथा हिक्कां हरेत्पीतं सौवर्चलयुतञ्च वै ॥ १.१८६.२ ॥
गोरक्षकर्कटीमूलं पिष्टं शीतोदकेन च
पीतं दिनत्रयेणैव नाशयेद्रुद्र शर्कराम् ॥ १.१८६.३ ॥
पिष्ट्वा वै मालतीमूलं ग्रीष्मकाले समाहितम्
साधितं छागदुग्धेन पतिं शर्कस्यान्वितम्
हरेन्मूत्रनिरोधञ्च हरेद्वै पाण्डुशर्कराम् ॥ १.१८६.४ ॥
द्विजयष्ट्याश्च वै मूलं पिष्टं तण्डुलवारिणा
गण्डमालां हरेल्लेपादसाध्यं गलगण्डकम् ॥ १.१८६.५ ॥
रसाञ्जनं हरीतक्याश्चूर्णं तेनैव गुण्ठनात्
नाशयेत्पुरुषो व्याधीन्नात्र कार्या विचारणा ॥ १.१८६.६ ॥
करवीरमूललेपाद्वै लेपात्पूगफलस्य च
पुंव्याधिर्नश्यते रुद्र योगमन्यं वदाम्यहम् ॥ १.१८६.७ ॥
दन्तीमूलं हरिद्रा च चित्रकं तस्य लेपनात्
भगन्दरविनाशः स्यादन्यं योगं वदाम्यहम्
जलौकाजग्धरक्तञ्च भगन्दरमुमापते ॥ १.१८६.८ ॥
त्रिफलाजलघृष्टञ्च मार्जारास्थि विलेपितम्
ततो न प्रस्त्रवेद्रक्तं नात्र कार्या विचारणा ॥ १.१८६.९ ॥
हरिद्रानेकवारञ्च स्नुहीक्षीरेण भाविता
वटिकार्ऽशोविनाशाय तल्लेपाद्वृषभध्वज
घोषाफलं सैन्धवञ्च पिष्ट्वा चार्शोहरं परम् ॥ १.१८६.१० ॥
गव्याज्यं साधितं पीतं पलाशक्षारवारिणा
त्रिगुणेन त्रिकटुकं अर्शांसि क्षपयेच्छिव ॥ १.१८६.११ ॥
बिल्वस्य च फलं दग्धं रक्तार्शः प्रविनाशनम्
जग्धवा कृष्णतिलानेव नवनीतयुतानपि ॥ १.१८६.१२ ॥
शुण्ठीचूर्णं यवक्षारयुक्तं तुल्यगुडान्वितम्
अग्निवृद्धिं करोत्येव प्रत्यूषे वृषभध्वज ॥ १.१८६.१३ ॥
शुण्ठ्या च क्वथितं वारि पीतं चाग्निं करोति वै
हरीतकीं सैन्धवञ्च चित्रकं रुद्र पिप्पली ॥ १.१८६.१४ ॥
चूर्णमुष्णोदकेनैषां पीतं चातिक्षुधाकरम्
साज्यं सूकरमांसं वै पीतं चातिक्षुधाकरम् ॥ १.१८६.१५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे षडशीत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १८७
हरिरुवाच
हस्तिकर्णपलाशस्य पत्राणि? चूर्णयेद्धर
सर्वरोगविनिर्मुक्तं चूर्णं पलशतं शिव ॥ १.१८७.१ ॥
सक्षीरं भक्षीतं कुर्यात्सप्ताहेन वृषध्वज
नरं श्रुतिधरं रुद्र मृगेन्द्रगतिविक्रमम् ॥ १.१८७.२ ॥
पद्मरागप्रतीकाशंयुक्तं दशशतायुषा
षोडशाब्दाकृतिं रुद्र सततं दुग्धभोजनात् ॥ १.१८७.३ ॥
मधुसर्पिःसमायुक्तं दुग्धमायुष्करं भवेत्
तज्जग्धं मधुना सार्धं दशवर्ष सहस्रिणम् ॥ १.१८७.४ ॥
कुर्यान्नरं श्रुतिधरं प्रमदाजनवल्लभम्
दध्ना नित्यं भक्षितन्तु वज्रदेहकरं भवेत् ॥ १.१८७.५ ॥
केशराजिसमायुक्तं नरं वर्षसहस्रिणम्
तच्च काञ्जिकसंयुक्तं नरं कुर्याच्च भक्षितम् ॥ १.१८७.६ ॥
शतवर्षं दिव्यदेहं वलीपलितवर्जितम्
जग्धं त्रिफलया क्षौद्रं चक्षुष्मन्तं करोति वै ॥ १.१८७.७ ॥
अन्धः पश्येत्तु चूर्णस्य साज्यस्यैव तु भक्षणात्
महिषीक्षीरसंयुक्तस्तल्लेपः कृष्णकेशकृत् ॥ १.१८७.८ ॥
खल्वाटस्य च वै केशा भवन्ति वृषभध्वज
तैलयुक्तेन चूर्णेन वलीपलितनाशनम् ॥ १.१८७.९ ॥
तदुद्वर्तनमात्रेण सर्वरागः प्रमुच्यते
सच्छागक्षीरचूर्णेन दृष्टिः स्यान्मासतोऽञ्जनात् ॥ १.१८७.१० ॥
पलाशस्य च बीजानि श्रावणे वितुषाणि च
गृहीत्वा नवनीतेन तेषां चूर्णं च भक्षयेत् ॥ १.१८७.११ ॥
कर्षार्धमेकं सेवेत नत्वा नित्यं हरिं प्रभुम्
पुराणषष्टिधान्यस्य पथ्यमम्बु पिबन्हर
जीवेद्वर्षसहस्राणि वलीपलितवर्जितः ॥ १.१८७.१२ ॥
भृङ्गराजस्य वै मूलं पुष्यर्क्षे तु समाहृतम्
विधाय तस्य चूर्णं वै ससौवीरञ्च भक्षयेतं ॥ १.१८७.१३ ॥
मासमात्रप्रयोगेण वलीपलितवर्जितः
शतानि पञ्च जीवेच्च नरो नागबलो भवेत्
भवेच्छ्रुतिधरो रुद्र पुष्यर्क्षे चैव भक्षणात् ॥ १.१८७.१४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आयुष्करयोगोदृसप्ताशीत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १८८
हरिरुवाच
निर्व्रणः स्यात्पूयंहीनो प्रहारो घृपूरितः
अपामार्गस्य वै मूलं हस्ताभ्याञ्च विमर्दितम्
तद्रसेन प्रहारस्य रक्तस्त्रावो न पूरणात् ॥ १.१८८.१ ॥
रुद्र लाङ्गलिकामूलं चेक्षुदर्भस्तथैव च
तेन व्रणमुखं लिप्तं शल्यं निः स रति व्रणात्
चिरकालप्रविष्टोऽपि तेन मार्गेण शङ्कर ॥ १.१८८.२ ॥
बालमूलं मेषशृङ्गीमूलं वा वारिघर्षितम्
तेन लिप्तं चिरं जातं व्रणं नाड्याः प्रशाम्यति ॥ १.१८८.३ ॥
जग्धं माहिषपध्ना च युक्तं कोद्रवभक्तकम्
हिङ्गुमूलस्य वै चूर्णं दत्तं नाडीव्रणापहम् ॥ १.१८८.४ ॥
ब्रह्मयष्टिफलं पिष्टं वारिणा तेनलेपितम्
तेन घृष्टं रक्तदोषः प्रणश्यति न संशयः ॥ १.१८८.५ ॥
यवभस्म विडङ्गञ्च गन्धपाषाणमेव च
शुण्ठिरेषाञ्चैव चूर्णं भ्वितं रुधिरेणवै ॥ १.१८८.६ ॥
कृकलासस्य तल्लिप्तं विद्रधिं नाशयेच्छिव
सौभाञ्जनस्य बीजानि त्वतसीमसिना सह ॥ १.१८८.७ ॥
सौरसर्षपयुक्तानि सर्वाण्येतानि शङ्कर
पिष्टान्यनम्लतक्रेण ग्रन्थिकं नाशयेद्धि वै ॥ १.१८८.८ ॥
श्वेतापराजितामूलं पिष्टं तण्डुलवारिणा
तेन नस्यप्रदानात्स्याद्भूतवृन्दस्य विद्रवः ॥ १.१८८.९ ॥
अगस्त्यपुष्पनस्यं वै समरीचं तु शूलहृत्
भुजङ्गचर्म वै हिङ्गु निम्बपत्रं तथा यवाः
गौरसर्षम एभिः स्याल्लेपो भूतहरः शिव ॥ १.१८८.१० ॥
गोरोचना मरीचानि पिप्पली सैन्धवं मधु
अञ्जनं कृतमेभिः स्याद्ग्रहभूतहरं शिव ॥ १.१८८.११ ॥
गुग्गुलूलूकपुच्छाभ्यां धूपो ग्रहहरो भवेत्
चातुर्थिकज्वरैर्मुक्तो कृष्णवस्त्रावगुण्ठितः ॥ १.१८८.१२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्रणाचि दृमाष्टाशीत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १८९
हरिरुवाच
श्वेतापराजितापुष्परसेनाक्ष्णोश्च पूरणे
पटलं नाशमायाति नात्र कार्या विचारणा ॥ १.१८९.१ ॥
मूलं गोक्षुरकस्यैव चर्वित्वा नीललोहित
दन्तकीटव्यथा नश्येत्सुरासुरविमर्दन् ॥ १.१८९.२ ॥
नारी पुष्पादिने पीत्वा गोक्षीरेणोपवासतः
श्वेतार्कस्य तु वै मूलं तस्यास्तद्गुल्मशूलनुत् ॥ १.१८९.३ ॥
श्वेतार्कपुष्पं विधिना गृहीतं पूर्वमन्त्रितम्
ऋतुशुद्धा च ललना कटौ बद्ध्वा प्रसूयते ॥ १.१८९.४ ॥
हस्तबद्धं पलाशस्य अपामार्गस्य वा हर
मूलं सर्वज्वरहरं भूतप्रेतादिनुद्भवेत् ॥ १.१८९.५ ॥
पीतं वृश्चिकमूलञ्च प्रातः पर्युषिताम्बुना
सार्धं विनाशयेद्दाहज्वरञ्च परमेश्वर ॥ १.१८९.६ ॥
शिखायाञ्चैव तद्बद्धं भवेदैकाहिकाहिनुत्
पीतं पर्युषिताद्भिश्च भवेत्सर्वविषापहृत् ॥ १.१८९.७ ॥
यस्य लज्जालुकामूलं दीयते च स्वरेतसा
सार्धं स वैरं संयाति पुमान्स्त्री वा न संशयः ॥ १.१८९.८ ॥
पिष्ट्वा गव्यघृतेनैव पाठामूलं पिबेत्तु यः
सर्वं विषं विनश्येच्च नात्र कार्या विचारणा ॥ १.१८९.९ ॥
मूलं पर्युषितोदेन शिरीषस्य यथा तथा
रक्तचित्रकमूलस्य रसस्य भरणाद्धर
कर्णयोः कामलाव्याधिनाशः स्यान्नात्र संशयः ॥ १.१८९.१० ॥
श्वेतकोकिलाक्षमूलं छागीक्षीरेण संयुतम्
त्रिसप्ताहेन वै पीतं क्षयरोगं क्षयं नयेत् ॥ १.१८९.११ ॥
नारिकेलस्य वै पुष्पं छागक्षीरेण संयुतम्
पिबेच्च त्रिविधस्तस्य रक्तवातो विनश्यति ॥ १.१८९.१२ ॥
कुर्यात्सुदर्शनामूलं माल्येन सुसमाहृतम्
कण्ठबद्ध त्र्याहिकादिग्रहभूतविनाशनम् ॥ १.१८९.१३ ॥
पुष्पं धवलगुञ्जाया गृहीतं मूलमेव च
मुखे तु निहितं रुद्र हरेन्नानाविषं बहु ॥ १.१८९.१४ ॥
हस्ते बद्धं काण्डयुक्तं कण्ठे बद्धं ग्रहादिहृत्
कृष्णायान्तु चतुर्दश्यां कटिबद्धं समाहृतम्
सिंहादिश्वापदाद्भीतिं हरेच्च नीललोहित ॥ १.१८९.१५ ॥
विष्णुक्रान्तामूलमीश कर्णबद्धन्तु धारयेत्
पट्टसूत्रेण भूतेश मकरादिभयं न वै ॥ १.१८९.१६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकोननवत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १९०
हरिरुवाच
अपराजिताया मूलञ्च गोमूत्रेण समन्वितम्
पीतञ्चाशु हरत्येव गण्डमालां न संशयः ॥ १.१९०.१ ॥
अथेन्द्रवारुणीमूलं विधिना पीतमीश्वर
जिङ्गिण्यैरण्डकं रुद्र शूकशिम्ब्या समन्वितम्
शीतोदकञ्च तत्र्यस्तं बाहुग्रीवाव्यथां हरेत् ॥ १.१९०.२ ॥
माहिषं नवनीतञ्च अश्वगन्धा च पिप्पली
वचा कुष्ठद्वयं लेपो लिङ्गस्रोतस्तनार्तिहृत् ॥ १.१९०.३ ॥
कुष्ठनागबलाचूर्णं नवनीतसमन्वितम्
तल्लेपो युवतीनाञ्च कुर्याद्वृत्तोजकौ शुभौ ॥ १.१९०.४ ॥
इन्द्रवारुणिकामूलं यस्य नाम्ना सुदूरतः
निः क्षिप्यते समुत्पाट्य तस्य प्लीहा विनश्यति ॥ १.१९०.५ ॥
पुनर्नवायाः शुक्लाया मूलं तण्डुलवारिणा
पीतं विद्रधिनुत्स्याच्च नात्र कार्या विचारणा ॥ १.१९०.६ ॥
कदलीदलक्षारन्तु पानीयेन प्रसाधितम्
तस्यादनाद्विनश्यन्ति उदरव्याधयोऽखिलाः ॥ १.१९०.७ ॥
कदल्या मूलमादाय गुडाज्येन समन्वितम्
अग्निना साधितं जग्धमुदरस्थक्रिमीन्हरेत् ॥ १.१९०.८ ॥
नित्यं निम्बदलानाञ्च चूर्णमामलकस्य च
प्रत्यूषे भक्षयेच्चैव तस्य कुष्ठं विनश्यति ॥ १.१९०.९ ॥
हरीतकीविडङ्गञ्च हरिद्रा सितसर्षपाः
सोमराजस्य मूलानि करञ्जस्य च रौन्धवम्
गोमूत्रपिष्टान्येतानि कुष्ठरोगहराणि वै ॥ १.१९०.१० ॥
एकश्च त्रिफलाभागस्तथा भागद्वयं शिवा
सोमराजस्य बीजानां जग्धं पथ्येन दद्रुनुत् ॥ १.१९०.११ ॥
अम्लतक्रं सगोमूत्रं क्वथितं लवणान्वितम्
कांस्यघृष्टं खरं लेपात्कुष्ठदद्रुविनाशनम् ॥ १.१९०.१२ ॥
हरिद्रा हरितालश्च दूर्वागोमूत्रसैन्धवम्
अयं लेपो हन्ति दद्रुं पामानं च गरं तथा ॥ १.१९०.१३ ॥
सोम राजस्य बीजानि नवनीतयुतानि च
मधुनास्वादितानि स्युः शुक्लकुष्ठहराणि वै
तक्रान्नपानतो रुद्र नात्र कार्या विचारणा ॥ १.१९०.१४ ॥
श्वेतापरा जितामूलं वर्तितं चास्य वारिणा
तल्लेपो रुद्र मासेन शुक्लकुष्ठविनाशनः ॥ १.१९०.१५ ॥
माहिषं नवनीतञ्च सिन्दूरं समरीचकम्
पामा विलेपनान्नश्येद्दुर्नामा वृषभध्वज ॥ १.१९०.१६ ॥
विशुष्कगाम्भारीमूलं पक्वं क्षीरेण संयुतम्
भक्षितं शुक्लपित्तस्य विनाशकरमीश्वर ॥ १.१९०.१७ ॥
मूलकस्य तु बीजानि ह्यपा मार्गरसेन वै
पिष्टानि तेन लेपेन सिध्मकं रुद्र नश्यति ॥ १.१९०.१८ ॥
कदलीक्षारसंयुक्तहरिद्रा सिध्मकापहा
रम्भापामार्गयोः क्षार एरण्डेन विमिश्रितः
तदभ्यङ्गान्महादेव ! सद्यः सिध्म विनश्यति ॥ १.१९०.१९ ॥
कूष्माण्डनालक्षारश्च सगोमूत्रश्च तत्त्वतः
जलपिष्टा हरिद्रा च सिद्धा मन्दानलेनहि ॥ १.१९०.२० ॥
माहिषेण पुरीषेण वेष्टिता वृषभध्वज
अस्या उद्वर्तनं कुर्यादङ्गसौष्ठवमीश्वर ॥ १.१९०.२१ ॥
तिलसर्षपसंयुक्तं हरिद्राद्वयकुष्ठकम्
तेनोद्वर्तितदेहः स्याद्दुर्गन्धः सुरभिः पुमान् ॥ १.१९०.२२ ॥
मनोहरश्चानुदिनं दूर्वाणां काकजङ्घाया
अर्जुनस्य तु पुष्पाणि जम्बूपत्रयुतानि च
सलोध्राणि च तल्लेपो देहदुर्गन्धतां हरेत् ॥ १.१९०.२३ ॥
युक्तं लोध्रभवैर्नोरैश्चूर्णन्तु कनकस्य च
तेनोद्वर्तितदेहस्य न स्याद्ग्रीष्मप्रबाधिका ॥ १.१९०.२४ ॥
दुग्धेनोषसि सेकश्च घर्मदोषश्च नश्यति
काकजङ्घोद्वर्तनन्तु ह्यङ्गरागकरं भवेत् ॥ १.१९०.२५ ॥
मधुयष्टी शर्करा च वासकस्य रसो मधु
एतत्पीतं रक्तपित्तकामलापाण्डुरोगनुत् ॥ १.१९०.२६ ॥
रक्तपित्तं हरेत्पीतो वासकस्य रसो मधु
प्रातः काले तोयपानात्पीनसं दारुणं हरेत् ॥ १.१९०.२७ ॥
बिभीतकस्य वै चूर्णं पिप्पल्याः सैन्धवस्य च
पीतं सकाञ्जिकं हन्ति स्वरभेदं महेश्वर ॥ १.१९०.२८ ॥
चूर्णमामलकं सेव्यं पीतं गव्यपयोऽन्वितम्
मनः शिला बलामूलं कोलपण च गुग्गुलुः ॥ १.१९०.२९ ॥
जातिपत्रं कोलपत्रं तथा चैव मनः शिला
एभिश्चैव कृता वर्तिर्बदर्यग्नौ महेश्वर
धूमपानं कासहरं नात्र कार्या विचारणा ॥ १.१९०.३० ॥
त्रिफलापिप्पलीचूर्णं भक्षितं मधुनायुतम्
भोजनादौ हि समधु पिपासाज्व(त्व)रितं हरेत् ॥ १.१९०.३१ ॥
बिल्वमूलञ्च समधुगुडूचीक्वथितं जलम्
पीतं हरेच्च त्रिवधं छर्दिं नैवात्रसंशयः
पीता दूर्वा छर्दिनुत्स्यात्पिष्टातण्डुलवारिणा ॥ १.१९०.३२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १९१
हरिरुवाच
पुनर्नवाया मूलञ्च श्वेतं पुष्ये समाहृतम्
वारि पीतं तस्य पार्श्व भवनेषु न पन्नगाः ॥ १.१९१.१ ॥
तार्क्ष्यमूर्तिं वहेद्यो वै भल्लूकदन्तनिर्मिताम्
स पन्नगैर्न दृश्येत यावज्जीवं वृषध्वज ॥ १.१९१.२ ॥
पिबेच्छल्मलिमूलं यः पुष्यर्क्षे रुद्र वारिणा
तस्मिन्नपास्तदशना नागाः स्युर्नात्र संशयः ॥ १.१९१.३ ॥
पुष्ये लज्जालुकामूले हस्तबद्धे तु पन्नगान्
गृह्णीयाल्लेपतो वापि नात्र कार्या विचारणा ॥ १.१९१.४ ॥
पुष्येश्वेतार्कमूलन्तु पीतं शीतेन वारिणा
नश्येतु दंशकविषं करवीरादिजं विषम् ॥ १.१९१.५ ॥
महाकालस्य वै मूलं पिष्टं तत्काञ्जिकेन वै
वोड्राणां डुण्डुभानां च तल्लोपो हरते विषम् ॥ १.१९१.६ ॥
तण्डुलीयकमूलं च पिष्टं तण्डुलवारिणा
घृतेन सह पीतन्तु हरेत्सर्वाविषाणि च ॥ १.१९१.७ ॥
नीलीलज्जालुकामूलं पिष्टं तण्डुलवारिणा
पीतं तद्दंशकविषं नश्येदेकेन वोभयोः ॥ १.१९१.८ ॥
कूष्माण्डकस्य स्वरसः सगुडः सहशर्करः
पीतः सदुग्धो हन्याच्च दंशकस्यविषं च वै ॥ १.१९१.९ ॥
तथा कोद्रवमूलस्य मोहस्य हर एव च
यष्टीमधुसमायुक्ता तथा पीता च शर्करा ॥ १.१९१.१० ॥
सदुग्धा च त्रिरात्रेण मूषकानां विषं हरेत्
चुलुकत्रयपानाच्च वारिणः शीतलस्य वै ॥ १.१९१.११ ॥
ताम्बूलदग्धमुखस्य लालास्त्रावो विनश्यति
घृतं सशर्करं षीत्वा मद्यपानमदो न वै ॥ १.१९१.१२ ॥
कृष्णाङ्कोलस्य मूलेन पीतं सुक्वथितं जलम्
ततो नश्यद्गरविषं त्रिरात्रेण महेश्वर ॥ १.१९१.१३ ॥
उष्णं गव्यघृतं चैव सैन्धवेन समन्वितम्
नाशयेत्तन्महादेव वेदनां वृश्चिकोद्भवाम् ॥ १.१९१.१४ ॥
कुसुभं कङ्कुमञ्चैव हरितालं मनः शिला
करञ्जं पिषितं चैव ह्यर्कमूलं च शङ्कर ॥ १.१९१.१५ ॥
विषंनृणां विनश्येत्तु एतेषां भक्षणाच्छिव
दीपतैलप्रदानाच्च दंशैराकीटजैः शिव
खर्जूरकविषं नश्येत्तदा वै नात्र संशयः ॥ १.१९१.१६ ॥
दंशस्थानं वृश्चिकस्य शुण्ठी तगरसंयुता
नश्येन्मधुमक्षिकाया एतेषां लेपतो विषम् ॥ १.१९१.१७ ॥
शतपुष्पा सैन्धवञ्च साज्यं वा तेन लेपयेत्
शिरीषस्य तु बीजंवै सिद्ध क्षीरेण घर्षितम् ॥ १.१९१.१८ ॥
तल्लेपेन महादेव नश्येत्कुक्कुरजं विषम्
ज्वलिताग्निर्वारिसेको तथा दर्दुरजं विषम् ॥ १.१९१.१९ ॥
धत्तूरकरसोन्मिश्रं क्षीराद्यगुडपानतः
शूनां विषं विनश्येत्तु शशाङ्काङ्कितशेखर ॥ १.१९१.२० ॥
वटनिम्बशमीनाञ्च वल्कलैः क्वथितं जलम्
तत्सेकान्मुखदन्तानां नश्येद्वै विषवेदना ॥ १.१९१.२१ ॥
लेपनाद्देवदारोश्च गैरिकस्य च लेपनात्
नागेश्वरो दरिद्रे द्वे तथा मञ्जिष्ठका हर
एभिर्लेपाद्विनश्येत्तु लूताविषमुमापते ॥ १.१९१.२२ ॥
करञ्जस्य तु बीजानि वरुणच्छदमेव च
तिलाश्च सर्षपा हन्युर्विषं वै नात्र संशयः ॥ १.१९१.२३ ॥
घृतं कुमारीपत्रं वै दत्तं सलवणं हर
तुरङ्गमशरीराणां कण्डूर्नश्येद्दशाहतः ॥ १.१९१.२४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकनवत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १९२
हरिरुवाच
चित्रकस्याष्टभागाश्च शूरणस्य च षोडश
शुण्ठ्या भागाश्च चत्वारो मरिचानां द्वयं तथा ॥ १.१९२.१ ॥
त्रितयं पिप्पलीमूलं विडङ्गानां चतुष्टयम्
अष्टौ मुशलिकाभागास्त्रिफलायाश्चतुष्टयम्
द्विगुणेन गुडेनैषां मोदकानिह कारयेत् ॥ १.१९२.२ ॥
तद्भक्षणमजीर्णं हि पाण्डुरोगञ्ज कामलम्
अतीसारांश्च मन्दाग्निं प्लीहाञ्चैव निवारयेत् ॥ १.१९२.३ ॥
बिल्वाग्निमन्थः श्योनाकपाटलापारिभद्रकम्
प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥ १.१९२.४ ॥
बला चातिबला रास्ना श्वदंष्ट्रा च पुनर्नवा
एरण्डः शारिवा पर्णो गुडूची कपिकच्छुका ॥ १.१९२.५ ॥
एषां दशपलान्भागान्क्वाथयेत्सलिलेऽमले
तेन पादावशेषेण तैलपात्रे विपाचयेत् ॥ १.१९२.६ ॥
आजं वा यदि गव्यं क्षीरं दत्त्वा चतुर्गुणम्
शतावरीं सैन्धवञ्च तैलतुल्यं प्रदापयेत् ॥ १.१९२.७ ॥
द्रव्याणियानि पेष्याणि तानि वक्ष्यामि तच्छृणु
शतपुष्पा देवदारुर्बला पर्णो वचागुरु ॥ १.१९२.८ ॥
कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा
पाने नस्ये तथाभ्यङ्गे तैलमेतत्प्रदापयेत् ॥ १.१९२.९ ॥
हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत्
अपस्मारं वातरक्तं वपुष्मांश्च पुमान्भवेत् ॥ १.१९२.१० ॥
गर्भमश्वतरी विन्द्यात्किं पुनर्मानुषी हर
अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा
तैलमेतत्प्रयोक्तव्यं सर्ववातविकारिणाम् ॥ १.१९२.११ ॥
हिङ्गुतुम्बुरुशुण्ठीभिः सिद्धं तैलन्तु सार्षपम्
एतद्धि पुरणं श्रेष्ठं कर्णशूलापहं परम् ॥ १.१९२.१२ ॥
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम्
तक्रं चतुर्गुणं दद्यात्तैलमेतद्विपाचयेत् ॥ १.१९२.१३ ॥
बाधिर्यं कर्णशूलञ्च पूयस्त्रावञ्च कर्णयोः
क्रिमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥ १.१९२.१४ ॥
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम्
शतपुष्पा वचा कुष्ठं दारुशिग्रुरसाञ्जनम् ॥ १.१९२.१५ ॥
सौवर्चलं यवक्षारं सामुद्रं सैन्धवं तथा
ग्रन्थिकं विडमुस्तं च मधु शुक्तं चतुर्गुणम् ॥ १.१९२.१६ ॥
मातुलुङ्गरसश्चैव कदलीरस एव च
तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम् ॥ १.१९२.१७ ॥
बाधिर्यं कर्णनादश्च पूयस्त्रावश्च दारुणम्
पूरणादस्य तैलस्य क्रिमयः कर्णयोर्हर ॥ १.१९२.१८ ॥
सद्यो विनाशमायान्ति शशाङ्ककृतशेखर
क्षारतैलमिदं श्रेष्ठं मुखदन्तमलापहम् ॥ १.१९२.१९ ॥
चन्दनं कुङ्कुमं मांसी कर्पूरं जातिपत्रिका
जातीकङ्कोलपूगानां लवङ्गस्य फलानि च ॥ १.१९२.२० ॥
अगुरूणि च कस्तूरी कुष्ठं तगरपादिका
गोरोचना प्रियङ्गुश्च बला चैव तथा नखी ॥ १.१९२.२१ ॥
सरलं सप्तपर्णं च लाक्षा चामलकी तथा
तथा तु पद्मकं चैव ह्येतैस्तैलं प्रसाधयेत् ॥ १.१९२.२२ ॥
प्रस्वेदमलदुर्गन्धकण्डू कुष्ठहरं परम्
गच्छति स्त्रीशतं रुद्र बन्ध्यापि लभते सुतम् ॥ १.१९२.२३ ॥
यवानी चित्रकं धान्यं त्र्यूषणं जीरकं तथा
सौवर्चलं विडगञ्च पिप्पलीमूलराजिकम् ॥ १.१९२.२४ ॥
एभिः पचेद्रघृतप्रस्थं जलप्रस्थाष्टसंयुतम्
तथार्ऽशोगुल्मश्वयथुं हन्ति वह्निं करोति वै ॥ १.१९२.२५ ॥
मरिचं त्रिवृतं कुष्ठं हरितालं मनः शिला
देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥ १.१९२.२६ ॥
विशाला करवीरञ्च अर्कक्षीरं शकृद्रसः
एषाञ्च कार्षिको भागो विषस्यार्धपलं भवेत्त् ॥ १.१९२.२७ ॥
प्रस्थं सटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत्
मृत्पात्रे लोहपात्रे वा शनैर्मृद्वग्निना पचेत् ॥ १.१९२.२८ ॥
पामा विचर्चिका चैव दद्रुर्विस्फोचकानिच
अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥ १.१९२.२९ ॥
प्रभूतान्यपि श्वित्राणि तैलेनानेन मर्दयेत्
चिरोत्थितमपि श्वित्रं विनष्टं तत्क्षणाद्भवेत् ॥ १.१९२.३० ॥
पटोलपत्रं कटुका मञ्जिष्ठा शारिवा निशा
जातीशमीनिम्बपत्रं मधुकं क्वथितं घृतम् ॥ १.१९२.३१ ॥
एभिर्लेपात्सयुररुजो व्रणा विस्त्राविणः शिव
शङ्खपुष्पी वचा सोमो ब्राह्मी ब्रह्मसुवर्चलाः ॥ १.१९२.३२ ॥
अभया च गुडूची च आटरूषकवाकुची
एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ १.१९२.३३ ॥
कण्टकार्या रसप्रस्थं क्षीरप्रस्थसमन्वितम्
एतद्ब्राह्मीघृतं नाम स्मृतिमेधाकरं परम् ॥ १.१९२.३४ ॥
अग्निमन्थो वचा वासा पिप्पली मधु सैन्धवम्
सप्तरात्रप्रयोगेण किन्नरैरिव गीयते ॥ १.१९२.३५ ॥
अपामार्गः गुडूची च वचा कुष्ठं शतावरी
शङ्खपुष्पाभया साज्यं विडङ्गं भक्षितं समम्
त्रिभिर्दिनैर्नरं कुर्याद्ग्रन्थाष्टशतधारिणम् ॥ १.१९२.३६ ॥
अद्भिर्वा पयसाज्येन मासमेकन्तु सेविता
वचा कर्यान्नरं प्राज्ञं श्रुतिधारणसंयुतम् ॥ १.१९२.३७ ॥
चन्द्रसूर्यग्रहे पीतं पलमेकं पयोऽन्वितम्
वचायास्तत्क्षणं कुर्यान्महाप्रज्ञायुतं नरम् ॥ १.१९२.३८ ॥
भूनिम्बनिम्बत्रिफलापर्पटैश्च शृतं जलम्
पटोलीमुस्तकाभ्याञ्च वासकेन च नाशयेत् ॥ १.१९२.३९ ॥
विस्फोटकानि रक्तञ्च नात्र कार्या विचारणा
कतकस्य फलं शङ्खं सैन्धवं त्र्यूषणं वचा ॥ १.१९२.४० ॥
फेनी रसाञ्जनं क्षौद्रं विडङ्गानि मनः शिला
एषां वर्तिर्हन्ति काचं तिमिरं पटलं तथा ॥ १.१९२.४१ ॥
प्रस्थद्वयं माषकस्य क्वाथश्च द्रोणमम्भसाम्
चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥ १.१९२.४२ ॥
काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत्
पुनर्नवा गोक्षुरकं सैन्धवं त्र्यूषणं वचा ॥ १.१९२.४३ ॥
लवणं सुरदारुश्च मञ्जिष्ठा कण्टकारिका
नस्यात्पानाद्धरत्येव कर्णशूलं सुदारुणम् ॥ १.१९२.४४ ॥
बाधिर्यं सर्वरोगांश्च ह्यभ्यङ्गाच्च महेश्वर
पलद्वयं सैन्धवञ्च शुण्ठी चित्रकपञ्चकम् ॥ १.१९२.४५ ॥
सौवीरपञ्चप्रस्थं च तैलप्रस्थं पचेत्ततः
असृग्दरस्वरप्लीहासर्ववातविकारनुत् ॥ १.१९२.४६ ॥
उदुम्बरं वटं प्लक्षं जम्बूद्वयमथार्जुनम्
पिप्पली च कदम्बञ्च पलाशं लोध्रतिन्दुकम् ॥ १.१९२.४७ ॥
मधूकमाम्रसर्जञ्च बदरं पद्मकेशरम्
शिरीषबीजङ्कतकमेतत्क्वाथेन साधितम्
तैलं हन्ति व्रणांल्लेपाच्चिरकालभवानपि ॥ १.१९२.४८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्विनवत्यधिक शततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १९३
हरिरुवाच
पलाण्डुजीरके कुष्ठमश्वगन्धाजमोदकम्
वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥ १.१९३.१ ॥
ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम्
सप्ताहं भक्षितं कुर्यान्निर्मलाञ्च मतिं पराम् ॥ १.१९३.२ ॥
सिद्धार्थकं वचा हिङ्गु करञ्जं देवदारु च
मञ्जिष्ठा त्रिफला विश्वं शिरीषो रजनीद्वयम् ॥ १.१९३.३ ॥
प्रियङ्गुनिम्बत्रिक्रटु गोमूत्रेणैव घर्षितम्
नसयमालेपनञ्चैव तथा चोद्वर्तनं हितम् ॥ १.१९३.४ ॥
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम्
भूतेभ्यश्चभयं हन्ति राजद्वारेषु योजनात् ॥ १.१९३.५ ॥
निम्बं कुष्ठं हरिद्रे द्वे शिग्रु सर्षपजं तथा
देवदारु पटोलञ्च धान्यं तक्रेण घर्षितम् ॥ १.१९३.६ ॥
देहं तैलाक्त गात्रं वै नयेदुद्वर्तनेन च
पामाः कुष्ठानि नश्येयुः कण्डूं हन्ति च निश्चितम् ॥ १.१९३.७ ॥
सामुद्रं सैन्धवं क्षारो राजिका लवणं विडम्
कटुलोहरजश्चैवं त्रिवृत्सूरणकं समम्
दधिगोमूत्रपयसा मन्दपावकपाचितम् ॥ १.१९३.८ ॥
बलाग्निवर्धकं चूर्णं पिबेदुष्णेन वारिणा
जीर्णेऽजीर्णे तु भुञ्जति मांस्यादिघृतमुत्तमम् ॥ १.१९३.९ ॥
नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत्
सर्वशूलहरं चूर्णं जठरानलदीपनम्
परिणामसमुत्थस्य शूलस्य च हितं परम् ॥ १.१९३.१० ॥
अभयामलकं द्राक्षा पिप्पली कण्टकारिका
शृङ्गी पुनर्नवा शुण्ठी जग्धा कासं निहन्ति वै ॥ १.१९३.११ ॥
अभयामलकं द्राक्षा पाठा चैव विभीतकम्
शर्कराया समं चैव जग्धं ज्वरहरं भवेत् ॥ १.१९३.१२ ॥
त्रिफला बदरं द्राक्षा पिप्पली च विरेककृत्
हरीतकी सोष्णानीरलवणञ्च विरेककृत् ॥ १.१९३.१३ ॥
कूर्ममत्स्याश्वमहिषगोशृगालाश्च वानराः
विडालबर्हिकाकाश्च वराहोलूककुक्कुटाः ॥ १.१९३.१४ ॥
हंस एषाञ्च विण्मूत्रं मांसं वा रोम शोणितम्
धूपं दद्याज्ज्वरार्तेभ्य उन्मत्तेभ्यश्च शान्तये ॥ १.१९३.१५ ॥
एतान्यौषधजातानि कथितानि उमापते
निघ्नन्ति ताश्च रोगांश्च वृक्षमिन्द्राशनिर्यथा ॥ १.१९३.१६ ॥
औषधंभगवान्विष्णुः संस्मृतो रोगनुद्भवेत्
ध्यातोऽर्चितः स्तुतो वापि नात्र कार्या विचारणा ॥ १.१९३.१७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिनवत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १९४
हरिरुवाच
सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम्
येन रक्षा कृता शम्भोर्दैत्यान्क्षपयतः पुरा ॥ १.१९४.१ ॥
प्रणम्य देवमीशानमजं नित्यमनामयम्
देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥ १.१९४.२ ॥
बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम्
अमोघाप्रतिमं सर्वं सर्वदुः खनिवारणम् ॥ १.१९४.३ ॥
विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः
हरिर्मे रक्षतु शिरो हृदयञ्च जनार्दनः ॥ १.१९४.४ ॥
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः
प्रातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥ १.१९४.५ ॥
प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च
वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः ॥ १.१९४.६ ॥
पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम्
दक्षिणन्तु गदा देवी सर्वासुरनिवारिणी ॥ १.१९४.७ ॥
उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम्
ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥ १.१९४.८ ॥
पार्ष्णो रक्षतु शङ्खश्च पद्मं मे चरणावुभौ
सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥ १.१९४.९ ॥
वराहो रक्षतु जले विषमेषु च वामनः
अटव्यां नरसिंहश्च सर्वतः पातु केशवः ॥ १.१९४.१० ॥
हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु
सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ १.१९४.११ ॥
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः
सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥ १.१९४.१२ ॥
सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात्
हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतोदिशम् ॥ १.१९४.१३ ॥
त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु
तथा नारायणो देवो बुद्धिं पालयतां मम ॥ १.१९४.१४ ॥
शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम्
वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥ १.१९४.१५ ॥
पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः
दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥ १.१९४.१६ ॥
सर्वानरीन्नाशयतु रामः परशुना मम
रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः ॥ १.१९४.१७ ॥
शत्रीन्हलेन मे हन्याद्रामो यादवनन्दनः
प्रलम्बकेशिचाणूरपूतनाकंसनाशनः
कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥ १.१९४.१८ ॥
अन्धकारतमोघोरं पुरुषं कृष्णषिङ्गलम्
पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥ १.१९४.१९ ॥
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः
धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ॥ १.१९४.२० ॥
ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम्
वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥ १.१९४.२१ ॥
अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम्
स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥ १.१९४.२२ ॥
सिद्धिर्भवतु मे नित्यं यथामन्त्रमुदाहृतम्
यो मां पश्यति चक्षुर्भ्यां यञ्चः पश्यामि चक्षुषा
सर्वेषां पापदुष्टानां विष्णुर्बध्नातु चक्षुषी ॥ १.१९४.२३ ॥
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः
ते हि च्छिन्दन्तु पापान्मे मम हिंसन्तु हिंसकान् ॥ १.१९४.२४ ॥
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च
विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥ १.१९४.२५ ॥
नदीसन्तारणे घोरे संप्राप्ते प्राणसंशये
अग्निचौरनिपातेषु सर्वग्रहनिवारणे ॥ १.१९४.२६ ॥
विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे
जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥ १.१९४.२७ ॥
अयं भगवतो मन्त्रो मन्त्राणां परमो महान्
विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम्
स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत् ॥ १.१९४.२८ ॥
अनाद्यन्त ! जगद्बीज ! पद्मनाभ ! नमोऽस्तु ते
ओं कालाय स्वाहा ओं कालपुरुषाय स्वाहा ओं कृष्णाय स्वाहा
ओं कृष्णरूपाय स्वाहा ओं चण्डाय स्वाहा ओं चण्डरूपाय स्वाहा
ओं प्रचण्डाय स्वाहा ओं प्रचणरूपाय स्वाहा ओं सर्वाय स्वाहा
ओं सर्वरूपाय स्वाहा ओं नमो भुवनेशाय त्रिलोकधात्रे इह विटि सिविटि सिविटि स्वाहा ओं नमः अयोखेतये ये ये संज्ञापय दैत्यदानवयक्षराक्षसभूतपिशाचकूष्माण्डान्तापस्मारकच्छर्दनदुद्धर्राणामेकाहिकद्व्याहिकत्र्याहिकचातुर्थिकमौहूर्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्वज्वरादीनां लूताकीटकण्टकपूतनाभुजङ्गस्थावरजङ्गमविषादी नामिदं शरीरं मम पथ्यं त्वं कुरु स्फुट स्फुट स्फुट प्रकोट लफट विकटदंष्ट्र पूर्वतो रक्षतु ओं है है है है दिनकरसहस्रकालसमाहतो जय पश्चिमतो रक्ष ओं निवि निवि प्रदीप्तज्वलनज्वालाकार महाकपिल उत्तरतो रक्ष ओं विलि विलि मिलि मिलि गरुडि गरुडि गौरीगान्धारीविषमोहविषमविषमां महोहयतु स्वाहा दक्षिणतो रक्ष मां पश्य सर्वभूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजय तेन हीयते रिपुत्रासाहङ्कृतवाद्यतो भयनुदभयतोऽभयं दिशतुच्युतं
तदुदरमखिलं विशन्तु युगपरिवर्तसहस्रसंख्येयोऽस्तंहंसमिव प्रविशन्ति रश्मयः
वासुदेवसङ्कर्षणप्रद्युम्नाश्चानिरुद्धकः
सर्वज्वरान्ममघ्नन्तु विष्णुर्नारायणो हरिः ॥ १.१९४.२९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैष्णवकवचकथनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १९५
हरिरुवाच
सल्वकामप्रदां विद्यां सप्तरात्रेण तां शृणु
नमस्तुभ्यं भगवते वासुदेवाय धीमहि ॥ १.१९५.१ ॥
प्रद्युम्नायानिरुद्धाय नमः सङ्गर्षणाय च
नमो विज्ञानमात्राय परमानन्दमूर्तये ॥ १.१९५.२ ॥
आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये
त्वद्रूपाणि च सर्वाणि तस्मात्तुभ्यं नमो नमः ॥ १.१९५.३ ॥
हृषीकेशाय महते नमस्तेऽनन्तमूर्तये
यस्मिन्निदं यतश्चैतत्तिष्ठत्यग्रेऽपि जायते ॥ १.१९५.४ ॥
मृन्मयीं वहसि क्षोणीं तस्मै ते ब्रह्मणे नमः
यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः
अन्तर्बहिस्त्वं चरसि व्योमतुल्यं नमाम्यहम् ॥ १.१९५.५ ॥
ओं नमो भगवते महापुराषाय महाभूतपतये सकलसत्त्वभाविव्रीडनिकरकमलरेणूत्पलनिभधर्माख्यविद्यया? चरणारविन्दयुगल परमेष्ठिन्नमस्ते
अवाप विद्याधरतां चित्रकेतोश्च विद्यया ॥ १.१९५.६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे पञ्चनवत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १९६
हरिरुवाच
अवाप जप्त्वा चेन्द्रत्वं विष्णुधर्माख्यविद्यया
सर्वाञ्छत्रून्विनिर्जित्य ताञ्च वक्ष्ये महेश्वर ॥ १.१९६.१ ॥
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि
मुखे शिरस्यानुपूर्वमोङ्का रादीनि विन्यसेत् ॥ १.१९६.२ ॥
नमो नारायणायेति विपर्यासमथापि च
करन्यासं ततः कुर्याद्द्वादक्षरविद्यया ॥ १.१९६.३ ॥
प्रणवादियकारान्तमङ्गुल्यं गुष्ठपर्वसु
न्यसेद्धृदय ओङ्कारं मनुं मूर्ध्नि समस्तकम् ॥ १.१९६.४ ॥
ओङ्कारन्तु भ्रुवोर्मध्ये शिकानेत्रादिमूर्धतः
ओं विष्णवे इति इमं मन्त्रन्यासमुदीरयेत् ॥ १.१९६.५ ॥
आत्मानं परमं ध्यायेच्छेषं यच्छक्तिभिर्युतम्
मम रक्षां हरिः कुर्यान्मत्स्यमूर्तिर्जलेऽवतु ॥ १.१९६.६ ॥
त्रिविक्रमस्तथाकाशे स्थले रक्षतु वामनः
अटव्यां नरसिंहस्तु रामो रक्षतु पर्वते ॥ १.१९६.७ ॥
भूमौ रक्षतु वाराहौ व्योम्नि नारायणोऽवतु
कर्मबन्धाच्च कपिलो दत्तो रोगाच्च रक्षतु ॥ १.१९६.८ ॥
हयग्रीवो देवताभ्यः कुमारो मकरध्वजात्
नारदोऽन्यार्चनाद्देवः कूर्मो वै नैरृते सदा ॥ १.१९६.९ ॥
धन्वन्तीरश्चापथ्याच्च नागः क्रोधवशात्किल
यज्ञो रोगात्समस्ताच्च व्यासोऽज्ञानाच्च रक्षतु ॥ १.१९६.१० ॥
बुद्धः पाषण्डसंघातात्कल्की रक्षतु कल्मषात्
पायान्मध्यन्दिने विष्णुः प्रातर्नारायणोऽवतु ॥ १.१९६.११ ॥
मधुहा चापराह्ने च सायं रक्षतु माधवः
हृषीकेशः प्रदोषेऽव्यात्प्रत्यूषेऽव्याज्जनार्दनः ॥ १.१९६.१२ ॥
श्रीधरोऽव्यादर्धरात्रे पद्मनाभो निशीथके
चक्रकौमोदकीबाणा घ्नन्तु शत्रूंश्च राक्षसान् ॥ १.१९६.१३ ॥
शङ्खः पद्मं च शत्रुभ्यः शार्ङ्गं वै गरुडस्तथा
बुद्धीन्द्रियमनः प्राणान्पान्तु पार्श्वविभूषणः ॥ १.१९६.१४ ॥
शेषः सर्पस्वरूपश्च सदा सर्वत्र पातु माम्
विदिक्षु दिक्षु च सदा नारसिंहश्च रक्षतु ॥ १.१९६.१५ ॥
एतद्धारयमाणश्च यं यं पश्यति चक्षुषा
स वशी स्याद्विपाप्मा च रोगमुक्तो दिवं व्रजेत् ॥ १.१९६.१६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे षण्णवत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १९७
धन्वन्तरिरुवाच
गारुडं संप्रवक्ष्यामि गरुडेन ह्युदीरितम्
कश्यपाय सुमित्रेण विषहृद्येन गारुडः ॥ १.१९७.१ ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेवच
क्षित्यादिष्वेव वर्गाश्च ह्येते वै मण्डलाधिपाः ॥ १.१९७.२ ॥
पञ्चतत्त्वे स्थिता देवाः प्राप्यन्ते विष्णुसेवकैः
दीर्घस्वरविभिन्नाश्च नपुंसकविवर्जिताः ॥ १.१९७.३ ॥
सषडङ्गः शिवः प्रोक्तो हृच्छिरश्च शिखा क्रमात्
कवचं नेत्रमस्त्रं स्यान्न्यासः स्वस्थलसंस्थितिः ॥ १.१९७.४ ॥
सर्वसिद्धिप्रदस्यान्ते कालवह्निर धोऽनिलः
षष्ठस्वरसमायुक्तमर्धेन्दुसंयुतं परम् ॥ १.१९७.५ ॥
परापरविभिन्नाश्च शिवस्योर्ध्वाध ईरिताः
रेफेणाङ्गेषु सर्वत्र न्यासं कुर्याद्यथाविधि ॥ १.१९७.६ ॥
हृदि पाणितले देहे कर्णे नेत्रे करोति च
जपात्तु सर्वसिद्धिः स्याच्चतुर्वक्त्रसमायुताम् ॥ १.१९७.७ ॥
चतुरश्रां सुविस्तारं पीतवर्णान्तु चिन्तयेत्
पृथिवीं चेन्द्रदेवत्यां मध्ये वरुणमण्डलम् ॥ १.१९७.८ ॥
मध्ये पद्मं तथायुक्तमर्धचन्द्रं सुशीतलम्
इन्द्रनीलद्युतिं सौम्यमथवाग्नेयमण्डलम् ॥ १.१९७.९ ॥
त्रिकोणं स्वस्थिकैर्युक्तं ज्वालामा लानलं स्मरेत्
भिन्नाञ्जननिभाकारं स्ववृत्तं बिन्दुभूषितम् ॥ १.१९७.१० ॥
क्षीरोर्मिसदृशाकारं शुद्धस्फटिकवर्चसम्
प्लावयन्तं जगत्सर्वं व्योमामृतमनुंस्मरेत् ॥ १.१९७.११ ॥
वासुकिः शङ्खपालश्च स्थितौ पार्थिवमण्डले
कर्कोटः पद्मनाभश्च वारुणे तौ व्यवस्थितौ ॥ १.१९७.१२ ॥
आग्नेये चापि कुलिकस्तक्षश्चैव महाब्जकौ
वायुमण्डलसंस्थौ च पञ्च भूतानि विन्यसेत् ॥ १.१९७.१३ ॥
अङ्गुष्ठादिकनिष्ठान्तमनुलोमविलोमतः
पर्वसन्धिषु च न्यस्या जया च विजया तथा ॥ १.१९७.१४ ॥
आस्यादिस्वपुरस्थाने न्यस्याच्छिवपडङ्गकम्
कनिष्ठादौ हृदादौ च शिखायां करयोर्न्यसेत् ॥ १.१९७.१५ ॥
व्यापकन्तु तत्वपूर्वं क्रमादङ्गुलिपर्वसु
भूतानाञ्च पुनर्न्यासः शिवाङ्गानि तथैव च ॥ १.१९७.१६ ॥
प्रणवादिनमश्चान्ते नाम्नैव च समन्वितः
सर्वमन्त्रेषु कथितो विधिः स्थापनपूजने ॥ १.१९७.१७ ॥
आद्याक्षरं तन्नाम्नश्च मन्त्रोऽयं परिकीर्तितः
अष्टानां नागजातीनां मन्त्रः सान्निध्यकारकः ॥ १.१९७.१८ ॥
ओं स्वाहा क्रमशश्चैव पञ्चभूतपुरोगतम्
एष साक्षाद्भवेत्तार्क्ष्यः सर्वकर्मप्रसाधकः ॥ १.१९७.१९ ॥
करन्यासं स्वरैः कृत्वा शरीरे तु पुनर्न्यसेत्
ज्वलन्तं चिन्तयेत्प्राणमात्मसंशुद्धिकारकम् ॥ १.१९७.२० ॥
बीजन्तु चिन्तयेत्पश्चाद्वर्षान्तममृतात्मकम्
एवञ्चाप्यायनं कृत्वा मूर्ध्नि सञ्चिन्त्य चात्मनः ॥ १.१९७.२१ ॥
पृथिवीं पादयोर्दद्यात्तप्तकाञ्चनसप्रभाम्
अशेषभुवनाकीर्णां लोकपालसमन्विताम् ॥ १.१९७.२२ ॥
एतां भगवतीं पृथ्वीं स्वदेहे विन्यसेद्बुधः
श्यामवर्णमयं ध्यायेत्पृथिवीद्विगुणं भवेत् ॥ १.१९७.२३ ॥
ज्वालामालाकुलं दीप्तमाब्रह्मभुवनान्तकम्
नाभिग्रीवान्तरे न्यस्य त्रिकोणं मण्डलं रवेः ॥ १.१९७.२४ ॥
भिन्नाञ्जननिभाकारं निखिलं व्याप्य संस्थितम्
आत्ममूर्तिस्थितं ध्यायेद्वायव्यं तीक्ष्णमण्डलम् ॥ १.१९७.२५ ॥
सिखोपरि स्थितं दिव्यं शुद्धस्फटिकवर्चसम्
अप्रमाणमहाव्योमव्यापकं चामृतोपमम् ॥ १.१९७.२६ ॥
भूतन्यासं पुरा कृत्वा नागानाञ्च यथाक्रमम्
लकारान्ता बिन्दुयुता मन्त्रा भूतक्रमेण तु ॥ १.१९७.२७ ॥
शिवबीजं ततो दद्यात्ततो ध्यायेच्च मण्डलम्
योयस्य क्रमाख्यातो मण्डलस्य विचक्षणः
तस्य तच्चिन्तयेद्वर्णं कर्मकाले विधानवित् ॥ १.१९७.२८ ॥
पादपक्षैस्तथा चञ्चत्कृष्णनागैर्विभूषितम्
तार्क्ष्यं ध्यायेत्ततो नित्यं विषे स्थावरजङ्गमे ॥ १.१९७.२९ ॥
ग्रहभूतपिशाचे च डाकिनीयक्षराक्षसे
नागैर्विवेष्टितं कृत्वा स्वदेहे विन्यसेच्छिवम् ॥ १.१९७.३० ॥
द्विधा न्यासः समाख्यातो नागानां चैव भूतयोः
एवं ध्यात्वा कर्म कुर्यादात्मतत्त्वादिकं क्रमात् ॥ १.१९७.३१ ॥
त्रितत्त्वं प्रथं दत्त्वा सिवतत्त्वं ततः परम्
यथा देहे तथा देवे अङ्गुलीनां च पर्वसु ॥ १.१९७.३२ ॥
देहे न्यासं पुरा कृत्वा ह्यनुलोमविलोमतः
कन्दं नालं तथा पद्मं धर्मं ज्ञानादिमेव च ॥ १.१९७.३३ ॥
द्वितीयस्वरसम्भिन्नं वर्गान्तेन तु पूजयेत्
शौमिति कर्णिकामध्ये मूर्ध्नि रेफेण संयुतम् ॥ १.१९७.३४ ॥
अकचटतपयशा वर्गाः पूर्वादिके न्यसेत्
पत्रान्तकेसरान्ते तु द्वौ द्वौ पूर्वादिकौ तथा ॥ १.१९७.३५ ॥
केशरे तु स्वरान्न्यस्यादीशान्तान्षोडशार्चयेत्
वामाद्याः शक्तयः प्रोक्तास्त्रितत्त्वन्तु ततो न्यसेत् ॥ १.१९७.३६ ॥
आवाहयेत्ततो मर्ध्नि शिवमङ्गं ततः परम्
कर्णिकायां न्यसेद्देवं सांगं तत्र पुरः सरम् ॥ १.१९७.३७ ॥
पृतिवी पश्चिमे पत्रे आपश्चोत्तरसंस्थिताः
तेजस्तु दक्षिणे पत्रे वायुं पूर्वेण पूजयेत् ॥ १.१९७.३८ ॥
स्वबीजं मूर्तिरूपन्तु प्रागुक्तं पारकल्पयेत्
यं वायुमूलं नैरृत्ये रेफस्त्वनलसंस्थितः ॥ १.१९७.३९ ॥
वं च त्वीशे सदा पूज्य ओं हृदिस्थञ्च पूजयेत्
तन्मात्रान्भूतमात्रांस्तान्बहिरेव प्रपूजयेत् ॥ १.१९७.४० ॥
शिवाङ्गानि ततः पश्चाद्ध्यात्वा संपूजयेत्ततः
आग्नेय्यां हृदयं पूज्य शिर ईशानगोचरे ॥ १.१९७.४१ ॥
नैरृत्ये तु शिखां दद्याद्वायव्यां कवचं न्यसेत्
अस्त्रन्तु बाह्यतो दद्यान्नेत्रमुत्तरसंस्थितम् ॥ १.१९७.४२ ॥
पत्राग्रे कर्णिकग्रे तु बीजानि परिपूजयेत्
अनन्तादिकुलीरान्ता अष्टौ नागाः क्रमात्स्थिताः ॥ १.१९७.४३ ॥
पूर्वादिकक्रमेणैव त्वीशपर्यन्तमेव च
पूजयेच्च सदा मन्त्री विधानेन पृथक्पृथक् ॥ १.१९७.४४ ॥
हृदि पद्मे विधानेन शिलादौ दत्तमण्डले
एतत्कार्यं समुद्दिष्टं नित्यनैमित्तिकेऽपि च ॥ १.१९७.४५ ॥
आत्मानं चिन्तयेन्नित्यं कामरूपं मनोहरम्
प्लावयन्तं जगत्सर्वं सृष्टिसंहारकारकम् ॥ १.१९७.४६ ॥
ज्वालामालाभिरुद्दीप्तं आब्रह्मभुवनान्तकम्
दशबाहुं चतुर्वक्त्रं पिङ्गाक्षं शूलपाणिनम् ॥ १.१९७.४७ ॥
दंष्ट्राकरालमत्युग्रं त्रिनेत्रं शशिशेखरम्
भैरवन्तु स्मरेत्सिद्ध्यै गरुडं सर्वकर्मसु ॥ १.१९७.४८ ॥
नागानां नाशनार्थाय गरुडं भीमभीषणम्
पादौ पातालं संस्थौ च दिशः पक्षास्तु संश्रिताः ॥ १.१९७.४९ ॥
सप्त स्वर्गा उरसि च ब्रह्माण्डं कण्ठमाश्रितम्
पूर्वादीशानपर्यन्तं शिरस्तस्य विचिन्तयेत् ॥ १.१९७.५० ॥
सदाशिवशिखान्तस्थं शक्तित्रितयमेव च
परात्परं शिवं साक्षात्तार्क्ष्यं भुवननायकम् ॥ १.१९७.५१ ॥
त्रिनेत्रमुग्ररूपञ्च विषनागक्षयङ्करम्
ग्रसनं भीमवक्त्रं च गरुडं मन्त्रविग्रहम् ॥ १.१९७.५२ ॥
कालाग्निमिव दीप्तं च चिन्तयेत्सर्वकर्मसु
एवं न्यासविधिं कृत्वा यद्यन्मनसि चिन्तयेत् ॥ १.१९७.५३ ॥
तत्तदेव भवेत्साध्यं नरो वै गरुडायते
प्रेता भूतास्तथा यक्षा नागा गन्धर्वराक्षसाः
दर्शनात्तस्य नश्यन्ति ज्वराश्चातुर्थिकादयः ॥ १.१९७.५४ ॥
धन्वन्तरिरुवाच
एवं स गरुडं प्रोचे गरुडः कश्यपाय च
महेश्वरो यथा गौरीं प्राह विद्यां तथा शृणु ॥ १.१९७.५५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सप्तनवत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १९८
भैरव उवाच
नित्यक्लिन्नामथो वक्ष्ये त्रिपुरां भुक्तिमुक्तिदाम्
ओं ह्रीं आगच्छ देवि ऐं ह्रीं ह्रीं रेखाकारणम्
ओं ह्रीं क्लेदिनी भं नमः मदनक्षोभिणा तथा
ऐ यं यं क्रीं वा गुणरेखया ह्रीं मदनान्तरे च
ऐं ह्रीं ह्रीं च निरञ्जना वागति मदनान्तरेखे खनेत्रावलीति च
वेगवति महाप्रेतासनाय च पूजयेत्
ओं ह्रीं क्रैं नैं क्रैं नित्यं मदद्रवे क्रीं नमः
ऐं ह्रीं त्रिपुरायै नमः
ओं ह्रीं क्रीं पश्चिमवक्त्रं ओं ऐं ह्रीं ह्रीं च तथोत्तरम्
ऐं ह्रीं दक्षिणमूर्ध्वंवक्त्रं तु पश्चिमम्
ओं ह्रीं पाशाय क्रीं अङ्कुशाय ऐं कपालाय नमः
आद्यं भयं ऐं ह्रीं च तथा शिरः तथा शिखायै कवचे
ऐं ह्रीं क्रीं अस्त्रायफट् ॥ १.१९८.१ ॥
पूर्वे कामरूपाय असिताङ्गाय भैरवाय नमो ब्रह्माण्यै
दक्षिणे चै कन्दाय वै नमः रुरुभैवाय माहेश्वर्या वा आवाहयेत् ॥ १.१९८.२ ॥
तथा पश्चिमे चण्डाय वै नमः
कौमार्यै चोत्तरे चोल्काय क्रोधाय नमः वैष्णव्यै ॥ १.१९८.३ ॥
अग्निकोणे अघोरायोन्मत्तभैरवायेति वाराह्यै
रक्षः कोणे साराय कपालिने भैरवाय माहेर्न्द्यै ॥ १.१९८.४ ॥
वायुकोणे जालन्धराय भीषणाय भैरवाय चामुण्डायै
ईशकोणके वटुकाय संहारञ्चण्डिकाञ्च प्रपूजयेत् ॥ १.१९८.५ ॥
रतिप्रीतिकामदेवान्पञ्चबाणान्यजेदथ
ध्यानार्चनाज्जप्यहोमाद्देवी सिद्धा च सर्वदा ॥ १.१९८.६ ॥
नित्या च त्रिपुरा व्याधिं हन्याज्ज्वालामुखीक्रमात्
ज्वालामुखीक्रमं वक्ष्ये सा पूज्या मध्यतः शुभा ॥ १.१९८.७ ॥
नित्यारुणा मदनातुरा महामोहा प्रकृत्यपि
महेन्द्राणी च कलनाकर्षिणी भारती तथा ॥ १.१९८.८ ॥
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा
वाराही चैव माहेन्द्री चामुण्डा चापराजिता ॥ १.१९८.९ ॥
विजया चाजिता चैवमोहिनी त्वरिता तथा
स्तम्भिनी जृम्भिणी पूज्या कालिका पद्मबाह्यतः
ज्वालामुखीक्रमं चार्चेद्विषादिहरणं भवेत् ॥ १.१९८.१० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे अष्टनवत्यधिकशततमोध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] १९९
भैरव उवाच
अथ चूडामणिं वक्ष्ये शुभाशुभविशुद्धये
सूर्यं देवीं गणं सोम स्मृत्वा तु विलिखेन्नरः ॥ १.१९९.१ ॥
त्रिरेखा गोमूर्त्रिकाभा अथवा प्रश्रवाक्यतः
दिशस्थानप्रसूतो वा ध्वजादीन्गणयेत्क्रमात् ॥ १.१९९.२ ॥
ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरदन्तिनौ
ध्वाङ्क्षश्च अष्टमो ज्ञेयो नाम मन्त्रैश्च तान्न्यसेत् ॥ १.१९९.३ ॥
ध्वजस्थाने ध्वजं दृष्ट्वा राज्यचिन्ताधनादिकम्
ध्वजस्थाने स्थितो धूम्रो धातुचिन्ता च लाभकृत् ॥ १.१९९.४ ॥
ध्वजस्थाने स्थिते सिंहे धनलाभादिकं भवेत्
स्थिते शुनिध्वजस्थाने दासीचिन्तासुखादिकम् ॥ १.१९९.५ ॥
ध्वजस्थाने वृषं दृष्ट्वा स्थानचिन्ता च लाभकम्
ध्वजस्थाने खरं दृष्ट्वा दुः खक्लेशादिकं भवेत् ॥ १.१९९.६ ॥
ध्वजस्थाने गजं दृष्ट्वा स्थानचिन्ताजयादिकम्
ध्वजस्थाने तथा ध्वाङ्क्षे क्लेशचिन्ता धनक्षयः ॥ १.१९९.७ ॥
धूम्रस्थाने ध्वजं दृष्ट्वा पूर्वं दुः खं ततो धनम्
धूम्रे धूम्रं तथा दृष्ट्वा कलिदुः खादिकं भवेत् ॥ १.१९९.८ ॥
धूम्रस्थाने स्थिते सिंहे मनश्चिन्ताधनादिकम्
धूम्रस्थाने शुनि स्थिते जयलाभादिकं भवेत् ॥ १.१९९.९ ॥
धूम्रस्थाने वृषं दृष्ट्वा नारीगोऽश्वधनादिकम्
धूम्रस्थाने खरं दृष्ट्वा व्याधिश्चापि धनक्षयः ॥ १.१९९.१० ॥
धूम्रस्थाने गजे दृष्टे राज्यलाभजयादिकम्
धूम्रस्थाने स्थिते ध्वाङ्क्षे धनराज्यविनाशनम् ॥ १.१९९.११ ॥
सिंहस्थाने ध्वजं दृष्ट्वा राज्यलाभादि निर्दिशेत्
सिंहस्थाने स्थिते धूम्रे कन्याप्राप्तिर्धनादिकम् ॥ १.१९९.१२ ॥
सिंहस्थाने स्थिते सिंहे जयो मित्रसमागमः
कौलेयके सिंहगते स्त्रीचिन्ता ग्रामलाभकम् ॥ १.१९९.१३ ॥
सिंह स्थाने वृषं दृष्ट्वा गृहक्षेत्रार्थलाभकम्
सिंहस्थाने गजं दृष्ट्वा ग्रामस्वामित्वमेव च ॥ १.१९९.१४ ॥
सिंहस्थाने गजं दृष्ट्वा आरोग्यायुः सुखादिकम्
सिंहस्थानेस्थिते ध्वाङ्क्षे कन्याधान्यगुणादिकम् ॥ १.१९९.१५ ॥
शुनः स्थाने ध्वजं दृष्ट्वा स्थानचिन्तासुखादिकम्
शुनः स्थाने स्थिते धूम्रे कलहं कार्यनाशनम् ॥ १.१९९.१६ ॥
शुनः स्थान स्थिते सिंहे कार्यासिद्धिर्भविष्यति
स्थिते शुनि शुनः स्थाने धननाशो भविष्यति ॥ १.१९९.१७ ॥
शुनः स्थाने वृषं दृष्ट्वा रोगी रोगाद्वि मुच्यते
शुनः स्थाने खरं दृष्ट्वा कलहस्य भयं भवेत् ॥ १.१९९.१८ ॥
शुनः स्थाने गजं दृष्ट्वा पुत्रभार्यासमागमः
श्वस्थाने च स्थिते ध्वाङ्क्षे पीडास्यात्कुलनाशनम् ॥ १.१९९.१९ ॥
वृषस्थाने ध्वजं दृष्ट्वा राजपूजासुखादिकम्
वृषस्थाने स्थिते धूम्रे राजपूजासुखादिकम् ॥ १.१९९.२० ॥
वृषस्थाने स्थिते सिंहे सौभाग्यञ्च धनादिकम्
स्थिते शुनि वृषस्थाने बलश्रीकाम ईरितः ॥ १.१९९.२१ ॥
वृषस्थाने वृषं दृष्ट्वा कीर्तितुष्टिसुखादिकम्
वृषस्थाने खरं दृष्ट्वा महालाभादिकं भवेत् ॥ १.१९९.२२ ॥
वृषस्थाने गजं दृष्ट्वा स्त्रीगजादिसमागमः
वृषस्थाने स्थिते ध्वाङ्क्षे स्थानमानसमागमः ॥ १.१९९.२३ ॥
खरस्थाने ध्वजं दृष्ट्वा रोगशोकादिकं भवेत्
खरस्थाने स्थिते धूम्रे तस्करादिभयं भवेत् ॥ १.१९९.२४ ॥
खरस्थाने स्थिते सिंहे पूजाश्रीविजयादिकम्
स्थिते शुनिखरस्थाने सन्तापधननाशनम् ॥ १.१९९.२५ ॥
खरस्थाने वृषं दृष्ट्वा सुखं प्रियसमागमः
खरस्थाने खरं दृष्ट्वा दुः खीपीडादि निर्दिशेत् ॥ १.१९९.२६ ॥
खरस्थाने गजं दृष्ट्वा सुखपुत्त्रादिकं भवेत्
खरस्थाने स्थिते ध्वाङ्क्षे कलहो व्याधिरेव च ॥ १.१९९.२७ ॥
गजस्थाने ध्वजं दृष्ट्वा स्त्रीजयश्रीसुखादिकम्
गजस्थानेस्थिते धूम्रे धनधान्यसमागमः ॥ १.१९९.२८ ॥
गजस्थाने स्थिते सिंहे जयसिद्धिसमागमः
स्थिते शुनि गजस्थाने आरोग्यं सुखसम्पदः ॥ १.१९९.२९ ॥
गजस्थाने वृषं दृष्ट्वा राजमानधनादिकम्
गजस्थाने खरं दृष्ट्वा पूर्वं दुः खं ततः सुखम् ॥ १.१९९.३० ॥
गजस्थाने गजं दृष्ट्वा क्षेत्रधान्यसुखादिकम्
गजस्थानेस्थिते ध्वाङ्क्षे धनधान्यसमागमः ॥ १.१९९.३१ ॥
ध्वाङ्क्षस्थाने ध्वजं दृष्ट्वा कार्यनाशो भविष्यति
ध्वाङ्क्षस्थाने स्थिते धूम्रे कलिदुः खं गमिष्यति ॥ १.१९९.३२ ॥
ध्वाङ्क्षस्थाने स्थिते सिंहे विग्रहो दुः खमेव च
ध्वाङ्क्षस्थाने स्थिते श्वाने गृहभङ्गभयादिकम् ॥ १.१९९.३३ ॥
ध्वाङ्क्षस्थाने वृषं दृष्ट्वा स्थानभ्रंशभयादिकम्
ध्वाङ्क्षस्थाने खरं दृष्ट्वा धननाशपराजयौ ॥ १.१९९.३४ ॥
ध्वाङ्क्षस्थाने गजं दृष्ट्वा धनकीर्त्यादिकं भवेत्
ध्वाङ्क्षस्थाने स्थिते ध्वाङ्क्षे विदेशगमनादिकम् ॥ १.१९९.३५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवनवत्यधिकशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २००
भैरव उवाच
वक्ष्ये वायुजयं देवि जया जयविदेशकम्
वाय्वग्निजलशक्राख्यं मङ्गलानाञ्चतुष्टयम् ॥ १.२००.१ ॥
वामदक्षिणसंस्थश्च वायुश्च बहुलो भवेत्
ऊर्ध्ववाही भवेदग्निरधस्तु वरुणो भवेत् ॥ १.२००.२ ॥
महेन्द्रो मध्यसंस्थस्तु शुक्लपक्षे तु वामगः
कृष्णपक्षे दक्षिणग उदयस्य त्र्यहन्त्र्यहम् ॥ १.२००.३ ॥
वहेत्प्रतिपदाद्ये च विपरीते भवेन्नतिः
उदयः सूर्यमार्गेण चन्द्रेणास्तमयो यदि ॥ १.२००.४ ॥
वर्धन्ते गुणसंघाता अन्यथा विघ्नमौचितम्
संक्रान्त्यः षोडशप्रोक्ता दिवा रात्रौ वरानने ॥ १.२००.५ ॥
यदा च संक्रमेद्वायुरर्धार्धप्रहरे स्थितः
स्वास्थ्याहानिस्तदा ज्ञेया वायुर्भ्रमति देहिषु ॥ १.२००.६ ॥
दक्षिणे च पुटे वायुर्हितो भोजनमैथुने
खड्गहस्तो जयेद्युद्धे रिपून्कामसमन्वितः ॥ १.२००.७ ॥
वामेव गमनं श्रेष्ठं सर्वकार्येषु भूषितम्
वायुर्वहति तत्रस्थः प्रश्रो भूतस्य शोभनः ॥ १.२००.८ ॥
माहेन्द्रे वारुणे वाते कोऽपि दोषो न जायते
अनावृष्टिर्दक्षवाहे वृष्टिः स्याद्वामवाहके ॥ १.२००.९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २०१
धन्वन्तरिरुवाच
हयायुर्वेदमाख्यास्ये हयं सर्वार्थलक्षणम्
काकतुण्डः कृष्णजिह्वो वृक्षास्यश्चोष्णतालुकः ॥ १.२०१.१ ॥
करालो हीनदन्तश्च शृङ्गी विरलदन्तकः
एकाण्डश्चैव जाताण्डः कञ्चुकी द्विखुरी स्तनी ॥ १.२०१.२ ॥
मार्जारपादो व्याघ्राभः कुष्ठविद्रधिसन्निभः
यमजो वामनश्चैव मार्जारः कपिलोचनः ॥ १.२०१.३ ॥
एतद्दोषी हयस्त्याज्य उत्तमोऽश्वस्तुरुष्कजः
मध्यमः पञ्चहस्तश्च कनीयांश्च त्रिहस्तकः ॥ १.२०१.४ ॥
असंहता ये च वाहा ह्रस्वकर्णास्तथैव च
शबलाभाः प्रभावेषु न दीनाश्चिरजीविनः ॥ १.२०१.५ ॥
रेवन्तपूजनाद्धोमाद्रक्ष्याश्च द्विजभाजेनात्
सरलं निम्बपत्राणि गुग्गुलं सर्षपान्घृतम्? ॥ १.२०१.६ ॥
तिलञ्चैव वचां हिगुं बध्नीयाद्वाजिनो गले
आगन्तुजं दोषजन्तु व्रणं द्विविधमीरितम् ॥ १.२०१.७ ॥
चिरपाकं वातजन्तु श्लेष्मजं क्षिप्रपाककम्?
कण्ठदाहात्मकं पित्ताच्छोणितान्मन्दवेदनम् ॥ १.२०१.८ ॥
आगन्तुजन्तु शस्त्राद्यैर्दुष्टव्रणविशोधनम्
एरण्डमूलं द्विनिशं चित्रकं विश्वभेषजम् ॥ १.२०१.९ ॥
रसोनं सैन्धवं वापि तक्रकाञ्जिकपोषितम्
तिलसक्तुकपिण्डिका दधियुक्ता ससैन्धवा
निम्बपत्रयुतं पिण्डं व्रणशोधनरोपणम् ॥ १.२०१.१० ॥
पटोलं निम्बपत्रञ्च वचा चित्रकमेव च
पिप्पलीशृङ्गवेरञ्च चूर्णमेकत्र कारयेत् ॥ १.२०१.११ ॥
एतत्पानात्क्रिमिश्लेष्ममन्दानिलविनाशनम्
निम्बपत्रं पटो लञ्च त्रिफला खदिरं तथा ॥ १.२०१.१२ ॥
क्वाथयित्वा ततो वाहं सृतरक्तं विचक्षणः
त्र्यहमेव प्रिदातव्यं हयकुष्ठोपशान्तये ॥ १.२०१.१३ ॥
सव्रणेषु च कुष्ठेषु तैलं सर्षपजं हितम्
लशुनादिकषायश्च पानभुक्त्युपशान्तये ॥ १.२०१.१४ ॥
मातुलुङ्गरसोपेतं मांसीनां रसकेन वा
सद्यो दद्यात्तत्र नस्यमन्यैर्वातैः सुसंयुतैः ॥ १.२०१.१५ ॥
पलद्वयं प्रथमेऽह्नि एकैकपलवृद्धितः
यावद्दिनानि पूर्णानि पलान्यष्टादशोत्तमे ॥ १.२०१.१६ ॥
अधमेऽष्टपलानि स्युर्मध्यमे स्युश्चतुर्दश
शरन्निदाघयोर्नैवदेयं नैव तु दापयेत् ॥ १.२०१.१७ ॥
तैलेन वातिके रोगे शर्कराज्यपयोन्वितैः
कटुतैलैः कफे व्योषैः पित्ते चत्रिफलाम्बुभिः ॥ १.२०१.१८ ॥
शालिषष्टिकदुग्धाशी हयो हिन जुगुप्सितः
पक्वजम्बूनिभो हेमवर्णोऽश्वो न जुगुप्सितः ॥ १.२०१.१९ ॥
अर्धप्रहरणे धुर्ये गुग्गुलुं प्राशयेद्धयम्
भोजयेत्पायसं दुग्धं सत्वरं सुस्थिरो हयः ॥ १.२०१.२० ॥
विकारे भोजने दुग्धं शाल्यन्नं वातले ददेत्
कर्षमांसरसैः पित्ते मधुमुद्गरसाज्यकैः ॥ १.२०१.२१ ॥
कफे मुद्गान्कुलत्थान्वा कटुतिक्तान्कफे हये
बाधिर्ये व्याधिते ग्रासे त्रिदोषादौ तु गुग्गुलुः ॥ १.२०१.२२ ॥
घासैर्दूर्वा सर्वरोगे प्रथमेऽह्नि पलं ददेत्
विवर्धयेत्ततः कर्षमेकाह्नि पलपञ्चकम् ॥ १.२०१.२३ ॥
पाने च भोजने चैव अशीतिपलकं परम्
मध्ये षष्टिश्चाधमेषु चत्वारिंशच्च भोगिषु ॥ १.२०१.२४ ॥
व्रणे कुष्ठेषु खञ्जेषु त्रिफलाक्वाथसंयुतम्
मन्दाग्नौ शोथरोगे च गवां मूत्रेण योजितम् ॥ १.२०१.२५ ॥
वातपित्ते व्रणे व्याधौ गोक्षीरं घृतसंयुतम्
देयं कृशानां पुष्ट्यर्थं मांसैर्युक्तं च भोजनम् ॥ १.२०१.२६ ॥
सुपिष्टायाः प्रदातव्यं गुडूच्याः पलपञ्चकम्
प्रभाते घृतसंयुक्तं शरद्गीष्मे च वाजिनाम् ॥ १.२०१.२७ ॥
रोगघ्नं पुष्टिदं चापि बलतेजोविवर्धनम्
तदेवाश्वायदातव्यं क्षीरयुक्तमथापि वा ॥ १.२०१.२८ ॥
गुडूचीकल्पयोगेन शतावर्यश्वगन्धयोः
चत्वारि त्रीणि मध्यस्य जघन्यस्य पलानि हि ॥ १.२०१.२९ ॥
अकस्माद्यत्र वाहानामेकरूपं यदा भवेत्
म्रियते च यदा क्षिप्रमुपसर्गं तमादिशेत् ॥ १.२०१.३० ॥
होमाद्यै रक्षया विप्रभोजनैर्बलिकर्मणा
शान्त्योपसर्गशान्तिः स्याद्धरीतक्यादिकल्पतः ॥ १.२०१.३१ ॥
हरीतकी गवां मूत्रैस्तैलेन लवणान्विता
आदौ पञ्च ततः पञ्च वृद्ध्या पूर्णशतावधि
उत्तमा च शतं मात्रास्त्वशीतिः षष्टिरेव वा ॥ १.२०१.३२ ॥
गजायुर्वेदमाख्यास्ये उक्ताः कल्पा गजे हिताः
गजे चतुर्गुणा मात्रास्ताभिर्गजरुगर्दनः ॥ १.२०१.३३ ॥
गजो पसर्गव्याधीनां शमनं शान्तिकर्म च
पूजयित्वा सुरान्विप्रान्रत्नैर्गां कपिलां ददेत् ॥ १.२०१.३४ ॥
दन्तिदन्तद्वये मालां निबन्धीयादुपोषितः
मन्त्रेण मन्त्रितान्वैद्यैर्वचासिद्धार्थकांस्तथा ॥ १.२०१.३५ ॥
सूर्यादिशिवदुर्गाश्रीविष्ण्वर्चा रक्षयेद्गजम्
बलिं दद्याच्च भूतेभ्यः स्नापयेच्च चतुर्घटैः ॥ १.२०१.३६ ॥
भोजनं मन्त्रितं दद्याद्भस्मनोद्धूनयेद्गजमम्
भूतरक्षा शुभा मेध्या वारणं रक्षयेत्सदा ॥ १.२०१.३७ ॥
त्रिफलापञ्चकोले च दशमूलं विडङ्गकम्
शतावरीगुडूची च निम्बवासककिंशुकाः ॥ १.२०१.३८ ॥
गजरोगविनाशाय हितो रूक्षः कषायकः
आयुर्वेदद्वयोक्तानामुक्तं संक्षेपसारतः ॥ १.२०१.३९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गजाश्वायुर्वेदनिरूपणं नामैकाधिकद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २०२
हरिरुवाच
एकं पुनर्नवामूलमपामार्गस्य वा शिव
सरसं योनिनिः क्षिप्तं वराङ्गस्य व्यथां हरेत्
प्रसूतिवेदनाञ्चैव तरुणीनां व्यथां हरेत् ॥ १.२०२.१ ॥
भूमि कूष्माण्डमूलं वै शालिचूर्णमथापि वा
सप्ताहं दुग्धपीतं स्यात्स्त्रीणां बहुपयस्करम् ॥ १.२०२.२ ॥
रुद्रेन्द्रवारुणीमुलं लेपात्स्त्रीस्तनवेदना
नश्येत घृतपक्वा च कार्यावश्यन्तु पोलिका ॥ १.२०२.३ ॥
भक्षिता सा महेशान योनिशूलं विनाशयेत्
प्रलेपिता कारवेल्लमूलेनैव विनिर्गता ॥ १.२०२.४ ॥
योनिः प्रवेशमायाति नात्र कार्या विचारणा
नीलीपटोलमूलानि साज्यानि तिलवारिणा ॥ १.२०२.५ ॥
पिष्टान्येषां प्रलेपो वै ज्वालागर्दभरागनत्
पाठामूलं रुद्र पीतं पिष्टं तण्डुलवारिणा ॥ १.२०२.६ ॥
पापरोगहरं स्याच्च कुष्ठपानं तथैव च
वास्योदकञ्च समधु पीतमन्तर्गतस्य वै ॥ १.२०२.७ ॥
पापरोगस्य सन्तापनिवृक्तिं कुरुते शिव
घृततुल्या रुद्र लाक्षा पीता क्षीरेण वै सह ॥ १.२०२.८ ॥
प्रदरं हरते रोगं नात्र कार्या विचारणा
द्विजयष्टी त्रिकटुकं चूर्णं पीतं हरेच्छिव ॥ १.२०२.९ ॥
तिलक्वाथेन संयुक्तं रक्तगुल्मं स्त्रिया हर
कुसुमस्य निबद्धञ्च तरुणीनां महेश्वर ॥ १.२०२.१० ॥
रक्तोत्पलस्य वै कन्दंशर्करातिलसंयुतम्
पीतं सशर्करं स्त्रीणां धारयेद्गर्भपातनम् ॥ १.२०२.११ ॥
रक्तस्त्रावस्य नाशः स्याच्छीतोदकनिषेवणात्
पीतन्तु काञ्जिक रुद्र क्वथितं शरपुङ्खया ॥ १.२०२.१२ ॥
हिङ्गुस्त्रैन्धवसंयुक्तं शीघ्रं स्त्रीणां प्रसूतिकृत्
मातुलुङ्गस्य वै मूलं कटिबद्धं प्रसूतिकृत् ॥ १.२०२.१३ ॥
अपामार्गस्य वै मूले गर्भवत्यास्तु नामतः
उत्पाट्यमाने सकले पुत्त्रः स्यादान्यथा सुता ॥ १.२०२.१४ ॥
अपामार्गस्य वै मूले नारीणां शिरसि स्थिते
गर्भशूलं विनश्येत नात्र कार्या विचारणा ॥ १.२०२.१५ ॥
कर्पूरमदनफलमधुकैः पूरितः शिव
योनिः सुभा स्याद्वृद्धाया युवत्याः किं पुनर्हर ॥ १.२०२.१६ ॥
यस्य बालस्य तिलकः कृतो गौरोचनाख्यया
शर्कराकुष्ठपानञ्च दत्तं स स्याच्च निर्भयः
विषभूतग्रहादिभ्यो व्याधिभ्यो बालकः शिव ॥ १.२०२.१७ ॥
शङ्खनाभिवचाकुष्ठलोहानां धारणं सदा
बालानामुपसर्गेभ्यो रुद्र रक्षाकरं भवेत् ॥ १.२०२.१८ ॥
पलाशचूर्णं समधु गव्याज्यामलकान्वितम्
सविडङ्गं पीतमात्रं नरं कुर्यान्महामतिम् ॥ १.२०२.१९ ॥
मासैकेन महादेव जरामरणवर्जितः ॥ १.२०२.२० ॥
पलाशबीजं सघृतं तिलमध्वन्वितं समम्
सप्ताहं भक्षितं रुद्र जरां नयति संक्षयम् ॥ १.२०२.२१ ॥
रुद्रामलकचूर्णं वै मधुतैल घृतान्वितम्
जग्ध्वा मासं युवा स्याच्च नरो वागीश्वरी भवेत् ॥ १.२०२.२२ ॥
शिवामलकचूर्णं वै मधुना उदकेन वा
बलानि कुर्यान्नासायाः प्रत्यूषे भक्षितं शिव ॥ १.२०२.२३ ॥
कुष्ठचूर्णं साज्यमधु प्रातर्जग्ध्वा भवेन्नरः
साक्षात्सुरभिदेहो वै जीवेद्वर्षसहस्रकम् ॥ १.२०२.२४ ॥
माषस्य विदलान्ये वितुषाणि महेश्वर
घृतभावितशुष्काणि पयसा साधितानि वै ॥ १.२०२.२५ ॥
समाध्वाज्यपयोभिश्च भक्षयित्वा च कामयेत्
स्त्रीणां शतं महादेव तत्क्षणान्नात्र संशयः ॥ १.२०२.२६ ॥
रसश्चैरण्डतैलेन गन्धकेन शुभो भवेत्
त्रिकालोदकसंघुष्टो बलकृद्भक्षणाद्भवेत् ॥ १.२०२.२७ ॥
दुग्धं वितुषमाषैश्च शिम्बाबीजैश्च साधितम्
अपामार्गस्य तैलेन पीतं स्त्रीशतकामकृत् ॥ १.२०२.२८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नानाविधोषधप्रयोगानिरूपणं नाम द्व्युत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २०३
हरिरुवाच
या गौर्द्वेष्टिं स्वकं वत्सं तस्या देयं स्वकं पयः
लवणेन समायुक्तं तस्या वत्सः प्रियो भवेत् ॥ १.२०३.१ ॥
शुनोऽस्थि कण्ठबद्धं हि महिषाणां गवा तथा
कृमिजालं पातयति सकलं नात्र संशयः ॥ १.२०३.२ ॥
गोजङ्गनाभिपातः स्याद्गुञ्जामूलस्य भक्षणात् ॥ १.२०३.३ ॥
वरुणफलस्यरसं करेण मथितं शिव
चतुष्पादद्विपदयोः कृमिजालं निपातयेत् ॥ १.२०३.४ ॥
व्रणञ्च शमयेद्रुद्र जयायाः पूरणात्तथा
गजमूत्रस्य वै पानं गोमहिष्युपसर्गनुत् ॥ १.२०३.५ ॥
समसूर शालिबीजं पीतं तक्रेण घर्षितम्
क्षीरे गोमहीषस्यैव गोः पुंसश्च हितं भवेत् ॥ १.२०३.६ ॥
पत्रञ्च शरपुङ्खाया दत्तं सलवणं शिव
वारिस्फोटं हयानाञ्च केसराणां विनाशयेत् ॥ १.२०३.७ ॥
घृतकुमारीपत्रमेव दत्तं सलक्षणं हर
तुरगमकेसराणां कण्डूनंश्येन्न संशयः ॥ १.२०३.८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नानौषधप्रयोगनिरूपणं नाम त्र्युत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २०४
सूत उवाच [SUTA SAID]
एवं धन्वन्तरिः प्राह सुश्रुतायच वैद्यकम्
अत नामानि वक्ष्यामि ओषधीनां समासतः ॥ १.२०४.१ ॥
स्थिरा विदारिगन्धा च शालपण्यशुमत्यपि
लाङ्गली कलसी चैव क्रोष्टुपुच्छा गुहा मता ॥ १.२०४.२ ॥
पुनर्नवाथ पर्षाभूः कठिल्या कारुणा तथा
एरण्डश्चोरुवूकः स्यादामर्दो वर्धमानकः ॥ १.२०४.३ ॥
झषा नागबला ज्ञेया श्वदंष्ट्रा गोक्षुरो मतः
शतावरी वरा भीरु पीवरीन्दीवरी वरी ॥ १.२०४.४ ॥
व्याघ्री तु बृहती कृष्णा हंसपादी मधुस्त्रवा
धामनी कण्टकारी स्यात्क्षुद्रा सिंही निदिग्धिका ॥ १.२०४.५ ॥
वृश्चिका त्र्यमृता काली विषघ्नी सर्पदंष्ट्रिका
मर्कटी चात्मगुप्ता स्यादार्षेयी कपिकच्छुका ॥ १.२०४.६ ॥
मुद्गपर्णो क्षुद्रसहा माषपर्णो महासहा
त्यजा परा च महा ज्ञेया दण्डयोन्यङ्कसंज्ञया
न्यग्रोधस्तु वटो ज्ञेयः अश्वत्थः कपिलो मतः ॥ १.२०४.७ ॥
प्लक्षोऽथ गर्दभाण्डः स्यात्पर्कटी च कपीतनः
पार्थस्तु ककुभो धन्वि विज्ञेयोर्ऽजुननामभिः ॥ १.२०४.८ ॥
नन्दीवृक्षः प्ररोही स्यात्पुष्टिकारीति चोच्यते
वञ्जुलो वेतसो ज्ञेयो भल्लातश्चाप्यरुष्करः ॥ १.२०४.९ ॥
लोध्रः सारवको धृष्टस्तिरीटश्चापि कीर्तितः
बृहत्फला महाजम्बूर्ज्ञेया बालफला परा ॥ १.२०४.१० ॥
तृतीया जलजम्बूः स्यान्नादेयी सा च कीर्तिता
कणा कृष्णोपकुञ्ची च शौण्डी मागधिकेति च ॥ १.२०४.११ ॥
कथिता पिप्पली तज्ज्ञैस्तन्मूलं ग्रन्थिकं स्मृतम्
ऊषणं मरिचं ज्ञेयं शुण्ठी विश्वं महौषधम् ॥ १.२०४.१२ ॥
व्योषं कटुत्रयं विद्यात्त्र्यूषणं तच्च कीर्त्यते
लाङ्गली हलिनी च स्याच्छेयसी गज पिप्पली ॥ १.२०४.१३ ॥
त्रायन्ती त्रायमाणा स्यादुत्साया सुवहा स्मृता
चित्रकः स्याच्छिखी वह्निरग्निसंज्ञाभिरुच्यते ॥ १.२०४.१४ ॥
षड्ग्रन्थोग्रा वचा ज्ञेया श्वेता हैमवतीति च
कुटजो वृक्षकः शक्रो वत्सको गिरिमाल्लिका ॥ १.२०४.१५ ॥
कलिङ्गेन्द्रयवारिष्टं तस्य बीजानि लक्षयेत्
मुस्तक्तो मेघनामा स्यात्कौन्ती ज्ञेया हरेणुका ॥ १.२०४.१६ ॥
एला च बहुला प्रोक्ता सूक्ष्मैला च तथा त्रुटिः
पद्मा भार्ङ्गो तथा काञ्जी ज्ञेया ब्राह्मणयष्टिका ॥ १.२०४.१७ ॥
मूर्वा मधुरसा ज्ञेया तेजनी तिक्तवल्लिका
महानिम्बो बृहन्निम्बो दीप्यकः स्याद्यवानिका ॥ १.२०४.१८ ॥
विडङ्गं क्रिमशत्रुः स्याद्रामठं हिङ्गुरुच्यते
अजाजी जीरकं ज्ञेया कारवी चोपकुञ्चिका ॥ १.२०४.१९ ॥
विज्ञेया कटुका तिक्ता तथा कटुकरोहिणी
तगरं स्यान्नतं वक्रं चोचं त्वचवराङ्गकम् ॥ १.२०४.२० ॥
उदीच्यं बालकं प्रोक्तं ह्रीबेरं चाम्बुनामभिः
पत्रकं दलसंज्ञाभिश्चारकं तस्कराह्वयम् ॥ १.२०४.२१ ॥
हेमाभं नागसंज्ञाभिर्नागकेशर उच्यते
असृक्कुङ्कुममाख्यातं तथा काश्मीरबाह्लिकम् ॥ १.२०४.२२ ॥
अयो लोहं समुद्दिष्टं यौगिकैर्लोहनामभिः
पुरं कुटनटं विद्यान्महिषाक्षः पलङ्कषा ॥ १.२०४.२३ ॥
काश्मरी कट्फला ज्ञेया श्रीपर्णो चेति कीर्तिता
शल्लकी गजभक्ष्या च पत्री च सुरभी स्त्रवः ॥ १.२०४.२४ ॥
धात्रीमामलकीं विद्यादक्षश्चैव विभीतकः
पथ्याभया च विज्ञेया पूतना च हरीतकी ॥ १.२०४.२५ ॥
त्रिफला फलमेवोक्ता तच्च ज्ञेयं फलत्रिकम्
उदकीर्यो दीर्घवृन्तः करञ्जश्चेति कीर्तितः ॥ १.२०४.२६ ॥
यष्टी यष्ट्याह्वयं प्रोक्तं मदुकं मधुयष्टिका
धातकी ताम्रपर्णो स्यात्समङ्गा कुञ्जरा मता ॥ १.२०४.२७ ॥
सितं मलयजं शीतं गोशीर्षं सितचन्दनम्
विद्याद्रक्तं चन्दनं च द्वितीयं रक्तचन्दनम् ॥ १.२०४.२८ ॥
काकोली च स्मृता वीरा वयस्या चार्कपुष्पिका
शृङ्गी कर्कटशृङ्गी च महाघोषा च कीर्तिता ॥ १.२०४.२९ ॥
तुगाक्षीरी शुभा वांशी विज्ञेया वंशलोचना
मृद्विका च स्मृता द्राक्षा तथा गोस्तनिका मता ॥ १.२०४.३० ॥
स्यादुशीरं मृणालञ्च सेव्यं लामज्जकं तथा
सारञ्च गोपवल्ली च गोपी भद्रा च कथ्यते ॥ १.२०४.३१ ॥
दन्ती कटङ्कटेरी च ज्ञेया दारुनिशेति च
हरिद्रा रजनी प्रोक्ता पीतिका रात्रिनामिका ॥ १.२०४.३२ ॥
वृक्षादनी छिन्नरुहा नीलवल्ली रसामृता
वसुकोटश्च विज्ञेयो वाशिरः काम्पिल्लो मतः ॥ १.२०४.३३ ॥
पाषाणभेदकोऽरिष्टो ह्यस्मभित्कुट्टभेदकः
घण्टाकः शुष्कको ज्ञेयो वचोऽथ सूचको मतः ॥ १.२०४.३४ ॥
सुरसो बीजकश्चैव पीतशालोऽभिधीयेत
वज्रवृक्षो महावृक्षः स्नुही स्नुक्च सुधा गुडा ॥ १.२०४.३५ ॥
तुलसीं सुरसां विद्यादुपस्थेति च कथ्यते
कुठेरकोऽप्यर्जुनकः पर्णो सौगन्धिपर्णिक्रः ॥ १.२०४.३६ ॥
नीलश्च सिन्धुवारश्च निर्गुण्डीति सुगन्धिका
ज्ञेया सुगन्धिपर्णोति वासन्ती कुलजेति च ॥ १.२०४.३७ ॥
कालीयकं पीतकाष्ठं कतकाख्यः पुनः स्मृतः
गायत्रीखदिरो ज्ञेयस्तद्भेदः कन्दरो मतः ॥ १.२०४.३८ ॥
इन्दी वरं कुवलयं पद्मं नीलोत्पलं स्मृतम्
सौगन्धिकं शतदलमब्जं कमलमुच्यते ॥ १.२०४.३९ ॥
अजवर्णो भवेदूर्जो वाजिकर्णोऽश्वकर्णकः
श्लेष्मान्तकस्तथा शेलुर्बहुवारश्च कथ्यते ॥ १.२०४.४० ॥
सुनन्दकः ककुद्भद्रं छत्राकी छत्रसंज्ञका
कबरी कुम्भको धृष्टः क्षुद्विधो धनकृत्तथा ॥ १.२०४.४१ ॥
कृष्णार्जकः करालश्च कालमानः प्रकीर्तितः
प्राची बला नदीक्रान्ता काकजङ्घाथ वायसी ॥ १.२०४.४२ ॥
ज्ञेया मूषिकपर्णो तु भ्रमन्ती चाखुपर्णिका
विषमुष्टिर्द्रावणञ्च केशमुष्टिरुदाहृता ॥ १.२०४.४३ ॥
किंलिहीं कटुकीं विद्यादन्तकश्चाम्लवेतसः
अश्वत्था बहुपत्रा च विज्ञेया चामलक्यपि ॥ १.२०४.४४ ॥
अरूषक्रं पत्र शूकं क्षीरी राजादनं मतम्
महापत्रं दाडिमं च तमेव करकं वदेत् ॥ १.२०४.४५ ॥
मसूरी विदली शष्पा कालिन्दीति निरुच्यते
कण्टकाख्या महाश्यामा वृक्षपादीति वक्ष्यते ॥ १.२०४.४६ ॥
विद्या कुन्ती निकुम्भा च त्रिभङ्गी त्रिपुटी त्रिवृत्
सप्तला यवतिक्ता च चर्मा चर्मकसेति च ॥ १.२०४.४७ ॥
शङ्खिनी सुकुमारी च तिक्ताक्षी चाक्षिपीलुकम्
गवाक्षी चामृता श्वेता गिरिकर्णो गवादिनी ॥ १.२०४.४८ ॥
काम्पिल्लकोऽथ रक्ताङ्गो गुण्डा रोचनिकेति च
हेमक्षीरी स्मृता पीता गौरी वै कालदुग्धिका ॥ १.२०४.४९ ॥
गाङ्गेरुकी नागबला विशाला चेन्द्रवारुणी
तार्क्ष्यं शैलं नीलवर्णमञ्जनञ्च रसाञ्जनम् ॥ १.२०४.५० ॥
निर्यासो यश्च शाल्मल्याः स मोचरससंज्ञकः
प्रत्यक्पुष्पी खरी ज्ञेया अपामार्गो मयूरकः ॥ १.२०४.५१ ॥
सिंहास्यवृषवासाकमाटरूषकमादिशेत्
जीवको जीवशाकश्च कर्बुरञ्च शटीं विदुः ॥ १.२०४.५२ ॥
कट्फलं सोमवृक्षः स्यादग्निगन्धा सुगन्धिका
शताङ्गं शतपुष्पा च मिंसिर्मधुरिकामता ॥ १.२०४.५३ ॥
ज्ञेयं पुष्करमूलञ्च पुष्करं पुष्कराह्वयम्
यासोऽथ धन्वयासश्च दुष्पर्शोऽथ दुरालभा ॥ १.२०४.५४ ॥
वाकुची सोमराजी च सोमवल्लीति कीर्तिता
मार्कवः केशराजश्च भृङ्गराजो निगद्यते ॥ १.२०४.५५ ॥
प्रोक्तस्त्वेडगजस्तज्ज्ञैश्चक्रमर्दकसंज्ञखः
सुरङ्गीतगरः स्नायुः कलनाशा तु वायसी ॥ १.२०४.५६ ॥
महाकालः स्मृतो बेलस्तण्डुलीयो घनस्तनः
इक्ष्वाकुस्तिक्ततुम्बी स्यात्तिक्तालबुर्निगद्यते ॥ १.२०४.५७ ॥
धामार्गवोऽथ कोषातक्यथ यामिनी
विद्यात्कोशतकीभेदं कृतभेदनसंज्ञका ॥ १.२०४.५८ ॥
तथा जीमूतकाख्या च खुड्डाको देवताडकः
गृध्रनखी गृध्रनखी हिङ्गुकाकादनी मता ॥ १.२०४.५९ ॥
अश्वारिश्चैव बोद्धव्यः करवीरोऽश्वमारकः
सिन्धुः सैन्धवसिन्धूत्थमणिमन्थमुदाहृतम् ॥ १.२०४.६० ॥
क्षारो यवाग्रजश्चैव यवक्षारोऽभिधीयते
सर्जिका सर्जिकाक्षारो द्वितीयः परिकीर्तितः ॥ १.२०४.६१ ॥
काशीशं पुष्पकाशीशं विज्ञेयं नेत्त्रभेषजम्
धातुकाशीशकाशी च संज्ञेयं तच्च कीर्तितम् ॥ १.२०४.६२ ॥
सौराष्ट्री मृत्तिकाक्षारं काक्षी वै पङ्कपर्पटी
विद्यात्समाक्षिकं धातु ताप्यं ताप्युत्थसम्भवम् ॥ १.२०४.६३ ॥
शिला मनः शिला ज्ञेया नेपाली कुलटीति च
आलं मनस्तालकं वा हरितालं विनिर्दिशेत् ॥ १.२०४.६४ ॥
गन्धको गन्धपाषाणो रसः पारद उच्यते
ताम्रमौदुम्बरं शुल्बं विद्यान्म्लेच्छमुखं तथा ॥ १.२०४.६५ ॥
अद्रिसारस्त्वयस्तीक्ष्णं लोहकञ्चापि कथ्यते
माक्षिकं मधु च क्षौद्रं तच्च पुष्परसं स्मृतम् ॥ १.२०४.६६ ॥
ज्येष्ठन्तु सोदकं तत्स्यात्काञ्जिकन्तु सुवीरकम्
सीता सितोपला चैव मत्स्यण्डीशर्करा स्मृता ॥ १.२०४.६७ ॥
त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम्
नागकेशरसंयुक्तं तच्चतुर्जातमिष्यते ॥ १.२०४.६८ ॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः
कथितं पञ्चकोलञ्च कोलकं कोलसंज्ञया ॥ १.२०४.६९ ॥
प्रियङ्गुः कङ्गुका ज्ञेया कोरदूषश्च कोद्रवः
त्रिपुटः पुटसंज्ञश्च कलापो लङ्गको मतः ॥ १.२०४.७० ॥
सतीनो वर्तुलश्चैव वेणुश्चापि प्रकीर्तितः
पिचुकं पितलं चाक्षं बिडालपदकं तथा ॥ १.२०४.७१ ॥
विद्यात्कर्षं तथा चापि सुवर्णं कवलग्रहम्
पलार्धं शुक्तिमिच्छन्ति तथाष्टौमाषकास्त्विति ॥ १.२०४.७२ ॥
पलं बिल्वञ्च मुष्टिः स्याद्द्वे पले प्रसृतिं वदेत्
अञ्जलिं कुडवञ्चैव विद्यात्पलचतुष्टयम् ॥ १.२०४.७३ ॥
अष्टमानं पलान्यष्टौ तच्च मानमिति स्मृतम्
चतुर्भिः कुडवैः प्रस्थ प्रस्थाश्चत्वार आढकः ॥ १.२०४.७४ ॥
काशपात्रञ्च संप्रोक्तो द्रोणश्चचतुराढके
तुला पलशतं प्रोक्तं भागो विंशत्पलः स्मृतः ॥ १.२०४.७५ ॥
मानमेवं विधं प्रोक्तं प्रस्थद्रव्येषु पण्डितैः
द्रवद्रव्येषु चोद्दिष्टं द्विगुणं परिकीर्तितम् ॥ १.२०४.७६ ॥
भद्रदारु देवकाष्ठं दारु स्याद्देवदारुकम्
कुष्ठमामयमाख्यातं मांसीञ्च नलदंशनम् ॥ १.२०४.७७ ॥
शङ्खः शुक्तिनखः शङ्खो व्याघ्रो व्याघ्रनखः स्मृतः
पुरं पलङ्कषं विद्यान्महिषाक्षञ्च गुग्गुलुः ॥ १.२०४.७८ ॥
रसो गन्धरसो बोले सर्जः सर्जरसो मतः
प्रियङ्गुः फलिनी श्यामा गौरी कान्तेति चोच्यते ॥ १.२०४.७९ ॥
करञ्जौ नक्तमालः स्यात्पूतिकश्चिरबिल्वकः
शिग्रुः शोभाञ्जनो नाम ज्ञानमानश्च कीर्तितः ॥ १.२०४.८० ॥
जया जयन्ती शरणी निर्गुण्डी सिन्धुवारकः
मोरटा पीलुपर्णो च तुण्डी स्यात्तुण्डिकेरिका ॥ १.२०४.८१ ॥
मदनो गालवो बोधो घोटा घोटी च कथ्यते
चतुरङ्गुल सम्पाको व्याधिघाताभिसंज्ञकः ॥ १.२०४.८२ ॥
विद्यादारग्वधं राजवृक्षं रैवतसंज्ञकम्
दन्ती काकेन्दुतिक्ता स्यात्कण्टकी च विकङ्कतः ॥ १.२०४.८३ ॥
निम्बोऽरिष्टः समाख्यातः पटोलं कोलकं विदुः
वयस्था च विशल्या च च्छिन्ना छिन्नरुहा मता ॥ १.२०४.८४ ॥
वशा दन्त्यमृता चेति गुडूचीनामसंग्रहः
किराततिक्तकश्चैव भूनिम्बः काण्डतिक्तकः ॥ १.२०४.८५ ॥
सूत उवाच [SUTA SAID]
नामान्येतानि च हरे वन्यानां भेषजां तथा
अतो व्याकरणं वक्ष्ये कुमारोक्तञ्च शौनक ॥ १.२०४.८६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चतुरत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २०५
कुमार उवाच
अथ व्याकरणं वक्ष्ये कात्यायन समासतः
सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥ १.२०५.१ ॥
सुप्तिङन्तं पदं ख्यातं सुपः सप्त विभक्तयः
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥ १.२०५.२ ॥
सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ॥ १.२०५.३ ॥
अमौशसो द्वितीया स्यात्तत्कर्म क्रियते च यत्
द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुते ॥ १.२०५.४ ॥
टाभ्यांभिसस्तृतीया स्यात्करणे कर्तरीरिता
येन क्रियते करणं तत्कर्ता यः करोति सः ॥ १.२०५.५ ॥
ङेभ्यांभ्यसश्चतुर्थो स्यात्सम्प्रदाने च कारके
यस्मै दित्सा धारयते रोचते सम्प्रदानकम् ॥ १.२०५.६ ॥
पञ्चमी स्यान्ङसिभ्यांभ्योह्यपादाने च कारके
यतोऽपैति समादत्ते उपादत्ते भयं यतः ॥ १.२०५.७ ॥
ङसोसामश्च षष्ठी स्यात्स्वामिसम्बन्धमुख्यके
ङयोः सुपो वै सप्तमी स्यात्सा चाधिकरणे भवेत् ॥ १.२०५.८ ॥
आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ १.२०५.९ ॥
पञ्चमी पर्युपाङ्योगे इतरर्तेऽन्यदिङ्मुखे
एनयोगे द्वितीया स्यात्कर्मप्रवचनीयकैः ॥ १.२०५.१० ॥
वीप्सेत्थम्भावचिह्नेऽभिर्भागेनैव परिप्रती
अनुरेषु सहार्थे च हीनेऽनूपश्च कथ्यते ॥ १.२०५.११ ॥
द्वितीया च चतुर्थो स्याच्चेष्टायां गतिकर्मणि
अप्राणे हि विभक्ती द्बे मन्यकर्मण्यनादरे ॥ १.२०५.१२ ॥
नमः स्वस्तिस्वधास्वाहालंवषड्योग ईरिता
चतुर्थो चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ १.२०५.१३ ॥
तृतीया सहयोगे स्यात्कुत्सितेङ्गे विशेषणे
काले भावे सप्तमी स्यादेतैर्योगेऽपिषष्ठ्यति ॥ १.२०५.१४ ॥
स्वामीश्वराधिपतिभिः साक्षिदायादप्रसूतैः
निर्धारणे द्वे विभक्तो षष्ठी हेतुप्रयोगके ॥ १.२०५.१५ ॥
स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके
हिंसार्थानां प्रयोगे च कृति कर्मणि कर्तरि ॥ १.२०५.१६ ॥
न कर्तृकर्मणोः षष्ठी निष्ठयोः प्रातिपदिके
द्विविधं प्रातिपदिकं नाम धातुस्तथैव च ॥ १.२०५.१७ ॥
भूवान्दिभ्यस्तिङो लः स्याल्लकारा दश वै स्मृताः
तिप्तसूझि प्रथमो मध्यः सिप्थस्थोत्तमपूरुषः ॥ १.२०५.१८ ॥
मिब्वस्मस्तु परस्मै हि पदानां चात्मनेपदम्
ताताञ्झ प्रथमो मध्य स्थासाथान्ध्वमथोत्तमः ॥ १.२०५.१९ ॥
आदेशा इड्बहिमहि धातुतोथ णिजादिवत्
नाम्नि प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत् ॥ १.२०५.२० ॥
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि
भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथा ततः ॥ १.२०५.२१ ॥
लडीरितो वर्तमाने स्मेनातीते च धातुतः
भूतेऽनद्यतने लङ्वा लोडाद्याशिषि धातुतः ॥ १.२०५.२२ ॥
विध्यादावेवानुमतो लोड्वाच्यो मन्त्रणे भवेत्
निमन्त्रणाधीष्टसंप्रश्रे प्रार्थनेषु तथाशिषि ॥ १.२०५.२३ ॥
लिङतीते परोक्षे स्याल्लिड्भूते ळड्भविष्यति
स्यादनद्यतने तद्वद्भविष्यति तु धातुतः ॥ १.२०५.२४ ॥
दातोरॢङ्क्रियातिपत्तौ लिङर्थे लेट्प्रकीर्तितः
कृतस्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्तरि ॥ १.२०५.२५ ॥
सदृशास्तव्यता ण्यद्यदनीयाश्च तृजादयः ॥ १.२०५.२६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्याकरणनिरूपणं नाम पञ्चोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २०६
सूत उवाच [SUTA SAID]
सिद्धोदाहरणं वक्ष्ये संहितादिपुरः सरम्
विप्राः स्वसागता वीदं सुत्तमं स्यात्पितॄषभः ॥ १.२०६.१ ॥
ळकारो विश्रुता सेवं लाङ्गलीषा मनीपया
गङ्गोदकं तवल्कार ऋणार्णं प्रार्णमित्यपि ॥ १.२०६.२ ॥
शीतार्तश्च तवल्कारः सैन्द्री सौकार इत्यपि
वध्वासनञ्च पित्रर्थो लनुबन्धो नये जयेत् ॥ १.२०६.३ ॥
नायको लवणं गावस्त एते न त ईश्वराः
देवीगृहमथो अत्र अ अवेहि पटू इमौ ॥ १.२०६.४ ॥
अमी अश्वाः षडस्येति तन्न वाक्षड्दलानि च
तच्चरेत्तल्लु नातीति तज्जलं तच्छ्मशानकम् ॥ १.२०६.५ ॥
सुगन्नत्र पचन्नत्र भवांश्छादयतीति च
भवाज्झनत्करश्चैव भवांस्तरति संस्मृतम् ॥ १.२०६.६ ॥
भवांल्लिखति ताञ्चक्रे भवाञ्शेतेऽप्यनीदृशः
भवाण्डीनं त्वन्तरसि त्वङ्करोषि सदार्चनम् ॥ १.२०६.७ ॥
कश्चरेत्कष्टकारेण क कुर्यात्क फले स्थितः
कःशेते चैव कःषण्डः कस्को याति च गौरवम् ॥ १.२०६.८ ॥
क इहात्र क एवाहुर्देवा आहुश्च भो व्रज
स्वभूर्विष्णुर्व्रजति च गीष्पतिश्चैव धूर्पतिः ॥ १.२०६.९ ॥
अस्मानेष व्रजेत्सस्यादृक्साम स च गच्छति
कुटीच्छाया तथा छाया सन्धयोऽन्ये तथेदृशाः ॥ १.२०६.१० ॥
समासाः षट्समाख्याताः स द्विजः कर्मधारयः
द्विगुस्त्रिवेदी ग्रामश्च अयं तत्पुरुषः स्मृतः ॥ १.२०६.११ ॥
तत्कृतश्च तदर्थश्च वृकभीतिश्च यद्धनम्
ज्ञानदक्षेण तत्त्वज्ञो बहुव्रीहिरथाव्ययी ॥ १.२०६.१२ ॥
भावोऽधिस्त्रि यथोक्तं तु द्वन्द्वो देवर्षिमानवाः
तद्धिताः पाण्डवः शैवो ब्राहयं च ब्रह्मतादयः ॥ १.२०६.१३ ॥
देवाग्निसखिपत्यंशुक्रोष्टुस्वायम्भुवः पिता
ना प्रशस्ताश्चरा गौर्ग्लौरबजन्ताश्च पुंस्यपि ॥ १.२०६.१४ ॥
हलन्तश्चाश्वयुक्क्ष्माभुङ्मरुत्क्रव्यान्मृगाविधः
आत्मा राजा युवा पन्थाः पूषब्रह्महणौ हली ॥ १.२०६.१५ ॥
विड्वे धा उशनानड्वान्मधुलिट्काष्ठतट्तथा
बनवार्यस्थिवस्तूनि जगत्सामाहनी तथा ॥ १.२०६.१६ ॥
कर्मसर्पिर्वपुस्तेज अज्झलन्ता नपुंसके
जाया जरा नदी लक्ष्मीः श्रीस्त्रीभूमिर्वधूरपि ॥ १.२०६.१७ ॥
भ्रूः पुनर्भूस्तथा धेनुः स्वसा माता च नौ स्त्रियः
वाक्स्रग्दिङ्मुत्क्रुधः प्रायो युवतिः कुकुभस्तथा ॥ १.२०६.१८ ॥
द्योदिवौ प्रावृषश्चैव सुमान उष्णिगस्त्रियाम्
गुणद्रव्यक्रियायोगात्स्त्रीलिङ्गांश्च वदामि ते ॥ १.२०६.१९ ॥
शुक्लकीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः
पटुः कमलभूः कर्ता सुमतो बहवः सुनौः ॥ १.२०६.२० ॥
सत्या नाग्न्यस्तथा पुंसो ह्यभक्षयत दीर्घपात्
सर्वविश्वोभ ये चोभौ एकोन्यान्यतराणि च ॥ १.२०६.२१ ॥
डतरो डतमो नेमस्त्वः समोऽथ सिमेतरौ
पूर्वश्चैवाधरश्चैव दक्षिणश्चोत्तरावरौ ॥ १.२०६.२२ ॥
परश्चान्तरमप्येतद्यत्त्यत्किमदसस्त्विदम्
युष्मदस्मत्तत्प्रथमचरमाल्पतयार्धकाः ॥ १.२०६.२३ ॥
तथा कतिपयो द्वौ चेत्येवं सर्वादयस्तथा
शृणोत्याद्या जुहोतिश्च जहातिश्च दधात्यपि ॥ १.२०६.२४ ॥
दीप्यतिः स्तूयतिश्चैव पुत्त्रीयति धनीयति
त्रुट्यति म्रियते चैव चिचीषति निनीषति ॥ १.२०६.२५ ॥
सर्वे तिष्ठन्ति सर्वस्मै सर्वस्मात्सर्वन्तो गतः
सर्वेषां चैव सर्वस्मिन्नेवं विश्वादयस्तथा ॥ १.२०६.२६ ॥
पूर्वे पूर्वाश्च पूर्वस्मात्पूर्वस्मिन्पूर्व ईरितः
सूत उवाच [SUTA SAID]
सुप्तिङन्तुं सिद्धरूपं नाममात्रेण दर्शितम्
कात्यायनः कुमारात्तु श्रुत्वा विस्तरमब्रवीत् ॥ १.२०६.२७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमानाचारदृ नाम षडुत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २०७
सूत उवाच [SUTA SAID]
वासुदेवं गुरुं नत्वा गणं शम्भुं सरस्वतीम्
मात्रावर्णप्रभेदेन च्छन्दो वक्ष्येऽल्पबुद्धये ॥ १.२०७.१ ॥
सर्वादिमध्यान्तगलौ म्नौ भ्यौ ज्रौ स्तौ त्रिका गणाः
आर्या चतुष्कलाद्यन्तसर्वमध्ये चतुर्गणाः ॥ १.२०७.२ ॥
व्यञ्जनान्तो विसर्गान्तौ दीर्घो युक्तपरो गुरुः
सानुस्वारश्च पादान्तो वा इत्युक्तो द्विमात्रकः ॥ १.२०७.३ ॥
यदा नापि क्रमं योगे लघुतापि क्वचिद्गुरोः
श्लोकचार्यादिसंज्ञा स्याद्यतिर्विच्छेदसंज्ञिका ॥ १.२०७.४ ॥
ज्ञेयः पादश्च तुर्यांशो युक्समं विषमन्त्वयुक्
सममर्धसमं वृत्तं विषमञ्च तृतीयकम् ॥ १.२०७.५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे छन्दः शास्त्रेछन्दःसंज्ञापरिभाषानिरूपणं नाम सप्तोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २०८
सूत उवाच [SUTA SAID]
आर्यालक्ष्म त्वष्ट गणाः सदा जो विषमे न हि
षष्ठे जो न्लौ वापि भवेत्पदं षष्ठे द्वितीयलात् ॥ १.२०८.१ ॥
आदितः सप्तमे ह्रस्वा द्वितीयार्धे शरे ततः
त्रिगणाङ्घ्रिश्च पथ्या स्याद्विपुला वह्निलङ्घनात् ॥ १.२०८.२ ॥
ग्मध्ये द्वितुर्यौ जौ चपला मुखपूर्वादिचापला
द्वितीयार्धे सजघना आर्याजातेश्च लक्षणम् ॥ १.२०८.३ ॥
आर्या प्रथमार्धलक्ष्म गीतिः स्याच्चेद्दलद्वये
उपगीतिर्द्वितीयार्धादुद्गीतिर्व्यत्ययाद्भवेत् ॥ १.२०८.४ ॥
आर्यागीतिश्चान्तगुरुर्गोतिजातेश्च लक्षणम्
षट्कला विषमे चेत्स्युः समेऽष्टौ न निरन्तराः
समा पराश्रिता न स्याद्वैतालीये रलौ गुरुः ॥ १.२०८.५ ॥
अन्तेर्यौ पूर्ववदिदमौपच्छन्दसिकं मतम् ॥ १.२०८.६ ॥
भाद्गौ स्यादापातलिका ज्ञेयाथो दक्षिणान्तिका
पराश्रितो द्वितीयो लः पादेषु निखिलेष्वपि ॥ १.२०८.७ ॥
उदीच्यवृत्तिरसमे प्राच्यवृत्तिस्तु युग्मके
सपञ्चमश्चतुर्थांशे युगपत्तौ प्रवृत्तकम् ॥ १.२०८.८ ॥
उदीच्याद्यङ्घ्रिसंयोगाद्युग्मपादैकपादिका
चारुहासिन्ययुग्माङ्घ्रौ वैतालीयस्य संग्रहः ॥ १.२०८.९ ॥
वक्त्रं नाद्यान्नसौ स्यातां चतुर्थाद्यगणो भवेत्
पथ्यावक्त्रं जेन समे विपरीतादिरन्यथा ॥ १.२०८.१० ॥
उसमे नश्च चपला विपुला लघुसप्तमा
निखिले वा सैतवस्य म्रौ न्तौ चाब्धेस्तत्पूर्वकौ ॥ १.२०८.११ ॥
षोडशलोऽचलधृतिर्मात्रासमकमुच्यते ॥ १.२०८.१२ ॥
नवमलस्तथा गोऽन्त्यः जो न्लौवाथाम्बुधेर्यथा
विश्लोकः स्यात्तच्चतुष्कद्विगुणाद्वानवासिका ॥ १.२०८.१३ ॥
बाणाष्टनवकेषु स्याल्लश्चित्रा षोडशात्मिका
सममात्रासमादिष्टं पदाकुलकमीरितम् ॥ १.२०८.१४ ॥
वृत्तमात्रा विना वर्णैर्ला वर्णा गुरुभिर्विना
गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ १.२०८.१५ ॥
अष्टाविंशातिला गन्ता प्रथमार्धे द्वितीयके
त्रिंशदस्यां शिखा गन्ता खञ्जातद्व्यत्ययाद्भवेत् ॥ १.२०८.१६ ॥
षोडशानङ्गक्रीडा गा द्वात्रिंशच्चरमे च लाः
सप्तविंशातिला गन्ता दलयो रुचिरा द्वयोः ॥ १.२०८.१७ ॥
मात्रावृत्तानि चोक्तानि वर्णवृत्तानि वच्मि वै ॥ १.२०८.१८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे छन्दः शास्त्रे आर्यावृत्तादिछन्दोलक्षणनिरूपणं नामाष्टोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २०९
सूत उवाच [SUTA SAID]
श्रीरुक्था गेन सा ज्ञेया उत्युक्था स्त्री गुरुद्वयम्
मो नारी रो मृगी मध्या मगौ कन्या प्रतिष्ठया ॥ १.२०९.१ ॥
भो गौ पङ्क्तिः सुप्रातिष्ठा तनुमध्या तयौ स्मृता
नयाभ्यां बालललिता गायत्रीच्छन्द एव हि ॥ १.२०९.२ ॥
मसगैर्मदलेखा स्यादुष्णिक्छन्दः स्मृतं बुधैः
भौ गौ चित्रपदा ख्याता विद्युन्माला ममौ गगौ ॥ १.२०९.३ ॥
माणवकं भात्तलगा म्नौ गौ हंसरुतं स्मृतम्
समानिका रजगला जरला गः प्रमाणिका
आभ्यामन्यद्वितानं स्यादनुष्टुप्छन्द ईरितम् ॥ १.२०९.४ ॥
रनसैः स्याद्धलमुखी नौ मः शिशुभृता भवेत्
बृहतीछन्द इत्युक्तं स्मौ जगौ स विराजितम् ॥ १.२०९.५ ॥
पणवं स्यान्मनयगैर्मयूरसारिणी भवेत्
रजाभ्याञ्च रगाभ्याञ्च रुक्मवती भमौ सगौ ॥ १.२०९.६ ॥
मत्ता मभसगैर्युक्ता नरजा गो मनोरमा
पङ्क्तिच्छन्दः समाख्यातं जसता गावुपस्थितम् ॥ १.२०९.७ ॥
तौ जो गाविन्द्रवज्रा स्याज्जतज्गा गुपपूर्विका ॥ १.२०९.८ ॥
उपजातयोऽन्याद्यन्ताः सुमुखी नजजा लगौ
भभभा गौ दोधकं स्याच्छालिनी मतता गगौ ॥ १.२०९.९ ॥
अब्धिलोकैश्च विच्छेदो वातोर्ंमो ममता गगौ
श्रीर्भतौ ननगाः प्रोक्ता पञ्चभिः षडूभिरेव च ॥ १.२०९.१० ॥
मगना नो गो भ्रमरविलासितमुदाहृतम्
रथोद्धतार्नौ रलगाः स्वागता रनभा गगौ ॥ १.२०९.११ ॥
वृत्ता ननौ सगौ गः स्यान्नौ रलौ गः समद्रिका
रजरा ल्गौ श्येनिका स्याज्जसता गौ शिखण्डितम्
त्रिष्टुप्छन्दः समाख्यातं पिङ्गलेन महात्मना ॥ १.२०९.१२ ॥
रनौ भसौ चन्द्रवर्त्म वंशस्थं स्याज्जतौ जरौ
ततो जराविन्द्रवंशा वेदसैस्तोटकं स्मृतम्
न्भौ भ्रौ द्रुतविलम्बितं पुटश्च स्यान्ननौ मयौ ॥ १.२०९.१३ ॥
वसुवेदैश्च विरतिर्मुदितवदना त्वियम्
ननररैः समाख्याता नयना यस्तथा भवेत् ॥ १.२०९.१४ ॥
सा तु कुसुमविचित्रा जलोद्धतगती रसैः
जसौ जसौ च पादेषु चतूरैः स्त्रग्विणी मता ॥ १.२०९.१५ ॥
भुजङ्गप्रयातं वृत्तं चतुभिर्यैः प्रकीर्तितम्
प्रयंवदा नभज्रैश्च मणिमाला तयौ तयौ ॥ १.२०९.१६ ॥
गुहवक्त्रैश्च सन्निद्रा ललिता स्यात्तभौ जरौ
प्रमिताक्षरा सजससैरुज्ज्वला तु ननौ भरौ ॥ १.२०९.१७ ॥
ममौ ययौ वैश्वदेवी पञ्चाश्वैश्च यतिर्भवेत्
मभौ समौ जलधरमालाब्ध्यन्त्यैर्यतिभवेत् ॥ १.२०९.१८ ॥
नौ ततौ गः क्षमावृत्तं तुरगैश्च रसैर्यतिः
प्रहर्षिणी मनौ ज्रौ गा वह्निभिर्दशभिर्यतिः ॥ १.२०९.१९ ॥
जभौ सजौ गो रुचिरा चतुर्भिश्च ग्रहैर्यतिः
मत्तमयूरं मतयाः सगौ देवग्रहैर्यतिः ॥ १.२०९.२० ॥
मञ्जुभाषिणी सज्सा ज्गौ सुनन्दिनी सजसा मगौ
ननौ ततौ चन्द्रिका गः सप्तभिश्च रसैर्यतिः ॥ १.२०९.२१ ॥
असम्बाधा मतनसा गगौ बाणग्रहैर्यतिः
ननराः सो लधुगुरुः स्वरैः प्रोक्तापराजिता ॥ १.२०९.२२ ॥
ननौ भनौ प्रहरणकलिकेयं लगौ तथा
वसन्ततिलका सिंहोन्नता तभ्जा जगौ गुरुः ॥ १.२०९.२३ ॥
भजौ सनौ गगाविन्दुवदनाथ सुकेशरम्
नरना रलगाः पादे शर्करी प्रतिपादिता ॥ १.२०९.२४ ॥
चतुर्दशलघुः स्याच्च श्रेष्ठा शशिकला सगा
रसग्रहयतिः स्रक्स्रा वसुशैलयतिस्तथा ॥ १.२०९.२५ ॥
स्यान्मणिगुणनिकरो मालिनी ननमा ययौ
वसुस्वरयतिः स्याच्च नजौ भज्राः प्रभद्रकम् ॥ १.२०९.२६ ॥
एला सयौ ननौ यःस्याच्चित्रलेखास्वराष्टकैः
मरौ मयौ यश्च भवेदुक्तेयमति शर्करी ॥ १.२०९.२७ ॥
स्वरात्खं वृषभगजजृम्भितं भ्रनना नगौ
नजभजरा वाणिनी गः पिङ्गलेनाष्टिरीरिता ॥ १.२०९.२८ ॥
रसरुद्रैः शिखरिणी यमौ नसभला गुरुः
वसुग्रयतिः पृथ्वी जसौ जसयला गुरुः ॥ १.२०९.२९ ॥
दशस्वरैर्वंशपत्रपतितं भ्रौन्नभा लगौ
षड्वेदाश्वैश्च हरिणी नसमा रसला गुरुः ॥ १.२०९.३० ॥
मन्दाक्रान्तब्धिषड्नगैर्मभनास्ततगा गुरुः
नर्दटकं नजभजा जलौ गो यतिरेव च ॥ १.२०९.३१ ॥
सप्तर्त्वब्धिः कोकिलकमत्यष्टिः स्याच्च पूर्ववत्
भूतर्त्वश्वैः कुसुमितलता म्तौ न्यौ ययौ धृतिः ॥ १.२०९.३२ ॥
रसर्त्वश्वैर्यमौ न्सौ रौ मेघविस्फूर्जिता रगौ
शार्दूलविक्रीडितं मः सूर्यश्वैः सज्सतास्तगौ ॥ १.२०९.३३ ॥
छन्दो ह्यतिधृतिः प्रोक्तमत ऊर्ध्वं कृतिर्भवेत्
सप्ताश्वर्तुः सुवदना भ्रौ मनौ यभला गुरुः ॥ १.२०९.३४ ॥
वृत्तं रजौ रजौ पादे रजौ गो लः कृतिर्भवेत्
त्रिसप्तकैः स्नग्धरा स्यात्प्रकृतिर्म्नभनैस्त्रियैः ॥ १.२०९.३५ ॥
दिगर्कैर्भद्रकं भ्रौ न्रौ नरना गो यथाकृतिः
नजौ भश्वाश्वललितं जभौ जभलगा भवेत् ॥ १.२०९.३६ ॥
मत्ताक्रीडञ्चाष्टबाणदशकैर्मौ तनौ ननौ
नलौ गुरुश्च विकृतिश्छिन्ना संकृतिरुच्यते ॥ १.२०९.३७ ॥
पञ्चाश्वार्कैर्भतौ तन्वी नसभा भनया गणाः
क्रौञ्चपदा बाणशरवसुशैलैर्भमौ सभौ ॥ १.२०९.३८ ॥
नौ नौ गोऽतिकृतिः प्रोक्ता च्छन्दो ह्युत्कृतिरुच्यते
वस्वीशाश्वैर्ममतनैः स्याद्भुजङ्गविजृम्भितम् ॥ १.२०९.३९ ॥
ननरसैर्लगयुक्तैश्च अपवाहाख्यकं यतिः
गुहैः षड्भी रसैर्बाणैर्मोनाः षट्सगगा गणाः ॥ १.२०९.४० ॥
चण्डवृत्तिप्रपातोऽसौ दण्डको नौ ततोऽगरः
रफेवृद्धान्तकादस्य व्यालजीमूतकादयः ॥ १.२०९.४१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे समवृत्तलक्षणादिनिरूपणं नाम नवोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २१०
सूत उवाच [SUTA SAID]
सससलगाश्च विषमे पादे यद्युपचित्रकम्
समे भौ भगगाः स्युश्च द्रुतमध्या भभौ भगौ ॥ १.२१०.१ ॥
गः पादे विषमेऽन्यत्र नजौ ज्यौ च गणौ स्मृतौ ॥ १.२१०.२ ॥
विषमे वेगवती सा गः समे भौ भो गगौ गणाः
पादेऽसमे तजौ रो गः समे मसौ जगौ गरुः
भवेद्भद्रविराट्केतुमती तु विषमे सजौ ॥ १.२१०.३ ॥
सगौ समे भ्रौ नगगा आख्यानकी त्वथासमे
तौ जो गगौ समे पादे जतजा गुरुकद्वयम् ॥ १.२१०.४ ॥
विपरीताख्यानकं स्याद्विषमे जस्तजौ गगौ
ततौ जगौ समे गः स्यात्पिङ्गलेन ह्युदाहृतम् ॥ १.२१०.५ ॥
पादेऽथ विषमे चैव पुष्पिताग्रा ननौ रयौ
समे नजौ जरौ गश्च वैतालीयं वदन्ति हि
वृत्तञ्चापरवक्त्राख्यमौपच्छन्दसिकं परम् ॥ १.२१०.६ ॥
वाङ्मती रजरा यः स्यादयुग्मे जरजा रगौ ॥ १.२१०.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेर्ऽद्धसमवृत्तलक्षणादिनिरूपणं नाम दशोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २११
सूत उवाच [SUTA SAID]
प्रथमोऽष्टाक्षरैः पादो द्वितीयो द्वादशाक्षरैः
तृतीयः षोडशार्णैश्च विंशद्वर्णैश्चतुर्थकः ॥ १.२११.१ ॥
सामान्यलक्षणं पदचतुरूर्ध्वाभिरधस्य हि ॥ १.२११.१ ॥
आपीडः सर्वलः प्रोक्तः पूर्वपादान्तगद्वयः ॥ १.२११.२ ॥
द्वितीयेऽष्टाक्षरैः पादे कलिका प्रथमेर्ऽकजे
लवली स्यात्तृतीयेऽथ पूर्ववच्चाष्ट काक्षरे
प्रोक्ता चामृतधारेयं चतुरष्टाक्षरे सति ॥ १.२११.३ ॥
(इति पदचतुरूर्ध्वप्रकरणम्)
सजौ सलौ च प्रथमे नसजा गो द्वितीयके
तृतीये भनभा गश्च चतुर्थे सजसा जगौ ॥ १.२११.४ ॥
पूर्ववत्स्यात्सौरभकं तृतीयेऽघ्रौ रनौ भगौ
ललितञ्चाद्गतावत्स्यातृतीयेंऽघ्रौ ननौ ससौ ॥ १.२११.५ ॥
(इत्युद्गताप्रकरणम्)
उपस्थितप्रचुपितं प्रथमेऽघ्रौ मसौ जभौ
गौ द्वितीये सनजरा गस्तृतीये ननौ च सः
नौ नजौ यश्चतुर्थे स्याच्छेष पादाश्च पूर्ववत् ॥ १.२११.६ ॥
तृतीर्येऽघ्रौ विशेषश्च वृत्तं स्यान्नौ सनौ नसौ ॥ १.२११.७ ॥
आर्षभं तजराः पादे तृतीयेऽन्यच्च पूर्ववत्
पूर्ववत्प्रथमं शेषे तज्राः शुद्धविराड्भवेत् ॥ १.२११.८ ॥
(इत्युपस्थितप्रचुपितप्रकरणम्)
विषमाक्षरपादं वा पञ्चषट्कादि यावकम्
छन्दोऽत्र नोक्ता गाथेति दशधर्ंमादिवद्भवेत् ॥ १.२११.९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषमवृत्तलक्षणादिनिरूपणं नामैकादशोत्तरद्विशशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २१२
सूत उवाच [SUTA SAID]
प्रस्तार आद्यगोऽथो लः परतुल्योऽथ पूर्वगः
नष्टमध्ये समेंऽके लः समेऽर्धे विषमे गुरुः ॥ १.२१२.१ ॥
प्रतिलोमगुणं लाद्यं द्विरुद्दिष्टक एकनुत् ॥ १.२१२.२ ॥
संख्या द्विरर्धे रूपे तु शून्यं शून्ये द्विरीरितम्
तावदर्धे तद्गुणितं द्विर्द्व्यूनन्तु तदन्ततः ॥ १.२१२.३ ॥
परे पूर्णं परे पूर्णं मेरुः प्रस्तारतो भवेत् ॥ १.२१२.४ ॥
लगसंख्या वृत्तसंख्या चाद्याङ्गुलमथोर्ध्वतः
संख्यैव द्विगुणैकोनाच्छन्दः सारोऽयमीरितः ॥ १.२१२.५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमानाचा छन्दोलक्षणं नाम द्वादशोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २१३
सूत उवाच [SUTA SAID]
हरेः श्रुत्वाब्रवीद्ब्रह्मा यथा व्यासाय शौनक
ब्राह्मणादिसमाचारं सर्वदं ते तथा वदे ॥ १.२१३.१ ॥
श्रुतिस्मृती तु विज्ञाय श्रौतं कर्म समाचरेत्
श्रौतं कर्म न चेदुक्तं तदा स्मार्तं समाचरेत् ॥ १.२१३.२ ॥
तत्राप्यशक्तः करणे सदाचारं चरेद्वुधः
श्रुतिस्मृती ह विप्राणां लोचने कर्मदर्शने ॥ १.२१३.३ ॥
श्रुत्युक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः
सिष्टाचारेण संप्राप्तस्त्रयो धर्माः सनातनाः ॥ १.२१३.४ ॥
सत्यं दानं दयालोभो विद्येज्या पूजनं दमः
अष्टौ तानि पवित्राणि शिष्टाचारस्य लक्षणम् ॥ १.२१३.५ ॥
तेजोमयानि पूर्वेषां शरीराणीन्द्रियाणि च
न लिप्यते पातकेन पद्मपत्रमिवाम्भसा ॥ १.२१३.६ ॥
निवासमुख्या वर्णानां धर्माचाराः प्रकीर्तिताः
सत्यं यज्ञस्तपो दानमेतद्धर्मस्य लक्षणम् ॥ १.२१३.७ ॥
अदत्तस्यानुपादानं दानमध्ययनं जपः
विद्या वित्तं तपः शौचं कुले जन्म त्वरोगिता ॥ १.२१३.८ ॥
संसारोच्छित्तिहेतुश्च धर्मादेव प्रवर्तते
धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षोऽधिगम्यते ॥ १.२१३.९ ॥
इज्याध्ययनदानानि यथाशास्त्रं सनातनः
ब्रह्मक्षत्त्रियवैश्यानां सामान्यो धर्म उच्यते ॥ १.२१३.१० ॥
याजनाध्ययने शुद्धे विशुद्धाच्च प्रतिग्रहः
वृत्तित्रयमिदं प्राहुर्मुनयः श्रेष्ठवर्णिनः ॥ १.२१३.११ ॥
शस्त्रेणाजीवनं राज्ञो भूतानाञ्चाभिरक्षणम्
पाशुपाल्यं कृषिः पण्यं वैश्यस्याजीवनं स्मृतम् ॥ १.२१३.१२ ॥
शूद्रस्य द्विजशुश्रूषा द्विजानामनुपूर्वशः
गुरौ वासोऽग्निशुश्रूषा स्वाध्यायो ब्रह्मचारिणः ॥ १.२१३.१३ ॥
त्रिः स्नाता स्नापिता भैक्ष्यं गुरौ प्राणान्तिकी स्थितिः
समेखलो जटी दण्डी मुण्डी वा गुरुसंश्रयः ॥ १.२१३.१४ ॥
अग्निहोत्रोपचरणं जीवनं च स्वकर्मभिः
धर्मदारेषु कल्पेत पर्ववर्जं रतिक्रियाः ॥ १.२१३.१५ ॥
देवपित्रतितिभ्यश्च पूजादिष्वनुकल्पनम्
श्रुतिस्मृत्यर्थसंस्थानं धर्मोऽयं गृहमेधिनः ॥ १.२१३.१६ ॥
जटित्वमग्निहोत्रत्वं भूशय्याजिनधारणम्
वने वासः पयोमूलनीवारफलवृत्तिता ॥ १.२१३.१७ ॥
प्रतिषिद्धान्निवृत्तिश्च त्रिः स्नानं व्रतधारिता
देवतातिथिपूजा च धर्मोऽयं वनवासिनः ॥ १.२१३.१८ ॥
सर्वारम्भपरित्यागो भिक्षान्नं वृक्षमूलता
निष्परिग्रहताद्रोहः समता सर्वजन्तुषु ॥ १.२१३.१९ ॥
प्रियाप्रियपरिष्वङ्गेसुखदुः खाधिकारिता
सबाह्याभ्यन्तरे शौचं वाग्यमो ध्यानचारिता ॥ १.२१३.२० ॥
सर्वैद्रियसमाहारो धारणाध्याननित्यता
भावसंशुद्धिरेत्येष परिव्राड्धर्म उच्यते ॥ १.२१३.२१ ॥
अहिंसा सूनृता वाणी सत्यशौचे क्षमा दया
वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥ १.२१३.२२ ॥
यथोक्तकारिणः सर्वे प्रयान्ति परमां गतिम्
आ बोधात्स्वपनं यावत्गृहिधर्मं च वच्मि ते ॥ १.२१३.२३ ॥
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत्
कायक्लेशांश्च तन्मूलान्वेदतत्त्वार्थमेव च ॥ १.२१३.२४ ॥
शर्वर्यन्ते समुत्थाय कृतशौचः समाहितः
स्नात्वा सन्ध्यामुपासीत सर्वकालमतन्द्रितः ॥ १.२१३.२५ ॥
प्रातः सन्ध्यामुपा सीत दन्तधावनपूर्विकाम्
उभे मूत्रपुरीषे च दिवा कुर्यादुदङ्मुखः ॥ १.२१३.२६ ॥
रात्रौ च दक्षिणे कुर्यादुभे सन्ध्ये यथा दिवा
छायायामन्धकारे वा रात्रौ वाहनि वा द्विजः ॥ १.२१३.२७ ॥
यथा तु समुखः कुर्यात्प्राणबाधाभयेषु च
गोमयाङ्गारवल्मीकफालाकृष्टे शुभे ॥ १.२१३.२८ ॥
मार्गोपजीव्यच्छायासु न मूत्रं च पुरीषकम्
अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषिकस्थलात् ॥ १.२१३.२९ ॥
परेषां शौचशिष्टाच्च श्मशानाच्च मृदं त्यजेत्
एकां लिङ्गे मृदं दद्याद्वाम हस्ते मृदं द्विधा ॥ १.२१३.३० ॥
उभयोर्द्वे च दातव्ये मूत्रशौचं प्रचक्षते
एकां लिङ्गे गुदे तिस्त्रस्तथा वामकरे दश ॥ १.२१३.३१ ॥
पञ्च पादे दशैकस्मिन्करयोः सप्तमृत्तिकाः
अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ॥ १.२१३.३२ ॥
द्वितीया च तृतीया च तदर्धा परिकीर्तिता
उपविष्टस्तु विण्मूत्रं कर्तुं यस्तु न विन्दति ॥ १.२१३.३३ ॥
स कुर्यादर्धशौचं तु स्वस्य शौचस्य सर्वदा
दिवा शौचस्य रात्र्यर्धं यद्वा पादो विधीयते ॥ १.२१३.३४ ॥
स्वस्थस्य तु यथोद्दिष्टमार्तः कुर्याद्यथाबलम्
वसा शुक्रमसृङ्मज्जा लाला विण्मूत्रकर्णविट् ॥ १.२१३.३५ ॥
श्लेष्माश्रदूषिका स्वेदो द्वादशैते नृणां मलाः
मन्येत यावता शुद्धिं तावच्छौचं समाचरेत् ॥ १.२१३.३६ ॥
प्रमाणं शौचसंख्याया नादिष्टैरवशिष्यते
शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ॥ १.२१३.३७ ॥
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्तरम्
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ॥ १.२१३.३८ ॥
संमृज्याङ्गुष्ठमूलेन त्रिभिरास्यमुपस्पृशेत्
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ॥ १.२१३.३९ ॥
अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रे पुनः पुनः
कनिष्ठाङ्गष्ठयोर्नाभिं हृदयं तु तलेन वै ॥ १.२१३.४० ॥
सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत्
ऋचो यजूंषि सामानि त्रिः पठन्प्रीणयेत्क्रमात् ॥ १.२१३.४१ ॥
अथर्वाङ्गिरसौ पूर्वं द्विः प्रमार्ष्ट्यथ तन्सुखम्
इतिहासपुराणानि वेदाङ्गानि वेदाङ्गानि यथाक्रमम् ॥ १.२१३.४२ ॥
खं मुखे नासिके वायुं नेत्रे सूर्यं श्रुती (तीर्दि) दिशः
प्राणग्रन्थिमथो नाभिं ब्रह्माणं हृदये स्पृशेत् ॥ १.२१३.४३ ॥
रुद्रं मूर्ध्ना समालभ्य प्रीणात्यथ शिखामृषीन्
बाहू यमेन्द्रवरुणकुबेरवसुधानलान् ॥ १.२१३.४४ ॥
अभ्युक्ष्य चरणौ विष्णुमिन्द्रं विष्णु करद्वयम्
अग्निर्वायुश्च सूर्येन्दुगिरयोऽङ्गुलिपर्वसु ॥ १.२१३.४५ ॥
गङ्गाद्याः सरितस्तासु या रेखाः करमध्यगाः
उषः काले तु संप्राप्ते शौचं कृत्वा यथार्थवत् ॥ १.२१३.४६ ॥
ततः स्नानर्ं प्कुर्वीत दन्तधावनपूर्वकम्
मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः ॥ १.२१३.४७ ॥
तस्मात्सर्वप्रयत्नेन कुर्याद्वै दन्तघावनम्
कदम्बबिल्वखदिरकरवीरवटार्जुनाः ॥ १.२१३.४८ ॥
यूथी च बृहती जाती करञ्जार्कातिमुक्तकाः
जम्बूमधूका पामार्गशिरीषोदुम्बरासनाः ॥ १.२१३.४९ ॥
क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने
कटुतिक्तकषायाश्च धनारोग्यसुखप्रदाः ॥ १.२१३.५० ॥
प्रक्षाल्य भुक्त्वा च शुचौ देशे त्यक्त्वा तदाचामेत्
अमायां च तथा षष्ठ्यां नवम्यां प्रतिपद्यपि ॥ १.२१३.५१ ॥
वर्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य वासरे
अभावे दन्त काष्ठस्य निषिद्धायां तथा तिथौ ॥ १.२१३.५२ ॥
अषां द्वादशगण्डूषैः कुर्वीत मुखशोधनम्
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं हितम् ॥ १.२१३.५३ ॥
सर्वमर्हति शुद्धात्मा प्रातः स्नायी जपादिकम्
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ॥ १.२१३.५४ ॥
स्त्रवत्येष दिवा रात्रौ प्रातः स्नानं विशोधनम्
मनः प्रसादजननं रूपसौभाग्यवर्धनम् ॥ १.२१३.५५ ॥
शोकदुः खप्रशमनं गङ्गास्नानवदाचरेत्
अद्य हस्ते तु नक्षत्रे दशम्यां ज्येष्ठके सिते ॥ १.२१३.५६ ॥
दशपाप हरायां च अदत्वा दानकल्मषम्
विरुद्धाचरणं हिंसा परदारोपसेवनम् ॥ १.२१३.५७ ॥
पारुष्यानृतपैशुन्यमसम्बद्धाभिभाषणम्
परद्रव्याभिधानं च मनसानिष्टचिन्तनम् ॥ १.२१३.५८ ॥
एतद्दशाघघातार्थं गङ्गास्नानं करोम्यहम्
प्रातः संक्षेपतः स्नानं वानप्रस्थगृहस्थयोः ॥ १.२१३.५९ ॥
यतेस्त्रिषवणं स्नानं सकृत्त ब्रह्मचारिणः
आचम्य तीर्थमावाह्य स्नायात्स्मृत्वाव्ययं हरिम् ॥ १.२१३.६० ॥
तिस्रः कोट्यस्तु विज्ञेया मन्देहा नाम राक्षसाः
उदयन्तं दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥ १.२१३.६१ ॥
स हन्ति सूर्यं सन्ध्यायां नोपास्तिं कुरुते तु यः
दहन्ति मन्त्रपूतेन तोयेनानलरूपिणा ॥ १.२१३.६२ ॥
अहोरात्रस्य यः सन्धिः सा सन्ध्या भवतीति ह
द्विनाडिका भवेत्सन्ध्या यावद्भवति दर्शनम् ॥ १.२१३.६३ ॥
गन्ध्याकर्मावसाने तु स्वयं होमो विधीयते
स्वयं होमफलं यत्तु तदन्येन न जायते ॥ १.२१३.६४ ॥
ऋत्विक्पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः
एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥ १.२१३.६५ ॥
ब्रह्मा वै गार्हपत्याग्निर्दक्षणाग्निस्त्रिलोचनः
विष्णुराहवनीयाग्निः कुमारः सत्य उच्यते ॥ १.२१३.६६ ॥
कृत्वा होमं यथाकालं सौरान्मन्त्राञ्जपेत्ततः
समाहितात्मा सावित्रीं प्रणवं च यथोदितम् ॥ १.२१३.६७ ॥
प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु
त्रिपदायां च सावित्र्यां न भयं विद्यते क्वचित् ॥ १.२१३.६८ ॥
गायत्त्रीं यो जपेन्नित्यं कल्यमुत्थाय मानवः
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १.२१३.६९ ॥
श्वेतवर्णा समुद्दिष्टा कौशैयवसना तथा
अक्षसूत्रधरा देवी पद्मासनगता शुभा ॥ १.२१३.७० ॥
आवाह्य यजुपानेन तेजोऽसीति विधानतः
एतद्यजुः पुरा दैवैर्दृष्टिदर्शनकाङ्क्षिभिः ॥ १.२१३.७१ ॥
आदित्यमण्डलान्तः स्थां ब्रह्मलोकस्थितामपि
तत्रावाह्य जपित्वातो नमस्काराद्विसर्जयेत् ॥ १.२१३.७२ ॥
पूर्वाह्न एव कुर्वीत देवतानां च पूजनम्
न विष्णोः परमो देवस्तस्मात्तं पूजयेत्सदा ॥ १.२१३.७३ ॥
ब्रह्मविष्णुशिवान्देवान्न पृथग्भावयेत्सुधीः
लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ॥ १.२१३.७४ ॥
हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः
एतानि सततं पश्येदर्चयेच्च प्रदक्षिणम् ॥ १.२१३.७५ ॥
वेदस्याध्ययनं पूर्वं विचारोभ्यसनं जपः
तद्दानं चैव शिष्यभ्यो वेदाभ्यासो हि पञ्चधा ॥ १.२१३.७६ ॥
वेदार्थं यज्ञशास्त्राणि धर्मशास्त्राणि चैव हि
मूल्येन लेखयित्वा यो दद्याद्याति स वैदिकम् ॥ १.२१३.७७ ॥
इतिहा सपुराणानि लिखित्वायः प्रयच्छति
ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणीकृतम् ॥ १.२१३.७८ ॥
मृतीये च तथा भागे पोष्यवर्गार्थसाधनम्
माता पिता गुरुर्भ्राता प्रजा दीनाः समाश्रिताः ॥ १.२१३.७९ ॥
अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्गा उदाहृतः
भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ॥ १.२१३.८० ॥
भरणं पोष्य वर्गस्य तस्माद्यत्नेन कारयेत्
स जीवति वरश्चैको बहुभिर्योपजीव्यति ॥ १.२१३.८१ ॥
जीवन्तो मृतकास्त्वन्ये पुरुषाः स्वोदरम्भराः
स्वकीयोदरपूर्तिश्च कुक्कुरस्यापि विद्यते ॥ १.२१३.८२ ॥
अर्थेभ्योऽपि विवृद्धेभ्यः सम्भूतेभ्यस्ततस्ततः
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ १.२१३.८३ ॥
सर्वरत्नाकरा भूमिर्धान्यानि पशवः स्त्रियः
अर्थस्य कार्ययोगित्वादर्थ इत्यभिधीयते ॥ १.२१३.८४ ॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः
या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥ १.२१३.८५ ॥
धनं तु त्रिविधं ज्ञेयं शुक्लं शबलमेव च
कृष्णं च तस्य विज्ञेयो विभागः सप्तधा पृथक् ॥ १.२१३.८६ ॥
क्रमायत्तं प्रीतिदत्तं प्राप्तं च सह भार्यया
अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम् ॥ १.२१३.८७ ॥
वैशेषिकं धनं दृष्टं ब्राह्मणस्य त्रिलक्षणम्
याजनाध्यापने नित्यं विशु
द्धश्च (द्धाच्च) प्रतिग्रहः ॥ १.२१३.८८ ॥
त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम्
शुद्धार्थं लब्धकरजं दण्डाप्तं जयजं तथा ॥ १.२१३.८९ ॥
वैशेषिकं धनं दृष्टं वैश्यस्यापि विलक्षणम्
कृषिगोरक्षवाणिज्यं शूद्रस्यैभ्यस्त्वनुग्रहात् ॥ १.२१३.९० ॥
कुसीदकृषिवाणिज्यं प्रकुर्वीत स्वयं परम् (कृतम्)
आपत्काले स्वयं कुर्वन्नैनसा युज्यते द्विजः ॥ १.२१३.९१ ॥
बहवो वर्तनोपाया ऋषिभिः परिकीर्तिताः
सर्वेषामपि चैवैषां कुसीदमधिकं विदुः ॥ १.२१३.९२ ॥
अनावृष्ट्या राजभयान्मूषिकाद्यैरुपद्रवैः
कृष्यादिके भवेद्बाधा सा कुसीदे न विद्यते ॥ १.२१३.९३ ॥
शुक्लपक्षे तथा कृष्णे रजन्यां दिवसेपि वा
उष्णे वर्षति शीते वा वर्धनं न निवर्तते ॥ १.२१३.९४ ॥
देशं गतानां या वृद्धिर्नानापण्योपजीविनाम्
कुसीदं कुर्वतः सम्यक्संस्थितस्यैव जायते ॥ १.२१३.९५ ॥
लब्धलाभः पितॄन्देवान्ब्राह्मणांश्चैव पूजयेत्
ते तृप्तास्तस्य तद्दोषं शमयन्ति न संशयः ॥ १.२१३.९६ ॥
वणिक्कुसीदं दद्याद्यो वस्त्रं गाङ्काञ्चनादिकम्
कृषीवलोऽन्नपानादियानशय्यासनानि च ॥ १.२१३.९७ ॥
राजभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम्
पादेनास्य च यावक्यं कुर्यात्संचयमात्मवान् ॥ १.२१३.९८ ॥
अर्धेन चात्मभरणं नित्यनैमित्तिकांन्वितम्
पादं चेत्यर्थयामस्य मूलभूतं विवर्धयेत् ॥ १.२१३.९९ ॥
विद्या शिल्पं भूतिः सेवा गोरक्षा विपणिः कृषिः
वृत्तिर्भैक्ष्यं कुसीदं च दश जीवनहेतवः ॥ १.२१३.१०० ॥
प्रतिग्रहार्जिता विप्रे क्षत्रिये शस्त्रनिर्जिता
वैश्ये न्यायार्जिताः स्वार्थाः शूद्रे शुश्रूषयार्जिताः ॥ १.२१३.१०१ ॥
नदी बहूदका शाकमृत्पर्णानि समित्कुशाः
आग्नेयो ब्रह्मघोषश्च विप्राणां धनमुत्तमम् ॥ १.२१३.१०२ ॥
अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे
अमृतं तद्विदुर्देवास्तस्मात्तन्नैव वर्जयेत् ॥ १.२१३.१०३ ॥
गुरुद्रव्यांश्चौज्जिहीर्षुरर्चिष्यन्दे वतातिथीन्
सर्वतः प्रतिगृह्णीयान्न तुष्येत्तु स्वयं ततः ॥ १.२१३.१०४ ॥
साधुतः प्रतिगृह्णीयादथ वासाधुतो द्विजः
गुणवानल्पदोषश्च निर्गुणो हि निमज्जति ॥ १.२१३.१०५ ॥
एवं त्वक्षवृत्त्या वा कृत्वा भरणमात्मनः
कुर्याद्विशुद्धिं परतः प्रायश्चित्तं द्विजोत्तमः ॥ १.२१३.१०६ ॥
चतुर्थे च तथा भागे स्नानार्थं मृद माहरेत्
तिलपुष्पकुशादीनि स्नानं चाकृत्रिमे जले ॥ १.२१३.१०७ ॥
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम्
मार्जनाचमावगाहाश्चाष्टस्नानं प्रकीर्तितम् ॥ १.२१३.१०८ ॥
अस्नातस्तु पुमान्नार्हे जपाग्निहवनादिषु
प्रातः स्नानं तदर्थं तु नित्यस्नानं प्रकीर्तितम् ॥ १.२१३.१०९ ॥
चाण्डालशवविष्ठाद्यान्स्पृष्ट्वा स्नानं रजस्वलाम्
स्नानार्हस्तु यदा स्नाति स्नानं नैमित्तिकं हि तत् ॥ १.२१३.११० ॥
पुष्यस्नानादिकं स्नानं दैवज्ञविधिचोदितम्
तद्धि काम्यं समुद्दिष्टं नाकामस्तत्प्रयोजयेत् ॥ १.२१३.१११ ॥
जप्तुकामः पवित्राणि अर्चिष्यन्देवतातिथीन्
स्नानं समाचरेद्यस्तु क्रियाङ्गं तच्च कीर्तितम् ॥ १.२१३.११२ ॥
मलापकर्षणार्थाय प्रवृत्तिस्तत्र नान्यथा
सरः सुदेवखातेषु तीर्थेषु च नदीषु च ॥ १.२१३.११३ ॥
स्नानमेव क्रिया यस्मात्क्रियास्नानमतः परम्
अद्भिर्गात्राणि शुध्यन्ति तीर्थस्नानात्फलं लभेत् ॥ १.२१३.११४ ॥
मार्जनान्मज्जनैर्मन्त्रैः पापमाशु प्रणश्यति
नित्यं नैमित्तिकं चापि क्रियाङ्गं मलकर्षणम् ॥ १.२१३.११५ ॥
तीर्थाभावे तु कर्तव्यमुष्णोदकपरोदकैः
भूमिष्ठादुद्धृतं पुण्यं ततः प्रस्त्रवणोदकम् ॥ १.२१३.११६ ॥
ततोऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते
तीर्थतोयं ततः पुण्यं गागं पुण्यं तु सर्वतः ॥ १.२१३.११७ ॥
गागं पयः पुनात्याशु पापमामरणान्तिकम्
गयायां च कुरुक्षेत्रे यत्तोयं समुपस्थितम् ॥ १.२१३.११८ ॥
तस्मात्तु गाङ्गमपरं जानीयात्तोयमुत्तमम्
पुत्रजन्मनि योगेषु तथा संक्रमणे रवेः ॥ १.२१३.११९ ॥
राहोश्च दर्शने स्नानं प्रशस्तं निशि नान्यथा
उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ ॥ १.२१३.१२० ॥
प्राजापत्येन तत्तुल्यं महापातकनाशनम्
यत्फलं द्वादशाब्दानि प्राजापत्ये कृते भवेत् ॥ १.२१३.१२१ ॥
प्रातः स्नायी तदाप्नोति वर्षेण श्रद्धयान्वितः
य इच्छेद्विपुलान् भोगांश्चन्द्रसूर्यग्रहोपमान् ॥ १.२१३.१२२ ॥
प्रातः स्नायी भवेन्नित्यं मासौ द्वौ माघफाल्गुनौ
यस्तु माघं समासाद्य प्रातः स्नायी हविष्यभुक् ॥ १.२१३.१२३ ॥
इतिपापं महाघोरं मासादेव व्यपोहति
मातरं पितरं वापि भ्रातरं सुहृदं गुरुम् ॥ १.२१३.१२४ ॥
यमुद्दिश्य निमज्जेत द्वादशांशं लभेत्तु सः
तुष्यत्यामलकैर्विष्णुरेकादश्या विशेषतः ॥ १.२१३.१२५ ॥
श्रीकामः सर्वदा स्नानं कुर्वोतामलकैर्नरः
सन्तापः कीर्तिरल्पायुर्धनं निधनमेव च ॥ १.२१३.१२६ ॥
आरोग्यं सर्वकामाप्तिरभ्यङ्गाद्भास्करादिषु
उपोषितस्य व्रतिनः कृत्तकेशस्य नापितैः ॥ १.२१३.१२७ ॥
तावच्छ्रीस्तिष्ठति प्रीता यावत्तैलं न संस्पृशेत्
एवं स्नात्वा पितॄन्देवान्मनुष्यांस्तर्पयेन्नरः ॥ १.२१३.१२८ ॥
नाभिमात्रे जले स्थित्वा चिन्तयेदूर्जमानसः
आगच्छन्तु मे पितर इमं गृह्णन्त्वपोञ्जलिम् ॥ १.२१३.१२९ ॥
त्रींस्त्रीनेवाञ्जलीन्दद्यादाकाशे दक्षिणे तथा
वसित्वा वसनं शुष्कं स्थलस्था स्तर्णबर्हिषि ॥ १.२१३.१३० ॥
विधिज्ञास्तर्पणं कुर्युर्न पात्रे तु कदाचन
यदपां क्रूरमांसात्तु यदमेध्यं तु किञ्चन ॥ १.२१३.१३१ ॥
अशान्तं मलिनं यच्च तत्सर्वमपगच्छतु
गृहीत्वानेन मन्त्रेण तोयं सव्येन पाणिना ॥ १.२१३.१३२ ॥
प्रक्षिपोद्दिशि नैरृत्यां रक्षोऽपहतये तु तत्
निषिद्धभक्षणाद्यत्तु पापाद्यच्च प्रतिग्रहात् ॥ १.२१३.१३३ ॥
दुष्कृतं यच्च मे किञ्चिद्बाङ्मनः कायकर्मभिः
पुनातु मे तदिन्द्रस्तु वरुणः सबृहस्पतिः ॥ १.२१३.१३४ ॥
सविता च भगश्चैव मुनयः सनकादयः
आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विति ब्रुवन् ॥ १.२१३.१३५ ॥
क्षिपेदबञ्जलींस्त्रीस्तु कुर्वन्संक्षेपतर्पणम्
सुराणामर्चनं कुर्याद्ब्रह्मा दीनाममत्सरी ॥ १.२१३.१३६ ॥
ब्राह्मवैष्णवरौद्रैश्च सावित्रैर्मैत्रवारुणैः
तल्लिङ्गैरर्चयेन्मन्त्रैः सर्वदेवान्नमस्य च ॥ १.२१३.१३७ ॥
नमस्कारेण पुष्पाणि विन्यसेत्तु पृथक्पृथक्
सर्वदेवमयं विष्णुं भास्करं चाप्यथार्चयेत् ॥ १.२१३.१३८ ॥
दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव वा
अर्चितं स्याज्जगादिदं तेन सर्वं चराचरम् ॥ १.२१३.१३९ ॥
अन्यैश्च तान्त्रिकैर्मन्त्रैः पूजयेच्च जनार्दनम्
आदावर्घ्यं प्रदातव्यं ततः पश्चाद्विलेपनम् ॥ १.२१३.१४० ॥
ततः पुष्पाञ्जलिं धूपमु पहारफलानि च
स्नानमन्तर्जले चैव मार्जनाचमनं तथा ॥ १.२१३.१४१ ॥
जलाभिमन्त्रणं यच्च तीर्थस्य परिकल्पयेत्
अघमर्षणसूक्तेन त्रिवारं त्वेव नित्यशः ॥ १.२१३.१४२ ॥
स्नाने चरितमित्येतत्समुद्दिष्टं महात्मभिः
ब्रह्मक्षत्रविशां चैव मन्त्रवत्स्नानमिष्यते ॥ १.२१३.१४३ ॥
तूष्णीमेव तु शूद्रस्य सनमस्कारकं स्मृतम्
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ॥ १.२१३.१४४ ॥
होमो दैवी बलिर्भौतो न यज्ञोऽतिथिपूजनम्
गवा गोष्ठे दशगुणं अग्न्यगारे शताधिकम् ॥ १.२१३.१४५ ॥
सिद्धक्षेत्रेषु तीर्थेषु देवतायतनेषु च
सहस्रशतकोटीनामनन्तं विष्णुसन्निधौ ॥ १.२१३.१४६ ॥
पञ्चमे च तथा भागे संविभागो यथार्थतः
पितृदे वमनुष्याणां कोटीनां चोपदिश्यते ॥ १.२१३.१४७ ॥
ब्राह्मणेभ्यः प्रदायाग्र यः सुहृद्भिः सहाश्नुते
स प्रेत्य लभते स्वर्गमन्नदानं समाचरन् ॥ १.२१३.१४८ ॥
पूर्वं मधुरमश्रीयाल्लवणाम्लौ च मध्यतः
कटुतिक्तकषायांश्च पयश्चैव तथान्ततः ॥ १.२१३.१४९ ॥
शाकं च रात्रौ भूमिष्ठमत्यन्तं च विवर्जयेत्
नचैकरससेवायां प्रसज्जेत कदाचन ॥ १.२१३.१५० ॥
समृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम्
वैश्यस्य चान्नमेवान्नं शूद्रान्नं रुधिरं स्मृतम् ॥ १.२१३.१५१ ॥
अमावासी वसेदत्र एकहायनमेव वा ॥ १.२१३.१५२ ॥
तत्र श्रीश्चैव लक्ष्मीश्च वसते नात्र संशयः
उदरे गार्हपत्याग्निः पृष्ठदेशे तु दक्षिणः ॥ १.२१३.१५३ ॥
आस्ये चाहवनीयोऽग्निः सत्यः पर्व च मूर्धनि
यः पञ्चाग्नीनिमान्वेद आहिताग्निः स उच्यते ॥ १.२१३.१५४ ॥
शरिरमापः सोमं च विविधं चान्नमुच्यते
प्राणो ह्यग्निस्तथादित्यस्त्रिभोक्ता एक एव तु ॥ १.२१३.१५५ ॥
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च
भवत्येतत्परिणतौ ममाप्यव्याहतं सुखम् ॥ १.२१३.१५६ ॥
हस्तेन परिमार्ज्याथ कुर्यात्ताम्बूलभक्षणम्
श्रवणं चेतिहासस्य तत्कुर्यात्सुसमाहितः ॥ १.२१३.१५७ ॥
इतिहासपुराणाद्यैः षष्ठसप्तमकेनयेत्
ततः सन्ध्यामुपासीत स्नात्वा वै पश्चिमां नरः ॥ १.२१३.१५८ ॥
एतद्वा दिवसे प्रोक्तमनुष्ठानं मया द्विज
आचारं यः पठेद्विद्वाञ्छृणुयात्स दिवंव्रजेत्
आचारादिर्धर्मकर्ता केशवो हि स्मृतो द्विज ॥ १.२१३.१५९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पञ्चोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २१४
ब्रह्मोवाच
अथ स्नानविधिं वक्ष्ये स्नानमूला क्रिया यतः
मृद्गोमयतिलान्दर्भान्पुष्पाणि सुरभीणि च ॥ १.२१४.१ ॥
आहरेत्स्नानकाले च स्नानार्थो प्रयतः शुचिः
गन्धोदकान्तं विविक्ते (धं) स्थापयेत्तान्यथ क्षितौ ॥ १.२१४.२ ॥
त्रिधा कृत्वा मृदं तां तु गोमयं च विचक्षणः
अद्भिर्मृद्भिश्च चरणौ प्रक्षाल्याथ करौ तथा ॥ १.२१४.३ ॥
उपवीती बद्धशिखः सम्यगाचम्य वाग्यतः
उरुं राजेत्यृचा तोयमुपस्थाय प्रदक्षिणम् ॥ १.२१४.४ ॥
आवर्तयेत्तदुदकं ये ते शतमितित्र्यृचा ॥ १.२१४.५ ॥
ओं उरुं हि राजा वरुणश्चकार सूर्याय पन्थानमन्वेत वा
प्रतिधाता च वक्तारस्ताहृदयाविपश्चित्
नमोऽग्न्यरुणाया भिष्टुतोवरुणस्य पाशः
वरुणाय नमः ॥ १.२१४.६ ॥
ओं ये ते शतं वरुणये सहस्रं यज्ञियाः पाशा वितता महान्तः
तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा
सुमित्रियान इत्यबञ्जलिमाकृत्योत्तरेण तोयं पश्चाद्विराज्य चैव विनिः क्षिपेत्
ओं सुमित्रिया न आप ओषधयः सन्तु
दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मः ॥ १.२१४.७ ॥
पादौ कटिं चैव पूर्वं मृद्भिस्त्रिभिस्त्रिभिः
प्रक्षाल्य हस्ता वाचम्य नमस्कृत्य जलं ततः ॥ १.२१४.८ ॥
ओं इदं विष्णुर्विचक्रमे त्रेधा निधे पदं समूढमस्य पांसुरे
महाव्याहृतिभिः पश्चादाचामेत्प्रयतोऽपि सन् ॥ १.२१४.९ ॥
मार्जयेद्वै मृदाङ्गानि इदं विष्णुरिति त्वृचा
भास्कराभिमुखो मज्जेदापो अस्मानितित्यृचा ॥ १.२१४.१० ॥
ओं आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतष्वः पुनन्तु
विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूत एमि ॥ १.२१४.११ ॥
ततोऽवृघृष्य पात्राणि निमज्योन्मज्य वै शनैः
गोमयेन विलिप्याथ मानस्तोक इत्यृचा ॥ १.२१४.१२ ॥
ओं मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः
मा नो वीरान्रुद्रभामिनोऽबधीर्हविष्मन्तः सदमित्वा हवामहे ॥ १.२१४.१३ ॥
ततोऽभिषिञ्चेन्मन्त्रैस्तु वरुणैस्तु यथाक्रमम्
इमंमे वरुणे द्वाभ्यां त्वन्नः सत्वन्न इत्यपि ॥ १.२१४.१४ ॥
आपो त्वन्तुमसीति च मुञ्चन्त्ववभृतेति च
ओं इमंमे वरुण श्रुधीहवमद्या च मृडयत्वा मवस्युराचके ॥ १.२१४.१५ ॥
ओं तत्त्वयामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः
अहेडमानो वरुणेह बोध्युरुशं समान आयुः प्रमोषीः
ओं त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडो अवयासिसीष्ठाः
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसिप्रमुमुग्ध्यस्मत्स्वाहा
ओं स त्वन्नो अग्नेवमो भवती नेदिष्ठो अस्या उषसोव्युष्टौ
अवयक्ष्वनो वरुणं रराणो वीहिमृडीकं सुहवो न एधि
ओं आपो नौषधि हिंसार्धम्नो राजस्ततो वरुणो नोमुञ्चा यदाहरघ्न्या इति वरुणेति शपार्महे ततो वरुण नो मुञ्च
ओं उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमंश्रथाय
अथावयमादित्यव्रते तवानागसो अदितये स्याम
मुञ्चन्तुमामप्यथाद्वरुणस्य त्वत्
अहो यमस्य पत्नीमानः सर्वस्मादेव किल्बिषात्
अवभृथनिचं पुनर्विचेरुसि नित्यं प्रन्नः
अवदेवैर्देवकृता मनोयासि समवत्यै कृतं पुष्पाच्छा देवधीमल्पाही ॥ १.२१४.१६ ॥
अभिषिच्य तथात्मानं निमज्याचम्य वै पुनः
दर्भेण पाययेन्मन्त्रैरलिङ्गैः पावनैरिमैः ॥ १.२१४.१७ ॥
आपोहिष्ठेति तिसृभिरिदमापो हविष्मतीः
देवीराप इति द्वाभ्यां आपोदेवा इति त्र्यृचा ॥ १.२१४.१८ ॥
द्रुपदादिव इति च शन्नो देवीरपां रसः
आपो देवो पावमान्यः पुनन्त्वाद्या ऋचो नव ॥ १.२१४.१९ ॥
चित्पतिर्मेति च शनैः प्लाव्यात्मनं समाहितः
हिरण्यवर्णा इति च पावमान्यस्तथा पराः ॥ १.२१४.२० ॥
तरत्सामा शुद्धवत्यः पवित्राणि च शक्तितः
वारुण्या बहवः पुण्याः शक्तितः संप्रयोजयेत् ॥ १.२१४.२१ ॥
ओं कारेण व्याहृतिभिर्गायत्र्या च समन्वितः
आदावन्ते च कुर्वीत अभिषेकं यथाक्रमम् ॥ १.२१४.२२ ॥
जलमध्यस्थितस्यैव मार्जनं तु विधीयते
अन्तर्जले जपेन्मन्त्रं त्रिः कृत्वा चाघमर्षणम् ॥ १.२१४.२३ ॥
द्रुपदाद्यास्त्रिरावर्तेदयं गौरिति च त्र्यृचम्
अन्यांश्चैव तु मन्त्रान्वा स्मृतिदृष्टान्समाहितः ॥ १.२१४.२४ ॥
सव्याहृतिं सप्रणवां गायत्रीं वा जपेद्बुधः आवर्तयेद्वा प्रणवं स्मरेद्वा विष्णमव्ययम् ॥ १.२१४.२५ ॥
विष्णोरायतनं त्वापः स एवाप्पतिरुच्यते
तस्यैवं तनवस्त्वेतास्तस्मात्तं ह्यप्सु संस्मरेत् ॥ १.२१४.२६ ॥
तद्विष्णोरिति मन्त्रेण निमज्याप्सु पुनः पुनः
गायत्त्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै ॥ १.२१४.२७ ॥
ओं इदमापप्रवहता स्वं मलं क्षाललोहितम्
यथात्वहोत्रामृतं यच्च शोफे अभीषणम् ॥ १.२१४.२८ ॥
आपो मा तस्मादेनसः पावमानश्च मुञ्चतु इविष्मतो विमा आपोहविष्मानाविरासति
हविष्मान् देव असुरो हविष्मानस्तु सूर्यः
देवीरापो अपा पत्न्या यश्च ऊर्मिर्हविष्यः इन्द्रियवान्मादित्यन्तनः तं देवेभ्यो देवता दाभुशुक्रलेभ्यस्तेषां भागकर्षिवसिसमुद्रस्य दक्षिण्याग्रयासिमेनापोग्रर्भिरश्मतमोधोः
आपो देवी मधुमतीरगृह्णन्तु ह्यन्नती राजस्वतिलाः
याभिर्मित्रावरुणस्य सिञ्चयाभिरिन्द्रमनयत्यन्न वाती वद्रुपदां शन्नो देवी अपामसृग्द्वयसंसूर्ये सन्तं समाहितं अपांरसस्य यो रस्य यो गृह्णास्युत्तमम्
आपो देवीरुपसूर्य मधुमतीवयस्याय प्रजाभ्यः तासा मास्थानात्वर्जिहतामोषधयः सपिप्पलाः
पुनन्तु मा पितरः सौम्यासः पुनन्त्वनापि पिता सहसाः पवित्रेण गतायुषा
पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः
पवित्रेण गतायुषा विश्वमायुर्व्यश्रवैः
अग्न आयूंषि परसत्माचरोर्जमिषञ्च त्वचे वावस्वत्वच्छूनाम्
पुनन्तु मा देवजनाः पुनन्तु मनसा धियः
पुनन्तु विश्वा भूतानि जातवेदः ! पुनीहि मा
पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत्
अग्ने क्रत्वा क्रतूंरनु
यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ब्रह्मा तेन पुनातु मा
पवमानः सुवर्जनः पवित्रेण विचर्षणिः यः पोता स पुनातु मा
उभाभ्यां देव सवितः पवित्रेण सवेन च इदं ब्रह्मपुनीमहे
वैश्वदेवीः पुनती देव्या गृभ्नास्यामिसावक्ष्यस्तान्नोवीत पूज्याः
तयामदन्तः सधमादेषु वयं स्याम पतयो रयीणाम्
चित्प तिर्मा पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः
तस्य ते पवित्रपूतस्य यत्कामः
प्रणितच्छकेयं देवो वाक्पतिर्मा सविता त्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः
तस्य ते पवित्रपते ! पवित्रपूतस्य चत्कामः
पुनस्तच्छकेयं द्युपतिं अयं गौः पृश्रिरक्रमीसदशशतं मातरं पुनः पितरञ्च प्रयस्मः
देवो मा सविता पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुनातच्छकेयम्?
ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः
दिवीव चक्षुराततम् ॥ १.२१४.२९ ॥
स्नात्वैवं वाससी धौते अच्छिन्ने परिधाय च
प्रक्षाल्य च मृदाद्भिश्च हस्तौ प्रक्षाल्य वै तदा ॥ १.२१४.३० ॥
आचान्ते पुनाराचामेन्मन्त्रेण स्नानभोजने
द्रुपदां च त्रिरावर्त्य तथा चैवाघमर्षणम् ॥ १.२१४.३१ ॥
आचम्याप्लाव्य चात्मानं त्रिराचम्यशनेरसून्
अथोपतिष्टेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिः ॥ १.२१४.३२ ॥
प्रक्षिप्योदकमद्धूय उदुत्यं चित्रमित्यपि
तच्चक्षुर्देव इति च हंसः शुचिषदित्यपि ॥ १.२१४.३३ ॥
एताञ्जपेदूर्ध्वबाहुः सूर्यमीक्ष्य समाहितः
गायत्त्रीं च तथा शक्त्या उपस्थाय दिवाकरम् ॥ १.२१४.३४ ॥
विभ्राडित्यनुवाकेन सूक्तेन पुरुषस्य च
शिवसङ्कल्पेन च तथा मण्डलब्राह्मणेन च ॥ १.२१४.३५ ॥
दिवाकीर्त्या तथा चान्यैः सौरैर्मन्त्रैश्च शक्तितः
जपयज्ञस्तु कर्तव्यः सर्वदेवप्रणीतकैः ॥ १.२१४.३६ ॥
अध्यात्मविद्यां विधिवज्जपेद्वा जपसिद्धये
सव्यं कृत्वा त्रिराचम्य श्रियं मेधां धृतिं क्षितिम् ॥ १.२१४.३७ ॥
वाचं वागीश्वरीं पुष्टिं तुष्टिञ्च परितर्पयेत्
उमामरुन्धतीं चैव शचीं मातरमेव च ॥ १.२१४.३८ ॥
जयां च विजयां चैव सावित्रीं शान्तिमेव च
स्वाहां स्वधां धृतिं चैव तथैवादितिमुत्तमाम् ॥ १.२१४.३९ ॥
ऋषिपत्नीश्च कन्याश्च तर्पयेत्काम्यदेवताः
सर्वमङ्गलकामस्तु तर्पयेत्सर्वमङ्गलाम् ॥ १.२१४.४० ॥
आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विदं ब्रुवन्
क्षिपेदपोऽञ्जलींस्त्रींश्च कुर्वन्काङ्क्षेत तर्पणम् ॥ १.२१४.४१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्नानविधिविवरणं नाम चतुर्दशोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २१५
ब्रह्मोवाच
तर्पणं सम्प्रवक्ष्यामि देवादिपितृतुष्टिदम् ॥ १.२१५.१ ॥
ओं मोदास्तृप्यन्ताम्
ओं प्रमोदास्तृप्यन्ताम्
ओं सुमुखास्तृप्यन्ताम्
ओं दुर्मुखास्तृप्यन्ताम्
ओं विघ्नास्तृप्यन्ताम्
ओं विघ्नकर्तारस्तृप्यन्ताम्
ओं छन्दांसि तृप्यन्ताम्
ओं वेदास्तृप्यन्ताम्
ओं ओषधयस्तृप्यन्ताम्
ओं सनातनस्तृप्यताम्
ओं इतराचार्यास्तृप्यन्ताम्
ओं संवत्सरःसावयवस्तृप्यताम्
ओं देवास्तृप्यन्ताम्
ओं अप्सरसस्तृप्यन्ताम्
ओं देवान्धकास्तृप्यन्ताम्
ओं सागरस्तृप्यन्ताम्
ओं नागास्तृप्यन्ताम्
ओं पर्वतास्तृप्यन्ताम्
ओं सरिन्मनुष्या यक्षास्तृप्यन्ताम्
ओं रक्षांसि तृप्यन्ताम्
ओं पिशाचास्तृप्यन्ताम्
ओं सुपर्णास्तृप्यन्ताम्
ओं भूतानि तृप्यन्ताम्
ओं भूतग्रामाश्चतुर्विधास्तृप्यन्ताम्
ओं दक्षस्तृप्यताम्
ओं प्रचेतास्तृप्यताम्
ओं मरीचिस्तृप्यताम्
ओं आत्रिस्तृप्यताम्
ओं अङ्गिरास्तृप्यताम्
ओं पुलस्त्यस्तृप्यताम्
ओं पुलहस्तृप्यताम्
ओं क्रतुस्तृप्यताम्
ओं नारदस्तृप्यताम् !
ओं भृगुस्तृप्यताम्
ओं विश्वामित्रस्तृप्यताम्
ओं रैवतस्तृप्यताम्
ओं चाक्षुषस्तृप्यताम्
ओं महातेजास्तृप्यताम्
ओं वैवस्वतस्तृप्यताम्
ओं ध्रुवस्तृप्यताम्
ओं धवस्तृप्यताम्
ओं अनिलस्तृप्यताम्
ओं प्रभासस्तृप्यताम् ॥ १.२१५.२ ॥
नीवीती
ओं सनकस्तृप्यताम्
ओं सनन्दनस्तृप्यताम्
ओं सनातनस्तृप्यताम्
ओं कपिलस्तृप्यताम्
ओं आसुरिस्तृप्यताम्
ओं वोढुस्तृप्यताम्
ओं पञ्चशिखस्तृप्यताम्
ओं मनुष्याणां कव्यवाहस्तृप्यताम्
ओं अनलस्तृप्यन्ताम्
ओं सोमस्तृताम्
ओं यमस्तृप्यताम्
ओं अर्यमातृप्यताम् ॥ १.२१५.३ ॥
प्राचीनावीती
ओं अग्निष्वात्ताः पितरस्तृप्यन्ताम्
ओं सोमपाः पितरस्तृप्यन्ताम्
ओं बर्हिषदः पितरस्तृप्यन्ताम्
यमाय नमः
धर्मराजाय नमः
मृत्यवे नमः
अन्तकाय नमः
वैवस्वताय नमः
कालाय नमः
सर्वभूतक्षयाय नमः
औदुम्बराय नमः! दध्नाय नमः
नीलाय नमः
परमेष्ठिने नमः
वृकोदराय नमः
चित्राय नमः
चित्रगुप्ताय नमः ॥ १.२१५.४ ॥
ब्रह्मादिस्तम्बपर्यन्तं जगत्तृप्यतु
ओं पितृभ्यः स्वधा नमः
ओं पितामहेभ्यः स्वधा नमः
ओं प्रपितामहेभ्यः स्वधा नमः
ओं मातृभ्यः स्वधानमः
ओं पितामहीभ्यः स्वधा नमः
ओं प्रपितामहीभ्यः स्वधा नमः
ओं मातामहेभ्यः स्वधा नमः
ओं प्रमातामहेभ्यः स्वधा नमः
ओं वृद्धप्रमातामहेभ्यः स्वधानमः तृप्यतामिति
उदीरतामवर उत्परासो उन्मध्यमाः पितरः सोम्यासः
असुंय ईयुरवृका ऋतज्ञास्तेनोऽवन्तुपितरोहवेषु
गोत्रोच्चारणेन प्रथमाञ्जलिः पितुः
ओं अङ्गिरसो नः पितरोदृ
अथर्वाणोभृगवःदृ
तेषां वयं सुमतौ यज्ञियानां अपि भद्रे सौमनसे स्याम
ओं आयन्तु नः पितरः सौम्यासोग्निष्वात्ताः पथिभिर्देवयानैः
अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मान् ॥ १.२१५.५ ॥
ओं ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्नुतं स्वधा स्थ तर्पयत मे पितॄन्
ओं पितृभ्यः स्वधा नमः
ओं पितामहेभ्यः स्वधा नमः
ओं प्रपितामहेभ्यः स्वधान नमः
ओं मातामहेभ्यः स्वधा नमः
ओं प्रमातामहेभ्यः स्वधा नमः
ओं वृद्धप्रमातामहेभ्यः स्वधा नमः
पितामहस्यदृ
ओं अक्षन्पितरो अमीमदन्त पितरो अमी तृप्यन्तः पितरः शुं(स्व) धध्वं पिबेह पितरोऽपि वानत्रयांश्च विश्रयांश्च भवनपवित्रत्वा रथपति ते जातवेदाः स्वधाभिर्यज्ञं सुकृतं जुपस्व?
ओं णदुवाता ऋतायते मधु क्षरन्ति सिन्धवः
माध्वीर्नः सन्त्वोषधीर्मधुनक्तमुतोषसो मधुमत्पार्थिवं रजः
मधु द्यौरस्तु नः पिता मधु मान्नो वनस्पतिर्मधुभामस्तु सूर्यो माध्वीर्गावो भवन्तु नः ॥ १.२१५.६ ॥
प्रपितामहस्याञ्जलिदानम्
ओं नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे
नमो वः पितरो गृहान्न पितरो दत्तः
नमो वः पितरो दध्मे तद्वः पितरो वासः
मातामहानां त्रिरञ्जलिदृ
ततो मात्रादीनान्दृ ॥ १.२१५.७ ॥
ये चास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः
ते तृप्यन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥ १.२१५.८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे देवादितर्पणनिरूपणं नाम पञ्जदशोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २१६
ब्रह्मोवाच
वैश्वदेवं प्रवक्ष्यामि होमलक्षणमुत्तमम्
प्रज्वाल्य चाग्निं पर्युक्ष्यओं क्रष्यादमग्निं प्रहिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः
इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानत्
ओं पावक वैश्वानर इदमासनं अरणीगर्भसंस्कृततेजोरूप महाब्रह्मन्मुहूर्तास्त्रिषु वैश्वानरं प्रतिबोधयामि
ओं वैश्वानरे न उभयं आप्रयातु परावतः अग्निर्न स्वद्युतीरूपपृष्ठो दिवि पृष्ठोऽश्वि पृथिव्यां पृष्ठा विवेवा ओषधीचाविवेश वैश्वानरः सहसा पृष्ठोऽग्निः नमो दिव्य स षष्ठां नक्तम् ॥ १.२१६.१ ॥
ओं प्रजापतये स्वाहा
ओं सोमाय स्वाहा
ओं बृहस्पतये स्वाहा
ओं अग्निषोमाभ्यां स्वाहा
ओं इन्द्राग्निभ्यां स्वाहा
ओं द्यावापृथिवीभ्यां स्वाहा
ओं इन्द्राय स्वाहा
ओं विश्वेभ्यो देवेभ्यः स्वाहा
ओं ब्रह्मणे स्वाहा
ओं अद्भ्यः स्वाहा
ओं ओषधिवनस्पतिभ्यः स्वाहा
ओं ग्रह्याय स्वाहा
ओं देवदेवताभ्यः स्वाहा
ओं इन्द्राय स्वाहा
ओं इन्द्रपुरुषेभ्यः स्वाहा
ओं यमाय स्वाहा
ओं यमपुरुषाय स्वाहा
ओं सर्वेभ्यो भूतेभ्यो दिवाचारिभ्यः स्वाहा
ओं वसुधापितृभ्यः स्वाहा
ओं ये भूता प्रचरन्ति दीनाच निमिहन्तो भुवनस्य मध्ये
तेभ्यो बलिं पुष्टिकामो ददामि मयि पुष्टिं पुष्टिपतिर्ददातु
ओं आचाण्डालपतिर्ददातु आचाण्डालपतितवायसेभ्यः ॥ १.२१६.२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैश्वदेवनिरूपणं नाम षोडशोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २१७
ब्रह्मोवाच
अथ सन्ध्याविधं वक्ष्ये द्विजातीनां समासतः
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ॥ १.२१७.१ ॥
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ १.२१७.२ ॥
गायत्त्रीच्छन्दो विश्वामित्र ऋषिस्त्रिपात्
समुद्राः कुक्षिश्चन्द्रादित्यौ लोचनौ
अग्निर्मुखम्
विष्णुर्हृदयम्
ब्रह्मरुद्रौ शिरः
रुद्रः शिखा
उपनय ने विनियोगः
ओं भूः पादे
भुवः जानुति
स्वः हृदये
महः शिरसि
जनः शिखायाम्
तपः कण्ठे
सत्यं ललाटे
ओं हृदयाय नमः
ओं भूः शिरसे स्वाहा
ओं भुवः शिखायै वौषट्
ओं स्वः कवचाय हुं
ओं भूर्भुवः स्वः अस्त्राय फट् ॥ १.२१७.३ ॥
ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यं तत्स्त्रिपदा
ओं आपो ज्योऽती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम्
ओं सूर्यश्चेत्यादि
ओं आपः पुनन्त्वित्यादि
ओं अग्निश्चेत्यादि ॥ १.२१७.४ ॥
ओं आयातु वरदे देवि ! पूर्वाह्ने ब्रह्मदेवता
गायत्त्री नाम या सन्ध्या रक्ताङ्गी रक्तवाससा
वरहंससमारूढा श्रीमत्पुष्करसंस्थिता ॥ १.२१७.५ ॥
कमण्डलुधरा शान्ता अक्षमालाविधारिणी
आयातु वरदा देवी मध्याह्ने श्वेतरूपिणी ॥ १.२१७.६ ॥
माहेश्वरी च सावित्री शुक्लवस्त्रादिमण्डिता
वृषस्कन्धसमारूढा त्रिशूलवरधारिणी ॥ १.२१७.७ ॥
आयातु वरदा देवी अपराह्ने सरस्वती
अतसीकुसुमप्रख्या वैष्णवी गरुडासना ॥ १.२१७.८ ॥
पीतवस्त्रा शङ्खचक्रगदापद्मसमन्विता
श्वेतवर्णा समुद्दिष्टा रविमण्डलसंस्थिता ॥ १.२१७.९ ॥
श्वेतपद्मसनासीना श्वेतपुष्पोपशोभिता
ओं आपो हिष्ठा मयो भुवस्ता न उर्जे दधात नः ॥ १.२१७.१० ॥
महेरणाय चक्षुसे
ओं यो वः शिवतमो रसः
तस्य भाजयेतेह नः
अशतीरिव मातरः
ओं तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ
आपो जन यथा च नः
ओं सुमित्रिया न आप ओषधयः सन्तु ओं दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः
ओं द्रुपदादिवमुमुचानः स्विन्नः स्नातो मलादिव
पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः
ओं ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत
ततोरात्र्यजायत
ततः समुद्रोर्ऽणवः समुद्रादर्णवादधिसंवत्सरो अजायत
अहौरात्राणि विदधद्विश्वस्य मिषतो वशी
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्
दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥ १.२१७.११ ॥
गायत्त्र्या विश्वामित्र ऋषिर्गायत्त्रीछन्दः
सविता देवता जपे विनियोगः
ओं उदुत्यं जातवेदसं देवं वहन्ति केतवः
दृशे विश्वाय सूर्यम्
ओं चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च
ओं तच्चक्षर्देवहितं पुरस्ताच्छुक्रमुच्चरत्
पश्येम शरदः शतं जीवेम शरदः शतम्
शृणुयाम शरदः शतम्
ओं विश्वतश्चक्षुरुत विश्वतोमुखोविश्वतो बाहुरुत विश्वतस्पात्
संबाहुभ्यां धमति संपत्रैद्यार्वाभूमी जनयन्देव एकः
देवा गातुविदो नाङ्गविद्वानाद्भमितमनसस्पत इमं देवयज्ञं स्वाहा वातेधाः जपेत् ॥ १.२१७.१२ ॥
उत्तरे शिखरे जाते भूम्यां पर्वतवासिनी
ब्रह्मणा समनुज्ञाता गच्छ देवि ! यथासुखम् ॥ १.२१७.१३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सन्ध्याविधिनिरूपणं नाम सप्तदशोत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २१८
ब्रह्मोवाच
व्यास ! श्राद्धमहं वक्ष्ये भुक्तिमुक्तिप्रदं नृणाम्
पूर्वं निमन्त्रयेद्विप्रान्विशेषाद्ब्रह्मचारिणः ॥ १.२१८.१ ॥
प्रदक्षिणोपवीतेन देवान्वामोपवीतिना
पितॄन्निमन्त्रयेत्पादौ क्षालयेद्वाक्यमन्त्रतः ॥ १.२१८.२ ॥
ओं स्वागतं भवद्भिरिति प्रश्रः
ओं सुस्वागतामिति तैरुक्ते ओं विश्वेभ्यो देवेभ्य एतत्पादोदकमर्घ्यं स्वाहेति देवब्राह्मणपादयोर्देवतीर्थेनाभुग्नकुशसहितजलदानम् ॥ १.२१८.३ ॥
ततो दक्षिणा भिमुखेन वामोपवीतेनामुकगोत्रेभ्यो अस्मत्पितृपितामहप्रपितामहेभ्यो यथानामशर्मभ्य एतत्पादोदकमर्घ्यं स्वधेति पित्रादिब्राह्मणपादयोः पितृतीर्थेन आभुग्नकुशकुसुमसहितजलदानम् ॥ १.२१८.४ ॥
एवं मातामहादिभ्यः
एतदाचमनीयं स्वाहा स्वधेति ब्राह्मणहस्ते एषवोर्ऽघ्य इति ब्राह्मणहस्ते पुष्पदानम् ॥ १.२१८.५ ॥
ओं सिद्धमिदमासनमिह सिद्धमित्यभिधाय ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यमिति सप्तव्याहृतिभिः पूर्वमुखन्देवब्राह्मणोपवेशनम्
उत्तरदिङ्मुखंपितृब्राह्मयोणोपवेशनम्
ओं देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च
नमः स्वधायै स्वाहायै नित्यमेव भवन्तुते इति त्रिर्जपेत् ॥ १.२१८.६ ॥
ओं अद्यास्मिन्देशे अमुकमासे अमुकराशिङ्गते सवितर्यमुकतिथावमुकगोत्राणामस्मत्पितृपितामहप्रपितामहानां यथानामशर्मणां विश्वेदेवपूर्वकन्दृश्राद्धं करिष्ये ओं विश्वेभ्यो देवभ्यः स्वाहा ओं विश्वेदेवानावाहयिष्ये
आवाहयेत्युक्ते ओं विश्वेदेवाः स आगत शृणुतामिमं हवम्
एदं बर्हिर्निषीदत ओं विश्वेदेवाः शृणुतेमं इवं मे ये अन्तरिक्षे य उपद्यविष्ट
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम्
ओं ओषधयः संवदन्ते सोमेन सह राज्ञा
यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि
ओं आगच्छन्तु महाभागा विश्वेदेवा महाबलाः
ये अत्र विहिताः श्राद्धे सावधाना भवन्तु ते
ओं अपहतासुरा रक्षांसि वेदिषद इति त्रित्रिर्यवविकिरणम् ॥ १.२१८.७ ॥
ओं पात्रमहं करिष्ये
ओं करुष्वेत्यनुज्ञातः कृत्वा पात्रे पवित्रनिषेवणम् ॥ १.२१८.८ ॥
ओं शन्नो देवीरभिष्टय आपो भवन्तु पीतये
शंयोरभिस्त्रवन्तु न इति पात्रे जलदानम्
ओं यवोऽसि यवयास्मद्वेषो यवयारातीरिति यवदानम्
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीं सर्वभूतानां ता (त्वा) मिहोपह्वये श्रियमिति गन्धदानम्
ओं या दिव्या आपः पयसा संबभूवुर्या अन्तरिक्षौत पार्थवीर्याः
हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शं स्योना सुहवा भवन्तु
एषोर्ऽघो नम इति ब्राह्मणहस्ते जलं दत्त्वानेनैव पात्रेण पवित्रग्रहणं कृत्वा संस्त्रवं पवित्रं च ब्राह्मणपार्श्वे दद्यात्
ततः प्रथमपात्रे संस्त्रवजलं संस्थाप्य कुशोपरि ऊर्ध्वमुखं स्थापनं कुर्यत्
तदुपरि कुशदानम् ॥ १.२१८.९ ॥
विश्वेभ्यो देवेभ्यः एतानि गन्धपुष्पधूपदीपवासो युगयज्ञो पवीतानि नमः
गन्धादिदानमच्छिद्रमस्तु
अस्त्विति ब्राह्मणप्रतिवचनम् ॥ १.२१८.१० ॥
ततः पितृपितामहप्रपितामहानां मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानां श्राद्धमहं करिष्ये इति अनुज्ञावचनम्
कुरुष्वेति ब्राह्मणैरुक्ते
ओं देवताभ्यः पितृभ्यश्च इतित्रिर्जपेत् ॥ १.२१८.११ ॥
ओं अमुकगोत्रेब्योऽस्मत्पितृपितामहेभ्यो यथानामशर्मभ्यः सपत्नीकेभ्यः इदमासनं स्वधा इति ब्राह्मणवामे आसनदानम्
ओं पितॄनावाहयिष्ये
ओं
आवाहयेत्युक्ते ओं उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि
उशन्नु शत आवह पितॄन्हविषे उत्तवे
ओं आयन्तु नः पितरः सौम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः
अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेवन्त्वस्मानित्यावाहनम्
ओं अपहता सुरा रक्षांसि वेदिषदः इति तिलविकिरणम्
पूर्ववक्त्रमेण स्थापितपात्रेषूदकदानम्
ओं तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः
प्रत्नमद्भिः पृक्तः स्वधया पितॄंल्लोकान्प्रीणीहि नः स्वाहा इति तिलदानम् ॥ १.२१८.१२ ॥
गन्धपुष्पे हस्ताभ्यां दत्त्वा पितृपात्रमुत्थाप्य या दिव्येति पठित्वा अमुकगोत्रास्मत्पितः ! अमुकदेवशर्मन् ! सपत्नीक ! एष तेऽर्घ्यः स्वधा
अपवित्रं पात्रं गृहीत्वा वामपार्श्वे दक्षिणे कुशोपरि ओं पितृभ्यः स्थानमसीत्यधोमुखपात्रस्थापनम् ॥ १.२१८.१३ ॥
ओं शुन्धन्तां लोकाः पितृसदनाः पितृसदनमसि
अधोमुखपात्त्रस्पर्शनम्
अमुकगोत्रेभ्योऽस्मत्पितृपितामह प्रपितामहेभ्यः सपत्नीकेभ्य एतानि गन्धपुष्पधूपदीपवासोगुणसोत्तरीययज्ञोपवीतानि वः स्वधा पितृतीर्थेन गन्धादिदानम्
गन्धादिदानमक्षय्यमस्तु
संकल्पसिद्धिरस्तु
ब्राह्मणवचनम्
एवं मातामहादीनामनुज्ञापनादिकर्म
ओं यादिव्येतिभूमिसंमार्जनम्
ततो घृताक्तमन्नं गृहीत्वा दक्षिणोपवीती पितृब्राह्मणमों अग्नौ करणमहं करिष्ये
ओं कुरुष्वेति तेनोक्ते ओं अग्नये कव्यवाहनाय स्वाहा इति आहुतिद्वयं देवब्राह्मणहस्ते दत्त्वा अवशिष्टान्नं पिण्डार्थं स्थापयित्वा अपरमर्धं पित्रादिपात्रे मातामहादिपात्रे च निः क्षिपेत् ॥ १.२१८.१४ ॥
पात्रमुद्रादि निधाय कुशं दत्त्वा अधोमुखाभ्यां पाणिभ्यां पात्रं गृहीत्वा ओं पृथिवीते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहा पात्राभिमन्त्रणम्
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्
समूढमस्य पांसुरे
विष्णो हव्यंरक्षस्व इत्यन्नमध्ये अधोमुखद्विजाङ्गुष्ठनिवेशनम् ॥ १.२१८.१५ ॥
अपहतेति त्रिर्यवविकिरणम्
ओं निहन्मि सर्वं यदमेध्यवद्भवेद्धताश्च सर्वेऽसुरदानवा मया
रक्षांसि यक्षाः सपिशाचसङ्घा हता मया यातुधानाश्च सर्वे इति सिद्धार्थविकिरणम् ॥ १.२१८.१६ ॥
ततो धूरिलोचनसंज्ञकेभ्योदवेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं स्वाहेति वारिकुशाद्यैरनुसङ्कल्पनम्
ओं अन्नमिदमक्षय्यमस्तु ओं संङ्कल्पसिद्धिरस्तु ॥ १.२१८.१७ ॥
ततो विपरीतोपवीतेन सव्यञ्जनं सघृतमन्नं पित्रादि ब्राह्मणपात्रे निधाय तदुपरि भूमिसंलग्नकुशं दत्त्वा ओं पृथिवी ते पात्रं इति मन्त्रेण उत्तानाभ्यां पात्रं गृहीत्वा ओं इदं विष्णोरित्यन्नोपरि उत्तानं द्विजाङ्गुष्ठं निवेशयेत्
ओं अपहतेति तिलविकिरणम्
भूमिपातितवामजानुः अमुकगोत्रेभ्यः अस्मत्पितृपितामहेभ्यः सपत्नीकेभ्यः एतदन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं स्वधा
अन्नं सङ्कल्प्य ओं ऊर्जं वहन्तीरमृतं घृत पयः कीलालं परिस्त्रुतं स्वधास्तु तर्पयत मे पितरम्
दक्षिणामुखवरिधारत्यागः ॥ १.२१८.१८ ॥
ओं श्राद्धमिदमच्छिद्रमस्तु ओं सङ्कल्पसिद्धरस्तु
ओं भूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयातिति विसजयित्वा ओं मधुवाता ऋतायते मधुक्षरन्तु सिन्धवः माध्वीर्नः सन्त्वोषधीर्मधुनक्तमुतोषसो मधुत्पार्थिवं रजः
मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिः मधुमानस्तु सूर्यो माध्वीर्गावो भवन्तु नः
मधु मधु मधु इति जपः ॥ १.२१८.१९ ॥
यथासुखं वाग्यता जुषध्वमिति ब्रूयात्
बुक्तवत्सु सप्तव्याधादिकं पितृस्तोत्रं जपेत्
तच्चसप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ
चक्रवाकाः शराद्वीपे हंसाः सरसि मानसे ॥ १.२१८.२० ॥
तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः
प्रस्थिता दूरमध्वानं यूयं किमवसीदथ ॥ १.२१८.२१ ॥
ततस्तृप्यस्व दक्षिणाभिमुखो वामोपवीती तदुत्सृष्टाग्रतः
ओं अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु पराङ्गतिम्
इति भूमौ कुशोपरि सघृतमन्नं जलप्लुतं विकिरेत् ॥ १.२१८.२२ ॥
ततो ब्राह्मणक्रमेण जलगण्डूषं दत्त्वा पूर्ववत्सव्याहृतिकां गायत्त्रीं मधुवातेतित्र्यृचं जप्त्वा ओं रुचितं भवद्भिरिति देवब्राह्मणप्रश्रः
सुरुचितमिति तेनोक्ते ओं शेषमन्नमिति प्रश्रः
इष्टैः सह भोजनम्
पित्रादिब्राह्मणं वामोपवीतेन ओं तृप्ताः स्थ इति प्रश्रः
ओं तृप्ताः स्म इति तेनोक्ते भूम्यभ्युक्षणं मण्डलचतुष्कोणं ति लविकिरणम् ॥ १.२१८.२३ ॥
ओं अमुकगोत्र ! अस्मत्पितः ! अमुकदेवदर्शन् ! सपत्नीक ! एतत्ते पिण्डासनं स्वधा
इत्थं रेखामध्ये पितामहाय खव्याहृतिकां गायत्त्रीं मधुवातेति त्रर्जपन्नन्नं साज्यं पिण्डं कृत्वा कुशोपरि अमुकगोत्र अस्मत्पितः ! अमुकदेवश्रमन् ! सपत्नीक एष पिण्डस्ते स्वधा
इत्थं रेखामध्ये पितामहाय
ततः सव्याहृतिकां गायत्त्रीं मधुवातेति त्रिर्जंपन्पिण्डविकिरणं पिण्डान्तिके
ओं लेपभुजः प्रीयन्तमिति स्तरण्कुशेषु हस्तमार्जनं प्रक्षालितपिण्डोदकेन ओं अमुकगोत्र ! अस्मत्पितः ! अमुकशर्मन् सपत्नीक एतत्ते जलमवनेक्ष्व ये चात्रत्वामनुजाश्च त्वामनु तस्मै तेस्वधेति पितृपिण्डसेचनम्
पिण्डपात्रमधोमुखं कृत्वा बद्धाञ्जलिः ओं पितरो मादयध्वं यथाभागमावृषायध्वमिति जपेत्
अपः स्पृष्ट्वा वामेन परावृत्त्य उदङ्मुखः प्राणांस्त्रिः संयम्य षड्भ्य ऋतुभ्यो नमः इति जपः ॥ १.२१८.२४ ॥
वामेनैव परावृत्य पुष्पदानम्
अक्षतञ्चारिष्टञ्चास्तु मे पुण्यं शान्तिपुष्टिदृ
दक्षिणामुखः अमी मदन्तः पितरो यथाभागमावृषायिषत इति जपः
वासः शिथिलीकृत्वाञ्जलिं कृत्वा ओं नमो वः पितरो नमो वः इति जपः
गृहान्नः पितरो दत्त इति गृहवीक्षणम्
ततः सदा वः पितरो द्वेष्म इति वीक्ष्य एतद्वः पितरो वास इत्युच्चार्य अमुकगोत्र एतत्ते वासः स्वधा इति सूत्रदानम्
वामेन पाणिना उदकपात्रं गृहीत्वा ऊर्जं वहन्तीरमृतं घृतं पयः इत्यादि पिण्डोपरि धारात्यागः ॥ १.२१८.२५ ॥
पूर्वस्थापितपात्रशेषोदकैः प्रत्येकं पिण्डसेचनंपिण्डमावाह्य गन्धादिदानंपिण्डोपरि कुशपत्रञ्च दत्त्वा ओं अक्षन्नमीमदन्तह्य व प्रिया अधूषत अस्तोषतस्वभानवो विप्रा नविष्ठयामती
यो जान्विन्द्र ते हरीति त्रिर्जपः ॥ १.२१८.२६ ॥
ओं इत्थं मातामहादिब्राह्मणानामाचमनम्
ओं सुसुप्रोक्षितमस्त्विति भूम्यभ्युक्षणं कृत्वा
ओं अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम्
ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः
शिवा आपः सन्त्विति ब्राह्मणहस्ते जलदानम्
लक्ष्मीर्वसतिपुष्पेषु लक्ष्मीर्वसति पुष्करे
लक्ष्मीर्वसति गोष्ठेषु सौमनस्यं सदास्तु ते
सौमनस्यमस्त्विति पुष्पदानम्
अक्षतं चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिश्च मे
यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम
ओं अक्षतञ्चारिष्टञ्चास्तु इति यवतण्डुलदानम् ॥ १.२१८.२७ ॥
अमुकगोत्राणामस्मत्पितृपितामहप्रपितामहानां सपत्नीकानामिदमन्नपानादिकमक्षय्यमस्त्विति पित्रादिब्राह्मणहस्ते तिलजलदानम्
अस्त्विति ब्राह्मणो वदेत्
एतन्मातामहादीनामक्षय्यमाशिषः
ओं अघोराः पितरः सन्तु गोत्रं नो वर्धतांदातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च
श्रद्धा च नो मा व्यगमद्बहुदेयञ्च नोऽस्त्विति
अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि
याचितारश्च नः सन्तु मा च याचिष्म कञ्चन
एताः सत्याशिषः सन्तु ॥ १.२१८.२८ ॥
सौमनस्यमस्तु
अस्त्वित्युक्ते प्रदत्तपिण्डस्थाने अर्घ्यार्थपवित्रमोचनम्
कुशपवित्रं गृहीत्वातेन कुशेन पित्रादिब्राह्मणं स्पृष्ट्वा स्वधां वाचयिष्येओं वाच्यतांों पितृपितामहेभ्यो यथानामशर्मभ्यः सपत्नीकेभ्यः स्वधोच्यताम्
अस्तुस्वधा इत्युक्ते ऊर्जं वहन्तीरमृतं घृतमिति पिण्डोपरि वारिधारां दद्यात् ॥ १.२१८.२९ ॥
ततः ओं विश्वेदेवा अस्मिन्यज्ञे प्रीयन्तादेवब्राह्मणहस्ते यवोदकदानम्
ओं प्रीयन्तामिति तेनोक्ते ओं देवताभ्य इति त्रिर्जपेत् ॥ १.२१८.३० ॥
अधोमुखः पिण्डपात्राणि चालयित्वा आचम्य दक्षिणोपवीती पूर्वाभिमुखः ओं अमुकगोत्राय अमुकदेवशर्मणे ब्राह्मणाय सपत्नीकाय श्राद्धप्रतिष्ठार्थदक्षिणामेतद्रजतं तुभ्यमहं सम्प्रददे इति दक्षिणां दद्यात्
इति देवूब्राह्मणाय दक्षिणादानम् ॥ १.२१८.३१ ॥
ततः पितृब्राह्मणे पिण्डाः सम्पन्ना इति प्रश्रः
सुसम्पन्ना इति पिण्डे क्षीरधारां दत्त्वा पिण्डचालनं अतिथिब्राह्मणे पिण्डपात्रमुत्तानं कृत्वा ओं वाजे वाजे वत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः
अस्यमध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैरिति पिण्डा दिविसर्जनंामावाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरूपे आमागन्तां पितरा चामा सोमोऽमृतत्वेन गम्यात्
इति देवविसर्जनम्
ओं अभिगम्यतामिति पितृब्राह्मणविसर्जनम्
ब्राह्मणैरनुद्गतस्य निवर्तनम्
गवादिषु पिण्डप्रतिपादनमिति शेषः ॥ १.२१८.३२ ॥
अयं श्राद्धविधिः प्रोक्तः पठितः पापनाशनः
अनेन विधिना श्राद्धं कृतं वै यत्र कुत्रचित् ॥ १.२१८.३३ ॥
अक्षया स्यात्पितॄणाञ्च स्वर्गप्राप्तिर्ध्रुवा तथा
इत्युक्तं पार्वणं श्राद्धं पितॄणां ब्रह्मलोकदम् ॥ १.२१८.३४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पार्वणश्राद्धकथनं नामाष्ट्रदशाधिकद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २१९
ब्रह्मोवाच
नित्यश्राद्धं प्रवक्ष्यामि पूर्ववत्तद्विशेषवत्
ओं अमुकगोत्राणामस्मत्पितृपितामहानां अमुकशर्मणां सपत्नीकानां श्राद्धं सिद्धान्नेन युष्मास्वहं करिष्ये
आसनादिकमत्र स्याद्विश्वेदेवाविवर्जितम् ॥ १.२१९.१ ॥
वृद्धिश्राद्धं प्रवक्ष्यामि पूर्ववत्तद्विशेषकम्
जातपुत्रमुखदर्शनादौ वृद्धि श्राद्धं पूर्वाभिमुखेषु दक्षिणोपवीतिषु सयवबदरकुशैर्देवतीर्थेन नमस्कारान्तेन दक्षिणोपचारेण कर्तव्यम् ॥ १.२१९.२ ॥
दक्षिणजानु गृहीत्वा अद्यास्मदीयामुकवृद्धौ अमुकगात्राणामस्मत्प्रपितामहीपितामहीमातॄणाममुकदेवीनाममुकगोत्राणां श्राद्धे कर्तव्ये वसुसत्यसंज्ञकानां विश्वेषां देवानां श्राद्धं सिद्धान्नेनयुष्मासु मया कर्तव्यमिति देवब्राह्मणामन्त्रणम्
ओं करिष्यसीति तेनोक्त इत्थमेवापरदेवब्राह्मणामन्त्रणम् ॥ १.२१९.३ ॥
ततः अमुकवृद्धौ अमुकगोत्राया मत्प्रपितामह्या अमुकदेव्या नान्दीमुख्याः श्राद्धं सिद्धान्नेन युष्मासु मया कर्तव्यमिति प्रपितामहीब्राह्मणामन्त्रणम्
करिष्यामीति तेनोक्ते इत्थमेव प्रमातामह्यादिब्राह्माणमन्त्रणम् ॥ १.२१९.४ ॥
देवपितृसर्वदेवब्राह्मणं श्राद्धकरणानुज्ञापनम्
आसने ओं विश्वेदेवास आगत शृणुताम इमंर्ठ इवम्
तं बर्हिर्निषीदत
ओं विश्वेदेवाः शृणुतेमं इवं ये मे अन्तरिक्षे य उदद्यविष्ट
पे अग्निजिह्वा उतवा यदत्रा आसाद्यास्मिन्बर्हिषि मादयध्वम्
ओं आगच्छन्तु इति विश्वेदेवावाहनंगन्धादिदानम्
अच्छिद्रावधारणवाचनम् ॥ १.२१९.५ ॥
ततः प्रपितामहीप्रभृतीनामनुज्ञापनमासनदानं गन्धादिदानञ्च अच्छिद्रावधारणवाचनम्
इत्थं पितामह्याः मातुः
ततः प्रपितामहादीनां अनुज्ञापनम्
आसनमावाहनङ्गन्धादिदानंवृद्धप्रमातामहादीनामनुज्ञापनादिकरणम्
ओं वसुसत्यसंज्ञकेभ्यो देवेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं सवदरं सदधि प्रतिषिद्धवर्जितं नम इति अन्नसङ्कल्पनम्
ओं अमुकगोत्रे ! मत्पितामहमुकदेवि नान्दीमुखि ! एतदन्नं सबदरं सदधि नमः
एवं मातामहप्रभातामहेभ्यः ॥ १.२१९.६ ॥
एकोद्दिष्टं पुरोऽवश्यं तद्विशेषं वदे शृणु
प्रथमं निमन्त्रणं पादप्रक्षालनमासनम्
अद्य अमुकगोत्रस्य मत्पितुरमुकदेवशर्मणः प्रतिसांवत्सरिकमेकोद्दिष्टश्राद्धं सिद्धान्नेन युष्मास्वहं करिष्ये
श्राद्धकरणानुज्ञापनमासनं गन्धादिदानमन्नानुकल्पनम्
जप्यं निवीती
उत्तराभिमुखीभूयातिथिश्राद्धं कुर्यात् ॥ १.२१९.७ ॥
ततस्मृप्तिं ज्ञात्वा दक्षिणाभिमुखीवामोपवीती उच्छिष्टसमीपे अग्निदग्धा इति अन्नविकिरणम्
अमुकगोत्रमत्पितरमुकदेवशर्मन्नेतत्ते जलमवनेनिक्ष्व ये चात्र त्वामनुयाश्च त्वामनुतस्मै ते स्वधा इति रेखोपरि वारिधारादानम्
शेषं पूर्ववत् ॥ १.२१९.८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकोनविंशाधिकद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २२०
ब्रह्मोवाच
सपिण्डीकरणं वक्ष्ये पूर्णेऽब्दे तत्क्षयेऽहनि
कृतं सम्यग्यथाकाले प्रेतादेः पितृलोकदम् ॥ १.२२०.१ ॥
सपिण्डीकरणं कुर्यादपराह्ने तु पूर्ववत्
पितामहादिब्राह्मणनिमन्त्रणम्
ओं पुरूरवार्द्रवसंज्ञकेभ्यो देवेभ्य एतदासनं नमः
वामपार्श्वे चासनदानम्
आवाहनम्
ततः पितामहप्रपितामहवृद्धप्रपितामहानां सपत्नीकानां श्राद्धमहं करिष्ये इत्यनुज्ञाग्रहणंपात्रत्रयकरणंपात्रोपरि कुशं दत्त्वा पात्रान्तरेण पिधाय अच्छिद्रावधारणान्तं परिसमाप्य तथैव पितुरपि सपत्नीकस्य प्रेतपदान्तनाम्ना श्राद्धकरणानुज्ञापनं देवपात्राच्छिद्रावधारणम् ॥ १.२२०.२ ॥
तत्परिसमाप्य पितामहप्रपितामहवृद्धप्रपितामहक्रमेण पात्राणां मनाक्चालनम्
उद्धाटनं कृत्वाओं ये समानाः समनसः पितरो यमराज्ये
तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम्
ओं ये समानाः समनसो जीवा जीवेषु मामकाः
तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतं समाः
एतन्मन्त्रद्वयेन पितृपात्रोदकं पितामहप्रपितामहपात्रे वृद्धप्रपितामहपात्रं परित्यज्य पितामहप्रपितामहयोरुदकं पवित्रञ्च पितृपात्रे क्षिपेत् ॥ १.२२०.३ ॥
ततः पितृब्राह्मणहस्ते पात्रस्थपवित्रदानम्
पात्रस्थपुष्पेण शिरसः करपादार्चनं ब्राह्मणहस्तेऽन्य जलदानंहस्ताभ्यां पात्रमुत्थाप्य ओं या दिव्येति पठित्वा ओं अमुकगोत्र मत्पितामह अमुकदेवशर्मन् सपत्नीक एष ते अर्घ्यः स्वधा
पितृपात्रेणैव पितामहब्राह्मणहस्ते स्तोकमर्घ्योदकं सपवित्रङ्गृहीत्वास्तोकमुदकं पिण्डसेचनार्थं पात्रान्तरेण पिधाय पितृब्राह्मणवामपार्श्व दक्षिणाग्रकुशोपरि पितृभ्यः स्तानमसीति अधोमुखपात्रस्थपनम् ॥ १.२२०.४ ॥
पितामहप्रपितामहवृद्धप्रपितामहेभ्यो गन्धादिदानमग्नौकरणम्
अवशिष्टान्नं प्रपितामहादिपात्रे क्षिपेत्
पितामहपात्राभिमन्त्रणपर्यन्तक्रमेण समाप्यापि ब्राह्मणपात्राभिमन्त्रणम्
अङ्गुष्ठनिवेशनं तिलविकरणं कृत्वा अमुकगोत्र एतत्ते अन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं ये चात्र त्वा मनुयाश्च त्वामनु तस्मै ते स्वधा इति ॥ १.२२०.५ ॥
ततो देवप्रभृतिभ्य अपोशानं दद्यात्
अतिथिप्राप्तौ अतिधिश्राद्धं कुर्यात्
अस्मिन्नवसरे विकिरणम्
पितामाहदौ प्रश्रं कृत्वा पितृब्राह्मणमों स्वदितं भवद्भिरिति प्रश्रः
ओं अमुकगोत्र मत्पितः अमुकशर्मन् सपत्नीक एष ते पिण्डो ये चात्रत्वामनुयाश्च त्वामनु तस्मै स्वधेति पिण्डपात्रमच्छिद्रमस्तु
ततः सङ्कल्प सिद्धिवाचनं समाप्य पिण्डं द्विधा कृत्वा ये समानाः सुमनस इति मन्त्रद्वयं पठित्वा पितामहवृद्धप्रपितामहपात्रेषु क्षिपेत्
पिण्डेषु गन्धादिकं दत्त्वा पिण्डचालनम्
अतिथिब्राह्मणे स्वदितादिप्रश्रः
ब्राह्मणानामाचमनम्
भुक्तिक्रमेण ताम्बूलदानम्
सुप्रोक्षितमस्तु शिवा आपः सन्तुवृद्धप्रपितामहक्रमेण ब्राह्मणहस्ते जलदानम्
गोत्रस्याक्षय्यमस्तु पितृब्राह्मणहस्ते उपतिष्टतामिति सतिजलदानम् ॥ १.२२०.६ ॥
अघोराः पितरः सन्तु अस्त्वित्युक्ते स्वधां वाचयिण्य इति पितामाहदिब्राह्मणानुज्ञापनम् ॥ १.२२०.७ ॥
ओं वाच्यतां इत्युक्ते ओं पितामहादिभ्यः स्वधोच्यताम्
अस्तु स्वधेत्युक्ते पितृब्राह्मण पितृभ्यः स्वधोच्यतामिति
अस्तु स्वधेत्युक्ते ओं ऊर्जं वहन्तीरिति दक्षिणाभिमुखवारिधारात्यागः
ओं विश्वेदेवा अस्मिन् यज्ञे प्रीयन्तामिति देवब्राह्मणहस्ते ओं यवोदकदानम्
ओं देवताभ्य इति त्रिर्जपः ॥ १.२२०.८ ॥
पिण्डपात्राणि चालयित्वा आचम्य पितामहादिभ्यो दक्षिणां दत्त्वा ततः पितृ ब्राह्मणाय आशिषो मे प्रदीयन्तामित्याशीः प्रार्थनम्
प्रतिगृह्यतामित्युक्ते दातारो नोऽभिवर्धन्तामिति पात्रमुत्तानं कृत्वा वाजे वाजेदृविसर्जनम्
अभिरण्यतामिति पितृब्राह्मणविसर्जनम् ॥ १.२२०.९ ॥
सपिण्डीकरणश्राद्धं व्यासप्रोक्तं मया तव
श्राद्धं विष्णुः श्राद्धकर्ता फलं श्राद्धादिकं हरिः ॥ १.२२०.१० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्राद्धानुष्ठानं नामविंशाधिकद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २२१
ब्रहामोवाच
धर्मसारमहं वक्ष्ये संक्षेपाच्छुणु शङ्कर
भुक्तिमुक्तिप्रदं सूक्ष्मं सर्वपापविनाशनम् ॥ १.२२१.१ ॥
श्रुतं धर्मं बलं धैर्यं सुखमुत्साहमेव च
शोको हरति वै नॄणां तस्माच्छोकं परित्यजेत् ॥ १.२२१.२ ॥
कर्मदाराः कर्मलोकाः कर्मसम्बन्धिबान्धवाः
कर्माणि प्रेरयन्तीह पुरुषं सुखदुः खयोः ॥ १.२२१.३ ॥
दानमे परो धर्मो दानात्सर्वमवाप्यते
दानाःत्स्वर्गश्च राज्यञ्च दद्याद्दनं ततो नरः ॥ १.२२१.४ ॥
एकतो दानमेवाहुः समग्रवरदक्षिणम्
एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥ १.२२१.५ ॥
तपसा ब्रह्मचर्येण यज्ञैः स्नानेन वा पुनः
धर्मस्य नाशका ये च ते वै निरयगामिनः ॥ १.२२१.६ ॥
ये च होमजपस्नानदेवतार्चनतत्पराः
सत्यक्षमादयायुक्तास्ते नराः स्वर्गगामिनः ॥ १.२२१.७ ॥
न दाता सुखदुः खानां न च हर्तास्ति कश्चन
भुञ्जते स्वकृतान्येव दुः खानि च सुखानि च ॥ १.२२१.८ ॥
धर्मार्थं जीवितं येषां दुर्गाण्यतितरन्ति ते
सन्तुष्टः को न शक्नोति फलमूलैश्च वर्तितुम् ॥ १.२२१.९ ॥
सर्व एव हि सौख्येन सङ्कटान्यवगाहते
इदमेव हि लोभस्य कार्यं स्या दतिदुष्करम् ॥ १.२२१.१० ॥
लोभात्क्रोधः प्रभवति लोभाद्द्रोहः प्रवर्तते
लोभान्मोहश्च माया च मानो मत्सर एव च ॥ १.२२१.११ ॥
रागद्वेषानृतक्रोधलोममोहमदोज्झितः
यः स शान्तः परं लोकं याति पापविवर्जितः ॥ १.२२१.१२ ॥
देवता मुनयो नागा गन्धर्वा गुह्यका हर
धार्मिकं पूजयन्तीह न धनाढ्यं न कामिनम् ॥ १.२२१.१३ ॥
अनन्तबलवीर्येण प्रज्ञया पौरुषेण वा
अलभ्यं लभते मर्त्यस्तत्र का परिवेदना ॥ १.२२१.१४ ॥
सर्वसत्त्वदयालुत्वं सर्वेन्द्रियविनिग्रहः
सर्वत्रानित्यबुद्धित्वं श्रेयः परमिदं स्मृतम् ॥ १.२२१.१५ ॥
पश्यन्निवाग्रतो मृत्युं यो धर्मं नाचरेन्नरः
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ १.२२१.१६ ॥
भ्रूणहा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः
भूमिं सर्वगुणोपेतां दत्त्वा पापैः प्रमुच्यते ॥ १.२२१.१७ ॥
न गोदानात्परं दानं किञ्चिदस्तीति मे मतिः
या गौर्न्यायार्जिता दत्ता कृत्स्नं तारयते कुलम् ॥ १.२२१.१८ ॥
नान्नदानात्परं दानं किञ्चिदस्ति वृषध्वज !
अन्नेन धार्यते सर्वं चराचरमिदं जगत् ॥ १.२२१.१९ ॥
कन्यादानं वृषोत्सर्गस्तीर्थसेवा श्रुतं तथा
हस्त्यश्वरथदानानि मणिरत्नवसुन्धराः ॥ १.२२१.२० ॥
अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीम्
अन्नात्प्राणा बलं तेजश्चान्नाद्वीर्यं धृतिः स्मृतिः ॥ १.२२१.२१ ॥
कूपवापीतडागादीनारामांश्चैव कारयेत्
त्रिसप्तकुलमुद्धृत्य विष्णुलोके महीयते ॥ १.२२१.२२ ॥
साधूनां दर्शनं पुण्यं तीर्थादपि विशिष्यते
कालेन तीर्थं फलति सद्यः साधुसमागमः ॥ १.२२१.२३ ॥
सत्यं दमस्तपः शौचं सन्तोषश्च क्षमार्जवम्
ज्ञानं शमो दया दानमेष धर्मः सनातनः ॥ १.२२१.२४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे धर्मसारकथनं नामैकविंशाधिकद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २२२
ब्रह्मोवाच
प्रायश्चित्तादि वक्ष्येऽहं नरकौघविमर्दनम्
मक्षिका विप्रुषो नारी भुवि तोयं हुताशनः
मार्जारो नकुलश्चैव शुचीन्येतानि नित्यशः ॥ १.२२२.१ ॥
यः शूद्रोच्छिष्टसंस्पृष्टं प्रमादाद्भक्षयेद्द्विजः
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ १.२२२.२ ॥
विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कदाचन
स्नानं जप्यञ्च कर्तव्यं दिनस्यान्ते च भोजनम् ॥ १.२२२.३ ॥
अन्नं समक्षिकाकेशं शुध्येद्वान्तेन तत्क्षणात्
यश्च पाणितले भुङ्क्ते अङ्गुल्या बाहुना च यः ॥ १.२२२.४ ॥
अहोरात्रेण शुध्येत पिबेद्यदि न वार्युत
पीतशेषन्तु यत्तोयं वामहस्तेन मद्यवत् ॥ १.२२२.५ ॥
चर्ममध्यगतं तोयमशुचि स्यान्न तत्पिबेत्
अन्त्यजातिरविज्ञातो निवसेद्यस्य वेश्मनि ॥ १.२२२.६ ॥
चान्द्रायणं पराकं वा द्विजातीनां विशोधनम्
प्राजापत्यन्तु शूद्रस्य पश्चाज्ज्ञाते तथापरे ॥ १.२२२.७ ॥
यस्तत्र भुङ्क्ते पक्वान्नं कृच्छ्रार्धं तस्य दापयेत्
तेषामपि च यो भुङ्क्ते कृच्छ्रपादो विधीयते ॥ १.२२२.८ ॥
रजकानाञ्च शैलू षवेणुचर्मोपजीविनाम्
एतदन्नञ्च यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥ १.२२२.९ ॥
चाण्डालकूपभाण्डेषु अज्ञानाच्चेत्पिबेज्जलम्
कुर्यात्सान्तपनं विप्रस्तदर्धञ्च विशः स्मृतम् ॥ १.२२२.१० ॥
पादं शूद्रस्य दातव्यमज्ञानादन्त्यवेश्मनि
प्रायश्चित्तं त्रिकृच्छ्रं स्यात्पराकमन्त्यजागतौ ॥ १.२२२.११ ॥
अन्त्यजोच्छिष्टभुक्च्छुध्येद्द्विजश्चान्द्रायणेन च
चाण्डालन्नं यदा भुङ्क्ते प्रमादादैन्दवञ्चरेत् ॥ १.२२२.१२ ॥
क्षत्त्रजातिः सान्तपनं षड्द्विरात्रं परे तथा
एकवृक्ष तु चण्डालः प्रमादाद्ब्राह्मणो यदि
फलं भक्षयते तत्र अहोरात्रेण शुध्यति ॥ १.२२२.१३ ॥
भुक्त्वोपविष्टोऽनाचान्तश्चण्डालं यदि संस्पृशेत्
गायत्त्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् ॥ १.२२२.१४ ॥
चाण्डालश्वपचैर्वापि विण्मूत्रे तु कृते द्विजाः
प्रायश्चित्तं त्रिरात्रं स्यात्पराकश्चान्त्यजागतौ ॥ १.२२२.१५ ॥
अकामतः स्त्रियो गत्वा पराकस्तत्र साधकः
अन्त्यजातिप्रसूतस्य प्रायश्चित्तं न विद्यते ॥ १.२२२.१६ ॥
मद्यादिदुष्टभाण्डेषु यादपः पिबति द्विजः
कृच्छ्रपादेन शुध्येद्वै पुनः संस्कारकर्मणा ॥ १.२२२.१७ ॥
ये प्रत्यवसिता विप्रा वज्राग्निपवनादिषु
अन्नपानादि संगृह्य चिकीर्षन्ति गृहान्तरम् ॥ १.२२२.१८ ॥
चारयेत्त्रीणि कृच्छाणि त्रीणि चान्द्रायणानि वै
जातकर्मादिसंस्कारं वसिष्ठो मुनिरब्रवीत् ॥ १.२२२.१९ ॥
प्राजापत्यादिभिर्द्रष्टा स्त्री शुध्येत्तु द्विभोजनात्
उच्छिष्टोच्छिष्टसंस्पृष्टंशुना शूद्रेण वा द्विजः ॥ १.२२२.२० ॥
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति
वर्णबाह्येन संस्पृष्टः पञ्चरात्रेण वै तदा ॥ १.२२२.२१ ॥
अदुष्टाः सन्तता धाराः वातोद्धूताश्च रेणवः
स्त्रियो बालाश्च वृद्धाश्च न दुष्यन्ति कदाचन ॥ १.२२२.२२ ॥
नित्यमास्यं शुचि स्त्रीणां शकुन्तैः पातितं फलम्
प्रस्त्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ १.२२२.२३ ॥
उदके चोदकस्थं तु स्थलेषु स्थलजं शुचि
पादौ स्थाप्यौ च तत्रैव आचान्तः शुचितामियात् ॥ १.२२२.२४ ॥
शुध्येत्तद्भस्मना कांस्यं सुरया यन्न लिप्यते
मूत्रेण सुरया मिश्रं तपनैः खलु शुध्यति ॥ १.२२२.२५ ॥
गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च
काकश्वापहतान्येव शुध्यन्ति दश भस्मना ॥ १.२२२.२६ ॥
शूद्रभाजनभोक्ता यः पञ्चगव्यं त्र्युपोषितः
उच्छिष्टं स्पृशते विप्रः श्वसूद्रश्चापराधिकः ॥ १.२२२.२७ ॥
उपोषितः पञ्चगव्याच्छुध्येत्स्पृष्ट्वा रजस्वलाम्
अनुदकेषु देशेषु चोरव्याघ्राकुले पथि ॥ १.२२२.२८ ॥
कृत्वा मूत्रपुरीषन्तु द्रव्यहस्तो न दुष्यति
भूमौनिः क्षैप्य तद्द्रव्यं शौचं कृत्वा समाहितः ॥ १.२२२.२९ ॥
आरनालं दधि क्षीरं तक्रन्तु कृसरञ्च यत्
शूद्रादपि च तद्गाह्यं मांसं मधु तथान्त्यजात् ॥ १.२२२.३० ॥
गौडीं पैष्टीञ्च माध्वीकं विप्रादिर्यः सुरां पिबेत्
सुरां पिबन्द्विजः शुध्येदग्निवर्णां सुरां पिबन् ॥ १.२२२.३१ ॥
विप्रः पञ्चशतं जप्यं गायत्र्याः क्षत्रियस्य च शतं विप्रश्च भुक्त्वान्नं पानपात्रेण सूतके ॥ १.२२२.३२ ॥
शुचिर्विप्रो दशाहेन क्षत्त्रियो द्वादशाहतः
वैश्यः पञ्चदशाहन शूद्रो मासेन शुध्यति ॥ १.२२२.३३ ॥
राज्ञां युद्धेषु यज्ञादौ देशान्तरगतेषु च
बाले प्रेते मासिके च सद्यः शौचं विधीयते ॥ १.२२२.३४ ॥
अविवाहा तथा कन्या द्विजो मौञ्जीविवर्जितः
जतदन्तश्च बालश्च कुमारी च त्रिवर्षिका ॥ १.२२२.३५ ॥
तेषां शुद्धिस्त्रिरात्रेण गर्भस्त्रावे त्रिरात्रिभिः
सूतायां मासतुल्याश्च चतुर्थेऽह्नि रजस्वला ॥ १.२२२.३६ ॥
दुर्भिक्षे राष्ट्रसंपते सूतके मृतकेपि वा
नियमाश्च न दुष्यन्ति दानधर्मपरास्तथा ॥ १.२२२.३७ ॥
दक्षिकाले विवाहादौ देवद्विजनिमन्त्रिते
पूर्वसंकल्पिते वापि नाशौचं मृतसूतके ॥ १.२२२.३८ ॥
प्रसूतपत्नीसंस्पर्शादशुचिः स्यात्तथा द्विजः
अग्नयो यत्र हूयन्ते वेदो वा यत्र पठ्यते ॥ १.२२२.३९ ॥
सततं वैश्वदेवा दि न तेषां सूतकं भवेत्
अशुद्धे च गृहे भुक्ते त्रिरात्राच्छुध्यति द्विजः ॥ १.२२२.४० ॥
ब्राह्मणी क्षत्रिया वैश्या शूद्रा चैव रजस्वला
अन्योन्यस्पर्शनात्तत्र ब्राह्मणी तु त्रिरात्रतः ॥ १.२२२.४१ ॥
द्विरात्रतः क्षत्रिया च शुद्धा वैश्या ह्युपोषिता
शूद्रा स्नानेन शुध्येत्तु द्रोणार्थं न विसर्जयेत् ॥ १.२२२.४२ ॥
काकश्वानोपनी तन्तु अन्नं बाह्यन्तु तत्त्यजेत्
सुवर्णाद्भैः समभ्युक्ष्य हुताशे च प्रतापयेत् ॥ १.२२२.४३ ॥
कूपे च पतितान्दृष्ट्वा श्वशृगालौ च मर्कटम्
तत्कूपस्योदकं पीत्वा शुध्येद्विप्रस्त्रिभिर्दिनैः
क्षत्रियोऽहर्द्वयेनैव वैश्यो वैकाहतः परम् ॥ १.२२२.४४ ॥
अस्थि चर्म मलं वापि मूषिकां यदि कूपतः
उद्धृत्य चोदकं पञ्च गव्याच्छुद्ध्येत्तु शोधितम् ॥ १.२२२.४५ ॥
तडागे पुष्करिण्यादौ भस्मादिं पातयेत्तथा
षट्कुम्भानप उत्द्धृय पञ्चगव्येन शुध्यति ॥ १.२२२.४६ ॥
स्त्रीरजः पतितं मध्ये त्रिंशत्कुम्भान्समुद्धरेत्
अगम्यागमनं कृत्वा मद्यगोमांसभक्षणम् ॥ १.२२२.४७ ॥
शुध्ये च्चान्द्रायणाद्विप्रः प्राजापत्येन भूमिपः
वैश्यः सान्तपनाच्छूद्रः पञ्चाहोभिर्विशुध्यति ॥ १.२२२.४८ ॥
प्रायश्चित्ते कृते दद्याद्गवां ब्राह्मणभोजनम्
क्रीडायां शयनीयादौ नीलीवस्त्रं न दुष्यति ॥ १.२२२.४९ ॥
नीलीवस्त्रं न स्पृशेच्च नीली च निरयं ब्रजेत्
व्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥ १.२२२.५० ॥
ऋक्षं दृष्ट्वा विशुध्यन्ते तत्संयोगी च पञ्चमः
ततो धेनुशतं दद्याद्ब्राह्मणानान्तु भोजनम् ॥ १.२२२.५१ ॥
ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत्
न्यस्येदात्मानमग्नौ वा सुसमिद्धे सुरापकः ॥ १.२२२.५२ ॥
स्तेयी सर्वं वेदविदे ब्राह्मणायोपपादयेत्
वृषमेकं सहस्रं गां दद्याच्च गुरुतल्पगः ॥ १.२२२.५३ ॥
कृतपापश्चरेद्रोधे द्वौ पादौ बन्धयन्पशोः
सर्वकृच्छ्रं निपानेस्यात्कान्तारे गृहदाहतः ॥ १.२२२.५४ ॥
कण्ठाभरणदोषेण कृच्छ्रपादं मृते गवि
अस्थिभङ्गं गवां कृत्वा शृङ्गभङ्गमथापि वा ॥ १.२२२.५५ ॥
त्वग्भेदं पुच्छनाशे वा मासार्धं यावकं पिबेत्
सर्वं हस्त्यश्वशस्त्राद्यैर्निश्चयं कृच्छ्रमेव तु ॥ १.२२२.५६ ॥
अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च
पुनः संस्कारमायान्ति त्रयो वर्णा द्विजातयः ॥ १.२२२.५७ ॥
वपनं मेख्ला दण्डो भैक्ष्यचर्याव्रतानि च
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥ १.२२२.५८ ॥
आममांसं घृतं क्षौद्रं स्नेहश्च कालसम्भवाः
अन्त्यभाण्डस्थिताः सर्वे निष्क्रान्ताः शुचयः स्मृताः ॥ १.२२२.५९ ॥
तैलादिघृतमाध्वीकं पण्यद्रव्यं द्रवस्तथा
एकभक्तं क्रमान्नक्तं एकैकाहमयाचितम्
उपवासः पादकृच्छ्रं कृच्छार्धद्विगुणं हि यत् ॥ १.२२२.६० ॥
प्राजापत्यन्तु तत्स्याच्च सर्वपातकनाशनम्
कृच्छ्रं सप्तोपवासैश्च महासान्तपनं स्मृतम् ॥ १.२२२.६१ ॥
त्र्यहमुष्णं पिबेच्छापः त्र्यहमुष्णं पयः पिबेत्
त्र्यमुष्णं पिबेत्सर्पिस्तप्तकृच्छ्रमघापहम् ॥ १.२२२.६२ ॥
द्वादशाहोपवासेन पराकः सर्वपापहा
एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् ॥ १.२२२.६३ ॥
पयः काञ्चनवर्णायाः श्वेतवर्णं च गोमयम्
गोमूत्रं ताम्रवर्णाया नीलवर्णभवं घृतम् ॥ १.२२२.६४ ॥
दधि स्यात्कृष्णवर्णाया दर्भोदकसमायुतम्
गोमूत्रमाषकाण्यष्टौ गोमयस्य चतुष्टयम् ॥ १.२२२.६५ ॥
क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश उच्यते
घृतस्य माषकाः पञ्च पञ्चगव्यं मलापहम् ॥ १.२२२.६६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रायश्चितकथनं नाम द्वाविंशत्यधिकद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २२३
ब्रह्मोवाच मुनिभिश्चरिता धर्मा भक्त्या व्यास मयोदिताः
यैर्विष्णुस्तुष्यते चैव सूर्यादिपरिचारणात् ॥ १.२२३.१ ॥
तर्पणेन च होमेन सन्ध्याया वन्दनेन च
प्राप्यते भगवान् विष्णुर्धर्मकामार्थमोक्षदः ॥ १.२२३.२ ॥
धर्मो हि भगवान्विष्णुः पूजी विष्णोस्तु तर्पणम्
होमः सन्ध्या तथा ध्यानं धारणा सकलं हरिः ॥ १.२२३.३ ॥
सूच उवाच
प्रलयं जगतो वक्ष्ये तत्सर्वं शृणु शौनक
चतुर्युगसहस्रन्तु कल्पैकाब्जदिनं स्मृतम् ॥ १.२२३.४ ॥
कृतत्रेताद्वापरादियुगावस्था निबोधमे
कृते धर्मश्चतुष्पाच्च सत्यं दानं तपो दया ॥ १.२२३.५ ॥
धर्मपाता हरिश्चेति सन्तुष्टा ज्ञानिनो नराः
चतुर्वंषर्सहस्राणि नरा जीवन्ति वै तदा ॥ १.२२३.६ ॥
कृतान्ते क्षत्त्रियैर्विप्रा विट्शूद्राश्च जिता द्विजैः
शूरश्चातिबलो विष्णू रक्षांसि च जघान ह ॥ १.२२३.७ ॥
त्रेतायुगे त्रिपाद्धर्मः सत्यदानदयात्मकः
नरा यज्ञपरास्तस्मिंस्तथा क्षत्रोद्भवं जगत् ॥ १.२२३.८ ॥
रक्तो हरिर्नरैः पूज्यो नरा दशशतायुषः
तत्र विष्णुर्भोमरथः क्षत्रिया राक्षसानहन् ॥ १.२२३.९ ॥
द्विपादविग्रो धर्मः पीताञ्चाच्युते गते
चतुः शतायुषो लोका द्विजक्षत्रोद्भवाः प्रजाः ॥ १.२२३.१० ॥
तत्र दृष्ट्वाल्पबुद्धींश्च विष्णुर्व्यासस्वरूपधृक्
तदेकन्तु यजुर्वेदं? चतुर्धा व्यभजत्पुनः ॥ १.२२३.११ ॥
शिष्यानध्यापयामास समस्तांस्तान्निबोध मे
ऋग्वेदमथ पैलन्त्सामवेदञ्च जैमिनिम् ॥ १.२२३.१२ ॥
अथर्वाणं सुमन्तुन्तु यजुर्वेदं महामुनिम्
वैशम्पायनमङ्गन्तु पुराणं सूतमेव च
अष्टादशपुराणानि यैर्वेद्यो हरिरेव हि ॥ १.२२३.१३ ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च
वंशानुचरितच्चैव पुराणं पञ्चलक्षणम् ॥ १.२२३.१४ ॥
ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतन्तथा
भविष्यन्नारदीयञ्चस्कान्दं लिङ्गं वराहकम् ॥ १.२२३.१५ ॥
मार्कण्डेयं तथाग्नेयं ब्रह्मवैवर्तमेव च
कौर्मं मात्स्यं गारुडञ्च वायवीयमनन्तरम्
अष्टादशसमुद्दिष्टं ब्रह्माण्डमिति संज्ञितम् ॥ १.२२३.१६ ॥
अन्यान्युपपुराणानि मुनिभिः कथितानि तु
आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् ॥ १.२२३.१७ ॥
तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम्
चतुर्थं शिवधर्माख्यं स्यान्नन्दीश्वरभाषितम् ॥ १.२२३.१८ ॥
दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम्
कापिलं वामनञ्चैव तथैवोशनसेरितम् ॥ १.२२३.१९ ॥
ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च
माहेश्वरं तथा साम्बमेवं सर्वार्थसञ्चयम्
पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ १.२२३.२० ॥
पुराणं धर्मशास्त्रञ्च वेदास्त्वङ्गानि यन्मुने
न्यायः शौनक मीमांसा आयुर्वेदार्थशास्त्रकम्
गान्धर्वश्च धनुर्वेदो विद्या ह्यष्टादशस्मृताः ॥ १.२२३.२१ ॥
द्वापरान्तेन च हरिर्गुरुभारमपाहरत्
एकपादस्थिते धर्मे कृष्णत्वञ्चाच्युते गते ॥ १.२२३.२२ ॥
जनास्तदा दुराचारा भविष्यन्ति च निर्दयाः
सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः
कालसञ्चोदितास्तेऽपि परिवर्तन्त आत्मनि ॥ १.२२३.२३ ॥
प्रभूतञ्च यदा सत्त्वं मनो बुर्धोन्द्रियाणि च
तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रतिः ॥ १.२२३.२४ ॥
यदा कर्मसु काम्येषु शक्तिर्यशसि देहिनाम्
तदा त्रेता रजोभूतिरिति जानीहिशौनक ॥ १.२२३.२५ ॥
यदा लोभस्त्वसन्तोषो मानो दम्भश्च मत्सरः
कर्मणाञ्चापि काम्यानां द्वापरं तद्रजस्तमः ॥ १.२२३.२६ ॥
यदा सदानृतं नन्द्रा निद्रा हिंसादिसाधनम्
शोकमोहौ भयं दैन्यं स कलिस्तमसि स्मृतः ॥ १.२२३.२७ ॥
यस्मिञ्जनाः कामिनः स्युः शश्वत्कटुकभाषिणः
दस्यूत्कृष्टा जनपदावेदाः पाषण्डदूषिताः ॥ १.२२३.२८ ॥
राजानश्च प्रजाभिक्षाः शिश्रोदरपराजिताः
अव्रता वटचवोऽशौचा भिक्षवश्च कुटुम्बिनः ॥ १.२२३.२९ ॥
तपस्विनोग्रामवासाः न्यासिनो ह्यर्थलोलुपाः
ह्रस्वकाया महाहाराश्चौरास्ते साधवः स्मृताः ॥ १.२२३.३० ॥
त्यक्ष्यन्ति भृत्याश्च पतिं तापसस्त्यक्ष्यति व्रतम्
शूद्राः प्रतिग्रहिष्यन्ति वैश्या व्रतपरायणः ॥ १.२२३.३१ ॥
उद्विग्नाः सन्ति च जनाः पिशाचसदृशाः प्रजाः
अन्यायभोजनेनाग्निदेवतातिथिपूजनम् ॥ १.२२३.३२ ॥
करिष्येन्ति कलौ प्राप्ते न च पित्र्योदकक्रियाम्
स्त्रीपराश्च जनाः सर्वे शूद्रप्रायाश्च शौनक ॥ १.२२३.३३ ॥
बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः
शिरः कण्डूयनपरा आज्ञां भेत्स्यन्ति भर्त्सिताः ॥ १.२२३.३४ ॥
विष्णुं न पूजयिष्यन्ति पाषण्डोपहता जनाः
कलेर्देषनिधेर्विप्रा अस्ति ह्येको महागुणः ॥ १.२२३.३५ ॥
कीर्तनादेव कृष्णस्य महाबन्धं परित्यजेत्
कृते यद्य्यायतो विष्णुं त्रेतायां जपतः फलम् ॥ १.२२३.३६ ॥
द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात्
तस्माद्ध्येयो हरिर्नित्यं गेयः पूज्यश्च शौनक ॥ १.२२३.३७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे युगधर्मकथनं नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २२४
सूत उवाच [SUTA SAID]
चतुर्युगसहस्रान्ते ब्राह्मो नैमित्तिको लयः
अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी ॥ १.२२४.१ ॥
उतिष्ठन्ति तदा रौद्रा दिवि सप्त दिवाकराः
ते तु पीत्वा जलं सर्वं शोषयन्ति जगत्त्रयम् ॥ १.२२४.२ ॥
भूर्भुवः स्वर्महर्लोकं चराचरं जनस्तथा
विष्णुश्च रुद्रो भूत्वासौ पातालानि दहत्यधः ॥ १.२२४.३ ॥
विष्णुर्दहेत्त्रिलोकञ्चि मुखान्मेघान् सृजत्यलम्
वर्षन्ते वै वर्षशतं नानावर्णा महाघनाः ॥ १.२२४.४ ॥
विष्णुरूपःशतं वाति वर्षाणां वायुरूर्जितः
विष्णुरे कार्णवी भूते वर्षे ब्रह्मस्वरूपधृक्
शेतेऽनन्तासने विष्णुर्नष्टे स्थावरजङ्गमे ॥ १.२२४.५ ॥
सुप्त्वा वर्षसहस्रं स जगद्भूयोऽसृजद्धरिः
अथ प्राकृतिकं वक्ष्ये प्रलयं शृणु शौनक ॥ १.२२४.६ ॥
पूर्णे संवत्सरशते संहृत्य सकलं जगत्
ब्रह्माणं न्यस्य देहे हि मुक्तो योगबलैर्हरिः ॥ १.२२४.७ ॥
ये गता ब्रह्मणः स्थानं तेऽपि यान्ति परं पदम्
अनावृष्ट्यर्कसम्पन्ना आसन्मेघास्तथा द्विज
शतं वर्षाणि वर्षद्भिर्मेधैरण्डं प्रपूर्यते ॥ १.२२४.८ ॥
अन्तर्गतेन तोयेन भिन्नमण्डं जगत्पतेः
पूर्णे ब्रह्मायुषि गते भिद्यतेऽम्भसि लीयते ॥ १.२२४.९ ॥
एवं सा जगदाधारा तोये चोर्वो प्रलीयते
आपस्तेजसि लीयन्ते तेजो वायौ प्रलीयते ॥ १.२२४.१० ॥
वायुः खे खञ्च भूतादौ विशते च तदा महान्
महान्प्रपद्यतेऽव्यक्तं प्रकृतिः पुरुषे परे ॥ १.२२४.११ ॥
शतवर्षं हरिः शेते सृजत्यथ दिनगमे
अव्यक्तादिक्रमेणैव व्यक्तीभूतं चराचरम् ॥ १.२२४.१२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नैमित्तिकप्रलयोनाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २२५
सूत उवाच [SUTA SAID]
आध्यात्मिकादितापांस्त्रीञ्ज्ञात्व संस्राचक्रवित्
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ १.२२५.१ ॥
संसारचक्रं वक्ष्येऽहमादाबुत्क्रान्तिकालतः
यद्विना पुरुषार्थो न लीनः स्यात्परमात्मनि ॥ १.२२५.२ ॥
ऊर्ध्ववासी नरस्त्यक्त्वा देहमन्यत्प्रपद्यते
नीयतेद्वादशाहेन यमस्य यमपूरुषैः ॥ १.२२५.३ ॥
तत्र यद्वान्धवास्तोयं प्रयच्छन्ति तिलैः सह
यच्च पिण्डं प्रयच्छन्ति यमलोके तदश्नुते ॥ १.२२५.४ ॥
गतश्च नरकं पापात्स्वर्गं याति स्वपुण्यतः
पापकृद्याति नरकं पुण्यकृद्याति वै दिवम् ॥ १.२२५.५ ॥
स्वर्गाच्च नरकात्त्यक्तः स्त्रीणां गर्भे भवत्यपि
नाभिभूतञ्च तस्यैव याति बीजद्वयं हि तत् ॥ १.२२५.६ ॥
कललं बुद्ब्रुदमयं ततः शोणितमेव च
पेश्याः पलसमोऽण्डः स्यादङ्कुरं तत उच्यते ॥ १.२२५.७ ॥
उपाङ्गान्यङ्गुलीनेत्रनासास्यश्रवणानि च
आवहं याति चाङ्गेभ्यस्तत्परन्तु नखादिकम् ॥ १.२२५.८ ॥
त्वचो रोमाणि जायन्ते केशाश्चैव ततः परम्
नरश्चाधोमुखः स्थित्वा दशमे च सः जायते ॥ १.२२५.९ ॥
ततस्तु वैष्णवी माया वृणोत्यत्यन्तमोहिनी
बालत्वं त्वथ कौमारं यौवनं वृद्धतामपि ॥ १.२२५.१० ॥
ततश्च मरणं तत्तद्धर्मामाप्नोति मानवः
एवं संसारचक्रेऽस्मिन् भ्राम्यते घटीयन्त्रवत् ॥ १.२२५.११ ॥
नरकात्प्रतिमुक्तस्तु पापयोनिषु जायते
पतितात्प्रतिगृह्याथ अधोयोनिं व्रजेद्बुधः ॥ १.२२५.१२ ॥
नरकात्प्रतिमुक्तस्तु कृमिर्भवति याचकः
उपाध्यायव्यलीकं तु कृत्वा श्वा भवति द्विज ॥ १.२२५.१३ ॥
तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम्
गर्दभोजायते जन्तुर्मित्रस्यैवापमानकृत् ॥ १.२२५.१४ ॥
पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते
भुर्तुः पिण्डमुपाश्वस्तो वञ्जयित्वा तमेव यः ॥ १.२२५.१५ ॥
सोऽपि मोहसमापन्नो जायते वानरो मृतः
न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः ॥ १.२२५.१६ ॥
असूयकश्च नरकान्मुक्तो भवति राक्षसः
विश्वासहर्ता च नरो मीनयोनौ प्रजायते ॥ १.२२५.१७ ॥
यवधान्यानि संहृत्य जायते मूषको मृतः
परदाराभिमर्शात्तु वृको घोरोऽभिजायते ॥ १.२२५.१८ ॥
भ्रातृभार्याप्रसंगेन कोकिलो जायते नरः
गुर्वादिभार्यागमनाच्छूकरो जायते नरः ॥ १.२२५.१९ ॥
यज्ञदानविवाहानां विघ्नकर्ता भवेत्कृमिः
देवतापितृविप्राणामदत्त्वा योऽन्नमश्नुते ॥ १.२२५.२० ॥
प्रमुक्तो नरकाद्वापि वायसः सन्प्रजायते
ज्येष्ठभ्रात्रपमानाच्च क्रौञ्चयोनौ प्रजायते ॥ १.२२५.२१ ॥
शूद्रस्तु ब्राह्मणीं गत्वा कृमियोनौ प्रजायते
तस्यामपत्यमुत्पाद्य काष्ठान्तः कटीको भवेत् ॥ १.२२५.२२ ॥
कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा
अशस्त्रं पुरुषं हर्ता नरः सञ्जायते खरः ॥ १.२२५.२३ ॥
कृमिः स्त्रीवधकर्ता च बालहन्ता च जायते
भोजनञ्चोरयित्वा तु मक्षिका जायते नरः ॥ १.२२५.२४ ॥
हृत्वाज्यञ्चैव मार्जारस्तिलहृच्चैव मूषकः
घृतं हृत्वा च नकुलः काको मद्भुरमामिषम् ॥ १.२२५.२५ ॥
मधु हृत्वा नरो दंशपूपं हृत्वा पिपीलिकः
अपो हृत्वा तु पापात्मा वायसः सम्प्रजायते ॥ १.२२५.२६ ॥
हृते काष्ठे च हारीतः कपोतो वा प्रजायते
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ १.२२५.२७ ॥
कार्पासिके हृते क्रौञ्चो वह्रिहर्ता बकस्तथा
मयूरो वर्णकं हृत्वा शाकपत्रञ्च जायते ॥ १.२२५.२८ ॥
जीवञ्जीवकतां याति रक्तवस्त्वपहृन्नरः
छुछुन्दरिः शुभान्गन्धाञ्छशं हृत्वा शशो भवेत् ॥ १.२२५.२९ ॥
षण्डाः कलापहरणे काष्ठहृत्तृणकीटकः
पुष्पं हृत्वा दरिद्रस्तु पङ्गुर्याचकहृन्नरः ॥ १.२२५.३० ॥
शाकहर्ता च हारीतस्तोयहर्ता च चातकः
गृहहृन्नरकान्गत्वा रौरवादीन्सुदारुणान् ॥ १.२२५.३१ ॥
तृणगुल्मलतावल्लीत्वग्घारी तरुतां व्रजेत्
एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् ॥ १.२२५.३२ ॥
विद्यापहारी मूकः स्याद्गत्वा च नरकान्बहन्
असमिद्धे हुते चाग्नौ मन्दाग्निः खलु जायते ॥ १.२२५.३३ ॥
परनिन्दा कृतघ्नत्वं परसीमाभिघातनम्
नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् ॥ १.२२५.३४ ॥
परस्वहरणाशौचं देवतानां च कुत्सनम्
निकृत्य बन्धनं नॄणां कार्पण्यञ्च नृणां वधः
उपलक्षणाद्विजानीयान्मुक्तानां नरकादनु ॥ १.२२५.३५ ॥
दया भूतेषु संवादः परलोकं प्रति क्रिया
सत्यं हितार्थमुक्तिश्च वेदप्रामाण्यदर्शनम् ॥ १.२२५.३६ ॥
गुरुदेवर्षिसिद्धर्षिसेवनं साधुसंयमः
सत्क्रियाष्वसनं मैत्री स्वर्गस्य लक्षणं विदुः
अष्टाङ्गयोगविज्ञानात्प्राप्नोत्यात्यन्तिकं फलम् ॥ १.२२५.३७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्मविपाकादिकथनं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २२६
सूत उवाच वक्ष्ये साङ्गं महायोगं भुक्तिमुक्तिकरं परम्
सर्वपापप्रशमनं भक्त्यानुपठितं शृणु ॥ १.२२६.१ ॥
ममेति मूलं दुः खस्य न ममेति निवर्तनम्
दत्तात्रेयो ह्यलर्काय इममाह महामतिः ॥ १.२२६.२ ॥
अहमित्यङ्कुरोत्पन्नो ममेति स्कन्धवान्महान्
गृहक्षेत्राणि शाखाश्च यत्र दाराभिपल्लवः ॥ १.२२६.३ ॥
धनधान्ये महापत्रे पापमूलोऽतिदुर्गमः
विधिवत्सुखशान्त्यर्थं जातोऽज्ञानमहातरुः ॥ १.२२६.४ ॥
छिन्नो विद्याकुठारेण ते गता लयमीश्वरे
प्राप्य ब्रह्मरसं पीतं नीरजस्कमकण्टकम् ॥ १.२२६.५ ॥
प्राप्नुवन्ति पराः प्राज्ञाः सुखनिर्वृतिमेव च
मूर्तेन्द्रियलयं नूनं न त्वं राजन्न चाप्यहम् ॥ १.२२६.६ ॥
न तन्मात्रादिकं वाचा नैवान्तः करणं तथा
कं वा पश्यसि राजेन्द्र प्रधानमिदमावयोः ॥ १.२२६.७ ॥
मृतः परेऽह्नि क्षेत्रज्ञः संजातोऽयं गुणात्मकः
एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनो नृप ॥ १.२२६.८ ॥
ज्ञानपूर्ववियोगोऽसौ ज्ञाने नष्टे च योगिनः
सा मुक्तिर्ब्रह्मणा चैक्य मनैक्यं प्राकृतैर्गुणैः ॥ १.२२६.९ ॥
तद्गृहं यत्र वसति तद्भोज्यं येन जीवति
यन्मुक्तये तदेवोक्तं ज्ञानाज्ञाने न चान्यथा ॥ १.२२६.१० ॥
उपभोगेन पुण्याना मपुण्यानाञ्च पार्थिव
कर्तव्यानाञ्च नित्यानां क्षयन्त्वकरणात्तथा ॥ १.२२६.११ ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ
यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् ॥ १.२२६.१२ ॥
सन्तोषस्तपसा शान्तिर्वासुदेवार्चनं दमः
आसन पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥ १.२२६.१३ ॥
प्रत्येकं त्रिविधः सोऽपि पूरकुम्भकरेचकैः
लघुर्यो दशमात्रस्तु द्विगुणः स तु मध्यमः ॥ १.२२६.१४ ॥
त्रिगुणाभिस्तु मात्राभिरुत्तमः स उदाहृतः
जपध्यानयुतौ गर्भो विपरीतस्त्वर्भकः ॥ १.२२६.१५ ॥
प्रथमे नजयेत्स्वप्नं मध्यमेन च वेपथुम्
विपाकं हि तृतीयेन जातान्दोषास्त्वनुक्रमात् ॥ १.२२६.१६ ॥
आसनस्थन्तुयुञ्जीत कृत्वा च प्रणवं हृदी
पार्ष्णिभ्यां लिङ्गवृषणौ स्पर्शन्नकाग्रमानसः ॥ १.२२६.१७ ॥
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा
निरुध्य निश्चलो भूत्वा स्थितो युञ्जीत योगवित् ॥ १.२२६.१८ ॥
इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीनम्न एव च
निगृह्य समवायेन प्रत्याहार मुपक्रमेत् ॥ १.२२६.१९ ॥
प्राणायामा दशाष्टौ च धारणा सा विधीयते
द्वे धारणे स्मृतो योगो योगिभिस्तत्त्वदर्शिभिः ॥ १.२२६.२० ॥
प्राङ्नाड्यां हृदये चात्र तृतीया च तथोरसि
कण्ठे मुखे ना सिकाग्रे नेत्रे भ्रूमध्यमूर्धसु ॥ १.२२६.२१ ॥
किञ्चित्तस्मात्परस्मिंश्च धारणा दशधा स्मृता
दशैता धारणाः प्राप्य प्राप्नोत्यक्षररूपताम् ॥ १.२२६.२२ ॥
यथाग्निरग्नौ संक्षिप्तस्तथात्मा परमात्मनि
ब्रह्मरूपं महापुण्यमोमित्येकाक्षरं जपेत् ॥ १.२२६.२३ ॥
अकारश्च तथोकारो मकारश्चाक्षरत्रयम्
एतास्तिस्त्रस्ततो मात्राः सत्त्वराजसतामसाः ॥ १.२२६.२४ ॥
निर्गुणा योगिगम्याद्यार्धमात्रा परा स्थिता
गान्धारीति च विज्ञेया गान्धारस्वरसंश्रया
इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् ॥ १.२२६.२५ ॥
अहं ब्रह्म परं ज्योतिः स्थूलदेहविवर्जितम्
अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितम् ॥ १.२२६.२६ ॥
अहं ब्रह्म परं ज्योतिः पृथिव्या मलवर्जितम्
अहं ब्रह्म परं ज्योतिर्वाय्वाकाशविवर्जितम् ॥ १.२२६.२७ ॥
अहं ब्रह्म परं ज्योतिः सूक्ष्मदेहविवर्जितम्
अहं ब्रह्मपरं ज्योतिः स्थानास्थानविवर्जितम् ॥ १.२२६.२८ ॥
अहं ब्रह्म परं ज्योतिर्गन्धमात्रविवर्जितम्
अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्परिवर्जितम् ॥ १.२२६.२९ ॥
अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितम्
अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितम् ॥ १.२२६.३० ॥
अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितम्
अहं ब्रह्म परं ज्योतिरज्ञानपरिवर्जितम् ॥ १.२२६.३१ ॥
अहं ब्रह्म परं ज्योतिस्तुरीयं परमं पदम्
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥ १.२२६.३२ ॥
नित्यशुद्धबुद्धंमुक्तमहामानन्दमद्वयम्
अहं ब्रह्म परं ज्योतिर्ज्ञानरूपो विमुक्तये ॥ १.२२६.३३ ॥
सूत उवाच [SUTA SAID]
इत्यष्टाङ्गो मया योग उक्तः शौनक मुक्तिदः
नित्यनैमित्तिकं गत्वा लयं प्राकृतबन्धनाः ॥ १.२२६.३४ ॥
उत्पद्यन्ते हि संसारे नैकं यात्वा परात्मनाम्
विमुच्यते विमुक्तश्च ज्ञानादज्ञानमोहितः ॥ १.२२६.३५ ॥
ततो नं म्रियते दुः खी न रोगी न च वन्धवान्
न पापैर्युज्यते योगी नरके न विपच्यते ॥ १.२२६.३६ ॥
गर्भवासे स नो दुः खी स स्यान्नारायणोऽव्ययः
भक्त्या त्वनन्यया लभ्यो भगवान्भुक्तिमुक्तिदः ॥ १.२२६.३७ ॥
ध्यानेन पूजया जप्यैः सम्यक्स्तोत्रैर्यतव्रतैः
यज्ञैर्दानैश्चित्तशुद्धिस्तया ज्ञानञ्च लभ्यते ॥ १.२२६.३८ ॥
प्रणवादिकमन्त्रैश्च जप्यैर्मुक्तिं गता द्विजाः
इन्द्रोऽपि परमं स्थानं गन्धर्वाप्सरसो वराः ॥ १.२२६.३९ ॥
प्राप्ता देवाश्च देवत्वं मुनित्वं मुनयो गताः
गन्धर्वत्वञ्च गन्धर्वा राजत्वञ्च नृपादयः ॥ १.२२६.४० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेष्टाङ्गयोगकथनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २२७
सूत उवाच [SUTA SAID]
विष्णुभक्तिं प्रवक्ष्यामि यया सर्वमवाप्यते
यथा भक्त्या हरिस्तुष्येत्तथा नान्येन केनचित् ॥ १.२२७.१ ॥
महतः श्रेयसो मूलं प्रसवः पुण्यसन्ततेः
जीवितस्य फलं स्वादु नियतं स्मरणं हरेः ॥ १.२२७.२ ॥
तस्मात्सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी
ते भक्ता लोकनाथस्य नामकर्मादिकीर्तने ॥ १.२२७.३ ॥
मुञ्चन्त्यश्रूणि संहर्षाद्ये प्रहृष्टनूरुहाः
जगद्धातुर्महेशस्य दिव्याज्ञाचरणा वयम् ॥ १.२२७.४ ॥
इह नित्यक्रियाः कुर्युः स्निग्धा ये वैष्णवास्तु ते
ब्रह्माक्षरं न शृण्वन्वै तया भगवतेरितम् ॥ १.२२७.५ ॥
प्रणामपूर्वकं भक्त्या यो वदेद्वैष्णवो हि सः
तद्भक्तजनवात्सल्यं पूजनं चानुमोदनम् ॥ १.२२७.६ ॥
तत्कथाश्रवणे प्रीतिरश्रुनेत्राङ्गविक्रियाः
येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः ॥ १.२२७.७ ॥
विप्रेभ्यश्च कृतात्मत्वान्महाभागवतो हि सः
विश्वोपकरणं नित्यं तदर्थं सङ्गवर्जनम्
स्वयमभ्यर्चनञ्चैव यो विष्णुञ्चोपजीवति ॥ १.२२७.८ ॥
भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छोऽपि वर्तते
स विप्रेन्द्रो मुनिः श्रीमान्स याति परमां गतिम् ॥ १.२२७.९ ॥
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः
स्मृतः संभाषितो वापि पूजितो वा द्विजोत्तमः
पुनाति भगवद्भक्तश्चण्डालोऽपि यदृच्छया ॥ १.२२७.१० ॥
दयां कुरु प्रपन्नाय तवास्मीति च यो वदेत्
अभयं सर्वभूतेभ्यो दद्यादेतद्व्रतं हरेः ॥ १.२२७.११ ॥
मन्त्रजापिसहस्रेभ्यः सर्ववेदान्तपारगः
सर्ववेदान्तवित्कोट्यां विष्णुभक्तो विशिष्यते ॥ १.२२७.१२ ॥
एकान्तिनः स्ववपुषा गच्छन्ति परमं पदम्
एकान्तेन समो विष्णुस्तस्मादेषां परायणः ॥ १.२२७.१३ ॥
यस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः
प्रियाणामपि सर्वेषां देवदेवस्य सुप्रियः ॥ १.२२७.१४ ॥
आपत्स्वपि सदा भस्य भक्तिरव्यभिचारिणा
या प्रीतिरधिका विष्णोर्विषयेष्वनपायिनी ॥ १.२२७.१५ ॥
विष्णुं संस्मरतः सा मे हृदयान्नोपसर्पति
दृढभक्तोऽपि वेदादिसर्वशास्त्रार्थपारगः ॥ १.२२७.१६ ॥
यो न सर्वेश्वरे भक्तस्तं विद्यात्पुरुषाधमम्
नाधीतवेदशास्त्रोऽपि न कृतोऽध्वरसम्भवः
यो भक्तिं वहते विष्णौ तेन सर्वं कृतं भवेत् ॥ १.२२७.१७ ॥
यज्वानः क्रतुमुख्यानां वेदानां पारगा अपि
न तां यान्ति गतिं भक्ता यां यान्ति मुनिसत्तमाः ॥ १.२२७.१८ ॥
यः कश्चिद्वैष्णवो लोके मिथ्याचारोऽप्यनाश्रमी
पुनाति सकलांल्लोकान्सहस्रांशुरिवोदितः ॥ १.२२७.१९ ॥
ये नृशंसा दुरात्मानः पापाचररतास्तथा
तेऽपि यान्ति परं स्थानं नारायणपरायणाः ॥ १.२२७.२० ॥
दृढा जनार्दने भक्तिर्यदैवाव्यभिचारिणी
तदा कियत्स्वर्गसुखं सैव निर्वाणहेतुका ॥ १.२२७.२१ ॥
भ्राम्यतां तत्र संसारे नराणां कुर्मदुर्गमे
हस्तावलम्बने ह्येकं येन तुष्येज्जनार्दनः
न शृणोति गुणान्दिव्यान्देवदेवस्य चक्रिणः
स मरो बधिरो ज्ञेयः सर्वधर्मबहिष्कृतः ॥ १.२२७.२२ ॥
नाम्नि संकीर्तिते विष्णोर्यस्य पुंसो न जायते
शरीरं पुलकोद्भासि तद्भवेत्कुणपोपमम् ॥ १.२२७.२३ ॥
यस्मिन्भक्तिर्द्विजश्रेष्ठ मुक्तिरप्यचिराद्भवेत्
निविष्टमनसां पुंसां सर्वथा वृजिनक्षयः ॥ १.२२७.२४ ॥
स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले
परिहर मधुसूदनप्रापन्नन्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ १.२२७.२५ ॥
अपि चेत्सुदुराचारो भजते मामनन्यभाक्
साधुरेव स मन्तव्यः सम्यगव्यवसितो हि सः ॥ १.२२७.२६ ॥
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं स गच्छति
विप्रेन्द्र प्रतिजानीहि विष्णुभक्तो न नश्यति ॥ १.२२७.२७ ॥
धर्मार्थकामः किं तस्य मुक्तिस्तस्य करे स्थिता
समस्तजगतां मूलं यस्य भक्तिः स्थिरा हरौ ॥ १.२२७.२८ ॥
दैवी ह्येषा गुणमयी हरेर्माया दुरत्यया
तमेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १.२२७.२९ ॥
किं यज्ञाराधने पुंसा शिष्यते हरिमेधसाम्
भक्त्यैवाराध्यते विष्णुर्नान्यत्तत्रोपकारकम् ॥ १.२२७.३० ॥
न दानैर्विविधैर्दत्तैः पुष्पैर्नैवानुलेपनैः
तोषमेति महात्मासौ यथा भक्त्या जनार्दनः ॥ १.२२७.३१ ॥
संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे
कदाचित्केशवे भक्तिस्तद्भक्तैर्वा समागमः ॥ १.२२७.३२ ॥
पत्रेषु पुष्पेषु फलेषु तोयेष्वकष्टलभ्येषु सदैव सत्सु
भक्त्यैकलभ्ये पुरुषे पुराणे मुक्त्यैकलाभे क्रियते प्रयत्नः ॥ १.२२७.३३ ॥
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामाहः
वैष्णवोस्मत्कुले जातः स नः सन्तारयिष्यति ॥ १.२२७.३४ ॥
अज्ञानिनः सुखरे समधिक्षिपन्तो यत्पापिनोऽपि शिशुपालसुयोधनाद्याः
मुक्तिं गताः स्मरणमात्रविधूतपापाः कः संशयः परमभक्तिमतां जनानाम् ॥ १.२२७.३५ ॥
शरमं तं प्रपन्ना ये ध्यानयोगविवर्जिताः
तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥ १.२२७.३६ ॥
भवोद्भवक्लेशशतैर्हतस्तथा परिभ्रमन्निन्द्रियरन्ध्रकैर्हयैः
नियम्यतां माधव ! मे मनोहयस्त्वदङ्घ्रिशङ्कौ दृढभक्तिबन्धने ॥ १.२२७.३७ ॥
विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते
वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहिताः ॥ १.२२७.३८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भगवद्भक्तिविवरणं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २२८
सूतौवाच
मुक्तिहेतुमनाद्यन्तमजमव्ययमक्षयम्
यो नमेत्सर्वलोकस्य नमस्यो जायते नरः ॥ १.२२८.१ ॥
विष्णुमानन्दमद्वैतं विज्ञानं सर्वगं प्रभुम्
प्रणमामि सदा भक्त्या चेतसा हृदयालयम् ॥ १.२२८.२ ॥
योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम्
तं सर्वसाक्षिणं विष्णुं नमस्ये परमेश्वरम् ॥ १.२२८.३ ॥
शक्तेनापि नमस्कारः प्रयुक्तश्चक्रपाणये
संसारतृणवर्गाणामुद्वेजनकरो हि सः ॥ १.२२८.४ ॥
कृष्णे स्फुरज्जलधरोदरचारुकृष्णे लोकाधिकारपुरुषे परमप्रमेये
एको हि भावगुणमात्रदृढप्रणामः सद्यः श्वपाकमपि साधयितुं सशक्तः ॥ १.२२८.५ ॥
प्रणम्य दण्डबद्भूमौ नमस्कारेण योर्ऽचयेत्
स यां गतिमवाप्नोति न तां क्रतुशतैरपि ॥ १.२२८.६ ॥
दुर्गसंसारकान्ताराकूपारेऽपि प्रधावताम्
एकः कृष्णे नमस्कारो मुक्त्या तांस्तारयिष्यति ॥ १.२२८.७ ॥
आसीनो वा शयानो वातिष्ठन् वा यत्र तत्र वा
नमो नारायणायेति मन्त्रैकशरणो भवेत् ॥ १.२२८.८ ॥
नारायणेति शब्दोऽस्ति वागस्ति वशवर्तिनी
तथापि नरके मूढाः पतन्तीति किमद्भुतम् ॥ १.२२८.९ ॥
चतुर्मुखो वा यदि कोटिवक्त्रो भवेन्नरः कोपि विशुद्धचेताः
स वै गुणानामयुतैकदेशं वदेन्न वा देववरस्य विष्णोः ॥ १.२२८.१० ॥
व्यासाद्या मुनयः सर्वे स्तुवन्तो मधुसूदनम्
मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात् ॥ १.२२८.११ ॥
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः
पुमान् विमुच्यते सद्यः सिंहत्रस्तो मृगा यथा
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ १.२२८.१२ ॥
स्वप्नेऽपि नाम स्पृशतोऽपि पुंसः क्षयं करोत्यक्षयपापराशिम्
प्रत्यक्षतः किं पुनरत्र पुंसा प्रकीर्तिते नाम्नि जनार्दनस्य ॥ १.२२८.१३ ॥
नमः कृष्णाच्युतानन्तवासुदेवेत्युदीरितम्
यैर्भावभावितैर्विप्रन ते यमपुरं ययुः ॥ १.२२८.१४ ॥
क्षयो भवेद्यथा वह्नेस्तमसो भास्करोदये
तथैव कलुषौघस्य नामसंकीर्तनाद्धरेः ॥ १.२२८.१५ ॥
क्व नाकपृष्ठगमनं पुनरायाति न क्षयम्
गच्छतां दूरमध्वानं कृष्णमूर्छितचेतसाम् ॥ १.२२८.१६ ॥
पाथेयं पुण्डरीकाक्षनामसंकीर्तनं हरेः
संसारसर्पसंदष्टविषचेष्टैकभेषजम्
कृष्णेति वैष्णवं क्षान्तं जप्त्वा मुक्तो भवेन्नरः ॥ १.२२८.१७ ॥
ध्यायन् कृते जपेन्मन्त्रैस्त्रेतायां द्वापरेर्ऽचयन्
यदाप्नोति तदाप्नोति तदाप्नोति कलौ संस्मृत्यकेशवम् ॥ १.२२८.१८ ॥
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्
संसारसागरं तीर्त्वा स गच्छेद्वैष्णवं पदम् ॥ १.२२८.१९ ॥
विज्ञातदुष्कृतिसहस्रसमावृतोऽपिश्रेयः परन्तु परिशुद्धिम भीप्समानः
स्पप्नान्तरे न हि पुनश्च भवं स पश्येन्नारायणस्तुतिकथापरमो मनुष्यः ॥ १.२२८.२० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुभक्तिविवरणं नामाष्टाविंशत्युत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २२९
सूत उवाच [SUTA SAID]
अशेषलोकनाथस्य सारमाराधनं हरेः
दद्यातु पुरुषसूक्तेण यः पुष्पाण्यप एव च ॥ १.२२९.१ ॥
अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम्
यो न पूजयते विष्णुं तं विद्याद्ब्रह्मघातकम् ॥ १.२२९.२ ॥
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्
तं यो न ध्यायते विष्णुं स विष्ठायां क्रिमिर्भवेत् ॥ १.२२९.३ ॥
नरके पच्यमानस्तु यमेन परिभाषितः
किन्त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ १.२२९.४ ॥
उदकेनाप्यभावेन द्रव्याणामर्चितः प्रभुः
यो ददाति स्वकं लोकं स त्वया किं न चार्चितः ॥ १.२२९.५ ॥
न तत्करोति सा माता न पिता नापि बान्धवः
यत्करोति हृषीकेशः सन्तुष्टः श्रद्धयार्चितः ॥ १.२२९.६ ॥
वर्णाश्रमाचारवता पुरुषेण परः पुमान्
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ १.२२९.७ ॥
न दानैर्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः
तोषमेति महात्मासौ यथा भक्त्या जनार्दनः ॥ १.२२९.८ ॥
सम्पदैश्वर्यमाहात्म्यैः सन्तत्या न च कर्मणा
विमुक्तैश्चैकता लभ्या मूलमाराधनं हरेः ॥ १.२२९.९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजानिरूपणं नामैकोनत्रिशदुत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २३०
सूत उवाच [SUTA SAID]
आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ १.२३०.१ ॥
किं तस्य दानैः किन्तीर्थैः किं तपोभिः किमध्वरैः
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ १.२३०.२ ॥
षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥ १.२३०.३ ॥
प्रयश्चित्तान्यशेषाणि तपः कर्माणि यानि वै
विद्धि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ १.२३०.४ ॥
कृतपापेऽनुरक्तिश्च यस्य पुंसः प्रजायते
प्रायश्चित्तन्तु तस्यैकं हरेः संस्मरणं परम् ॥ १.२३०.५ ॥
मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः
सोऽपि स्वर्गतिमाप्नोति किं पुनस्तत्परायणः ॥ १.२३०.६ ॥
जाग्रत्स्वप्नसुषुप्तेषु योगस्थस्य च योगिनः
या काचिन्मनसो वृत्तिः सा भवत्यच्युताश्रयात् ॥ १.२३०.७ ॥
उत्तिष्ठन्निपतन्विष्णुं प्रलपन्विविशंस्तथा
भुञ्जञ्जाग्रच्च गोविन्दं माधवं यश्च संस्मरेत् ॥ १.२३०.८ ॥
स्वेस्वे कर्मण्यभिरतः कुर्याच्चित्तं जनार्दने
एषा शास्त्रानुसारोक्तिः किमन्यैर्बहुभाषितैः ॥ १.२३०.९ ॥
ध्यानमेव परो धर्मो ध्यानमेव परं तपः
ध्यानमेव परं शौचं तस्माद्ध्यानपरो भवेत् ॥ १.२३०.१० ॥
नास्ति विष्णोः परं ध्थेयं तपो नानशनात्परम्
तस्मात्प्रधानमत्रोक्तं वासुदेवस्य चिन्तनम् ॥ १.२३०.११ ॥
यद्दुर्लभं परं प्राप्यं मनसो यन्न गोचरम्
तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ॥ १.२३०.१२ ॥
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत्
स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः ॥ १.२३०.१३ ॥
ध्यानेन सदृशो नास्ति शोधनं पापकर्मणाम्
आगामिदेहहेतूनां दाहको योगपावकः ॥ १.२३०.१४ ॥
विनिष्पन्नसमाधिस्तु मुक्तिमत्रैव जन्मनि
प्राप्नोति योगी योगाग्निदग्धकर्मा च योऽचिरात् ॥ १.२३०.१५ ॥
यथाग्निरुद्यतशिखः कक्षं दहति वानिलः
तथा चित्तस्थिते विष्णौ योगिना सर्वकिल्बिषम् ॥ १.२३०.१६ ॥
यथाग्नियोगात्कनकममलं संप्रजायते
संप्लुष्टो वासुदेवेन मनुष्याणां सदा मलः ॥ १.२३०.१७ ॥
गङ्गास्नानसहस्रेषु पुष्करस्नानकोटिषु
यत्पापं निलययाति स्मृते नश्यति तद्धरौ ॥ १.२३०.१८ ॥
प्राणायामसहस्नैस्तु यत्पापं नश्यति ध्रुवम्
क्षणमात्रेण तत्पापं हरेर्ध्यानात्प्रणश्यति ॥ १.२३०.१९ ॥
कलिप्रभावाद्दुष्टोक्तिः पाषण्डानां तथोक्तयः
न क्रामेन्मानसं तस्य यस्य चेतसि केशवः ॥ १.२३०.२० ॥
सा तिथिस्तदहोरात्रं स योगः स च चन्द्रमाः
लग्नं तदेव विख्यातं यत्र संस्मर्यते हरिः ॥ १.२३०.२१ ॥
सा हानिस्तन्महच्छिद्रं सा चार्थजडमूकता
चन्मुहूर्तं क्षणो वापि वासुदेवो न चिन्त्यते ॥ १.२३०.२२ ॥
कलौ कृत युगं तस्य कलिस्तस्य कृते युगे
हृदि नो यस्य गोविन्दो यस्य चेतसि नाच्युतः ॥ १.२३०.२३ ॥
यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा
गोविन्दे नियतं चेतः कृतकृत्यः सदैव सः ॥ १.२३०.२४ ॥
वासुदेवे मनो यस्य जपहोमार्चनादिषु
तस्यान्तरायो मैत्रेय वेवेन्द्रत्वादिकं फलम् ॥ १.२३०.२५ ॥
असंत्यज्य च गार्हस्थयं स तप्त्वा च महत्तपः
छिनत्ति पौरुषीं मायां केशवार्पितमानसः ॥ १.२३०.२६ ॥
क्षमां कुर्वन्ति क्रुद्धेषु दयां मूर्खेषु मानवाः
मुदञ्च धर्मशीलेषु गोविन्दे हृदयस्थिते ॥ १.२३०.२७ ॥
ध्यायेन्नारायणं देवं स्नानदानादिकर्मसु
प्रायश्चितेतेषु सर्वेषु दुष्कृतेषु विशेषतः ॥ १.२३०.२८ ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ १.२३०.२९ ॥
कीटपक्षिगणानाञ्च हरौ संन्यस्तचेतसाम्
ऊर्ध्वा ह्येव गतिश्चास्ति किं पुनर्ज्ञानिनां नृणाम् ॥ १.२३०.३० ॥
वासुदेवतरुच्छाया नातिशीतातितापदा
नरकद्वारशमनी सा किमर्थं न सेव्यते ॥ १.२३०.३१ ॥
न च दुर्वाससः शापो राज्यञ्चापि शचीपतेः
हन्तुं समर्थं हि सखे हृत्कृते मधुसूदने ॥ १.२३०.३२ ॥
वदतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः
नापयाति यदा चिन्ता सिद्धां मन्येत धारणाम् ॥ १.२३०.३३ ॥
ध्येयः सदा सवितृमण्डलमध्यवर्तो नारायणः सरसिजासनसन्निविष्टः
केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ १.२३०.३४ ॥
न हि ध्यानेन सदृशं पवित्रमिह विद्यते
श्वपचान्नानि भुञ्जानो पापी नैवात्र लिप्यते ॥ १.२३०.३५ ॥
सदा चित्तं समासक्तं जन्तोर्विषयगोचरे
यदि नारायणेऽप्येवं को न मुच्येत बन्धनात् ॥ १.२३०.३६ ॥
सूत उवाच [SUTA SAID]
विष्णुभक्तिर्यस्य चित्ते कं वा जीवो नमेत्सदा
स तारयति चात्मानं तदैव दुरितार्णवात् ॥ १.२३०.३७ ॥
तञ्ज्ञानं यत्र गोविन्दः सा कथा यत्र काशवः
तत्कर्म यत्तदर्थाय किमन्यैर्बहुभाषितैः ॥ १.२३०.३८ ॥
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम्
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥ १.२३०.३९ ॥
प्रणाममीशस्य शिरः फलं विदुस्तदर्चनं पाणिफलं दिवौकसः
मनः फलं तद्गुणकर्मचिन्तनं वचस्तु गोविन्दगुणस्तुतिः फलम् ॥ १.२३०.४० ॥
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः
केशवस्मरणादेव तस्य सर्वं विनश्यति ॥ १.२३०.४१ ॥
यत्किञ्चित्कुरुते कर्म पुरुषः साध्वसाधु वा
सर्वं नारायणे न्यस्य कुर्वन्नपि न लिम्पति ॥ १.२३०.४२ ॥
तृणादिचतुरास्यान्तं भूतग्रामं चतुर्विधम्
चराचरं जगत्सर्वं प्रसुप्तं मायया तव ॥ १.२३०.४३ ॥
यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र नवा विशेत्कथमपि ब्राह्मोऽपिलोकोऽल्पकः
मुक्तिञ्चेतसि संस्थितो जडधियां पुंसां ददात्यव्ययः किञ्चित्रं यदयं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ १.२३०.४४ ॥
अग्निकार्यं जपः स्नानं विष्णोर्ध्यानञ्च पूजनम्
गन्तुं दुः खोदधेः कुर्युर्ये च तत्र नरन्ति ते ॥ १.२३०.४५ ॥
राष्ट्रस्य शरणं राजा पितरो बालकस्य च
धर्मश्च सर्वमर्त्यानां सर्वस्य शरणं हरिः ॥ १.२३०.४६ ॥
ये नमन्ति जगद्योनिं वासुदेवं सनातनम्
न येभ्यो विद्यते तीर्थमधिकं मुनिसत्तम् ॥ १.२३०.४७ ॥
अनर्घरत्नपूजाञ्च कुर्यात्स्वाध्यायमेव च
तमेवोद्दिश्य गोविन्दं ध्यायन्नित्यमतन्द्रितः ॥ १.२३०.४८ ॥
शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा
द्विजजाति समंमन्यो न याति नरकं नरः ॥ १.२३०.४९ ॥
आदरेण सदा स्तौति धनवन्तं धनेच्छया
तथा विश्वस्य कर्तारं को न मुच्येत बन्धनात् ॥ १.२३०.५० ॥
यथा प्राप्तवनो वह्निर्दहत्यार्द्रमपीन्धनम्
तथाविधः स्थितो विष्णुर्योगिनां सर्वकिल्विषम् ॥ १.२३०.५१ ॥
आदीप्तं पर्वतं यद्वन्नाश्रयन्ति मृगादयः
तद्वत्पापनि सर्वाणि योगाभ्यासरतं नरम् ॥ १.२३०.५२ ॥
यस्य यावांश्च विश्वासस्तस्य सिद्धिस्तु तावती
एतवानेव कृष्णस्य प्रभावः परिमीयते ॥ १.२३०.५३ ॥
विद्वेषादपि गोविन्दं दमघोषात्मजः स्मरन्
शिशुपालो गतस्तत्त्वं किं पुनस्तत्परायणः ॥ १.२३०.५४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुमहात्म्यवर्णनं नाम त्रिंशदुत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २३१
सूत उवाच [SUTA SAID]
नारसिंहस्तुतिं वक्ष्ये शिवोक्तं शौनकाधुना
पूर्वं मातृगणाः सर्वे शङ्करं वाक्यमब्रुवन् ॥ १.२३१.१ ॥
भगवन् भक्षयिष्यामः सदेवासुरमानुषम्
त्वत्प्रसादाज्जगत्सर्वं तदनुज्ञातुमर्हसि ॥ १.२३१.२ ॥
शङ्करौवाच
भवतीभिः प्रजाः सर्वा रक्षणीया न संशयः
तस्माड्वोरतरप्रायं मनः शीघ्रं निवर्त्यताम् ॥ १.२३१.३ ॥
इत्येवं शङ्करेणोक्तमनादृत्य तु तद्वचः
भक्षयामासुरव्यग्रास्त्रैलोक्यं सचराचरम् ॥ १.२३१.४ ॥
त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणेन वै
नृसिंहरूपिणं देवं प्रदध्यौ भगवाञ्छिवः ॥ १.२३१.५ ॥
अनादिनिधनं देवं सर्वभूतभवोद्भवम्
विद्युज्जिह्वं महादंष्ट्रं स्फुरत्केसरमालिनम् ॥ १.२३१.६ ॥
रत्नाङ्गदं समुकुटं हेमकेसरभूषितम्
खोणिसूत्रेण महता काञ्चनेन विराजितम् ॥ १.२३१.७ ॥
नीलोत्पलदलश्यामं रत्ननूपुरभूषितम्
तेजसाक्रान्तसकलब्रह्माण्डोदरमण्डपम् ॥ १.२३१.८ ॥
आवर्तसदृशाकारैः संयुक्तं देहरोमभिः
सर्वपुष्पैर्योजिताञ्च धारयंश्च महास्त्रजम् ॥ १.२३१.९ ॥
स ध्यातमात्रो भगवान्प्रददौ तस्य दर्शनम्
यादृशेन रूपेण ध्यातो रुद्रैस्तु भक्तितः ॥ १.२३१.१० ॥
तादृशेनैव रूपेण दुर्निरीक्ष्येण दैवतैः
प्रणिपत्य तु देवेशं तदा तुष्टाव शङ्करः ॥ १.२३१.११ ॥
शङ्कर उवाच
नमस्तेऽस्त जगन्नाथ नरसिंहवपुर्धर
दैत्येश्वरेन्द्रसंहारिनखशुक्तिविराजित ॥ १.२३१.१२ ॥
नखमण्डलसभिन्नहेमपिङ्गलविग्रह
नमोऽस्तु पद्मनाभाय शोभनाय जगद्गुरो
कल्पान्ताम्भोदनिर्घोष सूर्यकोटिसमप्रभ ॥ १.२३१.१३ ॥
सहस्रयमसंत्रास सहस्रेन्द्रपराक्रम
हसस्त्रधनदस्फीत सहस्रचरणात्मक ॥ १.२३१.१४ ॥
सहस्रचन्दप्रतिम ! सहस्रांशुहरिक्रम
सहस्ररुद्रतेजस्क सहस्रब्रह्मसंस्तुत ॥ १.२३१.१५ ॥
सहस्ररुद्रसंजप्त सहस्राक्षनिरीक्षण
सहस्रजन्ममथन सहस्रबन्धनमोचन ॥ १.२३१.१६ ॥
सहस्रवायुवेगाक्ष सहस्राज्ञकृपाकर
स्तुत्वैवं देवदेवेशं नृसिंहवपुषं हरिम्
विज्ञापयामास पुनर्विनयावनतः शिवः ॥ १.२३१.१७ ॥
अन्धकस्य विनाशाय या सृष्टा मातरो मया
अनादृत्य तु मद्वाक्यं भक्ष्यन्त्वद्भुताः प्रजाः ॥ १.२३१.१८ ॥
सृष्ट्वा ताश्च न शक्तोऽहं संहर्तुमपराजितः
पूर्वं कृत्वा कथं तासां विनाशमभिरोचये ॥ १.२३१.१९ ॥
एवमुक्तः स रुद्रेण नरसिहवपुर्हरिः
सहस्रहेवीर्जिह्वाग्रात्तदा वागीश्वरो हरिः ॥ १.२३१.२० ॥
तथा सुरगणान्सर्वान्रौद्रान्मातृगणान्विभुः
संहृत्य जगतः शर्म कृत्वा चान्तर्दधे हरिः ॥ १.२३१.२१ ॥
नारसिंहमिदं स्तोत्रं यः पठेन्नियतेन्द्रियः
मनोरथप्रदस्तस्य रुद्रस्येव न संशयः ॥ १.२३१.२२ ॥
ध्यायेन्नृसिंहं तरुणार्कनेत्रं सिदाम्बुजातं ज्वलिताग्निवत्क्रम्
अनादिमध्यान्तमज पुराणं परापरेशं जगतां निधानम् ॥ १.२३१.२३ ॥
जपेदिदं सन्ततदुः खजालं जहाति नीहारमिवांशुमाली
समातृवर्गस्य करोति मूर्तिं यदा तदा तिष्ठति तत्समीपे ॥ १.२३१.२४ ॥
देवेश्वरस्यापि नृसिंहमूर्तेः पूजां विधातुं त्रिपुरान्तकारी
प्रसाद्य तं देववरं स लब्ध्वा अव्याज्जगन्मातृगणेभ्य एव च ॥ १.२३१.२५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नृसिंहस्तोत्रं नामैकत्रिंशदुत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २३२
सूत उवाच [SUTA SAID]
कुलामृतं प्रवक्ष्यामि स्तोत्रं यत्तु हरोऽब्रवीत्
पृष्टः श्रीनारदेनैव नारदाय तथा शृणु ॥ १.२३२.१ ॥
नारद उवाच
यः संकारे सदा द्वन्द्वैः कामक्रोधैः शुभाशुभैः
शब्दादिविषयैर्बद्धः पीड्यमानः स दुर्मतिः ॥ १.२३२.२ ॥
क्षणं विमुच्यते जन्तुर्मृत्युसंसारसागरात्
भगवञ्छ्रोतुमिच्छामि त्वत्तो हि त्रिपुरान्तक ॥ १.२३२.३ ॥
तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः
उवाच तमृषिं शम्भुः प्रसन्नवदनो हरः ॥ १.२३२.४ ॥
महेश्वर उवाच
ज्ञानामृतं परं गुह्यं रहस्यमृषिसत्तम
वक्ष्यामि शृणु दुः खघ्नं भवबन्धभयामहम् ॥ १.२३२.५ ॥
तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम्
चराचरं जगत्सर्वं प्रसुप्तं यस्य मायया ॥ १.२३२.६ ॥
तस्य विष्णो प्रिसादेन यदि कश्चित्प्रबुध्यते
स निस्तरति संसारं देवानामपि दुस्तरम् ॥ १.२३२.७ ॥
भोगैश्वर्यमदोन्मत्तस्ततत्त्वज्ञानपराङ्मुखः
पुत्रदारकुटुम्बेषु मत्ताः सीदन्तिजन्तवः ॥ १.२३२.८ ॥
सर्व एकार्णवे मग्ना जीर्णा वनगजा इव
यस्त्वाननं निबध्नाति दुर्मतिः कोशकारवत् ॥ १.२३२.९ ॥
तस्य मुक्तिं न पश्यामि जन्मकोटिशतैरपि
तस्मान्नारद सर्वेषां देवानां देवमव्ययम्
आराधयेत्सदा सम्यगध्यायेद्विष्णुं मुदान्वितः ॥ १.२३२.१० ॥
यस्तु विश्वमनाद्यन्तमजमात्मनि संस्थितम्
सर्वज्ञमचलं विष्णुं सदा ध्यायेत्समुच्यते ॥ १.२३२.११ ॥
देवं गर्भोचितं विष्णुं सदा ध्यायन्विमुच्यते
अशिरीरं विधातारं सर्वज्ञानमनोरतिम्
अचलं सर्वगं विष्णुं सदा ध्यायन्विमुच्यते ॥ १.२३२.१२ ॥
निर्विकल्पं निराभासं निष्प्रपञ्चं निरामयम्
वासुदेवं गुरुं विष्णुं सदा ध्यायन्विमुच्यते ॥ १.२३२.१३ ॥
सर्वात्मकञ्च वै यावदात्मचैतन्यरूपकम्
शुभमेकाक्षरं विष्णुं सदा ध्यायन्विमुच्यते ॥ १.२३२.१४ ॥
वाक्यातीतं त्रिकालज्ञं विश्वेशं लोकसाक्षिणम्
सर्वस्मादुत्तमं विष्णुं सदा ध्यायन्विमुच्यते ॥ १.२३२.१५ ॥
ब्रह्मादिदेवगन्धर्वैर्मुनिभिः सिद्धचारणैः
योगिभिः सेवितं विष्णुं सदा ध्यायन्विमुच्यते ॥ १.२३२.१६ ॥
संसारबन्धनामुक्तिमिच्छंल्लोको ह्यशेषतः
स्तुत्वैवं वरदं विष्णुं सदा ध्यायन्विमुच्यते ॥ १.२३२.१७ ॥
संसारबन्धनात्कोऽपि मुक्तिमिच्छन्समाहितः
अनन्तमव्ययं देवं विष्णं विश्वप्रतिष्ठितम्
विश्वेश्वरमजं विष्णुं संदा ध्यायन्विमुच्यते ॥ १.२३२.१८ ॥
सूत उवाच [SUTA SAID]
नारदेन पुरा पृष्ट एवं स वृषभध्वजः
येत्तेन तस्मै व्याख्यातं तन्मया कथितं तव ॥ १.२३२.१९ ॥
तमेव सततन्ध्यायन्निर्व्ययं ब्रह्म निष्कलम्
अवाप्स्यसि ध्रुवं तात ! शाश्वतं पदमव्ययम् ॥ १.२३२.२० ॥
अश्वमेधसहस्राणि वाजपेयशतानि च
क्षणमेकाग्रचित्तस्य कलां नार्हन्ति षोडशीम् ॥ १.२३२.२१ ॥
श्रुत्वा सुरऋषिर्विष्णोः प्राधान्यमिदमीश्वरात्
स विष्णुं सम्यगाराध्य सिद्धः पदमवाप्तवान् ॥ १.२३२.२२ ॥
यः पठेच्छृणुयाद्वा पि नित्यमेव स्तवोत्तमम्
कोटिजन्मकृतं पापमपि तस्य प्रणश्यति ॥ १.२३२.२३ ॥
विष्णोः स्तवमिदं दिव्यं महादेवेन कीर्तितम्
प्रयत्नाद्यः पठेन्नित्य ममृतत्वं स गच्छति ॥ १.२३२.२४ ॥

इति श्रीगारुडे महापुराणे कुलामृतस्तोत्रं नाम द्वात्रिंशदुत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २३३
सूत उवाच [SUTA SAID]
स्तोत्रं तत्सं प्रवक्ष्यामि मार्कण्डेयन भाषितम्
दामोदरं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १.२३३.१ ॥
शङ्खचक्रधरं देवं व्यक्तरूपिणमव्ययम्
अधोऽक्षजं प्रपन्नोस्मि किन्नो मृत्युः करिष्यति ॥ १.२३३.२ ॥
वराहं वामनं विष्णुं नारसिंहं जनार्दनम्
माधवं च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १.२३३.३ ॥
पुरुषं पुष्करक्षेत्रबीजं पुण्यं जगत्पतिम्
लोकनाथं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १.२३३.४ ॥
सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम्
महायोगं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १.२३३.५ ॥
भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम्
विश्वरूपं प्रपन्नोऽस्मि किन्नो मूत्युः करिष्यति ॥ १.२३३.६ ॥
इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनुः
अपयातस्ततो मृत्युर्विष्णुदूतैः प्रपीडितः ॥ १.२३३.७ ॥
इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता
प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्तिदुर्लभम् ॥ १.२३३.८ ॥
मृत्य्वष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम्
मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ १.२३३.९ ॥
इदं यः पठते भक्त्या त्रिकालं नियतं शुचिः
नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ १.२३३.१० ॥
हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमप्रमेयम्
विचिन्त्य सूर्यादतिराजमानं मृत्युं स योगि जितवांस्तथैव ॥ १.२३३.११ ॥

इति श्रीगारुडे महापुराणे मार्कण्डेयकृतं मृत्य्वष्टकस्तोत्रं नाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २३४
सूत उवाच [SUTA SAID]
वक्ष्येऽहमच्युतस्तोत्रं शृणु शौनक सर्वदम्
ब्रह्मा पृष्टो नारदाय यथोवाच तथा परम् ॥ १.२३४.१ ॥
नारद उवाच
यथाक्षयोऽव्ययो विष्णुः स्तोतव्यो वरदो मया
प्रत्यहं चार्चनाकाले तथा त्वं वक्तुमर्हसि ॥ १.२३४.२ ॥
ते धन्यास्ते सुजन्मानस्ते हि सर्वसुखप्रदाः
सफलं जीवितं तेषां ये स्तुवन्ति सदाच्युतम् ॥ १.२३४.३ ॥
ब्रह्मोवाच
मुने स्तोत्रं प्रवक्ष्यामिः वासुदेवस्य मुक्तिदम्
शृणु येन स्तुतः सम्यक्पूजाकाले प्रसीदति ॥ १.२३४.४ ॥
ओं नमो (भगवतेः वासुदेवाच नमः सर्वापहारिणे
नमो विशुद्धदेहाय नमो ज्ञानस्वरूपिणे ॥ १.२३४.५ ॥
नमः सर्वसुरेशाय नमः श्रीवत्सधारिणे
नमश्चर्मासिहस्ताय नमः पङ्कजमालिने ॥ १.२३४.६ ॥
नमो विश्वप्रतिष्ठाय नमः पीताम्बराय च
नमो नृसिंहरूपाय वैकुण्ठाय नमोनमः ॥ १.२३४.७ ॥
नमः पङ्कजनाभाय नमः क्षीरोदशायिने
नमः सहस्रशीर्षाय नमो नागाङ्गशायिने ॥ १.२३४.८ ॥
नमः परशुहस्ताय नमः क्षत्त्रान्तकारिणे
नमः सत्यप्रतिज्ञाय ह्यजिताय नमोनमः ॥ १.२३४.९ ॥
नमस्त्रै लोक्यनाथाय नमश्चक्रधारय च
नमः शिवाय सूक्ष्माय पुराणाय नमोनमः ॥ १.२३४.१० ॥
नमो वामनरूपाय बलिराज्यापहारिणे
नमो यज्ञवराहाय गोविन्दाय नमोनमः ॥ १.२३४.११ ॥
नमस्ते परमानन्द नमस्ते परमाक्षर
नमस्ते ज्ञानसद्भाव नमस्ते ज्ञानदायक ॥ १.२३४.१२ ॥
नमस्ते परमाद्वैत नमस्ते पुरुषोत्तम
नमस्ते विश्वकृद्देव नमस्ते विश्वभावन ॥ १.२३४.१३ ॥
नमस्ते स्ताद्विश्वनाथ नमस्तेः विश्वकारण
नमस्ते मधुदैत्यघ्न नमस्ते रावणान्तक ॥ १.२३४.१४ ॥
नमस्ते कंसकेशिघ्न नमस्ते कैटभार्दन
नमस्ते शतपत्राक्ष नमस्ते गरुडध्वज ॥ १.२३४.१५ ॥
नमस्ते कालनेमिघ्न नमस्ते गरुडासन
नमस्ते देवकीपुत्र नमस्ते वृष्णिनन्दन ॥ १.२३४.१६ ॥
नमस्ते रुक्मिणीकान्त नमस्ते दितिनन्दन
नमस्ते गोकुलावास नमस्ते गोकुलप्रिय ॥ १.२३४.१७ ॥
जय गोपवपुः कृष्ण जय गोपीजनप्रिय
जय गोवर्धनाधार जय गोकुलवर्धन ॥ १.२३४.१८ ॥
जय रावणवीरघ्न जय चाणूरनाशन
जय वृष्णिकुलोद्द्योत जय कालीयमर्दन ॥ १.२३४.१९ ॥
जय सत्य जगत्साक्षिन् जय सर्वार्थसाधक
जय वेदान्तविद्वेद्य जय सर्वद माधव ॥ १.२३४.२० ॥
जय सर्वाश्रयाव्यक्त जय सर्वग माधव
जय सूक्ष्म चिदान्दन जय चित्तनिरञ्जन ॥ १.२३४.२१ ॥
जयस्तेऽस्तु निरालम्ब जय शान्त सनातन
जय नाथ जगत्पुष्ट (त्पूज्य) जय विष्णो नमोऽस्तूते ॥ १.२३४.२२ ॥
त्वं गुरुस्त्वं हरे शिष्यस्त्वं दीक्षामन्त्रमण्डलम्
त्वं न्यासमुद्रासमयास्त्वं च पुष्पादिसाधनम् ॥ १.२३४.२३ ॥
त्वमाधारस्त्वं ह्यनन्तस्त्वं कूर्मःस्त्वं धराम्बुजम्
धर्मज्ञानादयस्त्वं हि वेदिमण्डलशक्तयः ॥ १.२३४.२४ ॥
त्वं प्रभो छलभृद्रामस्त्वं पुनः स खरान्तकः
त्वं ब्रह्मर्षिश्चदेवस्त्वं विष्णुः सत्यपराक्रमः ॥ १.२३४.२५ ॥
त्वं नृसिंहः परानन्दो वराहस्त्वं धराधरः
त्वं सुपर्णस्तथा चक्रं त्वं गदा शङ्ख एव च ॥ १.२३४.२६ ॥
त्वं श्रीः प्रभो त्वं मुष्टिसत्वं त्वं माला देव शावती
श्रीवत्सः कौस्तुभस्त्वं हि शार्ङ्गो त्वं च तथेषुधिः ॥ १.२३४.२७ ॥
त्वं खड्गचर्मणा सार्धं त्वं दिक्पालास्तथा प्रभो
त्वं वेधास्त्वं विधाता च त्वं यमस्त्वं हुताशनः ॥ १.२३४.२८ ॥
त्वं धनेशस्त्वमीशानस्त्वमिन्द्रस्त्वमपांपतिः
त्वं रक्षोऽधिपतिः साध्यस्त्वं वायुस्त्वं निशाकरः ॥ १.२३४.२९ ॥
आदित्या वसवो रुद्रा अश्विनौ त्वं मरुद्गणाः
त्वं दैत्या दानवा नागास्त्वं यक्षा राक्षसाः खगाः ॥ १.२३४.३० ॥
गन्धर्वाप्यरसः सिद्धाः पितरस्त्वं महामराः
भूतानि विषयस्त्वं हि त्वमव्यक्तेन्द्रियाणि च ॥ १.२३४.३१ ॥
मनोबुद्धिरहङ्कारः क्षेत्रज्ञस्त्वं हृदीश्वरः
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः समित्कुशाः ॥ १.२३४.३२ ॥
त्वं वेदी त्वं हरे दीक्षा त्वं यूपस्त्वं हुताशनः
त्वं पत्नी त्वं पुरोडाशस्त्वं शाला स्त्रुक्च त्वं स्तुवः ॥ १.२३४.३३ ॥
ग्रावाणः सकलं त्वं हि सदस्यास्त्वं सदाक्षिणः
त्वं सूर्पादिस्त्वं च ब्रह्मा मुसलोलूखले ध्रुवम् ॥ १.२३४.३४ ॥
त्वं होता यजमानस्त्वं त्वं धान्यं पशुयाजकः
त्वमध्वर्युस्त्वमुद्गाता त्वं यज्ञः पुरुषोत्तमः ॥ १.२३४.३५ ॥
दिक्पातालमहि व्योम द्यौस्त्वं नक्षत्रकारकः
देवतिर्यङ्मनुष्येषु जगदेतच्चराचरम् ॥ १.२३४.३६ ॥
यत्किञ्चिद्दृश्यते देव ब्रह्माण्डमखिलं जगत्
तव रूपमिदं सर्वं दृष्ट्यर्थं संप्रकाशितम् ॥ १.२३४.३७ ॥
नाथयन्ते परं ब्रह्म दैवेरपि दुरासदम्
कस्तञ्जानाति विमलं योगगम्यमतीन्द्रियम् ॥ १.२३४.३८ ॥
अक्षयं पुरुषं नित्यमव्यक्तमजमव्ययम्
प्रलयोत्पत्तिरहितं सर्वव्यापिनमीश्वरम् ॥ १.२३४.३९ ॥
सर्वज्ञं निर्गुणं शुद्धमानन्दमजरं परम्
बोधरूपं ध्रुवं शान्तं पूर्णमद्वैतमक्षयम् ॥ १.२३४.४० ॥
अवतारेषु या मूर्तिर्विदूरे देव दृश्यते
परं भावंमजानन्तस्त्वां भजन्ति दिवौकसः ॥ १.२३४.४१ ॥
कथं त्वामीदृशं सूक्ष्मं शक्नोमि पुरुषोत्तम
अराधयितुमीशान मनोगम्यमगोचरम् ॥ १.२३४.४२ ॥
इह यन्मण्डले नाथ पूज्यते विधिवत्क्रमैः
पुष्पधूपादिभिर्यत्र तत्र सर्वा विभूतयः ॥ १.२३४.४३ ॥
संकर्षणादिभेदेन तव यत्पूजिता मया
क्षन्तुमर्हसि तत्सर्वं यत्कृतं न कृतं मया ॥ १.२३४.४४ ॥
न शक्नोमि विभो सम्यक्कर्तुं पूजां यथोदिताम्
यत्कृतं जपहोमादि असाध्यं पुरुषोत्तम ॥ १.२३४.४५ ॥
विनिष्पादयितुं भक्त्या अत स्त्वां क्षमयाम्यहम्
दिवा रात्रौ च सन्ध्यायां सर्वावस्थासु चेष्टतः ॥ १.२३४.४६ ॥
अचला तु हरे ! भक्तिस्तवाङ्घ्रियुगले मम
शरिरे न (ण) तथा प्रीतिर्न च धर्मादिकेषु च ॥ १.२३४.४७ ॥
यथा त्वयि जगन्नाथ प्रीतिंरात्यन्तिकी मम
किं तेन न कृतं कर्म स्वर्गमोक्षादिसाधनम् ॥ १.२३४.४८ ॥
यस्य विष्णौ दृढा भक्तिः सर्वकामफलप्रदे
पूजां कर्तुं तथा स्तोत्रं कः शक्नोति तवाच्युत ॥ १.२३४.४९ ॥
स्तुतं तु पूजितं मेऽद्य तत्क्षमस्व नमोऽस्तु ते
इति चक्रधारस्तोत्रं मया सम्यगुदाहृतम्
स्तौहि विष्णुं मुने भक्त्या यदीच्छसि परं पदम् ॥ १.२३४.५० ॥
स्तोत्रेणानेन यः स्तौति पूजाकाले जगद्घुरुम् ॥ १.२३४.५१ ॥
अचिराल्लभते मोक्षं छित्वा संसारबन्धनम्
अन्योऽपि यो जपेद्भक्त्या त्रिसन्ध्यं नियतः शुचिः ॥ १.२३४.५२ ॥
इदं स्तोत्रं मुने सोऽपि सर्वकाममवाप्नुयात्
पुत्रार्थो लभते पुत्रान्बद्धो मुच्यते बन्धनात् ॥ १.२३४.५३ ॥
रोगाद्विमुच्यते रागी लभते निर्धनो धनम्
विद्यार्थो लभते विद्यां भग्यं कीर्ति च विन्दति ॥ १.२३४.५४ ॥
जाति स्मरत्वं मेधावी यद्यदिच्छति चेतसा
स धन्यः सर्ववित्प्राज्ञःस साधुः सर्वकर्मकृत् ॥ १.२३४.५५ ॥
स सत्यवाकूछुचिर्दाता यः स्तौति पुरुषोत्तमम्
असंभाष्या हि ते सर्वे सर्वधर्मबहिष्कृताः ॥ १.२३४.५६ ॥
येषां प्रवर्तने नास्ति हरिमुद्दिश्य सत्क्रिया
न शुद्धं विद्यते तस्य मनो वाक्च दुरात्मनः ॥ १.२३४.५७ ॥
यस्य सर्वार्थदे विष्णौ भक्तिर्नाव्यभिचारिणी
आराध्य विधिवद्देवं हरिं सर्वसुखप्रदम् ॥ १.२३४.५८ ॥
प्राप्नोति पुरुषः सम्यग्यद्यत्प्रार्थयते फलम्
कर्म कामादिकं सर्वं श्रद्धधानः सुरोत्तमः
असुरादिवपुः सिद्धैर्देयते यस्य नान्तरम् ॥ १.२३४.५९ ॥
सकलमुनिभिराद्यश्चिन्त्यते यो हि शुद्धो निखिलहृदि निविष्टो वेत्ति यः सर्वसाक्षी
तमजममृतमीशं वासुदेवं नतोऽस्मि भयमरणविहीनं नित्यमानन्दरूपम् ॥ १.२३४.६० ॥
निखिलभुवन नाथं शाश्वतं सुप्रसन्नं त्वतिविमलविशुद्धं निर्गुणं भवपुष्पैः
सुखमुदितसमस्तं पूजयाम्यात्मभावं विशतु हृदयपद्मे सर्वसाक्षी चिदात्मा ॥ १.२३४.६१ ॥
एवं मयोक्तं परमप्रभावमाद्यन्तहीनस्य परस्य विष्णोः
तस्माद्विचिन्त्यः परमेश्वरोऽसौ विमुक्तिकामेन नरेण सम्यक् ॥ १.२३४.६२ ॥
बोधस्वरूपं पुरुषं पुराणमादित्यवर्णं विमलं विशुद्धम्
सञ्चिन्त्य विष्णुं परमद्वितीयं कस्तत्र योगी न लंय प्रयाति ॥ १.२३४.६३ ॥
इमं स्तवं यः सततं मनुष्यः पठेच्च तद्वत्प्रयतः प्रशान्तः
स धूतपाप्मा विततप्रभावः प्रयाति लोकं विततं मुरारेः ॥ १.२३४.६४ ॥
यः प्रार्थयत्यर्थमशेषसौख्यं धर्मं च कामं च तथैव मोक्षम्
स सर्वमुत्सृज्य परं पुराणं प्रयाति विष्णुं शरणं वरेण्यम् ॥ १.२३४.६५ ॥
विभुं प्रभुं विश्वधरं विशुद्धमशेषसंसारविनाशहेतुम्
यो वासुदेवं विमलं प्रपन्नः स मोक्षमाप्नोति विमुक्तसङ्गः ॥ १.२३४.६६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेऽच्युतस्तोत्रं नाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २३५
सूत उवाच वेदान्तसाङ्ख्यसिद्धान्तब्रह्मज्ञानं वदाम्यहम्
अहं ब्रह्म परं ज्योतिर्विष्णुरित्येव चिन्तयन् ॥ १.२३५.१ ॥
सूर्ये हृद्व्योम्नि वह्नौ च ज्योतिरेकं त्रिधा स्थितम्
यथा सर्पिः शीरस्थं गवां न कुरुते बलम् ॥ १.२३५.२ ॥
निर्गतं कर्मसंयुक्तं दत्तं तासां महा बलम्
तथा विष्णुः शरीरस्थो न करोति हितं नणाम् ॥ १.२३५.३ ॥
विनाराधनया देवः सर्वगः परमेश्वरः
आरुरुक्षुमतीनां तु कर्मज्ञानमुदाहृतम् ॥ १.२३५.४ ॥
आरूढयोगवृक्षाणां ज्ञानं त्यागं परं मतम्
ज्ञातुमिच्छति शब्दादीन्रागो द्वेषोऽथ जायते ॥ १.२३५.५ ॥
लोभो मोहः क्रोध एतैर्युक्तः पापं नरश्चरेत्
हस्तावुपस्थमुदरं वाक्चतुर्थो चतुष्टयम् ॥ १.२३५.६ ॥
एतत्सुसंयतं यस्य स विप्रः कथ्यते बुधैः (धः)
परवित्तं न गृह्णाति न हिंसां कुरुते तथा ॥ १.२३५.७ ॥
नाक्षक्रीडारतो यस्तु हस्तौ तस्य सुसंयतौ
परस्त्रीवर्जनरतस्तस्योपस्थं सुसंयतम् ॥ १.२३५.८ ॥
अलोलुपमिदं भुङ्क्ते जठरं तस्य संयतम्
सत्यं हितं मितं ब्रूते यस्माद्वाक्तस्य संयता ॥ १.२३५.९ ॥
यस्य संयतान्येतानि तस्य किं तपसाध्वरैः
ऐक्यं यद्बुद्धिमनसोरिन्द्रियाणां च सर्वदा ॥ १.२३५.१० ॥
सबीजं वापि निर्बोजं ध्यानमेतत्प्रकीर्तितम्
भ्रुवोर्मध्ये स्थितां बुद्धिं विषयेषु युनक्ति यः ॥ १.२३५.११ ॥
हन्द्रियाणामुपरमे मनसि ह्यव्यवस्थिते ॥ १.२३५.१२ ॥
स्वप्नान्पश्यत्यसौ जीवो बाह्यानाभ्यन्तरानथ
जीवो जाग्रदवस्थायामेवमाहुर्विपाश्चितः ॥ १.२३५.१३ ॥
हृदि स्थितः स तमसा मोहितो न स्मरत्यपि
यदा तस्य कुतो वेति सुषुप्तिरिति कथ्यते ॥ १.२३५.१४ ॥
जाग्रतो यस्य नो तन्द्रा न मोहो न भ्रमस्तथा
उत्पद्यते न जानाति शब्दार्थविषयान्वशी ॥ १.२३५.१५ ॥
इन्द्रियाणि समाहृत्य विषयेभ्यो मनस्तथा
बुद्ध्याहङ्कारमपि च प्रकृत्या बुद्धिमेव च ॥ १.२३५.१६ ॥
संयम्य प्रकृतिं चापि चिच्छक्त्या केवले स्थितः
पश्यत्यात्मानि चात्मानमात्मनात्मप्रकाशकम् ॥ १.२३५.१७ ॥
चिद्रूपममृतं शुद्धं निष्क्रियं व्यापकं शिवम्
तुरीयायामवस्थायामास्थितोऽसौ न संशयः ॥ १.२३५.१८ ॥
शब्दादयो गुणाः पञ्च सत्त्वाद्याश्च गुणास्त्रयः
पुर्यष्टकस्य पद्मस्य पत्राण्यष्टौ च तानि हि ॥ १.२३५.१९ ॥
साम्यावस्था गुणकृता प्रकृतिस्तत्र कर्णिका
कर्णिकायां स्थितो देवो देही चिद्रूप एव हि ॥ १.२३५.२० ॥
पुर्यष्टकं परित्यज्य प्रकृतिञ्च गुणात्मिकाम्
यदा याति तदा जीवो याति मुक्तिं न संशयः ॥ १.२३५.२१ ॥
प्राणायामो जपश्चैव प्रत्याहारोऽथ धारणा
ध्यानं समाधिरित्येते षड्योगस्य प्रसाधकाः ॥ १.२३५.२२ ॥
पापक्षये देवतानां प्रीतिरिन्द्रियसंयमः
जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः ॥ १.२३५.२३ ॥
षट्त्रिंशन्मात्रकः श्रेष्ठश्चतुर्विंशतिमात्रकः
मध्यो द्वादशमात्रस्तु ओङ्कारं सततं जपेत् ॥ १.२३५.२४ ॥
वाचके प्रणवे ज्ञाते वाच्यं ब्रह्म प्रसीदति
(ओंनमो विष्णवे).षष्ठाक्षरश्च जप्तव्यो गायत्त्री द्वादशाक्षरी ॥ १.२३५.२५ ॥
सर्वेषामिन्द्रियाणां तु प्रवृतिर्विषयेषु च
निवृत्तिर्मनसस्तस्याः प्रत्याहारः प्रकीर्तितः ॥ १.२३५.२६ ॥
इन्द्रियाणीन्द्रियार्थेभ्यः समाहृत्य हितो हि सः
सहसा सह बुद्ध्या च प्रत्याहारेषु संस्थितः ॥ १.२३५.२७ ॥
प्राणायामैर्द्वादशभिर्यावत्कालःकृतो भवेत्
यस्तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् ॥ १.२३५.२८ ॥
तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः
तुष्येत नियतो युक्तः समाधिः सोऽभीधीयते ॥ १.२३५.२८*१ ॥
ध्यायन्न चलते यस्य मनोभिध्यायतो भृशम् ॥ १.२३५.२९ ॥
प्राप्यावधिकृतं कालं यावत्सा धारणा स्मृता
ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति ॥ १.२३५.३० ॥
नान्यं पदार्थं जानाति ध्यानमेतत्प्रकीर्तितम्
ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयन् ॥ १.२३५.३१ ॥
यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः
ध्येयमेव हि सर्वत्र ध्याता तन्मयतां गतः ॥ १.२३५.३२ ॥
पश्यति द्वैतरहितं समाधिः सोऽभिधीयते
मनः सङ्कल्परहितमिन्द्रियार्थान्न चिन्तयेत् ॥ १.२३५.३३ ॥
यस्य ब्रह्मणि संलीनं समाधिस्थं तदोच्यते
ध्यायतः परमात्मानमात्मस्थं यस्य योगिनः ॥ १.२३५.३४ ॥
मनस्तन्मयतां याति समाधिस्थः स कीर्तितः
चित्तस्य स्थिरता भ्रान्तिर्दैर्मनस्यं प्रमादता ॥ १.२३५.३५ ॥
योगिनां कथिता दोषा योगविघ्नप्रवर्तकाः
स्थित्यर्थं मनसः सर्वं स्थूलरूपं विचिन्तयेत् ॥ १.२३५.३६ ॥
तद्व्रतं निश्चलीभूतं सूय्यस्थं स्थिरतां व्रजेत्
न विना परमात्मानं किञ्चिज्जगति विद्यते ॥ १.२३५.३७ ॥
विश्वरूपं तमेवैकमिति ज्ञात्वा विमुञ्चति
ओङ्कारं परमं ब्रह्म ध्यायेदब्जस्थितं विभुम् ॥ १.२३५.३८ ॥
क्षेत्रक्षेत्रज्ञरहितं जपेन्मात्रात्रयान्वितम्
हृदि सञ्चिन्तयेत्पूर्वं प्रधानं तस्य चोपरि ॥ १.२३५.३९ ॥
तमो रजस्तथा सत्त्वं मण्डलत्रितयं क्रमात्
कृष्णरक्तसितं तस्मिन्पुरुषं जीवसंज्ञितम् ॥ १.२३५.४० ॥
तस्योपरि गुणैश्वर्यमष्टपत्रं सरोरुहम्
ज्ञानं तु कर्णिका तत्र विज्ञानं केसराः स्मृताः ॥ १.२३५.४१ ॥
वैराग्यनालं तत्कन्दो वैष्णवो धर्म उत्तमः
कर्णिकायां स्थितं तत्र जीववन्निश्चलं विभु ॥ १.२३५.४२ ॥
ध्यायेदुरसि संयुक्तमोङ्कारं मुक्तिसाधकम्
ध्यायन्यदि त्यजेत्प्राणान्याति ब्रह्म स्वसन्निधिम् ॥ १.२३५.४३ ॥
हरिं संस्थाप्य देहाब्जे ध्यायन्यो गी च भक्तिभाक्
आत्मानमात्मना केचित्पश्यन्ति ध्यानचक्षुषः ॥ १.२३५.४४ ॥
सांख्यबुद्ध्या तथैवान्ये योगेनान्ये तु योगिनः
ब्रह्मप्रकाशकं ज्ञानं भवबन्धविभेदनम् ॥ १.२३५.४५ ॥
तत्रैकचित्ततायोगो मुक्तिदो नात्र संशयः
जितेन्द्रियात्मकरणो ज्ञानदृप्तो हि यो भवेत् ॥ १.२३५.४६ ॥
स मुक्तः कथ्यते योगी परमात्मन्यवस्थितः
आसनस्थानविधयो न योगस्य प्रसाधकाः ॥ १.२३५.४७ ॥
विलम्बजनकाः सर्वे विस्तराः परिकीर्तिताः
शिशुपालः सिद्धिमाप स्मरणाभ्यासगौरवात् ॥ १.२३५.४८ ॥
योगाभ्यासं प्रकुर्वन्तः पस्यन्त्यात्मानमात्मना
सर्वभूतेषु कारुण्यं विद्वेषं विषयेषु च ॥ १.२३५.४९ ॥
गुप्तशिश्रोदरादिश्च कुर्वन्योगी विमुच्यते
इन्द्रियैरिन्द्रियार्थांस्तु न जानाति नरो यदा ॥ १.२३५.५० ॥
काष्ठवद्ब्रह्मसंलीनो योगी मुक्तस्तदा भवेत्
सर्ववर्णाः श्रियः सर्वाः कृत्वा पापानि भस्मसात् ॥ १.२३५.५१ ॥
ध्यानाग्निना च मेधावी लभते परमां गतिम्
मन्थनाद्दृश्यते ह्यग्निस्तद्वद्ध्यानेन वै हरिः ॥ १.२३५.५२ ॥
ब्रह्मात्मनोर्यदैकत्वं स योगश्चोत्तमोत्तमः
बाह्यरूपैर्न मुक्तिस्तु चान्तस्थैः स्याद्यमादिभिः ॥ १.२३५.५३ ॥
साङ्ख्यज्ञानेन योगेन वेदान्तश्रवणेन च
प्रत्यक्षतात्मनो या हि सा मुक्तिरभिधीयते
अनात्मन्यात्मरूपत्वमसतः सत्स्वरूपता ॥ १.२३५.५४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्मविज्ञानस्वरूपणं नाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २३६
श्रीभगवानुवाच
आत्मज्ञानं प्रवक्ष्यामि शृणु नारद तत्त्वतः
अद्वैतं साङ्ख्यमित्याहुर्योगस्तत्रैकचित्तता ॥ १.२३६.१ ॥
अद्वैतयोगसम्पन्नास्ते मुच्यन्तेऽतिबन्धनात्
अतीतारब्धमागामि कर्म नश्यति बोधतः ॥ १.२३६.२ ॥
सद्विचारकुठारेण च्छिन्नसंसारपादपः
ज्ञानवैराग्यतीर्थेन लभते वैष्णवं पदम् ॥ १.२३६.३ ॥
जाग्रत्स्वप्नसुषुप्तं च माया त्रिपुरमुच्यते
अत्रैवान्तर्गतं सर्वं शाश्वते नाद्वये पदे ॥ १.२३६.४ ॥
नामरूपक्रियाहीनं सर्वं तत्परमं पदम्
जगत्कृत्वेश्वरोऽनन्तं स्वयमत्र प्रविष्टवान् ॥ १.२३६.५ ॥
वेदाहमेतं पुरुषं चिद्रूपं तमसः परम्
सोऽहमस्मीति मोक्षाय नान्यः पन्था विमुक्तये ॥ १.२३६.६ ॥
श्रवणं मननं ध्यानं ज्ञानानां चैव साधनम्
यज्ञदानतपस्तीर्थवेदैर्मुक्तिर्न लभ्यते ॥ १.२३६.७ ॥
त्यागेन केनचिद्ध्यानपूजाकर्मादिभिर्यथा
द्विविधं वेदवचनं कुरु कर्म त्यजेति च ॥ १.२३६.८ ॥
यज्ञादयो विमुक्तानां निष्कामानां विमुक्तये
अन्तः करणशुद्ध्यर्थमूचुरेवात्र केचन ॥ १.२३६.९ ॥
एकेन जन्मना ज्ञानन्मुक्तिर्न द्वैतभाविनाम्
योगभ्रष्टाः कुयोगाश्च विप्रा योगिकुलोद्भवाः ॥ १.२३६.१० ॥
कर्मणा बध्यते जन्तुर्ज्ञानान्मुक्तो भवाद्भवेत्
आत्मज्ञानन्त्वाश्रयेद्वै अज्ञानं यदतोऽन्यथा ॥ १.२३६.११ ॥
यदा सर्वे विमुच्यन्ते कामा येस्यहृदि स्थिताः
तदामृतत्वमाप्नोति जीवन्नेव न संशयः ॥ १.२३६.१२ ॥
व्यापकत्वात्कथं याति को याति क्व स याति च
अनन्तत्वान्नदेशोऽस्ति अमूर्तित्वाद्गतिः कुतः ॥ १.२३६.१३ ॥
अद्वयत्वान्न कोऽप्यस्ति बोधत्वाज्जडता कुतः
एकोद्दिष्टं यदन्यस्य मतिवाग्गतिसंस्थिति (म्) ॥ १.२३६.१४ ॥
कथमाकाशकल्पस्य गतिरागतिसंस्थिति
जाग्रत्स्वप्नसुषुप्तं च मायया परिकल्पितम् ॥ १.२३६.१५ ॥
वस्तु तैजसकं प्राज्ञे यत्तु पुण्यमखण्डकम्
यथा ते प्रियात्मा नः सर्वेषां च तथा प्रियः ॥ १.२३६.१६ ॥
बोधमार्गे यथा चित्तं सर्वेषां च तथा मते
सर्वदा सर्वभूतानां सर्वस्य च महामुने ॥ १.२३६.१७ ॥
नाहमत्रात्मविज्ञानं तस्मात्पूर्णं निरन्तरम्
जाग्रत्स्वप्नं तथा वृत्तं सौषुप्तसुखमेव च ॥ १.२३६.१८ ॥
स्मरणं विस्मृतार्थस्य नास्ति चेत्कस्य जायते
सत्यमस्तु तथा वाणु अशरीरं परं तथा ॥ १.२३६.१९ ॥
नास्ति चेत्सुखदुः खानां सर्वेषां वेदनं कथम्
सदा सर्वत्र सर्वज्ञः सर्वस्य हृदये न येत् ॥ १.२३६.२० ॥
साक्षिभूतः समाश्रित्य को जानाति विचेष्टितम्
सत्य ज्ञानानन्त भिन्नं स्यान्नसत्यं ज्ञानतः पृथक् ॥ १.२३६.२१ ॥
नानन्त्यात्पृथगानन्दं नाप्यमानन्दतः पृथक्
त्वमेव परमं ब्रह्म सत्यज्ञानादिलक्षणम् ॥ १.२३६.२२ ॥
अहं ब्रह्म परं तत्त्वं ज्ञात्वा त्वखिलविद्भवेत्
यथैकमृन्मये ज्ञाते सर्वमेतच्चराचरम् ॥ १.२३६.२३ ॥
यथैकहेममणिना सर्वं हेममयं भवेत्
ज्ञानं तथैवमीशेन ज्ञानिनाप्यखिलं जगत् ॥ १.२३६.२४ ॥
यथान्धकारदोषेण रज्जुः सम्यङ्नदृश्यते
यथा संमोहदोषेण चात्मा सम्यङ्नदृश्यते ॥ १.२३६.२५ ॥
सर्पधारादिभिर्भेदरैन्यथा वस्तुकल्पनम्
व्योमादिना सरूपाद्यैरन्यथात्मा प्रकल्प्यते ॥ १.२३६.२६ ॥
प्रत्यक्षमपि यद्द्रव्यन्दुर्दर्शमिति भाषते
व्योमादिना सरूपाद्यैरन्यथा कल्पितैस्तथा ॥ १.२३६.२७ ॥
तथा हि रज्जुरुरगः शुक्तिः कारजतं यथा
मृगतृष्णापथायाम्भस्तृप्तिं विष्णो तथा जगत् ॥ १.२३६.२८ ॥
हाहिष्णोद्विजा कथि द्भोहमितिदृ
ग्रहनाशात्पुनर्ध्यायन्ब्राह्मण्यं मन्यते यथा ॥ १.२३६.२९ ॥
मायाविष्टस्तथा जीवो देहोहमिति मन्यते
मायानाशात्पुनः स्वीयरूपं ब्रह्मास्मि मन्यते ॥ १.२३६.३० ॥
ग्रहनाशाद्यथा मान्यजनोक्रूरमवेक्षते
स्वरूपदर्शनाच्चायं माया नाशन्तया विना ॥ १.२३६.३१ ॥
अनादित्वं समं द्वाभ्यां स्वरूपं तद्विलक्षणम्
एकः सत्यं तथा भागी विचारेण परं मृषा ॥ १.२३६.३२ ॥
अजोपि हि सकृत्प्रेत्य संभवाम्यात्ममायया
मायेच्छया द्विधा स स्यात्पतिः पत्नी सुखं जगत् ॥ १.२३६.३३ ॥
अष्टाविंशतिभेदैस्तु त्रैगुण्यं विद्यते पृथक्
चतुरशीतिर्लक्
ष्यन्ते नरनार्याकृतीनि च ॥ १.२३६.३४ ॥
एषुविश्वं प्रभवति खण्डजं मायया यथा
आदावन्ते च सन्त्येते नामरूपक्रियादयः ॥ १.२३६.३५ ॥
सत्तावकल्पनं काले न सन्ति परमार्थतः
यथा रथादयः स्वप्ने सन्तो नैव च सत्यतः ॥ १.२३६.३६ ॥
तथा जाग्रदवस्थायां भूतानि न तु सन्निधौ
द्वैरूप्यं मायया याति जाग्रत्स्वप्नपदज्ञ (क्ष) योः ॥ १.२३६.३७ ॥
एवमेतत्परं ब्रह्म स्वप्नजाग्रत्पदद्वये
सुषुप्तमचलं रूपमद्वयं पदमुच्यते ॥ १.२३६.३८ ॥
मायाविचारसिद्धैव विचारेण विलीयते
आपातरहिता सापि कल्पना कालवर्तिनी ॥ १.२३६.३९ ॥
एवं तस्या (दात्या) त्मनादित्यं सिद्धमेकस्य सत्यजा
सतोस्तित्वं वसातित्वादस्तित्वासत्यतां ततः ॥ १.२३६.४० ॥
ज्ञानं ततोप्यनन्तो नः पूर्णोन्तः शुकमात्मना
न नित्यभावाज्जातोहमकृत्वादमृतोस्म्यहम्
दीपवद्धृदये ज्योतिरहं ब्रह्मास्मि मुक्तये ॥ १.२३६.४१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आत्मज्ञानस्वरूपवर्णनं नाम षट्त्रिंशदुत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २३७
श्रीबगवानुवाच
गीतासारं प्रवक्ष्यामि अर्जुनायोदितं पुरा
अष्टाङ्गयोगयुक्तात्मा सर्ववेदान्तपारगः ॥ १.२३७.१ ॥
आत्मलाभः परो नान्य अत्मदेहादिवर्जितः
हीनरूपादिदेहान्तः करणत्वादिलोचनः ॥ १.२३७.२ ॥
बिज्ञानरहितः प्राणः सुषुप्तौ हि प्रतीयते
नाहमात्मा च दुः खादिसंसारादिसमन्वयात् ॥ १.२३७.३ ॥
विधूम इव दीप्तार्चिरादीप्त (दित्य) इव दीप्तिमान्
वैद्युतोऽग्निरिवाकाशे हृत्सङ्गे आत्मनात्मनि ॥ १.२३७.४ ॥
श्रोत्रादीनि न पश्यन्ति स्वंस्वमात्मानमात्मना
सर्वज्ञः सर्वदर्शो च क्षेत्रज्ञस्तानि पश्यन्ति ॥ १.२३७.५ ॥
यदा प्रकाशते ह्यात्मा पटे दीपो ज्वलन्निव
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ॥ १.२३७.६ ॥
यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्चकम् ॥ १.२३७.७ ॥
मनोबुद्धिरहङ्कारमव्यक्तं पुरुषं तथा
प्रसंख्याय परंव्याप्तो विमुक्तो बन्धवैर्भवेत् ॥ १.२३७.८ ॥
इन्द्रियग्राममखिलं मनसाभिनिवेश्य च
मनश्चैवाप्यहङ्कारे प्रतिष्ठाप्य च पाण्डव ॥ १.२३७.९ ॥
अहं कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि
प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् ॥ १.२३७.१० ॥
अहं बह्म परं ज्योतिः प्रसंख्याय विमुच्यते
नवद्वारमिदं गेहं तिसृणां?पञ्चसाक्षिकम् ॥ १.२३७.११ ॥
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स वरः कविः
अश्वमेधसहस्राणि वाजपेयशतानि च
ज्ञानयज्ञस्य सर्वाणि कलां नार्हन्ति षोच्शीम् ॥ १.२३७.१२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीमद्भगवद्गीतासारनिरूपणं नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २३८
श्रीभगवानुवाच
यमश्च नियम.पार्थ आसनं प्राणसंयमः
प्रत्याहारस्तथा ध्यानं धारणार्जुन सप्तमी ॥ १.२३८.१ ॥
समाधिरिति चाष्टाङ्गो योग उक्तो विमुक्तये
कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ॥ १.२३८.२ ॥
हिंसाविरामको धर्मो ह्याहिंसा परमं सुखम्
विधिना या भवेद्धिंसा सा त्वहिंसा प्रकीर्तिता ॥ १.२३८.३ ॥
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ १.२३८.४ ॥
यच्चद्रव्यापहरणं चौर्याद्वाथ बलेन वा
स्तेयं तस्यानाचरणमस्तेयं धर्मसाधनम् ॥ १.२३८.५ ॥
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ १.२३८.६ ॥
द्रव्याणामप्यनादानमापत्स्वपि तथेच्छया
अपरिग्रहमित्याहुस्तं प्रयत्नेन वर्जयेत् ॥ १.२३८.७ ॥
द्विधा शौचं मृज्जलाभ्यां बाह्य भावादथान्तरात्
यदृच्छालाभतस्तुष्टिः सन्तोषः सुखलक्षणम् ॥ १.२३८.८ ॥
मनसश्चैन्द्रियाणां च ऐकाग्र्यं परमं तपः
शरीरशोषणं वापि कृच्छ्रचान्द्रायणादिभिः ॥ १.२३८.९ ॥
वेदान्तशतरुद्रीयप्रणवादिजप बुधाः
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ १.२३८.१० ॥
स्तुतिस्मरणपूजादिवाङ्मनः कायकर्मभिः
अनिश्चला हरौ भक्तिरेतदीश्वरचिन्तनम्
आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा ॥ १.२३८.११ ॥
प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम्
इन्द्रियाणां विचरतां विषयेषु त्वसत्स्विव ॥ १.२३८.१२ ॥


श्रीगरुडमहापुराणम् [GARUR PURANAM] २३९
ब्रह्मोवाच
ब्रह्मगीतां प्रवक्ष्यामि यज्ज्ञात्वा मुच्यते भवान्
अहंब्रह्मास्मि वाक्योत्थज्ञानान्मोक्षो भवेन्नणाम् ॥ १.२३९.१ ॥
वाक्यज्ञानं भवेज्ज्ञानादहंब्रह्म पदार्थयोः
पदद्वयार्थौ द्विविधौ वाच्यौ लक्ष्यौ स्मतौ बुधैः ॥ १.२३९.२ ॥
वाक्यवाच्यश्च शबलो लक्ष्यः शुद्वः प्रकीर्तितः
प्राणपिण्डात्मकोः यनचेतसामतुलं न यतु? ॥ १.२३९.३ ॥
तथा वेदैरवाग्रूपमहंशब्देन सेव्यते
प्रत्यग्रूनं त्वद्वितीयमहंशब्देन मन्यते ॥ १.२३९.४ ॥
अव्ययानन्दचैतन्यं परोक्षसहितं परम्
प्राणपिण्डात्मको योथ स द्वितीयविभागकः ॥ १.२३९.५ ॥
पारोक्ष्येप्रेक्षणो ह्यत्र भागो लक्ष्येत वाहमा
तथा ब्रह्मपदेनैव प्राणपिण्डात्मकारणाम् ॥ १.२३९.६ ॥
निष्ठा परोक्षता चेति परित्यागेन वक्ष्यते
अद्वयानन्दचैतन्यं प्रत्यग्ब्रह्मपदेन तु ॥ १.२३९.७ ॥
अद्वयानन्दचैतन्यं लक्षयित्वा स्थितस्य च
ब्रह्माहमस्म्यहं ब्रह्म चाहंब्रह्मपदार्थयोः ॥ १.२३९.८ ॥
अहंब्रह्मास्मिवाक्याच्च स्वनुभूतिफलार्थकम्
ऐक्यज्ञानं तु हि भवेद्वेदान्ताद्दूरतो ध्रुवम् ॥ १.२३९.९ ॥
ज्ञानादज्ञानकार्यस्य निवृत्त्या मुक्तिरैक्यतः ॥ १.२३९.१० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्मगीतासारवर्णनं नामैकोनचत्वारिंशदुत्तरद्विशततमोऽध्यायः

श्रीगरुडमहापुराणम् [GARUR PURANAM] २३९
श्रीभगवानुवाच
सन्नपि ब्रह्म तस्मात्खं मरुत्खाच्च ततोऽनलः ॥ १.२३९.१ ॥
अग्नेरापस्ततः पृथ्वी प्रपञ्चाकृतिसूतिका
ततः सप्तदशं लिङ्गं पञ्चकर्मेन्द्रियाणि च ॥ १.२३९.२ ॥
वाक्पाणिपादं पायुश्चाप्युपस्थमथ धीन्द्रियम्
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं स्यात्पञ्च वायवः ॥ १.२३९.३ ॥
प्राणोपानः समानश्च व्यानस्तूदान एव च
मनोन्तः करणं धीश्च स्यान्मनः संशयात्मकम् ॥ १.२३९.४ ॥
बुद्धिर्निश्चयरूपा तु एतत्सूक्ष्मस्वरूपकम्
हिरण्यगर्भमात्मीयसूत्रं तत्कार्यालिङ्गकम् ॥ १.२३९.५ ॥
पञ्चीकृतानि भूतानि ह्यपञ्चीकृतभूततः
पञ्चीकृतेभ्यो भूतेभ्यो ब्रह्माण्डं समजायत ॥ १.२३९.६ ॥
लोकप्रसिद्धं स्थूलाख्यं शरीरं चरणादिमत्
पञ्चीकृतानि भूतानि तत्कार्यं तत्स्थमेव च ॥ १.२३९.७ ॥
सर्वं शरीरजातं च प्राणिनां स्थूलमीरितम्
त्रिधाह्रि परमात्मस्थं शरीरं प्रोच्यते बुधैः ॥ १.२३९.८ ॥
देहद्वयाभिगामी च त्वमथो जीव एकतः
स्वभेदवाक्याद्ब्रह्मैव प्रविष्टं देहयोर्द्वयोः ॥ १.२३९.९ ॥
जलार्क्ववद्वदरवज्जीवः प्राणादिधारणः
जाग्रत्स्वप्नसुषुप्तीनां साक्षी जीवः स च स्मृतः ॥ १.२३९.१० ॥
जाग्रत्स्वप्नसुषुप्त्याख्यैर्व्यातिरिक्तश्च निर्गुणः
निर्गातावयवोसंगो नित्यशुद्धस्वभावकः ॥ १.२३९.११ ॥
परमात्मैव यज्जाग्रत्स्वप्नाद्यैर्यस्त्रिधा मतः
अन्तः करणराशेश्चैवान्तः करणःस्थितः ॥ १.२३९.१२ ॥
जाग्रत्स्वप्नसुषुप्तीश्च पश्यतो विकृतिः सदा
फलक्रियाकारकयोर्जाग्रदादीन्वदाम्यहम् ॥ १.२३९.१३ ॥
इन्द्रियैरथ विज्ञानं जाग्रत्स्थानमुदीरितम्
जाग्रत्संस्कारसंभूतप्रत्ययो विषयार्थिनः ॥ १.२३९.१४ ॥
स्वप्नं सुषुप्तिः करणोपसंघाते धियः (प) स्थित (ति)
ब्रह्मणः कारणावस्थायां स्थितिः कालकात्मना ॥ १.२३९.१५ ॥
क्रमतोक्रमतो जीवो जाग्रदादि स पश्यति
समाध्यारंभकाले तु पूर्वमेवावधारयेत् ॥ १.२३९.१६ ॥
मुमुक्षावथ संजाते अन्तः करणकेवले
विलापयेत्क्षेत्रजातं तत्क्षेत्रं परिशेषयेत् ॥ १.२३९.१७ ॥
पञ्चीकृतेभ्यो भूतेभ्यो भाण्डादि व्यतिरिक्तकम्
यथा मृदो घटो भिन्नो नास्ति तत्कार्यतस्तथा ॥ १.२३९.१८ ॥
पञ्चीकृतानि भूतानि अपञ्चीकृतभूततः
शंसंति व्यतिरेकेण शिष्टाः सूक्ष्मशरीरकम् ॥ १.२३९.१९ ॥
अपञ्चीकृतभूतेभ्यो न लिङ्गं व्यतिरिक्तकम्
पृथ्व्याधारं विना नास्ति विना नास्ति च तेन सा ॥ १.२३९.२० ॥
तेजश्च वायुना नास्ति वायुः खेन विना न हि
यद्ब्रह्मणा च खं नास्ति शुद्ध ब्रह्म विना च खम् ॥ १.२३९.२१ ॥
शुद्धभावस्तदा जाग्रत्स्वप्नादीनामसंभवः
जीवत्ववर्जितः प्राप्तात्मचैतन्यानुरूपतः ॥ १.२३९.२२ ॥
नित्यं शुद्धं बुद्धमुक्तं सत्यं ब्रह्माद्वितीयकम्
तत्त्वंपदान्तौ शिष्टौ च तत्कारो ब्रह्मवाचकः ॥ १.२३९.२३ ॥
उकारश्च अकारश्च मकारोयमृगद्वयः
ब्रह्माहमस्म्यहं ब्रह्मज्ञानमज्ञानवर्धनम् ॥ १.२३९.२४ ॥
अयमात्मा परं ज्योतिश्चिन्नामानन्दरूपकः
सत्यं ज्ञानमनतं हि त्वमसीति श्रुतीरितम् ॥ १.२३९.२५ ॥
अहं ब्रह्मास्मि निर्लेपमहं ब्रह्मास्मि सर्वगम्
योसावादित्यपुरुषसोसावहमनादिमत्
गीतासारोर्ऽजुनायोक्तो येन ब्रह्मणि वै लयः ॥ १.२३९.२६ ॥

इति श्रीगारुडे महापुराणे प्रथमांशे आचारकाण्डे ब्रह्मगीतासारो नामेकोनचत्वारिंशदुत्तरद्विशततमोऽध्यायः


श्रीगरुडमहापुराणम् [GARUR PURANAM] २४०
हरिरुवाच
पुराणं गारुडं रुद्र प्रोक्तं सारं मयातव
ब्रह्मादीनां शृण्वतां च भुक्तिमुक्तिप्रदायकम् ॥ १.२४०.१ ॥
विद्याकीर्तिप्रभालक्ष्मीजयारोग्यादिकारकम्
यः पठेच्छृणुयाद्रुद्र सर्ववित्स दिवं व्रजेत् ॥ १.२४०.२ ॥
ब्रह्मोवाच
इति व्यास मया विष्णोः पुराणं मुक्तिदं श्रुतम्
व्यास उवाच
श्रुत्वैतद्गारुडं पुण्यं ब्रह्मास्मानित्युवाच ह ॥ १.२४०.३ ॥
दक्षनारद मुख्यादिन् ब्रह्म ध्यान्हरिं गतः
मयापि तुभ्यं सूतेन पुराणं कथितं परम् ॥ १.२४०.४ ॥
यच्छ्रुत्वा सर्ववित्प्राप्तकामो ब्रह्म फलं भवेत्
विष्णुः सारतमंप्राह गरुडं गारुडं ततः ॥ १.२४०.५ ॥
महासारं धर्मकामधनमोक्षादिदायकम्
सूत उवाच [SUTA SAID]
शौनक प्रवरं प्रोक्तं पुराणं गारुडं तव ॥ १.२४०.६ ॥
यदब्रवीत्पुरा व्यासः सारं मां गारुडेरितम्
व्यासः श्रुत्वा ब्रह्मणश्च पुराणं गारुडं शुभम्
देवं ध्यायन्वेदमेकं चतुर्धा व्यभजद्धरिः ॥ १.२४०.७ ॥
अष्टादशपुराणानि तानि मां प्राह वै शुकः
इदं तु गारुडं श्रेष्ठं मया ते शौनकेरितम् ॥ १.२४०.८ ॥
मुनीनां शृण्वतां मध्ये पृच्छतः सर्ववाचकम्
यः पठेच्छणुयाद्वापि श्रावयेद्वा समाहितः ॥ १.२४०.९ ॥
संलिखेल्लेखयेद्वापि धारयेत्पुस्तके ननु
धर्मार्थो प्राप्नुयाद्धर्मर्थार्थो चार्थमाप्नुयात् ॥ १.२४०.१० ॥
कामा नवाप्नुयात्कामी मोक्षार्थो मोक्षमाप्नुयात्
यद्यदिच्छति तत्सर्वं गारुडश्रवणाल्लभेत् ॥ १.२४०.११ ॥
ब्राह्मणो वेदपारस्य गन्ता स्यान्नात्र संशयः
क्षत्त्रियो क्षत्त्रियस्यापि रक्षिता भवतीह च ॥ १.२४०.१२ ॥
नान्यस्य श्रवणं हि स्यात्पुराणं वेदसंमितम्
वदेद्यदि स मूढात्मा कीर्तिहानिमवाप्नुयात् ॥ १.२४०.१३ ॥
अन्यस्मै च वदेद्विद्वान् ब्राह्मणोन्तरितो य दि
ब्राह्मणान्तरितै सर्वैः श्रोतव्यं गारुडं त्विदम ॥ १.२४०.१४ ॥
यथा विष्णुस्तथा तार्क्ष्यस्तार्क्ष्यस्तोत्राद्धरिः स्तुतः
गारुडं वसुराजश्च श्रुत्वा सर्वमवाप ह ॥ १.२४०.१५ ॥
वरुरुवाच
नमस्यामि महाबाहुं खगेद्र हरिवाहनम्
विष्णोर्ध्वसंस्थानं वित्रासितमहासुरम् ॥ १.२४०.१६ ॥
नमस्ते नागदर्पघ्न विनतानन्दवर्धन
सुपक्षपात निद्दभ दीनदैत्यनिरीक्षित ॥ १.२४०.१७ ॥
परस्परस्य शापेन सुप्रतीकविभावसू
गजकच्छपतां प्राप्तौ भ्रातरौचैव संयुतौ ॥ १.२४०.१८ ॥
यदुच्छ्रितौ योजनानि जस्तद्द्विगुणायतः
कूर्मस्त्रियोजनोत्सोधा शतयोजनवमडलः ॥ १.२४०.१९ ॥
न खाद्यौ तौ त्वयानीचौ चतुर्भुजौ च पक्षिप?
परस्परकृताच्छापदोषाच्च परिमोचितौ ॥ १.२४०.२० ॥
निषाददेशस्वादेन देवं ब्रूस्मानिदितम्?
विषादीशस्ततो मुक्तस्तत्रापि ब्राह्मणस्त्वया ॥ १.२४०.२१ ॥
वटारोहिणवृक्षस्य योजनानां शतायुता
शाखा भिन्ना त्वया यत्र वालखिल्याः समास्थिताः ॥ १.२४०.२२ ॥
त्वया यत्नकृता कृत्वानखस्थौ गजकच्छपौ
नभस्पपिनिरालंबे सर्वतः परिवारितौ ॥ १.२४०.२३ ॥
त्वया जिता रणे देवाः सर्वे शक्रपुरोगमाः
आहृतं तत्पुरा सोमं वाह्निं निर्वाप्य काश्यपे ॥ १.२४०.२४ ॥
नागौ दृष्टिविषौ कृत्वा रजसा तु विचक्षुषौ
तीक्ष्णाग्रेण न सा भङ्क्त्वाविक्रवेतौ मनोहतः? ॥ १.२४०.२५ ॥
आहृत्यापि त्वया सोमं नीतमेव न भक्तितः
तेन विष्णोर्ध्वजस्थानं वाहनत्वं गतो ह्यसि ॥ १.२४०.२६ ॥
त्वया निः क्षिप्य दर्भेषु सोमं नागाश्च वञ्चिताः
जहार चामृतं पात्रं शीघ्रं वै ब्रह्मसूदन ॥ १.२४०.२७ ॥
यत्र जिह्वाद्विधाभूताः पन्नगानां द्विजोत्तम
विनता मोचिता दास्यात्कद्वा पूर्वजिता रणे ॥ १.२४०.२८ ॥
उच्चैः श्रवाः स किंवर्णः शुक्ल इत्येव भाषते
कृष्णवर्णमहं मन्ये पूर्वदृष्टमुवाच ह ॥ १.२४०.२९ ॥
त्वया वज्रपहारेण पक्षमुक्तं पुरा स्वतः?
दधीचवज्रशक्राणां मातुरर्थाय नान्यथा ॥ १.२४०.३० ॥
तस्य पक्षस्य देवेन्द्रो यदानीतं हि दृष्टवान्
तदा तव सुपर्णोति नाम स्थानं जगत्त्रये ॥ १.२४०.३१ ॥
ध्यानमात्राद्विनश्येत्तु विषं स्थावरजङ्गमम्
पठेद्वा शृणुयाद्यश्च भुक्तिं मुक्तिमवाप्नुयात् ॥ १.२४०.३२ ॥
सूत उवाच [SUTA SAID]
वसुराजो गारुडं वै श्रुत्वा सर्वमवाप्तवान्
गरुडो भगवान्विष्णुध्यांयन्सर्ववाप्तवान् ॥ १.२४०.३३ ॥
तदुक्तं गारुडं पुण्यं पुराणं यः पठेन्नरः
सर्वकाममवाप्याथ प्राप्नोति परमां गतिम् ॥ १.२४०.३४ ॥
श्लोकपादं पठित्वा च सर्वपापक्षयो भवेत्
यस्येदं वर्तते गेह तस्य सर्वं भवेदिह ॥ १.२४०.३५ ॥
गारुडं यस्य हस्ते तु तस्य हस्तगतो नयः
यः पठेच्छृणुयादेतद्भुक्तिं मुक्तिं समाप्नुयात् ॥ १.२४०.३६ ॥
धर्मार्थकाममोक्षांश्च प्राप्नुयाच्छ्रवणादितः
पुत्रार्थो लभते पुत्रान् कामार्थो काममाप्नुयात् ॥ १.२४०.३७ ॥
विद्यार्थो लभते विद्यां जयार्थो लभते जयम्
ब्रह्महत्यादिना पापी पापशुद्धिमवाप्नुयात् ॥ १.२४०.३८ ॥
वन्ध्यापि लभते पुत्त्रं कन्या विन्दति सत्पतिम्
क्षेमार्थो लभते क्षेमं बोगार्थो बोगमाप्नुयात् ॥ १.२४०.३९ ॥
मङ्गलार्थो मङ्गलानि गुणार्थो गुणमाप्नुयात्
काव्यार्थो च कवित्वं च सारार्थो सारमाप्नुयात् ॥ १.२४०.४० ॥
ज्ञानार्थो लभते ज्ञानं सर्वसंसारमर्दनम्
इदं स्वस्त्ययनं धन्यं गारुडं गरुडेरितम् ॥ १.२४०.४१ ॥
नाकाले मरणं तस्य श्लोकमेकं तु यः पठेत्
श्लोकार्धपठनादस्य दुष्टशत्रुक्षयो ध्रुवम् ॥ १.२४०.४२ ॥
सूताच्छ्रुत्वा शौनकस्तुनौमिषे मुनिभिः क्रतौ
अहं ब्रहेति संध्यायन्मुक्तोभूद्गरुडध्वजात् ॥ १.२४०.४३ ॥

ओं

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशे आचारकाण्डे गरुडपुराणमाहात्म्यं नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः

शुभं भूयात्

इति श्रीगारुडे प्रथमांश आचारकाण्डः समाप्तः

Tags: Purana

Post navigation

Previous: Durga Puja Paddhyti as per Kalika Puran
Next: Names of Buddha
Pages: 1 2 3
Communism
Sarvarthapedia

Manifesto of the Communist Party 1848: History, Context, and Core Concepts

Arrest
Sarvarthapedia

Latin Maxims in Criminal Law: Meaning, Usage, and Courtroom Application

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

United States of America: History, Government, Economy, and Global Power

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

IPS Cadre Strength 2025: State-wise Authorised Strength

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)

Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation

Bharatiya Nyaya Sanhita 2023: Sections (1-358), Punishments, and Legal Framework

Bengali Food Culture: History, Traditions, and Class Influences

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Naresh vs Aarti: Cheque Bouncing Complaint Filed by POA (02/01/2025)
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
United Kingdom, UK

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

British Slavery and the Church of England: History, Theology, and the Codrington Estates

USA, America

United States of America: History, Government, Economy, and Global Power

Biblical Basis for Slavery, english slave trade

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates