GARUR PURANAM-गरुड पुराणं
Home » Law Library Updates » Law Library » Sanskrit Documents » GARUR PURANAM-गरुड पुराणं » Page 2
श्रीगरुडमहापुराणम् [GARUR PURANAM]
श्रीगणेशाय नमः
तत्रादिमे द्वितीयांशे प्रेतकाण्डो धर्मकाण्डनामारभ्यते
ओं नमो भगवते वासुदेवाय
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ २.१.म ॥
धर्मन्दृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः
क्रतुकुसुमो मोक्षफलो मधुसूदनपादपो जयति ॥ २.१.१ ॥
नैमिषेऽनिमिषक्षेत्रे शौनकाद्या मुनीश्वराः
कर्मणामन्तरे सूतं स्वासीनमिदमब्रुवन् ॥ २.१.२ ॥
सूत जानासि सकलं वस्तु व्यासप्रसादतः
तेन नः सन्दिहानानां सन्देहं छेत्तुमर्हसि ॥ २.१.३ ॥
यथा तृणजलौकेति न्यायमा श्रित्य कञ्चन
देहिनोऽन्यतनुप्राप्तिं केचित्त्वेवं वदन्ति हि ॥ २.१.४ ॥
केचित्पुनर्यातनानां यामीनामुपभोगतः
पश्चाद्देहान्तरप्राप्तिं वदन्ति किमु तत्रसत् ॥ २.१.५ ॥
सूत उवाच [SUTA SAID]
साधु पृष्टं महाभागाः शृणुध्वं भवतां पुनः
सन्देहो नोपपद्येत लोकार्थं किल पृच्छताम् ॥ २.१.६ ॥
तदहं कृष्णगरुडसंवादद्वारकं द्विजाः
अपाकरिष्ये सन्देहं भवतां भावितात्मनाम् ॥ २.१.७ ॥
नमः कृष्णाय मुनये य एनं समुपाश्रिताः
अञ्जस्तरन्ति संसारसागरं कुनदीमिव ॥ २.१.८ ॥
एकदा वैनतेयस्य लोकानां लोकनस्पृहा
बभूव सोऽथ बभ्राम तेषु नाम हरेर्गृणन् ॥ २.१.९ ॥
स पातालं भुवं स्वर्गं भ्रान्त्वालब्धशमाशयः
लोकदुः खेनातिदुः खी पुनर्वैकुण्ठमागमत् ॥ २.१.१० ॥
न रजो न तमश्चैव सत्त्वं ताभ्यां च मिश्रितम्
यत्र प्रवर्तते नैव सत्त्वमेव प्रवर्तते ॥ २.१.११ ॥
न यत्र माया नाशश्च न चै रागादयो मलाः
श्यामावदाताः सुरुचः शतपत्रविलोचनाः ॥ २.१.१२ ॥
सुरासुरार्चिता यत्र गणा विष्णोः सुपेशसः
पिशङ्गवस्त्राभारणा मणियुङ्निष्कभूषिताः ॥ २.१.१३ ॥
चतुर्भुजाः कुण्डलिनो मौलिनो मालिनस्तथा
भ्राजिष्णुभिर्विमानानां पङ्किभिर्ये महात्मनाम् ॥ २.१.१४ ॥
द्योतन्ते द्योतमानानां प्रमदानां च पङ्क्तिभिः
श्रीर्यत्र नानाविभवैर्हरेः पादौ मुदार्चति ॥ २.१.१५ ॥
हरिं गायति दोलास्थं गीयमानालिभिः स्वयम्
ददर्श श्रीहरिं तत्र श्रीपतिं सात्वतां पतिम् ॥ २.१.१६ ॥
जगत्पतिं यज्ञपतिं पार्षदैः परिषेवितम्
सुनन्दनन्दप्रबलार्हणमुख्यैर्निरन्तरम् ॥ २.१.१७ ॥
भृत्यप्रसादसुमुखमायतारुणलोचनम्
किरीटिनं कुण्डलिनं श्रिया वक्षसि लक्षितम् ॥ २.१.१८ ॥
पीतांशुकं चतुर्बाहुं प्रसन्नहसिताननम्
अभ्यर्हणासनासीनं ताभिः शक्तिभिरावृतम् ॥ २.१.१९ ॥
प्रधानपुरुषाभ्यां च महता चाहमा तथा
एकादशोन्द्रियैश्चैव पञ्चभूतैस्तथैव च ॥ २.१.२० ॥
स्वरूपेरममाणं तमीश्वरं विनतासुतः
तद्दर्शनाह्लादयुतस्वान्तो हृष्यत्तनूरुहः ॥ २.१.२१ ॥
लोचनाभ्यामश्रु मुञ्चन्प्रेममग्नो ननाम ह
नमागतं नतं स्वीय वाहनं विष्णुरब्रवीत्
भूमिः का लङ्घिता पक्षिंस्त्वयेयन्तमनेहसम् ॥ २.१.२२ ॥
गरुड उवाच
तव प्रसादाद्वैकुण्ठ त्रैलोक्यं सचराचरम् ॥ २.१.२३ ॥
मया विलोकितं सर्वं जगत्स्थावरजङ्गमम्
भूर्लोकात्सत्यपर्यन्तं पुरं याम्यं विना प्रभो ॥ २.१.२४ ॥
भूर्लोकः सर्वलोकानां प्रचुरः सर्वजन्तुषु
मानुष्यं सर्वभूतानां भुक्तिमुक्त्यालयं शुभम् ॥ २.१.२५ ॥
अतः सुकृतिनां लोको न भूतो न भविष्यति ॥ २.१.२६ ॥
गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे
स्वर्गापवर्गस्य फलार्जनाय भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २.१.२७ ॥
प्रेतः कौक्षिप्यते कस्मात्पञ्चरत्नं मुखे कथम्
अधस्ताच्चालिता दर्भाः पादौ याम्यां व्यवस्थितौ ॥ २.१.२८ ॥
किमर्थं पुत्रपौत्राश्च तस्य तिष्ठन्ति चाग्रतः
किमर्थं दीयते दानं गोदानमपि केशव ॥ २.१.२९ ॥
बन्धुमित्राण्यमित्राश्च क्षमापयन्ति तत्कथम्
तिलालोहं हिरण्यं च कर्पासं लवणं तथा ॥ २.१.३० ॥
सप्तधान्यं क्षितिर्गावो दीयन्ते केनहेतुना
कथं हि म्रियते जन्तुर्मृतो वै कुत्र गच्छति ॥ २.१.३१ ॥
अतिवाहशरीरं च कथं हि श्रयते तदा
शवं स्कन्धे वहेत्पुत्रो अग्निदाता च पौत्रकः ॥ २.१.३२ ॥
आज्येनाभ्यञ्जनं कस्मात्कुत एकाहुतिक्रिया
वसुन्धरा किमर्थं च कुतः स्त्रीशब्दकीर्तनम् ॥ २.१.३३ ॥
यमसूक्तं किमर्थं च उदीच्या दिशमाहरेत्
पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणम् ॥ २.१.३४ ॥
यवसर्षपदूर्वास्तु पाषाणे निम्बपत्रकम्
वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम् ॥ २.१.३५ ॥
अन्नाद्यं गृहमागत्य न भोक्तव्यं जनैः सह
नवकांश्चैव पिण्डांश्च किमर्थं ददते सुताः ॥ २.१.३६ ॥
किमर्थं चत्वरे दुग्धं यात्रे पक्वे च मृन्मये
काष्ठत्रयं गणाबद्धं कृत्वा रात्रौ चतुष्पथे ॥ २.१.३७ ॥
निशायां दीयते दीपो यावदब्दं दिनेदिन
दाहोदकं किमर्थं च किमर्थं च जनैः सह ॥ २.१.३८ ॥
भगवन्नाति वाहश्च नव पिण्डाः प्रदापयेत्
कथं देयं पितृभ्यश्च वाहस्यावाहनं कथम् ॥ २.१.३९ ॥
इदञ्चेत्क्रियते देव कस्मात्पिण्डं प्रदापयेत्
किं तत्प्रदीयते तस्य पिण्डदानाद्यनन्तरम् ॥ २.१.४० ॥
अस्थिसञ्चयनं चैव घटस्फोटं तथैव च
द्वितीयेऽह्नि कुतः स्नानं चतुर्थे साग्निके द्विजे ॥ २.१.४१ ॥
दशमे किं मलस्नानं कार्यं सर्वजनैः सह
कस्मात्तैलोद्वर्तनं च स्कन्धवाहगृहं नयेत् ॥ २.१.४२ ॥
तैलोद्वर्तनकं चापि दधुः स्थूलजलाशये
दशमेऽहनि यत्पिण्डं तद्दद्या दामिषेण तु ॥ २.१.४३ ॥
पिणाञ्चैकादशे कस्माद्वृषोत्सर्गादिपूर्वकम्
भाजनोपानहौ च्छत्रं वासांसि त्वङ्गुलीयकम् ॥ २.१.४४ ॥
त्रयोदशेऽह्नि देयं स्यात्पददानं किमर्थकम्
श्राद्धानि षोडशैतानि अब्दं यावत्कुतो घटः ॥ २.१.४५ ॥
अन्नाद्येनोदकेनैव षष्ट्याधिकशतत्रयम्
दिनेदिने च दातव्यं घटान्नं प्रेततृप्तये ॥ २.१.४६ ॥
प्राप्ते काले वै म्रियते अनित्या मानवाः प्रभो ॥ २.१.४७ ॥
छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः
कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा
तेजो वदस्व मे नाथ वायुराकाशमेव च ॥ २.१.४८ ॥
कुतः कर्मेन्द्रियाणीह पञ्चबुद्धीन्द्रियाणि च
वायवश्चैव पञ्चैते कथं गच्छन्ति चात्ययम् ॥ २.१.४९ ॥
लोभमोहादयः पञ्च शरीरे चैव तस्कराः
तृष्णा कामो ह्यहङ्कारः कुतो यान्ति जनार्दना ॥ २.१.५० ॥
पुण्यं वाप्यथवापुण्यं यत्किञ्चित्सुकृतं तथा
नष्टे देहे कुतो यान्ति दानानि विविधानि च ॥ २.१.५१ ॥
सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा
प्रेतस्य मेलनं केषां किंविधं तत्र कारयेत् ॥ २.१.५२ ॥
मूर्छनात्पननाद्वापि विपत्तिर्यदि जायते
ये दग्धा ये त्वदग्धाश्च पतिता ये नरा भुवि ॥ २.१.५३ ॥
यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम्
पापिनो ये दुराचारा ये चान्ये गतबुद्धयः ॥ २.१.५४ ॥
आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः
कपिलायाः पिबेच्छूद्रो यः पठेदिदमक्षरम् ॥ २.१.५५ ॥
धारयेद्ब्रह्मसूत्रं वा का गतिस्तस्य माधव
शूद्रस्य ब्राह्मणी भार्या संगृहीता यदा भवेत् ॥ २.१.५६ ॥
भीतोऽहं पापिनस्तस्मात्तन्मे वद जगत्प्रभो
अन्यच्च शृणु विश्वात्मन्मया कौतुकिना रयात् ॥ २.१.५७ ॥
लोकांल्लोकयता लोके जगाहे विश्वमण्डलम्
तत्राजनि जनान्दृष्ट्वा दुः खेष्वेव निमज्जतः ॥ २.१.५८ ॥
स्वान्ते मे दुर्धरा पीडा तत्पीडातो गरीयसी
त्रिदिवे दितिजातेभ्यो भूमौ मृत्युरुगादिभिः ॥ २.१.५९ ॥
इष्टवस्तुवियो गैश्च पाताले मामकं भयम्
एवं न निर्भयं स्थानमन्यदीश भवत्पदात् ॥ २.१.६० ॥
असत्यं स्वप्नमायावत्कालेन कवलीकृतम्
तत्रापि भारते वर्षे बहुदुः खस्य भागिनः ॥ २.१.६१ ॥
जना दृष्टा मया रागद्वेषमोहादिविप्लुताः
केचिदन्धाः केकराक्षास्खलद्वाचस्तु पङ्गवः ॥ २.१.६२ ॥
खञ्जाः काणाश्च बधिरा मूकाः कुष्ठाश्च लोमशाः
नानारोगपरीताश्च खपुष्पाच्चाभिमानिनः ॥ २.१.६३ ॥
तेषां दोषस्य वैचित्र्यं मृत्योर्गोचरतामपि
दृष्ट्वा प्रसुमनाः प्राप्तः को मृत्युश्चित्रता कथम् ॥ २.१.६४ ॥
मृतिर्यस्य विधानेन मरणादप्यनन्तरम्
विधिनाब्दक्रिया यस्य न स दुर्गतिमाप्नुयात् ॥ २.१.६५ ॥
ऋषिभ्यस्तु मया पूर्वमिति सामान्यतः श्रुतम्
ज्ञानाय तद्द्विशेषस्य पृच्छामीदमिति प्रभो ॥ २.१.६६ ॥
म्रियमाणस्य किं कृत्यं किं दानं वासवानुज
वाहमृत्योरन्तराले को विधिर्दहनस्य च ॥ २.१.६७ ॥
सद्यो विलम्बतो वा किं देहमन्यं प्रपद्यते
संयमन्यां क्रम्यमाणमावर्षं का मृतिक्रिया ॥ २.१.६८ ॥
प्रायश्चित्तं दुर्मतेः किं पञ्चकादिमृतस्य च
प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः ॥ २.१.६९ ॥
सर्वमन्तेमया पृष्टं ब्रूहि लोकहिताय वै ॥ २.१.७० ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे (प्रेतखण्डे) श्रीकृष्णगरुडसंवादे प्रश्रप्रपञ्चो नाम प्रथमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २
श्रीकृष्ण उवाच
साधु पृष्टं त्वया भद्र मानुषाणां हिताय वै
शृणुष्वावहितो भूत्वा सर्वमेवौर्ध्वदैहिकम् ॥ २.२.१ ॥
सम्यग्विभेदरहितं श्रुतिस्मृतिसमुद्धृतम्
यन्न दृष्टं सुरैः सेन्द्रैर्योगिभिर्योगचिन्तकैः ॥ २.२.२ ॥
गुह्यद्गुह्यतरं तच्च नाख्यातं कस्यचित्क्वचित्
भक्तस्त्वं हि महाभाग वैनतेयं ब्रवीमि ते ॥ २.२.३ ॥
अपुत्रस्य गतिर्नास्तु स्वर्गो नैव च नैव च
येन केनाप्युपायेन कार्यं जन्म सुतस्य हि ॥ २.२.४ ॥
तारयेन्नरकात्पुत्त्रो यदि मोक्षो न विद्यते
स्कन्धः पुत्रेण कर्तव्यो ह्यग्निदाता च पौत्रकः ॥ २.२.५ ॥
तिलदर्भैश्च भूम्यां वै कुटी ऋतुमती भवेत्
पञ्च रत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥ २.२.६ ॥
यदा पुष्पं प्रनष्टं हि क्व तदा गर्भधारणम्
आदराच्च ततो भूमौ येन गर्भं प्रधार्यते ॥ २.२.७ ॥
लेप्या तु गोमयैर्भूमिस्तिलान्दर्भान्विनिः क्षिपेत्
तस्यामेवातुरो मुक्तः सर्वं दहति किल्बिषम् ॥ २.२.८ ॥
दर्भतूली नयेत्स्वर्गमातुरस्य न संशयः
दर्भांस्तत्र क्षिपेद्वाथ तूलीगेन्दुकमध्यतः ॥ २.२.९ ॥
सर्वत्र वसुधापूता यत्र लेपो न विद्यते
यत्र लेपः स्थितस्तत्र पुनर्लेपेन शुध्यति ॥ २.२.१० ॥
यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः
अलेपं ह्यातुरं मुक्तं विशन्त्येते वियोनयः ॥ २.२.११ ॥
नित्यहोमस्तथा श्राद्धं पादशौचं द्विजे तथा
मण्डलेन विना भूम्यामातुरो मुच्यते न हि ॥ २.२.१२ ॥
ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशस्तथैव च
मण्डले चोपतिष्ठन्ति तस्मात्कुर्वीत मण्डलम् ॥ २.२.१३ ॥
अन्यथा म्रियते वालो वृद्धस्तार्क्ष्ययुवाथवा
योन्यन्तरं न गच्छेत्स क्रीडते वायुना सह ॥ २.२.१४ ॥
मिश्रितं लोहितामिश्रं तदेवं जन्म जीयते
तस्यैव वायुभूतस्य न श्राद्धं नोदकक्रिया ॥ २.२.१५ ॥
मम स्वेदसमुद्भूतास्तिलास्तार्क्ष्य पवित्रकाः
असुरा दानवा दैत्या विद्रवन्ति तिलैस्तथा ॥ २.२.१६ ॥
तिलाः श्वेतास्तिला कृष्णास्तिला गोमूत्रसंन्निभाः
दहन्तु ते मे पापानि शरीरेण कृतानि वै ॥ २.२.१७ ॥
एक एव तिलो दत्तो हेमद्रोणतिलैः समः
तर्पणे दानहोमेषु दत्तो भवति चाक्षयः ॥ २.२.१८ ॥
दर्भा रोमसमुद्भूतास्तिलाः स्वेदेषु नान्यथा
देवता दानवास्तृप्ताः श्राद्धेन पितरस्तथा ॥ २.२.१९ ॥
प्रयोगविधिना ब्रह्मा विश्वं चाप्युपजीवनाम्
अपसव्यादितो ब्रह्मा पितरो देवदेवताः ॥ २.२.२० ॥
तेन ते पितरस्तृप्ता अपसव्ये कृते सति
दर्भमूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः ॥ २.२.२१ ॥
दर्भाग्रे शङ्करं विद्यात्त्रयो देवाः कुशे स्मृताः
विप्रा मन्त्राः कशा वह्निस्तुलसी च खगेश्वर ॥ २.२.२२ ॥
नैते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः
तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग ॥ २.२.२३ ॥
पञ्च प्रवहणान्ये भवाब्धौ मज्जतां नृणाम्
विष्णुरेकादशी गीता तुलसी विप्रधेनवः ॥ २.२.२४ ॥
असारे दुर्गसंसारे षट्पदी मुक्तिदायिनी
तिलाः पवित्रमतुलं दर्भाश्चापि तुलस्यथ ॥ २.२.२५ ॥
निवारयन्ति चैतानि दुर्गतिं यान्तमातुरम्
हस्ताभ्यामुद्धरेद्दर्भांस्तोयेन प्रोक्षयेद्भुवि ॥ २.२.२६ ॥
मृत्युकाले क्षिपेद्दर्भान्करयोरातुरस्य च
दर्भैस्तु क्षिप्यते योऽसौ दर्भैस्तु परिवेष्टितः ॥ २.२.२७ ॥
विष्णुलोके स वै याति मन्त्रहीनोऽपि मानवः
तूलीं कृत्वा कृतौ पादौ संस्थितौ क्षितिपृष्ठतः ॥ २.२.२८ ॥
प्रायाश्चित्तं विशुद्धाग्नौ संसारेऽसारसागरे
गोमयेनोपलिम्पेत्तु दर्भास्तरणसंस्थिते ॥ २.२.२९ ॥
यने दत्तेन दानेन सर्वं पापं व्यपोहति
लवणं तद्रसं दिव्यं सर्वकामप्रदं नृणाम् ॥ २.२.३० ॥
यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना
पितॄणां च प्रियं भव्यं तस्मात्स्वर्गप्रदं भवेत् ॥ २.२.३१ ॥
विष्णुदेहसमुद्भूतो यतोऽयं लवणो रसः
एतत्सलवणं दानं तेन शंसन्ति योगिनः ॥ २.२.३२ ॥
ब्राह्मणक्षत्त्रियविशां स्त्रीणां शूद्रजनस्य च
आतुरस्य यदा प्राणा न यान्ति वसुधातले ॥ २.२.३३ ॥
लवणं तु तदा देयं द्वारस्योद्वाटनं दिवः
अन्यच्च शृणु पक्षीन्द्र मृत्यो रूपं प्रपञ्चतः ॥ २.२.३४ ॥
यस्य कालेन नो यायाद्वियोगः प्राणदेहयोः
प्राणिनश्च स्वसमये मृत्युरत्यन्तविस्मृतिः ॥ २.२.३५ ॥
यथा वायुर्जलधरान्विकर्षति यतस्ततः
तद्वज्जलदवत्तार्क्ष्य कालस्यैव वशानुगाः ॥ २.२.३६ ॥
सात्त्विका राजसाश्चैव तामसा ये च केचन
भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥ २.२.३७ ॥
आदित्यश्चन्द्रमाः शम्भुरापो वायुः शतक्रतुः
अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥ २.२.३८ ॥
सरितः सागराश्चैव भावाभावौ च सर्पहन्
सर्वे कालेन सृज्यन्ते संक्षिप्यन्ते यथा पुनः ॥ २.२.३९ ॥
कालेन संह्रियन्ते च नृनं मृत्यावुपस्थिते
दैवयोगात्त्दा व्याधिः कश्चिदुत्पद्यते खग ॥ २.२.४० ॥
वैकल्यमिन्द्रियाणां च बलौ जोरंहसां भवेत्
युगपद्वश्चिककोटिशूकदंशो भवेद्यदि ॥ २.२.४१ ॥
तदानुमीयते तेन पीडा मृत्युभवा खग
ततः क्षणेन चैतन्ये विकले जडतां गते ॥ २.२.४२ ॥
प्रिचाल्यन्ते ततः प्राणा याम्यैर्निकटवर्तिभिः
बीभत्सं तु तदा रूपं प्राणैः कण्ठगतैर्भवेत् ॥ २.२.४३ ॥
फेमुद्गिरते सोऽथ मुखं लालाकुलं भवेत्
अङ्गुष्ठमात्रपुरुषो हाहा कुर्वंस्ततस्तनोः ॥ २.२.४४ ॥
तदैव नीयते द्वतैर्याम्यैर्वोक्षन्स्वकं गृहम्
भूय एव हिते तात मृत्युकालदशामिमाम् ॥ २.२.४५ ॥
अष्मा प्रकुपितः काये तीव्रवायुसमीरितः
भिनत्ति मर्मस्थानानि दीप्यमानो निरिन्धनः ॥ २.२.४६ ॥
उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते
भक्तानामबुभुक्षाणामधोगतिनिरोधकृत् ॥ २.२.४७ ॥
यैर्नानृतानि चोक्तानि प्रीतिभेदः कृतो न च
आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति ॥ २.२.४८ ॥
यो न कामान्न संरंभान्न द्वेषाद्धर्ममुत्सृजेत्
यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥ २.२.४९ ॥
मोहज्ञानप्रदातारः प्राप्नुवन्ति महत्तमः
कूटसाक्षी मृषावादी ये च विश्वासघातकाः ॥ २.२.५० ॥
ते मोहं मृत्युमृच्छन्ति तथा ये वेदनिन्दकाः
विभीषकाः पूतिगन्धा यष्टिमुद्गरपाणयः ॥ २.२.५१ ॥
आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तदा
प्राप्ते त्वीदृक्पथे घोरे जायते तस्य वेपथुः ॥ २.२.५२ ॥
क्रन्दत्यविरतं सोऽपि पितृमातृसुतानपि
सास्य वागस्फुटा यत्नेनैकवर्णा विभासते ॥ २.२.५३ ॥
दृष्टिर्वै भ्राम्यते त्रासाच्छ्वासाच्छुष्यति चाननम्
स ततो वेदनाविष्टस्तच्छरीरं विमुञ्चति ॥ २.२.५४ ॥
अस्पृश्यं कुत्सनीयं च तत्क्षणादेव जायते
उक्तं मृत्योः स्वरूपं तु प्रसङ्गादन्यदप्यथ ॥ २.२.५५ ॥
वैचित्र्यस्योत्तरं प्रश्रे द्वितीयस्य वदामि ते
कर्मणां प्राक्तनानां तु तदसत्त्वेनं भदेतः ॥ २.२.५६ ॥
भवेद्भोगस्य वैचित्र्यं भ्राम्यतां प्राणिनामिह
देवत्वमसुरत्वं च यक्षत्वादिसुखप्रदम् ॥ २.२.५७ ॥
मानुषत्वं पशुत्वं च पक्षित्वाद्यतिदुः खदम्
कर्मणां तारतम्येन भवतीह खगेश्वर ॥ २.२.५८ ॥
अत्र ते कीर्तयिष्यामि विपाकं कर्मणामहम्
वैचित्र्यस्य स्पुटत्वाययैर्जोवः संसरत्ययम् ॥ २.२.५९ ॥
महापातकजान्घोरान्नरकान्प्राप्य दारुणान्
कर्मक्षयात्प्रजायन्ते महापातकिनः क्षितौ ॥ २.२.६० ॥
जायन्ते लक्षणैर्यैस्तुतानि मे शृणु सत्तम
मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ॥ २.२.६१ ॥
कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात्
तृणगुल्मतात्वं च क्रमशो गुरुतल्पगः ॥ २.२.६२ ॥
ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ २.२.६३ ॥
यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते
संवत्सरेण पतति पतितेन सहाचरन् ॥ २.२.६४ ॥
संलापस्पर्शनिः श्वाससहयानाशनासनात्
याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥ २.२.६५ ॥
गत्वा दारान्परेषाञ्च ब्रह्मस्वमपहृत्य च
अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ॥ २.२.६६ ॥
हीनजातौ प्रजायेत रत्नानामपहारकः
पत्रं च शाखिनो हृत्वा गन्धांश्छुच्छुन्दरी पुमान् ॥ २.२.६७ ॥
मूषको धान्यहारी स्याद्यानमुष्ट्रः फलं कपिः
निर्मन्त्रभोजनात्काको गृध्रो हृत्वा ह्युपस्करम् ॥ २.२.६८ ॥
मधुदंशः फलं गृध्रो गां गोधाग्निं बकस्तथा
स्याच्छ्वेतकुष्ठी स्त्रीवस्त्र ह्यरुची रसहारकः ॥ २.२.६९ ॥
कांस्यहारी तु हंसः स्यात्परस्वस्य च हारकः
अपस्मारी गुरोर्हन्ता क्रूरकृद्वामनो भवेत् ॥ २.२.७० ॥
धर्मपत्नीं त्यजञ्छब्दवेधी प्राणी भवेत्क्षितौ
देवविप्रस्वापहारी पाण्डुरः परमांसभुक् ॥ २.२.७१ ॥
भक्ष्याभक्ष्यो गण्डमाली महारोगी प्रजायते
न्यासापहारी काणः स्यास्त्रीजीवः खञ्जको भवेत् ॥ २.२.७२ ॥
कौमारदारत्यागी च दुर्भगोऽथै कमिष्टभुक्
वातगुल्मी विप्रयोषिद्गामी वा जम्बुको भवेत् ॥ २.२.७३ ॥
शय्याहर्ता क्षपणकः पतङ्गो वस्त्रहारकः
मात्सर्यादपि जात्यन्धो कपाली दीपहारकः ॥ २.२.७४ ॥
कौशिको मित्रहन्ता च क्षयी पित्रादिनिन्दकः
स्खलद्वागनृतवादी कूटसाक्षी जलोदरी ॥ २.२.७५ ॥
मशकः सोऽथ चछिन्नोष्ठो विवाहे विघ्नकृद्भवेत्
स्याद्वाथ वृषलः सोऽयं चत्वरे वै विण्मूत्रकृत् ॥ २.२.७६ ॥
मूत्रकृच्छ्री दूषकस्तु कन्यायाः क्लीबतामियात्
द्वीपी स्याद्वेदविक्रेता वराहोऽयाज्ययाजकः ॥ २.२.७७ ॥
यतस्ततोऽश्रन्मार्जारो खद्योतो वहदाहकः
कृमिः पर्युषितादः स्यान्मत्सरी भ्रमरो भवेत् ॥ २.२.७८ ॥
अग्न्युत्सादी तु कुष्ठी स्याददत्ताऽदानतो वृषः
सर्पो गोहारकोऽन्नस्य हारकः स्यादजीर्णवान् ॥ २.२.७९ ॥
जलहारी तु मत्स्यः स्यात्क्षीरहारी बलाकिका
अन्नं पर्युषितं विप्रे प्रददत्कुब्जतां व्रजेत् ॥ २.२.८० ॥
फलानि हरते यस्तु सन्ततिर्म्रियते खग
अदत्त्वा भक्ष्यमश्राति ह्यनपत्यो भवेन्नरः ॥ २.२.८१ ॥
प्रवज्यागमनाद्राजन् भवेन्मरुपिशाचकः
चातको जलहर्ता स्याज्जन्मान्धः पुंस्तकं हरन् ॥ २.२.८२ ॥
प्रतिश्रुत्य द्विजेभ्योर्ऽथमददज्जम्बुको भवेत्
परिवादादिजातीनां लभते काच्छपीं तनुम् ॥ २.२.८३ ॥
दुर्भगः फलविक्रेता वृकश्च वृषलीपतिः
मार्जारोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् ॥ २.२.८४ ॥
जलप्रस्त्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः
हरेः कथां न शृण्वन्ति ये न साधुजनस्तवम् ॥ २.२.८५ ॥
तान्नरान्कर्णमूलोऽयं व्याप्नुयान्नेतराञ्जनान्
परस्याननसंस्थं यो ग्रासं हरि मन्दधीः ॥ २.२.८६ ॥
देवोपकरणान्येनं गण्डमालिनमीहते
दम्भेनाचरते धर्मं गजचर्मा भवेत्तु सः ॥ २.२.८७ ॥
शिरोऽर्तिप्रमुखा रोगा यान्ति विश्वासघातकम्
लिङ्गपीडी शिवस्वं च शिवनिर्माल्यमेव च ॥ २.२.८८ ॥
स्त्रियोऽप्यनेन मार्गेण हृत्वा दोषमवाप्नुयुः
एतेषामेव जन्तूनां भार्यात्वमुपजायते ॥ २.२.८९ ॥
भोगान्ते नरकस्यैतत्सर्वमित्यवधारय
खघ प्रदर्श्यमेतत्तु मयोक्तं ते समासतः
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ २.२.९० ॥
एवं विचित्रैर्निजकर्मभिर्नृणां सुखस्य दुः खस्य च जन्मनामपि
वैचित्र्यमुक्तं शुभकर्मतः शुभं तथाशुभाच्चाशुभमीरयन्ति ॥ २.२.९१ ॥
एतत्ते सर्वंमाख्यातं यत्पृष्टोऽहमिह त्वया ॥ २.२.९२ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रतका(ख)ण्डे श्रीकृष्णगरुडसंवादे और्ध्वदेहिकविधिकर्मविपाकयोर्वर्णनं नाम द्वितीयोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३
सूत उवाच [SUTA SAID]
एवमुत्साहितः पक्षी स्वरूपं निरयस्य तु
पप्रच्छनरकाण्येवं श्रुत्वा चोत्कूलितान्तरः ॥ २.३.१ ॥
गरुड उवाच
नरकाणां स्वरूपं मे वद येषु विकर्मिणः
पात्यन्ते दुः खभूयिष्ठास्तेषां भेदांश्च कीर्तय ॥ २.३.२ ॥
श्रीभगवानुवाच
नरकाणां सहस्राणि वर्तन्ते ह्यरुणानुज
शक्यं विस्तरतो नैव वक्तुं प्राधान्यतो ब्रुवे ॥ २.३.३ ॥
रौरवं नाम नरकं मुख्यं तद्वैनिबोध मे
रौरवे कूटसाक्षी तु याति यश्चानृती नरः ॥ २.३.४ ॥
योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः
जानुमात्रप्रमाणं तु तत्र गर्तं सुदुस्तरम् ॥ २.३.५ ॥
तत्राङ्गारचयौघेन कृतं तद्धरणीसमम्
तत्राग्निना सुतीव्रेण तापिताङ्गारभूमिना ॥ २.३.६ ॥
तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुगाः
स दह्यमानस्तीव्रेण वह्निना परिधावति ॥ २.३.७ ॥
पदेपदे च पादोऽस्य स्फुट्यते शीर्यते पुनः
अहोरात्रेणोद्धरणं पादन्यासेन गच्छति ॥ २.३.८ ॥
एवं सहस्रं विस्तीर्णं योजनानां विमुच्यते
ततोऽन्यत्पापशुद्ध्यर्थं तादृङ्निरयमृच्छति ॥ २.३.९ ॥
रौरवस्ते समाख्यातः प्रथमो नरको मया
महारौरवसंज्ञं तु शृणुष्व नरकं खग ॥ २.३.१० ॥
योजनानां सहस्राणि सन्ति पञ्च समन्ततः
तत्र ताम्रमयी भूमिरधस्तस्या हुताशनः ॥ २.३.११ ॥
तया तपन्त्या सा सर्वा प्रोद्यद्विद्युत्समप्रभा
विभाव्यते महारौद्रा पापिनां दर्शनादिषु ॥ २.३.१२ ॥
तस्यां बद्धकराभ्यां च पद्भ्यां चैव यमानुगैः
मुच्यते पापकृन्मध्ये लुण्ठमानः स गच्छति ॥ २.३.१३ ॥
काकैर्बकैर्वृकोलूकैर्मशकैर्वृश्चिकैस्तथा
भक्ष्यमाणैस्तथा रौद्रैर्गतो मार्गे विकृष्यते ॥ २.३.१४ ॥
दह्यमानो गतमतिर्भ्रान्तस्तातेति चाकुलः
वदत्यसकृदुद्वग्नो न शान्तिमधिगच्छति ॥ २.३.१५ ॥
एवं तस्मान्नरैर्मोक्षस्त्वतिक्रान्तैरवाप्यते
वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः ॥ २.३.१६ ॥
तथान्यस्तु ततो नाम सोऽतिशीतः स्वभावतः
महारौरववद्दीर्घस्तथान्धतमसा वृतः ॥ २.३.१७ ॥
शीतार्तास्तत्र बध्यन्ते नरास्तमसि दारुणे
परस्परं समासाद्य परिरभ्याश्रयन्ति ते ॥ २.३.१८ ॥
दन्तास्तेषां च भज्यन्ते शीतार्तिपरिकम्पिताः
क्षुतृषातिबलाः पक्षिन्नथ तत्राप्युपदवाः ॥ २.३.१९ ॥
हिमखण्डवहो वायुभिनत्त्यस्थीनि दारुणः
मज्जासृगस्थिगलितमश्रन्त्यत्र क्षुधान्विताः ॥ २.३.२० ॥
आलिङ्ग्यमाना भ्राम्यन्ते परस्परसमागमे
एवं तत्रापि सुमहान्क्लेशस्तमसि मानवैः ॥ २.३.२१ ॥
प्राप्यते शकुनिश्रेष्ठ यो बहूकृतसञ्चयः
निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः ॥ २.३.२२ ॥
कुलालचक्राणि तत्र भ्राम्यन्त्यविरतं खग
तेष्वापाष्ये निकृष्यन्ते कालसूत्रेण मानवाः ॥ २.३.२३ ॥
यमानुमाङ्गुलिस्थेन आपादतलमस्तकम्
न चैषां जीवितभ्रंशो जायते पक्षिसत्तम ॥ २.३.२४ ॥
छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति हि
एवं वर्षसहस्राणि भ्राम्यन्ते पापकर्मिणः ॥ २.३.२५ ॥
तावद्यावदशेषं च तत्पापं संक्षयं गतम्
अप्रातष्ठं च नरकं शृणुष्व गदतो मम ॥ २.३.२६ ॥
तत्रस्थैर्नारकैर्दुः खमसह्यमनुभूयते
तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥ २.३.२७ ॥
दुः खस्य हेतुभूतानि पापकर्मकृतां नृणाम्
चक्रेष्वारोपिताः केचिद्भाम्यन्ते तत्र मानवाः ॥ २.३.२८ ॥
यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा
घटीयन्त्रेषु बद्वा ये बद्धा तोयवटी यथा ॥ २.३.२९ ॥
भ्राम्यन्ते मानवा रक्तमुद्गिरन्तः पुनः पुनः
अन्त्रैर्मुखविनिष्क्रान्तैर्नेत्रैरन्त्रावलम्बिभैः ॥ २.३.३० ॥
दुः खानि प्राप्नुवन्तीह यान्यसह्यानि जन्तुभिः
असिपत्रवनं नाम नरकं शृणु चापरम् ॥ २.३.३१ ॥
योजनानां सहस्रं यो ज्वलत्यग्न्याशृतावनिः
सप्ततीव्रकराश्चैण्डर्यत्र तीव्र सुदारुणे ॥ २.३.३२ ॥
प्रतपन्ति सदा तत्र प्राणिनो नरकौकसः
तन्मध्ये चरणं शीतस्निग्धपत्रं विभाष्यते ॥ २.३.३३ ॥
पत्राणि यत्र खण्डानि फलानां पक्षिसत्तम
श्वानश्च तत्र सुबलाश्चरन्त्यामिषभोजनाः ॥ २.३.३४ ॥
महावक्त्रा महादंष्ट्रा व्याघ्रा इव महाबलाः
ततश्च वनमालोक्य शिशिरच्छायमग्रतः ॥ २.३.३५ ॥
प्रयान्ति प्राणिनस्तत्र क्षुत्तापपरिपीडिताः
मातर्भ्रातस्तात इति क्रन्दमानाः सुदुः खिताः ॥ २.३.३६ ॥
दह्यमानाङ्घ्रियुगला धरणिस्थेन वह्निना
तेषां गतानां तत्रापि अति शीतिः समीरणः ॥ २.३.३७ ॥
प्रवाति तेन पात्यन्ते तेषां खड्गास्तथोपरि
छिन्नाः पतन्ति ते भूमौ ज्वलत्पावकसंचये ॥ २.३.३८ ॥
लेलिह्यमाने चान्यत्र तप्ताशेषमहीतले
सारमेयाश्च ते शीघ्रं शातयन्ति शरीरतः ॥ २.३.३९ ॥
तेषां खण्डान्यनेकानि रुदतामतिभीषणे
असिपत्रवनं तात मयैतत्परिकीर्तितम् ॥ २.३.४० ॥
अतः परं भीमतरं तप्तकुंभं निबोध मे
समन्ततस्तप्तकुम्भा वह्निज्वालासमन्विताः ॥ २.३.४१ ॥
ज्वलदग्निचयास्तप्ततैलायश्चूर्णपूरिताः
एषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥ २.३.४२ ॥
क्वाथ्यन्ते विस्फुटद्गात्रा गलन्मज्जाजलान्विताः
स्फुटत्कपालेनत्रास्थिच्छिद्यमाना विभीषणैः ॥ २.३.४३ ॥
गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः
पुनश्चिमचिमायन्ते तैलनैक्यं व्रजन्ति च ॥ २.३.४४ ॥
द्रवीभूतैः शिरोगात्रैः स्नायुमांसत्वगास्थिभिः
ततो याम्यैर्नरैराशु दर्व्याघट्टनघट्टिताः ॥ २.३.४५ ॥
कृतावर्ते महातैले क्वाथ्यन्ते पापकर्मिणः
एष ते विस्तरेणोक्तस्तप्तकुम्भो मया खग ॥ २.३.४६ ॥
आदिमो रौरवः प्रोक्तो महारौरवकोऽपरः
अतिशीतस्तृतीयस्तु चतुर्थो हि निकृन्तनः ॥ २.३.४७ ॥
अप्रतिष्ठः पञ्चमः स्यादसिपत्रवनोऽपरः
सप्तमस्तप्तकुम्भस्तु सप्तैते नरका मताः ॥ २.३.४८ ॥
श्रूयन्तेन्यान्यपि तथा नरकाणि नराधमाः
कर्मणां तारतम्येन तेषुतेषु पतन्ति हि ॥ २.३.४९ ॥
तथा हि नरको रोधः शूकरस्ताल एव च
तप्तकुम्भो महाज्वालः शबलोऽथ विमोहनः ॥ २.३.५० ॥
क्रिमिश्च क्रिमभक्षश्च लालाभक्षो विषञ्जनः
अधः शिराः पूयवहो रुधिरान्धश्च विड्रभुजः ॥ २.३.५१ ॥
तथा वैतरणी सू (मू) मसिपत्रवनं तथा
अग्निज्वालो महाघोरः सन्दंशो वाप्यभोजनः ॥ २.३.५२ ॥
तमश्च कालसूत्रं च लोहश्चाप्यभिदस्तथा
अप्रतिष्ठोऽप्यवीचिश्च नरका एवमादयः ॥ २.३.५३ ॥
तामसा नरकाः सर्वे यमस्य विषये स्थिताः
येषु दुष्कृतकर्माणः पतन्ति हि पृथक्पृथक् ॥ २.३.५४ ॥
भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्तिताः
रोघो गोघ्नो भ्रूणहा च अग्निदाता नरः पतेत् ॥ २.३.५५ ॥
सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः
ताले पतेत्क्षत्त्रहन्ता हत्वा वैश्यं च दुर्गतिः ॥ २.३.५६ ॥
ब्रह्महत्यां च यः कुर्याद्यश्च स्याद्गुरुतल्पगः
स्वसृगामी तप्तकुम्भी तथा राजभटोऽनृती ॥ २.३.५७ ॥
तप्तलोहैश्च विक्रेता तथा बन्धनरक्षिता
माध्वी विक्रयकर्तां च यस्तु भक्तं परित्यजेत् ॥ २.३.५८ ॥
महाज्वाली दुहितरं स्नुषां गच्छति यस्तु वै
वेदो विक्रीयते यैश्च वेदं दूषयते तु यः ॥ २.३.५९ ॥
गुरुं चैवावमन्यन्ते वाक्शरैस्ताडयन्ति च
अगम्यागामी च नरो नरकं शबलं व्रजेत् ॥ २.३.६० ॥
विमोहे पतते शूरे मर्यादां यो भिनत्ति वै
दुरिष्टं कुरुते यस्तु कृमिभक्षं प्रपद्यते ॥ २.३.६१ ॥
देवब्राह्मणविद्वेष्टा लालाभक्षे पतत्यपि
कुण्डकर्ता कुलालश्च न्यासहर्ता चिकित्सकः ॥ २.३.६२ ॥
आरामेष्वग्निदाता च एते यान्ति विषञ्जने
असत्प्रतिग्रही यस्तु तथैवायाज्ययाजकः ॥ २.३.६३ ॥
न क्षत्त्रैर्जोवते यस्तु नरो गच्छेदधोमुखम्
क्षीरं सुरां च मासं लाक्षां गन्धं रसं तिलान् ॥ २.३.६४ ॥
एवमादीनि विक्रीणन् घोरे पूयवहे पतेत्
यः कुक्कुटान्निबध्नाति मार्जारान् सूकरांश्च तान्
पक्षिणश्च मृगांश्छा गान्सोऽप्येवं नरकं व्रजेत् ॥ २.३.६५ ॥
आजाविको माहिषिकस्तथा चक्री ध्वजी च यः
रङ्गोपजीविको विप्रः शाकुनिर्ग्रामयाजकः ॥ २.३.६६ ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी
सुरापो मांसभक्षी च तथा च पशुघातकः ॥ २.३.६७ ॥
रुधिरान्धे पतन्त्येते पतन्त्येते एवमाहुर्मनीषिणः
उपविष्टन्त्वेकपङ्क्त्यां विषं सम्भोजयन्ति ये ॥ २.३.६८ ॥
पतन्ति निरये घोरे विड्भुजे नात्र संशयः
मधुग्राहो वैतरणीमाक्रोशी मूत्रसंज्ञके ॥ २.३.६९ ॥
असिपत्रवनेऽसौची क्रोधनश्च एतेदपि
अग्निज्वालां मृगव्याधो भोज्यते यत्र वायसैः ॥ २.३.७० ॥
इज्यायां व्रतलोपाच्च सन्दंशे नरके पतेत्
स्कन्दन्ते यदि वा स्वप्ने यतिनो ब्रह्मचारिणः ॥ २.३.७१ ॥
पुत्रैरध्यापिता ये च पुत्रैराज्ञापिताश्च ये
ते सर्वे नरकं यान्ति निरयं चाप्यभोजनम् ॥ २.३.७२ ॥
वर्णाश्रमविरुद्धानि क्रोधहर्षसमन्विताः
कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः ॥ २.३.७३ ॥
उपरिष्टात्स्थितो घोर उष्णात्मा रौरवो महान्
सुदारुणः सुशीतात्मा तस्या धस्तामसः स्मृतः ॥ २.३.७४ ॥
एवमादिक्रमेणैव सर्वेऽधोऽधः परिस्थिताः
दुः खोत्कर्षश्च सर्वेषु कर्मस्वपि निमित्ततः ॥ २.३.७५ ॥
सुखोत्कर्षश्च सर्वत्र धर्मस्येहनिमिततः
पश्यन्तिनरकान्देवा ह्यधोवक्त्रान्सुदारुणान् ॥ २.३.७६ ॥
नारकाश्चापि ते देवान्सर्वान्पश्यन्ति ऊर्ध्वगान्
एतान्यान्यानि शतशो नरकाणि वियद्गते ॥ २.३.७७ ॥
दिनेदिने तु नरके पच्यते दह्यतेन्यतः
शीर्यते भिद्यतेऽन्यत्र चूर्यते क्लिद्यतेन्यतः ॥ २.३.७८ ॥
क्वथ्यते दीप्यतेऽन्यत्र तथा वातहतोऽन्यतः
एकं दिनं वर्षशतप्रमाणं नरके भवेत् ॥ २.३.७९ ॥
ततः सर्वेषु निस्तीर्णः पापी तिर्यक्त्वमश्नते
कृमिकीटपतङ्गेषु स्थावरैकशफेषु च ॥ २.३.८० ॥
गत्वा वनगजाढ्येषु गोष्वषु तथैव च
खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ॥ २.३.८१ ॥
एते चैकशफाः षट्च शृणु पञ्चनखानतः
अन्यासु बहुपापासु दुः खदासु च यो निषु ॥ २.३.८२ ॥
मानुष्यं प्राप्यते कुब्जो कुत्सितो वामनोऽपि वा
चण्डालपुक्कसाद्यासु नरयोनिषु जायते ॥ २.३.८३ ॥
मुहुर्गर्भे वसन्त्येव म्रियन्ते च मुहुर्मुहुः
अवशिष्टेन पापेन पुण्येन च समन्वितः ॥ २.३.८४ ॥
ततश्चारोहिणीं योनिं शूद्रवैश्यनृपादिकम्
विप्रदेवेन्द्रतां चापि कदाचिदधिरोहति ॥ २.३.८५ ॥
एवं तु पापकर्माणो निरयेषु पतन्त्यधः
यथा पुण्यकृतो यान्ति तन्मे निगदतः शृणु ॥ २.३.८६ ॥
ते यमेन विनिर्दिष्टां योनिं पुण्यगतिं नराः
प्रगीतगन्धर्वगणा नृत्योत्सवसमाकुलाः ॥ २.३.८७ ॥
हारनूपुरमाधुर्यैः शोभितान्यमलानि तु
प्रयान्त्याशु विमानानि दिव्यगन्धस्रगुज्ज्वलाः ॥ २.३.८८ ॥
तस्माच्च प्रच्युता राज्ञामन्येषां च महात्मनाम्
जायन्ते नीरुजां गेहे स द्वृत्तिपीरपालकाः ॥ २.३.८९ ॥
भोगान्सम्प्राप्नुवन्त्युग्रांस्ततो यान्त्यूर्ध्वमन्यथा
अवरोहिणीं सम्प्राप्य पूर्ववद्यन्ति मानवाः ॥ २.३.९० ॥
जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम्
पापिष्ठानामदोमार्गाज्जीवो निष्क्रमते ध्रुवम् ॥ २.३.९१ ॥
पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च
तेजस्तेजसि लीयते समीरे च समीरणः ॥ २.३.९२ ॥
आकाशे च तथाकाशं सर्वव्यापि निशाकरे
तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च ॥ २.३.९३ ॥
एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः
कामः क्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः ॥ २.३.९४ ॥
संहारश्चैव कालोऽसौ पुण्यपापेन संयुतः
पञ्चेन्द्रियसमायुक्तः सकलैर्विबुधैः सह ॥ २.३.९५ ॥
प्रविशेत्स नवे देहे पृहे दरधे गुही यथा
शरीरे ये समासीनाः सर्वे वै सप्त धातवः ॥ २.३.९६ ॥
षाट्कौशिको ह्ययं कायः सर्वे वाताश्च देहिनाम्
मूत्रं पुरीषं तद्योगाद्ये चान्ये व्याधयस्तथा ॥ २.३.९७ ॥
पित्तं श्लेष्मा तथा मज्जा मांसं वै मेद एव च
अस्थि शुक्रं तथा स्नायुर्देहेन सह दह्यति ॥ २.३.९८ ॥
एष ते कथितस्तार्क्ष्य विनासः सर्वदेहिनम्
कथयामि पुनस्तेषां शरीरं च यथा भवेत् ॥ २.३.९९ ॥
एकस्तम्बंस्नायुबद्धं स्थूणात्रयविभूषणम्
इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम् ॥ २.३.१०० ॥
विषयैश्च समाक्रान्तं कामक्रोधसमाकुलम्
रागद्वेषसमाकीर्णं तृष्णादुर्गमतस्करम् ॥ २.३.१०१ ॥
लोभजालपरिच्छिन्नं मोहवस्त्रेण वेष्टितम्
सुबद्धं मायया चैतल्लोभेनाधिष्ठितं पुरम् ॥ २.३.१०२ ॥
एतद्गुणसमाकीर्णं शरीरं सर्वदेहिनाम्
आत्मानं ये न जानन्ति ते नराः पशवः स्मृताः ॥ २.३.१०३ ॥
एवमेव समाख्यातं शरीरं ते चतुर्विधम्
चतुरशीतिलक्षाणि निर्मिता योनयः पुरा ॥ २.३.१०४ ॥
उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः
एतत्ते सर्वमाख्यातं निरयस्य प्रपञ्चतः ॥ २.३.१०५ ॥
अथयामि क्रमप्राप्तं प्रष्टु वा वर्तते स्पृहा ॥ २.३.१०६ ॥
इति श्रीगारुडे महापुराणे धर्मकाण्डे द्वितीयांशे प्रेतकल्पे श्रीकृष्णगरुडसंवादे नरकतत्प्रवेशनिर्गमनादिवर्णनं नाम तृतीयोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४
श्रीकृष्ण उवाच
ज्ञानतोऽज्ञानतो वापियन्नरैः कलुषं कृतम्
तस्य पापस्य शुद्ध्यर्थं विधेया निष्कृतिर्नरैः ॥ २.४.१ ॥
भस्मादिस्नानदशकमादौ कुर्याद्विचक्षणः
यथाशक्ति षडब्दादिप्रत्याम्नायाच्चरेदपि ॥ २.४.२ ॥
तदर्धं वा तदर्धं वा तदर्धार्धमथापि वा
यथाशक्त्या ततः कुर्याद्दश दानानि वै शृणु ॥ २.४.३ ॥
गोभूतिलहिरण्याज्यवासोधन्यगुडास्तथा
रजतं लवणं चैव दानानि दश वै विदुः ॥ २.४.४ ॥
प्रायश्चित्ते त्वागता ये तेभ्यो दद्यान्नरो दश
ततो यमद्वारपथे पूयशोणितसंकुले ॥ २.४.५ ॥
नदीं वैतरणीं तर्तुं दद्याद्वैतरणीं च गाम्
कृष्णस्तनी सकृष्णाङ्गी सा वै वैतरणी स्मृता ॥ २.४.६ ॥
तिला लोहं हिरण्यं च कर्पासं लवणं तथा
सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥ २.४.७ ॥
एतान्यष्टौ महादानान्युत्तमाय द्विजातये
आतुरेण तु देयानि पदरूपाणि मे शृणु ॥ २.४.८ ॥
छत्रो पानहवस्त्राणि मुद्रिका च कमण्डलुः
आसनं भाजनं पदं चाष्टविधं स्मृतम् ॥ २.४.९ ॥
तिलापात्रं सर्पिः पात्रं शय्या सोपस्करा तथा
एतत्सर्वं प्रदातव्यं यदिष्टं चात्मनोऽपि तत् ॥ २.४.१० ॥
अश्वो रथश्च महीषी व्यञ्जनं वस्त्रमेव च
ब्राह्मणेभ्यः प्रदातव्यं ब्रह्मपूर्वमपि स्वयम् ॥ २.४.११ ॥
दाना न्यन्यान्यपि खग तर्पयेत्स्वीयशक्तितः
प्रायाश्चित्तं कृतं येन दश दानान्यपि क्षितौ ॥ २.४.१२ ॥
दानं गोर्वैतरण्याश्च दानान्यष्टौ तथापि वा
तिलपात्रं सर्पिः पात्रं शय्यादानं तथैव च ॥ २.४.१३ ॥
पददानं च विधिवन्नासौ निरयगर्भगः
स्वातन्त्र्येणापि लवणदानमिच्छन्ति सूरयः ॥ २.४.१४ ॥
विष्णुदेहसमुत्पन्नो यतोऽयं लवणो रसः
आतुरस्य यदा प्राणा न यान्ति वसुधातले ॥ २.४.१५ ॥
लवणं च तदा देयं द्वारस्योद्वाटनं दिवः
यानिकानि च दानानि स्वयं दत्तानि मानवैः ॥ २.४.१६ ॥
तानितानि च सर्वाणि उपतिष्ठन्ति चाग्रतः
प्रायश्चित्तं कृतं येन साङ्गं खग स वै पुमान् ॥ २.४.१७ ॥
पापानि भस्मसात्कृत्वा स्वर्गलोके महीयते
अमृतं तु गवां क्षीरं यतः पतगसत्तम् ॥ २.४.१८ ॥
तस्माद्ददाति यो धेनुममृतत्वं स गच्छति
दानान्यष्टौ तु दत्त्वा वै गन्धर्वनिलये वसेत् ॥ २.४.१९ ॥
आलयस्तत्र रौद्रे हि दह्यते येन मानवः
छत्रदानेन सुच्छाया जायते पथि तुष्टिदा ॥ २.४.२० ॥
असिपत्रवनं धारमतिक्रामति वै सुखम्
अश्वारूढश्च व्रजति ददते यद्युपानहौ ॥ २.४.२१ ॥
भोजनासनदानेन सुखं मार्गे भुनक्ति वै
प्रदेशे निर्जले दाता सुखी स्याद्वै कमण्डलोः ॥ २.४.२२ ॥
यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः
न पीडयन्ति दाक्षिण्याद्वस्त्राभरणदानतः ॥ २.४.२३ ॥
तिलपात्रं तु विप्राय दत्तं पत्ररथ ध्रुवम्
नाशयेत्त्रिविधं षापं वाङ्मनः कायसम्भवम् ॥ २.४.२४ ॥
घृतपात्रप्रदाने रुद्रलोके वसेन्नरः
सर्वोपस्करसंयुक्तां शय्यां दत्त्वा द्विजातये ॥ २.४.२५ ॥
नानाप्सरोभिराकीर्णं विमानमधिरोहति
षष्टिवर्षसहस्राणि क्रीडित्वा शक्रमन्दिरे ॥ २.४.२६ ॥
इन्द्रलोकात्परिभ्रष्ट इह लोके नृपो भवेत्
सर्वोपस्करणोपेतं युवानं दोषवर्जितम् ॥ २.४.२७ ॥
योऽश्वं ददाति विप्राय स्वर्गलोके च तिष्ठति
यावन्ति रोमाणि हये भवन्ति हि खगेश्वर ॥ २.४.२८ ॥
तावतो राजितांल्लोकानाप्नुवन्ति हि पुष्कलान्
चतुर्भिस्तुरगैर्युक्तं सर्वोपकरणैर्युतम् ॥ २.४.२९ ॥
रथं द्विजातये दत्त्वा राजसूयफलं लभ्त् ॥ २.४.३० ॥
दुग्धाधिकां च महिषीं नवमेघवर्णां सन्तुष्टतर्णकवलीं जघनाभिरामाम्
दत्त्वा सुवर्णतिलकां द्विजपुङ्गवाय लोकोदयं स जयतीति किमत्र चित्रम् ॥ २.४.३१ ॥
तालवृन्तस्य दानेन वायुना वीज्यते पथि
कान्तियुक्सुभगः श्रीमान् भवत्यम्बरदानतः ॥ २.४.३२ ॥
रसान्नोपस्करयुतं गृहं विप्राय योर्ऽपयेत्
न हीयते तस्य वंशः स्वर्गं प्राप्नोत्यनुत्तमम् ॥ २.४.३३ ॥
भवत्यत्र खगश्रेष्ठ फलगौखलाघवम्
श्रद्धाश्रद्धाविभेदेन दानगौरवलाघवात् ॥ २.४.३४ ॥
ततो येनाम्बुदानानि कृतान्यत्र रसास्तथा
तदा खग तथाह्लादमापदि प्रतिपद्यते ॥ २.४.३५ ॥
अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा
सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ २.४.३६ ॥
आसन्ने मरणे कुर्यात्संन्यासं चेद्विधानतः
आवर्तेत पुनर्नासौ ब्रह्मभूयाय कल्पते ॥ २.४.३७ ॥
आसन्नमरणो मत्यश्चेत्तीर्थं प्रतिनयिते
तीर्थप्राप्तौ भवेन्मुक्तिर्म्रियते यदि मार्गगः
पदेपदे क्रतुसमं भवेत्तस्य न संशयः ॥ २.४.३८ ॥
गृह्णीयाच्चेदनशनं व्रतं विधिवदागते
मृत्यौ न सोऽपि संसारे भूयः पर्यटति द्विज ॥ २.४.३९ ॥
किं दानमिति तुर्यस्य प्रश्नस्योत्तरमीरितम्
दाहमृत्योरन्तरे किमितिप्रश्नोत्तरं शृणु ॥ २.४.४० ॥
गतप्राणं ततो ज्ञात्वा स्नात्वा पुत्रादिराशु तम्
शवं जलेन शुद्धेन क्षालयेदविचारयन् ॥ २.४.४१ ॥
परिधाप्याहते वस्त्रे चन्दनैः प्रोक्षयेत्तनुम्
ततो मृतस्य स्थाने वै एकोद्दिष्टं समाचरेत् ॥ २.४.४२ ॥
प्रयोगपूर्वं दाहस्य योग्यतादिर्यथा भवेत्
आंसनं प्राक्षण च स्यान्न स्यादेतच्चतुष्टयम् ॥ २.४.४३ ॥
आवाहनार्चन चैव पान्त्रालम्भावगाहने
भवेद्दानान्नसङ्कल्पः पिण्डदानं सदा भवेत् ॥ २.४.४४ ॥
पदार्थपञ्चकं न स्याद्रेखा प्रत्यवनेजनम्
दद्यादक्षय्यमुदकं न स्यादेतत्त्रयं पुनः ॥ २.४.४५ ॥
स्वधावाचनमाशीश्च तिलकं च खगोत्तम
घटं दद्यात्समाषान्नं दद्याल्लोहस्य दक्षिणाम् ॥ २.४.४६ ॥
पिण्डस्य चालनं प्रोक्तं नैव प्रोक्तमिदं त्रिकम्
प्रच्छादनविसर्गौ च स्वस्तिवाचनकं तथा ॥ २.४.४७ ॥
एषु षट्सु विधिः प्रोक्तः श्राद्धेषु मलिनेषु ते
षडेव मरणस्थाने द्वारि चात्वरिके तथा ॥ २.४.४८ ॥
विश्रामे काष्ठचयने तथा सञ्चयने खग
मृतिस्थाने शवो नाम भूमिस्तुष्यति देवता ॥ २.४.४९ ॥
पान्थो द्वारि भवेत्तेन प्रीता स्याद्वास्तुदेवता
चत्वरे खेचरस्तेन तुष्येद्भृतादिदेवता ॥ २.४.५० ॥
विश्रामे भूतसंज्ञोऽयं तुष्टस्तेन दिशो दश
चितायां साधक इति सञ्चितौ प्रेत उच्यते ॥ २.४.५१ ॥
तिलदर्भघृतेधांसि गृहीत्वा तु सुतादयः
गाथां यमस्य सूक्तं वाप्यधीयाना व्रजन्ति हि ॥ २.४.५२ ॥
अहरहर्नीयमानो गामश्वं पुरुषं वृषम्
वैवस्वतो न तृप्येत सुरया त्विव दुर्मतिः ॥ २.४.५३ ॥
इमां गाथमपेतेति सूक्तं वा पथि संपठेत्
दक्षिणस्यां दिश्यरण्यं व्रजेयुः सर्वबान्धवाः ॥ २.४.५४ ॥
पथि श्राद्धद्वयं कुर्यात्पूर्वोक्तविधिना खग
ततः शनैर्भूतले वै दक्षिणाशिरसं शवम् ॥ २.४.५५ ॥
स्थापयित्वा चिताभूमौ पूर्वोक्तं श्राद्धमाचरेत्
तृणकाष्ठतिलाज्यादि स्वयं निन्युः सुतादयः ॥ २.४.५६ ॥
शूद्रानीतैः कृतं कर्म सर्वं भवति निष्फलम्
प्राचीनावीतिना भाव्यं दक्षिणाभिमुकेन च ॥ २.४.५७ ॥
वेदी तत्र प्रकर्तव्या यथाशास्त्रमथाण्डज
प्रतेवस्त्रं द्विधा कृत्वार्धेन तं छादयेत्ततः ॥ २.४.५८ ॥
अर्धं श्मशानवासार्थं भूमावेव विनिः क्षिपेत्
ततः पूर्वोक्तविधिना पिण्डं प्रेतकरे न्यसेत् ॥ २.४.५९ ॥
आज्येनाभ्यञ्जनं कार्यं सर्वाङ्गेषु शवस्य च
दाहमृत्योरन्तराले विधिः पिण्डस्य तं शृणु ॥ २.४.६० ॥
पूर्वोक्तैः पञ्चभिः पिण्डैः शवस्याहुतियोग्यता
अन्यथा चोपघाताच्च राक्षसाद्या भवन्ति हि ॥ २.४.६१ ॥
संमृज्य चोपलिप्याथ उल्लिख्योद्धृत्य वेदिकाम्
अभ्युक्ष्योपसमाधाय वह्निं तत्र विधानतः ॥ २.४.६२ ॥
पुष्पाक्षतैश्च संपूज्य देवं क्रव्यादसंज्ञकम्
श्रौतेन तु विधानेन ह्याहिताग्निं दहेद्वुधः ॥ २.४.६३ ॥
चण्डालाग्निं चिताग्निं च पतिताग्निं परित्यजेत्
त्वं भूतकृज्जगद्योनिस्त्वं लोकपरिपालकः ॥ २.४.६४ ॥
उपसंहर तस्मात्त्वमेनं स्वर्गं नयामृतम्
इति क्रव्यादमभ्यर्च्य शरीराहुतिमाचरेत् ॥ २.४.६५ ॥
अर्धदग्धे तथा देहे दद्यादाज्याहुतिं ततः
अस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः ॥ २.४.६६ ॥
असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा तु नामतः
एवमाज्याहुतिं दत्त्वा तिलमिश्रां समन्त्रकम् ॥ २.४.६७ ॥
रोदितव्यं ततो गाढमेवं तस्य सुखं भवेत्
दाहस्यानन्तरं तत्र कृत्वा सञ्चयनिक्रियाम् ॥ २.४.६८ ॥
प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं खग
ततः प्रदक्षिणं कृक्त्वा चिताप्रस्थानवीक्षकाः ॥ २.४.६९ ॥
कनिष्ठपूर्वाः स्नानार्थं गच्छेयुः सूक्तजापकाः
ततो जालसमीपे तु गत्वा प्रक्षाल्य चांशुकम् ॥ २.४.७० ॥
परिधाय पुनस्तच्च ब्रृयुस्तं पुरुषं प्रति
उदकं तु करिष्यामः सचैलं पुरुषास्ततः ॥ २.४.७१ ॥
कुरुध्वमित्येव वदेच्छतवर्षावरे मृते
पुत्राद्या वृद्धपूर्वास्ते एकवस्त्राः शिखां विना ॥ २.४.७२ ॥
प्राचीनावीतिनः सर्वे विशेयुर्मौनिनो जलम्
अपनः शोशुचदघमनेन पितृदिङ्मुखाः ॥ २.४.७३ ॥
जलावघट्टनं चव न कुर्युः स्नानकारकाः
ततस्तटे समागत्य शिखां बद्ध्वा ऋजून् कुशान् ॥ २.४.७४ ॥
दक्षिणाग्रहस्तयोस्तु कृत्वाथ सतिलं जलम्
आदायाञ्जलिना याम्यां दुः खी पैतृकतीर्थतः ॥ २.४.७५ ॥
एकवारं त्रिवारं वा दशवारमथापि वा
भूमावश्मनि वा सर्वे क्षिपेयुर्वाग्यताः खग ॥ २.४.७६ ॥
तृप्यन्तु तृप्यतां वापि तर्पयाम्युपतिष्ठताम्
प्रेतैतदमुकगोत्रेत्युक्तेष्वेवं समुच्चरेत् ॥ २.४.७७ ॥
जलाञ्जलौ कृते पश्चाद्विधेयं दन्तधावनम्
त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यप ॥ २.४.७८ ॥
तत उत्तीर्योदकाद्वै वस्त्राणि परिधाय च
स्नानवस्त्रं सकृत्पीड्य विशेयुः शुचिभूतले ॥ २.४.७९ ॥
अश्रुपातं न कुर्वीत दत्त्वा दाहजलाञ्जलिम्
श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ॥ २.४.८० ॥
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः
ततस्तेषूपविष्टेषु पुराणज्ञः सुकृत्स्वकः ॥ २.४.८१ ॥
शोकापनोदं कुर्वीत संसारानित्यतां ब्रुवन्
मानुष्ये कदलीस्तन्भे असारे सारमार्गणम् ॥ २.४.८२ ॥
करोति यः स संमूढो जलबुद्वद्रसन्निभे
पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ॥ २.४.८३ ॥
कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना
गन्त्री वसुमती नाशमुदधिर्दैवतानि च ॥ २.४.८४ ॥
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति
एवं संश्रावयेत्तत्र मृदुशाद्वलसंस्थितान् ॥ २.४.८५ ॥
तेऽयि संश्रुत्य गच्छेयुर्गृहं बालपुरः सराः
विदश्य र्निबपत्राणि नियता द्वारि वेश्मनः ॥ २.४.८६ ॥
आचम्य वह्निसलिलं गोमयं गौरसर्षपान्
दूर्वाप्रवालं वृषभमन्यदप्यथ मङ्गलम् ॥ २.४.८७ ॥
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः
श्रौतेन तु विधानेन आहिताग्निं देहद्वधः ॥ २.४.८८ ॥
ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः
योषित्पतिव्रता या स्याद्भर्तारं यानुगच्छति ॥ २.४.८९ ॥
प्रयोग पूर्वं भर्तारं नमस्कृत्यारुहेच्चितिम्
चितिभ्रष्टा तु या मोहात्सा प्राजापत्यमाचरेत् ॥ २.४.९० ॥
तिस्रः कोट्योर्धकोटी य यानि लोमानि मानुषे
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ॥ २.४.९१ ॥
व्यालग्राही यथा व्यालं बिलादुद्धरते बलात्
तद्वदुद्धृत्य सा नारी तेनैव सह मोदते ॥ २.४.९२ ॥
तत्र सा भर्तृपरमा स्तूयमानाप्सरोगणैः
क्रीडते पतिना सार्धं यावदिन्द्राश्चतुर्दश ॥ २.४.९३ ॥
ब्रह्मघ्नो वा कृघ्नो वा मित्त्रिघ्नो वा भवेत्पतिः
पुनात्यविधवा नारी तमादाय मृता तु या ॥ २.४.९४ ॥
मृते भर्तरि या नारी समारोहेद्धुताशनम्
सारन्धतीसमाचारा स्वर्गलोके महीयते ॥ २.४.९५ ॥
यावच्चाग्नौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत्
तावन्न मुच्यते सा हि स्त्रीशरीरात्कथञ्चन ॥ २.४.९६ ॥
मातृकं पैतृकं चैव यत्र चैव प्रदीयते
कुलत्रयं पुनात्येषा भर्तारं यानुगच्छति ॥ २.४.९७ ॥
आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ २.४.९८ ॥
पृथक्चितां समारुह्य न प्रिया गन्तुमर्हति
क्षत्त्रियाद्याः सवर्णाश्च आरोहेयुरपीह ताः ॥ २.४.९९ ॥
चाण्डालीमवधिं कृत्वा ब्राह्मणीतः समो विधिः
अगर्भिणीनां सर्वासामबालताक्मे(का)नामपि ॥ २.४.१०० ॥
दहनस्य विधिः प्रोक्तः सामान्येन मया खग
विशेषमपि तस्यास्य कञ्चित्किं श्रोतुमिच्छति ॥ २.४.१०१ ॥
गरुड उवाच
प्रोषिते तु मृते स्वामिन्यस्थ्निनाशमुपेयुषि
कथं दाहः प्रकर्तव्यस्तन्मे वद जगत्पते ॥ २.४.१०२ ॥
श्रीकृष्ण उवाच
अस्थीनि चेन्न लभ्यन्ते प्रोषितस्य नरस्य च
तेषाञ्च हि गतिस्थानं विधानं कथयाम्यहम् ॥ २.४.१०३ ॥
शृणु तार्क्ष्य परं गोप्यं पत्युर्दुर्मरणेषु यत्
लङ्घनैर्ये मृता जीवां दंष्ट्रिभिश्चाभिघातिताः ॥ २.४.१०४ ॥
कण्ठग्रहे विलग्नानां क्षीणानां तुण्डघातिनाम्
विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः ॥ २.४.१०५ ॥
पतनोद्बन्धनजलैर्मृतानां शृणु संस्थितिम्
सर्पव्याघ्रैः शृङ्गिभिश्च उपसर्गोपलोदकैः ॥ २.४.१०६ ॥
ब्राह्मणैः श्वापदैश्चैव पतनैर्वृक्षवैद्युतैः
नखैर्लोहैर्गिरेः पातैर्भित्तिपातैर्भृगोस्तथा ॥ २.४.१०७ ॥
कट्वायामन्तरिक्षे च चौरचाण्डालतस्तथा
उदक्याशुनकीशूद्ररजकादिविभूषिताः ॥ २.४.१०८ ॥
ऊर्ध्वोचछिष्टाधरोच्छिष्टोभयोच्छिष्टास्तु ये मृताः
शस्त्रघातैर्मृता ये चास्यश्वस्पृष्टास्तथैव च ॥ २.४.१०९ ॥
तत्तु दुर्मरणं ज्ञेयं यच्च जातं विधैं विना
तेन पापेन नरकान् भुक्त्वा प्रेतत्वभागिनः ॥ २.४.११० ॥
न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम्
न विधानं मृताद्यञ्च न कुर्या दौर्ध्वदैहिकम् ॥ २.४.१११ ॥
न पिण्डदानं कर्तव्यं प्रमादाच्चेत्करोति हि
नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥ २.४.११२ ॥
अतस्तस्य सुतैः पौत्त्रैः सपिण्डैः शुभमिच्छुभिः
नारायणबलिः कार्यो लोकगर्हाभिया खग ॥ २.४.११३ ॥
तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः
कृते नारायणबलावौर्ध्वदेहिकयोग्यता ॥ २.४.११४ ॥
तस्य सुद्धिकरं कर्म तद्भवेन्न तदन्यथा
नारायणबलिं सम्यक्तीर्थे सर्वं प्रक्पयेत् ॥ २.४.११५ ॥
कृष्णाग्रे कारयेद्बिप्रैर्येन पूतो भवेन्नरः
पूर्वन्तु तर्पणं कार्यं विप्रैः पौराणवैदिकैः ॥ २.४.११६ ॥
सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत्
कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि ॥ २.४.११७ ॥
दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन्
अनादिनिधनो देवः शङ्खचक्रगदाधरः ॥ २.४.११८ ॥
अक्षयः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव
तर्पणस्यावसाने स्याद्वीतरागो विमत्सरः ॥ २.४.११९ ॥
जितेन्द्रियमना भूत्वा शुचिष्मान्धर्मतत्परः
भक्त्या तत्र प्रकुर्वीत श्राद्धान्येकादशैव तु ॥ २.४.१२० ॥
सर्वकर्मविधाने एकैकाग्रे समाहितः
तोयव्रीहियवान्दद्याद्गोधूमांश्च प्रियङ्गवः ॥ २.४.१२१ ॥
हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च दापयेत्
दापयेत्सर्वसंस्यानि क्षीरं क्षौद्रसमान्वितम् ॥ २.४.१२२ ॥
वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम्
द्पयेत्सर्वपापेभ्यो न कुर्यात्पङ्क्तिवञ्चनम् ॥ २.४.१२३ ॥
भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम्
दातव्यं सर्वंविप्रेभ्यो वेदशास्त्रविधानतः ॥ २.४.१२४ ॥
शङ्खे खड्गेऽथ वा ताम्रे तर्पणञ्च पृथक्पृथक्
ध्यानधारणसंयुक्तो जानुभ्यामवनीं गतः ॥ २.४.१२५ ॥
ऋचा वै दापयेदर्घमर्घोद्दिष्टं पृथक्पृथक्
ब्रह्मा विष्णुश्च रुद्रश्च यमः प्रेतश्च पञ्चमः ॥ २.४.१२६ ॥
पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः
वस्त्रयज्ञोपवीतानि पृथङ्मुद्गाः पदानि च ॥ २.४.१२७ ॥
पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि
जलधारां ततः कुर्यात्पिण्डेपिण्डे पृथक्पृथक् ॥ २.४.१२८ ॥
शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मये पि वा
तिलोदकं समादाय सर्वोषधिमसन्वितम् ॥ २.४.१२९ ॥
ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम्
दद्याद्ब्राह्मणमुख्याय पददानं तथैच ॥ २.४.१३० ॥
यमोद्देशेतिलांल्लौहं ततो दद्याच्च दक्षिणाम्
एवं विष्णुबलिं दत्त्वा यथाशक्त्या विधानतः ॥ २.४.१३१ ॥
समुद्धरति तत्क्षिप्रं नात्र कार्या विचारण नागदंशान्मृतो यस्तु विशेषस्तन्तु मे शृणु ॥ २.४.१३२ ॥
सुवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम्
विप्राय दत्त्वा विधिवत्पितुरानृण्यमाप्नुयात् ॥ २.४.१३३ ॥
एवं सर्पबलिं दत्त्वा सर्पदोषाद्विमुच्यते
पश्चात्पुत्तलकं कार्यं सर्वोषधिसमन्वितम् ॥ २.४.१३४ ॥
पलाशस्य च वृन्तानां विभागं शृणु काश्यप
कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् ॥ २.४.१३५ ॥
शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तोऽस्थिसञ्चयः
विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक् ॥ २.४.१३६ ॥
चत्वारिंशच्छिरोभागे ग्रीवायां दश विन्यसेत्
विंशत्युरः स्थले दद्याद्विंशतिञ्जठरे तथा ॥ २.४.१३७ ॥
बाहुद्वये शतं दद्यात्कटिदेशे च विंशतिम्
ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत् ॥ २.४.१३८ ॥
दद्याच्चतुष्टयं शिश्ने षड्दद्याद्वृषाणद्वये
दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत् ॥ २.४.१३९ ॥
नारिकेलं शिरः स्थानें तुम्बं दद्याच्च तालुके
पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम् ॥ २.४.१४० ॥
अन्त्रेषु नालिकं तद्याद्वालुकाङ्घ्राणे एव च
वसायां मृत्तिकां दद्याद्धरितालमनः शिलाः ॥ २.४.१४१ ॥
पारदं रेतसः स्थाने पुरीषे पित्तलं तथा
मनः शिला तथा गात्रे तिलपक्वन्तु सन्धिषु ॥ २.४.१४२ ॥
यवपिष्टं यथा मांसे मधु शोणितमेव च
केशेषु च जटाजूटं त्वचायाञ्च मृगत्वचम् ॥ २.४.१४३ ॥
कर्णयोस्तालपत्रञ्च स्तनयोश्चैव गुञ्जिकाः
नासायां शतपत्रञ्च कमलं नाभिमण्डले ॥ २.४.१४४ ॥
वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम्
घृतं नाभ्यां प्रदेयं स्यात्कौ पीने च त्रपुस्मृतम् ॥ २.४.१४५ ॥
मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेव विलेपनम्
कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः ॥ २.४.१४६ ॥
परिधानं पट्टसूत्रंहृदये चैव विन्यसेत्
ऋद्धिवृद्धी भुजौ द्वौ च चक्षुर्भ्याञ्च कपर्दकम् ॥ २.४.१४७ ॥
दन्तेषु दाडिमीबीजान्यङ्गुलीषु च चम्पकम्
सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकम् ॥ २.४.१४८ ॥
सर्वौषदियुतं प्रेतं कृत्वा पूजां यथोदिताम्
साग्निके चापि विधिना यज्ञपात्रं न्यस्येत्क्रमात् ॥ २.४.१४९ ॥
स्त्रियः पुनन्तु म शिर इमं मे वरुणेन च
प्रेतस्य पावनं कृत्वा शालग्रामशिलोदकैः ॥ २.४.१५० ॥
विष्णुमुद्दिश्य दातव्या सुशीला गौः पयस्विनी
तिला लौहं हिरण्यञ्च कर्पासं लवणं तथा ॥ २.४.१५१ ॥
सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम्
तिलपात्रं ततो दद्यात्पददानं तथैव च ॥ २.४.१५२ ॥
कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थमात्मनः
प्रेतमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्यच ॥ २.४.१५३ ॥
एवं पुत्तलकं कृत्वा दाहयेद्विधिपूर्वकम्
तच्छ्रुद्धये तु संस्कर्ता पुत्रादिर्निष्कृतिं चरेत् ॥ २.४.१५४ ॥
त्रीन्कृच्छ्रान्षड्द्वादश च तथा पञ्चदशापि च
प्रायश्चित्तनिमित्तानुसारेण विप्रवत्स्मृतः ॥ २.४.१५५ ॥
अशक्तौ गोहिरण्यादि प्रत्याम्नायं चरेदपि
आत्मनोऽनधिकारित्वे शुद्धिमेवं चरेद्वुन्धः ॥ २.४.१५६ ॥
अशुद्धेन तु यद्दत्तमुद्दिश्याशुद्धिमेव च
नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥ २.४.१५७ ॥
शुद्धिं सम्पाद्य कर्तव्यं दहनाद्यौर्ध्वदेहिकम्
अकृत्वा निष्कृतिं यस्तु कुरुते दहनादिकम् ॥ २.४.१५८ ॥
मतिपूर्वममत्या च क्रमात्तनिष्कृतिं शृणु
कृत्वाग्निमुदकं स्नानं स्पर्शनं वहनं कथाम् ॥ २.४.१५९ ॥
रज्जुच्छेदाश्रुपातञ्च तप्तकृच्छ्रेण शुध्यति
एषामन्यतमं प्रेतं यो वहेत्तु देहत वा ॥ २.४.१६० ॥
कटोदकक्रियां कृत्वा कृच्छ्र सान्तपनं चरेत्
निमित्ते लघुनि स्वल्पं महन्महति कल्पयेत् ॥ २.४.१६१ ॥
गरुड उवाच
कृच्छ्रस्य तप्तकृच्छ्रस्य तथा सान्तपनस्य च
लक्षणं ब्रूहि मे स्वामिंस्त्रयाणामपि सुव्रत ॥ २.४.१६२ ॥
श्रीकृष्ण उवाच
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्
उपवासस्त्र्यहञ्चैव एष कृच्छ्र उदाहृतः ॥ २.४.१६३ ॥
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत्
एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ २.४.१६४ ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्
जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनञ्चरन् ॥ २.४.१६५ ॥
मया तेऽयं समाख्यातो दुर्मृतस्य विधिः खग
तदा मृतं विजानीयाद्दीपनिर्वाणमागतः ॥ २.४.१६६ ॥
अग्निदाहं ततः कुर्यात्सूतकञ्च दिनत्रयम्
दशाहं गर्तपिणाडञ्च कर्तव्यं प्रेतपूर्वकम् ॥ २.४.१६७ ॥
एवं विधिं ततः कुर्यात्ततः प्रेतश्च मुक्तिभाक्
मृतभ्रान्त्या प्रतिकृतेः कृते दाहे स वै यदि ॥ २.४.१६८ ॥
आयाति तेन कर्तव्यं मज्जनं घृकुण्डके
जातकर्मादिसंस्काराः कर्तव्याः पुनरेव तु ॥ २.४.१६९ ॥
ऊढामेव स्वकां भार्यामुद्वहेद्विधिवत्पुमान्
वर्षे पञ्चदशे पक्षिन् द्वादशे वा गते सति ॥ २.४.१७० ॥
अज्ञातस्य प्रोषितस्य कृत्वा प्रतिकृतिं दहेत्
रजस्वलासूतिकयोर्विशेषं मरणे शृणु ॥ २.४.१७१ ॥
सूतिकायां मृतायान्तु एवं कुर्वन्ति याज्ञिकाः
कुम्भे सलिलमादाय पञ्चगव्यं तथैव च ॥ २.४.१७२ ॥
पुण्याभिरभिमन्त्र्यापो वाचा शुद्धिं लभेत्ततः
शतसूर्पोदकेनादौ स्नापयित्वा यथाविधि ॥ २.४.१७३ ॥
तेनैव स्नापयित्वा तु दाहं कुर्यात्स्वगेश्वर
पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् ॥ २.४.१७४ ॥
वस्त्रान्तराकृतिं कृत्वा दाहयेद्विधिपूर्वकम्
मृतस्य पञ्चके दाहविधिं वच्मि शृणुष्व मे ॥ २.४.१७५ ॥
आदौ कृत्वा धनिष्ठार्धमेतन्नक्षत्रपञ्चकम्
रेवत्यन्तं सदा दूष्यमशुभं सर्वदा भवेत् ॥ २.४.१७६ ॥
दाहस्तत्र न कर्तव्यो विषादः सर्वजन्तुषु
न जलं दीयते तेषु अशुभं सर्वदा भवेत् ॥ २.४.१७७ ॥
पञ्चकानन्तरं सर्वं कार्यं कर्तव्यमन्यथा
पुत्त्राणां गोत्रिणां तस्य सन्तापोऽप्युपजायते ॥ २.४.१७८ ॥
गृहे हानिर्भवत्येव ऋक्षेष्वेषु मृतस्य च
अथ वा ऋक्षमद्ये च दाहस्तु विधिपूर्वकः ॥ २.४.१७९ ॥
क्रियते मानुषाणान्तु स वा आहुतिपूर्वकः
विप्रैर्विधिरतः कार्यो मन्त्रैस्तु विधिपूर्वकम् ॥ २.४.१८० ॥
शवस्थानसमीपे तु क्षेप्तव्याः पुत्तलास्ततः
दर्भकॢप्तास्तु चत्वार ऋक्षमन्त्राभिमन्त्रिताः ॥ २.४.१८१ ॥
ततो दाहः प्रकर्तव्यस्तैश्च पुत्तलकैः सह
सूतकान्ते तदा पुत्त्रैः कार्यं शान्तिकपौष्टिकम् ॥ २.४.१८२ ॥
पञ्चकेषु मृतो योऽसौ न सतिं लभते नरः
तिलान् गाञ्च सुवर्णञ्च तमुद्दिश्य घृतं ददेत् ॥ २.४.१८३ ॥
विप्राणां दापयेद्दानं सर्वविघ्नविनाशनम्
भोजनोपानहौच्छत्त्रं हेममुद्रा च वाससी ॥ २.४.१८४ ॥
दक्षिणा दीयते विप्रे पातकस्य प्रमोचनः
मयातेऽयं समाख्यातो विधिः पञ्चहरः स्थितः
संयमिन्यां यथायानं यथावर्षं मृतक्रिया ॥ २.४.१८५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दहनविधिकृच्छ्रलक्षणदग्धागमनरजस्वलामरणविधिपञ्चकमरणप्रायश्चित्तनिरूपणं नाम चतुर्थोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५
श्रीकृष्ण उवाच
एवं दग्ध्वा नरं प्रेतं स्नात्वा कृत्वा तिलोदकम्
अग्रतः स्त्रीजनो गच्छेद्व्रजेयुः पृष्ठतो नराः ॥ २.५.१ ॥
प्राशयेन्निम्बपत्राणि रुदन्तो नामपूर्वकम्
विधातव्यं चाचमनं पाषाणोपरि संस्थिते ॥ २.५.२ ॥
ते प्रविश्य गृहं सर्वे सुताद्याश्च सपिण्डकाः
भवेयुर्दशरात्रं वै यत आशौचकं खग ॥ २.५.३ ॥
क्रीतलब्धाशनाः सर्वे स्वपेयुस्ते पृथक्पृथक्
अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् ॥ २.५.४ ॥
अमांसभोजनाश्चाधः शयीरन्ब्रह्मचारिणः
परस्परं न संस्पृष्टा दानाध्ययनवर्जिताः ॥ २.५.५ ॥
मलिनाश्चाधोमुखाश्च दीना भोगविवर्जिताः
अङ्गसंवाहनं केशमार्जनं वर्जयन्ति ते ॥ २.५.६ ॥
मृन्मये पत्रजे वापि भुञ्जीरंस्ते च भाजने
उवासन्तु ते कुर्युरेकाहमथ वा त्र्यहम् ॥ २.५.७ ॥
गरुड उवाच
आशौचिन इति प्रोक्तमाशौचस्य च वै प्रभो
लक्षणं किं कियत्कालं भाव्यं वा तद्युतैर्नरैः ॥ २.५.८ ॥
शृकृष्ण उवाच
अपनोद्यन्त्विदं कालादिभिराशु निषेधकृत्
पिण्डाध्ययनदानादेः पुङ्गतोऽतिशयो हि तत् ॥ २.५.९ ॥
दशाहं शावमाशौचं सपिण्डेषु विधीयते
जननेऽप्येवमेव स्यान्निपुणं शुद्धिमिच्छताम् ॥ २.५.१० ॥
जन्मन्येकोदकानान्तुत्रिरात्राच्छुद्धिरिष्यते
शावस्य शेषाच्छुध्यन्ति त्र्यहादुदकदायिनः ॥ २.५.११ ॥
आदन्तजननत्सद्य आ चौलान्नैशिकी स्मृता
त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥ २.५.१२ ॥
आशौचं ते समाख्यातं संक्षेपात्प्रकृतं ब्रुवे
जलं त्रिदिवमाकाशे स्थाप्यं क्षीरञ्च मृन्मये ॥ २.५.१३ ॥
अत्र स्नाहि पिबात्रेति मन्त्रेणानेन काश्यप
काष्ठत्रये गुणैर्बद्धे प्रीत्यै रात्रौ चतुष्पथे ॥ २.५.१४ ॥
प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा
अस्थिसंचयनं कार्यं दिने तद्गोत्रजैः सह ॥ २.५.१५ ॥
तदूर्ध्वमङ्गसंस्पर्शः सपिण्डानां विधीयते
योग्याः सर्वक्रियाणां च समानसलिलास्तथा ॥ २.५.१६ ॥
प्रेतपिण्डं बहिर्दद्याद्दर्भमात्रविवर्जितम्
प्रागुदीच्यां चरुं कृत्वा स्नात्वा प्रयतमानसः ॥ २.५.१७ ॥
भूमावसंस्कृतानां च संस्कृतानां कुशेषु च
नवभिर्दिवसैः पिण्डान्नव दद्यात्समाहितः ॥ २.५.१८ ॥
दशमं पिण्डमुत्सृज्य रात्रिशेषे शुचिर्भवेत्
असगोत्रः सगोत्रो वा यदि स्त्री यति वा पुमान् ॥ २.५.१९ ॥
प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत्
शालिना सक्तुभिर्वापि शाकैर्वाप्यथ निर्वपेत् ॥ २.५.२० ॥
प्रथमेऽहनि यद्द्रव्यं तदेव स्याद्दशाहिकम्
यावदाशौचमेकैकस्याञ्जलेर्दानमुच्यते ॥ २.५.२१ ॥
यद्वा यस्मिन्दिने दानं तस्मिंस्तद्दिनसंख्यया
दशाहेऽञ्जलयः पक्षिन्पञ्चाशदन्तिमे ॥ २.५.२२ ॥
द्विवृद्ध्या वा भवेत्पक्षिन्नञ्जलीनां शतं पुनः
यदाहि त्र्यहमाशौचं तदा वाञ्जलयो दश ॥ २.५.२३ ॥
त्रयोऽञ्जलय एवं तु प्रथमेऽहनिवै तदा
चत्वारस्तु द्वितीयेऽह्नि तृतीये स्युस्त्रयस्तथा ॥ २.५.२४ ॥
शताञ्जलि यदा पक्षिन्नाद्ये त्रिंशत्तदाहनि
चत्वारिंशद्द्वितीयेऽह्नि त्रिंशदह्नि तृतीयके ॥ २.५.२५ ॥
एवं जलस्याञ्जलयो विभाज्याः पक्षयोर्द्वयोः
सर्वेषु पितृकार्येषु पुत्रो मुक्योऽधिकारवान् ॥ २.५.२६ ॥
पिण्डप्रसेकस्तूष्णीञ्च पुष्पधूपादिकं तथा
दशमेऽहनि सम्प्राप्ते स्नानं ग्रामाद्वहिश्चरेत् ॥ २.५.२७ ॥
तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च
विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्त्रियो वाहनं तथा ॥ २.५.२८ ॥
वैश्यः प्रतोदं रश्मीन्वा शूद्रो यष्टिं कृतक्रियः
मृतादल्पवयोभिश्च सपिण्डैः परिवापनम् ॥ २.५.२९ ॥
कार्यन्तु षोडशी षड्भिः पिण्डैर्दशभिरैव च
प्रथमा मलिना ह्येतैरादशाहं मृतेर्भवेत् ॥ २.५.३० ॥
दिनानि दश यान्षिण्डान्कुर्वन्त्यत्र सुतादयः
प्रत्यहं ते विभज्यन्ते चतुर्भागैः खगोत्तम ॥ २.५.३१ ॥
भागद्वयेन देहः स्यात्तृतीयेन यमानुगाः
तृप्यन्ति हि चतुर्थेन स्वयमप्युपजीवति ॥ २.५.३२ ॥
अहोरात्रैस्तु नवभिर्देहो निष्पत्तिमाप्नुयात्
शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते तथा ॥ २.५.३३ ॥
द्वितीयेन तु कर्णाक्षिनासिकं तु समासतः
गलांसभुजवक्षश्च तृतीयेन तथा क्रमात् ॥ २.५.३४ ॥
चतुर्थेन च पिण्डेन नाभिलिङ्गगुदं तथा
जानुजङ्घं तथा पादौ पञ्चमेन तु सर्वदा ॥ २.५.३५ ॥
सर्वमर्माणि षष्ठेन सप्तमेन तु नाडयः
दन्तलोमान्यष्टमेन वीर्यन्तु नवमेन च ॥ २.५.३६ ॥
दशमेन तु पूर्णत्वं तृप्तता क्षुद्विपर्ययः
मध्यमां षोडशीं वच्मि वैनतेय शृणुष्व मे ॥ २.५.३७ ॥
विष्णवादिविष्णुपर्यन्तान्येकादश तथा खग
श्राद्धानि पञ्च देवानामित्येषां मध्यषीडशी ॥ २.५.३८ ॥
निमित्तं दुर्मतिं कृत्वा यदि नारायणो बलिः
एकादशाहे कर्तव्यो वृषोत्सर्गोऽपि तत्र वै ॥ २.५.३९ ॥
एकादशाहे प्रेतस्य यस्यात्सृज्येत नो वृषः
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥ २.५.४० ॥
अकृत्वा यद्वृषोत्सर्गं कृतं वै पिण्डपातनम्
निष्फलं सकलं विद्यात्प्रमीताय न तद्भवेत् ॥ २.५.४१ ॥
वृषोत्सर्गादृते नान्यत्किञ्चिदस्ति महीतले
पुत्रः पत्न्यथ दौहित्रः पिता वा दुहिताथ वा ॥ २.५.४२ ॥
मृतादनन्तरं तस्य ध्रुवं कार्यो वृषोत्सवः
चतुर्वत्सतरीयुक्तो यस्योत्सृज्येत वा वृषः ॥ २.५.४३ ॥
अलङ्कृतो विधानेन प्रेतत्वं तस्य नो भवेत्
एकादशेऽह्नि सम्प्राप्ते वृषालाभो भवेद्यदि ॥ २.५.४४ ॥
दर्भैः पिष्टैस्तु सम्पाद्य तं वृषं मोचयेद्वुधः
वृषोत्सर्जनवेलायां वृषाभाव (लाभ) कथञ्चन ॥ २.५.४५ ॥
मृत्तिकाभिस्तु दर्भैर्वा वृषं कृत्वा विमोचयेत्
यदिष्टं जीवतस्तस्य दद्यादेकादशेऽहनि ॥ २.५.४६ ॥
मृतमुद्दिश्य दातव्यं शय्याधेन्वादिकं तथा
विप्रान्बहून् भोजयीत प्रेतस्य क्षुद्विशान्तये ॥ २.५.४७ ॥
तृतीयां षोडशीं वच्मि वैनतेय शृणुष्व ताम्
द्वादश प्रतिमास्यानि आद्यं षाण्मासिकं तथा ॥ २.५.४८ ॥
सपिण्डीकरणं चैव तृतीया षोडशी मता
द्वादशाहे त्रिपक्षे च षण्मासे मासिकेऽब्दिके ॥ २.५.४९ ॥
तृतीयां षोडशीमेनां वदन्ति मतभेदतः
यस्यैता नि न दत्तानि प्रेतश्राद्धानि षोडश ॥ २.५.५० ॥
पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि
एकादशे द्वादशे वा दिने आद्यं प्रकीर्तितम् ॥ २.५.५१ ॥
मासादौ प्रतिमासञ्च शुद्धं मृततिथौ खग
एकेनाह्ना त्रिभिर्वापि हीनेषु विनतासुत ॥ २.५.५२ ॥
मासषण्मासवर्षेषु त्रिपक्षेषु भवन्ति हि
श्राद्धान्यथस्यात्सापिण्ड्यं पूर्णे वर्षे तदर्धके ॥ २.५.५३ ॥
त्रिपक्षेऽभ्युदये वापि द्वादशाहेऽथ वा नृणाम्
आनन्त्यात्कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् ॥ २.५.५४ ॥
अस्थिरत्वाच्छरीरस्य द्वादशाहे प्रशस्यते
सपिण्डीकरणेष्वेवं विधिं पक्षीन्द्र मे शृणु ॥ २.५.५५ ॥
एकोद्दिष्टविधानेन कार्यं तदपि काश्यप
तिलगन्धोदकैर्युक्तं कुर्यात्पात्रचतुष्टयम् ॥ २.५.५६ ॥
पात्रं प्रेतस्य तत्रैकं पित्र्यं पात्रत्रयं तथा
सेचयेत्पितृपात्रेषु प्रेतपात्रं खग त्रिषु ॥ २.५.५७ ॥
चतुरो निर्वपेत्पिण्डान्पूर्वन्तेषु समापयेत्
ततः प्रभृति वै प्रेतः पितृसामान्यमश्नुते ॥ २.५.५८ ॥
ततः पितृत्वमापन्ने तस्मिन्प्रेते खगेश्वर
श्राद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयेत्पितॄन् ॥ २.५.५९ ॥
एकचित्यारोहणे च एकाह्नि मरणे तथा
सापिण्ड्यन्तु स्त्रिया नास्ति मृते भर्तुः स्त्रियो भवेत् ॥ २.५.६० ॥
पाकैक्यमथ कालैक्यं कर्त्रैक्यञ्च भवेत्खग
श्राद्धादौ सह दाहे च पतिपत्न्योर्न संशयः ॥ २.५.६१ ॥
भर्तुर्मृततिथेरन्यतिथौ चितिमथारुहेत्
तांमृताहनि तु सम्प्राप्ते पृथक्पिण्डेन योजयेत् ॥ २.५.६२ ॥
प्रत्यब्दञ्च युगपत्तु समापयेत् ॥ २.५.६३ ॥
यस्य संवत्सरादर्वाक्सपिण्डीकरणं भवेत्
मासिकञ्चोदकुम्भञ्च देयं तस्यापि वत्सरम् ॥ २.५.६४ ॥
नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश
एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥ २.५.६५ ॥
पितामहीभिः सापिण्ड्यं तथा मातामहैः सह
उक्तं भर्त्रापि सापिण्ड्यं स्त्रिया वेषयभेदतः ॥ २.५.६६ ॥
नवश्राद्धस्य ते कालं वक्ष्यामि शृणु काश्यप
मरणाह्नि मृतिस्थाने श्राद्धं पक्षिन्प्रकल्पयेत् ॥ २.५.६७ ॥
द्वितीयञ्च ततो मार्गे विश्रामो यत्र कारितः
ततः सञ्चयनस्थाने तृतीयं श्राद्धमुच्यते ॥ २.५.६८ ॥
पञ्चमे सप्तमे तद्वदष्टमे नवमे तथा
दशमैकादशे चैव नव श्राद्धानि वै खग ॥ २.५.६९ ॥
श्राद्धानि नव चैतानि तृतीया षोडशी स्मृता
एकोद्दिष्टविधानेन कार्याणि मनुजैस्तथा ॥ २.५.७० ॥
प्रथमेऽह्नि तृतीये वा पञ्चमे सप्तमे तथा
नवमैकादशे चैव नवश्राद्धं प्रकीर्तितम् ॥ २.५.७१ ॥
उच्यन्ते षडिमानीह नव स्युरपि यागेतः
उक्तानि ते मया तानि ऋषीणां मतभेदतः ॥ २.५.७२ ॥
रूढिपक्षो ममाभीष्टो योगः कैश्चिदिहेष्यते
आद्ये द्वितीये दातव्यस्तथैवैकं पवित्रकम् ॥ २.५.७३ ॥
प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु
प्रश्रस्तत्राभिरण्येति यजमानद्विजन्मना ॥ २.५.७४ ॥
अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा
एकोद्दिष्टं मे निबोध चेत्थमावत्सरं स्मृतम् ॥ २.५.७५ ॥
सपिण्डीकरणादूर्ध्वं यानि श्राद्धानि षोडश
एकोद्दिष्टविधानेन चरेद्वा पार्वणादृते ॥ २.५.७६ ॥
प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि
एकादशे द्वादशेऽह्नि प्रेतो भुङ्क्ते दिनद्वयम् ॥ २.५.७७ ॥
योषितः पुरुषस्यापि पिण्डं प्रेतेति निर्वपेत्
सापिण्ड्ये तु कृते तस्य प्रेतशब्दो निवर्तते ॥ २.५.७८ ॥
दीपदानं प्रकर्तव्यमावर्षन्तु गृहाद्बहिः
अन्नं दीपो जलं वस्त्रमन्यद्वादीयते च यत् ॥ २.५.७९ ॥
तृप्तिदं प्रेतशब्देन सपिण्डीकरणावधि
अब्दकृत्यं मयोक्तन्ते समासाद्विनतासुत ॥ २.५.८० ॥
वैवस्वतगृहे यानं यथा तत्तु निबोधमेः
त्रयोदशेऽह्नि श्रवणाकर्मणोनन्तरन्तु सः ॥ २.५.८१ ॥
त्वग्गृहीताहिवत्तार्क्ष्य गृहीतो यमकिङ्करैः
तस्मिन्मार्गे व्रजत्येको गृहीत इव मर्कटः ॥ २.५.८२ ॥
वाय्वग्रसारिवद्रूपं देहमन्यत्प्रपद्यते
तत्पिण्डजं पातनार्थमन्यत्तु पितृसम्भवम् ॥ २.५.८३ ॥
तत्प्रमाणवयोऽवस्थासंस्थानां प्रग्भवो यथा
षडशीति सहस्राणि योजनानां प्रमाणतः ॥ २.५.८४ ॥
अध्वान्तरालिको ज्ञेयो यममानुषलोकयोः
साधिकार्धक्रोशयुतं योजनानां शतद्वयम् ॥ २.५.८५ ॥
चत्वारिं शत्तथा सप्त प्रत्यहं याति तत्र सः
अष्टाचत्वारिंशता च त्रैंशता दिवसैरिति ॥ २.५.८६ ॥
वैवस्वतपुरं याति कृष्यमाणो यमानुगैः
एवं क्रमेण यातब्ये मार्गे पापरतैस्तु यत् ॥ २.५.८७ ॥
जायते सप्रपञ्चं तच्छृणु त्वमरुणानुज
त्रयोदशदिने दत्तः पाशैर्बद्ध्वातिदारुणैः ॥ २.५.८८ ॥
यमस्याङ्कुशहस्तो वै भृकुटीकुटिलाननः
दण्डप्रहारसम्भ्रान्तः कृष्यते दक्षिणां दिशम् ॥ २.५.८९ ॥
कुशकण्टकवल्मीकशङ्कुपाषाणकर्कशे
तथा प्रदीप्तज्वलने क्वचिच्छ्वभ्रशतोत्कटे ॥ २.५.९० ॥
प्रदीप्तादित्यतप्ते च दह्यमानः सदंशके
कृष्यते यमदूतैश्च शिवावन्नादभीषणैः ॥ २.५.९१ ॥
प्रयातिः दारुणे मार्गे पापकर्मा यमालये
कलेवरे दह्यमाने महान्तं क्षयमृच्छति ॥ २.५.९२ ॥
भक्ष्यमाणे तथैवाङ्गे भिद्यमाने च दारुणम्
छिद्यमाने चिरतरं जन्तुर्दुः खमवाप्नुते ॥ २.५.९३ ॥
स्वेन कर्मवि पाकेन देहान्तरगतोऽपि सन्
पुराणि षोडशामुष्मन्मार्गे तानि च मे शृणु ॥ २.५.९४ ॥
याम्यं सौरिपुरं नगेद्वभवनं गन्धर्वशैलागमौ क्रौञ्चं क्रूरपुरं विचित्रभवनं बह्वापदं दुः खदम्
नानाक्रन्दपुरं सुतप्तभवनं रौद्रं पयोवर्षणं शीताढ्यं बहुभीतिषोडशपुराण्येतान्यदृष्टनि ते ॥ २.५.९५ ॥
तत्र याम्य पुरं गच्छन्पुत्रपुत्रेति च ब्रुवन्
हाहेति क्रन्दते नित्यं स्वकृतं दुष्कृतं स्मरन् ॥ २.५.९६ ॥
अष्टादशोदिने तार्क्ष्य तत्पुर प्राप्नुयादसौ
पुष्पभद्रा नदी यत्र न्यग्रोधः प्रियदर्शनः ॥ २.५.९७ ॥
विश्रामेच्छां करोत्यत्र कारयन्ति न ते भटाः
क्षितौ दत्तं सुतैस्तस्य स्नेहाद्वा कृपया तथा ॥ २.५.९८ ॥
मासिकं पिण्डमश्नाति ततः सौरिपुरं व्रजेत्
व्रजन्नेवं प्रलपते मुद्गराहतिपीडितः ॥ २.५.९९ ॥
जलाशयो नैव कृतो मया तदा मनुष्यतृप्त्यै पशुपक्षितृप्तय
गोतृप्तिहेतोर्न च गोचरः कृतः शरीर हे निस्तर यत्त्वया कृतम् ॥ २.५.१०० ॥
तत्र नाम्ना तु राजासौ जङ्गमः कामरूपधृक्
भयात्तद्दर्शनाज्जाताद्भुङ्क्ते पिण्डं स शङ्कितः ॥ २.५.१०१ ॥
त्रिपक्षे जलसंयुक्तं क्षितौ दत्तं ततो व्रजेत्
व्रजन्नेवं प्रलपते खड्गाघातप्रपीडितः ॥ २.५.१०२ ॥
न नित्यदानं न गवाह्निकं कृतं पुस्तं च दत्तं न हि वेदशास्त्रयोः
पुराणदृष्टो न हि सेवितोऽध्वा शरीर हे निस्तर यत्त्वया कृतम् ॥ २.५.१०३ ॥
नगेन्द्रनगरं गत्वा भुक्त्वा चान्नं तथाविधम्
मासि द्वितीये यद्दत्तं बान्धवैस्तु ततो व्रजेत् ॥ २.५.१०४ ॥
व्रजन्नेवं प्रलपते कृपाणत्सरुताडितः
पराधानमभूत्सर्वंमम मूर्खशिरोमणेः ॥ २.५.१०५ ॥
महता पुण्ययोगेन मानुष्यं लब्धवानहम्
तृतीये मासि सम्प्राप्ते गन्धर्वनगरे शुभम् ॥ २.५.१०६ ॥
तृतीयमासिकं पिण्डं तत्र भुक्त्वा ब्रजत्यसौ
व्रजन्नेवं विलपते तदग्रेणाहतः पथि ॥ २.५.१०७ ॥
मया न दत्तं न हुतं हुताशने तपो न तप्तं हिमशैलगह्वरे
न सेवितं गाङ्गमहो महाजलं शरीर हे निस्तर यत्त्वया कृतम् ॥ २.५.१०८ ॥
तुर्ये शैलागमं मासि प्राप्नुयात्तत्र वर्षणम्
तस्योपरि भवेत्पक्षिन्पाषाणानां निरन्तरम् ॥ २.५.१०९ ॥
चतुर्थमासिकं श्राद्धं भुक्त्वा तत्र प्रसर्पति
स पतन्नेव विलपन्पाषाणाद्यतिपीडितः ॥ २.५.११० ॥
न ज्ञानमार्गो न च योगमार्गो न कर्ममार्गो न च भक्तिमार्गः
न साधुसङ्गात्किमपि श्रुतं मया शरीर हे निस्तर यत्त्वया कृतम् ॥ २.५.१११ ॥
ततः क्रूरपुर मासि पञ्चमे याति काश्यप
भुवि दत्तं पिण्डजलं भुक्त्वा क्रूरपुरं व्रजेत् ॥ २.५.११२ ॥
व्रजन्नेवं विलपते पट्टिशैः पातितः पथि
हा मातर्हापितर्भ्रातः सुता हा हा मम स्त्रियः ॥ २.५.११३ ॥
युष्माभिर्नोपदिष्टोऽहमवस्थां प्राप्त ईदृशीम्
एवं लालप्यमानं ते यमदूता वदन्तिहि ॥ २.५.११४ ॥
क्व माता क्व पिता मूढ क्व जाया क्व सुतः सुहृत्
स्वकर्मोपार्जिते भुङ्क्ष्वं मूर्ख याताश्चिरं पथि ॥ २.५.११५ ॥
जानासि शम्बलमलं बलमध्वगानां नोऽशम्बलः प्रयतते परलोकगत्यै
गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण येन न भवेत्क्रयविक्रयोऽपि ॥ २.५.११६ ॥
ऊनषाण्मासिके क्रौञ्चे भुक्त्वा पिण्डन्तु सोदकम्
घटीमात्रन्तु विश्रम्य विचित्रनगरं व्रजेत् ॥ २.५.११७ ॥
व्रजन्नेवं विलपते शूलाग्रेण विदारितः ॥ २.५.११८ ॥
कुत्र यामि न हि गामि जीवितं हा मृतस्य मरणं पुनर्न वै
इत्थमेव विलपन् प्रयात्यसौ यातनार्हधृतविग्रहः पति ॥ २.५.११९ ॥
विचित्रनगरे तत्र विचित्रो नाम पारिथिवः
तत्र षण्मासपिण्डेन तृप्तः सन् व्रजते पुरः ॥ २.५.१२० ॥
व्रजन्नेवं विलपते प्रासाग्रेण प्रपीडितः ॥ २.५.१२१ ॥
माता भ्राता पिता पुत्रः कोऽपि मे वर्तते न वा
यो मामुद्धरते पापं पतन्तं दुः खसागरे ॥ २.५.१२२ ॥
व्रजतस्तत्र मार्गे तु तत्र वैतरणी शुभा
शतयोजनविस्तीर्णा पूयशोणितसंकुला ॥ २.५.१२३ ॥
आयाति तत्र दृश्यन्ते नाविका धीवरादयः
ते वदन्ति प्रदत्ता गौर्यदि वैतरणी त्वया
नावमेनां समारोह सुकेनोत्तर वै नदीम् ॥ २.५.१२४ ॥
तत्र येन प्रदत्ता गौः स सुखेनैव तां तरेत्
अदायी तत्र घृष्येत करग्राहन्तु नाविकैः ॥ २.५.१२५ ॥
उखैः काकैर्बकोलूकैस्तीक्ष्णतुण्डैर्वितुद्यते
मनुजानां हितं दानमन्ते वैतरणी खग ॥ २.५.१२६ ॥
दत्ता पापं दहेत्सर्वं मम लोकन्तु सा नयेत्
मप्तमे मासि सम्प्राप्ते पुरं बह्वापदं मृतः ॥ २.५.१२७ ॥
व्रजेत्तु सोदकं भुक्त्वा पिण्डं वै सप्तमासिकम्
व्रजन्नेवं विलपते परिघाहतिपीडितः ॥ २.५.१२८ ॥
न दत्तं न हुतं तप्तं न स्नातं न कृतं हितम्
यादृशं चरितं कर्म मूढात्मन् भुङ्क्ष्व तादृशम् ॥ २.५.१२९ ॥
मास्यष्टमे दुः खदे तु परे भुक्त्वाथ सोदकम्
पिण्डं प्रयात्सयौ तार्क्ष्य नानाक्रन्दपुरं ततः ॥ २.५.१३० ॥
प्रयाणे च प्रवदते मुसलाघातपीडितः
क्व जायाचटुलैश्चाटुपटुभिर्वचनैर्मम ॥ २.५.१३१ ॥
भोजनं भल्लभल्लीभिर्मुसलैश्च क्व मारणम्
नवमे मासि दत्तं वै नानाक्रन्दपुरे ततः ॥ २.५.१३२ ॥
पिण्डमश्राति करुणं नानाक्रन्दान् करोत्यपि
दशमे मासि दत्तं वै सुतप्तभवनं ततः ॥ २.५.१३३ ॥
सरन्नेवं विलपते हलाहतिहतः पथि
क्व सूनुपेशलकरैः पादसंवाहनं मम ॥ २.५.१३४ ॥
क्व दूतवज्रप्रतिमकैर्मत्पदकर्षणम्
दशमे मासि पिण्डादि तत्र भुक्त्वा प्रसर्पति ॥ २.५.१३५ ॥
मासे चैकादशे पूर्णे पुरं रौद्रं स गच्छति
गच्छन्नेव विलपते यथा पृष्ठे प्रपीडितः ॥ २.५.१३६ ॥
क्वाहं सतूलीशयने परिवर्तन् क्षणे क्षणे
भटहस्तभ्रष्टयष्टिकृष्टपृष्ठः क्व वा पुनः ॥ २.५.१३७ ॥
क्षितौ दत्तञ्च पिण्डादि भुक्त्वा तत्र ततो व्रजेत्
पयोवर्षणमित्येतन्नामकं पुरमण्डज ॥ २.५.१३८ ॥
व्रजन्नेवं विलपते कुठारैर्मूर्ध्नि ताडितः
क्व भृत्यकोमलकरैर्गन्धतैलावसेचनम् ॥ २.५.१३९ ॥
क्व कीनाशानुगैः क्रोधात्कुठारैः शिरसि व्यथा
ऊनाब्दिकञ्च यच्छ्राद्धं तत्र भुङ्क्ते सुदुः खितः ॥ २.५.१४० ॥
संपूर्णे तु ततो वर्षे शीताढ्यं नगरं व्रजेत्
गच्छन्नेवं छुरिकया च्छिन्नजिह्वस्तु रोदिति ॥ २.५.१४१ ॥
प्रियालापैः क्व च ससमधुरत्वस्य वर्णनम्
उक्तमात्रेऽसिपत्रादिजिह्वाच्छेदः क्व चैव हि ॥ २.५.१४२ ॥
वार्षिकं पिण्डदानादि भुक्त्वा तत्र प्रसर्पति
बहुभीतिकरं तत्तत्पिण्डजं देवमास्थितः ॥ २.५.१४३ ॥
प्रकाशयति पाप्पानमात्मानञ्च विनिन्दति
योषिदप्येवमेतस्मिन्मार्गे वै परिदेवति ॥ २.५.१४४ ॥
ततो याम्यं नातिदूरे नगरं स हि गच्छति
चत्वारिंशद्योजनानि चतुर्युक्तानिविस्तृतम् ॥ २.५.१४५ ॥
त्रयोदश प्रतीहाराः श्रवणा नाम तत्र वै
श्रवणाकर्मतस्तुष्यन्त्यन्यथा क्रोधमाप्नुयुः ॥ २.५.१४६ ॥
ततस्तत्राशु रक्ताक्षं भिन्नाञ्जनचयोपमम्
मृत्युकालान्तकादीनां मध्ये पश्यति वै यमम् ॥ २.५.१४७ ॥
दंष्ट्राकरालवदनं भृकुटीदारुणाकृतिम्
विरूपैर्भोषणैर्वक्त्रैर्वृतं व्याधिशतैः प्रभुम् ॥ २.५.१४८ ॥
दण्डासक्तमहाबाहुं पाशहस्तं सुभैरवम्
तन्निर्दिष्टां ततो जन्तुर्गतिं याति शुभाशुभाम् ॥ २.५.१४९ ॥
पापी पापां गतिं याति यथा ते कथितं पुरा
छत्रोपानहदातारो ये च वेश्मप्रदायकाः ॥ २.५.१५० ॥
ये तु पुण्यकृतस्तत्र ते पश्यन्ति यमं तदा
सौम्याकृतिं कुण्डलिनं मौलिमन्तं धृतश्रियम् ॥ २.५.१५१ ॥
एकादशे द्वादशे हि षण्मासे आब्दिके तथा
विप्रान् बहून् भोजयेत्तत्र यन्महती क्षुधा ॥ २.५.१५२ ॥
जीवन् पुत्रकलत्रादिप्रदिष्टमितरैः खग
यो न साधयति स्वार्थमेवं पश्चाद्धिखिद्यते ॥ २.५.१५३ ॥
एतत्ते सर्वमाख्यातं संयमिन्यां यथागति
प्रोक्तमावर्षकृत्यं ते किमन्यच्छ्रोतुमिच्छसि ॥ २.५.१५४ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे वर्षकृत्ययमलोकमार्गयातनादिनिरूपणं नाम पञ्चमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६
गरुड उवाच
अपि साधनयुक्तस्य तीर्थदानरतस्य च
अकृते तु वृषोत्सर्गे परलोकगतिर्न हि ॥ २.६.१ ॥
तस्मात्कृष्ण वृषोत्सर्गः कर्तव्य इति मे श्रुतम्
किं फलं वृषयज्ञस्य पुरा केन कृतो हरे ॥ २.६.२ ॥
अनड्वान् कीदृशः प्रोक्तः कस्मिन् काले विशेषतः
को विधिस्तस्य निर्दिष्टः सर्वं मे कृपया वद ॥ २.६.३ ॥
श्रीकृष्ण उवाच
इतिहासं महापुण्यं प्रवक्ष्यामि खगेश्वर
ब्रह्मपुत्रेण यत्प्रोक्तं राजानं वीरवाहनम् ॥ २.६.४ ॥
विराधनगरे राजा वीरवाहननामकः
धर्मात्मा सत्यसन्धश्च वदान्यो विप्रतुष्टिकृत् ॥ २.६.५ ॥
स कदाचिद्वनं वीरो महात्माखेटकं गतः
किञ्चित्प्रष्टुमनास्तार्क्ष्य वसिष्ठस्याश्रमं ययौ ॥ २.६.६ ॥
नमस्कृत्य मुनिं तत्र कृतासनपरिग्रहः
पश्रयावनतो राजा पप्रच्छ ऋषिसंसदि ॥ २.६.७ ॥
राजोवाच
मुने मया कृतो धर्मो यथाशक्ति प्रयत्नतः
यमस्य शासनं श्रुत्वा बिभेमि नितरां हृदि ॥ २.६.८ ॥
यमञ्च यमदूतांश्च निरयान् घोरदर्शनान्
न पश्यामि महाभाग तथा वद दयानिधे ॥ २.६.९ ॥
वसिष्ठ उवाच
धर्मा बहुविधा राजन् वर्ण्यन्ते शास्त्रकोविदैः
सूक्ष्मत्वान्न विजानन्ति कर्ममार्गविमोहिताः ॥ २.६.१० ॥
दानं तीर्थं तपो यज्ञाः संन्यासः पैतृको महः
धर्मेषु गृह्यमाणेषु वृषोत्सर्गो विशेषितः ॥ २.६.११ ॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ २.६.१२ ॥
ब्रह्महत्यादिपापानि ज्ञानाज्ञानकृतानि च
नीलोद्वाहेन शुध्येत्तु समुद्रप्लवनेन वा ॥ २.६.१३ ॥
एकादशाहे राजेन्द्र यस्य नोत्सूज्यते वृषः
प्रेतत्वं निश्चलं तस्य कृतैः श्राद्धैस्तु किं भवेत् ॥ २.६.१४ ॥
यथाकथञ्चित्कर्तव्यस्तीर्थे वा पत्तनेऽथ वा
वृषयज्ञैः प्रमुच्यते नान्यथा साधनैः खग ॥ २.६.१५ ॥
वृषभं पञ्चकल्याणं युवानं कृष्णकंबलम्
गोयूथमध्ये नितरां विचरन्तं विधानतः ॥ २.६.१६ ॥
चतसृभिर्वत्सकाभिर्द्वाभ्याञ्चैवैकया खग
विवाह्य मङ्गलद्रव्यैर्मन्त्रवत्तं समुत्सृजेत् ॥ २.६.१७ ॥
इह रतीति षडृग्भिर्हेमं कुर्याद्विभावसोः
कार्तिक्यां माघवैशाख्यां संक्रमे पातपर्वसु ॥ २.६.१८ ॥
तीर्थे पित्र्येक्षयाहे च विशेषेण प्रशस्यते
लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ॥ २.६.१९ ॥
पीतः खुरविषाणेषु स नीलो वृष उच्यते
श्वेतवर्णो भवेद्विप्रो लोहितः क्षत्त्र उच्यते ॥ २.६.२० ॥
पीतवर्णो भवेद्वैश्यः शूद्रः कृष्णः स्मृतो बुधैः
यथावर्णं समुद्दिष्टो वर्णेषु ब्राह्मणादिषु ॥ २.६.२१ ॥
अथ वा रक्तवर्णस्तु सर्वेषामेव शस्यते
पिता पितामहश्चैव तथैव प्रपितामहः ॥ २.६.२२ ॥
आशासते सुतं जातं वृषोत्सर्गं करिष्यति
धर्मस्त्वं वृषरूपेण जगदानन्ददायकः ॥ २.६.२३ ॥
अष्टमूर्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे
गङ्गायमुनयोः पेयमन्तर्वेदि तृणं चर ॥ २.६.२४ ॥
धर्मराजस्य पुरतो वाच्यं मे सुकृतं वृष
दक्षिणांसे त्रिशूलाङ्कं वामोरौ चक्रचिह्नितम् ॥ २.६.२५ ॥
इति संप्रार्थ्य वृषभं गन्धपुष्पाक्षतादिभिः
वृषं तत्सतरीयुक्तं पूजयित्वा समुत्सृजेत् ॥ २.६.२६ ॥
तस्माद्राजन् विधानेन वृषोत्सर्गं समाचर
बहुसाधनयुक्तस्य नान्यथा सद्गतिस्तव ॥ २.६.२७ ॥
आसीत्त्रेतायुगे पूर्वं विदेहनगरे नृप
ब्राह्मणो धर्मवत्सेति स्वकर्मनिरतः सुधीः ॥ २.६.२८ ॥
विष्णुभक्तोऽतितेजस्वी यथालाभेन तुष्टिकृत्
पितृपर्वणि संप्राप्ते कुशार्यो काननं ययौ ॥ २.६.२९ ॥
अटन्नितस्ततस्तत्र चिन्वन् कुशपलाशकम्
सहसोपेत्य पुरुषाश्चात्वारश्चारुदर्शनाः ॥ २.६.३० ॥
विभ्रान्तमनसं गृह्य प्रत्यग्जग्मुर्विहायसा
बहुवृक्षसमाकीर्णं गिरिदुर्गभयानकम् ॥ २.६.३१ ॥
वनाद्वनान्तरं निन्युर्नदीनदसमाकुलम्
स तत्र नगरं राजन् ददर्श बहुविस्तरम् ॥ २.६.३२ ॥
गोपुरद्वाररचितं सौधप्रासादमण्डितम्
चत्वरापणपण्यादिनरनारीसमाकुलम् ॥ २.६.३३ ॥
तूर्यद्वन्द्वाभिनिर्घोषवीणापटहनादितम्
कांश्चित्क्षुधार्दितान्दीनान्मलिनान्विगतौजसः ॥ २.६.३४ ॥
ततोऽतितुष्टान्मलिनान्वस्त्रखण्डसमावृतान्
अग्रतो हृष्टपुष्टांश्च स्वर्णवस्त्रोपशोभितान् ॥ २.६.३५ ॥
ततोऽपि सुरसंकाशान्स दृष्ट्वा विस्मितोऽभवत्
किं स्वप्न उत माया वै मदीयो मानसो भ्रमः ॥ २.६.३६ ॥
सन्दिहानं द्विजं निन्युः पुरुषा राजसन्निधिम्
सतद्ददर्श विप्रस्तु स्वर्णप्रासादमन्दिरे ॥ २.६.३७ ॥
सिंहासनंमहादिव्यं छत्रचामरवीजितम्
तत्रोप विष्टं राजानं किरीटकनकोज्ज्वलम् ॥ २.६.३८ ॥
महत्या च श्रिया युक्तं स्तूयमानं सुवन्दिभिः
राजापि दृष्ट्वा तं विप्रं प्रत्युत्थाय कृताञ्जलिः ॥ २.६.३९ ॥
पूजयामास विधिवन्मधुपर्कास नादिभिः
सन्तुष्टमनसं देवमस्तौषीत्परया मुदा ॥ २.६.४० ॥
अद्य मे सफलं जन्म पावितञ्च कुलं प्रभो
विष्णुभक्तस्य धर्मस्य यत्ते दृग्गोचरं गतः ॥ २.६.४१ ॥
नत्वा स्तुत्वा बहुविधमुवाचानुवसन्नृपः
यतः समागतो देवः पुनस्तत्रैव नीयताम् ॥ २.६.४२ ॥
इति श्रुत्वा वचो राज्ञः पप्रच्छ द्विजपुङ्गवः
ब्राह्मण उवाच
कोऽयं देश कुतो लोका उत्तमा मध्यमाधमाः ॥ २.६.४३ ॥
केन पुण्येन तु भवान्पारमेष्ट्यविभूषितः
किमर्थमहमानीतः पुनस्तत्रैव नीयते ॥ २.६.४४ ॥
अपूर्वमिव पश्यामि सर्वं स्वप्नगतो यथा
राजोवाच
स्वधर्मनिरतो यस्तु हरिभक्तिरतः सदा ॥ २.६.४५ ॥
विरक्त इन्द्रियार्थेभ्यः स मे पूज्यो न संशयः
तीर्थयात्रापरो नित्यं वृषोत्सर्गविशेषवित् ॥ २.६.४६ ॥
सत्यदानपरो यस्तु स नमस्यो दिवौकसाम्
दर्शनार्थमिहानीतः पूजार्हश्च परन्तप ॥ २.६.४७ ॥
अनुगृहाण मां देव क्षमस्व मम साहसम्
इत्युक्त्वा दर्शयामास मन्त्रिणां संज्ञया भ्रुवः ॥ २.६.४८ ॥
वदिष्यति समग्रं ते स्वयं वक्तुं न साम्प्रतम्
सामन्तः सर्ववेदज्ञो ज्ञात्वा हार्दं नृपस्य च ॥ २.६.४९ ॥
विपश्चिदुवाच
पूर्वजन्मनि वैश्योऽयं विश्वम्भर इति श्रुतः
विराधनगरे विप्र द्विजदेवविभूषिते ॥ २.६.५० ॥
वैश्यवृत्त्या सदा जीवन्कुटुम्बपरिपालकः
गवां शुश्रूषको नित्यं ब्राह्मणानाञ्च पूजकः ॥ २.६.५१ ॥
पात्रदानपरो नित्यमातिथेयाग्निसेवकः
गार्हस्थ्यं विधिवच्चक्रे भार्यया सत्यमेधया ॥ २.६.५२ ॥
स्मार्तेन लोकानजयच्छ्रौतेन त हविर्भुजः
कदाचिद्बन्धुभिः साकं कृत्वा तीर्थानि भूरिशः ॥ २.६.५३ ॥
यावदायाति सदनं दृष्टवाल्लोंमशं पथि
दण्डवत्प्रणिपत्याशु कृताञ्जलिपुटं स्थितम् ॥ २.६.५४ ॥
पप्रच्छ विनयोपेतं करुणावारिवारिधिः
ऋषिरुवाच
कुत आगम्यते साधो ब्राह्मणैर्बन्धुभिर्युतः ॥ २.६.५५ ॥
दृष्ट्वा त्वां धर्मनिलयं प्रक्लिन्नं मानसं मम
विश्वम्भर उवाच
शीर्यमाणं शरीरं हि ज्ञात्वा मृत्युं पुरः स्थितम् ॥ २.६.५६ ॥
भर्यया धर्मचारिण्या तीर्थयात्रां विनिर्गतः
कृत्वा तीर्थानि विधिवद्विश्राण्य विपुलं वसु ॥ २.६.५७ ॥
यावद्ब्रजाम्यहं वेश्म भवान् दृष्टिपथं गतः
लोमश उवाच
तीर्थानि सन्ति भूरीणि वर्षैऽस्मिन् भारते शुभे ॥ २.६.५८ ॥
यत्त्वया ह्युपचीर्णानि तानि सर्वाणि मे वद
वैश्य उवाच
गङ्गा च सूर्य तनया महापुण्या सरस्वती ॥ २.६.५९ ॥
दशाश्वमेधैरयजद्यत्र ब्रह्मा सुरेश्वरः
तीर्थराजस्ततः काशी महादेवो दयानिधिः ॥ २.६.६० ॥
मृतानां यत्र जन्तूनां कर्णे जपति तारकम्
पुलहस्याश्रमं पुण्यं फल्गुतीर्थञ्च गण्डकी ॥ २.६.६१ ॥
चक्रतीर्थं नैमिषञ्च शिवतीर्थमनन्तकम्
गोप्रतारकनागेशमयोध्याबिन्दुसंज्ञितम् ॥ २.६.६२ ॥
यत्रास्त मुक्तिदः साक्षाद्रामो राजीवलोचनः
आग्नेयं वायुकौबेरं कौमारं भूरुहां पुनः ॥ २.६.६३ ॥
सौकरं मथुरा यत्र नित्यं सन्निहतो हरिः
पुष्करं सत्यतीर्थञ्च ज्वालतीर्थं दिनेश्वरम् ॥ २.६.६४ ॥
इन्द्रतीर्थं कुरुक्षेत्रं यत्र प्राची सरस्वती
तापी पयोष्णी निर्विन्ध्या मलयः कृष्णवेणिका ॥ २.६.६५ ॥
गोदावरी दण्डकञ्च ताम्रचूडं सदोदकम्
द्यावाभूमीश्वरं दृष्ट्वा श्रीशैलः पर्वतेश्वरः ॥ २.६.६६ ॥
असंख्यलिङ्गतीर्थानि यत्र सन्ति सदा मुने
वेङ्कटाद्रौ महातेजाः श्रीरङ्गाख्यः स्वयं हरिः ॥ २.६.६७ ॥
वेङ्कटी नाम तत्रैव देवी महिषमर्दिनी
चन्द्रतीर्थं भद्रवटः कावेरीकुटिलाचलौ ॥ २.६.६८ ॥
अवटोदा ताम्रपर्णो त्रिकृटः कोल्लको गिरिः
वासिष्ठं ब्रह्मतीर्थञ्च ज्ञानतीर्थं महोदधिः ॥ २.६.६९ ॥
हृषीकेशं विराजञ्च विशालं नीलपर्वतः
भीमकूटः श्वेतगिरी रुद्रतीर्थमुमावनम् ॥ २.६.७० ॥
अवाप गिरिजा देवी तपसा यत्र शङ्करम्
वारुणं सूर्यतीर्थञ्च हंसतीर्थं महोदयम् ॥ २.६.७१ ॥
निमज्ज्य यत्र काकोला राजहंसत्वमाययुः
असुरो यत्र देवत्वमवाप स्नानमात्रतः ॥ २.६.७२ ॥
विश्वरूपं वन्दितीर्थं रत्नेशः कुहकाचलः
नरनारायणं दृष्ट्वा मुच्यते पापकोटिभिः ॥ २.६.७३ ॥
सरस्वतीदृषद्वत्यौ नर्मदा शर्मदा नृणाम्
नीलकण्ठं महाकालं पुण्यं चामरकण्टकम् ॥ २.६.७४ ॥
चन्द्रभागा वेत्रवती वीरभद्रं गणेश्वरम्
गोकर्णं बिल्वतीर्थञ्च कर्मकुण्डं सतारकम् ॥ २.६.७५ ॥
स्नानमात्रेण यत्राशु मुच्यते कर्मबन्धनात्
अन्यान्यपि च तीर्थानि कृतानि कृपया तव ॥ २.६.७६ ॥
उत्पद्यते शुभा बुद्धिः साधूनां यदनुग्रहः
एकतः सर्वतीर्थानि करुणाः साधवोऽन्यतः ॥ २.६.७७ ॥
अनुग्रहाय भूतानां चरन्ति चरितव्रताः
त्वं गुरुः सर्वर्णानां विद्यया वयसाधिकः ॥ २.६.७८ ॥
अतः पृच्छाम्यहं किञ्चिदाधिभूतं चिरन्तनम्
किं कुर्यां कं नु पृच्छेऽहं मनो मेऽतिचलं मुने ॥ २.६.७९ ॥
निः स्पृहं ब्रह्मविषये विषयेष्वतिलालसम्
मनागपि न सहते विरहं तिमिरं ब्रुवत् ॥ २.६.८० ॥
मोहितं विविधैर्भावैः कर्मणां क्षेत्रमुत्तमम्
शान्तिं यथा समायाति सम्पन्नमिव भूसुर ॥ २.६.८१ ॥
विवेकप्रवणं शुद्धं यथा स्यात्कृपया वद
ऋषिरुवाच
मनस्तु प्रबलं नित्यं सविकारं स्वभावतः ॥ २.६.८२ ॥
वशं नयन्ति करिणं प्रमत्तमपि हस्तिपाः
तथापि साधुसङ्गत्या साधनैरप्यतन्द्रितः ॥ २.६.८३ ॥
तीव्रेण भक्तियोगेन विचारेण वशं नयेत्
इतिहासं प्रवक्ष्यामि तव प्रत्ययकारकम् ॥ २.६.८४ ॥
नारदोऽकथयन्मह्यं स्ववृत्तगतजन्मनः
नारद उवाच
कस्यचिद्द्विजमुख्यस्य दासीपुत्त्रः पुरा मुने ॥ २.६.८५ ॥
शिक्षितो बालभावेऽपि पाठितो नितरामहम्
तत्रापि सङ्गतिर्जाता महतां पुण्यकर्मणाम् ॥ २.६.८६ ॥
प्रावृट्काले मम गृहे स्थितानां भाग्ययोगतः
शुश्रूषणानुवृत्त्या च प्रश्रयेण दमेन च ॥ २.६.८७ ॥
सन्तोषं परमं प्राप्य कृपया त्विदमब्रुवन्
मनीषा निर्मला येन जाता मम शुभार्थिनी ॥ २.६.८८ ॥
यया विष्णुमयं सर्वम्त्मन्येव ददृशिवान्
मुनय ऊचुः
शृणु वत्स प्रवक्ष्या मो हिताय तव बालक ॥ २.६.८९ ॥
येन वै ध्रियमाणेन इहामुत्र सुखं भवेत्
देवतिर्यङ्मनुष्याश्च संसारे विविधा जनाः ॥ २.६.९० ॥
निबद्धाः कर्मपशैस्ते भुञ्जन् भोगान् पृथग्विधान्
देवत्वं याति सत्त्वेन रजसा च मनुष्यताम् ॥ २.६.९१ ॥
तिर्यक्त्वं तमसा जन्तुर्वासनानुगतोऽबुधः
मातुर्लब्ध्वा पुनर्जन्म म्रियते च पुनः पुनः ॥ २.६.९२ ॥
एवं गत्वा ह्यसंख्याता योनीस्ताः कर्मभूरपि
मानुष्यं दुर्लभं लब्ध्वा कदाचिद्दैवयोगतः ॥ २.६.९३ ॥
अनुग्रहेण महतां हरिं ज्ञात्वा विमुच्यते
रोगग्राहं मोहजालमपारं भवसागरम् ॥ २.६.९४ ॥
न पश्यामि तितीर्षोरन्यद्रामस्मरणं विना
नवनीयं यथा दध्नो ज्योतिः काष्ठादपि क्वचित् ॥ २.६.९५ ॥
मन्थनैः साधनैरेवं परं ज्ञात्वा सुखी भवेत्
आत्मा नित्योऽव्ययः सत्यः सर्वगः सर्वभृन्महान् ॥ २.६.९६ ॥
अप्रमेयः स्वयञ्ज्योतिरग्राह्यो मनसापि यः
सच्चिदानन्दरूपोऽसौ सर्वप्राणिहृदि स्थितः ॥ २.६.९७ ॥
विनश्यत्स्वपि भावेषु न विनश्यति कर्हिचित्
आकाशः सर्वभूतेषु स्थितस्तेजोजले तथा ॥ २.६.९८ ॥
आत्मा सर्वत्र निर्लेपः पार्थिवेषु यथानिलः
भक्तानुकम्पी भगवान् साधूनां रक्षणाय च ॥ २.६.९९ ॥
आविर्भवति लोकेषुगुणीवाज्ञैः प्रतीयते
एवंविवेकत्वया यो बुद्ध्या संशीलयेद्धृदि ॥ २.६.१०० ॥
भक्तियोगेन सन्तुष्ट आत्मानं दर्शयेदजः
ततः कृतार्थो भवति सदा सर्वत्र निः स्पृहः ॥ २.६.१०१ ॥
अतोऽहङ्कारमुत्सृज्य सानुबन्धे कलेवरे
चरेदसंगो लोकेषु स्वप्नप्रायेषु निर्ममः ॥ २.६.१०२ ॥
क्व स्वप्ने नियतं धैर्यमिन्द्रजाले क्व सत्यता
क्व नित्यता शरन्मेघे क्व वा सत्यं कलेवरे ॥ २.६.१०३ ॥
अविद्याकर्मजनितं दृश्यमानं चरा चरम्
ज्ञात्वाचारवशी योगी ततः सिद्धिमवाप्स्यसि ॥ २.६.१०४ ॥
इत्युक्त्वा ते गताः सर्वे साधवो दीनवत्सलाः
सोऽहं तदुक्तमार्गेण तथैवाचरमन्वहम् ॥ २.६.१०५ ॥
ततोऽचिरेणात्मनीदं दृष्टवानहमद्भुतम्
ज्योतिर्मयं सदानन्दं शरच्छीतांशुनिर्मलम् ॥ २.६.१०६ ॥
निषिच्य सुखसन्दोहैर्मां कृत्वाधिकसस्पृहम्
अन्तर्हितं महतेजो यथा सौदामिनी दिवि ॥ २.६.१०७ ॥
भक्त्या तदेव मनसि भावयन्नहमद्भुतम्
काले कलेवरं त्यक्त्वा गतवान् हरिमव्ययम् ॥ २.६.१०८ ॥
तस्येच्छया पुनर्ब्रह्मन् ब्रह्मणो मेऽभवज्जनिः
अनुग्रहाद्भगवतस्त्रिषु लोकेषु निः स्पृहः ॥ २.६.१०९ ॥
आपीडयन्मुहुर्वोणां गायमानश्चराम्यहम्
इत्युक्त्वा मे स्वानुभवं ययौ यादृच्छिको मुनिः ॥ २.६.११० ॥
ममापि परमाश्चर्यं सन्तोषश्च महानभूत्
अतस्ते साधुसङ्गत्या भक्त्या च परमात्मनः ॥ २.६.१११ ॥
विशुद्धं निर्मलं शान्तं मनो निर्वृतिमेष्यति
अनेकजन्मजनितं पातकं साधुसंगमे ॥ २.६.११२ ॥
क्षिप्रं नश्यति धर्मज्ञ जलानां शरदो यथा
वैश्य उवाच
पीत्वा ते वाक्यपीयूषं स्वान्तं मे शान्तिमागमत् ॥ २.६.११३ ॥
सर्वतीर्थफलं मेऽध्य सञ्जातं तव दर्शनात्
इति श्रुत्वा वचस्तस्य प्रोवाच ऋपिसत्तमः ॥ २.६.११४ ॥
लोमश उवाच
हिताय तव राजेन्द्र त्रिवर्गफलमिच्छतः
यत्त्वया सुकृतं भूरिवृषोत्सर्गं विना कृतम् ॥ २.६.११५ ॥
मन्येऽकिञ्चत्करं सर्वं नीहारसलिलं यथा
वृषोत्सर्गसमं किञ्चित्साधनं न महीतले ॥ २.६.११६ ॥
अनायासेन गच्छन्ति गतिं ते पुण्यकर्मणाम्
वृषोत्सर्गः कृतो येन अश्वमेधस्य याजकः ॥ २.६.११७ ॥
उभौ समौ मया दृष्टौ दिव्यौ तौ शक्रसन्निधौ
अतस्त्वं पुष्करं गत्वा वृषोत्सर्गं विधाय च ॥ २.६.११८ ॥
ततो याहि गृहं साधो येन सर्वं कृतं भवेत्
विपश्चिदुवाच
ततः स पुनरागत्य कार्तिक्यां पुष्करे वरे ॥ २.६.११९ ॥
वराहरूपी भगवान् यत्रास्ते यज्ञपूरकः
चकार विधिवत्सर्वं युद्कमृषिसत्तमैः ॥ २.६.१२० ॥
गतानि बहुतीर्थानि ततो लोमशसंगतिः
ततोऽधिकतरं जातं पुण्यं नीलविवाहजम् ॥ २.६.१२१ ॥
सभुक्त्वा विषयान् दिव्यान् विमानवरमाश्रितः
तेन राजकुले जन्म वीरसेनस्य धर्मतः ॥ २.६.१२२ ॥
वीरपञ्चाननाख्यातञ्चतुर्वर्गैकसाधकम्
प्रकुर्वतो वृषोत्सर्गं तत्र ये परिचारकाः ॥ २.६.१२३ ॥
दिव्यरूपाभवन् स्पृष्टा गोपुच्छोदकशीकरैः
सुरूपाः पुष्टवपुषः पश्यन्तो दूरसंस्थिताः ॥ २.६.१२४ ॥
ततो दूरतरा ये च दृश्यन्ते मलिना जनाः
दुर्भगा मलिना रूक्षाः कृशा विगतवाससः ॥ २.६.१२५ ॥
वृषयज्ञमपश्यन्तो ये चासूयां प्रकुर्वते
सर्वं निवेदितं राज्ञश्चरितं पूर्वजन्मनः ॥ २.६.१२६ ॥
धर्म्यं विचित्रमाख्यानं श्रुतं मे यत्पराशरात्
अतस्त्वं स्वगृहं गच्छ कृपां कृत्वा ममोपरि ॥ २.६.१२७ ॥
श्रुत्वा विपश्चिद्वाक्यं स विस्मयं परमं गतः
गृहं जगाम विप्रोऽसौ प्रापितो राजसेवकैः ॥ २.६.१२८ ॥
वसिष्ठ उवाच
तस्माद्राजन् वृषोत्सर्गं वरिष्ठं सर्वकर्मणाम्
समाचर विधानेन यदि भीतो यमादपि ॥ २.६.१२९ ॥
वृषोत्सर्गसमं किञ्चित्साधनं नदिवः परम्
मया धर्मरहस्यं ते कथितं राजसत्तम ॥ २.६.१३० ॥
पतिपुत्रवती नारी भर्तुरग्रे मृता यदि
वृषोत्सर्गं न कुर्वीत गां दद्याच्च पयस्विः नीम् ॥ २.६.१३१ ॥
श्रीकृष्ण उवाच
श्रुत्वा वाक्यं वसिष्ठस्य राजा मधुपुरीं गतः
चकार विधिवत्सर्वं वृषोत्सर्गमहं खग ॥ २.६.१३२ ॥
गृहं गत्वा स आत्मानं कृतकृत्यममन्यत
कालेन निधनं प्राप्तो नीतो वैवस्वतानुगैः ॥ २.६.१३३ ॥
स कालनगरं हित्वा गतो दूरतरं पथि
श्राद्धदेवपुरं कुत्रेत्येवं दूतानपृच्छत ॥ २.६.१३४ ॥
पापिनो यत्र पात्यन्ते याम्यै पापविशुद्धये
यत्र देवः स धर्माधर्मविचेतनः ॥ २.६.१३५ ॥
गतं पापपुरं तत्तु न द्रष्टव्यं भवादृशैः
अग्रे दृष्ट्वा धर्मराजमूचुस्ते परमादरात् ॥ २.६.१३६ ॥
दिव्यरूपस्तदा देवो देवगन्धर्वसंयुतः
आत्मानं दर्शया मास तस्य राज्ञो महात्मनः ॥ २.६.१३७ ॥
प्रणम्य दण्डवद्राजा कृताञ्जलिः पुरः स्थितः
तुष्टाव बहुधा देवं हर्षपुरितमानसः ॥ २.६.१३८ ॥
धर्मराजोऽपि राजानं प्रशस्येदमुवाच ह
नीयतां देवलोकाय यत्र भोगाः सुपुष्कलाः ॥ २.६.१३९ ॥
तद्वीरवाहनः श्रुत्वा पप्रच्छसमवर्तिनम्
न जाने केन पुण्येन स्वर्गं नयसि मां विभो ॥ २.६.१४० ॥
धर्मराज उवाच
त्वया कृतानि पुण्यानि दानं यज्ञाः सविस्तराः
मथुरायां वृषोत्सर्गो वसिष्ठवचनात्किल ॥ २.६.१४१ ॥
धर्मः स्वल्पोऽपि नृपते यदि सम्यगुपासितः
द्विजदेवप्रसादेन स याति बहुविस्तरम् ॥ २.६.१४२ ॥
इत्युक्त्वा यमुनाभ्राता क्षणादन्तर्धिमाययौ
वीरबाहुर्दिवं गत्वा देवैः सह मुमोद ह ॥ २.६.१४३ ॥
श्रीकृष्ण उवाच
मया ते कथितं पक्षिन् वृषयज्ञः सुविस्तरः
प्राणिनां कर्मनिर्हारं श्रुत्वा पापैः प्रमुच्यते ॥ २.६.१४४ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्विदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे वृषोत्सर्गमाहात्म्यनिरूपणं नाम षष्ठोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७
गरुड उवाच
श्रुतं मे महादाख्यानं वृषोत्सर्गफलं हरे
पुनरन्यां कथां ब्रूहि यत्र ते महिमाद्भुतः ॥ २.७.१ ॥
श्रीकृष्ण उवाच
अहं ते कथयाम्यद्य संवादं परमाद्भुतम्
सन्तप्तकस्य च प्रेतैस्तद्रूपज्ञापनाय वै ॥ २.७.२ ॥
विप्रः सन्तप्तकः कश्चित्तपसादग्धकिल्बिषः
संसारासारतां ज्ञात्वारण्यष्वेव चचार ह ॥ २.७.३ ॥
वैखानसमुनिव्रातैः प्राणिपातकृतेक्षणः
स कदाचित्तीर्थयात्रामुद्दिश्य स्माटतिद्विजः ॥ २.७.४ ॥
प्रत्याकृष्टेन्द्रियत्वाच्च बहिर्वृत्तिनिरोधकः
संस्कारमात्रगमनो मार्गभ्रष्टो बभूव ह ॥ २.७.५ ॥
चलन्नेवं स्नानकाले मध्याह्नेऽथाभिलाषुकः
जलस्योन्मील्य नयने दिशः सर्वा न्यभीलयत् ॥ २.७.६ ॥
स ददर्श तदा गुल्मैर्वोरुद्वृक्षशतैश्चितम्
त्वक्सारैः शाखिशाखाभिः संकुलं गहनंवनम् ॥ २.७.७ ॥
तत्र तालास्तमालाश्च प्रियालाः पनसास्तथा
श्रीपर्णो शालशाखोटस्यन्दनास्तिन्दुकास्तथा ॥ २.७.८ ॥
सर्जार्जुनाम्रातकाश्च श्लेष्मा तकभिभीतकौ
पिचुमर्दश्चिञ्चिणी च कर्कन्धूकर्णिकारकाः ॥ २.७.९ ॥
एते चान्ये च बहवो वृक्षास्तेषु न दृश्यते
पक्षिणामपि वै पन्था मनुष्यस्य कुतः पुनः ॥ २.७.१० ॥
तस्मिन् वने महाघोरे सिंहव्याघ्रसमाकुले
तरक्षुगवयैरृक्षैर्महिषैश्च निषेविते ॥ २.७.११ ॥
कुञ्ज रैरुरुभिर्नागैर्मर्कटैश्च तथामृगैः
श्वापदैश्च तथा चान्यैः पिशाचै राक्षसैर्वृते ॥ २.७.१२ ॥
सन्तप्तको द्विजः किञ्चिद्भयसन्त्रस्तमानसः
कान्दिशीकः समभवढ्यद्भविष्यो ययौ पुनः ॥ २.७.१३ ॥
झङ्कारेषु च झिल्लीनां घूकानां घूत्कृतेष्वपि
दत्तकर्णः कुनीलाङ्गश्चचाल पदपञ्चकम् ॥ २.७.१४ ॥
स तत्र वटवृक्षाग्रे स्नायुवद्धं शवं तथा
ददर्श तद्भुजश्चैव पञ्च प्रेतान् सुदारुणाम् ॥ २.७.१५ ॥
शिरास्थिचर्मशेषाङ्गान् पृष्ठलग्नोदरान् खग
त्यक्तान्नासिकया नेत्रकूपपातभयादिव ॥ २.७.१६ ॥
सूचीक्रककचकव्रातघातपातितकीकसान्
वसाक्तनवमस्तिष्कस्वादनित्यमहोत्सवान् ॥ २.७.१७ ॥
रणत्कोटिमहादंष्ट्रानस्थिग्रन्थ्यवघट्टितान्
तान्दृष्ट्वा त्रस्तहृदयो गतिमाकुञ्च्य संस्थितः ॥ २.७.१८ ॥
ते विलोक्यागतं विप्रमटवीं जनवर्जिताम्
अहं पूर्वमहं पूर्वं यामीत्याक्त्वा प्रदुद्रुवुः ॥ २.७.१९ ॥
तेषु द्वौद्वावगृह्णीतामस्य हस्तावथापरे
द्वौद्वौ पादावगृह्णीतां मूर्धानं पञ्चमोऽग्रहीत् ॥ २.७.२० ॥
स्वजात्युचितवाक्येन स्फुटवर्णवताब्रुवन्
अहं जक्षाम्यहं भक्षामीति कर्षणतत्पराः ॥ २.७.२१ ॥
सहसैव सहैवामुं गृहात्वा व्यगमन्वियम्
कियत्स्थितं बटौ मांसं क्रियन्नेतिन्यभालयन् ॥ २.७.२२ ॥
तेऽपश्यन्निजदंष्ट्रायः पाटितान्त्रमिमं शवम्
अवतीर्य ततो व्योम्नो गृहीत्वा चरणैः ॥ २.७.२३ ॥
स्वखण्डितशरीरन्तु पुनर्व्योमैव चक्रमुः
स नीयमानमात्मानं विलोक्य वियति द्विजः ॥ २.७.२४ ॥
जगाम मनसा मां स शरणं भयविह्वलः
नमश्चक्रे चक्रधरं चेतसा चिन्मयं समम् ॥ २.७.२५ ॥
वक्रं नक्रं चक्रपातेन दूरे कृत्वा हृत्वा तस्य दुः खं मुकुन्दः
मातङ्गं योऽमूमुचन्नक्रवक्त्रात्पाशंसोऽसौ कर्मणां मे लुनातु ॥ २.७.२६ ॥
रुद्धाञ्शुद्धान् भूपतीन्मागधेन भीमेनैनं घातयित्वा मुरारिः
निर्बद्धान्यो भर्गयज्ञाय मुक्तश्चक्रो मेऽसौ कर्मपाशं लुनातु ॥ २.७.२७ ॥
मनसैवैह मामस्तौत्स्तूयमानोऽहमुत्थितः
अगच्छं सहसा तत्र यत्र प्रेतैः स नीयते ॥ २.७.२८ ॥
दृष्ट्वा तैर्नोयमानन्तु कौतुकं मेऽभवत्खग
पप्रच्छ न कियन्तं वै कालं तान्पृष्ठतोऽन्वगाम् ॥ २.७.२९ ॥
मम सन्निधिमात्रेण द्विजातिं तञ्च सर्पहन्
तत्कालं शिविकासुप्तभूपालसुखमाविशत् ॥ २.७.३० ॥
मणिभद्रास्ततो मेरुं गच्छन्दृष्टो मया पथि
निकोच्याक्षि स्वपार्श्वं स नीतो वै यक्षराण्मया ॥ २.७.३१ ॥
तमवोचं महायक्षं त्वं हि प्रतिभटो भव
प्रेतान्नाशय तद्भूयः शवञ्च हर तद्गतम् ॥ २.७.३२ ॥
इत्युक्तः स महाघोरं कृत्वा रोषं सुदुः सहम्
जग्राह प्रेतरूपं तत्प्रेतानामपि दुः खदम् ॥ २.७.३३ ॥
स विवृत्य स्वकौ बाहू सृक्किणी परिलेलिहन्
भेदयन्नुरुवातेन प्रेतांस्तान्संमुखो ययौ ॥ २.७.३४ ॥
बाहुभ्यां द्वौ द्वौ च पद्भ्यां मूर्ध्नैकं च समाहरत्
प्रेतानथापि सहसा जघान दृढमुष्टिना ॥ २.७.३५ ॥
ते विवर्णमुखाः सर्वे तं द्विजञ्च शवं तथा
एकैकं हस्तपादैश्च गृहीत्वा युद्धमारभन् ॥ २.७.३६ ॥
ते नखैस्तलघातैश्च पादघातैस्तथैव च
दंष्ट्राघातैश्च सर्वे तमेकं प्रेतं व्यदारयन् ॥ २.७.३७ ॥
तेषां प्रहारान्विफलान्कृत्वा संप्रति तानथ
जीवं न तु शवं तेषां जह्रे प्राणमिवान्तकः ॥ २.७.३८ ॥
हृतमात्रे शवे ते तु पारियात्रे गिरौ द्विजम्
मुक्त्वाधमात्रे प्रमुदिता एकं प्रेतं सुदारुणाः ॥ २.७.३९ ॥
स वायुगमनः प्रेतः प्राप्तस्तैः क्षणमात्रतः
अदृश्यतां ययौ तेऽथ हताशा विप्रमागमन् ॥ २.७.४० ॥
प्रारब्धमात्रे विप्रस्य पाटने तत्र पर्वते
मम स्थानस्य विप्रस्य महिम्नेव च तत्क्षणे ॥ २.७.४१ ॥
सद्यः स्मृतिः समुत्पन्ना तेषां पूर्वस्य जन्मनः
विप्रं प्रदक्षिणीकृत्यद्विजर्षभमथाब्रुवन् ॥ २.७.४२ ॥
अद्य नः क्षन्तुमर्हेऽसीत्युक्त्वा ते सुरदाम्भिकाः
गिरेरिव परावर्तं समुद्रस्येव शोषणम् ॥ २.७.४३ ॥
तेषां तद्वचनं श्रुत्वापृच्छत्केयूयमित्यथ
किं माया किमु वा स्वप्न उताहो चित्तविभ्रमः ॥ २.७.४४ ॥
प्रेता ऊचुः
अवेहि तत्त्वमेवैतत्प्रेता वै कर्मजा वयम्
ब्राह्मण उवाच
किंनामानः किमाचाराः कथञ्चेमां दशां गताः ॥ २.७.४५ ॥
अविनीताः कथं पूर्वं विनीताः साम्प्रतं कथम्
प्रेता ऊचुः
शृणु विप्रेन्द्र वक्ष्यामः प्रश्रानामनुपूर्वशः ॥ २.७.४६ ॥
उत्तराणि महायोगिंस्त्वद्दर्शनगतांहसः
अहं पर्युषितो नाम्ना एष सूचीमुखः स्मृतः ॥ २.७.४७ ॥
तृतीयः शीघ्रगस्तुर्योरोधको लेखकः परः
ब्राह्मण उवाच
प्रेतानां कर्मजातानां कुतो नाम निरर्थकम् ॥ २.७.४८ ॥
निरुक्तिमेषां नाम्नां वै प्रेता वदत मा चिरम्
श्रीकृष्ण उवाच
एवमुक्तास्तु विप्रेण पृथगुत्तरमब्रुवन् ॥ २.७.४९ ॥
पर्युषित उवाच
कदाचिच्छ्राद्धकाले वै मया विप्रो निमन्त्रितः ॥ २.७.५० ॥
स च कृत्वा विलम्बेन वृद्धो मद्गृहमागतः
अकृतश्राद्धकर्माहं तं पाकं भुक्तवान् क्षुधा ॥ २.७.५१ ॥
अददामन्नमाकृष्य विप्रे पर्युषितं कियत्
तस्मात्पापान्मृतः पापो योनिं वै कुत्सितां गतः ॥ २.७.५२ ॥
यतः पर्युषितं दत्तं ततः पर्युषितः स्मृतः
सूचीमुख उवाच
कदाचिद्ब्राह्मणी काचित्तीर्थं भद्रवटं ययौ ॥ २.७.५३ ॥
पञ्चवर्षसुता वृद्धा पुत्रमात्रैकजीविता
अहं क्षत्त्रियदायादस्तस्या रोधमकारिषम् ॥ २.७.५४ ॥
वने तु विजने तत्र पापाध्वगगतिं गतः
तस्याः सवस्त्रं पाथेयं तत्सूनोर्वसनानि च ॥ २.७.५५ ॥
गृहीतानि मया विप्र शिरस्यापीड्य मुष्टिना
तृषार्तस्तत्क्षणं बालः पात्रसंस्थं जलंपिबन् ॥ २.७.५६ ॥
तावन्मात्रोदके देशे मया हुङ्कृत्य वारितः
मयाथ सकलं पीतं जलं पात्रात्तृषावता ॥ २.७.५७ ॥
बालोऽपि भयसन्त्रस्तः पिपासुर्व्यसुरापतत्
पुत्रशोकान्मृता माता कूपे प्रास्य निजं वपुः ॥ २.७.५८ ॥
एतस्मात्पातकाद्विप्र प्रेतत्वं प्राप्तवानहम्
सूच्यग्रप्रायविवरमुखः पर्वतदेहवान् ॥ २.७.५९ ॥
यद्यपि प्राप्नुयां भक्ष्यं भक्षितुन्तु न शक्यते
मया क्षुधानलेनापि ज्वलतास्यं निकोचितम् ॥ २.७.६० ॥
अत आस्ये तु विवरं सूच्यग्रेण समंमम
एतस्मात्कारणाद्विप्रे नाम्ना सूचीमुखोऽस्म्यहम् ॥ २.७.६१ ॥
शीघ्रग उवाच
पुराहं वैश्यजातीयः साकं सख्या च केनचित्
वाणिज्यं कर्तुमगमं देशमन्यं महाधनः ॥ २.७.६२ ॥
मित्रं च मे बहुधनं तस्य लोभो महांस्ततः
जातोऽप्यदृष्टवैमुख्यान्मे नष्टं मूलमप्युत ॥ २.७.६३ ॥
ततस्तस्मात्तु निष्क्रान्तावावां नावाथ निम्नगाम्
मार्गगां तर्तुमारब्धौ लोहितायति भास्करे ॥ २.७.६४ ॥
सखा स च मदुत्सङ्गे सुष्वापाध्वक्लमाकुलः
अभूत्तदाति पापस्य क्रूरा मतिरतीव मे ॥ २.७.६५ ॥
तमुत्सङ्गगतं सूरे नष्टे पूरेऽक्षिपं तदा
कत्कृत्यं कुर्वतो नावि लोकैस्तु ज्ञातमेव न ॥ २.७.६६ ॥
तस्य यद्वस्तु तत्सर्वं मणिमुक्तादिकाञ्चनम्
आदाय शीग्रगस्तस्माद्देशात्स्वगृहमागतः ॥ २.७.६७ ॥
तत्सर्वं स्वगृहे मुक्त्वा तस्य पत्न्यै न्यवेदयम्
दस्युभिर्मे हतो भ्राता धनमाच्छिद्य वै पथि ॥ २.७.६८ ॥
प्रजावति प्रद्रुतोऽहं मा रोदीत्येवमब्रवम्
शोकार्ता सापि तत्कालं ममत्वं गृहबन्धुषु ॥ २.७.६९ ॥
त्यक्त्वा चाति प्रियान्प्राणाञ्जुहावाग्नौ यथाविधि
ततो निष्कण्टकं तद्धि वीक्ष्य हृष्टो गतो गृहम् ॥ २.७.७० ॥
अभुञ्जं सर्वमागत्य यावज्जीवं तु तद्धनम्
मित्रं पूरे हि निः क्षिप्य यदहं शीघ्रमागतः ॥ २.७.७१ ॥
एतस्मात्कारणात्प्रेतः शीघ्रगोऽहं तु नामतः
रोधक उवाच
अहन्तु शूद्रजातीयः पुराभूवं मुनीश्वर ॥ २.७.७२ ॥
राजप्रसादाप्तमहाशतग्रामाधिकारवान्
वृद्धौ मे पितरावास्तां लघुरेकः सहोदरः ॥ २.७.७३ ॥
शीघ्रं स च मया भ्राता लुब्धेनैकः पृथक्कृतः
आप्तवान्परमं दुःखं सोन्नवस्त्रविवर्जितः ॥ २.७.७४ ॥
अदत्तां पितरौ च्छन्नं किञ्चित्किञ्चित्तु तस्य च
तस्मै पितृभ्यां यद्दत्तमाप्तेभ्यस्तन्मया श्रुतम् ॥ २.७.७५ ॥
तत्सर्वं तत्त्वतो ज्ञात्वा पित्रो रोधमकारयम्
शून्यमन्दिर एकस्मिन्बद्ध्वा तु निगडैर्दृढैः ॥ २.७.७६ ॥
ततस्तौ जहतुः प्राणान्दुः खितौ विषपानतः
सोसौ बालोऽपि बभ्राम पितृभ्यां रहितो द्विज ॥ २.७.७७ ॥
पुरः पत्तनखर्वाचान् खेटानपि मृतः क्षुधा
एतस्मात्पातकाद्विप्र मृतः प्रेतत्वमागतः ॥ २.७.७८ ॥
रुद्धौ तु पितरौ यस्मान्नाम्नाहं रोधकस्ततः
लेखक उवाच
अहं विप्र पुराभूवमवन्त्यां द्विजलसत्तमः ॥ २.७.७९ ॥
भद्रस्य राज्ञो देवानां पूजनेऽधिकृतो ह्यहम्
बह्व्यस्तु प्रतिमास्तत्र बभूवुर्बहुनामिकाः ॥ २.७.८० ॥
हेम्नस्तदङ्गेषु बहु रत्नजातं बभूव ह
तासां मे कुर्वतः पूजां पापा मतिरजायत ॥ २.७.८१ ॥
अखिलं तीक्ष्णलोहेन तासामङ्गं विशीर्य च
उल्लेखनञ्च रत्नानां नेत्रादिभ्यः कृतं मया ॥ २.७.८२ ॥
तथाकृतान्यथाङ्गानि प्रतिमानां निरीक्ष्य च
नेत्राणि च विरत्नानि नृपश्चुक्रोध वह्निवत् ॥ २.७.८३ ॥
प्रतिजज्ञे नृपः पश्चादेष ब्राह्मणपुङ्गवः
आभ्यो रत्नं सुवर्णञ्च हृतं येन भविष्यति ॥ २.७.८४ ॥
ज्ञातश्च स हि मे वध्यो भविष्यति न संशयः
अहं तत्सकलं ज्ञात्वा रात्रावसिधरो गृहम् ॥ २.७.८५ ॥
राज्ञः प्रविश्य राजानं पशुमारममारयम्
गृहीत्वाथ मणीन् स्वर्णं निशीथेऽहं गतोऽन्यतः ॥ २.७.८६ ॥
व्याघ्रेण महातारण्ये नखटङ्कैर्विटङ्कितः
लेखनात्प्रतिमाया यन्मया लोहेन कर्तितम् ॥ २.७.८७ ॥
एतस्मात्पातकात्प्रेतो लेखको नामतोऽस्म्यहम्
आसीन्नरकभोगान्ते नः प्रेतत्वमिदं द्विज ॥ २.७.८८ ॥
ब्राह्मण उवाच
संज्ञास्तादृश्य आख्याता यथैता भवता दशाः
वदन्त्वाचारमात्रं मे प्रेता आहारमप्युत ॥ २.७.८९ ॥
प्रेता ऊचुः
वेदमार्गानुसरणं लज्जा धर्मो दमः क्षमा
धृतिर्ज्ञानं नैव यत्र वयं तत्र वसामहे ॥ २.७.९० ॥
तस्य पीडां वपं कुर्मो नैव श्राद्धं न तर्पणम्
यस्य गेहे तदङ्गात्तु मांसञ्च रुधिरं क्रमात् ॥ २.७.९१ ॥
जक्षामश्च पिबामश्च उक्त आचार एष नः
शृणु चाहारमस्माकं सर्वलोकविगर्हितम् ॥ २.७.९२ ॥
दृष्टस्त्वया च किञ्चिद्वै ब्रूमोज्ञातं त्वयानघ
वमनं विडू दूषिका च श्लेष्मा मूत्राश्रुणी तथा ॥ २.७.९३ ॥
एतद्भक्ष्यञ्च पानञ्च मा पृच्छातः परं द्विज
लज्जा नो जायते स्वामिन्नाहारं वदतां स्वकम् ॥ २.७.९४ ॥
अज्ञानास्तामसा मन्दा कान्दिशीका वयं विभो
अकस्माज्जन्मनां विप्र स्मृतिः प्राप्ता तु पौर्विकी ॥ २.७.९५ ॥
विनीतत्वाविनीतत्वे जानीमो नैव नः प्रभो
श्रीकृष्ण उवाच
एवं वदत्सु प्रेतेषु तथा श्रुतवति द्विजे ॥ २.७.९६ ॥
अदर्शयमहं रूपं तदा तार्क्ष्येदमेव वै
स तु दृष्ट्वा द्विजश्रेष्ठो हृद्गतं पुरुषं पुरः ॥ २.७.९७ ॥
स्तोत्रैस्तुष्टाव पक्षीश दण्डवत्प्रणनाम माम्
तेऽपि तेपुस्ततः प्रेता आश्चर्योत्फुल्लचक्षुषः ॥ २.७.९८ ॥
प्रणयेन स्खलद्वाचः खग नोचुः किमप्युत
रजसा गोरचित्तानां तमसा मूढचेतसाम्
कृपया यः समुद्धारं कुरुषे वै नमोऽस्त ते ॥ २.७.९९ ॥
एवं द्विजातौ ब्रुवति प्रभू तप्रभैश्च मुख्यांबरचारियुक्तैः
तदा मदिच्छाप्रभवैर्विमानैः षड्भिः समन्ताद्रुरुचे गिरिः सः ॥ २.७.१०० ॥
इत्थं विमानेन मदीयलोकं गतो द्विजरसोऽप्यथ पञ्चमिस्तैः
प्रेता ययुः स्वर्गमगण्यपुण्यं सत्सङ्गसंसर्गवशात्सुपर्णम् ॥ २.७.१०१ ॥
प्रेताः संगवशेन नाकमवन्सन्तप्तको ब्राह्मणो विष्वक्सन इति प्रसिद्धविभवो नाम्ना गणे मेऽभवत्
एतत्ते सकलं मया निगादितं यश्चैतदुत्कीर्तयेद्यश्चेदं शृणुयान्न सोऽपि पुरुषः प्रेतत्वमाप्नोति हि ॥ २.७.१०२ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे प्रेतकल्पे पञ्चप्रेतोपाख्यानं नाम सप्तमोऽद्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८
गरुड उवाच
स्वामिन्कस्याधिकारोऽत्र सर्व एवौर्ध्वदेहिके
क्रियाः कतिविधाः प्रोक्ता वदैतत्सर्वमेव मे ॥ २.८.१ ॥
श्रीकृष्ण उवाच
पुत्रः पौत्रः प्रपौत्रो वा तद्भ्राता भ्रातृसन्ततिः
सपिण्डसन्ततिर्वापि क्रियार्हाः खग ज्ञातयः ॥ २.८.२ ॥
तेषामभावे सर्वेषां समानोदकसन्ततिः
कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्याः क्रियाः खग ॥ २.८.३ ॥
इच्छयोच्छिन्नबन्धश्च कारयेदवनीपतिः
पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः ॥ २.८.४ ॥
प्रतिसंवत्सरं पक्षिन्नेकोद्दिष्टविधानतः
श्राद्धं तत्र प्रकर्तव्यं फलं तस्य शृणुष्व मे ॥ २.८.५ ॥
ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान्
विश्वेदेवान्पितृ गणान्वयांसि मनुजान्पशून् ॥ २.८.६ ॥
सरीसृपान्मातृगणान्यच्चान्यद्भूतसंज्ञितम्
श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥ २.८.७ ॥
ते तृप्तास्तर्पयन्त्येनं पुत्रदारधनैस्तथा
अधिकारः क्रियाभेदः समासात्ते निरूपितः ॥ २.८.८ ॥
गरुड उवाच
उक्तेष्वेकोऽपि चेन्न स्यादधिकारी सुरोत्तम
कर्तव्यं किं तदा विष्णो पुरुषेण विजानता ॥ २.८.९ ॥
श्रीकृष्ण उवाच
अधिकारो यदा नास्ति यदि नास्ति च निश्चयः
जीविते सति जीवाय दद्याच्छ्राद्धंस्वयं नरः ॥ २.८.१० ॥
कृतोपवासः सुस्नातः कृष्णासङ्गः समाहितः
कर्तारमथ भोक्तारं विष्णुं सर्वेश्वरं यजेत् ॥ २.८.११ ॥
सदक्षिणाश्च सतिलास्तिस्त्रश्च जलधेनवः
निवेदयेत्पितृभ्यश्च स्वधेति सुसमाहितः ॥ २.८.१२ ॥
अग्नये कव्यवाहनाय स्वधा नम इति स्मरन्
सोमायत्वा पितृमते स्वधा नम इति स्मरन् ॥ २.८.१३ ॥
दक्षिणेन तु दद्
याच्च तृतीयां दक्षिणायुताम्
यमायाङ्गिरसे चाथ स्वधा नम इति स्मरन् ॥ २.८.१४ ॥
तयोर्मध्ये तु निः क्षिप्य विप्रान्संमन्त्र्य भो जयेत्
प्रथमामुत्तरे न्यस्य द्वितीयां दक्षिणे न्यसेत् ॥ २.८.१५ ॥
मध्ये तृतीयां विन्यस्य पश्चादावाहनादिकम्
आवाहनादिना पूर्वं विश्वेदेवान्प्रपूज्यच ॥ २.८.१६ ॥
वसुभ्यस्त्वामहं विप्र रुद्रेभ्यस्त्वामहं ततः
सूर्येभ्यस्त्वामहं विप्र भोजयामीति तान्वदेत् ॥ २.८.१७ ॥
आवाहनादिकं शेषं कुर्याच्च पितृशेषवत्
साम्यां धेनुं ततो दद्याद्वसूद्देशं द्विजाय तु ॥ २.८.१८ ॥
आग्नेय्यां चाथ रौद्राय याम्यां सूर्यद्विजाय तु
विश्वेभ्यश्चाथ देवेभ्यस्तिलपात्रं निवेदयेत् ॥ २.८.१९ ॥
स्वस्तीत्येव तथाक्षय्यं जलं दत्त्वाथ तान्द्विजान्
विसर्जयेत्स्मरन्विष्णुं देवमष्टाक्षरं विभुम् ॥ २.८.२० ॥
ततः कामं कुलेशानीं शिवं नारायणं स्मरेत्
चतुर्दश्यां ततो गच्छेद्यथाप्राप्तां सरिद्वराम् ॥ २.८.२१ ॥
वस्त्राणि लोहखण्डानि जितं त इति संजपन्
दक्षिणाभिमुखो वह्निं ज्वालयेत्तत्र च स्वयम् ॥ २.८.२२ ॥
पञ्चाशता कुशैर्ब्राह्मीं कृत्वा प्रतिकृतिं दहेत्
हुत्वा श्माशानिकं होमं पूर्णाहुत्यन्तमेव हि ॥ २.८.२३ ॥
निरग्रिमथ वा भूमिं यमं रुद्रञ्च संस्मरेत्
हुत्वा प्राधानिके स्थाने पश्चादावाहयेच्च तम् ॥ २.८.२४ ॥
श्रपयेच्चापरं वह्नौ मुद्गमिश्रं चरुं ततः
तिलतण्डुलमिश्रञ्च द्वितीयं सपवित्रकम् ॥ २.८.२५ ॥
ओं पृथिव्यै नमस्तुभ्यमिति चैकं निवेदयेत्
ओं यमाय नमश्चेति द्वितीयं तदनन्तरम् ॥ २.८.२६ ॥
ओं नमश्चाथ रुद्राय श्माशानपतये नमः
ततो दीप्ते समिद्धेऽग्नौ भूमौ प्रकृतिदारुणे ॥ २.८.२७ ॥
सप्तभ्यो यमसंज्ञेभ्यो दद्यात्सप्त जलाञ्जलीन्
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ २.८.२८ ॥
वैवस्वताय कालाय सर्वप्राणहराय च
स्वधाकारनमस्कारप्रणवैः सह सप्तधा ॥ २.८.२९ ॥
अमुकामुकगौत्रैतत्तुभ्यमस्तु तिलोदकम्
प्रदद्याद्दश पिण्डांस्तु अर्घपुष्पसमन्वितान् ॥ २.८.३० ॥
धूपो दीपो बलिर्गन्धः सर्वेषामस्तु चाक्षयः
दश पिण्डांस्तु दान्दत्त्वा विष्णोः सौम्यं मुखं स्मरेत् ॥ २.८.३१ ॥
कुर्याच्च मासिकं मासि सपिण्डीकरणं ततः
आशौचान्ते ततः कुर्यादात्मनो वा मरस्य तु ॥ २.८.३२ ॥
कुर्यादस्थिरतां ज्ञात्वा शक्त्यारोग्यधनायुषम्
एतत्ते सर्वमाख्यातं जीवच्छ्राद्धं मया खग ॥ २.८.३३ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्ण गरुडसंवादे श्राद्धकर्त्रात्मश्राद्धयोर्निरूपणं नामाष्टमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९
गरुड उवाच
उक्तमाद्यां क्रियां यावन्नृपोऽपीतित्वयानघ
कस्यचित्केनचिद्राज्ञा किमाद्या सा कृता पुरा ॥ २.९.१ ॥
श्रीकृष्ण उवाच
सुपर्ण शृणु वक्ष्यामि यथा राज्ञा क्रिया कृता
आसीत्कृतयुगे राजा वाङ्गो वै बभ्रुवाहनः ॥ २.९.२ ॥
पृथिव्याश्चतुरन्ताया गोप्ता पक्षीन्द्र धर्मतः
चतुर्भागां भुवं कृत्स्नां स भुङ्के वसुधाधिपः ॥ २.९.३ ॥
न पापकृत्कश्चिदासीत्तस्मिन्राज्यं प्रशासति
नासीच्चौरभयं तार्क्ष्य न क्षुद्रभयमेव हि ॥ २.९.४ ॥
नासीद्व्याधिभयञ्चापि तस्मिञ्जनपदेश्वरे
स्वधर्मे रेमिरे चासीत्तेजसा भास्करोपमः ॥ २.९.५ ॥
अक्षुब्धत्वेर्ऽचलसमः सहिष्णुत्वे धरासमः
स कदाचिन्महाबाहुः प्रभूतबलवाहनः ॥ २.९.६ ॥
वनं जगाम गहनं हयानाञ्च शतैर्वृतः
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिः स्वनैः ॥ २.९.७ ॥
आसीत्किलकिलाशब्दस्तस्मिन् गच्छती पार्थिवे
तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः ॥ २.९.८ ॥
निर्ययौ परया प्रीत्या वनं मृगजिघांसया
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् ॥ २.९.९ ॥
बिल्वार्कखदिराकीर्णं कपित्थध्वजसंयुतम्
विषमैः पर्वतैश्चैव सर्वतश्च समन्वितम् ॥ २.९.१० ॥
निर्जलं निर्मनुष्यञ्च बहुयोजनमायतम्
मृगसिंहैर्महाघोरैन्यैश्चापि वनेचरैः ॥ २.९.११ ॥
तद्वनं मनुज व्याघ्रः सभृत्यबलवाहनः
लीलया लोडयामास सूदयन्विविधान्मृगान् ॥ २.९.१२ ॥
मृगस्य कस्यचित्कुक्षिं ततो विव्याध भूमिपः
राजा मृगप्रसङ्गेन तमनु प्राविशद्वनम् ॥ २.९.१३ ॥
एकाकी वै हृतबलः क्षुत्प्रिपासासमन्वितः
स वनस्यान्तमासाद्य महच्चारण्यमासदत् ॥ २.९.१४ ॥
तृषया परयाविष्टोऽन्विष्यज्जलमितस्ततः
स दूरात्पूरचक्राह्वं हंससारसनादितैः ॥ २.९.१५ ॥
सूचितं सर आगत्य साश्व एव व्यगाहत
पद्मानाञ्च परागेण उत्पलानां रजेन च ॥ २.९.१६ ॥
सुगन्धममलं शीतं पीत्वाम्भो निर्जगाम ह
मार्गश्रमपरिश्रान्तस्तडागतटमण्डपम् ॥ २.९.१७ ॥
न्यग्रोधं वीक्ष्य तस्याशु जटास्वश्वं बबन्ध ह
स तत्रास्तरमास्तीर्य खेटकानुपधाय च ॥ २.९.१८ ॥
सूष्वाप वायुना तत्र सेव्यामातस्तदा क्षणम्
क्षणं सुप्ते नृपे तत्र प्रेतो वै प्रेतवाहनः ॥ २.९.१९ ॥
कश्चिदत्राजगामाथ युक्तः प्रेतशतेन च
अस्थिचर्मशिराशेषशरीरः परिविभ्रमन् ॥ २.९.२० ॥
भक्ष्यंपेयं मार्गमाणो न बध्नाति धृतिं क्वचित्
तमपूर्वं नृपो दृष्ट्वाकरोदस्त्रं शरासने ॥ २.९.२१ ॥
दृष्ट्वा सोऽपि चिरं भूपं तस्थौ स्थाणुपिवाग्रतः
तमवस्थितमालोक्य राजा प्राप्तकुतूहलः ॥ २.९.२२ ॥
पप्रच्छ तञ्च कोऽसीति कुतो वा विकृतिं गतः
प्रेत उवाच
प्रेतभावो मया त्यक्तो गतिं प्राप्तोऽरम्यहं पराम् ॥ २.९.२३ ॥
त्वत्संयोगान्महाबाहो नास्ति धन्यतरो मया
बभ्रुवाहन उवाच
किमेतत्दिपिने घोरे सर्वत्रातिभयानके ॥ २.९.२४ ॥
दोधूयमाने वातेन वात्यारूपेण कोणप
पतङ्गा मशकाः क्षुद्राः कवन्धाश्च शिरांसि च ॥ २.९.२५ ॥
मत्स्याः कूर्माः कृकलासा वृश्चिका भ्रमराहयः
अधोमुखोर्ध्वपादास्ते क्रन्दमानाः सुदारुणम् ॥ २.९.२६ ॥
प्रवान्ति वायवो रूक्षा ज्वलन्तो विद्युदग्नयः
इतस्ततो भ्रमन्तीव वायुना तृणसन्ततिः ॥ २.९.२७ ॥
दृश्यन्ते विविधा जीवा नागाश्च शलभव्रजाः
श्रूयन्ते बहुधा रावा न दृश्यन्ते क्वचित्क्वचित् ॥ २.९.२८ ॥
दृष्ट्वेदं विकृतं सर्वं वेपते हृदयंमम
प्रते उवाच
येषां नैवाग्निसंस्कारो न श्राद्धं नोदकक्रियाः ॥ २.९.२९ ॥
षट्पिण्डा दश गात्राणि सपिण्डीकरणं न हि
विश्वासघातिनो ये च सुरापाः स्वर्णहारिणः ॥ २.९.३० ॥
मृता दुर्मरणाद्ये च ये चासूयापरा जनाः
प्रायश्चित्तविहीना ये अगम्यागमने रताः ॥ २.९.३१ ॥
कर्मभिर्भ्राम्यमाणास्ते प्राणिनः स्वकृतैरिह
दुर्लभाहारपानीया दृश्यन्ते पीडिता भृशम् ॥ २.९.३२ ॥
एतेषां कृपया राजंस्त्वं कुरुष्वौर्ध्वदेहिकम्
येषां न माता न पिता न पुत्रो न च बान्धवाः ॥ २.९.३३ ॥
तेषा राजा स्वयं कुर्यात्कर्माणि तु यतो नृपः
आत्मनश्च शुभं कर्म कर्तव्यं पारलौकिकम् ॥ २.९.३४ ॥
विमुक्तः सर्वदुः खेभ्यो येनाञ्जो दुर्गातिं तरेत्
भ्रातरः कस्य के पुत्रास्त्रियोऽपि स्वार्थकोविदाः ॥ २.९.३५ ॥
न कार्यस्तेषु विश्रम्भ स्वकृतं भुज्यतेयतः
गृहेष्वर्था निवर्न्त्तन्ते श्मशाने चैव बान्धवाः ॥ २.९.३६ ॥
शरीरं काष्ठामादत्ते पापं पुण्यं सह व्रजेत्
तस्मादाशु त्वया सम्यगात्मनः श्रेय इच्छता ॥ २.९.३७ ॥
अस्थिरेण शरीरेण कर्तव्यञ्चौर्ध्वदोहिकम्
राजोवाच
कृशरूपः करालाक्षस्त्वं प्रेत इव लक्ष्यसे ॥ २.९.३८ ॥
कथयस्वः मम प्रीत्या प्रेतराज यथातथम्
तथा पृष्टः स वै राज्ञा उवाच सकलं स्वकम् ॥ २.९.३९ ॥
प्रेत उवाच
कथयामि नृपश्रेष्ठ सर्वमेवादितस्तव
प्रेतत्वे कारणं श्रुत्वा दयां कर्तुमिहार्हसि ॥ २.९.४० ॥
वैदिशं नाम नगरं सर्वसम्पत्सुखावहम्
नानाजनपदाकीर्णं नानारत्नसमाकुलम् ॥ २.९.४१ ॥
नानापुष्पवनाकीर्णं नानापुण्यजनावृतम्
तत्राहं न्यवसं भूप देवार्चनरतः सदा ॥ २.९.४२ ॥
वैश्यजातिः सुदेवोऽहं नाम्ना विदितमस्तु ते
हव्येन तर्पिता देवाः कव्येन पितरो मया ॥ २.९.४३ ॥
विविधैर्दानयोगैश्च विप्राः सन्तर्पिता मया
आहारश्च विहारश्च मया वै सुनिवेशितः ॥ २.९.४४ ॥
दीनानाथविशिष्टेभ्यो मया दत्तमनेकधा
तत्सर्वं निष्फलं जातं मम दैवादुपागतम् ॥ २.९.४५ ॥
न मेऽस्ति सन्ततिस्तात न सुहृन्न च बान्धवाः
न च मित्रं हितस्तादृग्यः कुर्यादौर्ध्वदैहिकम् ॥ २.९.४६ ॥
प्रेतत्वं सुस्थिरं तेन मम जातं नृपोत्तम
एकादशं त्रिपक्षञ्च षाण्मासिकमथाब्दिकम् ॥ २.९.४७ ॥
प्रतिमास्यानि चान्या नि ह्येवं श्राद्धानि षोडश
यस्यैतानि न दीयन्ते प्रेतश्राद्धानि भूपते ॥ २.९.४८ ॥
प्रेतत्वं सुस्थिरं तस्यः दत्तैः श्राद्धशतैरपि
एवं ज्ञात्वा महाराज प्रेतत्वादुद्धरस्व माम् ॥ २.९.४९ ॥
वर्णानाञ्चैव सर्वेषां राजा बन्धुरिहोच्यते
तन्मां तारय राजेन्द्र मणिरत्नं ददामि ते ॥ २.९.५० ॥
यथा मम शुभावाप्तिर्भवेन्नृपवरोत्तम
तथा कार्यं महीपाल दयां कृत्वा मयि प्रभो ॥ २.९.५१ ॥
सपिण्डैर्वा सगोत्रैर्वा निष्टुरैर्न कृतो हिमे
वृषोत्सर्गस्ततो दुष्टं प्रेतत्वं प्राप्तवानहम् ॥ २.९.५२ ॥
क्षुत्तृषाविष्टदेहश्च भक्ष्यं पानं न चाप्नुयाम्
अतो विकृतिरेषा वै कृशात्वादिरमांसका ॥ २.९.५३ ॥
क्षुत्तृड्जन्यं महादुः खमनुभवामि पुनः पुनः
अकल्याणं हि प्रेतत्वं वृषोत्सर्गं विना कृतम् ॥ २.९.५४ ॥
तस्माद्राजन्दयासिन्धो प्रार्थयामि तवाग्रतः
राजोवाच
वर्तते मत्कुले प्रेत इति ज्ञेयं कथं नरैः ॥ २.९.५५ ॥
तन्ममाचक्ष्व हि प्रेत प्रेतत्वान्मुच्यते कथम्
प्रेत उवाच
लिङ्गेन पीडया प्रेतोऽनुमातव्यो नरैः सदा ॥ २.९.५६ ॥
वक्ष्यामि पीडास्ता राजन्या वै प्रेतकृता भुवि
ऋतुः स्यादफलः स्त्रीणां यदा वंशो न वर्धते ॥ २.९.५७ ॥
मियन्ते चाल्पवयसः सा पीडा पेतसम्भवा
अकस्माद्वृत्तिहरणमप्रतिष्ठा जनेषु वै ॥ २.९.५८ ॥
अकस्माद्गहदाहः स्यात्सा पीडा प्रेतसम्भवा
स्वगेहे कलहो नित्यं स्याच्च मिथ्याभिशंसनप ॥ २.९.५९ ॥
गजयक्ष्मादिसम्भूतिः सा पीडा प्रेतसम्भवा
अपि स्वयं धनं मुक्तं प्रयत्नादनवे पथि ॥ २.९.६० ॥
नैव लभ्येत नश्येतः सा पीडा प्रेतसंमवा
सुवृष्टौ कृषिनाशः स्याद्वाणिज्याद्वृत्तिनाशनम् ॥ २.९.६१ ॥
कलत्रं पतिकूलं स्यात्सा पीडा प्रेतसम्भवा
एवन्तु पीडया राजन्प्रेतज्ञानं भवेन्नृणाम् ॥ २.९.६२ ॥
वृषोत्सर्गो यदि भवेत्प्रेतत्वान्मुच्यते तदा
तस्मान्नप त्वमप्येवं वृषोत्सर्गं कुरु प्रभो ॥ २.९.६३ ॥
मामुद्दिश्य नृपेऽप्यत्राधिकारोऽत्यनुकम्पया
राजपुत्रो हतः कश्चिन्मयैवाप्तस्ततो मया ॥ २.९.६४ ॥
कुरुष्व त्वं गृहीत्वा मे तद्धनेन वृषोत्सवम्
कार्तिक्यां पौर्णमास्यां वाऽश्वयुङ्मध्येऽथवा नृप ॥ २.९.६५ ॥
रेवतीयुक्तदिवसे कृषीष्ठा मे वृषोत्सवम्
पुण्यान्विप्रान्समाहूय वह्निं स्थाप्य विधानतः ॥ २.९.६६ ॥
मन्त्रैर्हेमस्तथा कार्यः षड्भिर्नृप विधानतः
बहून्विप्रान् भोजयेथास्तद्रत्नाप्तधनेन वै
एवं कृते महीपाल मम मुक्तिर्भविष्यति ॥ २.९.६७ ॥
श्रीकृष्ण उवाच
तथेति प्रतिजग्राह मणिं राजा ततः खग ॥ २.९.६८ ॥
क्रियाधिकारस्तस्यैव यो धनग्राहको भवेत्
कुर्वतोस्तु तयोर्वार्तामेवं प्रेतमहीक्षितोः ॥ २.९.६९ ॥
झणत्कारस्तु घण्टानां भेरीणां भाङ्कृतिस्तथा
जातस्तदा राजसेना चतुरङ्गा समापतत् ॥ २.९.७० ॥
तस्यामागतमात्रायां प्रेतश्चादृश्यतां गतः
तस्माद्वनाद्विनिः सृत्य राजापि पुरमागमत् ॥ २.९.७१ ॥
स कार्तिक्यां पूर्णिमायां प्रेतमुद्दिश्य संव्यधात्
वृषोत्सर्गं विधानेन तन्मण्याप्तधनेन च ॥ २.९.७२ ॥
प्रेतोऽप्ययं सपदिलब्धसुवर्णदेहः कर्मान्त आगत इति प्रणनाम भूपम्
देव त्वदीयमहिमायमिति स्तुवन् स यातो दिवं गरुड भूपतिना कृतज्ञः ॥ २.९.७३ ॥
एतत्ते सर्वमाख्यातं यथा भूपतिनापि सः
उद्धृतः प्रेतभावाद्वै किमन्यच्छ्रोतुमिच्छसि ॥ २.९.७४ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे राजकृतवृषोत्सर्गक्रियादिनिरूपणं नाम नवमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १०
गरुड उवाच
सपिण्डीकरण जाते आब्दिके च स्वकर्मभिः
देवत्वं वा मनुष्यत्वं पक्षित्वं वाप्नुयुर्नराः ॥ २.१०.१ ॥
तेषां विभिन्नाहाराणां श्राद्धं वै तृप्तिदं कथम्
यदप्यन्यैर्द्विजैर्भुक्तं हूयते यदि वानले ॥ २.१०.२ ॥
शुभाशुभात्मकैः प्रेतस्तद्दत्तं भुज्यते कथम्
श्राद्धस्यावश्यकत्वन्तु आमावास्यादिषु श्रुतम् ॥ २.१०.३ ॥
श्रीभगवानुवाच
प्रेतानां शृणु पक्षीन्द्र यथा श्राद्धन्तु तृप्तिदम्
देवो यदपि जातोऽयं मनुष्यः कर्मयोगतः ॥ २.१०.४ ॥
तस्यान्नममृतं भूत्वा देवत्वेऽप्यनुयाति च
गान्धव्ये भोगरूपेण पशुत्वे च तृणं भवेत् ॥ २.१०.५ ॥
श्राद्धं हि वायुरूपेण नागत्वेऽप्यनुगच्छति
फलं भवति पक्षित्वे राक्षसेषु तथामिषम् ॥ २.१०.६ ॥
दानवत्वे तथा मांसं प्रेतत्वेरुधिरं तथा
मनुष्यत्वेऽन्नपानादि बाल्ये भोगरसो भवेत् ॥ २.१०.७ ॥
गरुड उवाच
कथं कव्यानि दत्तानि हव्यानि च जनैरिह
गच्छन्ति पितृलोकं वा प्रापकः कोऽत्र गद्यते ॥ २.१०.८ ॥
मृतानामपि जन्तूनां श्राद्धमाप्यायनं यदि
निर्वाणस्य प्रदीपस्य तैलं संवर्धयेच्छिखाम् ॥ २.१०.९ ॥
मृताश्च पुरुषाः स्वामिन् स्वकर्मजनितां गतिम्
गाहन्तः के कथं स्वस्य सुतस्य श्रेय आप्नुयुः ॥ २.१०.१० ॥
श्रीभगवानुवाच
श्रुतेः प्रत्यक्षतस्तार्क्ष्य प्रामाण्यं बलवत्तरम्
श्रुत्या तुः बोधितार्थस्य पीयूषत्वादिरूपता ॥ २.१०.११ ॥
नामगोत्रं पितॄणां वै प्रापकं हव्यकव्ययोः
श्राद्धस्य मन्त्रास्तद्वत्तु प्रापकाश्चैव भक्तितः ॥ २.१०.१२ ॥
अचेतनानि चैतानि प्रापयन्ति कथन्त्विति
सुपर्ण नावगन्तव्यं प्रापकं वच्मि तेऽपरम् ॥ २.१०.१३ ॥
अग्निष्वात्तादयस्तेषा माधिपत्ये व्यवस्थिताः
काले न्यायागतं पात्रे विधिना प्रतिपादितम् ॥ २.१०.१४ ॥
अन्नं नयन्ति तत्रैते जन्तुर्यत्रावतिष्ठते
नाम गोत्रञ्च मन्त्राश्च दत्तमन्नं नयन्ति ते ॥ २.१०.१५ ॥
अपि योनिशतं प्राप्तांस्तांस्तृप्तिरुपतिष्ठति
तेषां लोकान्तरस्थानां विविधैर्नामगोत्रकैः ॥ २.१०.१६ ॥
अपसव्यं क्षितौ दर्भे दत्ताः पिण्डास्त्रयस्तु वै
यान्ति तांस्तर्पयन्त्येवं प्रेतस्थानस्थितान्पितॄन् ॥ २.१०.१७ ॥
अप्राप्तयातनास्थानाः श्रेष्ठा ये भुवि पञ्चधा
नानारूपास्तु जाता ये तिर्यग्योन्यादिजातिषु ॥ २.१०.१८ ॥
यदाहारा भवन्त्येते पितरो यत्र योनिषु
तासुतासु तदाहारः श्राद्धा अवतिष्ठति ॥ २.१०.१९ ॥
यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम्
तथान्नं नयते विप्र जन्तुर्यत्रावतिष्ठते ॥ २.१०.२० ॥
पितरः श्राद्धमोक्तारो विश्वेर्देवैः सदा सह
एते श्राद्धं सदा भुक्त्वा पितॄन्सन्तर्पयन्त्यतः ॥ २.१०.२१ ॥
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः
प्रीणयाते मनुष्याणां पितॄञ्श्राद्धेषु तर्पिताः ॥ २.१०.२२ ॥
आत्मानं गुर्विणी गर्भमपि प्रीणाति वै यथा
दोहदेन तथा देवाः श्राद्धैः स्वांश्च पितॄन्नृणाम् ॥ २.१०.२३ ॥
हृष्यन्ति पितरः श्रुत्वा श्राद्धकालमुपस्थितम्
अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवम् ॥ २.१०.२४ ॥
ब्राह्मणैः सह चाश्रन्ति पितरो ह्यन्तरिक्षगाः
वायुभूताश्च तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥ २.१०.२५ ॥
निमन्त्रितास्तु ये विप्राः श्राद्धपूर्वदिनेः खग
प्रविश्य पितरस्तेषु भुक्त्वा यान्ति स्वमालयम् ॥ २.१०.२६ ॥
श्राद्धकर्त्रा तु यद्येकः श्राद्धे विप्रो निमन्त्रितः
उदरस्थः पिता तस्य वामपार्श्वे पितामहः ॥ २.१०.२७ ॥
प्रपितामहो दक्षिणतः पृष्ठतः पिण्डभक्षकः
श्राद्धकाले यमः प्रेतान्पितॄंश्चापि यमालयात् ॥ २.१०.२८ ॥
विसर्जयति मानुष्ये निरयस्थांश्च काश्यप
क्षुधार्ताः कीर्तयन्तश्च दुष्कृतञ्च स्वयङ्कृतम् ॥ २.१०.२९ ॥
काङ्क्षन्ति पुत्रपौत्रेभ्यः पायसं मधुसंयुतम्
तस्मात्तांस्तत्र विधिना तर्पयेत्पायसेन तु ॥ २.१०.३० ॥
गरुड उवाच
स्वामिन्केनापि ते दृष्टा आगताः पितरो द्विज
लोकादमुष्मादागत्य भुञ्जन्तो भुवि मानद ॥ २.१०.३१ ॥
श्रीभगवानुवाच
गरुत्मञ्छृणु वक्ष्यामि यथा दृष्टास्तु सीतया
पितरो विप्रदेहे वै श्वशुराद्यास्त्रयः क्वचित् ॥ २.१०.३२ ॥
गृहीत्वा पितुराज्ञां वै रामो वनमुपागमत्
ततः पुष्करयात्रार्थं रामोऽयात्सीतया सह ॥ २.१०.३३ ॥
तीर्थं चापि समागत्य श्राद्धं प्रारब्ध वांस्तु सः
फलं पक्वन्तु जानक्या सिद्धं रामे निवेदितम् ॥ २.१०.३४ ॥
स्नातप्रियोक्तवाक्यात्तु सुस्नाता नमपालयत्
नभोमध्यगते सूर्ये काले कुतुप आगते ॥ २.१०.३५ ॥
अयाता ऋःषयः सर्वे ये रामेण निमन्त्रिताः
तान्मुनीनागतान्दृष्ट्वा वैदेही जनकात्मका ॥ २.१०.३६ ॥
रामाज्ञयान्नमादाय परिवेष्टुमुपागता
अपासर्पत्ततो दूरे विप्रमध्ये तु संस्थिता ॥ २.१०.३७ ॥
गुल्मैराच्छाद्य चात्मानं निगूढं सा स्थिता तदा
एकान्ते तु तदा सीतां ज्ञात्वा राघवनन्दनः ॥ २.१०.३८ ॥
विमृश्य सुचिरं कालमिदं किमिति सत्वरम्
किञ्चित्क्वचिद्गता साध्वी त्रपायाः कारणेन हि ॥ २.१०.३९ ॥
किं वा न भोजयन्विप्रान्सी तामन्वेषयाम्यहम्
विमृशन्नेवमेवं स स्वयं विप्रानभोजयत् ॥ २.१०.४० ॥
गतेषु द्विजमुख्येषु प्रियां रामोऽब्रवीदिदम्
कथं तलासु लीना त्वं मुनीन्दृष्ट्वा समागतान् ॥ २.१०.४१ ॥
तत्सर्वं मम तन्वङ्गि कारणं वद मा चिरम्
एवमुक्ता तदा भर्त्रा सीता साधोमुखी स्थिता
मुञ्चन्ती चाश्रुसंघातं राघवं वाक्यमब्रवीत् ॥ २.१०.४२ ॥
सीतोवाच
शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम् ॥ २.१०.४३ ॥
पिता तव मया दृष्टो ब्राह्मणाग्रे तु राघवः
सर्वाभरणसंयुक्तोद्वौ चान्यौ च तथाविधौ ॥ २.१०.४४ ॥
दृष्ट्वा त्वत्पितरञ्चाहमपक्रान्ता तवान्तिकात्
वल्कलाजिनसंवीता कथं राज्ञः पुरः प्रभो ॥ २.१०.४५ ॥
भवामि रिपुवीरघ्न सत्यमेतदुहाहृतम्
स्वहस्तेन कथं देयं राज्ञे वा भोजनं मया ॥ २.१०.४६ ॥
दासानामपि ये दासा नोपभुञ्जन्ति कर्हिचित्
तृणपात्रे कथं तस्मै अन्नं दातुं हि शक्रुयाम् ॥ २.१०.४७ ॥
याहं राज्ञा पुरा दृष्टा सर्वाभरणभूषिता
सा स्वेदमलदिग्धाङ्गी कथं यास्यामि भूपतिम्
अपकृष्टास्मि तेनाहं त्रपया रघुनन्दन
श्रीभागवानुवाच ॥ २.१०.४८ ॥
इति श्रुत्वा प्रियावाक्यं रामो विस्मितमानसः ॥ २.१०.४९ ॥
आश्चर्यमिति तज्ज्ञात्वा तदा स्वस्थानमागमत्
सीतया पितरो दृष्टा यथा तत्ते निवेदितम् ॥ २.१०.५० ॥
अपरं श्राद्धमाहात्म्यं किञ्चिच्छृणु समासतः
अमावस्यादिने प्राप्ते गृहद्वारे समास्थिताः ॥ २.१०.५१ ॥
वायुभूताः प्रवाञ्छन्ति श्राद्धं पितृगणा नृणाम्
यावदस्तमयं भानोः क्षुत्पिपासासमाकुलाः ॥ २.१०.५२ ॥
ततश्चास्तं गते सूर्ये निराशा दुः खसंयुताः
निः श्वसन्तश्चिरं यान्ति गर्हयन्तस्तु वंशजम् ॥ २.१०.५३ ॥
तस्माच्छ्राद्धं प्रयत्नेन अमायां कर्तुमर्हति
यदि श्राद्धं प्रकुर्वन्ति पुत्राद्यास्तस्य बान्धवाः ॥ २.१०.५४ ॥
उद्धृता ये गयाश्राद्धे ब्रह्मलोकञ्च तैः सह
भजन्ते क्षुत्पिपासा वा न तेषां जायते क्वचित् ॥ २.१०.५५ ॥
तस्माच्छ्राद्धं प्रयत्नेन सम्यक्कुर्याद्विचक्षणः
तस्माच्छ्राद्धं चरेद्भक्त्या शाकैरपि यथाविधि ॥ २.१०.५६ ॥
कुर्वीत समये श्राद्धं कुले कश्चिन्न सीदति
आयुः पुत्रान्यशः स्वर्गं कीर्तिं पुष्टिं बलं श्रियम् ॥ २.१०.५७ ॥
पशून्सारैव्यं धनं धान्यं प्राप्नुयात्पितृपूजनात्
देवकार्यादपि सदा पितृकार्यं विशिष्यते ॥ २.१०.५८ ॥
देवताभ्यः पितॄणां हि पूर्वमाप्यायनं शुभम्
ये यजन्ति पितॄन्देवान्ब्राह्मणांश्च हुताशनम् ॥ २.१०.५९ ॥
सर्वभूतान्तरात्मानं मामेव हि यजन्ति ते
स्मार्तेन विधिना श्राद्धं कृत्वा स्वविभवोचितम् ॥ २.१०.६० ॥
आब्राह्मस्तम्बपर्यन्तं जगत्प्रीणाति मानवः
अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥ २.१०.६१ ॥
तेन तुप्तिमुपायान्ति ये पिशाचत्वमागताः
यच्चाम्बुः स्नानवस्त्रेभ्यो भूमौ पतति खेचर ॥ २.१०.६२ ॥
तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते
यानि गन्धाम्बूनि चैव पतन्ति धरणीतले ॥ २.१०.६३ ॥
तेन चाप्यायनं तेषां ये देवत्वमुपागताः
ये चापि स्वकुलाद्बाह्याः क्रियायोग्या ह्यसंस्कृताः ॥ २.१०.६४ ॥
विपन्नास्ते तु विकिरसंमार्जनजलाशिनः
भुक्त्वा चाचमनं यच्च जलं यच्चाह्नि सेवितम् ॥ २.१०.६५ ॥
ब्राह्मणानां तथैवान्यत्तेन तृप्तिं प्रयान्ति वै
पिशाचत्वमनुप्राप्ताः कृमिकीटत्वमेव ये ॥ २.१०.६६ ॥
उद्धृतेष्वन्नपिण्डेषु भुवि ये चान्नकाङ्क्षिणः
तैरेवाप्यायनं तेषां ये मनुष्यत्वमागताः ॥ २.१०.६७ ॥
एवं वै क्रियमाणानां तेषां चैव द्विजन्मनाम्
कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा ॥ २.१०.६८ ॥
तेनान्नेन कुले तेषां ये वै जात्यन्तरं गताः
भवत्याप्यायनं तेषां सम्यक्श्राद्धे कृते सति ॥ २.१०.६९ ॥
अन्यायोपार्जितैर्द्रव्यैर्यच्छ्राद्धं क्रियते नरैः
तकृप्यन्ति तेन चण्डालाः पुक्कसाद्युपयोनिषु ॥ २.१०.७० ॥
एवं संप्राप्यते पक्षिन् यद्दत्तमिह बान्धवैः
श्राद्धं कुर्वद्भिरन्नाम्वुशाकैस्तृप्तिर्हि जायते ॥ २.१०.७१ ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
सद्यो देहान्तरप्राप्तिर्विलंबेनावनीतले ॥ २.१०.७२ ॥
पृष्टवानसि तत्तेऽहं प्रवक्ष्यामि समासतः
सद्यो विलम्बतञ्चैवोभयथापि कलेवरम् ॥ २.१०.७३ ॥
यतो हि मर्त्यः प्राप्नोति तद्विशेषञ्च मे शृणु
अधूमकज्योतिरिवाङ्गुष्ठमात्रः पुमांस्ततः ॥ २.१०.७४ ॥
देहमेकं सद्य एव वायवीयं प्रपद्यते
यथा नृणजलौका हि पश्चत्पादं तदोद्धरेत् ॥ २.१०.७५ ॥
स्थितिरग्र्यस्य पादस्य यदा जाता दृढा भवेत्
एवं देही पूर्वदेहं समुत्सृजति तं यदा ॥ २.१०.७६ ॥
भोगार्थमग्रे स्याद्देहो वायवीय उपस्थितः
विषयग्राहकं यद्वन्म्रियमाणस्य चेन्द्रियम् ॥ २.१०.७७ ॥
निर्व्यापारं तच्च देहे वायुनैव स गच्छति
शरीरं यदवाप्नोति तच्चाप्युत्क्वम्यति स्वयम् ॥ २.१०.७८ ॥
गृहीत्वा स्वं विनिर्याति जीवो गर्भ ईवाशयात्
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ॥ २.१०.७९ ॥
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः
आतिवाहिकमित्येवं वायवीयं वदन्ति हि ॥ २.१०.८० ॥
एवं तु यातुधानानां तमेव च वदन्ति हि
सुपर्ण ईदृशो देहो नृणां भवति पिण्डजः ॥ २.१०.८१ ॥
पुत्रादिभिः कृताश्चेत्स्युः पिण्डा दश दशाहिकाः
पिण्डजेन तु देहेन वायुजश्चैकतां व्रजेत् ॥ २.१०.८२ ॥
पिण्डजो यदि नैव स्याद्वायुजोर्ऽहति यातनाम्
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा
तथा देहान्तरप्राप्तिः पक्षीन्द्रेत्यवधारय ॥ २.१०.८३ ॥
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २.१०.८४ ॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २.१०.८५ ॥
वायवीयां तनुं याति सद्य इत्युक्तमेव ते
प्राप्तिर्विलंबतो यस्य तं देहं खलु मे शृणु ॥ २.१०.८६ ॥
क्वचिद्विलंबतो देहं पिण्डजं स समाप्नुयात्
अथो गतो याम्यलोकं स्वीयकर्मानुसारतः ॥ २.१०.८७ ॥
चित्रगुप्तस्यवाक्येन निरयाणि भुनक्ति सः
यातनाःसमवाप्याथ पशुपक्ष्यादिकीं तनुम् ॥ २.१०.८८ ॥
या गृह्णाति नरः सा स्यान्मोहेन ममतास्पदम्
शुभाशुभं कर्मफलं भुक्त्वा मुच्यते मानवः ॥ २.१०.८९ ॥
गरुड उवाच
तीर्त्वा दुः खभवाम्भोधिं भवन्तं कथमाप्नुयात्
बहुपातकयुक्तोऽपि तद्वदस्व दयानिधे ॥ २.१०.९० ॥
भूयो दुः खस्य संसर्गो नरस्य न भवेद्यथा
ब्रूहि शुश्रूषमाणस्य पृच्छतो मे रमापते ॥ २.१०.९१ ॥
श्रीकृष्ण उवाच
स्वेस्वे कर्मण्यभिरतः संसिद्धिं लभते नरः
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ २.१०.९२ ॥
कर्मविभ्रष्टकालुष्यो वासुदेवानुचिन्तया
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ॥ २.१०.९३ ॥
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च
विरक्तसेवी लब्ध्वाशी यतवाक्कायमानसः ॥ २.१०.९४ ॥
ध्यानयोगपरो नित्यं वैरग्यं समुपाश्रितः
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ॥ २.१०.९५ ॥
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते
अतः परं नृणां कृत्यं नास्ति कश्यपनन्दन ॥ २.१०.९६ ॥
इति श्रीगारुडे महापु उत्तरखण्डे द्वितीदृधर्मदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे श्राद्धस्य तृप्तिदत्वादिनिरूपणं नाम दशमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ११
गरुड उवाच
मानुषत्वं लभेत्कस्मान्मृत्युमाप्नोति तत्कथम्
म्रियते कः सुरश्रेष्ठ देहमाश्रित्य कुत्रचित् ॥ २.११.१ ॥
इन्द्रियाणि कुतो यान्ति ह्यस्पृश्यः स कथं भवेत्
क्व कर्माणि कृतानीह कथं भुङ्क्ते प्रसर्पति ॥ २.११.२ ॥
प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः
काश्यपोऽहं सुरश्रेष्ठ विनतागर्भ संभवः
यमलोकं कथं यान्ति विष्णुलोकं च मानवाः ॥ २.११.३ ॥
श्रीकृष्ण उवाच
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ॥ २.११.४ ॥
अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः
हीनजातौ प्रजायेत रत्नानामपहारकः ॥ २.११.५ ॥
यंयं काममभिध्यायेत्स तल्लिङ्गोऽभिजायते
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥ २.११.६ ॥
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः
वाक्चक्षुर्नासिका कर्णौ गुदं मूत्रस्य सञ्चरः ॥ २.११.७ ॥
अण्डजादिकजन्तूनां छिद्राण्येतानि सर्वशः
आनाभेर्मूर्धपर्यन्तमूर्ध्वच्छिद्राणि चाष्ट वै ॥ २.११.८ ॥
सन्तः सुकृतिनो मर्त्या ऊर्ध्वच्छिद्रेण यान्ति वै
मृताहे वार्षिकं यावद्यथोक्तविधिना खग ॥ २.११.९ ॥
कुर्यात्सर्वाणि कर्माणि निर्धनोऽपि हि मानवः
देहे यत्र वसेज्जन्तुस्तत्र भुङ्क्ते शुभाशुभम् ॥ २.११.१० ॥
मनोवाक्कायजान्दोषांस्तथां भुङ्क्ते खगेश्वर
मृतः स सुखमाप्नोति मायापाशैर्न बध्यते
पाशबद्धो नरो यस्तु विकर्मनिरतो भवेत् ॥ २.११.११ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवाहे ऊर्ध्वाधोगतिज्ञापकोत्क्रमणद्वारनिरूपणं नामैकादशोऽध्य्याः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १२
श्रीकृष्ण उवाच
एवं ते कथितस्तार्क्ष्य जीवितस्य विनर्णयः
मानुषाणां हितार्थाय प्रेतत्वविनिवृत्तये ॥ २.१२.१ ॥
चतुरशीतिलक्षाणि चतुर्भेदाश्च जन्तवः
अण्डजाः स्वेदजाश्चैव उद्भिज्जाश्च जारायुजाः ॥ २.१२.२ ॥
एकविंशतिलक्षाणि अण्डजाः परिकीर्तिताः
स्वेदजाश्च तथा प्रोक्ता उद्भिज्जाश्च क्रमेण तु ॥ २.१२.३ ॥
जरायुजास्तथा प्रोक्ता मनुष्याद्यास्तथा परे
सर्वेषामेव जन्तूनां मानुषत्वं हि दुर्लभम् ॥ २.१२.४ ॥
पञ्चेन्द्रियनिधानत्वं महापुण्यैरवाप्यते
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रास्तत्परजातयः ॥ २.१२.५ ॥
रजकश्चर्मकारश्च नटो बुरुड एव च
कैवर्तमेदभिल्लाश्च सप्तैते ह्यन्त्यजाः स्मृताः ॥ २.१२.६ ॥
म्लेच्छतुम्बविभेदेन जातिभेदास्त्वनेकशः
जन्तूनामेव सर्वेषां जातिभेदाः सहस्रशः ॥ २.१२.७ ॥
जन्तूनामेव सर्वेषां भेदाश्चैव सहस्रशः
आहारो मैथुनं निद्रा भयं क्रोधस्तथैव च ॥ २.१२.८ ॥
सर्वेषा मेव जन्तूनां विवेको दुर्लभः परः
एकपादादिरूपेण देहभेदास्त्वनेकशः ॥ २.१२.९ ॥
कृष्णसारो मृगो यत्र धर्मदशः स उच्यते
ब्रह्माद्या देवताः सर्वास्तत्र तिष्ठन्ति सर्वशः ॥ २.१२.१० ॥
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः
मतिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ २.१२.११ ॥
मानुष्यं यः समासाद्य स्वर्गमेक्षैकसाधकम्
तयोर्न साधयेदेकं तेनात्मा वञ्चितो ध्रुवम् ॥ २.१२.१२ ॥
इच्छति शती सहस्रं सहस्री लक्षमीहते कर्तुम्
लक्षाधिपती राज्यं राजापि सकलां धरां लब्धुम् ॥ २.१२.१३ ॥
चक्रधरोऽपि सुरत्वं सुरभावे सकलसुरपतिर्भवितुम्
सुरपतिरूर्ध्वगतित्वं तथापि ननिवर्तते तृष्णा ॥ २.१२.१४ ॥
तृष्णया चाभिभूतस्तु नरकं प्रतिपद्यते
तृष्णामुक्तास्तु ये केचित्स्वर्गवासं लभन्ति ते ॥ २.१२.१५ ॥
आत्माधीनः पुमांल्लोके सुखी भवति निश्चितम्
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ २.१२.१६ ॥
तथा च विषयाधीनो दुः खी भवति निश्चितम् ॥ २.१२.१७ ॥
कुरङ्गमताङ्गपतङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च
एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च ॥ २.१२.१८ ॥
पितृमातृमयो बाल्ये यौवने दयितामयः
पुत्रपौत्रमयश्चान्ते मूढो नात्ममयः क्वचित् ॥ २.१२.१९ ॥
लोहदारुमयैः पाशैः पुमान्बद्धो विमुच्यते
पुत्रदारमयैः पाशैर्नैव बद्धो विमुच्यते ॥ २.१२.२० ॥
एकः करोति पापानि फलं भुङ्क्ते महाजनः
भोक्तारो विप्रयुज्यन्ते कर्ता दोषेण लिप्यते ॥ २.१२.२१ ॥
कोऽपि मृत्युं न जयति बालो वृद्धो युवापि वा
सुखदुः खादिको वापि पुनरायाति याति च ॥ २.१२.२२ ॥
सर्वेषां पश्यतामेव मृतः सर्वं परित्यजेत्
एकः प्रजायते जन्तुरेक एव प्रलीयते ॥ २.१२.२३ ॥
एकोऽपि भुङ्क्ते सुकृतमेक एव च दुष्कृतम्
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमङ्क्षितौ ॥ २.१२.२४ ॥
बान्धवा विमुखा यान्ति धर्मस्तमनुगच्छति
गृहेष्वर्था निवर्तन्ते श्मशानान्मित्रबान्धवाः ॥ २.१२.२५ ॥
शरीरं वह्निरादत्ते सुकृतं दुष्कृतं व्रजेत्
शरीरं वह्निना दग्धं पुण्यं पापं सह स्थितम् ॥ २.१२.२६ ॥
शुभं वा यदि वा पापं भुङ्क्ते सर्वत्र मानवः
यदनस्तमिते सूर्ये न दत्तं धनमर्थिनाम् ॥ २.१२.२७ ॥
न जाने तस्य तद्वित्तं प्रातः कस्य भविष्यति
रारटीति धनं तस्य को मे भर्ता भविष्यति ॥ २.१२.२८ ॥
न दत्तं द्विजमुख्येभ्यः परोपकृतये तथा
पूर्वजन्मकृतात्पुण्याद्यल्लब्धं बहु चाल्पकम् ॥ २.१२.२९ ॥
तदीदृशं परिज्ञाय धर्मार्थे दीयते धनम्
धनेन धार्यते धर्मः श्रद्धापूतेन चेतसा ॥ २.१२.३० ॥
श्रद्धाविरहितो धर्मो नेहामुत्र च तत्फलम्
धर्माच्च जायते ह्यर्थो धर्मात्कामोऽपि जायते ॥ २.१२.३१ ॥
धर्म एवापवर्गाय तस्माद्धर्मं समाचरेत्
श्रद्धया साध्यते धर्मो बहुभिर्नार्थराशिभिः ॥ २.१२.३२ ॥
अकिञ्चना हि मुनयः श्रद्धावन्तो दिवं गताः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्
असदित्युच्यते पक्षिन्प्रेत्य चेह न तत्फलम् ॥ २.१२.३३ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकादृप्रेतकल्पे श्रीकृष्णगरुडसंवादे मृतस्य धर्ममात्रानुयायित्वनिरूपणं नाम द्वादशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १३
गरुड उवाच
कर्मणा केन देवेश प्रेतत्वं नैव जायते
पृथिव्यां सर्वजन्तूनां तद्ब्रूहि परमेश्वर ॥ २.१३.१ ॥
श्रीकृष्ण उवाच
अथ वक्ष्यामि संक्षेपात्क्षयाहादौर्ध्वदैहिकम्
क्वहस्तेनैव कर्तव्यं मोक्षकामैस्तु मानवैः ॥ २.१३.२ ॥
स्त्रीणामपि विशेषेण पञ्चवर्षाधिके शिशौ
वृषोत्सर्गादिकं कर्म प्रेतत्वविनिवृत्तये
वृषोत्सर्गादृते नान्यत्किञ्चिदस्ति महीतले ॥ २.१३.३ ॥
जीवन्वापि मृतो वापि वृषोत्सर्गं करोति यः
प्रेतत्वं न भवेत्तस्य विना दानमखव्रतैः ॥ २.१३.४ ॥
गरुड उवाच
कस्मिन्काले वृषोत्सर्गं जीवन्वापि मृतोऽपि वा
कुर्यात्सुरवरश्रेष्ठ ब्रूहि मे मधुसूदन ॥ २.१३.५ ॥
किं फलं तु भवेदन्ते कृतैः श्राद्धैस्तु षोडशैः ॥ २.१३.६ ॥
श्रीकृष्ण उवाच
अकृत्वा तु वृषोत्सर्गं कुरुते पिण्डपातनम्
नोपतिष्ठति तच्छ्रेयो दातुः प्रेतस्य निष्फलम् ॥ २.१३.७ ॥
एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥ २.१३.८ ॥
गरुड उवाच
सर्पाद्धि प्राप्तमृत्यूनामग्निदाहादि न क्रिया
जलेन शृङ्गिणा वापि शस्त्राद्यैर्म्रियते यदि ॥ २.१३.९ ॥
असन्मृत्युमृतानां च कथं शुद्धिर्भवत्प्रभो
एतन्मे संशयं देव च्छेत्तुमर्हस्यशेषतः ॥ २.१३.१० ॥
श्रीकृष्ण उवाच
षण्मासैर्ब्राह्मणः शुध्येद्युग्मे सार्धे तु बाहुजः
सार्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति ॥ २.१३.११ ॥
दत्त्वा दानान्यशेषाणि सुतीर्थे म्रियते यदि
ब्रह्मचारी शुचिर्भूत्वा न स यातीह दुर्गतिम् ॥ २.१३.१२ ॥
वृषोत्सर्गादिकं कृत्वा यतिधर्मं समाचरेत्
यतित्वे मृत्युमाप्नोति स गच्छेद्ब्रह्मशाख्वतम् ॥ २.१३.१३ ॥
विकर्म कुरुते यस्तु शिष्टाचारविवर्जितः
वृषोत्सर्गादिकं कृत्वा न गच्छेद्यमशासनम् ॥ २.१३.१४ ॥
पुत्त्रो वा सोदरो वापि पौत्रो बन्धुजनस्तथा
गोत्रिणश्चार्थभागी च मृते कुर्याद्वृषोत्सवम् ॥ २.१३.१५ ॥
पुत्राभावे तु पत्नी स्याद्दौहित्त्रो दुहीतापि वा
पुत्त्रेषु विद्यमानेषु वृषं नान्येन कारयेत् ॥ २.१३.१६ ॥
गरुड उवाच
पुत्त्रा यस्य न विद्यन्ते नरा नार्यः सुरेश्वर
एतन्मे संशयं देव च्छेतुमर्हस्यशेषतः ॥ २.१३.१७ ॥
श्रीकृष्ण उवाच
अपुत्त्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च
तस्मात्केनाप्युपायेन पुत्त्रस्य जननं चरेत् ॥ २.१३.१८ ॥
यानि कानि च दानानि स्वयं दत्तानि मानवैः
तानितानि च सर्वाणि तूपतिष्ठन्ति चाग्रतः ॥ २.१३.१९ ॥
व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च
स्वहस्तेन प्रदत्तानि देहान्ते चाक्षयं फलम् ॥ २.१३.२० ॥
गोभूहिरण्यवासांसि भोजनानि पादनि च
यत्रयत्र वसेज्जन्तुस्तत्रतत्रोपतिष्ठति ॥ २.१३.२१ ॥
यावत्स्वस्थं शरीरं हि तावद्धर्मं समाचरेत्
अस्वस्थः प्रेरितश्चान्यैर्नाकिञ्चित्कर्तुमर्हति ॥ २.१३.२२ ॥
जीवतोऽपि मृतस्येह न भूतं चौर्ध्वदैहिकम्
वायुभूतः क्षुधाविष्टो भ्रमते च दिवानिशम् ॥ २.१३.२३ ॥
कृमिः कीटः पतङ्गो वा जायते म्रियते पुनः
असद्गर्भे भवेत्सोऽपि जातः सद्यो विनश्यति ॥ २.१३.२४ ॥
यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ २.१३.२५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे वृषोत्सर्गदानधर्मपुत्रादिप्रशंसनं नाम त्रयोदशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १४
गरुड उवाच
आर्तेन म्रियमाणेन यद्दत्तं तत्फलं वद
स्वस्थावस्थेन दत्तेन विधिहीनेन वा विभो ॥ २.१४.१ ॥
श्रीकृष्ण उवाच
एका गौः स्वस्थचित्तस्य ह्यातुरस्य च गोशतम्
सहस्रं म्रियमाणस्य दत्तं वित्तविवर्जितम् ॥ २.१४.२ ॥
मृतस्यैव पुनर्लक्षं विधिपूतं च तत्समम्
तीर्थपात्रसमायोगादेका गौर्लक्षपुण्यदा ॥ २.१४.३ ॥
पात्रे दत्ते खगश्रेष्ठ अहन्यहनि वर्धते
दातुर्दानमपापाय ज्ञानिनां च प्रतिग्रहः ॥ २.१४.४ ॥
विषशीतापहो मन्त्रवह्निः किं दोषभाजनम्
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ॥ २.१४.५ ॥
नापात्रे विदुषा किञ्चिदात्मनः श्रेय इच्छता
अपात्रे जातु गौर्दत्ता दातारं नरकं नयेत् ॥ २.१४.६ ॥
कुलैकविंशतियुतं ग्रहीतारं च पातयेत्
देहान्तरं परिप्राप्य स्वहस्तेन कृतं च यत् ॥ २.१४.७ ॥
धनं भूमिगतं यद्वत्स्वहस्तेन निवेशितम्
तद्वत्फलमवाप्नोति ह्यहं वच्मि खगेश्वर ॥ २.१४.८ ॥
अपुत्रोऽपि विशेषेण क्रियां चैवान्ध्वदौहिकीम्
प्रकुर्यान्मोक्षकामश्च निर्धनश्च विशेषतः ॥ २.१४.९ ॥
स्वल्पेनापि हि वित्तेन स्वयं हस्तेन यत्कृतम्
अक्षयं याति तत्सर्वं यथाज्यं च हुताशने ॥ २.१४.१० ॥
एका चैकस्य दातव्या शय्या कन्या पयस्विनी
सा विक्रीता वा दहत्यासप्तमं कुलम् ॥ २.१४.११ ॥
तस्मात्सर्वं प्रकुर्वीत चञ्चले जीविते सति
गृहीतदानपाथेयः सुखं याति महाध्वनि ॥ २.१४.१२ ॥
अन्यथा क्लिश्यते जन्तुः पाथेयरहितः पथि
एवं ज्ञात्वा खगश्रेष्ठ वृषयज्ञं समाचरेत् ॥ २.१४.१३ ॥
अकृत्वा म्रियते यस्तु अपुत्रो नैव मुक्तिभाक्
अपुत्रोऽपि हि यः कुर्यात्सुखं याति महापथे ॥ २.१४.१४ ॥
अग्निहोत्राधिभिर्यज्ञैर्दानैश्च विविधैरपि
न तां गतिमवाप्नोति वृषोत्सर्गेण या गतिः ॥ २.१४.१५ ॥
यज्ञानां चैव सर्वेषां वृषयज्ञस्तथोत्तमः
तस्मात्सर्वप्रयत्नेन वृषयज्ञं समाचरेत् ॥ २.१४.१६ ॥
गरुड उवाच
कथयस्व प्रसादेन क्षयाहं चौर्ध्वदैहिकम्
कस्मिन्काले तिथौ कस्यां विधिना केन तद्भवेत् ॥ २.१४.१७ ॥
कृत्वा किं फलमाप्नोति एतन्मे वद साम्प्रतम्
त्वत्प्रसादेन गोविन्द मुक्ते भवति मानवः ॥ २.१४.१८ ॥
श्रीकृष्ण उवाच
कार्तिकादिषु मासेषु याम्यायतगते रवौ
शुक्लपक्षे तथा पक्षिन्द्वादश्यादितिथौ शुभे ॥ २.१४.१९ ॥
शुभे लग्ने मुहूर्ते वा शुचौ देशे समाहितः
ब्राह्मणं तु समाहूय विधिज्ञं शुभलक्षणम् ॥ २.१४.२० ॥
जपहोमैस्तथा दानैः कुर्याद्दहेस्य शोधनम्
पुण्येऽभिजित्सुनक्षत्रे ग्रहान्देवान्समर्चयेत् ॥ २.१४.२१ ॥
होमं कुर्याद्यथाशक्ति मन्त्रैश्च विविधैरपि
ग्रहाणां स्थापनं कुर्यात्पूर्वं चैव खगेश्वर ॥ २.१४.२२ ॥
मातॄणां पूजनं कार्यं वसोर्धारां च पातयेत्
वह्निं संस्थाप्य तत्रैव पूर्णं होमं तु कारयेत् ॥ २.१४.२३ ॥
शालग्रामं च संस्थाप्य वैष्णवं श्राद्धमाचरेत्
वृषं सम्पूज्य तत्रैव वस्त्रालङ्कारभूषणैः ॥ २.१४.२४ ॥
चतस्रो वत्सतर्यश्च पूर्वं समधिवासयेत्
प्रदक्षिणं ततः कुर्याद्धोमान्ते च विसर्जनम् ॥ २.१४.२५ ॥
इमं मन्त्रं समुच्चार्य उत्तराभिमुखः स्थितः
धर्म त्वं वृषरूपेण ब्रह्मणा निर्मितः पुरा ॥ २.१४.२६ ॥
तवोत्सर्गप्रभावान्मामुद्धरस्वभवार्णावात्
अबिषिच्य शुभैर्मन्त्रैः पावनैर्विधिपूर्वकम् ॥ २.१४.२७ ॥
तनक्रीडन्तिमन्त्रेण वृषोत्सर्गं तु कारयेत्
अभिषिञ्चेत्ततो नीलं रुद्रकुम्भो दकेन तु ॥ २.१४.२८ ॥
नाभिमूले समास्थाय तदम्बु मूर्धनि न्यसेत्
अन्न (आत्म) श्राद्धं ततः कुर्याद्दद्याद्दानं द्विजोत्तमे ॥ २.१४.२९ ॥
उदकेचैव गन्तव्यं जलं तत्र प्रदापयेत्
यदिष्टं जीवतस्त्वासीत्तच्च दद्यात्स्वशक्तितः ॥ २.१४.३० ॥
न्यूनं संपूर्णतां याति वृषोत्सर्गे कृते सति
सुतृप्तो दुस्तरे मार्गे मृतो याति न संशयः ॥ २.१४.३१ ॥
यमलोकं न पश्यन्ति सदा दानरता नराः
यावन्न दीयते जन्तोः श्राद्धं चैकादशाहिकम् ॥ २.१४.३२ ॥
स्वदत्तं परदत्तं वा नेहामुत्रोपतिष्ठति
त्रयोदशा तथा सप्त पञ्च त्रीणी क्रमेण तु ॥ २.१४.३३ ॥
पददानानि कुर्वीत श्रद्धाभक्तिसमन्वितः
तिलपात्राणि कुर्वीत सप्त पञ्च यथाक्रमम् ॥ २.१४.३४ ॥
ब्राह्मणान् भोजयेत्पश्चादेकां गां च प्रदापयेत्
वृषं हि शन्नोदेवीति वेदोक्तविधिना ततः ॥ २.१४.३५ ॥
चतसृभिर्वत्सतरीभिः परिणयनमाचरेत्
वामे चक्रं प्रदातव्यं त्रिशूलं दक्षिणे तथा ॥ २.१४.३६ ॥
मूल्यं दद्याद्वृषस्यापि तं वृषं च विसर्जयेत्
एकोद्दिष्टविधानेन स्वाहाकारेण वुद्धिमान् ॥ २.१४.३७ ॥
कुर्यादेकादशाहं च द्वादशाहं च यत्नतः
सपिण्डीकरणादर्वाक्कुर्याच्छ्राद्धानि षोडश ॥ २.१४.३८ ॥
ब्राह्मणान् भोजयित्वा तु पददानानि दापयेत्
कापोसोपरि संस्थाप्य ताम्रपात्रे तथाच्युतम् ॥ २.१४.३९ ॥
वस्त्रेणाच्छाद्य तत्रस्थमर्घं दद्याच्छुभैः फलैः
नावमिक्षुमयीं कृत्वा पट्टसूत्रेण वेष्टयेत् ॥ २.१४.४० ॥
कांस्यपात्रे घृतं स्थाप्य वैतरण्या निमित्ततः
नावारोहणं कुर्यात्पूजयेद्गरुडध्वजम् ॥ २.१४.४१ ॥
आत्मवित्तानुसारेण तच्च दानमनन्तकम्
भवसागरमग्नानां शोकतापार्तिदुः खिनाम् ॥ २.१४.४२ ॥
धर्मप्लवविहीनानां तारको हि जनार्दनः
तिला लोहं हिरण्यं च कार्पासं लवणं तथा ॥ २.१४.४३ ॥
सप्तधान्यं क्षितिर्गावो ह्येकैकं पावनं स्मृतम्
तिलपात्राणि कुर्वीत शय्यादानं च दापयेत् ॥ २.१४.४४ ॥
दीनानाथविशिष्टेभ्यो दद्याच्छक्त्या च दक्षिणाम्
एवं यः कुरुते तार्क्ष्य पुत्रवानप्यपुत्रवान् ॥ २.१४.४५ ॥
स सिद्धिं समवाप्नोति यथा ते ब्रह्मचारिणः
नित्यं नैमित्तिकं कुर्याद्यावज्जीवति मानवः ॥ २.१४.४६ ॥
यः कश्चित्क्रियते धर्मस्तत्फलं चाक्षयं भवेत्
तीर्थयात्राव्रतादीनां श्राद्धं संवत्सरस्य हि ॥ २.१४.४७ ॥
देवतानां गुरूणां च मातापित्रोस्तथैव च
पुण्यं देयं प्रयत्नेन प्रत्यहं वर्धते खग ॥ २.१४.४८ ॥
अस्मिन्यज्ञेः हियः कश्चिद्भूरिदानं प्रयच्छति
तत्तस्य चाक्षयं सर्वं वेदिकायां यथा किल ॥ २.१४.४९ ॥
यथा पूज्यतमा लोके यतयो ब्रह्मचारिणः
तथैव प्रतिपूज्यन्ते लोके सर्वे च नित्यशः ॥ २.१४.५० ॥
वरदोऽहं सदा तस्य चतुर्वक्त्रस्तथा हरः
ते यान्ति परमांल्लोकानिति सत्यं वचो मम ॥ २.१४.५१ ॥
उत्सृष्टो वृषभो यत्र पिबत्यपो जलाशये
शृङ्गेणालिखते वापि भूमिं नित्यं प्रहर्षितः ॥ २.१४.५२ ॥
पितॄणामन्नपानं च प्रभूतमुपतिष्ठति
पौर्णमास्याममायां वा तिलपात्राणि दापयेत् ॥ २.१४.५३ ॥
संक्रान्तीनां सहस्राणि सूर्यपर्वशतानि च
दत्त्वा यत्फलमाप्नोति तद्वै नीलविसर्जने ॥ २.१४.५४ ॥
वत्सतर्यः प्रदातव्या ब्राह्मणेभ्यः पदानि च
तिलपात्राणि देयानि शिवभक्तद्विजेषु च ॥ २.१४.५५ ॥
उमामहेश्वरं चैकं परिधाप्य प्रिदापयेत्
अतसीपुष्पसङ्काशं पीतवाससमच्युतम् ॥ २.१४.५६ ॥
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम्
प्रेतत्वान्मोक्षमिच्छन्तो ये करिष्यन्ति सत्क्रियाम् ॥ २.१४.५७ ॥
यास्यन्ति ते परांल्लोकानिति सत्यं वचो मम
एतत्ते सर्वमाख्यातं मया चैवोर्ध्वदैहिकम् ॥ २.१४.५८ ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
श्रुत्वा महात्म्यमतुलं गरुडो हर्षमागतः
मानुषाणां हितार्थाय पुनः प्रपच्छकेशवम् ॥ २.१४.५९ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे गोदानवृषोत्सर्गदशदानभूरिदानादिनिरूपणं नाम चतुर्दशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १५
गरुड उवाच
बगवन्ब्रूहि मे सर्वं यमलोकस्य निर्णयम्
जन्तोः प्रयाणमारभ्य माहात्म्यं वर्त्मविस्तरम् ॥ २.१५.१ ॥
श्रीभगवानुवाच
शृणु तार्क्ष्य प्रवक्ष्यामि यममार्गस्य निर्णयम्
प्रयाणकानि सर्वाणि नगराणि च षोडश ॥ २.१५.२ ॥
षाडशीतिसहस्राणि योजनानां प्रमाणतः
यमलोकस्य चोर्ध्वं वै अन्तरा मानुषस्य च ॥ २.१५.३ ॥
कुकृतं दुष्कृतं वापि भुक्त्वा लोके यथार्जितम्
कर्मयोगाद्यदा कश्चिद्व्याधिरुत्पद्यते खग ॥ २.१५.४ ॥
निमित्तमात्रं सर्वेषां कृतकर्मानुसारतः
यस्य यो विहितो मृत्युः स तं ध्रुवमवाप्नुयात् ॥ २.१५.५ ॥
कर्मयोगाद्यदा देही मुञ्चत्यत्र निजं वपुः
तदा भूमिगतं कुर्याद्गोमयेनोपलिप्य च ॥ २.१५.६ ॥
तिलान्दर्भान्विकीर्याथ मुखे स्वर्णं विनिः क्षिपेत्
तुलसींसन्निधौ कृत्वा शालग्रामशिलां तथा ॥ २.१५.७ ॥
सेतु (एवं) सामादिसूक्तैस्तु मरणं मुक्तिदायकम्
शलाकास्वर्णविक्षपैः प्रतप्राणिगृहेषुच ॥ २.१५.८ ॥
एका वक्त्रे तु दातव्या घ्राणयुग्मे तथा पुनः
अक्ष्णोश्च कर्णयोश्चैव द्वेद्वे देये यथाक्रमम् ॥ २.१५.९ ॥
अथ लिङ्गे तथा चैका त्वेकां ब्रह्माण्डकेक्षिपेत्
करयुग्मे च कण्ठे च तुलसीं च प्रदापयेत् ॥ २.१५.१० ॥
वस्त्रयुग्मं च दातव्यं कङ्कुमैश्चाक्षतैर्यजेत्
पुष्पमालायुतं कुर्यादन्यद्वारेण सन्नयेत् ॥ २.१५.११ ॥
पुत्रस्तु बान्धवैः सार्धं विप्रस्तु पुरवासिभिः
पितुः प्रेतं स्वयं पुत्रः स्कन्धमारोप्य बान्धवैः ॥ २.१५.१२ ॥
गत्वा श्मशानदेशे तु प्राड्मुखश्चोत्तरामुखम्
अदग्धपूर्वा या भूमिश्चितां तत्रैव कारयेत् ॥ २.१५.१३ ॥
श्रीखण्डतुलसीकाष्ठसमित्पालाशसंभृताम्
विकलेन्द्रियसङ्घाते चैतन्ये जडतां गते ॥ २.१५.१४ ॥
प्रचलन्ति ततः प्राणा याम्यैर्निकटवर्तिभिः
एकीभूतं जगत्पश्येद्दैवी दृष्टिः प्रजायते ॥ २.१५.१५ ॥
बीभत्सं दारुणं रूपं प्रणैः कण्ठं समाश्रितैः
फेनमुद्गिरते कोपि मुखं लालाकुलं भवेत् ॥ २.१५.१६ ॥
दुरात्मानश्च ताड्यन्ते किङ्करैः पाशबन्धनैः
सुखेन कृतिनस्तत्र नीयन्ते नाकनायकैः ॥ २.१५.१७ ॥
दुः खेन पापिनो यान्ति यममार्गे च दुर्गमे
यमश्चतुर्भुजो भूत्वा शङ्खचक्रगदादिभृत् ॥ २.१५.१८ ॥
पुण्यकर्मरतान्सम्यक्शुभान्मित्रवदाचरेत्
आहूय पापिनः सर्वान्यमो दण्डेन रज्जयेत् ॥ २.१५.१९ ॥
प्रलयाम्बुदनिर्घोषस्त्वञ्जनाद्रिसमप्रभः
महिषस्थो दुराराध्यो विद्युत्तेजः समद्युतिः ॥ २.१५.२० ॥
योजनत्रयविस्तारदेहो रौद्रोऽतिभीषणः
लोहदण्डधरो भीमः पाशपाणिर्दुराकृतिः ॥ २.१५.२१ ॥
वक्रनेत्रोऽतिभयदो दर्शनं याति पापिनाम्
अङ्गुष्ठमात्रः पुरुषो हाहा कुर्वन् कलेवरात् ॥ २.१५.२२ ॥
तदैव नीयते दूतैर्याम्यैर्वोक्षन्स्वकं गृहम्
निर्विचेष्टं शरीरं तु प्राणैर्मुक्तं जुगुप्सितम् ॥ २.१५.२३ ॥
अस्पृश्यं जायते तूर्णं दुर्गन्धं सर्वनिन्दितम्
त्रिधावस्था हि देहस्य कृमिविड्मस्मसंज्ञिता ॥ २.१५.२४ ॥
को गर्वः क्रियते तार्क्ष्य क्षणविध्वंसिभिर्नरैः
दानं वित्तादृता वाचः कीर्तिधर्मौ तथायुषः ॥ २.१५.२५ ॥
परोपकरणं कायादसतः सारमुद्धृतम्
तस्यैवं नीयमानस्य दूताः सन्तर्जयन्ति हि ॥ २.१५.२६ ॥
दर्शयन्तो भयं तीव्रं नरकाय पुनः पुनः
शीघ्रं प्रचल दुष्टात्मन् गतोऽसित्वं यमालये ॥ २.१५.२७ ॥
कुंभीपाकादिनरकांस्त्वां नेष्यामश्च मा चिरम्
एवं वाचस्तदा शृण्वन्बन्धूनां रुदितं तथा ॥ २.१५.२८ ॥
उच्चैर्हाहेति विलपन्नीयते यमकिङ्करैः
स्थाने श्राद्धं प्रकुर्वीत तथा चेकादशेऽहनि ॥ २.१५.२९ ॥
मृस्योत्क्रान्तिसमयात्षट्पिण्डान्क्रमशो ददेत्
मृतस्थाने तथा द्वारे चत्वरे तार्क्ष्य कारणात् ॥ २.१५.३० ॥
विश्रामे काष्ठचयने तथा सञ्चयने च षट्
शृणु तत्कारणं तार्क्ष्य षट्पिण्डपरिकल्पने ॥ २.१५.३१ ॥
मृतस्थाने शवो नाम तेन नाम्ना प्रदीयते
तेन दत्तेन तृप्यन्ति गृहवास्त्वधिदेवताः ॥ २.१५.३२ ॥
तेन भूमिर्भवेत्तुष्टातदधिष्ठातृदेवता
द्वारे तु पिण्डं देयं च पान्थमित्यभिधाय तु ॥ २.१५.३३ ॥
दत्तेन तेन प्रीणन्ति द्वारस्था गृहदेवताः
चत्वरे खेचरो नाम तमुद्दिश्य प्रदापयेत् ॥ २.१५.३४ ॥
न चोपघातं कुर्वन्ति भूताद्या देवयोनयः
विश्रामे भूतसंज्ञोऽयं तेन तत्र प्रदापयेत् ॥ २.१५.३५ ॥
पिशाचा राक्षसा यक्षा ये चान्ये दिशि वासिनः
तस्य होतव्यदेहस्यनैवायोग्यत्वकारकाः ॥ २.१५.३६ ॥
चितापिण्ढप्रभृतितः प्रेतत्वमुपजायते
चितायां साधकं नाम वदन्त्येके खगेश्वर ॥ २.१५.३७ ॥
केचित्तं प्रेतमेवाहुर्यथा कल्पविदो बुधाः
तदादि तत्रतत्रापि प्रेतनाम्ना प्रदीयते ॥ २.१५.३८ ॥
इत्येवं पञ्चभिः पिण्डैः शवस्याहुतियोग्यता
अन्यथा चोपघाताय पूर्वोक्तास्ते भवन्ति हि ॥ २.१५.३९ ॥
उत्क्रामे प्रथमं पिण्डं तथा चार्धपयेपि च
चितायां तु तृतीयं स्यात्त्रयः पिण्डाश्च कल्पिताः ॥ २.१५.४० ॥
विधाता प्रथमे पिण्डे द्वितीये गरुडध्वजः
तृतीये यमदूताश्च प्रयोगः परिकीर्तितः ॥ २.१५.४१ ॥
दत्ते तृतीये पिण्डेऽस्मिन्देहदोषैः प्रमुच्यते
आधारभूतजीवश्चज्वलनैर्ज्वालयेच्चिताम् ॥ २.१५.४२ ॥
संमृज्य चोपलिप्याथ उल्लिख्योद्धृत्य वेदिकाम्
अभ्युक्ष्योपसमाधाय वह्निं तत्रः विधानतः ॥ २.१५.४३ ॥
पुष्पाक्षतैश्च सम्पूज्य देवं क्रव्यादसंज्ञकम्
त्वं भूतकृज्जगद्योने त्वं लोकपरिपालकः ॥ २.१५.४४ ॥
उपसंहारकस्तस्मादेनं स्वर्गं मृतं नय
इति क्रव्यादमभ्यर्च्य शरीराहुतिमाचरेत् ॥ २.१५.४५ ॥
अर्धदग्धे तथा देहे दद्यादाज्याहुतिं ततः
लोमभ्यः स्वोतिवाक्येन कुर्याद्धोमं यथाविधि ॥ २.१५.४६ ॥
चितामारोप्य तं प्रेतं हुनेदाज्याहुतिं ततः
यमाय चान्तकायेति मृत्यवे ब्रह्मणे तथा ॥ २.१५.४७ ॥
जातवेदोमुके देया एका प्रेतमुखे तथा
ऊर्ध्वं तु ज्वालयेद्वह्निं पूर्वभागे चितां पुनः ॥ २.१५.४८ ॥
अस्मात्त्वमधिजातोसि त्वदयं जायतां पुनः
असौ स्वर्गाय लोकाय स्वाहा ज्वलति पावकः ॥ २.१५.४९ ॥
एवमाज्याहुतिं दत्त्वा तिलमिश्रां समन्त्रकाम्
ततो दाहः प्रकर्तव्यः पुत्रेण किल निश्चितम् ॥ २.१५.५० ॥
रोदितव्यं ततो गाढमेवं तस्य सुखं भवेत्
दाहस्यानन्तरं तत्र कृत्वा सञ्चयनक्रियाम् ॥ २.१५.५१ ॥
प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं खग
तावद्भूताः प्रतीक्षन्ते तं प्रेतं बान्धवार्थिनम् ॥ २.१५.५२ ॥
दाहस्यानन्तरं कार्यं पुत्रैः स्नानं सचैलकम्
तिलोदकं ततो दद्यान्नामगोत्रेण तिष्ठतु ॥ २.१५.५३ ॥
ततो जनपदैः सर्वैर्दातव्या करतालिका
विष्णुर्विष्णुरिति ब्रूयाद्गुणैः प्रेतमुदीरयेत् ॥ २.१५.५४ ॥
जनाः सर्वे समास्तस्य गृहमागत्य सर्वशः
द्वारस्य दक्षिणे भागे गोमयं गौरसर्षपान् ॥ २.१५.५५ ॥
निधाय वरुणं देवमन्तर्धाय स्ववेश्मनि
भक्षयेन्निम्बपत्राणि घृतं प्राश्य गृहं व्रजेत् ॥ २.१५.५६ ॥
केचिद्दुग्धेन सिञ्चन्ति चितास्थानं खगेश्वर
अश्रुपातं न कुर्वीत दद्यादस्मै जलाञ्जलीन् ॥ २.१५.५७ ॥
श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ २.१५.५८ ॥
दुग्धं च मृन्मये पात्रे तोयं दद्याद्दिनत्रयम्
सूर्ये चास्तं गते तार्क्ष्य वलभ्यां चत्वरेऽपि वा ॥ २.१५.५९ ॥
बद्धः संमूढहृदयो देहमिच्छन्कृतानुगः
श्मशानं चत्वरं गेहं वीक्षन्याम्यैः स नीयते ॥ २.१५.६० ॥
गर्ते पिण्डा दशाहं च दातव्याश्च दिनेदिने
जलाञ्जलीः प्रदातव्याः प्रेतमुद्दिश्य नित्यशः ॥ २.१५.६१ ॥
तावद्वृद्धिश्च कर्तव्या यावत्पिण्डं दशाहिकम्
पुत्त्रेण हि क्रिया कार्या भार्यया तदभावतः ॥ २.१५.६२ ॥
तदभावे च शिष्येण तदभावे सहोदरः
श्मशाने चान्यतीर्थे वा जलं पिण्डं च दापयेत् ॥ २.१५.६३ ॥
ओदनानि च सक्तूंश्च शाकमूलफलादिना
प्रथमेऽहनि यद्दद्यात्तद्दद्यादुत्तरेऽहनि ॥ २.१५.६४ ॥
दिनानि दश पिण्डांश्च कुर्वन्त्यत्र सुतादयः
प्रत्यहं ते विभज्यन्ते चतुर्भागाः खगेश्वर ॥ २.१५.६५ ॥
भागद्वयं तु देहार्थं प्रीतिदं भूतपञ्चके
तृतीयं यमदूतानां चतुर्थं चोपजीव्यति ॥ २.१५.६६ ॥
अहोरात्रैस्तु नवभिः प्रेतो निष्पत्तिमाप्नुयात्
जन्तोर्निष्पन्नदेहस्य दशमे वलवत्क्षुधा ॥ २.१५.६७ ॥
न विधिर्नैव मन्त्रश्च न स्वधावाहनाशिषः
नाम गोत्रं समुच्चार्य यद्दत्तं तद्दशाहिकम् ॥ २.१५.६८ ॥
दग्धे देहे पुनर्देहमेवमुत्पद्यते खग
प्रथमेऽहनि यः पिण्डस्तेन मूर्धा प्रजायते ॥ २.१५.६९ ॥
ग्रीवा स्कन्धौ द्वितीये च तृतीये हृदयं भवेत्
चतुर्थेन भवेत्पृष्ठं पञ्चमे नाभिरेव च ॥ २.१५.७० ॥
षट्सप्तमे कटी गुह्यमृरू चाप्यष्टमे तथा
तालू पादौ च नवमे दशमेऽह्नि क्षुधा भवेत् ॥ २.१५.७१ ॥
देहं प्राप्तः क्षुधाविष्टो गृहे द्वारे च तिष्ठति
दशमेऽहनि यः पिण्डस्तं दद्यादामिषेण तु ॥ २.१५.७२ ॥
यतो देहे समुत्पन्ने प्रेतोऽतीव क्षुधान्वितः
अतस्त्वामिषबाह्येन क्षुधा तस्य न नश्यति ॥ २.१५.७३ ॥
एकादशे द्वादशाहे प्रेतो भुङ्क्ते दिनद्वयम्
योषितः पुरुषास्यापि प्रेतशब्दं समुच्चरेत् ॥ २.१५.७४ ॥
दीपमन्नं जलं वस्त्रं यत्किञ्चिद्वस्तु दीयते
प्रेतशब्देन तद्देयं मृस्यानन्ददायकम् ॥ २.१५.७५ ॥
त्रयोदशेऽह्नि स प्रेतो नीयते च महापथे
पिण्डजं देहमाश्रित्य दिवा नक्तं बुभुक्षितः ॥ २.१५.७६ ॥
शीतोष्णशङ्कुक्रव्यादवह्निमार्गस्तु पापिनाम्
क्षुधा तृष्णात्मिका चैव सव्व सौम्यं कृतात्मनाम् ॥ २.१५.७७ ॥
मार्गे चैतानि दुः खानि असिपत्रवनान्विते
क्षुत्पिपासार्दितो नित्यं यमदृतैः प्रपीडितः ॥ २.१५.७८ ॥
अहन्यहनि वै प्रेतो योजनानां शतद्वयम्
चत्वारिंशत्तथा सप्त अहोरात्रेण गच्छति ॥ २.१५.७९ ॥
गृहीतो यमपाशैश्च हाहेति रुदिते तु सः
स्वगृहं तु परित्यज्य याम्यं पुरमनुव्रजेत् ॥ २.१५.८० ॥
क्रमेण याति स प्रेतः पुरं याम्यं शुभाशुभम्
अतीत्य तानितान्येव मार्गे पुरवराणि च ॥ २.१५.८१ ॥
याम्यं सौरिपुरं नगेन्द्रभवनं गन्धर्वशैलागमौ
क्रोञ्चं क्रूरपुरं विचित्रभवनं बह्वापदं दुः खदम् ॥ २.१५.८२ ॥
नानाक्रन्दपुरं सुतप्रभवनं रौद्रं पयोवर्षणं शीताढ्यं बहुधर्मभीतभवनं याम्यं पुरं चाग्रतः ॥ २.१५.८३ ॥
त्रयोदशेऽह्नि स प्रेतो गृहीतो यमकिङ्करैः
तस्मिन्मार्गे ब्रजत्येको गृहीत इव मर्कटः ॥ २.१५.८४ ॥
तथव स व्रजन्मार्गे पुत्रपुत्रेति च ब्रुवन्
हाहेति क्रन्दते नित्यं कीदृशं तु मया कृतम् ॥ २.१५.८५ ॥
मानुष्यं लभ्यते कस्मादिति ब्रूते प्रसर्पति
महता पुण्ययोगेन मानुष्यं जन्म लभ्यते ॥ २.१५.८६ ॥
न तत्प्राप्य प्रदत्तं हि याचकेभ्यः स्वकं धनम्
पराधीनं तदभवदिति ब्रूते (रौति) सगद्गदः ॥ २.१५.८७ ॥
किङ्करैः पीड्यतेऽत्यर्थं स्मरते पूर्वदैहिकम् ॥ २.१५.८८ ॥
सुखस्य दुः खस्य न कोपि दाता परो ददातीति कुबुद्धिरेषा
पुरा कृतं कर्म सदैव भुज्यते देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २.१५.८९ ॥
मया न दत्तं न हुतं हुताशने तपो न तप्तं हिमशैलगह्वरे
न सेवितं गाङ्गमहो महाजलं देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २.१५.९० ॥
न नित्यदानं न गावाह्निकं कृतं न वेददानं न च शास्त्रपुस्तकम्
पुरा नदृष्टं न च सेवितोऽध्वा देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २.१५.९१ ॥
जलाशयो नैव कृतो हि निर्जले मनुष्यहेतोः पशुपक्षिहेतवे
गोतृप्तिहेतोर्न कृतं हि गोचरं देहिन्क्वचिन्नस्तर यत्त्वया कृतम् ॥ २.१५.९२ ॥
मया न भुक्तं पतिसङ्गसौख्यं वह्निप्रवेशो न कृतो मृते सति
तस्मिन्मृते तद्व्रतपालनं वा देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २.१५.९३ ॥
मासोपवासैर्न विशोषितं वपुश्चान्द्रायणैर्वा नियमैश्च संहतैः
नारीशरीरं बहुदुः खभाजनं लब्धं मया पूर्वकृतैर्विकर्मभिः ॥ २.१५.९४ ॥
उक्तानि वाच्यानि मया नराणामतः शृणुष्वावहितोऽपि पक्षिन्
स्त्रीणां शरीरं प्रतिलभ्य देही ब्रवीति कर्माणि कृतानि पूर्वम् ॥ २.१५.९५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे यमलोकविस्तारतन्माहात्म्यतद्याननिरूपणं नाम पञ्चदशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १६
श्रीभगवानुवाच
एवं विलपतस्तस्य प्रेतस्यैवं खगेश्वर
क्रन्दमानस्य नितरां पीडितस्य च किङ्करैः ॥ २.१६.१ ॥
सप्तदश दिनान्येको वायुमार्गे विकृष्यते
अष्टादशे त्वहोरात्रे पूर्वं याम्यपुरं व्रजेत् ॥ २.१६.२ ॥
तस्मिन्पुरवरे रम्ये प्रेतानां च गणो महान्
पुष्पभद्रा नदी तत्रन्यग्रोधः प्रियदर्शनः ॥ २.१६.३ ॥
पुरे स तत्र विश्रामं प्राप्यते यमकिङ्करैः
जायापुत्रादिकं सौख्यं स्मरेत्तत्र सुदुः खितः ॥ २.१६.४ ॥
रुदते करुणैर्वाक्यै स्तृषार्तः श्रमपीडितः
स्वधनं स्वकलत्राणि गृहं पुत्राः सुखानि च ॥ २.१६.५ ॥
भृत्यमित्राणि चान्यच्च सर्वं शोचति वै तदा
क्षुधार्तस्य पुरे तस्मिन्किङ्करैस्तस्य चोच्यते ॥ २.१६.६ ॥
किङ्करा ऊचुः
क्व धनं क्व सुता जाया क्व गृहं क्व त्वमीदृशः
स्वकर्मोपार्जितं भुङ्क्ष्व चिरं गच्छ महापथे ॥ २.१६.७ ॥
जानासि शंबलवशं बलमध्वगानां नो शंबलः प्रयतते परलोकपान्थ
गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण यत्र भवतः क्रयविक्रयौ न ॥ २.१६.८ ॥
यमदूतोदितं वाक्यं पक्षिन्नैवं त्वया श्रुतम्
एवमुक्तस्ततः सर्वैर्हन्यमानः स मुद्गरैः ॥ २.१६.९ ॥
अत्र दत्तं सुतैः पात्रे (त्रैः) स्नेहाद्वा कृपयाथ वा
मासिकं पिण्डमश्राति ततः सौरिपुरं व्रजेत् ॥ २.१६.१० ॥
तत्र नाम्ना तु राजा वै जङ्गमः कालरूपधृक्
तं दृष्ट्वा भयभीतस्तु विश्रामे कुरुते मतिम् ॥ २.१६.११ ॥
उदकं चान्नसंयुक्तं भुङ्क्ते तस्मिन्पुरे गतः
त्रैपक्षिके तु यद्दत्तं तत्पुरं स व्यतिक्रमेत् ॥ २.१६.१२ ॥
नगेन्द्रनगरे रम्ये प्रेतो याति दिवानिशम्
गच्छन्वनानि रौद्राणि दृष्ट्वा क्रन्दति तत्र सः ॥ २.१६.१३ ॥
भीषणैः क्लिश्यमानस्तु रुदते च पुनः पुनः
मासद्वयावसाने तु तत्पुरं सोऽतिगच्छति ॥ २.१६.१४ ॥
भुक्त्वा चान्नं जलं पीत्वा यद्दत्तं वान्धवैरिह
क्लिश्यमानस्ततः पाशैर्नोयते यमकिङ्करैः ॥ २.१६.१५ ॥
तृतीये मासि सम्प्राप्ते गन्धर्वनगरं शुभम्
तृतीयं मासिकं भुक्त्वा तत्र गच्छत्यसौ पुरः ॥ २.१६.१६ ॥
शैलागमं चतुर्थे स मासे प्राप्नोति वै पुरम्
पाषाणास्तत्र वर्षन्ति प्रेतस्योपरि संस्थिताः ॥ २.१६.१७ ॥
चतुर्थमासिके श्राद्धं भुक्ते तत्र सुखी भवेत् ॥ २.१६.१८ ॥
ततो याति पुरं प्रेतः क्रूरं मासे तु पञ्चमे
इह दत्तं सुतैर्भुङ्क्ते प्रेतो वै तत्पुरे स्थितः
षष्ठे मासि ततः प्रेतो याति क्रौञ्चाबिधं पुरम् ॥ २.१६.१९ ॥
तत्र दत्तेन पिण्डेन श्राद्धेनाप्यायितः पुरे
मुहूर्तार्धं तु विश्रम्य कम्पमानः सुदुः खितः ॥ २.१६.२० ॥
तत्पुरं स व्यतिक्रम्य तर्जितो यमकिङ्करैः
प्रयाति चित्रनगरं विचित्रो यत्र पार्थिवः ॥ २.१६.२१ ॥
यमस्यैवानुजः सौरिर्यत्र राज्यं प्रशास्ति हि
मासैस्तु पञ्चभिः सार्धैरूपषाण्मासिकं भवेत् ॥ २.१६.२२ ॥
ऊनषाण्मासिकं तत्र भुङ्क्ते याम्यसमाहतः
मार्गे पुनः पुनस्तस्य बुभुक्षा पीडयत्यलम् ॥ २.१६.२३ ॥
सन्तिष्ठते मृते कोऽपि मदीयः सुतबान्धवः
सौख्यं यो मे जनयति पततः शोकसागरे ॥ २.१६.२४ ॥
एवं मार्गे विलपति वार्यमाणश्च किङ्करैः
आयान्ति संमुखास्तत्र कैवर्तास्तु सहस्रशः ॥ २.१६.२५ ॥
वयं ते तर्तुकामाय महावैतरणीं नदीम्
शतयोजनविस्तीर्णां पूयशोणितसंकुलाम् ॥ २.१६.२६ ॥
नानाझषसमाकीर्णां नानापक्षिगणैर्वृताम्
वयं त्वां तारयिष्यामः सुखेनेति वदन्ति ते ॥ २.१६.२७ ॥
अन्तरं देहि भो पान्थ बहुला चेद्रुचिस्तव
तेन तत्र प्रदत्ता गौस्तया नावा प्रसर्पति
मनुजानां हितं दानमन्ते वैतरणी स्मृता ॥ २.१६.२८ ॥
परापापं दहेत्सर्वं विष्णुलोकं च सा नयेत्
न दत्ता चेत्खगश्रेष्ठ तां समेत्य समज्जति ॥ २.१६.२९ ॥
स्वस्थावस्थे शरीरेऽत्र वैतरण्या व्रतं चरेत्
देया च विदुषे धेनुस्तां नदीं तर्तुमिच्छता ॥ २.१६.३० ॥
अवदन्मज्जमानस्तु निन्दत्यात्मानमात्मना
पाथेयार्थं मया किञ्चिन्न प्रदत्तं द्विजायच ॥ २.१६.३१ ॥
न दत्तं न हुतं जप्तं न स्नातं न कृतं स्तुतम्
यादृशं कर्म चरितं मूढ भुङ्क्ष्वेति तादृशम् ॥ २.१६.३२ ॥
तदैव हृदि संमूढस्ताडितो भाषते भटैः
वैतरण्याः परतटे भुङ्क्ते दत्तं घटादिकम् ॥ २.१६.३३ ॥
ऊनषाण्मासिकश्राद्धं भुक्त्वा गच्छति चाग्रतः
तार्क्ष्य तत्र विशेषेण भोजयीत द्विजाञ्छुभान् ॥ २.१६.३४ ॥
चत्वारिंशत्तथा सप्त योजनानि शतद्वयम्
प्रयाति प्रत्यहं तार्क्ष्य अहोरात्रेण कर्शितः ॥ २.१६.३५ ॥
सप्तमे मासि सम्प्राप्ते पुरं बह्वापदं व्रजेत्
तत्र भुक्त्व प्रदत्तं यच्छ्राद्धं सप्तममासिकम् ॥ २.१६.३६ ॥
अष्टमे मासि सम्प्राप्ते नानाक्रन्दपुरं व्रजेत्
नानाक्रन्दगणान्दृष्ट्वा क्रन्दमानान्सुदारुणम् ॥ २.१६.३७ ॥
स्वयं च शून्यहृदयः समाक्रन्दति दुः खितः
तन्मासिकं च यच्छ्राद्धं भुक्त्वा तत्र सुखी भवेत् ॥ २.१६.३८ ॥
विहाय तत्पुरं प्रेतो याति तप्तपुरं प्रति
सुतप्तनगरं प्राप्य नवमे मासि सोऽश्नुते
द्विजभोज्यं पिण्डदानं कृतं श्राद्धं सुतेन यत् ॥ २.१६.३९ ॥
मासि वै दशमे प्राप्ते रौद्रं स्थानं स गच्छति
दशमे मासि यद्दत्तं तद्भुक्त्वा च प्रयाति सः ॥ २.१६.४० ॥
दशैकमासिकं भुक्त्वा पयोवर्षणमृच्छति
मेघास्तत्र प्रवर्षन्ति प्रेतानां दुः खदायकाः ॥ २.१६.४१ ॥
(ततः प्रचलितो पोतो बहुर्घमतृषार्दितः)
द्वादशे मासि यच्छ्राद्धं तत्र भुङ्क्ते सुदुः शितः ॥ २.१६.४२ ॥
किञ्चिन्न्यूने ततो वर्षे सार्धे चैकादशेऽथ वा
याति शीतपुरं तत्र शीतं यत्रातिदुः खदम् ॥ २.१६.४३ ॥
शीतार्तः क्षुधितः सोऽथ वीक्षते हि दिशो दश
तिष्ठेत्तु बान्धवः कोऽपि यो मे दुःखं व्यपोहति ॥ २.१६.४४ ॥
किङ्करास्तं वदन्त्येवं क्व ते पुण्यं हि तादृशम्
श्रुत्वा तेषां तु तद्वाक्यं हा दैव इति भाषते ॥ २.१६.४५ ॥
दैवं हि पूर्वसुकृतं तन्मया नैव सञ्चितम्
एवं सञ्चिन्त्य बहुशो धैर्यमालम्बते पुनः ॥ २.१६.४६ ॥
चत्वारिंशद्योजनानि चतुर्युक्तानि वै ततः
धर्मराजपुरं रम्यं गन्धर्वाप्सराकुलम् ॥ २.१६.४७ ॥
चतुरशीतिलक्षैश्च मूर्तामूर्तैरधिष्ठितम्
त्रयोदश प्रतीहारा धर्मराजपुरे स्थिताः ॥ २.१६.४८ ॥
शुभाशुभं तु यत्कर्म ते विचार्य पुनः पुनः
श्रवणा ब्रह्मणः पुत्रा मनुष्याणां च चेष्टितम्
कथयन्ति तदा लोके पूजिताः पूजिताः स्वयम् ॥ २.१६.४९ ॥
नरैस्तुष्टैश्च पुष्टैश्च यत्प्रोक्तं च कृतं च यत्
सर्वमावेदयन्ति स्म चित्रगुप्ते यमे च तत् ॥ २.१६.५० ॥
दूराच्छ्रवणविज्ञाना दूराद्दर्शनगोचराः
एवञ्चेष्टास्तु ते ह्यष्टौ स्वर्भूपातालचारिणः ॥ २.१६.५१ ॥
तेषां पत्न्यस्तथै वोग्रा श्रवण्यः पृथगाह्वयाः
एवं तेषां शक्तिरस्ति यर्त्ये मर्त्याधिकारिणः ॥ २.१६.५२ ॥
व्रतैर्दानैस्तवैर्यश्च पूजयेदिह मानवः
जायन्ते तस्य ते सौम्याः सुखमृत्युप्रदायिनः ॥ २.१६.५३ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रेतयात्रादिनिरूपणं नाम षोडशोऽध्यायः
श्रीगरुडमाहापुराणम् १७
गरुड उवाच
एको मे संशयो देव हृदये सम्प्रबाधते
श्रमणाः कस्य पुत्राश्च कथं यमपुरे स्थिताः ॥ २.१७.१ ॥
मानुषैश्च कृतं कर्म कस्माज्जानन्ति ते प्रभो
कथं शृण्वन्ति ते सर्वे कस्माज्ज्ञानं समागतम् ॥ २.१७.२ ॥
कुत्र भुञ्जन्ति देवेश क्रथयस्व प्रसादतः
पक्षिराजवचः श्रुत्वा भगवान्वाक्यमब्रवीत् ॥ २.१७.३ ॥
श्रीकृष्ण उवाच
शृणुष्व वचनं सत्यं सर्वेषां सौख्यदायकम्
तदहं कथयिष्यामि श्रवणानां विचेष्टितम् ॥ २.१७.४ ॥
एकीभूतं यदा सर्वं जगत्स्थावरजङ्गमम्
क्षीरोदसागरे पूर्वं मयि सुप्ते जगत्पतौ ॥ २.१७.५ ॥
नाभिस्थोजस्तपस्तेपे वर्षाणि सुबहून्यपि
एकीभूतं जगत्सृष्टं भूतग्रामचतुर्विधम् ॥ २.१७.६ ॥
ब्रह्मणा निर्मितं पूर्वं विष्णुना पालितं तदा
रुद्रः संहारमूर्तिश्च निर्मितो ब्रह्मणा ततः ॥ २.१७.७ ॥
वायुः सर्वगतः सृष्टः सूर्यस्तेजोभिवृद्धिमान्
धर्मराजस्ततः सृष्टश्चित्रगुप्तेन संयुत) ॥ २.१७.८ ॥
सृष्ट्वैतदादिकं सर्वं तपस्तेपे तु पद्मजः
गतानि बहुवर्षाणि ब्रह्मणो नाभिपङ्कजे ॥ २.१७.९ ॥
योयो हि निर्मितः पूर्वं तत्तत्कर्म समाचरेत्
कस्मिंश्चित्समये तत्र ब्रह्मा लोकसमन्वितः ॥ २.१७.१० ॥
रुद्रो विष्णुस्तथा धर्मः शासयन्ति वसुन्धराम्
न जानीमो वयं किञ्चिल्लोककृत्यमिहोच्यताम् ॥ २.१७.११ ॥
इति चिन्तापराः सर्वे देवा विममृशुस्तदा
संचिन्त्य ब्रह्मणो मन्त्रं विबुधैः प्रेरितस्तदा ॥ २.१७.१२ ॥
गृहीत्वा पुष्पपत्राणि सोसृजद्द्वादशात्मजान्
तेजोराशीन्विशालाक्षान्ब्रह्मणो वचनात्तु ते ॥ २.१७.१३ ॥
योयं वदति लोकेस्मिञ्छुभं वा यदि वाशुभम्
प्रापयन्ति ततः शीघ्रं ब्रह्मणः कर्णगोचरम् ॥ २.१७.१४ ॥
दूराच्छ्रवणविज्ञानं दूराद्दर्शनगोचरम्
सर्वे शृण्वन्ति यत्पक्षिंस्तेनैव श्रवणा मताः ॥ २.१७.१५ ॥
स्थित्वा चैव तथाकाशे जन्तूनां चेष्टितं च यत्
तज्ज्ञात्वा धर्मराजाग्रे मृत्युकाले वदन्ति च ॥ २.१७.१६ ॥
धर्मं चार्थं च कामं च मोक्षं च कथयन्ति ते
एको हि धर्ममार्गश्च द्वितीयश्चार्थमार्गकः ॥ २.१७.१७ ॥
अपरः काममार्गश्च मोक्षमार्गश्चतुर्थकः
उत्तमा धममार्गेण वैनतेय प्रयान्ति हि ॥ २.१७.१८ ॥
अर्थदाता विमानैस्तु अश्वैः कामप्रदायकः
हंसयुक्तविमानैश्च मोक्षाकाङ्क्षी विसर्पति ॥ २.१७.१९ ॥
इतरः पादचारेण त्वसिपत्रवनानि च
पाषाणैः कण्टकैः क्लिष्टः पाशबद्धोऽथ याति वै ॥ २.१७.२० ॥
यः कश्चिन्मानुषे लोके श्रवणान्पूजयेदिह
वर्धन्या जलपात्रेम पक्वान्नपरिपूर्णया ॥ २.१७.२१ ॥
श्रवणान्पूजयेत्तत्र मया सह खगेश्वर
तस्याहं तत्प्रदास्यामि यत्सुरैरपि दुर्लभम् ॥ २.१७.२२ ॥
संभोज्य ब्राह्मणान् भक्त्या त्वेकादश शुभाञ्छुचीन्
द्वादशं सकलत्रं च मम प्रीत्यै प्रपूजयेत् ॥ २.१७.२३ ॥
देवैः सर्वैश्च संपूज्य स्वर्गं यान्ति सुखेप्सया
तैः पूजितैरह तुष्टश्चित्रगुप्तेन धर्मराट् ॥ २.१७.२४ ॥
तैस्तुष्टैर्मत्पुरं यान्ति लोका धर्मपारायणाः
श्रवणानां च माहात्म्यमुत्पत्तिं चेष्टितं शुभम् ॥ २.१७.२५ ॥
शृणोति पक्षिशार्दूल स च पापैर्न लिप्यते
इह लोके सुखं भुक्त्वा स्वर्गलोके महीयते ॥ २.१७.२६ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतक्लपे श्रवणमहात्म्यनिरूपणं नाम सप्तदसोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १८
श्रीकृष्ण उवाच
श्रवणानां वचः श्रुत्वा क्षणं ध्यात्वा पुनस्ततः
यत्कृतं तु मनुष्यैश्चपुण्यं पापमहर्निशम् ॥ २.१८.१ ॥
तत्सर्वं च परिज्ञाय चित्रगुप्तो निवेदयेत्
चित्रगुप्तस्ततः सर्वं कर्म तस्मै वदत्यथ ॥ २.१८.२ ॥
वाचैव यत्कृतं कर्म कृतं चैव तु कायिकम्
मानसं च तथा कर्म कृतं भुङ्क्ते शुभाशुभम् ॥ २.१८.३ ॥
एवं ते कथितस्तार्क्ष्य प्रेतमार्गस्य निर्णयः
विश्रान्ति दानि सर्वाणि स्थानानि कथितानि ते ॥ २.१८.४ ॥
तमुद्दिश्य ददात्यन्नं सुखं याति महाध्वनि
दिवा रात्रौ तमुद्दिश्य स्थाने दीपप्रदो भवेत् ॥ २.१८.५ ॥
अन्धकारे महाघोरे श्वपूर्णे लक्ष्यवर्जिते
दीप्तेऽध्वनि च ते यान्ति दीपो दत्तश्च यैर्नरैः ॥ २.१८.६ ॥
कार्तिके च चतुर्दश्यां दीपदानं सुखाय वै
अथ वक्ष्यामि संक्षेपाद्यममार्गस्य निष्कृतिम् ॥ २.१८.७ ॥
वृषोत्सर्गस्य पुण्येन पितृलोकं स गच्छति
एकादशाहपिण्डेन शुद्धदेहो भवेत्ततः ॥ २.१८.८ ॥
उदकुम्भप्रदानेन किङ्करास्तृप्तिमाप्नुयुः ॥ २.१८.९ ॥
शय्यादानाद्बिमानस्थो याति स्वर्गेषु मानवः
तदह्नि दीयते सर्वं द्वादशाहे विशेषतः ॥ २.१८.१० ॥
पदानि सर्ववस्तूनि वरिष्ठानि त्रयोदशे
यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ॥ २.१८.११ ॥
तदाश्रितो महामार्गे वैनतेय स गच्छति
एक एवास्ति सर्वत्रे व्यवहारः खगाधिप ॥ २.१८.१२ ॥
उत्तमाधममध्यानां तत्तदावर्जनं भवेत्
यावद्भाग्यं भवेद्यस्य तावन्मार्गेऽतिरिच्यते ॥ २.१८.१३ ॥
स्वयं स्वस्येन यद्दत्तं तत्तत्राधिकरोति तम्
मृते यद्बान्धवैर्दत्तं तदाश्रित्य सुखी भवेत् ॥ २.१८.१४ ॥
गरुड उवाच
कस्मात्पदानि देयानि किंविधानि त्रयोदश
दीयते कस्य देवेश तद्वदस्व यथातथम् ॥ २.१८.१५ ॥
श्रीभगवानुवाच
छत्त्रोपानहवस्त्राणि मुद्रिका च कमण्डलुः
आसनं भाजनं चैव पदं सप्तविधं स्मृतम् ॥ २.१८.१६ ॥
आतपस्तत्र यो रौद्रो दह्यते येन मानवः
छत्रदानेन सुच्छाया जायते प्रेततुष्टिदा ॥ २.१८.१७ ॥
असिपत्रवनं घोरं सोऽतिक्रामति वै ध्रुवम्
अश्वारूढाश्च गच्छन्ति ददते य उपानहौ ॥ २.१८.१८ ॥
आसने स्वागते (भोजने) चैव दत्तं तस्मै द्विजायते
सुखेन भुङ्क्ते स प्रेतः पथि गच्छञ्छनैः शनैः ॥ २.१८.१९ ॥
बहुधर्मसमाकीर्णे निर्वाते तोयवर्जिते
कमण्डलुप्रदानेन सुखी भवति निश्चितम् ॥ २.१८.२० ॥
मृतोद्देशेन यो दद्यादुदपात्रं तु ताम्रजम्
प्रपादानसहस्रस्य तत्फलं सोऽश्नुते ध्रुवम् ॥ २.१८.२१ ॥
यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः
न पीडयन्ति दाक्षिण्याद्वस्त्राभारणदानतः ॥ २.१८.२२ ॥
सायुधा धावमानाश्च न मार्गे दृष्टिगोचराः
प्रयान्ति यमदूतास्ते मुद्रिकायाः प्रदानतः ॥ २.१८.२३ ॥
भाजनासनदानेन आमान्नभोजनेन च
आज्ययज्ञोपवीताभ्यां पदं सम्पूर्णतां व्रजेत् ॥ २.१८.२४ ॥
एवं मार्गे गच्छमानस्तृषार्तः श्रमपीडितः
महिषीरथ (दुग्ध) दानाच्च सुखी भवति निश्चितम् ॥ २.१८.२५ ॥
गरुड उवाच
मृतोद्देशेन यत्किञ्चिद्दीयते स्वगृहे विभो
स गच्छति महामार्गे तद्दत्तं केन गृह्यते ॥ २.१८.२६ ॥
श्रीभगवानुवाच
गृह्णाति वरुणो दानं मम हस्ते प्रयच्छति
अहं च भास्करे देवे भास्करात्सोऽश्नुते सुखम् ॥ २.१८.२७ ॥
विकर्मणः प्रभावेण वंशच्छेदे क्षिताविह
सर्वे ते नरकं यान्ति यावत्पापस्य संक्षयः ॥ २.१८.२८ ॥
कस्मिंश्चित्समये पूर्णे महिषासनसंस्थितः
नरकान्वीक्ष्य धर्मात्मा नानाक्रन्दसमाकुलान् ॥ २.१८.२९ ॥
चतुरशीतिलक्षाणां नरकाणां स ईश्वरः
तेषां मध्ये श्रेष्ठतमा घोरा या एकविंशतिः ॥ २.१८.३० ॥
तामिस्त्रं लोहशङ्कुश्च महारौरवशाल्मली
रौरवं कुड्वलं कालसूत्रकं पूतिमृतिका ॥ २.१८.३१ ॥
सङ्घातं लोहतोदं च सविषं सम्प्रतापनम्
महानरककालोलः सजीवनमहापथः ॥ २.१८.३२ ॥
अवीचिरन्धता मिस्त्रः कुम्भोपाकस्तथैव च
असिपत्रवनं चैव पतनश्चैकविंशतिः ॥ २.१८.३३ ॥
येषां तु नरके घोरे बह्वब्दानि गतानि वै
सन्तातर्नैव विद्यते दूतत्वं ते तु (प्रेत्य) यान्ति हि ॥ २.१८.३४ ॥
यमेन प्रेषितास्ते वै मानुषस्य मृतस्य तु
दिनेदिने प्रगृह्णन्ति दत्तमन्नाद्यपानकम् ॥ २.१८.३५ ॥
प्रेतस्यैव विलुण्ठन्ति मध्ये मार्गे बुभुक्षिताः
मासान्ते भोजनं पिण्डमेके यच्छन्ति तत्र वै ॥ २.१८.३६ ॥
तृप्तिं प्रयान्ति ते सर्वे प्रत्यहं चैव वत्सरम्
एवमादिकृतैः पुण्यैः क्रमात्सौरिपुरं व्रजेत् ॥ २.१८.३७ ॥
ततः संवत्सरस्यान्ते प्रत्यासन्ने यमालये
बहुभीतकरे प्रेतो हस्तमात्रं समुत्सृजेत् ॥ २.१८.३८ ॥
दिवसैर्दशभिर्जातं तं देहं दशपिण्डजम्
जामदग्न्यस्येव रामं दृष्ट्वा तेजः प्रसर्पति ॥ २.१८.३९ ॥
कर्मजं देहमाश्रित्य पूर्वदेहं समुत्सजेत्
अङ्गुष्ठमात्रो वायुश्च शमीपत्रंसमारुहेत् ॥ २.१८.४० ॥
व्रजंस्तिष्ठन्पदैकेन यथैवैकेन गच्छति
यथा तृणजलौकेव देही कर्मानुगोऽवशः ॥ २.१८.४१ ॥
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २.१८.४२ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मदृप्रेतदृश्रीकृष्णगरुड संवादे वृषोत्सर्गनानादानफलयमलोकगमनकर्मजदेहप्राप्तिनिरूपणं नामाष्टादशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १९
श्रीभगवानुवाच
वायुभूतः क्षधाविष्टः कर्मजं देहमाश्रितः
ते देहं स समासाद्य यमेन सह गच्छति ॥ २.१९.१ ॥
चित्रगुप्तपुरं तत्र योजनानां तु विंशतिः
कायस्थास्तत्र पश्यन्ति पापपुण्यानि सर्वशः ॥ २.१९.२ ॥
महादानेषुदत्तेषु गतस्तत्र सुखी भवेत्
योजनानां चतुर्विंशत्पुरं वैवस्वतं शुभम् ॥ २.१९.३ ॥
लोहं लवणकार्पासं तिलपात्रं च यैर्नरैः
दत्तं तेनैव तृप्यन्ति यमस्य पुरचारिणः ॥ २.१९.४ ॥
गत्वा च तत्र ते सर्वे प्रतीहारं वदन्ति हि
धर्मध्वजप्रतीहारस्तत्र तिष्ठति सर्वदा ॥ २.१९.५ ॥
सप्तधान्यस्य दानेन प्रीतो धर्मध्वजो भवेत्
तत्र गत्वा प्रतीहारो ब्रूते तस्य शुभाशुभम् ॥ २.१९.६ ॥
धर्मराजस्य यद्रूपं सन्तः सुकृतिनो जनाः
पश्यन्ति च दुरात्मानो यमरूपं सुभीषणम् ॥ २.१९.७ ॥
तं दृष्ट्वा भयभीतस्तु हाहेति वदते जनः
कृतं दानं च यैर्मर्त्यैस्तेषां नास्ति भयं क्वचित् ॥ २.१९.८ ॥
प्राप्तं सुकृतिनं दृष्ट्वा स्थानाच्च लति सूर्यजः
एष मे मण्डलं भित्त्वा ब्रह्मलोकं प्रयास्यति ॥ २.१९.९ ॥
दानेन सुलभो धर्मो यममार्गः सुखावहः
एष मार्गो विशालोऽत्र न केनाप्य नुगम्यते
दानपुण्यं विना वत्स न गच्छेद्धर्ममन्दिरम् ॥ २.१९.१० ॥
तस्मिन्मार्गे तु रौद्रे वै भीषणा यमकिङ्कराः
एकैकस्य पुरस्याग्रे तिष्ठत्येकसहस्रकम् ॥ २.१९.११ ॥
पचन्ति पापिनं प्राप्य उदके यातनाकराः
गृह्णन्ति मासमासान्ते पादशेषं तु तद्भवेत् ॥ २.१९.१२ ॥
और्ध्वदैहिकदानानि यैर्न दत्तानि काश्यप
महाकष्टेन ते यान्ति तस्माद्देयानि शक्तितः
अदत्त्वा पशुवद्यान्ति गृहीतो वन्धबन्धनैः ॥ २.१९.१३ ॥
एवं कृतेन सम्पश्येत्स नरः भूतकर्मणा
दैविकीं पैतृकीं योनिं मानुषीं वाथ नारकीम् ॥ २.१९.१४ ॥
धर्मराजस्य वचनान्मुक्तिर्भवति वा ततः
मानुष्यं तत्त्वतः प्राप्य स पुत्त्रः पुत्त्रतां व्रजेत् ॥ २.१९.१५ ॥
यथायथा कृतं कर्म तान्तां योनिं व्रजेन्नरः
तत्तथैव च भुञ्जानो विचरेत्सर्वलोकगः ॥ २.१९.१६ ॥
अशाश्वतं परिज्ञाय सर्वलोकोत्तरं सुखम्
यदा भवति मानुष्यं तदा धर्मं समाचरेत् ॥ २.१९.१७ ॥
कृमयो भस्म विष्ठा वा देहानां प्रकृतिः सदा
अन्धकूपे महारौद्रे दीपहस्तः पातेत्तु वै ॥ २.१९.१८ ॥
महापुण्यप्रभावेण मानुष्यं जन्म लभ्यते
यस्तत्प्राप्य चरेद्धर्मं स गच्छेत्परमां गतिम् ॥ २.१९.१९ ॥
अपि जानन्वृथा धर्मं दुः खमायाति याति च ॥ २.१९.२० ॥
जातीशतेन लभते किल मानुषत्वं तत्रापि दुर्लभतरं खग भो द्विजत्वम्
यस्तत्र पालयति लालयति व्रतानि तस्यामृतं भवति हस्तगतं प्रसादात् ॥ २.१९.२१ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे यममन्दिरप्रवेशतदाज्ञालब्धमनुष्यादि देहांन्तरप्राप्तिनिरूपणं नामैकोनविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २०
गरुड उवाच
ये केचित्प्रेतरूपेण कुत्र वासं लभन्ति ते
प्रेतलोकाद्विनिर्मुक्ताः कथं कुत्र व्रजन्ति ते ॥ २.२०.१ ॥
चतुर्युक्ताशीति लक्षैर्नरकैः पर्युपासिताः
यमेन रक्षितास्तत्र भूतैश्चैव सहस्रशः ॥ २.२०.२ ॥
विचरन्ति कथं लोके नरकाच्च विनिर्गताः
गरुडोदीरितं श्रुत्वा लक्ष्मीनाथोऽब्रवीदिदम् ॥ २.२०.३ ॥
श्रीकृष्ण उवाच
पक्षिराज शृणुष्व त्वं यत्र प्रेताश्चरन्ति वै
परार्थदारग्रहणाच्छ (ब) लाद्द्रोहान्निशाचराः ॥ २.२०.४ ॥
तथैव सर्वपापिष्ठः स्वात्मजान्वेषणे रताः
विचरन्त्यशरीरास्ते क्षुप्तिपासार्दिता भृशम् ॥ २.२०.५ ॥
बन्दीगृहवि निर्मुक्ता येभ्यो नश्यन्ति जन्तवः
ते व्यवस्यन्ति च प्रेता वधोपायं च बन्धुषु ॥ २.२०.६ ॥
पितृद्वदाराणि रुन्धन्ति तन्मार्गोच्छेदकास्तथा
पितृभा गान्विगृह्णन्ति पान्थेभ्यस्तस्करा इव ॥ २.२०.७ ॥
स्वं वेश्म पुनरागत्य मित्रस्थाने विशन्ति ते
तत्र स्थिता निरीक्षन्ते रोगशोकादिबन्धनाः ॥ २.२०.८ ॥
पीडयन्ति ज्वरीभूय एकान्तरमिषेण तु
तृतीयकज्वरा भूत्वा शीतवातादिपीडया ॥ २.२०.९ ॥
अन्यांश्च विविधान्रोगाञ्छिरोऽर्तिं च विषूचिकाम्
चिन्त यन्ति सदा तेषामुच्छिष्टादिस्थलस्थिताः ॥ २.२०.१० ॥
आत्मजानां छलाल्लोका भूतसङ्घैश्च रक्षिताः
पिबन्ति ते च पानीयं भोजनोच्छिष्टयोजितम् ॥ २.२०.११ ॥
एवं प्रेताः प्रवर्तन्ते नानादोषैर्विकर्मिणः ॥ २.२०.१२ ॥
गरुड उवाच
कथं कुर्वन्ति ते प्रेताः केन रूपेण कस्य किम्
ज्ञायते केन विधिना जल्पन्ति न वदन्ति वा ॥ २.२०.१३ ॥
एनं छिन्धि मनोमोहं मम चेदिच्छसि प्रियम्
कलिकाले हृषीकेश प्रेतत्वं जायते बहु ॥ २.२०.१४ ॥
श्रीविष्णुरुवाच [VISHNU SAID]
स्वकुलं पीडयेत्पेतः परच्छिद्रेण पीडयेत्
जीवन्स दृश्यते स्नेही मृतो दुष्टत्वमाप्नुयात् ॥ २.२०.१५ ॥
रुद्रजापी धर्मरतो देवतातिथिपूजकः
सत्यवाक्प्रियवादी च न प्रेतैः स हि पीड्यते ॥ २.२०.१६ ॥
सर्वक्रियापरिभ्रष्टो नास्तिको धर्मनिन्दकः
असत्यवादनिरतो नरः प्रेतैः स पीड्यते
कलौ प्रेतत्वमाप्नोति तार्क्ष्याशुद्धक्रियापरः ॥ २.२०.१७ ॥
कृतादौ द्वापरान्ते च न प्रेतो नैव पीडनम्
बहूनामेकजातानामेकः सौख्यं समश्नुते ॥ २.२०.१८ ॥
एको दुष्कृतकर्मा च एकः सन्ततिमाञ्जनः
एकः सम्पीड्यते प्रेतैरेकः सुतधनान्वितः ॥ २.२०.१९ ॥
एकस्य पुत्रनाशः स्यादेको दुहितृमान् भवेत्
विरोधो बन्धुभिः सार्धं प्रेतदोषेण काश्यप ॥ २.२०.२० ॥
सन्ततिर्दृश्यते नैव समुत्पन्ना विनश्यति
पशुद्रव्यविनाशश्च सा पीडा प्रेतसम्भवा ॥ २.२०.२१ ॥
प्रकृतेः परिवर्तः स्याद्विद्वेषः सह बन्धुभिः
अकस्माद्व्यसनप्राप्तिः सा पीडा प्रेतसम्भवा ॥ २.२०.२२ ॥
नास्तिक्यं वृत्तिलोपश्च महालोभस्तथैव च
स्याद्धन्तकलहो नित्यं सा पीडा प्रेतसम्भवा ॥ २.२०.२३ ॥
पितृमातृनिहन्ता च देवब्राह्मणनिन्दकः
इत्यादोषमवाप्नोति सा पीडा प्रेतसम्भवा ॥ २.२०.२४ ॥
नित्यकर्मविनिंमुक्तो जपहोमविवर्जितः
परद्रव्याणां च हर्ता सा पीडा प्रेतसम्भवा ॥ २.२०.२५ ॥
सुवृष्टौ कृषिनाशश्च व्यवहारो विनश्यति
लोके कलहकारी च सा पीडा प्रेतसम्भवा ॥ २.२०.२६ ॥
मार्गे जङ्गम्यमानं तं पीडयेद्वातमण्डली
प्रेतपीडा तु सा ज्ञेया सत्यंसत्यं खगेश्वर ॥ २.२०.२७ ॥
हीनजात्या च सम्बन्धो हीनकर्म करोति यः
अधर्मे रमते नित्यं सा पीडा प्रेतसम्भवा ॥ २.२०.२८ ॥
व्यसनैर्द्रव्यनाशः स्यादुपक्रान्तं विनश्यति
चौराग्निराजभिर्हानिः सा पीडा प्रेतसम्भवा ॥ २.२०.२९ ॥
महारोगोपलब्धिश्च बालकानां च पीडनम्
जाया संपीढ्यते यच्च सा पीडा प्रेतसम्भवा ॥ २.२०.३० ॥
श्रुतिस्मृतिपुराणेषु धर्मशास्त्रसमुद्भवे
अभावो जायते धर्मे सा पीडा प्रेतसम्भवा ॥ २.२०.३१ ॥
देवतीर्थद्विजानां तु निन्दांयः कुरुते नरः
प्रत्यक्षं वा परोक्षं वा सा पीडा प्रेतसम्भवा ॥ २.२०.३२ ॥
स्ववृत्तिहरणं यच्च स्वप्रतिष्ठाहतिस्तथा
वंशच्छेदः नदृश्येत प्रेतदोषाद्विनान्यथा ॥ २.२०.३३ ॥
स्त्रीणां गर्भविनाशः स्यान्न पुष्पं दृश्यते तथा
बालानां मरणं यत्र सा पीडा प्रेतसम्भवा ॥ २.२०.३४ ॥
भावशुद्ध्या न कुरुते श्राद्धं सांवत्सरादिकम्
स्वयमेव न कुर्वीत सा पीडा प्रेतसम्भवा ॥ २.२०.३५ ॥
तीर्थे गत्त्वा परासक्तः स्वकृत्यं च परित्यजेत्
धर्मकार्ये न सम्पत्तिः सा पीडा प्रेतसम्भवा ॥ २.२०.३६ ॥
दम्पत्योः कलहश्चैव भोजने कोपसंयुतः
परद्रोहे मतिश्चैव सा पीडा प्रेतसंभवा ॥ २.२०.३७ ॥
पुष्पं यत्र न दृश्येन फलं तथा
विरहो भार्यया यत्र सा पीडा प्रेतसग्भवा ॥ २.२०.३८ ॥
येषां वै जायते चिह्नं सदोच्चाटपरं नृणाम्
स्वक्षेत्रे निष्फलं तेजः सा पीडा प्रेतसम्भवा ॥ २.२०.३९ ॥
स्वगोत्रघातकश्चैव हन्ति शत्रुमिवात्मजम्
न प्रीतिर्नापि सौख्यं च सा पीडा प्रेतसम्भवा ॥ २.२०.४० ॥
पितृवाक्यं न कुरुते स्वपत्नीं च न सेवते
सदा क्रूरमतिर्व्यग्रः सा पीडा प्रेतसम्भवा ॥ २.२०.४१ ॥
विकर्मा जायते प्रेतो ह्यविधिक्रियया तथा
तत्कालदुष्टसंसर्गाद्वृषोत्सर्गादृते तथा ॥ २.२०.४२ ॥
दृष्टगृत्युवशाद्वापि अदग्धवपुषस्तथा
प्रेतत्वं जायते तार्क्ष्य पीड्यन्ते येन जन्तवः ॥ २.२०.४३ ॥
एवं ज्ञात्वा खगश्रेष्ठ प्रेतमुक्तिं समाचरेत्
यो वै न मन्यते प्रेतान्मृतः प्रेतत्वमाप्नुयात् ॥ २.२०.४४ ॥
प्रेतदोषः कुले यस्य सुखं तस्य न विद्यते
मतिः प्रीती रतिर्बुद्धिर्लक्ष्मीः पञ्चविनाशनम् ॥ २.२०.४५ ॥
तृतीये पञ्चमे पुंसि वंशच्छेदो हि जायते
दरिद्रो निर्धनश्चैव पापकर्मा भवेभवे ॥ २.२०.४६ ॥
ये केचित्पेतरूपा विकृतमुखदृशो रौद्ररूपाः कराला मन्यन्ते नैव गोत्रं सुतदुहितृपितॄन् भ्रातृजायां वधूं वा
कृत्वा काम्यं च रूपं सुखगतिरहिता भाषमाणा यथेष्टं हा कष्टं भोक्तुकामा विधिवशपतिताः संस्मरन्ति स्वपाकम् ॥ २.२०.४७ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रतकल्पे श्रीकृष्णगरुडसंवादे प्रेतावासतद्बाधाप्रकारनिरूपणं नाम विंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २१
गरुड उवाच
मुक्तिं यान्ति कथं प्रेतास्तदहं प्रष्टुमुत्सुकः
यन्मुक्तौ च मनुष्याणां न पीडा जायते पुनः ॥ २.२१.१ ॥
एतैश्च लक्षणैर्देव पीडोक्ता प्रेतजा त्वया
तेषां कदा भवेन्मुक्तिः प्रेतत्वं न कथं भवेत् ॥ २.२१.२ ॥
प्रेतत्वे हि प्रमाणं च कति वर्षाणि संख्यया
चिरं प्रेतत्वमापन्नः कथं मुक्तिमवाप्नुयात् ॥ २.२१.३ ॥
श्रीकृष्ण उवाच
मुक्तिं प्रायन्ति ते प्रेतास्तदहं कथयामि ते
यदैव मनुजोऽवैति मम पीडा कृता त्वियम् ॥ २.२१.४ ॥
पृच्छार्थं हितमन्विच्छन्दै वज्ञे विनिवदयेत्
स्वप्ने दृष्टः शुभो वृक्षः फलितश्चूतचम्पकः ॥ २.२१.५ ॥
विप्रो वा वृषभो देवो भ्रमते तीर्थगो यदि
एवं दृष्टो यदा स्वप्नो मृतः कोऽपिस्वगोत्रजः ॥ २.२१.६ ॥
स्वप्ने सत्यं परिज्ञाय दृष्टं प्रेतप्रभावतः
अद्भुतानि प्रदृश्यन्ते प्रेतदोषाद्विनिश्चितम् ॥ २.२१.७ ॥
तीर्थस्नाने मतिर्यावच्चित्तं धर्मपरायणम्
धर्मापायं प्रकुरुते प्रेतपीडा तदा व्रजेत् ॥ २.२१.८ ॥
तदा तत्र विनाशाय चित्तभङ्गं करोति सा
श्रेयांसि बहुविघ्नानि सम्भवन्ति पदेपदे ॥ २.२१.९ ॥
अश्रेयसि प्रवृत्ति च प्रेरयन्ति पुनः पुनः
उच्चाटनं च क्रूरत्वं सर्वं प्रेतकृतं खग ॥ २.२१.१० ॥
सर्वविघ्नानि सन्त्यज्य मुक्त्युपायं करोति यः
तस्य कर्मफलं साधु प्रेतवृत्तिश्च शाश्वती ॥ २.२१.११ ॥
स भवेत्तेन मुक्तस्तु दत्तं श्रेयस्करं परम्
स्वयं तृप्यति भोः पक्षिन्यस्योद्देशेन दीयते ॥ २.२१.१२ ॥
शृणु सत्यमिदं तार्क्ष्य यद्ददाति भुनक्ति सः
आत्मानं श्रेयसा युञ्ज्यात्प्रेतस्तृप्तिं चिरं व्रजेत् ॥ २.२१.१३ ॥
ते तृप्ताः शुभमिच्छन्ति निजबन्धुषु सर्वदा
अज्ञातयस्तु ये दुष्टाः पीडयन्ति स्ववंशजान् ॥ २.२१.१४ ॥
निवारयन्ति तृप्तास्ते जायमानानुकम्पकाः
पश्चात्ते मुक्तिमायन्ति काले प्राप्ते स्वपुत्रतः
सदा बन्धुषु यच्छन्ति वृद्धिमृद्धिं खगाधिप ॥ २.२१.१५ ॥
दर्शनाद्भाषणाद्यस्तु चेष्टातः पीडनाद्गतिम्
न प्रापयति मूढात्मा प्रेतशापैः स लिप्यते ॥ २.२१.१६ ॥
अपुत्रकोऽपशुश्चैव दरिद्रो व्याधितस्तथा
वृत्तिहीनश्च हीनश्च भवेज्जन्मनिजन्मनि ॥ २.२१.१७ ॥
एवं ब्रुवन्ति ते प्रेताः पुनर्याभ्यं समाश्रिताः
तत्रस्थानां भवेन्मुक्तिः स्वकाले कर्मसंक्षये ॥ २.२१.१८ ॥
गरुड उवाच
नाम गोत्रं न दृश्येत प्रतीतिर्नैव जायते
केचिद्वदन्ति दैवज्ञाः पीडां प्रेतसमुद्भवाम् ॥ २.२१.१९ ॥
न स्वप्नश्चैष्टितं नैव दर्शनं न कदाचन
किं कर्तव्यं सुरश्रेष्ठ तत्र मे ब्रूहि निश्चितम् ॥ २.२१.२० ॥
श्रीभगवानुवाच
सत्यं वाप्यनृतं वापि वदन्ति क्षितिदेवताः
तदा सञ्चिन्त्य हृदये सत्यमेतद्द्विजेरितम् ॥ २.२१.२१ ॥
भावभक्तिं पुरस्कृत्य पितृभक्तिपरायणः
कृत्वा कृष्णबलिं चैव पुरश्चरण पूर्वकम् ॥ २.२१.२२ ॥
जपहोमैस्तथा दानैः प्रकुर्याद्देहसोधनम्
कृतेन तेन विघ्नानि विनश्यन्ति खगेश्वर ॥ २.२१.२३ ॥
भूतप्रेतपिशाचैर्वा स चेदन्यैः प्रपीड्यते
पित्रुद्देशेन वै कुर्यान्नारायणबलिं तदा
विमुक्तः सर्वपीडाभ्य इति सत्यं वचो मम ॥ २.२१.२४ ॥
पितृपीडा भवेद्यत्र कृत्यैरन्यैर्न मुच्यते
तस्मात्सर्वप्रयत्नेन पितृभक्तिपरो भवेत् ॥ २.२१.२५ ॥
नवमे दशमे वर्षे पिक्षुद्देशेन वै पुमान्
गायत्त्रीमयुतं जप्त्वा दशांशेन च होमयेत् ॥ २.२१.२६ ॥
कृत्वा कृष्णबलिं पूर्वं वृषोत्सर्गादिकाः क्रियाः
सर्वोपद्रवहीनस्तु सर्वसौख्यमवाप्नुयात्
उत्तमं लोकमाप्नोति ज्ञातिप्राधान्यमेव च ॥ २.२१.२७ ॥
पितृमा तृसमं लोके नास्त्यन्यद्दैवतं परम्
तस्मात्सर्वप्रयत्नेन पूजयेत्पितरौ सदा ॥ २.२१.२८ ॥
हितानामुपदेष्टा हि प्रत्यक्षं दैवतं पिता
अन्या या देवता लोके न देहप्रभवो हि ताः ॥ २.२१.२९ ॥
शरीरमेव जन्तूनां स्वर्गमोक्षैकसाधनम्
देहो दत्तो हि येनैवं कोऽन्यः पूज्यतमस्ततः ॥ २.२१.३० ॥
इति सञ्चिन्त्यहृदये पक्षिन्यद्यत्प्रयच्छति
तत्सर्वमात्मना भुङ्क्ते दानं वेदविदो विदुः ॥ २.२१.३१ ॥
पुन्नामनरकाद्यस्मात्पितरं त्रायते सुतः
तस्मात्पुत्त्र इति प्रोक्त इह चापि परत्र च ॥ २.२१.३२ ॥
अपमृत्युमृतौ स्यातां पितरौ कस्यचित्खग
व्रततीर्थाविवाहादिश्राद्धं संवत्सरं त्यजेत् ॥ २.२१.३३ ॥
स्वप्नाध्यायमिमं यस्तु प्रेत लिङ्गनिदर्शकम्
यः पठेच्छृणुयाद्वापि प्रेतचिह्नं न पश्यति ॥ २.२१.३४ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकादृप्रेतकल्पे श्रीकृष्णगरुडसंवादे स्वप्नाध्यायो नामैकविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २२
गरुड उवाच
सम्भवन्ति कथं प्रेताः केन तेषां गतिर्भवेत्
कीदृक्तेषां भवेद्रूपं भोजनं किं भवेत्प्रभो ॥ २.२२.१ ॥
सुप्रीतास्ते कथं प्रेताः क्व तिष्ठन्ति सुरेश्वर
प्रसन्नः कृपया देव प्रश्रमेनं वदस्व मे ॥ २.२२.२ ॥
श्रीभगवानुवाच
पापकर्मरता ये वै पूर्वकर्मवशानुगाः
जायन्ते ते मृताः प्रेतास्ताञ्छृणुष्व वदाम्यहम् ॥ २.२२.३ ॥
वापीकूपतडागांश्च आरामं सुरमन्दिरम्
प्रपां सद्म सुवृक्षांश्च तथा भोजनशालिकाः ॥ २.२२.४ ॥
पितृपैतामहं धर्मं किक्रीणाति स पापभाक्
मृतः प्रेतत्वमाप्नोति यावदाभूतसंप्लवम् ॥ २.२२.५ ॥
गोचरं ग्रामसीमां तडागारामगह्वरम्
कर्षयन्ति च ये लोभात्प्रेतास्ते वै भवन्ति हि ॥ २.२२.६ ॥
चण्डालादुदकात्सर्पाद्ब्राह्मणाद्बैद्युताग्नितः
दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ॥ २.२२.७ ॥
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये
आत्मोपघातिनो ये च विषूच्यादिहतास्तथा ॥ २.२२.८ ॥
महारोगैर्मृता ये च पापरोगैश्च दस्युभिः
असंस्कृतप्रमीता ये विहिताचारवर्जिताः ॥ २.२२.९ ॥
वृषोत्सर्गादिलुप्ताश्चलुप्तमासिकपिण्डकाः
यस्यानयति शूद्रोग्निं तृणकाष्ठहवींषि सः ॥ २.२२.१० ॥
पतनात्पर्वतानां च भित्तिपातेन ये मृताः
रजस्वलादिदोषैश्च न च भूमौ मताश्च ये ॥ २.२२.११ ॥
अन्तरिक्षे मृता ये च विष्णुस्मरणवर्जिताः
सूतकैः श्वादिसंपर्कैः प्रेतभावा इह क्षितौ ॥ २.२२.१२ ॥
एवमादिभिरन्यैश्च कुमृत्युवशगाश्च ये
ते सर्वे प्रेतयोनिस्था विचरन्ति मरुस्थले ॥ २.२२.१३ ॥
मातरं भगिनीं भार्यां स्नुषां दुहितरं तथा
अदृष्टदोषां त्यजति स प्रेतो जायतेध्रुवम् ॥ २.२२.१४ ॥
भ्रातृध्रुग्ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः
हेमक्षौमहरस्तार्क्ष्य स वै प्रेतत्वमाप्नुयात् ॥ २.२२.१५ ॥
न्यासापहर्ता मित्रध्रुक्परदाररतस्तथा
विश्वासघाती क्रूरस्तु स प्रेतो जायते ध्रुवम् ॥ २.२२.१६ ॥
कुलमार्गांश्च सन्त्यज्य परधर्मरतस्तथा
विद्यावृत्तविहीनश्च स प्रेतो जायतेध्रुवम् ॥ २.२२.१७ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
युधिष्ठिरस्य संवादं भीष्मेण सह सुव्रत
तदहं कथयिष्यामि यच्छ्रुत्वा सौख्यमाप्नुयात् ॥ २.२२.१८ ॥
युधिष्ठिर उवाच
केन कर्मविपाकेन प्रेतत्वमुपजायते
केन वा मुच्यते कस्मात्तन्मे ब्रूहि पितामह
यच्छ्रुत्वा न पुनर्मोहमेवं यास्या मि सुव्रत ॥ २.२२.१९ ॥
भीष्म उवाच
येनैव जायते प्रेतो येनैव स विमुच्यते
प्राप्नोति नरकं घोरं दुस्तरं दैवतैरपि ॥ २.२२.२० ॥
सततं श्रवणाद्यस्य पुण्यश्रवणकीर्तनात्
मानवा विप्रमुच्यन्ते आपन्नाः प्रेतयोनिषु ॥ २.२२.२१ ॥
श्रूयते हि पुरा वत्स ब्राह्मणः शंसितव्रतः
नाम्ना सन्तप्तकः ख्यात स्तपोर्ऽथे वनमाश्रितः ॥ २.२२.२२ ॥
स्वाध्याययुक्तो होमेन यो (या) गयुक्तो दयान्वितः
यजन्स सकलान्यज्ञान्युक्त्या कालं च विक्षिपन् ॥ २.२२.२३ ॥
ब्रहामचर्यसमायुक्तो युक्तस्तपसि मार्दवे
परलोकभयोपेतः सत्यशौचैश्च निर्मलः ॥ २.२२.२४ ॥
युक्तोऽहि गुरुवाक्येन युक्तश्चातिथिपूजने
आत्मयोगे सदोद्युक्तः सर्वद्वन्द्वविवर्जितः ॥ २.२२.२५ ॥
योगाभ्यासे सदा युक्तः संसारविजिगीषया
एवंवृत्तः सदाचारो मोक्षकाङ्क्षी जितेन्द्रियः ॥ २.२२.२६ ॥
बहून्यब्दानि विजने वने तस्य गतानि वै
तस्य बुद्धिस्ततो जाता तीर्थानुगमनं प्रति ॥ २.२२.२७ ॥
पुण्यैस्तीर्थजलैरेव शोषयिष्ये कलेवरम्
स तीर्थेत्वरितं स्नात्वा तपस्वी भास्करोदये
कृतजाप्यनमस्कारो ह्यध्वानं प्रत्यपद्यत ॥ २.२२.२८ ॥
एकस्मिन्दिवसे विप्रो मार्गभ्रष्टो महातपाः
ददर्शाध्वनि गच्छन्स पञ्च प्रेतान् सुदारुणान् ॥ २.२२.२९ ॥
अरण्ये निर्जने देशे संकटे वृक्षवर्जिते
पञ्चैतान्विकृताकारान्दृष्ट्वा वै घोरदर्शनान्
ईषत्सन्त्रस्तहृदयोऽतिष्ठदुन्मील्य लोचने ॥ २.२२.३० ॥
अवलम्ब्य ततो धैर्यं भयमुत्सृज्य दूरतः
पप्रच्छ मधुराभाषी के यूयं विकृताननाः ॥ २.२२.३१ ॥
किञ्चाशुभं कृतं कर्म येन प्राप्ताः स्थ वैकृतम्
कथं वा चैकतः कर्म प्रस्थिताः कुत्र निश्चितम् ॥ २.२२.३२ ॥
प्रेतराज उवाच
स्वैः स्वैस्तु कर्मभिः प्राप्तं प्रेतत्वं हि द्विजोत्तम
परद्रोहरताः सर्वे पापमृत्युवशं गताः ॥ २.२२.३३ ॥
क्षुत्पिपासार्दिता नित्यं प्रेतत्वं समुपागताः
हतवाक्या हतश्रीका हत संज्ञा विचेतसः ॥ २.२२.३४ ॥
न जानीमो दिशं तात विदिशं चातिदुः खिताः
क्व नु गच्छामहे मूढाः पिशाचाः कर्मजा वयम् ॥ २.२२.३५ ॥
न माता न पितास्माकं प्रेतत्वं कर्मभिः स्वकैः
प्राप्ताः स्म सहसा जातदुः खोद्वेगसमाकुलम् ॥ २.२२.३६ ॥
दर्शनेन च ते ब्रह्मन्मुदिताप्यायिता वयम्
मुहूर्तन्तिष्ठ वक्ष्यामि वृत्तान्तं सर्वमादितः ॥ २.२२.३७ ॥
अहं पर्युषितो नाम एष सूचीमुखस्तथा
शीघ्रगो रोघ (ह) कश्चैव पञ्चमो लेखकः स्मतृतः ॥ २.२२.३८ ॥
एवं नाम्ना च सर्वे वै संप्राप्ताः प्रेततां वयम्
ब्राह्मण उवाच
प्रेतानां कर्मजातानां कथं वै नामसम्भवः
किञ्चित्कारणमुदिश्य येन ब्रूयाः स्वनामकान् ॥ २.२२.३९ ॥
प्रेतराज उवाच
मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विज ॥ २.२२.४० ॥
शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै
एतत्कारणमुद्दिश्य नाम पर्युषितं मम ॥ २.२२.४१ ॥
शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै
एतत्कारणमुद्दिश्य शीघ्रगोऽयं द्विजोत्तम ॥ २.२२.४२ ॥
सूचिता बहवोऽनेन विप्रा अन्नाधिकाङ्क्षया
एतत्कारणमुद्दिश्य एष सूचिमुखः स्मृतः ॥ २.२२.४३ ॥
एकाकी मिष्टमश्राति पोष्यवर्गमृते सदा
ब्राह्मणानामभावेन रोध (ह) कस्तेन चोच्यते ॥ २.२२.४४ ॥
पुरायं मौनमास्थाय याचितो विलिखेद्भुवम्
तेन कर्मविपाकेन लेखको नाम चोच्यते ॥ २.२२.४५ ॥
प्रेतत्वं कर्मभावेन प्राप्तं नामानि च द्विज
मेषाननो लेखकोऽयं रोध (ह) कः पर्वताननः ॥ २.२२.४६ ॥
शीघ्रगः पुशुवक्त्रश्च सूचकः सूचिवक्त्रवान्
दुःखिता नितरां स्वमिन्पश्य रूपविपर्ययम् ॥ २.२२.४७ ॥
कृत्वा मायामयं रूपं विचरामो महीतले
सर्वे च विकृताकारा लम्बोष्ठा विकृताननाः ॥ २.२२.४८ ॥
बृहच्छरीरिणो रौद्रा जाताः स्वेनैव कर्मणा
एतत्ते सर्वमाख्यातं प्रेतत्वे कारणं मया ॥ २.२२.४९ ॥
ज्ञानिनोऽपि वयं सर्वे जाताः स्म तव दर्शनात्
यत्र ते श्रवणे श्रद्धा तत्पृच्छ कथयामि ते ॥ २.२२.५० ॥
ब्राह्मण उवाच
ये जीवा भुवि जीवन्ति सर्वेऽप्याहारमूलकाः
युष्माकमपिचाहारं श्रोतुमिच्छामि तत्त्वतः ॥ २.२२.५१ ॥
प्रेता ऊचुः
यदि ते श्रवणे श्रद्धा आहाराणां द्विजोत्तम
अस्माकं तु महीभाग शृणुत्वं सुसमाहितः ॥ २.२२.५२ ॥
ब्राह्मण उवाच
कथयन्तु महाप्रेता आहारं च पृथक्पृथक्
इत्युक्तां ब्राह्मणेनेममूचुः प्रेताः पृथकपृथक् ॥ २.२२.५३ ॥
प्रेता ऊचुः
शृणु चाहारमस्माकं सर्वसत्त्बविगर्हितम्
यच्छ्रुत्वा गर्हसे ब्रह्मन् भूयोभूयश्च गर्हितम् ॥ २.२२.५४ ॥
श्लेष्ममूत्रपुरीषोत्थं शरीराणां मलैः सह
उच्छिष्टैश्चैव चान्यैश्च प्रेतानां भोजनं भवेत् ॥ २.२२.५५ ॥
गृहाणि चाप्यशौचानि प्रकीर्णोपस्कराणि च
मलिनानि प्रसूतानि प्रेता भुञ्जन्ति तत्र वै ॥ २.२२.५६ ॥
नास्ति सत्यं गृहे यत्र न शौचं न च संयमः
पतितैर्दस्युभिः सङ्गः प्रेता भुञ्जन्ति तत्र वै ॥ २.२२.५७ ॥
बलिमन्त्रविहीनानि होमहीनानि यानि च
स्वाध्याय व्रतहीनानि प्रेता भुञ्जन्ति तत्र वै ॥ २.२२.५८ ॥
न लज्जा न च मर्यादा यदात्र स्त्रीजितो गृही
गुरवो यत्र पूज्या न प्रेता भुञ्जन्ति तत्र वै ॥ २.२२.५९ ॥
यत्र लोभस्तथा क्रोधो निद्रा शोको भयं मदः
आलस्यं कलहो नित्यं प्रेता भुञ्जन्ति तत्र वै ॥ २.२२.६० ॥
भर्तृहीना च या नारी परवीर्यं निषेवते
बीजं मूत्रसमायुर्क्त प्रेता भुञ्जन्ति तत्तु वै ॥ २.२२.६१ ॥
लज्जा मे जायते तात वदतो भोजनं स्वकम्
यत्स्त्रीरजो योनिगतं प्रेता भुञ्जन्ति तत्तु वै ॥ २.२२.६२ ॥
निर्विण्णाः प्रेतभावेन पृच्छामि त्वां दृढव्रत
यथा न भविता प्रेतस्तन्मे वद तपोधन
नित्यं मृत्युर्वरं जन्तोः प्रेतत्वं मा भवेत्क्वचित् ॥ २.२२.६३ ॥
ब्राह्मण उवाच
उपवासपरो नित्यं कृच्छ्रचान्द्रायणे रतः
व्रतैश्च विविधैः पूतो न प्रेतो जायते नरः ॥ २.२२.६४ ॥
एकादश्यां व्रतं कुर्वञ्जागरेण समन्वितम्
अपरैः सुकृतैः पूतो न प्रेतो न प्रेतो जायते नरः ॥ २.२२.६५ ॥
इष्ट्वा वै वाश्वमेधादीन्दद्याद्दानानि यो नरः
आरामोद्यानवाप्यादेः प्रपायाश्चैव कारकः ॥ २.२२.६६ ॥
कुमारीं ब्राह्मणानां तु विवाहयति शक्तितः
विद्यादोऽभयदश्चैव न प्रेतो जायते नरः ॥ २.२२.६७ ॥
शूद्रान्नेन तु भुक्तेन जठरस्थेन यो मृतः
दुर्मृत्युना मृतो यश्च स प्रेतो जायते नरः ॥ २.२२.६८ ॥
अयाज्ययाजकश्चैव याज्यानां च विवर्जकः
कारुभिश्च रतो नित्यं स प्रेतो जायते नरः ॥ २.२२.६९ ॥
कृत्वा मद्यपसम्पर्कं मद्यपस्त्रीनिषेवणम्
अज्ञानाद्भक्षयन्मांसं स प्रेतो जायते नरः ॥ २.२२.७० ॥
देवद्रव्यं च ब्रह्मस्वं गुरुद्रव्यं तथैव च
कन्यां ददाति शुल्केन स प्रेतो जायते नरः ॥ २.२२.७१ ॥
मातरं भगिनीं भार्यां स्नुषां दुहितरं तथाः
अदृष्टदोषास्त्यजति स प्रेतो जादृ ॥ २.२२.७२ ॥
न्यासापहर्ता मित्रध्रुक्परदाररतः सदा
विश्वासघाती कूटश्च स प्रेदृ ॥ २.२२.७३ ॥
भ्रातृध्रुग्ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः
कुलमार्गं परित्यज्य ह्यनृतोक्तौ सदा रतः
हर्ता हेम्नश्च भूमेश्च स प्रेदृ ॥ २.२२.७४ ॥
भीष्म उवाच
एवं ब्रुवति वै विप्रे आकाशे दुन्दुभिस्वनः
अपतत्पुष्पवर्षं च देवर्मुक्तं द्विजोपरि ॥ २.२२.७५ ॥
पञ्च देवविमानानि प्रेतानामागतानि वै
स्वर्गं गता विमानैस्ते दिव्यैः संपृच्छ्य तं मुनिम् ॥ २.२२.७६ ॥
ज्ञानं विप्रस्य सम्भाषात्पुण्यसंकीर्तनेन च
प्रेताः पापविनिर्मुक्ताः परं पदमवाप्नुयुः ॥ २.२२.७७ ॥
सूत उवाच [SUTA SAID]
इदमाख्यानकं श्रुत्वा कम्पितोऽश्वत्थपत्रवत्
मानुषाणां हितार्थाय गरुडः पृष्टवान्पुनः ॥ २.२२.७८ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे भीष्म युधिष्ठिरसंवादे प्रेतत्वोत्पत्तितन्मुक्तिपेञ्चप्रेतोपाख्यान निरूपणं नाम द्वाविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २३
गरुड उवाच
किङ्किं कुर्वन्ति वै प्रेताः पिशाचत्वेव्यवस्थिताः
वदन्ति वा कदाचित्किं तद्वदस्व सुरेश्वर ॥ २.२३.१ ॥
श्रीभगवानुवाच
तेषां स्वरूपं वक्ष्यामि चिह्नं स्वप्नं यथातथम्
क्षुत्पिपासार्दितास्ते वै प्रविशेयुः स्ववेश्मनि ॥ २.२३.२ ॥
प्रतिष्ठा वायुदेहेषु शयानांस्तु स्ववंशजान्
तत्र यच्छन्ति लिङ्गानि दर्शयन्ति खगेश्वर ॥ २.२३.३ ॥
स्वपुत्रस्वकलत्राणि स्वबन्धुन्तत्र गच्छति
हयो गजो वृषो मर्त्योदृश्यते विकृताननः ॥ २.२३.४ ॥
शयानं विपरीतं तु आत्मानं च विपर्ययम्
उत्थितः पश्यति यस्तु तद्विन्द्यात्प्रेतनिर्मितम् ॥ २.२३.५ ॥
स्वप्ने नरौ हि निगडैर्बध्यते बहुधा यदि
अन्नं च याचते स्वप्ने कुवेषः पूर्वजो मृतः ॥ २.२३.६ ॥
स्वप्ने यो भुज्यमानस्य गृहीत्वान्नं पलायते
आत्मनस्तु परो वापि तृषार्तस्तु जलं पिबेत् ॥ २.२३.७ ॥
वृषभारोहणं स्वप्ने वृषभैः सह गच्छति
उत्पत्य गगनं याति तीर्थे याति क्षुधातुरः ॥ २.२३.८ ॥
स्ववाचा वदते यस्तु गोवृषद्विजावाजिषु
लिङ्गे गजे तथा देवे भूते प्रेते निशाचरे ॥ २.२३.९ ॥
स्वप्नमध्ये तु पक्षीन्द्र प्रेतलिङ्गान्यनेकधा
स्वकलत्रं स्वबन्धुं वा स्वसुतं स्वपतिं विभुम्
विद्यमानं मृतं पश्येत्प्रेतदोषेण निश्चितम् ॥ २.२३.१० ॥
याचते यः परं स्वप्ने क्षुत्तृड्भ्यां च परिप्लुतः
तीर्थे गत्वा दहेत्पिण्डान्प्रेतदौषैर्न संशयः ॥ २.२३.११ ॥
निर्गच्छेद्वा गृहाद्वापि स्वप्ने पुत्रस्तथा पशुः
पिता भ्राता कलत्रं च प्रेतदोषैस्तु पश्यति ॥ २.२३.१२ ॥
चिह्नान्येतानि पक्षीन्द्र प्रायश्चित्तं निवेदयेत्
कृत्वा स्नानं गृहे तीर्थे श्रीवृक्षे तर्पणं जलैः ॥ २.२३.१३ ॥
कृष्णधान्यानि पूजां च प्रदद्याद्वेदपारगे
होमं कुर्याद्यथाशक्ति सम्पूर्णं वाचयेत्सुधीः ॥ २.२३.१४ ॥
एतद्धि श्रद्धया यस्तु प्रेतलिङ्गनिदर्शनम्
पठते शृणुते वापि प्रेतचिह्नं विनश्यति ॥ २.२३.१५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रेतकृतितदुक्तितच्चिह्नतद्विमुक्त्युपायनिरूपणं नाम त्रयोविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २४
गरुड उवाच
नाकाले म्रियते कश्चिदिति वेदानुशासनम्
कस्मान्मृत्युमवाप्नोति राजा वा श्रोत्रियोपि वा ॥ २.२४.१ ॥
यदुक्तं ब्राह्मणा पूर्वमनृतं तद्धि दृश्यते
वेदैरुक्तं तु यद्वाक्यं शतं जीवति मानुषे ॥ २.२४.२ ॥
जीवन्ति मानुषे लोके सर्वे वर्णा द्विजातयः
अन्त्यजाम्लेच्छजाश्चैव खण्डे भारतसंज्ञके ॥ २.२४.३ ॥
न दृश्यते कलौ तच्च कस्माद्देव समादिश
(आधानान्मृत्युमाप्नोति बालो वा स्थविरो युबा ॥ २.२४.४ ॥
सधनो निर्धनो वापि सुकुमारः सुरूपवान्
अविद्वांश्चैव विद्वांश्च ब्राह्मणस्त्वितरो जनः ॥ २.२४.५ ॥
तपोरतो योगशीलो महाज्ञानी च यो नरः
सर्वज्ञानरतः श्रीमान्धर्मात्मातुलविक्रमः ॥ २.२४.६ ॥ )
सर्वमेतदशषेण जायते वसुधातले
कस्मान्मृत्युमवाप्नोति राजा वा श्रोत्रियोऽपि वा ॥ २.२४.७ ॥
श्रीभगवानुवाच
साधुसाधु महाप्राज्ञ यस्त्वं भक्तोऽसि मे प्रियः
श्रूयतां वचनं गुह्यं नानादेशविनाशनम् ॥ २.२४.८ ॥
विधातृविहितो मृत्युः शीघ्रमादाय गच्छति
ततो वक्ष्यामि पक्षीन्द्र काश्यपेय महाद्युते ॥ २.२४.९ ॥
मानुषः शतजीवीति पुरा वेदेन भाषितम्
विकर्मणः प्रभावेण शीघ्रं चापि विनश्यति ॥ २.२४.१० ॥
वेदानभ्यसनेनैव कुलाचारं न सेवते
आलस्यात्कर्मणां त्यागो निषिद्धेऽप्यादरः सदा ॥ २.२४.११ ॥
यत्र तत्र गृहेऽश्राति परक्षेत्ररतस्तथा
एतैरन्यैर्महादोषैर्जायते चायुषः क्षयः ॥ २.२४.१२ ॥
अश्रद्दधानमशुचिं नास्तिकं त्यक्तमङ्गलम्
परद्रोहानृतरं ब्राह्मणं यत (म) मन्दिरम् ॥ २.२४.१३ ॥
अरक्षितारं राजानं नित्यं धर्मविवर्जितम्
क्रूरं व्यसनिनं मूर्खं वेदवादबहिष्कृतम्
प्रजापीडनकर्तारं राजानं यमशासनम् ॥ २.२४.१४ ॥
प्रापयन्ति वशं मृत्योस्ततो याति च यातनाम्
स्वकर्माणि परित्यज्य मुख्यवृत्तानि यानि च ॥ २.२४.१५ ॥
परकर्मरतो नित्यं यमलोकं स गच्छति
शूद्रः करोतिः यत्किञ्चिद्विजशुश्रूषणं विना ॥ २.२४.१६ ॥
उत्तमाधममध्ये वा यमलोके स पच्यते
स्नानं दानं जपो होमो स्वाध्यायो दवर्ताच्चनम् ॥ २.२४.१७ ॥
यस्मिन्दिने न सेव्यन्ते स वृथा दिवसो नृणाम्
अनित्यमध्रुवं देहमनाधारं रसोद्भवम् ॥ २.२४.१८ ॥
अन्नोदकमये देहे गुणानेतान्वदाम्यहम्
यत्प्रातः संस्कृतं सायं नूनमन्नं विनश्यति ॥ २.२४.१९ ॥
तदीयरससम्पुष्टकाये का बत नित्यता
गतं ज्ञात्वा तु पक्षीन्द्र वपुरर्धं स्वकर्मभिः ॥ २.२४.२० ॥
नरः पापविनाशाय कुर्वीत परमौषधम्
देहः किमन्नदातुः स्विन्निषेक्तुर्मातुरेव वा ॥ २.२४.२१ ॥
उभयोर्वा प्रभोर्वापि बालनोग्नेः शुनोऽपि वा
कस्तत्र परमो यज्ञः कृमिविड्भस्मसंज्ञके ॥ २.२४.२२ ॥
कर्तव्यः परमो यत्नः पातकस्य विनाशने
अनेकभवसम्भूतं पातकं तु त्रिधा कृतम् ॥ २.२४.२३ ॥
यदा प्राप्नोति मानुष्यं तदा सर्वं तपत्यपि
सर्वजन्मानि संस्मृत्य विषादी कृतचेतनः ॥ २.२४.२४ ॥
अवेक्ष्य गर्भवासांश्च कर्मजा गतयस्तथा
मानुषोदरवासी चेत्तदा भवति पातकी ॥ २.२४.२५ ॥
अण्डजादिषु भूतेषु यत्रयत्र प्रसर्पति
आधयो व्याधयः क्लेशा जरारूपविपर्ययः ॥ २.२४.२६ ॥
गर्भवासाद्विनिर्मुक्तस्त्वज्ञानतिमिरावृतः
न जानातिः खगश्रेष्ठ बालभावं समाश्रितः ॥ २.२४.२७ ॥
यौवने तिमिरान्धश्च यः पश्यति स मुक्तिभाक्
आधानान्मृत्युमाप्नोति बालो वा स्थविरो युवा ॥ २.२४.२८ ॥
सधनो निर्धनश्चैव सुकुमारः कुरूपवान्
अविद्वांश्चैव विद्वांश्च ब्राह्मणास्त्वितरो जनः ॥ २.२४.२९ ॥
तपोरतो योगशीलो महाज्ञानी च यो नरः
महादानरतः श्रीमान्धर्मात्मातुलविक्रमः
विना मानुपदेहं तु सुखं दुः खं न विन्दति ॥ २.२४.३० ॥
प्राकृतैः कर्मपाशैस्तु मृत्युमाप्नोति मानवः
आधानात्पञ्च वर्षाणि स्वल्पपापैर्विपच्यते ॥ २.२४.३१ ॥
पञ्चवर्षाधिको भूत्वा महापापैर्विपच्यते
योनिं पूरयते यस्मान्मृतोऽप्यायाति याति च ॥ २.२४.३२ ॥
मृतो दानप्रभावेण जीवन्मर्त्यश्चिरं भुवि
सूत उवाच [SUTA SAID]
इति कृष्णवचः श्रुत्वा गरुडो वाक्यमब्रवीत् ॥ २.२४.३३ ॥
गरुड उवाच
मृते बाले कथं कुर्यात्पिण्डदानादिकाः क्रियाः
गर्भेषु च विपन्नानामाचूडाकरणाच्छिशोः ॥ २.२४.३४ ॥
कथं किं केन दातव्यं मृतान्ते को विधिः स्मृतः
गरुडोक्तमिति श्रुत्वा विष्णुर्वाक्यमथाब्रवीत् ॥ २.२४.३५ ॥
श्रीविष्णुरुवाच [VISHNU SAID]
यदि गर्भो विपद्यते स्त्रवते वापि योषितः
यावन्मासं स्थितो गर्भस्तावद्दिनमशौचकम् ॥ २.२४.३६ ॥
तस्य किञ्चिन्न कर्तव्यमात्मनः श्रेय इच्छता
ततो जाते विपन्ने तु आ चूडाकरणाच्छिशोः ॥ २.२४.३७ ॥
दुग्धं भोज्यं ताशक्ति बालानां च प्रदीयते
आ चूडात्पञ्चवर्षे तु देहदाहो विधीयते ॥ २.२४.३८ ॥
दुग्धं तस्य प्रदेयं स्याद्बालानां भोजनं शुभम्
पञ्चवर्षाधिके प्रेते स्वजातिविहितानि च ॥ २.२४.३९ ॥
कुर्यात्कर्माणि सर्वाणि चोदकुम्भादि पायसम्
दातव्यं तु खगश्रेष्ठ ऋणसम्बन्धकस्तु सः ॥ २.२४.४० ॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च
कर्तव्यं पक्षिशार्दूल पुनर्देहक्षयाय वै ॥ २.२४.४१ ॥
तस्मै यद्रोचते देयमदत्त्वा निर्धने कुले
स्वल्पायुर्निर्धनो भूत्वा रतिभक्तिविवर्जितः ॥ २.२४.४२ ॥
पुनर्जन्माप्नुयान्मर्त्यस्तस्माद्देयमृते शिशोः
पुराणे गीयते गाथा सर्वथा प्रतिभाति मे ॥ २.२४.४३ ॥
मिष्टान्नं भोजनं देयं दाने शक्तिस्तु दुर्लभा
भोज्ये भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ॥ २.२४.४४ ॥
विभवे दानशक्तिश्च नाल्पस्य तपसः फलम्
दानाद्भोगानवाप्नोति सौख्यं तीर्थस्य सेवनात्
सुभाषणान्मृतो यस्तु स विद्वान्धर्मवित्तमः ॥ २.२४.४५ ॥
अदत्तदानाच्च भवेद्दरिद्रो दरिद्रभावाच्च करोतिपापम्
पापप्रभावान्नरकं प्रयाति पुनर्दरिद्रः पुनरेव पापी ॥ २.२४.४६ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादेऽल्पायुर्मरणहे तुबालान्त्येष्ट्योर्निरूपणं नाम चतुर्विशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २५
श्रीविष्णुरुवाच [VISHNU SAID]
अतः परं प्रवक्ष्यामि पुरुषस्त्री विनिर्णयम्
जीवन्वापि मृतो वापि पञ्चवर्षाधिकोऽपि वा ॥ २.२५.१ ॥
पूर्णे तु पञ्चमे वर्षे पुमांश्चैव प्रतिष्ठितः
सर्वैन्द्रियाणि जानाति रूपारूपविपर्ययौ ॥ २.२५.२ ॥
पूर्वकर्मविपाकेन प्राणिनां वधबन्धनम्
विप्रादीनन्त्यजान्सर्वान्पापं मारयति ध्रुवम् ॥ २.२५.३ ॥
गर्भे नष्टे क्रिया नास्ति दुग्धं देयं मृते शिशौ
परं च पायसं क्षीरं दद्याद्वलविपत्तितः ॥ २.२५.४ ॥
एकादशाहं द्वादशाहं वृषं वृषविधिं विना
महादानविहीनं च कुमारे कृत्यमादिशेत् ॥ २.२५.५ ॥
कुमाराणां चैव बालानां भोजनं वस्त्रवेष्टनम्
बाले वा तरुणे वृद्धे घटो भवति वै मृते ॥ २.२५.६ ॥
भूमौ विनिः क्षिपेद्बालं द्विमासोनं द्विवार्षिकम्
ततः परं खगश्रेष्ठ देहदाहो विधोयते ॥ २.२५.७ ॥
शिशुरा दन्तजननाद्बालः स्याद्यावदाशिखम्
कथ्यते सर्वशास्त्रेषु कुमारो मौञ्जिबन्धनात् ॥ २.२५.८ ॥
शूद्रादीनां कथं कुर्यात्संशयो मौञ्जिवर्जनात्
गर्भाच्च नवमं हित्वा शिशुरामासषोडशम् ॥ २.२५.९ ॥
बालश्चाथ परञ्ज्ञेय आमाससप्तविंशति
आ पञ्च वर्षात्कौमारः पौगण्डो नवहांयनः ॥ २.२५.१० ॥
किशोरः षोडशाब्दः स्यात्ततो यौवनमादिशेत्
मृतोऽपि पञ्चमे वर्षे अवृतः सवृतोऽपि वा ॥ २.२५.११ ॥
पूर्वोक्तमेव कर्तव्यमीहते दशपिण्डकम्
स्वल्पकर्मप्रसङ्गाच्च स्वल्पाद्विषयबन्धनात् ॥ २.२५.१२ ॥
स्वल्षाद्वपुषि वस्त्राच्च क्रियां स्वल्पामपीच्छति
यावदुपचयो जन्तुर्यावद्विषयवेष्टितः ॥ २.२५.१३ ॥
यद्यद्यस्योपजीव्यं स्यात्तत्तद्देयमिहेच्छति
ब्रह्मबीजोद्भवाः पुत्रा देवर्षोणां च वल्लभाः ॥ २.२५.१४ ॥
यमेन यमदूतैश्च शास्यन्ते निश्चितं खग
बालो वृद्धो युबा वापि घटमिच्छन्ति देहिनः ॥ २.२५.१५ ॥
सुखं दुः खं सदा वेत्ति देही वै सर्वगस्त्विह
परित्यज्य तदात्मानं जीर्णां त्वचमिवोरगः ॥ २.२५.१६ ॥
अङ्गुष्ठमात्रः पुरुषो वायुभृतः क्षुधान्वितः
तस्माद्देयानि दानानि मृते बाले सुनिश्चितम् ॥ २.२५.१७ ॥
जन्मतः पञ्च वर्षाणि भुङ्क्ते दत्तमसंस्कृतम्
पञ्चवर्षाधिके बाले विपत्तिर्यदि जायते ॥ २.२५.१८ ॥
वृषोत्सर्गादिकं कर्म सपिण्डीकरणं विना
द्वादशे हनि सम्प्राप्ते कुर्याच्छ्राद्धानि षोडश ॥ २.२५.१९ ॥
पायसेन गुडेनापि पिण्डान्दद्याद्यथाक्रमम्
उदकुम्भप्रदानं च पद (उप) दानानि यानि च ॥ २.२५.२० ॥
भोजनानि द्विजे दद्यान्महादानादि शक्तितः
दीपदानादि यत्किञ्चित्पञ्चवर्षाधिके सदा ॥ २.२५.२१ ॥
कर्तव्यं च खगश्रेष्ठ व्रतात्प्राक्प्रेततृप्तये
यदा नक्रियते सर्वं मुद्गलत्वं स गच्छति ॥ २.२५.२२ ॥
व्रतात्प्राङ्गेव देयं तु ततः पितृगणस्य च
स्वाहाकारेण वै कुर्यादेकोद्दिष्टानि षोडश ॥ २.२५.२३ ॥
ऋजुदर्भैस्तिलैः शुक्लैः प्राचीनावीति निश्चितम्
अपसव्यं च कर्तव्यं कृते यान्ति परां गतिम् ॥ २.२५.२४ ॥
पुनश्चिरायुषो भूत्वा जायन्ते स्वकुले ध्रुवम्
सर्वसौख्यप्रदः पुत्रः पित्रोः प्रीतिविवर्धनः ॥ २.२५.२५ ॥
आकाशमेकं हि यथा चन्द्रादित्यौ यथैकतः
घटादिषु पृथक्सर्वं पश्य रूपं च तत्समम् ॥ २.२५.२६ ॥
आत्मा तथैव सर्वेषु पुत्त्रेषु विचरेत्सदा
या यस्य प्रकृतिः पूर्वं शुक्रशोणितसङ्गमे ॥ २.२५.२७ ॥
सा (स) तेन भावयोगेन पुत्त्रास्तत्कर्मकारिणः
पितृरूपं समादाय कस्यचिज्जायते सुतः ॥ २.२५.२८ ॥
पितृतः कोऽपि रूपाढ्यो गुणज्ञो दानतत्परः
सदृशः कोऽपि लोकेऽस्मिन्न भूतो न भविष्यति ॥ २.२५.२९ ॥
अन्धादन्धो न भवति मूकान्मूको न जायते
बधिराद्बधिरो नैव विद्यावान्विदुषो न हि
अनुरूपा न दृश्यन्ते मदीयं वचनं शृणु ॥ २.२५.३० ॥
गरुड उवाच
औरसक्षेत्रजाद्याश्च पुत्त्रा दशविधाः स्मृताः
संगृहीतः सुतो यस्तु दासीपुत्त्रश्च तेन किम् ॥ २.२५.३१ ॥
काङ्कां गतिमवाप्नोति जायो मृत्युवशं गतः
भवेन्न दुहिता यस्य न दौहित्रो न वा सुतः ॥ २.२५.३२ ॥
श्राद्धं तस्य कथं कार्यं विधिना केन तद्भवेत्
श्रीभगवानुवाच
मुखं दृष्ट्वा तु पुत्रस्य मुच्यते पैतृकादृणात् ॥ २.२५.३३ ॥
पौत्त्रस्य दर्शनाज्जन्तुर्मुच्यते चः ऋणत्रयात्
लोकानन्त्यं दिवः प्राप्तिः पुत्त्रपौत्त्र प्रपौत्त्रकैः ॥ २.२५.३४ ॥
अन्यक्षेत्रोद्भवाद्या ये भुक्तिमात्रप्रदाः सुताः
कुर्वीत पार्वणं श्राद्धमारैसो विधिवत्सुतः ॥ २.२५.३५ ॥
कुर्वन्त्यन्ये सुताः श्राद्धमे कोद्दिष्टं न पार्वणम्
ब्राह्मोढाजस्तून्नयति संगृहीतस्त्वधो नयेत्
श्राद्धं सांवत्सरं कुर्वञ्जायते नरकाय वै ॥ २.२५.३६ ॥
सर्वदानानि देयानि ह्यन्न दानादृते खग
संगृहीतः सुतः कुर्यादेकोद्दिष्टं न पार्वणम् ॥ २.२५.३७ ॥
प्रत्यब्दं पितृमातृभ्यां श्राद्धं दत्त्वा न लिप्यते
एकोद्दिष्टं परित्यज्य पार्वणं कुरुते यदि ॥ २.२५.३८ ॥
आत्मानं च पितॄंश्चैव स नयेद्यममन्दिरम्
संगृहीतस्तु यः केचिद्दासीपुत्त्रादयश्च ये ॥ २.२५.३९ ॥
तीर्थे कुर्युः पितृश्राद्धं दानं (मासं) दद्युर्द्विजन्मने
संगृहीतसुतो भूत्वा पाकं वा यः प्रयच्छति ॥ २.२५.४० ॥
वृथा श्राद्धं विजानीयाच्छूद्रान्नेन यथा द्विजः
न प्रीणयति तच्छ्राद्धं पितामहमुखान्पितॄन्
एवं ज्ञात्वा स्वगश्रेष्ठ हीनजातीन्सुतांस्त्यजेत् ॥ २.२५.४१ ॥
(ब्राह्मण्यां ब्राह्मणाज्जातश्चाण्डालादधमः स्मृतः )
यस्तु प्रव्रजिताज्जातो ब्राह्मण्यां शूद्रतश्च यः ॥ २.२५.४२ ॥
द्वावेतौ विद्धि चाण्डालौ सगोत्राद्यस्तु जायते
स्वर्यातिविहितान्पुत्रः समुत्पाद्य खगेश्वर ॥ २.२५.४३ ॥
तैः सुवृत्तैः सुखं प्राप्यं कुवृत्तैर्नरकं व्रजेत्
हीनजातिसमुद्भूतैः सुवृत्तैः सुखमेधते ॥ २.२५.४४ ॥
कलिकलुषविमुक्तः पूजितः सिद्धसङ्घैरमरचमरमालावीज्यमानोऽप्सरोभिः
पितृशतमपि बन्धून्पुत्त्रपौत्त्रप्रपौत्त्रानपि नरकनिमग्नानुद्धरेदेक एव ॥ २.२५.४५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धमकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसवादे मृतबालान्त्येष्टिभिन्नाभिन्नसुतकृतान्त्येष्ट्योर्वर्णनं नाम पञ्चविंशोऽध्यायः
श्रीगरुडमाहपुराणम् २६
गरुड उवाच
सत्यं ब्रूहि सुरश्रेष्ठ कृपां कृत्वा मयि प्रभो
मृतानां चैव जन्तूनां कदा कुर्यात्सपिण्डनम् ॥ २.२६.१ ॥
सपिण्डत्वे कुतो यान्ति असपिण्डे कुतो गतिः
केनैव सहपिण्डत्वं स्त्रीपुसोर्वक्तुमर्हसि ॥ २.२६.२ ॥
स्त्रीपुमांशौ सहैकत्वं पाप्नुतः कथमुत्तमम्
जीवेद्भर्तरि नारीणां सपिण्डीकरणं कुतः ॥ २.२६.३ ॥
भर्तृलोकं कथं यान्ति स्वर्गलोकं सुरेश्वर
अग्न्यारोहे कथं श्राद्धं वृषोत्सर्गः कथं भवेत् ॥ २.२६.४ ॥
घटदानं कथं कार्यं सपिण्डीकरणे कृते
कथयस्व प्रसादेन हीताय जगतां प्रभो ॥ २.२६.५ ॥
श्रीभगवानुवाच
यथावत्कथयिष्यामि सपिण्डीकरणं खग
वर्षं यावत्खगश्रेष्ठ यदाचरति मानवः ॥ २.२६.६ ॥
सपिण्डने ततो वृत्ते पितृलोकं स गच्छति
तस्मात्पुत्त्रेण कर्तव्यं सपिण्डीकरणं पितुः ॥ २.२६.७ ॥
संवत्सरे तु सम्पूर्णे कुर्यात्पिण्ड प्रवेशनम्
पिण्डप्रवेशविधना तस्य नित्यं मृताह्निकम् ॥ २.२६.८ ॥
निश्चितं पक्षिशार्दूल वर्षान्ते पिण्डमेलनम्
सहपिण्डे कृते प्रेतस्ततो याति परां गतिम्
तन्नाम सम्परित्यज्य ततः पितृगणो भवेत् ॥ २.२६.९ ॥
त्रिपक्षे वापि षण्मासे मेलयेत्प्रपितामहैः
ज्ञात्वा वृद्धिविवाहादि स्वगोत्रविहितानि च ॥ २.२६.१० ॥
विवाहं नैव कुर्वीत मृते च गृहमेधिनि
भिक्षुर्भिक्षां न गृह्णाति यावत्कुर्यात्सपिण्डनम् ॥ २.२६.११ ॥
स्वगोत्रेऽप्यशुचिस्तावद्यावत्पिण्डं न मेलयेत्
मेलनात्प्रेतशब्दस्तु निवर्तेत खगेश्वर ॥ २.२६.१२ ॥
आनन्त्यात्कुलधर्माणां पुंसाञ्चैवायुषः क्षयात्
अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते ॥ २.२६.१३ ॥
निरग्निकः साग्निको वा द्वादशाहे सपिण्डयेत् ॥ २.२६.१४ ॥
द्वादशाहे त्रिपक्षे वा षण्मासे वत्सरेऽपि वा
सपिण्डीकरणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ २.२६.१५ ॥
सपुत्त्रस्य न कर्तव्यमेकोद्दिष्टं कदाचन
सपिण्डीकरणादूर्ध्वं यत्रयत्र प्रदीयते ॥ २.२६.१६ ॥
तत्रतत्र त्रयं कार्यमन्यथा पितृघातकः
त्रिभिः कुर्यादशक्तश्च पार्वणं मुनिनोदितम् ॥ २.२६.१७ ॥
तद्दिने तद्दिने कुर्यात्पितामहमुखान्यतः
अज्ञानाद्दिनमासानां तस्मात्पार्वणमिष्यते ॥ २.२६.१८ ॥
अनुत्पन्नशरीरस्य न दानं पितृभिः सह
एतैः षोडशभिः श्राद्धैः प्रेतो मुक्तस्तु जायते ॥ २.२६.१९ ॥
अपुत्त्रस्य सपिण्डत्वं नैव कुर्यात्स्त्रियोऽपि वा
यावज्जीव च सद्भत्र्या न कुर्यात्सहपिण्डताम् ॥ २.२६.२० ॥
ब्राह्मादिषु विवाहेषु या वधूरिह संस्कृता
भर्तृगोत्रेण कर्तव्यास्तस्याः पिण्डोदकक्रियाः ॥ २.२६.२१ ॥
आसुरादिविवा हेषु या व्यूढा कन्यका भवेत्
तस्यास्तु पितृगोत्रेण कुर्यात्पिण्डोदकक्रियाः ॥ २.२६.२२ ॥
पितुः पुत्त्रेण कर्तव्यं सपिण्डीकरणं सदा
पुत्त्राभावे तु पत्नी स्यात्पत्न्यभावे सहोदरः ॥ २.२६.२३ ॥
भ्राता वा भ्रातृपुत्त्रो वा सपिण्डः शिष्य एव वा
सपिण्डनक्रियां कृत्वा कुर्यान्नान्दीमुखं ततः ॥ २.२६.२४ ॥
ज्येष्ठस्यैव कनिष्ठेन भ्रातृपुत्त्रेण भार्यया
सपिण्डीकरणं कार्यं पुत्रहीने नरे खग ॥ २.२६.२५ ॥
भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत्
सर्वेते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ २.२६.२६ ॥
सर्वेषां पुत्रहीनानां पत्नी कुर्यात्सपिण्डनम्
ऋत्विजा कारयेद्वापि पुरोहितमथापि वा ॥ २.२६.२७ ॥
कृतचूडोपनीतश्च पितुः श्राद्धं समाचरेत्
उच्चारयेत्स्वधाकारं न तु वेदाक्षराण्यसौ ॥ २.२६.२८ ॥
भर्त्रादिभिस्त्रिभिः कार्यं सपिण्डीकरणं स्त्रियाः
पितृव्यभ्रातृपुत्रेण सोदरेण कनीयसा ॥ २.२६.२९ ॥
अर्वाक्संवत्सरात्सन्धौ पूर्णे संवत्सरेऽपि वा
ये सपिण्डीकृताः प्रेतास्तेषां न स्यात्पृथक्क्रिया ॥ २.२६.३० ॥
सपिण्डने कृते वत्स पृथक्त्वं तु विगर्हितम्
यस्तु कुर्यात्पृथक्पिण्डं पितृहा सोऽभिजायते ॥ २.२६.३१ ॥
सपिण्डीकरणे वृत्ते पृथक्त्वं नोपपद्यते
पृथक्पिण्डे कृते पश्चात्पुनः कुर्यात्सपिण्डनम् ॥ २.२६.३२ ॥
सपिण्डीकरणं कृत्वा एकोद्दिष्टं करोति यः
आत्मानं च तथा प्रेतं स नयेद्दमशासनम् ॥ २.२६.३३ ॥
वर्षं यावक्त्रिया कार्या नामगोत्रेण धीमता
घटादि भोजनं नित्यं पददानानि यानि च
सपिण्डीकरणे वृत्ते एकस्यैव तु दापयेत् ॥ २.२६.३४ ॥
अन्नं पानीयसहितं संख्यां कृत्वाब्दिकस्य च
दातव्यं ब्राह्मणे पक्षिञ्जलपूर्णघटादिकम् ॥ २.२६.३५ ॥
पिण्डान्ते तस्य सकला वर्षवृत्तिः स्वशक्तितः
दिव्यदेहो विमानस्थः सुखं याति यमालयम् ॥ २.२६.३६ ॥
जीवमाने च पितरि न हि पुत्त्रे सपिण्डता
स्त्रीणां सपिण्डनं नास्ति तथा भर्तरि जीवति ॥ २.२६.३७ ॥
हुताशं या समारूढा चतुर्थेऽह्नि पतिव्रता
तस्या भर्तृदिने कार्यं वृषोत्सर्गादिकं च यत् ॥ २.२६.३८ ॥
पुत्त्रिका पतिगोत्रा स्यादधस्तात्पुत्रजन्मनः
पुत्रोत्पत्तेः परस्तात्सा पितृगोत्रं व्रजेत्पुनः ॥ २.२६.३९ ॥
पतिपत्न्योः सदैकत्वं हुताशं याधिरोहति
पुत्रेणैव पृथक्श्राद्धं क्षयाख्ये तस्य वासरे ॥ २.२६.४० ॥
अपुत्त्रौ चेन्मृतौ स्यातामेकचित्यां समेऽहनि
पृथक्श्राद्धानि कुर्वीत सापिड्यं पतिना सह ॥ २.२६.४१ ॥
पृथक्पृथक्च पिण्डेन दम्पती पतिना सह
न लिप्यते महादोषैरेतत्सत्यं वचो मम ॥ २.२६.४२ ॥
एकचित्यां समारूढौ दम्पती निधनं गतौ
एकपाकं प्रकुर्वीत पिण्डान्दद्यात्पृथक्पृथक् ॥ २.२६.४३ ॥
एकादशे वृषोत्सर्गं प्रेतश्राद्धानि षोडश
घटादिपददानानि महादानानि यानि च
वर्षं यावत्पृथक्कुर्यात्प्रेतस्तृप्तिं व्रजेच्चिरम् ॥ २.२६.४४ ॥
एकगोत्रे मृतानां तु स्त्रिया वा पुरुषस्य वा
स्थण्डिलं चैकतः कुर्याद्धोमं कुर्यात्पृथक्पृथक् ॥ २.२६.४५ ॥
एकादशेऽह्नि यच्छ्राद्धं पृथक्पिण्डाश्च भोजनम्
पाकैरेन पतिस्त्रीणामन्येषां च विगर्हितम् ॥ २.२६.४६ ॥
एकेनैव तु पाकेन श्राद्धानि कुरुते सुतः
एकं तु विकिरं कुर्यात्पिण्डान्दद्यद्बहूनपि
तीर्थे चापरपक्षे वा चन्द्रसूर्यग्रहेऽपि वा ॥ २.२६.४७ ॥
नारी भर्तारमासाद्य कुणपं दहते यदा
अग्निर्दहति गात्राणि आत्मानं नैव पीडयेत् ॥ २.२६.४८ ॥
दह्यते ध्मायमानानां धातूनां हि यथा मलम्
तथा नारी दहेद्देहं हुताशे ह्यमृतोपमे ॥ २.२६.४९ ॥
दिव्यादौ दिव्यदेहस्तु शुद्धो भवति पूरुषः
तप्ततैलेन लोहेन वह्निना नैव दह्यते ॥ २.२६.५० ॥
तथा सा पतिसंयुक्ता दह्यते न कदाचन
अन्तरात्मा मृते तस्मिन्मृतोऽप्येकत्वमागतः ॥ २.२६.५१ ॥
भर्तृसंगं परित्यज्य अन्यत्र म्रियते यदि
भर्तृलोकं न सा याति यावदाभूतसंप्लवम् ॥ २.२६.५२ ॥
लक्ष्मीयुतान्परित्यज्य मातरं पितरं तथा
मृतं पतिमनुव्रज्य सा चिरं सुखमेधते ॥ २.२६.५३ ॥
दिव्यवर्षप्रमाणेन तिस्रः कोट्योर्ऽद्धकोटयः
तावत्कालं वसेत्स्वर्गे नक्षत्रैः सह सर्वदा ॥ २.२६.५४ ॥
तदन्ते चरते लोके कुले भवति भोगिनाम्
सा हि लब्धमहाप्रीतिर्भर्त्रा सह पतिव्रता ॥ २.२६.५५ ॥
एवं न कुरुते नारी धर्मोढा पतिसंगमम्
जन्मजन्मनि दुः खार्तादुः शीलाप्रियवादिनी ॥ २.२६.५६ ॥
वल्गुली गृहसोधा वा गोधा वा द्विमुखी भवेत्
स्वभर्तारं परित्यज्य परपुंसोनुवर्तिनी ॥ २.२६.५७ ॥
तस्मात्सर्वप्रयत्नेन स्वपतिं स्त्री निषेवते
मनसा कर्मणा वाचा मृतं जीवन्तमेव वा ॥ २.२६.५८ ॥
जीवमाने मृते वापि किल्बिषं कुरुते तु या
स च वैधव्यमाप्नोति जन्मजन्मनि दुर्भगा ॥ २.२६.५९ ॥
यद्देवेभ्यो यत्पितृभ्यः श्रद्धयैव प्रदीयते
तत्फलं भर्तृपूजातः कुर्याद्भर्त्रर्चनं ततः ॥ २.२६.६० ॥
एवं कृते खगश्रेष्ठ पितृलोके चिरं वसेत्
यावदादित्यचन्द्रौ च तावद्देवसमा दिवि ॥ २.२६.६१ ॥
पुनश्चिरायुषो भूत्त्वा जायन्ते विपुले कुले
पतिव्रता यथा नारी भर्तृदुःखं न विन्दति ॥ २.२६.६२ ॥
सर्वमेतद्धि कथितं मया तव खगेश्वर
विशेषं कथयिष्यामि मृतस्यैव सुखप्रदम् ॥ २.२६.६३ ॥
द्वादशाहे कृतं सर्वं वर्षं यावत्सपिण्डनम्
पुनः कुर्यात्सदा नित्यं घटान्नं प्रतिमासिकम् ॥ २.२६.६४ ॥
कृतस्य करणं नास्ति प्रेतकार्यादृते खग
यः करोति नरः कश्चित्कृत्पूर्वं विनश्यति ॥ २.२६.६५ ॥
मृतस्यैव पुनः कुर्यात्प्रेतोऽक्षय्यमवाप्नुयात्
प्रतिमासं घटा देया सोदना जलपूरिताः ॥ २.२६.६६ ॥
अर्वाक्च वृद्धेः करणाच्च तार्क्ष्य सपिण्डनं यः कुरुते हि पुत्रः
तथापि मासं प्रतिपिण्डमेकमन्नं च कुम्भं सजलं च दद्यात् ॥ २.२६.६७ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डेद्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे प्रेतकल्पे सपिण्डननिरूपणं नाम षड्विंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २७
तार्क्ष्य उवाच
कथं प्रेता वसन्त्यत्र कीदृग्रूपा भवन्ति ते
महाप्रेताः पिशाचाश्च कैःकैः कर्मफलैर्विभो
सर्वेषामनुकम्पार्थं ब्रूहि मे मधुसूदन ॥ २.२७.१ ॥
प्रेतत्वान्मुच्यते येन दानेन च शुभे न च
तन्मे कथय देवेश मम चेदिच्छसि प्रियम् ॥ २.२७.२ ॥
श्रीकृष्ण उवाच
साधु पृष्टं त्वया तार्क्ष्य मानुषाणां हिताय वै
शृणुचावहितो भूत्वा यद्वच्मि प्रेतलक्षणम् ॥ २.२७.३ ॥
गुह्यद्गुह्यतरं ह्येतन्नाख्येयं यस्य कस्यचित्
भक्तस्त्वं हि महाबाहो तेन ते कथयाम्यहम् ॥ २.२७.४ ॥
पुरा त्रेतायुगे तात राजासीद्बभ्रुवाहनः
महोदयपुरे रम्ये धर्मनिष्ठो महाबलः ॥ २.२७.५ ॥
यज्वा दानपतिः श्रीमान्ब्रह्मण्यः साधुसंमतः
शीलाचारगुणोपेतो दयादाक्षिण्यसंयुतः ॥ २.२७.६ ॥
प्रजाः पालयते नित्यं पुत्रानिव महाबलः
क्षत्त्रधर्मरतो नित्यं स दण्ड्यान्दण्डयन्नृपः ॥ २.२७.७ ॥
स कदाचिन्महाबाहुः ससैन्योमृगयां गतः
वनं विवेश गहनं नानावृक्षसमन्वितम् ॥ २.२७.८ ॥
शार्दूलशतसंजुष्टं नानापक्षिनिनादितम्
वनमध्ये तदा राजा मृगं दूरादपश्यत ॥ २.२७.९ ॥
तेन विद्धो मृगोऽतीव बाणेन सुदृढेन च
बाणमादाय तं तस्य स वनेऽदर्शनं ययौ ॥ २.२७.१० ॥
कक्षे तच्छोणितस्त्रावात्स राजानुजगाम तम्
ततो मृगप्रसङ्गेन वनमन्यद्विवेश सः ॥ २.२७.११ ॥
क्षुत्क्षामकण्ठो नृपतिः श्रमसन्तापमूर्छितः
जलस्थानं समासाद्य साश्व एवावगाहत ॥ २.२७.१२ ॥
पीत्वा तदु दकं शीतं पद्मगन्धाधिवासितम्
तत उत्तीर्य सलिलाद्विमलाद्बभ्रुवाहनः ॥ २.२७.१३ ॥
न्यग्रोधवृक्षमासाद्य शीतच्छायं मनोहरम्
महाविटपिनं हृद्यं पक्षिसङ्घातनादितम् ॥ २.२७.१४ ॥
वनस्य तस्य सर्वस्य केतुभूतमिवोच्छ्रितम्
तं महातरुमासाद्य निषसाद महीपतिः ॥ २.२७.१५ ॥
अथ प्रेतं ददर्शासौ क्षुत्तृष्णाव्याकुलेन्द्रियम्
उत्कचं मलिनं कुब्जं (रूक्षं) निर्मांसं भीमदर्शनम् ॥ २.२७.१६ ॥
स्नायुबद्धास्थिचरणं धावमानमितस्ततः
अन्यैश्च बहुभिः प्रेतैः समन्तात्परिवारितम् ॥ २.२७.१७ ॥
तं दृष्ट्वा विकृतं घोरं विस्मितो बभ्रुवाहनः
प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नृपम् ॥ २.२७.१८ ॥
तदा हृष्टमना भूत्वा तस्यान्तिकमुपागतः
अब्रवीत्स तदा तार्क्ष्य प्रेतराजो नृपं वचः ॥ २.२७.१९ ॥
प्रेतभावो मया त्यक्तः प्राप्तोऽस्मि परमां गतिम्
त्वत्संयोगान्महाबाहो नास्तिधन्यतरो मम ॥ २.२७.२० ॥
नृपतिरुवाच
कृष्णवर्णः करालास्यस्त्वं प्रेत इव लक्ष्यसे
कथयस्व मम प्रीत्या यथैवं चासि तत्त्वतः ॥ २.२७.२१ ॥
तथा पृष्टः स वै राज्ञा प्रोवाच सकलं स्वकम् ॥ २.२७.२२ ॥
प्रेत उवाच
कथयामि नृपश्रेष्ठ सर्वमेवादितस्तव
प्रेतत्वे कारणं श्रुत्वा दयां कर्तुं ममार्हसि ॥ २.२७.२३ ॥
वैदिशं नाम नगरं सर्वसम्पत्समन्वितम्
नानाजनपदाकीर्णं नानारत्नसमाकुलम्
नानापुण्यसमायुक्तं नानावृक्षसमाकुलम् ॥ २.२७.२४ ॥
तत्राहं न्यवसं भूयो देवार्चनरतः सदा
वैश्यो जात्या सुदेवोऽहं नाम्ना विदितमस्तु ते ॥ २.२७.२५ ॥
हव्येन तर्पिता देवाः कव्येन पितरस्तथा
विविधैर्दानयोगैश्च विप्राः सन्तर्पिता मया ॥ २.२७.२६ ॥
आवाहाश्च विवाहाश्च मया वै सुनिवेशिताः
दीनानाथविशिष्टेभ्यो मया दत्तमनेकधा ॥ २.२७.२७ ॥
तत्सर्वं विफलं तात मम दैवादुपागतम्
यथा मे निष्फलं जातं सुकृतं तद्वदामि ते ॥ २.२७.२८ ॥
न मेऽस्ति सन्ततिस्तात न सुहृन्न च बान्धवः
न च मित्रं हि मे तादृग्यः कुर्यादौर्ध्वदैहिकम् ॥ २.२७.२९ ॥
प्रेतत्वं सुस्थिरं तेन मम जातं नृपोत्तम
एकादशं त्रिपक्षं च षाण्मासिकमथाब्दिकम्
प्रतिमास्यानि चान्यानि एवं श्राद्धानि षोडश ॥ २.२७.३० ॥
यस्यैतानि न दीयन्ते प्रेतश्राद्धानि भूपते
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥ २.२७.३१ ॥
एवं ज्ञात्वा महाराज प्रेतत्वादुद्धरस्व माम्
वर्णानां चापि सर्वेषां राजा बन्धुरिहोच्यते ॥ २.२७.३२ ॥
तन्मां तारय राजेन्द्र मणिरत्नं ददामि ते
यथा मम शुभावाप्तिर्भवेन्नृपवरोत्तम ॥ २.२७.३३ ॥
तथा कार्यं महाबाहो कृपा यदि मयीष्यते
आत्मनश्च कुरु क्षिप्रं सर्वमेवौर्ध्वेदैहिकम् ॥ २.२७.३४ ॥
नृपतिरुवाच
कथं प्रेता भवन्तीह कृतैरप्यौर्ध्वदैहिकैः
पिशाचाश्च भवन्तीह कर्मभिः कैश्च तद्वद ॥ २.२७.३५ ॥
प्रेत उवाच
देवद्रव्यं च ब्रह्मस्वं स्त्रीबालधनसञ्चयम्
ये हरन्ति नृपश्रेष्ठ प्रेतयोनिं व्रजन्ति ते ॥ २.२७.३६ ॥
तापसीं च सगोत्रां च अगम्यां ये भजन्ति हि
भवन्ति ते महाप्रेता अम्बुजानि हरन्ति ये ॥ २.२७.३७ ॥
प्रवालवज्रहर्तारो ये च वस्त्रापहारकाः
तथा हिरण्यहर्तारः संयुगेऽसन्मुखागताः ॥ २.२७.३८ ॥
कृतघ्ना नास्तिका रौद्रास्तथा साहसिका नराः
पञ्चयज्ञविनिर्मुक्ता महादानरताश्च ये ॥ २.२७.३९ ॥
स्वामिद्रोहकरा मित्रब्राह्मद्रोहकराश्च ये
तीर्थपापकरा राजञ्जायन्ते प्रेतयोनयः
एवमाद्या महाराज जायन्ते प्रेतयोनयः ॥ २.२७.४० ॥
राजोवाच
कथं मुक्ता भवन्तीह प्रेतत्वात्त्वं च तेऽपि च
कथं चापि मया कार्यमौर्ध्वदैहिकमात्मनः
विधिना केन तत्कार्यं सर्वमेतद्वदस्व मे ॥ २.२७.४१ ॥
प्रेत उवाच
शृणु राजेन्द्र संक्षेपाद्विधिं नारायणात्मकम्
सच्छास्त्रश्रवणं विष्णोः पूजा सज्जनसंगतिः ॥ २.२७.४२ ॥
प्
रेतयोनिविनाशाय भवन्तीति मया श्रुतम्
अतो वक्ष्यामि ते विष्णुपूजां प्रेतत्वनाशिनीम् ॥ २.२७.४३ ॥
सुवर्णद्वयमाहृत्य मूर्तिं भूप प्रकल्पयेत्
नारायणस्य देवस्य सर्वाभरणभूषिताम् ॥ २.२७.४४ ॥
पीतवस्त्रयुगाच्छन्नां चन्दनागुरुचर्चिताम्
स्नापयेद्विविधैस्तोयैरधिवास्य यजेत्ततः ॥ २.२७.४५ ॥
पूर्वे तु श्रीधरं देवं दक्षिणे मधुसूदनम्
पश्चिमे वानमं देवमुत्तरे च गदाधरम् ॥ २.२७.४६ ॥
मध्ये पितामहं पूज्य तथा देवं महेश्वरम्
पूजयेच्च विधानेन गन्धपुष्पादिभिः पृथक् ॥ २.२७.४७ ॥
ततः प्रदक्षिणीकृत्य अग्नौ सन्तर्प्य देवताः
घृतेन दध्ना क्षीरेण विश्वान्देवांस्तथा नृप ॥ २.२७.४८ ॥
ततः स्नातो विनीतात्मा यजमानः समाहितः
नारायणाग्रे विधिवत्स्वक्रियामौर्ध्वदैहिकीम् ॥ २.२७.४९ ॥
आरभेत विनीतात्मा क्रोधलोभविवर्जितः
श्राद्धानि कुर्यात्सर्वाणि वृषस्योत्सर्जनं तथा ॥ २.२७.५० ॥
त्रयोदशानां विप्राणां वस्त्रच्छत्राण्युपानहौ
अङ्गुलीयकमुक्तानि भाजनासनभोजनैः ॥ २.२७.५१ ॥
सान्नाश्च सोदका देया घटाः प्रेतहिताय वै
शय्यादानमथो दत्त्वा घटं प्रेतस्य निर्वपेत् ॥ २.२७.५२ ॥
नारायणेति सन्नाम संपुटस्थं समर्चयेत्
एवं कृत्वाथ विधिवच्छुभाशुभफलं लभेत् ॥ २.२७.५३ ॥
राजोवाच
कथं प्रेतघटं कुर्याद्दद्यात्केन विधानतः
ब्रूहि सर्वानुकम्पार्थं घटं प्रेतविमुक्तिदम् ॥ २.२७.५४ ॥
प्रेत उवाच
साधु पृष्टं महाराज कथयामि निबोध ते
प्रेतत्वं न भवेद्येन दानेन सुदृढेन च ॥ २.२७.५५ ॥
दानं प्रेतघटं नाम सर्वाशुभविनाशनम्
दुर्लभं सर्वलोकानां दुर्गतिक्षयकारकम् ॥ २.२७.५६ ॥
सन्तप्तहाटकमयं तु घटं विधाय ब्रह्मोशकेशवयुतं सह लोकपालैः
क्षीराज्यपूर्णविवरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः ॥ २.२७.५७ ॥
ब्रह्मा मध्ये तथा विष्णुः शङ्करः शङ्करोऽव्ययः
प्राच्यादिषु च तत्कण्ठे लोकपालान्क्रमेण तु ॥ २.२७.५८ ॥
सम्पूज्य विधिवद्राजन्धूपैः कुसुमचन्दनैः
ततो दुग्धाज्यसहितं घटं देयं हिरण्मयम् ॥ २.२७.५९ ॥
सर्वदानाधिकञ्चैतन्महापातकनाशनम्
कर्तव्यं श्रद्धया राजन्प्रेतत्वविनिवृत्तये ॥ २.२७.६० ॥
श्रीभागवानुवाच
एवं संजल्षतस्तस्य प्रेतेन नियतात्मनः
सेनाजगामानुपदं हस्त्यश्वरथसंकुला ॥ २.२७.६१ ॥
ततो बले समायाते दत्त्वा राज्ञे महामणिम्
नमस्कृत्य पुनः प्रार्थ्य प्रेतोऽदर्शनमीयिवान् ॥ २.२७.६२ ॥
तस्माद्वनाद्विनिष्क्रम्य राजापि स्वपुरं ययौ
स्वपुरं स समासाद्य सर्वं तत्प्रेतभाषितम् ॥ २.२७.६३ ॥
चकार विधिवत्पक्षिन्नौर्ध्वदेहादिकं विधिम्
तस्य पुण्यप्रदानेन प्रेतो मुक्तो दिवं ययौ ॥ २.२७.६४ ॥
श्राद्धेन परदत्तेन गतः प्रेतोऽपि सद्गतिम्
किं पुनः पुत्रदत्तेन पिता यातीति चात्भुतम् ॥ २.२७.६५ ॥
इतिहासमिमं पुण्यं शृणोति श्रावयेच्च यः
न तौ प्रेतत्वमायातः पापाचारयुतावपि ॥ २.२७.६६ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे बभ्रुवाहनप्रेतसंवादे प्रेतत्वहेतुतन्निवृत्त्युपायनिरूपणं नाम सप्तविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २८
गरुड उवाच
सर्वेपामनुकम्पार्थं ब्रूहि मे मधुसूदन
प्रेतत्वान्मुच्यते येन दानेन सुकृतेन वा ॥ २.२८.१ ॥
शृकृष्ण उवाच
शृणु दानं प्रवक्ष्यामि सर्वाशु भविनाशनम्
सन्तप्तहाटकमयं घटकं विधाय ब्रह्मेशकेशवयुतं सह लोकपालैः
क्षीराज्यपूर्णविविरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः ॥ २.२८.२ ॥
गरुड उवाच
किमेत्कथितं देव विस्तरेण वदस्व मे
आमुष्मिकीं क्रीयां देव उत्क्रान्तिसमयादनु ॥ २.२८.३ ॥
संसारे साधु मे नाथ ब्रूहि कृत्यं जनार्दन
यथा कार्या नरैः सम्यक्क्रिया चैवौर्ध्वदैहिकी ॥ २.२८.४ ॥
कथं प्रेता महाकाया रौद्ररूपा भयानकाः
कम्भवन्ति सुरश्रेष्ठ कर्मभिः कैः शुभाशुभैः ॥ २.२८.५ ॥
पिशाचाः सम्भवन्तीह कस्येदं कर्मणः फलम्
तन्मे कथय देवेश अहमिच्छामि वेदितुम् ॥ २.२८.६ ॥
भूम्यां प्रक्षिप्यते कस्मात्पञ्चरत्नं कुतो मुखे
अधस्ताच्च तिला दर्भाः पादौ याम्यां व्यवस्थिताः ॥ २.२८.७ ॥
किमर्थं मण्डलं भूमौ गोमयेनोपलिप्यते
किमर्थं स्मर्यते विष्णुः विष्णुसूक्तञ्च पठ्यते ॥ २.२८.८ ॥
किमर्थं पुत्रपुत्राश्च तस्य तिष्ठन्ति चाग्रतः
किमर्थं दीपदानञ्च किमर्थं विष्णुपूजनम् ॥ २.२८.९ ॥
किमर्थमातुरो दानं ददाति द्विजपुङ्गवे
बन्धून्मित्राण्यमित्रांश्च क्षमापयति तत्कथम् ॥ २.२८.१० ॥
तिला लोहं हिरण्यं च कार्पासं लवणं तथा
सप्तधान्यं क्षितिर्गावो दीयते केन हे तुना ॥ २.२८.११ ॥
कथं च म्रियते जन्तुर्मृतस्य च कुतो गतिः
अतिवाहशरीरं च कथं विश्रमते तदा ॥ २.२८.१२ ॥
शंव स्कन्धे वहेत्पुत्रो वह्निदाता च पौत्रकः
किमर्थं देव देवेश आज्येनाभ्यञ्जनं कुतः ॥ २.२८.१३ ॥
यमसूक्तं किमर्थं च उदीचीं दिशमाहरेत्
पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणम् ॥ २.२८.१४ ॥
यवसर्षपदूर्वाश्चपाषाणे निम्बचर्वणम्
वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम् ॥ २.२८.१५ ॥
अन्नाद्यं गृहमागत्य भोक्तव्यं गोत्रिभिः सह
नवकानि च पिण्डानि किमर्थं वितरेत्सुतः ॥ २.२८.१६ ॥
किमर्थं चत्वरे दुग्धं पात्रे पक्वे च मृन्मये
काष्ठत्रयं गुणे बद्ध्वा कृत्वा रात्रौ चतुष्पथे ॥ २.२८.१७ ॥
निशायां दीयते दीपो यावदब्दं दिनेदिने
दाहोदकं किमर्थं च संवादः स्वजनैः सह ॥ २.२८.१८ ॥
भगवन्नतिवाहस्य नवपिण्डैस्तु किं भवेत्
कथं देवपितृभ्यश्च वाहस्यावाहनं कथम्
इदं च क्रियते देव कस्मात्पिण्डं प्रदापयेत् ॥ २.२८.१९ ॥
किं तत्प्रदीयते तस्य पिण्डदानादनन्तरम्
अस्थिसञ्चयनं चैव शय्यादानं किमर्थकम् ॥ २.२८.२० ॥
द्वितीयेऽह्नि कुतः स्नानं चतुर्थे साग्निके द्विजे
दशमे किं मलस्नानं कार्यं सर्वजनैः सह ॥ २.२८.२१ ॥
कस्मात्तैलोद्वर्तनं च स्कन्धवाहान् गृहं नयेत्
तैः समुद्वर्तनं चापि दद्युः स्थलजलाश्रये ॥ २.२८.२२ ॥
देशमेऽहनि यः पिण्डस्तं दद्यादामिषेण तु
पिण्डं चैकादशे कस्माद्वृषोत्सर्गः कथं भवेत् ॥ २.२८.२३ ॥
श्राद्धानि षोडशैतानि अब्दं यावत्कुतो वद
अन्नादिचोदकेनैव षष्ट्यधिकशतत्रयम् ॥ २.२८.२४ ॥
दिनेदिने च दातव्यं घटान्नं प्रेततृप्तये
प्राप्ते काले च म्रियते अनित्यो मानवः प्रभो ॥ २.२८.२५ ॥
छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः
कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा ॥ २.२८.२६ ॥
तेजो वदस्व मे नाथ वायुराकाशमेव च
वायवश्चैव पञ्चैते कथं गच्छन्ति चाप्तये ॥ २.२८.२७ ॥
लोभमोहादयः पञ्च शरीरे चैव तस्कराः
तृष्णा कामोऽप्यहङ्कारः कुतो यान्ति जनार्दन ॥ २.२८.२८ ॥
पुण्यं वाप्यथ वापुण्यं यत्किञ्चित्सुकृतं तथा
नष्टे देहे कुतो यान्ति दानानि विविधानि च ॥ २.२८.२९ ॥
सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा
प्रेतस्य मेलनं सार्धं कैः समं तत्र को विधिः ॥ २.२८.३० ॥
ये दग्धा ये त्वदग्धाश्च पतिता ये नराभुवि
यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम् ॥ २.२८.३१ ॥
पापिनो ये दुराचारा मुद्गलत्वं च ये गताः
आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः ॥ २.२८.३२ ॥
कपिलां यः पिबेच्छूद्रो यः पठेद्वैदिकाक्षरम्
धारयेद्वा ब्रह्मसूत्रं का गतिस्तस्य माधव ॥ २.२८.३३ ॥
विप्रस्य ब्राह्मणी भार्या संगृही ता यदा भवेत्
तस्मात्पापाच्च भीतोऽहं तन्मे वद जगत्पते
सर्वमेतन्मया पृष्टो वद लोकहिताय वै ॥ २.२८.३४ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे और्ध्वदहिककर्मकालक्रियमाणनानादानादिफलप्रश्रनिरूपणं नामाष्टाविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २९
श्रीकृष्ण उवाच
साधु पृष्टं त्वया भद्र मानुषाणां हिताय वै
शृणुष्वावहितो भूत्वा सर्वमेवौर्ध्वदैहिकम् ॥ २.२९.१ ॥
कम्यग्विभेदरहितं श्रुतिस्मृतिसमुद्धृतम्
यन्न दृष्टं सुरैः सेन्द्रैर्योगिभिर्योगचिन्तकैः ॥ २.२९.२ ॥
गुह्याद्गुह्यतरं वत्स नाख्यातं कस्यचित्क्वचित्
भक्तस्त्वं हि महाभाग सर्वं ते कथयाम्यहम् ॥ २.२९.३ ॥
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च
येन केनाप्युपायेन कार्यं जन्म सुतस्य च ॥ २.२९.४ ॥
तारयेन्नरकात्पुत्रो यदि मोक्षो न विद्यते
दाहः पुत्रेण कर्तव्यो देयः पौत्रेण पावकः ॥ २.२९.५ ॥
तिलैर्दर्भैश्च भूम्यां वै कुटी धातुमती भवेत्
पञ्चरत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥ २.२९.६ ॥
लिप्यात्तु गोमयैर्भूमिं तिलान्दर्भांश्च निः क्षिपेत्
तस्यामेवातुरो मुक्तः सर्वं दहति पातकम् ॥ २.२९.७ ॥
दर्भमूलीनयेत्स्वर्गं संस्थितं नात्र संशयः
दर्भांस्तत्र हि ये भूम्यां तिलयुक्तान संशयः ॥ २.२९.८ ॥
सर्वत्र वसुधा पूता यत्र लेपो न विद्यते
यत्र लेपः स्थितस्तत्र पुनर्लेपेन शुध्यति ॥ २.२९.९ ॥
यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः
अलिप्ते आतुरं मुक्तं विशन्त्येते न संशयः ॥ २.२९.१० ॥
नित्यहोमं तथा श्राद्धं विप्राणां पादशोधनम्
मण्डलेन विना भूम्यां कुर्वन्त्येतच्च निष्फलम् ॥ २.२९.११ ॥
आतुरो मुच्यते नैव मण्डलेन विना भुवि
ब्रह्मा रुद्रश्च विष्णुश्च श्रीर्हुताशन एव च
मण्डले चोपतिष्ठन्तस्तस्मात्कुर्वीत मण्डलम् ॥ २.२९.१२ ॥
अन्यथा म्रियते यस्तु बालो वृद्धो युवापि वा
योन्यन्तरं स वै गच्छेत्क्रीडते वायुना सह ॥ २.२९.१३ ॥
मिश्रितं लोहताम्रं तु तथैव जन्म जायते
तस्मैवं वायुभूतस्य न श्राद्धं नोदक क्रिया ॥ २.२९.१४ ॥
मम स्वेदसमुद्भूतास्तिलास्तार्क्ष्य पवित्रकाः
असुरा दानवा दैत्यास्तृप्यन्ति तिलदानतः ॥ २.२९.१५ ॥
तिलाः श्वेतास्तिलाः कृष्णास्तिला गोमूत्रसन्निभाः
ते मे दहन्तु पाषानि शरीरेण कृतानि च ॥ २.२९.१६ ॥
एक एव तिलद्रोणो हेमद्रोणतिलैः समः
तर्पणे दानहोमे च दत्तो भवति चाक्षयः ॥ २.२९.१७ ॥
दर्भा मल्लोमसम्भूतास्तिलाः स्वेदसमुद्भवाः
तृप्ताः स्युर्देवता दानैः श्राद्धेन पितरस्तथा
प्रयोगविधिना ब्रह्मा विश्वञ्चाप्युपजीवनात् ॥ २.२९.१८ ॥
सव्ययज्ञोपवीतेन ब्रह्माद्यास्तृप्तिमान्पुयुः
अपसव्येन तृप्यन्ति पितरो दिविदेवताः ॥ २.२९.१९ ॥
अपसव्यादितो ब्रह्मा दर्भमध्ये तु केशवः
दर्भाग्रे शङ्करं विद्यात्त्रयो देवाः कुशे स्थिताः ॥ २.२९.२० ॥
विप्रा मन्त्राः कुशा वह्निस्तुलसी च खगेश्वर
नैते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः ॥ २.२९.२१ ॥
कुशाः पिण्डेषु निर्माल्याः ब्राह्मणाः प्रेतभोजने
मन्त्राः शूद्रेषु पतिताश्चितायाश्च हुताशनः ॥ २.२९.२२ ॥
तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग
पञ्च प्रवहणान्येव भवाब्धौ मज्जतां सताम् ॥ २.२९.२३ ॥
विष्णुरेकादशी गीता तुलसीविप्रधेनवः
अपारे दुर्गसंकारे षट्पदी मुक्तिदायिनी ॥ २.२९.२४ ॥
तिलाः पवित्रास्त्रिविधा दर्भाश्च तुलसीदालम्
निवारयन्ति चैतानि दुर्गतिं यान्तमातुरम् ॥ २.२९.२५ ॥
हस्ताभ्यामुद्धृतैर्दर्भैस्तोयेन प्रोक्षयेद्भुवम्
मृत्युकाले क्षिपेद्दर्भानातुरस्य करद्वये ॥ २.२९.२६ ॥
दर्भेषु क्षिप्यते योऽसौ दभस्तु परिवेष्टितः
विष्णुलोकं स वै याति मन्त्रहीनोऽपि मानवः ॥ २.२९.२७ ॥
दर्भमूलीगतो भूमौ दर्भपाणिस्तु यो मृतः
प्रायश्चित्तविशुद्धोऽसौ संसारेपारसागरे ॥ २.२९.२८ ॥
गोमयेनोपलिप्ते तु दर्भस्यास्तरणे स्थितः
तत्र दत्तेन दानेन सर्वं पापं व्यपोहति ॥ २.२९.२९ ॥
लवणं तद्रसं दिव्यं सर्वकामप्रदं नृणाम्
यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना ॥ २.२९.३० ॥
पितॄणां च प्रियं भव्यं तस्मात्स्वर्गप्रदं भवेत्
विष्णुदेहसमुद्भूतो यतोऽयं लवणो रसः ॥ २.२९.३१ ॥
विशेषाल्लवणं दानं तेन शंसन्ति योगिनः
ब्राह्मण क्षत्त्रियविशां स्त्रीणां शूद्रजनस्य च ॥ २.२९.३२ ॥
आतुराणां यदा प्राणाः प्रयान्ति वसुधातले
लवणं तु तदा देयं द्बारस्योद्धाटनं दिवः ॥ २.२९.३३ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रेतकल्पे धर्मकाण्डे श्रीकृष्णगरुडसंवादे और्ध्वदेहिककर्मणि पुत्रदर्भतिलतुलसीगोभूलेपताम्रपात्रदाना दीनामावश्यकत्वनिरूपणं नामैकोनत्रिशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३०
श्रीकृष्ण उवाच
शृणु तार्क्ष्य परं गुह्यं दानानां दानमुत्तमम्
परमं सर्वदानानां परं गोप्यं दिवौकसाम् ॥ २.३०.१ ॥
देयमेकं महादानं कार्पासं चोत्तमोत्तमम्
येन दत्तेन प्रीयन्ते भूर्भुवः स्वरिति क्रमात् ॥ २.३०.२ ॥
ब्रह्माद्या देवताः सर्वाः कार्याच्च प्रीतिमाप्नुयुः
देयमेतन्महादानं प्रेतोद्धरणहेतवे ॥ २.३०.३ ॥
चिरं वसेद्रुद्रलोके ततो राजा भवेदिह
रूपवान्सुभगो वाग्मी श्रीमानतुल विक्रमः
यमलोकं विनिर्जित्य स्वर्गं ताक्ष्य स गच्छति ॥ २.३०.४ ॥
गां तिलांश्च क्षितं हेम यो ददाति द्विजन्मने
तस्य जन्मार्जिर्त पापं तत्क्षणादेवनश्यति ॥ २.३०.५ ॥
तिला गावो महादानं महापातकनाशनम्
तद्द्वयं दीयते विप्रे नान्यवर्णे कदाचन ॥ २.३०.६ ॥
कल्पितं दीयते दानं तिला गावश्चमेदिनी
अन्येषु नैव वर्णेषु पोष्यवर्गे कदाचन ॥ २.३०.७ ॥
पोष्यवर्गे तथा स्त्रीषु दानं देयमकल्पितम्
आतुरे वोपरागे च द्वयं दानं विशिष्यते
आतुरे दीयते दानं तत्काले चोपतिष्ठति ॥ २.३०.८ ॥
जीवतस्तु पुनर्दत्तमुपतिष्ठत्यसंस्कृतम्
सत्यंसत्यं पुनः सत्यं यद्दत्तं विकलेन्द्रिये ॥ २.३०.९ ॥
यच्चानु मोदते पुत्रस्तच्च दानमनन्तकम्
अतो दद्यात्स पुत्रो वा यावज्जीवत्ससौ चिरम्
अतिवाहस्तथा प्रेतो भोगांश्च लभते यतः ॥ २.३०.१० ॥
अस्वस्था तुरकाले तु देहपाते क्षितिस्थिते
देहे तथातिवाहस्य परतः प्रीणनं भवेत् ॥ २.३०.११ ॥
पङ्गावन्धे च काणे च ह्यर्धोन्मीलितलोचने
तिलेषु दर्भान्संस्तीर्य दानमुक्तं तदक्षयम् ॥ २.३०.१२ ॥
तिला लौहं हिरण्यञ्च कार्पासं लवणं तथा
सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥ २.३०.१३ ॥
लोहदानाद्यमस्तुष्येद्धर्म राजस्तिलार्पणात्
लवणे दीयमाने तु न भयं विद्यते यमात् ॥ २.३०.१४ ॥
कर्पासस्य तु दानेन न भूतेभ्यो भयं भवेत्
तारयन्ति नरं गावस्त्रिविधाश्चैव पातकात् ॥ २.३०.१५ ॥
हेमदानात्सुखं स्वर्गे भूमिदानान्नृपो भवेत्
हेमभूमिप्रदानाच्च न पीडा नरके भवेत् ॥ २.३०.१६ ॥
सर्वेऽपि यमदूताश्च यमरूपा विभीषणाः
सर्वे ते वरदा यान्ति सप्तधान्येन प्रीणिताः ॥ २.३०.१७ ॥
विष्णोः स्मरणमात्रेण प्राप्यते परमा गतिः
एतत्ते सर्वमाख्यातं मर्त्यैर्या गतिराप्यते ॥ २.३०.१८ ॥
तस्मात्पुत्रं प्रशंसन्ति ददाति पितुराज्ञया
भूमिष्ठं पितरं दृष्ट्वा ह्यर्धोन्मीलितलोचनम् ॥ २.३०.१९ ॥
तस्मिन् काले सुतो यस्तु सर्वदानानि दापयेत्
गयाश्राद्धाद्विशिष्येत स पुत्रः कुलनन्दनः ॥ २.३०.२० ॥
स्वस्थानाच्चलितश्चासौ विकलस्य पितुस्तदा
पुत्रैर्यत्नेन कर्तव्या पितरं तारयन्ति ते ॥ २.३०.२१ ॥
किं दत्तैर्बहुभिर्दानैः पितुरन्त्येष्टिमाचरेत्
अश्वमेधो महायज्ञः कलां नार्हति षोडशीम् ॥ २.३०.२२ ॥
धर्मात्मा स नु पुत्रो वैदेवैरपि सुपूज्यते
दापयेद्यस्तु दानानि ह्यातुरं पितरं भुवि ॥ २.३०.२३ ॥
लोहदानञ्च दातव्यं भूमियुक्तेन पाणिना
यमं भीमञ्च नाप्नोति न गच्छेत्तस्य वेश्मनि ॥ २.३०.२४ ॥
कुठारो मुसलो दण्डः खड्गश्च च्छुरिका तथा
एतानि यमहस्तेषु दृश्यानि पापकर्मिणाम् ॥ २.३०.२५ ॥
तस्माल्लोहस्य दानन्तु ब्राह्मणायातुरो ददेत्
यमायुधानां सन्तुष्ट्यै दानमेतदुदाहृतम् ॥ २.३०.२६ ॥
गर्भस्थाः शिशवो ये च युवानः स्थविरास्तथा
एभिर्दानविशेषैस्तु निर्दहेयुः स्वपातकम् ॥ २.३०.२७ ॥
छुरिणः श्यामशबलौ षण्डामर्का उदुम्बराः
शबला श्यामदूता ये लोहदानेन प्रीणिताः ॥ २.३०.२८ ॥
पुत्राः पौत्रास्तथा बन्धुः सगोत्राः सुहहृदस्तथा
ददते नातुरे दानं ब्रह्मघ्नैस्तु समा हि ते ॥ २.३०.२९ ॥
पञ्चत्वे भूमियुक्तस्य शृणु तस्य च या गतिः
अतिवाहः पुनः प्रेतोवर्षोर्ध्वं सुकृतं लभेत् ॥ २.३०.३० ॥
अग्नित्रयं त्रयो लोकास्त्रयो वेदास्त्रयोऽमराः
कालत्रयं त्रिसन्ध्यं च त्रयो वर्णास्त्रिशक्तयः ॥ २.३०.३१ ॥
पादादूर्ध्वं कटिं यावत्तावद्ब्रह्याधितिष्ठति
ग्रीवां यावद्धरिर्नाभेः शरीरे मनुजस्य च ॥ २.३०.३२ ॥
मस्तके तिष्ठतीशानो व्यक्ताव्यक्तो महेश्वरः
एकमूर्तेस्त्रयो भागा ब्रह्मा विष्णुहेश्वराः ॥ २.३०.३३ ॥
अहं प्राणः शरीरस्थो भूतग्रामचतुष्टये
धर्माधर्मे मतिं दद्यात्सुखदुःखे कृताकृते ॥ २.३०.३४ ॥
जन्तोर्वुद्धिं समास्थाय पूर्वमर्माधिवासिताम्
अहमेव तथा जीवान्प्रेरयामि च कर्मसु
स्वर्गं च नरकं मोक्षं प्रयान्ति प्राणिनो ध्रुवम् ॥ २.३०.३५ ॥
स्वर्गस्थं नरकस्थं वा श्राद्धे वाप्यायनं भवेत्
तस्माच्छ्राद्धानि कुर्वीत त्रिविधानि विचक्षणः ॥ २.३०.३६ ॥
मत्स्यं कर्मं च वाराहं नारसिंहञ्च वामनम्
रामं रामं च कृष्णं च बुद्धं चैव सकल्किनम्
एतानि दश नामानि स्मर्तव्यानि सदा बुधैः ॥ २.३०.३७ ॥
स्वर्गं जीवाः सुखं यान्ति च्युताः स्वर्गाच्च मानवाः
लब्ध्वा सुखं च वित्तं च दयादाक्षिण्यसंयुताः
पुत्रपौत्रैर्धनैराढ्या जीवेयुः शरदां शतम् ॥ २.३०.३८ ॥
आतुरे च ददेद्दानं विष्णुपूजाञ्च कारयेत्
अष्टाक्षरं तथा मन्त्रं जपेद्वा द्वादशाक्षरम् ॥ २.३०.३९ ॥
पूजयेच्छुक्लपुष्पैश्च नैवेद्यैर्घृतपाचितैः
तथा गन्धैश्च धूपैश्च श्रुतिस्मृतिमनूदितैः ॥ २.३०.४० ॥
विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः
यत्र विष्णुं न पश्यामि तेन वासेन किं मम ॥ २.३०.४१ ॥
जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ २.३०.४२ ॥
वयमापो वयं पृथ्वी वयं दर्भा वयं तिलाः
वयं गावो वयं राजा वयं वायुर्वयं प्रजाः ॥ २.३०.४३ ॥
वयं हेम वयं धान्यं वयं मधु वयं घृतम्
वयं विप्रा वयं देवा वयं शम्भुश्च भूर्भुवः ॥ २.३०.४४ ॥
अहं दाता अहं ग्राही अहं यज्वा अहं क्रतुः
अहं हर्ता अहं धर्मो अहं पृथ्वी ह्यहं जलम् ॥ २.३०.४५ ॥
धर्माधर्मे मतिं दद्यां कर्मभिस्तु शुभाशुभैः
यत्कर्म क्रियते क्वापि पूर्वजन्मार्जितं खग ॥ २.३०.४६ ॥
धर्मे मतिमहं दद्यामधर्मेऽप्यहमेव च
यातनां कुरुते सोऽपि धर्मे मुक्तिं ददाम्यहम् ॥ २.३०.४७ ॥
मनुजानां हिता तार्क्ष्य अन्ते वैतरणी स्मृता
तयावमत्य पापौघं विष्णुलोकं स गच्छति ॥ २.३०.४८ ॥
बालत्वे यच्च कौमारे यच्च परिणतौ च यत्
सर्वावम्थाकृतं पापं यच्च जन्मान्तरेष्वपि ॥ २.३०.४९ ॥
यन्निशायां तथा प्रातर्यन्मध्याह्नापराह्नयोः
सन्ध्ययोर्यत्कृतं कर्म कर्मणा मनसा गिरा ॥ २.३०.५० ॥
दत्त्वा वरां सकृदपि कपिलां सर्वकामिकाम्
उद्धरेदन्तकाले स आत्मानं पापसञ्चयात् ॥ २.३०.५१ ॥
गावो ममाग्रतः सन्तु पृष्ठतः पार्श्वतस्तथा
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ २.३०.५२ ॥
या लक्ष्मीः सर्वभूतानां या च देवे व्यवस्थिता
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ २.३०.५३ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे नानादाननिरूपणं नाम त्रिंसोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३१
श्रीविष्णुरुवाच [VISHNU SAID]
ये नराः पापसंयुक्तास्ते गच्छन्ति यमालयम्
नृणां मत्साक्षिकं दत्तमनन्तफलदं भवेत् ॥ २.३१.१ ॥
यावद्रजः प्रमाणाब्दंस्वर्गे तिष्ठति भूमिदः
अश्वारूढाश्च ते यान्ति ददते ये ह्युपानहौ ॥ २.३१.२ ॥
आतपे श्रमयोगेन न दह्यन्ते च कुत्रचित्
छत्त्रदानेन वै प्रेता विचरन्ति सुखं पथि ॥ २.३१.३ ॥
यमुद्दिश्य ददात्यन्नं तेन चाप्यायितो भवेत् ॥ २.३१.४ ॥
अन्धकारे महाघोरे अमूर्ते लक्ष्यवर्जिते
उद्द्योतेनैव ते यान्ति दीपदानेन मानवाः ॥ २.३१.५ ॥
आश्विने कर्तिके वापि माघे मृततिथावपि
चतुर्दश्याञ्च दीयेत दीपदानं सुखाय वै ॥ २.३१.६ ॥
प्रत्यहञ्च प्रदातव्यं मार्गे सुविषमे नरैः
यावत्संवत्सरं वापि प्रेतस्य सुखलिप्सया ॥ २.३१.७ ॥
कुले द्योतति शुद्धात्मा प्रकाशत्वं स गच्छति
ज्योतिर्मयोऽसौ पूज्योऽसौ दीपदानप्रदो नरः ॥ २.३१.८ ॥
प्राङ्मुखोदङ्मुखं दीपं देवागारे द्विजातये
कुर्याद्याम्यमुखं पित्रे अद्भिः सङ्कल्प्य सुस्थिरम् ॥ २.३१.९ ॥
सर्वोपहारयुक्तानि पदान्यत्र त्रयोदश
यो ददाति मृतस्येह जीवन्नप्यात्महेतवे
स गच्छति महामार्गे महाकष्टविवर्जितः ॥ २.३१.१० ॥
आसनं भाजनं भोज्यं दीयते यद्द्विजायते
सुखे न भुञ्जमानस्तु देन गच्छत्यलं पथि ॥ २.३१.११ ॥
कमण्डलुप्रदानेन तृषितः पिबते जलम् ॥ २.३१.१२ ॥
भाजनं वस्त्रदानञ्च कुसुमञ्चाङ्गुलीयकम्
एकादशा हे दातव्यं प्रेतोद्धरणहेतवे ॥ २.३१.१३ ॥
त्रयोदश पदानीत्थं प्रेतस्य शुभमिच्छता
दातव्यानि यथाशक्त्या प्रेतोऽसौ प्रीणितो भवेत् ॥ २.३१.१४ ॥
भोजना नि तिलांश्चैव उदकुम्भांस्त्रयोदश
मुद्रिकां वस्त्रयुग्मञ्च तया याति परां गतिम् ॥ २.३१.१५ ॥
योऽश्वं नावं गजं वापि ब्राह्मणे प्रतिपादयेत्
स महिम्नोऽनुसारेण तत्तत्सुखमुपाश्नुते ॥ २.३१.१६ ॥
नानालोकान् विचरति महिषीञ्च ददाति यः
यमपुत्त्रस्य या माता महिषी सुगतिप्रदा ॥ २.३१.१७ ॥
ताम्बूलं कुसुमं देयं याम्यानां हर्षवर्धनम्
तेन सम्प्रीणिताः सर्वे तस्मिन् क्लेशं न कुर्वते ॥ २.३१.१८ ॥
गोभूतिलहिरण्यानि दानान्याहुः स्वशक्तितः ॥ २.३१.१९ ॥
मृतोद्देशेन यो यद्याज्जलपात्रञ्च मृन्मयम्
उदपात्रसहस्रस्य फलमाप्नोति मानवः ॥ २.३१.२० ॥
यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः
न भीषयन्ति तं याम्या वस्त्रदाने कृते सति ॥ २.३१.२१ ॥
मार्गे हि गच्छमानस्तु तृष्णार्तः श्रमपीडितः
घटान्नदानयोगेन सुखी भवति निश्चितम् ॥ २.३१.२२ ॥
शय्या दक्षिणया युक्ता आयुधाम्बरसंयुता
हैमश्रीपतिना युक्ता देया विप्राय शर्मणे
तथा प्रेतत्वमुक्तोऽसौ मोदते सह दैवतैः ॥ २.३१.२३ ॥
एतत्ते कथितं तार्क्ष्य दानमन्त्येष्टिकर्मजम्
अधुना कथयिष्येऽहमन्यदेहप्रवेशनम् ॥ २.३१.२४ ॥
जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम्
मृतिः कुर्यात्स्वधर्मेण यास्यतश्च परन्तप ॥ २.३१.२५ ॥
पूर्वकाले मृतानाञ्च प्राणिनाञ्च खगेश्वर
सूक्ष्मोभूत्वा त्वसौ वायुर्निर्गच्छत्यास्यमण्डलात् ॥ २.३१.२६ ॥
नवद्वारै रोमभिश्च जनानां तालुरन्ध्रके
पापिष्ठानामपानेन जीवो निष्क्रामति ध्रुवम् ॥ २.३१.२७ ॥
शरीरञ्च पतेत्पश्चान्निर्गते मरुतीश्वरे
वाताहतः पतत्येव निराधारो यथा द्रुमः ॥ २.३१.२८ ॥
पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च
तेजस्तेजसि लीयते समीरणः समीरणे
आकाशे च तथा काशः सर्वव्यापी च शङ्करे ॥ २.३१.२९ ॥
तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च
एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः ॥ २.३१.३० ॥
कामः क्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः
संहारकश्च कालोऽयं पुण्यपापसमन्वितः ॥ २.३१.३१ ॥
जगतश्च स्वरूपन्तु निर्मितं स्वेन कर्मणा
पुनर्देहान्तरं याति सुकृतैर्दुष्कृतैर्नरः ॥ २.३१.३२ ॥
पञ्चेन्द्रियसमायुक्तं सकलैर्विष्यैः सह
प्रविशेत्स नवं देहं गृहे दग्धे यथा गृही ॥ २.३१.३३ ॥
शरीरे ये समासीना सम्भवेत्सर्वधातवः
षाट्कौशिको ह्ययं कायो माता पित्रोश्च धातवः ॥ २.३१.३४ ॥
सम्भवेयुस्तथा तार्क्ष्य सर्वे वाताश्च देहिनाम्
मूत्रं पुरीषं तद्योगा ये चान्ये व्याधयस्तथा ॥ २.३१.३५ ॥
अस्थि शुक्रं तथा स्नायुः देहेन सह दह्यते
एष ते कथितस्तार्क्ष्य विनाशः सर्वदेहिनाम् ॥ २.३१.३६ ॥
कथयामि पुनस्तेषां शरीरञ्च यथा भवेत्
एकस्तम्भं स्नायुबद्धं स्थूणाद्वयसमुद्धृतम् ॥ २.३१.३७ ॥
इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम्
विषयैश्च समाक्रान्तं कामक्रोधसमाकुलम् ॥ २.३१.३८ ॥
रागद्वेषसमाकीर्णं तृष्णादुर्गसुदुस्तरम्
लोभजालसमायुक्तं पुरं पुरुषसंज्ञितम् ॥ २.३१.३९ ॥
एतद्गुणसमायुक्तं शरीरं सर्वदेहिनाम्
तिष्ठन्ति देवताः सर्वा भुवनानि चतुर्दश ॥ २.३१.४० ॥
आत्मानं ये न जानन्ति ते नराः पशवः स्मृताः
एवमेतन्मयाख्यातं शरीरं ते चतुर्विधम् ॥ २.३१.४१ ॥
चतुरशीतिलक्षाणि निर्मिता योनयः पुरा
उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः ॥ २.३१.४२ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोहं त्वयानघ ॥ २.३१.४३ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दानफ लान्यदेहप्रवेशादिनिरूपणं नामै कत्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३२
तार्क्ष्य उवाच
कथमुत्पद्यते जन्तुर्भूतग्रामे चतुर्विधे
त्वचा रक्तं तथा मांसं मेदो मज्जास्थि जीवितम् ॥ २.३२.१ ॥
पादौ पाणी तथा गुह्यं जिह्वाकेशनखाः शिरः
सन्धिमार्गाश्च बहुशो रेखा नैकविधास्तथा ॥ २.३२.२ ॥
कामः क्रोधो भयं लज्जा मनो हर्षः सुखासुखम्
चित्रितं छिद्रितञ्चापि नानाजालेन वेष्टितम् ॥ २.३२.३ ॥
इन्द्रजालमिदं मन्ये संसारेऽसारसागरे
कर्ता कोऽत्र हृषीकेश संसारे दुः खसंकुले ॥ २.३२.४ ॥
श्रीविष्णुरुवाच [VISHNU SAID]
कथयामि परं गोप्यं कोशस्यास्य विनिर्णयम्
यस्य विज्ञानमात्रेण सर्वज्ञत्वं प्रज्यते ॥ २.३२.५ ॥
साधु पृष्टं त्वया लोके सदयं जीवकारणम्
वैनतेय शृणुष्व त्वमेकाग्रकृतमानसः ॥ २.३२.६ ॥
ऋतुकाले च नारीणां वर्ज्यं दिनचतुष्टयम्
यतस्तस्मिन् ब्रह्महत्यां पुरा वृत्रसमुत्थिताम् ॥ २.३२.७ ॥
ब्रह्मा शक्रात्समुत्तार्य चतुर्थांशेन दत्तवान्
तावन्नालोक्यते वक्त्रं पापं यावद्वपुः स्थितम् ॥ २.३२.८ ॥
प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी
तृतीये रजकी ज्ञेया चतुर्थेऽहनि शुध्यति ॥ २.३२.९ ॥
सप्ताहात्पितृदेवानां भवेद्योग्या कृतार्चने
सप्ताहमध्ये यो गर्भस्तत्संम्भूतिर्मलिम्लुचा ॥ २.३२.१० ॥
निषकसमये पित्रोर्यादृक्चित्तविकल्पना
तादृग्गर्भसमुत्पत्तिर्जायते नात्र संशयः ॥ २.३२.११ ॥
युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु
पूर्वसप्तममुत्सृज्य तस्माद्युग्मासु संविशेत् ॥ २.३२.१२ ॥
षोडशर्तुर्निशाः स्त्रीणां सामान्यात्समुदाहृतः
या चतुर्दशमी रात्रिर्गर्भस्तिष्ठति तत्र चेत् ॥ २.३२.१३ ॥
गुणभाग्यनिधिः पुत्रस्तत्र जायेत धार्मिकः
सा निशा तत्र सामान्यैर्न लभ्येत खगाधिप ॥ २.३२.१४ ॥
प्रायशः सम्भवत्यत्र गर्भस्त्वष्टाहमध्यतः
पञ्चमेऽहनि नारीणां कार्यं माधुर्यभोजनम् ॥ २.३२.१५ ॥
कटुक्षारञ्च तीक्ष्णञ्च त्याज्यमुष्णञ्च दूरतः
तत्क्षेत्रमोषधीपात्रं बीजञ्चाप्यमृतायितम् ॥ २.३२.१६ ॥
तस्मिन्नुप्त्वा नरः स्वामी सम्यक्फलमवाप्नुयात्
तस्याश्चैवातपो वर्ज्य शीतलं केवलं चरेत् ॥ २.३२.१७ ॥
ताम्बूलपुष्पश्रीखण्डैः संयुक्तः शुचिवस्त्रभृत्
धर्ममादाय मनसि सुतल्पं संविशेत्पुमान् ॥ २.३२.१८ ॥
निषेकसमये यादृङ्नरचित्तविकल्पना
तादृक्स्वभावसम्भूतिर्जन्तुर्विशति कुक्षिगः ॥ २.३२.१९ ॥
शुक्रसोणितसंयोगे पिण्डोत्पत्तिः प्रजायते
वर्धते जठरे जन्तुस्तारापतिरिवाम्बरे ॥ २.३२.२० ॥
चैतन्यं बीजरूपं हि शुक्रे नित्यं व्यवस्थितम्
कामश्चित्तञ्च शुक्रञ्च यदा ह्येकत्वमाप्नुयुः ॥ २.३२.२१ ॥
तदा द्रावमवाप्नोति योषागर्भाशये नरः
रक्ताधिक्ये भवेन्नारी शुक्राधिक्ये भवेत्पुमान् ॥ २.३२.२२ ॥
शुक्रसोणितयो साम्ये गर्भाः षण्डत्वमाप्नुयुः
अहोरात्रेण कलिलं बुद्वदं पञ्चभिदिनैः ॥ २.३२.२३ ॥
चतुर्दशे भवेन्मांसं मिश्रधातुसमन्वितम्
घनं मांसञ्च विंशाहे गर्भस्थो वर्धते क्रमात् ॥ २.३२.२४ ॥
पञ्चविंशतिमे चाह्नि बलं पुष्टिश्च जायते
तथा मासे तु सम्पूर्णे पञ्चतत्त्वं निधारयेत् ॥ २.३२.२५ ॥
मासद्वये तु सञ्जाते त्वचा मेदश्च जायते
मज्जास्थीनि त्रिभिर्मासैः केशाङ्गुल्यश्चतुर्थके ॥ २.३२.२६ ॥
कर्णौ च नासिके वक्षो जायेरन्मासि पञ्चमे
कण्ठरन्ध्रोदरं षष्ठे गुह्यादिर्मासि सप्तमे ॥ २.३२.२७ ॥
अङ्गप्रत्यङ्गसम्पूर्णो गर्भो मासैरथाष्टभिः
अष्टमे चलते जीवो धात्रीगर्भे पुनः पुनः
नवमेमासि सम्प्राप्ते गर्भस्थौजौ दृढं भवेत् ॥ २.३२.२८ ॥
चिकित्सा जायते तस्य गर्भवासपरिक्षये
नारी वाथ नरो वाथ नपुंस्त्वं वाभिजायते ॥ २.३२.२९ ॥
शक्तित्रयं विशालाक्षं षाट्कौशिकसमायुतम्
पञ्चेन्द्रियसमोपेतं दशनाडीविभूषितम् ॥ २.३२.३० ॥
दशप्राणगुणोपेतं यो जानाति स योगवित्
मज्जास्थिशुक्रमांसानि रोम रक्तं बलं तथा ॥ २.३२.३१ ॥
षाट्कौशिकमिदं पिण्डं स्याज्जन्तोः पाञ्चभौतिकम्
नवमे दशमे मासि जायते पाञ्चभौतिकः ॥ २.३२.३२ ॥
सूतिवातैः समाकृष्टः पीडया विह्वलीकृतः
पुष्टो नाड्याः सुषुम्णाया योषिद्गर्भस्थितस्त्वरन् ॥ २.३२.३३ ॥
क्षितिर्वारि हविर्भोक्ता पवनाकाशमेव च
एभिर्भूतैः पीडितस्तु निबद्धः स्नायुबन्धनैः ॥ २.३२.३४ ॥
मूलभूता इमे प्रोक्ताः सप्त नाड्यन्तरे स्थिताः
त्वचास्थिनाड्यो रोमाणि मांसञ्चैवात्र पञ्चमम् ॥ २.३२.३५ ॥
एते पञ्च गुणाः प्रोक्ता मया भूमेः खगेश्वर
यथा पञ्च गुणाश्चापस्तथा तच्छृणु काश्यप ॥ २.३२.३६ ॥
लाला मूत्रं तथा शुक्रं मज्जार रक्तञ्च पञ्चमम्
आपः पञ्चगुणाः प्रोक्ता ज्ञातव्यास्ते प्रयत्नतः ॥ २.३२.३७ ॥
क्षुधा तृषा तथा निद्रा आलस्यं कान्तिरेव च
तेजः पञ्चगुणं प्रोक्तं तार्क्ष्य सर्वत्रयोगिभिः ॥ २.३२.३८ ॥
रागद्वेषौ तथा लज्जा भयं मोहस्तथैव च
इत्येतत्कथितं तार्क्ष्य वायुजं गुणपञ्चकम् ॥ २.३२.३९ ॥
आकुञ्चनं धावनञ्च लङ्घनञ्च प्रसारणम्
निरोधः पञ्चमः प्रोक्तो वायोः पञ्च गुणाः स्मृताः ॥ २.३२.४० ॥
घोषश्चिन्ता च गाम्भीर्यं श्रवणं सत्यसंक्रमः
आकाशस्य गुणाः पञ्च ज्ञात व्यास्तार्क्ष्य यत्नतः ॥ २.३२.४१ ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासा बुद्धीन्द्रियाणि च
पाणी पादौ गुदं प्राक्च गुह्यं कर्मेन्द्रियाणि च ॥ २.३२.४२ ॥
इडाच पिङ्गला चैव सुषुम्णा च तृतीयका
गान्धारी गजजिह्वा च पूषा चैव यसा तथा ॥ २.३२.४३ ॥
अलम्वुशा कुहूश्चैव शङ्खिनी दशमी स्मृता
पिण्ड मध्ये स्थिता ह्येताः प्रधाना दश नाडयः ॥ २.३२.४४ ॥
प्राणापानौ समानश्च उदानो व्यान एव च
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ २.३२.४५ ॥
इत्येते वायवः प्रोक्ता दश देहेषु सुस्थिताः
केवलं भुक्तमन्नञ्च पुष्टिदं सर्वदेहिनाम् ॥ २.३२.४६ ॥
नयते प्राणदो वायुः शरीरे सर्वसन्धिषु
आहारो भुक्तमात्रस्तु वायुना क्रियते द्विधा ॥ २.३२.४७ ॥
स प्रविश्य गुहे सम्यक्पृथगन्नं पृथग्जलम्
ऊर्ध्वमग्नेर्जलं कृत्वा तदन्नञ्च जलोपरि ॥ २.३२.४८ ॥
अग्नेश्चाधः स्वयं प्राणस्तमग्निञ्च धमेच्छनैः
वायुना धम्यमानोऽग्निः पृथक्किट्टं पृथग्रसम् ॥ २.३२.४९ ॥
मलैर्द्वादशभिः किट्टं भिन्नं देहात्पृथग्भवेत्
कर्णाक्षिनासिका जिह्वा दन्तनाभिवपुर्गुदम् ॥ २.३२.५० ॥
नखा मलाश्रया ह्येते विण्मूत्रञ्चेत्यनन्तकम्
शुक्रशोणितसंयोगादेतत्षाट्कौशिकं स्मृतम् ॥ २.३२.५१ ॥
रोम्णां कोट्यस्तथा तिस्रोऽप्यर्धकोटि समन्विताः
द्वात्रिंशद्दशनाः प्रोक्ताः सामान्याद्विनतासुत ॥ २.३२.५२ ॥
सप्त लक्षाणि केशाः स्युर्नखाः प्रोक्तास्तु विंशतिः
मांसं पलसहस्रैकं सामान्याद्देहसंस्थितम् ॥ २.३२.५३ ॥
रक्तं पलशतं तार्क्ष्यं बुद्धमेव पुरातनैः
पलानि दश मेदश्च त्वचा चैव तु तत्समा ॥ २.३२.५४ ॥
पलद्वादशकं मज्जा महारक्तं पलत्रयम्
शुक्रं द्विकुडवं ज्ञेयं शोणितं कुडवं स्मृतम् ॥ २.३२.५५ ॥
श्लेष्माणश्च षडूर्ध्वञ्च विण्मूत्रं तत्प्रमाणतः
अस्थ्नां हि ह्यधिकं प्रोक्तं षष्ट्युत्तरशतत्रयात् ॥ २.३२.५६ ॥
एवं पिण्डः समाख्यातो वैभवं सम्प्रचक्ष्महे
सुखं दुः खं भयं क्षेमं कर्मणैव हि प्राप्यते ॥ २.३२.५७ ॥
अधोमुखं चोर्ध्वपादं गर्भाद्वायुः प्रकर्षति
तले तु करयोर्न्यस्य वर्धते जानुपार्श्वयोः ॥ २.३२.५८ ॥
अङ्गुष्ठौ चोपरि न्यस्तौ जान्वारेथ कराङ्गुली
जानुपृष्ठे तथा नेत्रे जानुमध्ये च नासिका ॥ २.३२.५९ ॥
एवं वृद्धिं क्रमाद्याति जन्तुः स्त्रीगर्भसंस्थितः
काठिन्यमस्थीन्यायान्ति भुक्तपीतेन जीवति ॥ २.३२.६० ॥
नाडी वाप्यायनी नाम नाभ्यां तत्र निबध्यते
स्त्रीणां तथान्त्रसुषिरे स निबद्धः प्रजायते ॥ २.३२.६१ ॥
क्रामन्ति भुक्तपीतानि स्त्रीणां गर्भोदरे तथा
तैराप्यायितदेहोऽसौ जन्तुर्वृद्धिमुपैति च ॥ २.३२.६२ ॥
स्मृत्यस्तत्र प्रयान्त्यस्य बह्व्यः संसारभूतयः
ततो निर्वेदमायाति पीड्यमान इतस्ततः ॥ २.३२.६३ ॥
पुनर्नैवं करिष्यामि भुक्तमात्र इहोदरात्
तथातथा यतिष्यामि गर्भं नाप्नोम्यहं यथा ॥ २.३२.६४ ॥
इति सञ्चिन्तयञ्जीवो स्मृत्वा जन्मशतानि वै
यानि पूर्वानुभूतानि देवभूतात्मजानि वै ॥ २.३२.६५ ॥
ततः कालक्रमाज्जन्तुः परिवर्त्यत्वधोमुखः
नवमे दशमे वापि मासि संजायते ततः ॥ २.३२.६६ ॥
निष्क्रम्यमाणो वातेन प्राजापत्येन पीड्यते
निष्क्रमते च विलपंस्तदा दुःखनिपीडितः ॥ २.३२.६७ ॥
निष्क्रामंश्चोदरान्मूर्छामसह्यां प्रतिपद्यते
प्राप्नोति चेतनां चासौ वायुस्पर्शसुखान्वितः ॥ २.३२.६८ ॥
ततस्तं वैष्णवी माया समास्कन्दति मोहिनी
तया विमोहितात्मासौ ज्ञानभ्रंशमवाप्नुते ॥ २.३२.६९ ॥
भ्रष्टज्ञानं बालभावे ततो जन्तुः प्रपद्यते
ततः कौमारकावस्थां यौवनं वृद्धतामपि ॥ २.३२.७० ॥
पुनश्च तद्वन्मरणं जन्म प्राप्नोति मानवः
ततः संसारचक्रेऽस्मिन् भ्राम्यते घटयन्त्रवत् ॥ २.३२.७१ ॥
कदाचित्स्वर्गमाप्नोति कदाचिन्निरयं नरः
स्वर्गं च निरयं चैव स्वकर्मफलमश्नुते ॥ २.३२.७२ ॥
कदाचिद्भुक्तकर्मा च भुवं स्वल्पेन गच्छति
स्वर्लोके नरके चैव भुक्तप्राये द्विजोत्तमाः ॥ २.३२.७३ ॥
नरकेषु महद्दुःखमेतद्यत्स्वर्गवासिनः
दृश्यते नात्र मोदन्ते पात्यमानास्तु नारकैः ॥ २.३२.७४ ॥
स्वर्गेऽपि दुः खमतुलं यदारोहणकालतः
प्रभृत्यहं पतिष्यामीत्येतन्मनसि वर्तते ॥ २.३२.७५ ॥
नार कांश्चैव सम्प्रेक्ष्य महद्दुः खमवाप्यते
एवं गतिमहं गन्तेत्यहर्निशमनिर्वृतः ॥ २.३२.७६ ॥
गर्भवासे महद्दुः खं जायमानस्य योनिजम्
जातस्य बालभावेऽपि वृद्धत्वे दुःखमेव च ॥ २.३२.७७ ॥
कामेर्ष्याक्रोधसम्बन्धाद्यौवनेऽपि च दुः सहम्
दुःस्वप्नं या वृद्धता च मरणे दुः खमुत्कटम् ॥ २.३२.७८ ॥
कृष्यमाणश्च याम्यैः स नरकेऽपि च यात्यधः
पुनश्च गर्भाज्जन्म स्यान्मरणं दुष्करं तथा ॥ २.३२.७९ ॥
एवं संसारचक्रेऽस्मिज्जन्तवो घटयन्त्रवत्
भ्राम्यन्ते प्राक्तनैर्बधैर्बद्धा विध्यन्ति चासकृत् ॥ २.३२.८० ॥
नास्ति पक्षिन्सुखं किञ्चित्क्षेत्रे दुः खशताकुले
विनतासुत मोक्षाय यतितव्यं ततो नरैः ॥ २.३२.८१ ॥
एतत्ते सर्वमाख्यातं यथा गर्भस्य संस्थितिः
कथयामि क्रमप्रश्रं पृष्टं वा वर्तते स्पृहा ॥ २.३२.८२ ॥
गरुड उवाच
मध्ये कृतमहाप्रश्रद्वयस्याप्तं मयोत्तरम्
प्रश्रस्यापि तृतीयस्य उत्तरं च विधीयताम् ॥ २.३२.८३ ॥
श्रीकृष्ण उवाच
म्रियमाणस्य किं कृत्यमिति त्वं पृष्टवानसि
शृणु तत्रोत्तरं तूक्तं कथयामि समासतः ॥ २.३२.८४ ॥
आसन्नमरणं ज्ञात्वा पुरुषं स्नापयेत्ततः
गोमूत्रगोमयसुमृत्तीर्थोदककुशोदकैः ॥ २.३२.८५ ॥
वाससी परिधार्याथ धौते तु शुचि नी शुभे
दर्भाण्यादौ समास्तीर्य दक्षिणाग्रान्विकीर्य च ॥ २.३२.८६ ॥
तिलान् गोमयलिप्तायां भूमौ तत्र निवेशयेत् ॥ २.३२.८७ ॥
प्रागुदक्शिरसं वापि मुखे स्वर्णं विनिः क्षेपेत्
शालग्रामशिला तत्र तुलसी च खगेश्वर ॥ २.३२.८८ ॥
विधेया सन्निधौ सर्पिर्दीपं प्रज्वालयेत्पुनः
नमो भगवते वासुदेवायेति जपस्तथा ॥ २.३२.८९ ॥
आदौ तु प्रणवं कृत्वा पूजादाने ततः स्मृते
समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्ततः ॥ २.३२.९० ॥
प्रणिपातैः स्तवैः पुण्यैर्ध्या नयोगेन पूजयेत्
दत्त्वा दानं च विप्रेभ्यो दीनानाथेभ्य एव च ॥ २.३२.९१ ॥
पुत्त्रे मित्रे कलत्रे च क्षेत्रधान्यधनादिषु
निवर्तयेन्ममत्वं च विष्णोः पादौ हृदि स्मरन् ॥ २.३२.९२ ॥
उच्चैः पुरुषसूक्तं च यदि श्रेष्ठापदस्तदा
पुत्त्राद्याः प्रपठेयुस्ते म्रियमाणे निजे जने ॥ २.३२.९३ ॥
एतत्ते सर्वमाख्यातं कृत्यं मृत्यावुपस्थिते
फलमप्यस्य कृत्स्नस्य समासात्ते वदाम्यहम् ॥ २.३२.९४ ॥
स्नानेन शुचिताप्राप्तिरपावित्र्यहृतिस्ततः
ततो विष्णोः स्मृतिस्तस्य ज्ञानात्सर्वफलप्रदा ॥ २.३२.९५ ॥
दर्भतूली नयेत्स्वर्गमातुरं तु न संशयः
तिलैर्दर्भैश्च निः क्षिप्तैः स्नानं क्रतुमयं भवेत् ॥ २.३२.९६ ॥
ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशस्तथैव च
मण्डले चोपतिष्ठन्ति तस्मात्कुर्वीत मण्डलम् ॥ २.३२.९७ ॥
प्रागुदग्वा कृतेनेह शिरसा लोकमुत्तमम्
व्रजते यदि पापस्याल्पत्वं पुंसो भवेत्खग ॥ २.३२.९८ ॥
पञ्चरत्ने मुखे मुक्ते जिवे ज्ञानं प्ररोहति
तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग ॥ २.३२.९९ ॥
पञ्च प्रवहणान्येव भवाब्धौ मज्जतां नृणाम्
विष्णुरेकादशी गीता तुलसी विप्रधेनवः ॥ २.३२.१०० ॥
असारे दुर्गसंसारे षट्पदी भक्तिदायिनी
नमो भगवते वासुदेवायेति जपन्नरः ॥ २.३२.१०१ ॥
ओङ्कारपूर्वं सायुज्यं प्राप्नुयान्नात्र संशयः
पूजयापि च मल्लोकप्राप्तिराराद्दिवं व्रजेत् ॥ २.३२.१०२ ॥
बन्धाभावे ममत्वेतु ज्ञानं पुरुषसूक्ततः
यस्ययस्याधिकत्वं तु साधनेष्वेषु काश्यप ॥ २.३२.१०३ ॥
तत्तत्फलस्याप्याधिक्यं भवतीत्यवधारय
दातव्यानि यथाशक्त्या प्रीतोऽसौ सर्वदा भवेत् ॥ २.३२.१०४ ॥
एतत्ते सर्वमाख्यातं स्नानादिषु फलं मया
ब्रह्माण्डे ये गुणाः सन्ति शरीरे ते व्यवस्थिताः ॥ २.३२.१०५ ॥
पातालभूधरा लोकास्तथान्ये द्वीपसागराः
आदित्यादिग्रहाः सर्वे पिण्डमध्ये व्यवस्थिताः ॥ २.३२.१०६ ॥
पादाधस्तु तलं ज्ञेयं पादोर्ध्वं वितलं तथा
जानुभ्यां सुतलं विद्धि सक्थिदेशे महातलम् ॥ २.३२.१०७ ॥
तथा तलातलञ्चोरौ गुह्यदेशे रसातलम्
पातालं कटिसंस्थन्तु पादादौ लक्षयेद्बुधः ॥ २.३२.१०८ ॥
भूर्लोकं नाभिमध्ये तु भुवर्लोकं तदूर्ध्वतः
स्वर्गलोकं हृदये विद्यात्कण्ठदेशे महस्तथा ॥ २.३२.१०९ ॥
जनलोकं वक्त्रदेशे तपोलोकं ललाटके
सत्यलोकं महारन्ध्रे भुवनानि चतुर्दश ॥ २.३२.११० ॥
त्रिकोणे संस्थितो मेरुरधः कोणे च मन्दरः
दक्षिणे चेव कैलासो वामभागे हिमाचलः ॥ २.३२.१११ ॥
निषधश्चोर्ध्वभागे च दक्षिणे गन्धमादनः
मलयो (रमणो) वामरेखायां सप्तैते कुलपर्वताः ॥ २.३२.११२ ॥
अस्थिस्थाने स्थितो जम्बूः शाको मज्जासु संस्थितः
कुशद्वीपः स्थितो मांसे क्रौञ्चद्वीपः शिरास्थितः ॥ २.३२.११३ ॥
त्वचायां शाल्मलिद्वापो प्लक्षः रोम्णां च सञ्चये
नखस्थः पुष्करद्वीपः सागरास्तदनन्तरम् ॥ २.३२.११४ ॥
क्षारोदश्च तथा मूत्रे क्षारे क्षीरोदसागरः
सुरोदधिश्च श्लेष्मस्थः मज्जायां घृतसागरः ॥ २.३२.११५ ॥
रसोदधिं रसे विद्याच्छोणिते दधिसगरम्
स्वादुलं लम्बिकास्थाने गर्भोदं शुक्रसंस्थितम् ॥ २.३२.११६ ॥
नादचक्रे स्थितः सूर्यो बिन्दुचक्रे च चन्द्रमाः
लोचनस्थः कुजो ज्ञेयो हृदये च बुधः स्मृतः ॥ २.३२.११७ ॥
विष्णुस्थाने गुरुं विद्याच्छ्रुक्रे शुक्रो व्यवस्थितः
नाभिस्थाने स्थितो मन्दो मुखे राहुः स्थितः सदा ॥ २.३२.११८ ॥
पायु (द) स्थाने स्थितः केतुः शरीरे ग्रहमण्डलम्
विभक्तञ्च समाख्यातमापादतलमस्तकम् ॥ २.३२.११९ ॥
उत्पन्ना ये हि संसारे म्रियन्ते ते न संशयः
बुभुक्षा च तृषा रौद्रा दाहोद्भूता च मूर्छना ॥ २.३२.१२० ॥
यत्र पीडास्त्विमा रौद्रास्ता वै वृश्चिकदंशजाः
विनाशः पूर्णकाले च जायते सर्वदेहिनाम् ॥ २.३२.१२१ ॥
अग्रे अग्रे हि धावन्ति यमलोकगतस्यवै
तप्तवालुकमध्येन प्रज्वलद्वह्निमध्यतः ॥ २.३२.१२२ ॥
केशग्राहैः समाक्रान्ता नीयन्ते यमकिङ्करैः
पापिष्ठास्त्वधमास्तार्क्ष्य दयाधर्मविविर्जिताः ॥ २.३२.१२३ ॥
यमलोके वसन्त्येते कुट्यां जन्म न विद्यते
एवं सञ्जायते तार्क्ष्य मर्त्ये जन्तुः स्वकर्मभिः ॥ २.३२.१२४ ॥
उत्पन्ना ये हि संसारे म्रियन्ते ते न संशयः
आयुः कर्म च वित्तञ्च विद्या निधनमेव च ॥ २.३२.१२५ ॥
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ॥ २.३२.१२६ ॥
सुखं दुः खं भयं क्षेमं कर्मणैवाभिपद्यते
अधोमुखं चोर्ध्वपादं गर्भाद्वायुः प्रकर्षति ॥ २.३२.१२७ ॥
जन्मतो वैष्णवी माया संमोहयति सत्वरम्
स्वकर्मकृतसम्बन्धो जन्तुर्जन्म प्रपद्यते ॥ २.३२.१२८ ॥
सुकृतादुत्तमो भोगभोग्यवान् सुकुले भवेत्
यथायथा दुष्कृतं तत्कुले हीने प्रजायते ॥ २.३२.१२९ ॥
दरिद्रो व्याधितो मूर्खः पापकृद्दुः खभाजनम्
अतः परं किमर्थं ते कथयामि खगेश्वर ॥ २.३२.१३० ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धर्मदृप्रेतदृश्रीकृष्णगरुडसंवादे जन्तूत्पत्तितद्गधात्वादिविभागभुवनादिविभागवर्णनं नाम द्वात्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३३
गरुड उवाच
उत्पत्तिलक्षणं जन्तोः कथितं मयि पुत्त्रके
यमलोकः कियन्मात्रस्त्रैलोक्ये सचराचरे
विस्तरं तस्य मे ब्रूहि अध्वा चैव कियान् स्मृतः ॥ २.३३.१ ॥
कैश्च पापैः कृतैर्देव केन वा शुभकर्मणा
गच्छन्ति मानवास्तत्र कथयस्व विशेषतः ॥ २.३३.२ ॥
श्रीभगवानुवाच
षटशीतिसहस्राणि योजनानां प्रमाणतः
यमलोकस्य चाध्वानमन्तरा मानुषस्य च ॥ २.३३.३ ॥
ध्मातताम्रमिवातप्तो ज्वलद्दुर्गो महापथः
तत्र गच्छन्ति पापिष्ठा मानवा मूढचेतसः ॥ २.३३.४ ॥
कण्टकाश्च सुतीक्ष्णा वै विविधा घोरदर्शनाः
तैस्तुवालुक्षितिर्व्याप्ता हुताशश्च तथोल्बणः ॥ २.३३.५ ॥
वृक्षच्छाया न तत्रास्ति यत्र विश्रमते नरः
गृहीतः कालपाशैश्च कृतैः कर्मभिरुल्बणैः ॥ २.३३.६ ॥
तस्मिन्मार्गे न चान्नाद्यं येन प्राणान् प्रपोषयेत्
न जलं दृश्यते तत्र तृषा येन विलीयते ॥ २.३३.७ ॥
क्षुधया पीडितो याति तृष्णया च महापथे
शीतेन कम्पते क्वापि यममार्गेऽतिदुर्गमे ॥ २.३३.८ ॥
यद्यस्य यादृशं पापं स पन्थास्तस्य तादृशः
सुदीनाः कृपणा मूढा दुः खैर्व्याप्तास्तरन्ति तम् ॥ २.३३.९ ॥
रुदन्ति दारुणं केचित्केचिद्द्रोहं वदन्ति च
आत्मकर्मकृतैर्देषैः पच्यमाना मुहुर्मुहुः ॥ २.३३.१० ॥
ईदृग्विधः स वै पन्था विज्ञेयो दारुणः खग
वितृष्णा ये नरा लोके सुखं तस्मिन् व्रजन्ति ते ॥ २.३३.११ ॥
यानियानि च दानानि दत्तानि भुवि मानवैः
तानितान्युपतिष्ठन्ति यमलोके पुरः पथि ॥ २.३३.१२ ॥
पापिनो नोपतिष्ठन्ति दाहश्राद्धजलाञ्जलि
भ्रमन्ति वायुभूतास्ते ये क्षुद्राः पापकर्मिणः ॥ २.३३.१३ ॥
ईदृशं वर्त्म तद्रौद्रं कथितं तव सुव्रत
पुनश्च कथयिष्यामि यममार्गस्य या स्थितिः ॥ २.३३.१४ ॥
याम्यनैरृतयोर्मध्ये पुरं वैवस्वतस्य तु
सर्वं वज्रमयं दिव्यमभेद्यं तत्सुरासुरैः ॥ २.३३.१५ ॥
चतुरश्रं चतुर्द्वारं सप्तप्राकारतोरणम्
स्वयं तिष्ठति वै यस्यां यमो दूतैः समन्वितः ॥ २.३३.१६ ॥
योजनानां सहस्रं वै प्रमाणेन तदुच्यते
सर्वरत्नमयं दिव्यं विद्युज्ज्वालार्कतैजसम् ॥ २.३३.१७ ॥
तद्गुहं धर्मराजस्य विस्तीर्णं काञ्चनप्रभम्
योजनानां पञ्चशतप्रमाणेन समुच्छ्रितम् ॥ २.३३.१८ ॥
वृतं स्तम्भसहस्रैस्तु वैदूर्यमणिमण्डितम्
मुक्ताजालगवाक्षं च पताकाशतभूषितम् ॥ २.३३.१९ ॥
घण्टाशतनिनादाढ्यं तोरणानां शतैर्वृतम्
एवमादिभिरन्यैश्च भूषणैर्भूषितं सदा ॥ २.३३.२० ॥
तत्रस्थो भगवान् धर्म आसने तु समे शुभे
दशयो जनविस्तीर्णे नीलजीमूतसन्निभे ॥ २.३३.२१ ॥
धर्मज्ञो धर्मशीलश्च धर्मयुक्तो हितो यमः
भयदः पापयुक्तानां धार्मिकाणां सुखप्रदः ॥ २.३३.२२ ॥
मन्दमारु तसंयोगैरुत्सवैर्विविधैस्तथा
व्याख्यानैर्विविधैर्युक्तः शङ्खवादित्रनिः स्वनैः ॥ २.३३.२३ ॥
पुरमध्यप्रवेशे तु चित्रगुप्तस्य वै गृहम्
पञ्चविंशतिसंख्यानां योजनानां सुविस्तरम् ॥ २.३३.२४ ॥
दशोच्छ्रितं महादिव्यं लोहप्राकारवोष्टितम्
प्रतोलीशतसंचारं पतताकाशतशोभितम् ॥ २.३३.२५ ॥
दीपिकाशतसङ्कीर्णं गीतध्वनिसमाकुलम्
विचित्रचित्रकुशलैश्चित्रगुप्तस्य वै गृहम् ॥ २.३३.२६ ॥
मणिमुक्तामये दिव्ये आसने परमाद्भुते
तत्रस्थो गणयत्यायुर्मानुषेष्वितरेषु च ॥ २.३३.२७ ॥
न मुह्यति कदाचित्स सुकृते दुष्कृतेऽपि वा
यद्येनोपार्जितं यावत्तावद्वै वेत्ति तस्य तत् ॥ २.३३.२८ ॥
दशाष्टदोषरहितं कृत कर्म लिखत्यसौ
चित्रगुप्तालयाताच्यां ज्वरस्यास्ति महागृहम् ॥ २.३३.२९ ॥
दक्षिणे चापि शूलस्य लताविस्फोटकस्य च
पश्चिमे काल पाशस्य अजीर्णस्यारुचेस्तथा ॥ २.३३.३० ॥
मध्यपीठोत्तरे ज्ञेयो तथा चान्या विषचिका
ऐशन्यां वै शिरोऽर्तिश्च आग्नेय्याञ्चैव मृकता ॥ २.३३.३१ ॥
अतिसारश्च नैरृत्यां वायव्यां दाहसंज्ञकः
एभिः परिवृतो नित्यं चित्रगुप्तः स तिष्ठति ॥ २.३३.३२ ॥
यत्कर्म कुरुते कश्चित्तत्सर्वं विलखत्यसौ
धर्मराजगृहद्वारि दूतास्तार्क्ष्य तथा निशि
तिष्ठन्ति पापकर्माणः पच्यमाना नराधमाः ॥ २.३३.३३ ॥
यमदूतैर्महापाशैर्हन्यमानाश्च मुद्गरैः
वध्यन्ते विविधैः पापैः पूर्वकर्मकृतैर्नराः ॥ २.३३.३४ ॥
नानाप्रहारणाग्रैश्च नानायन्त्रैस्तथा परे
छिद्यन्ते पापकर्माणः क्रकचैः काष्ठवद्द्विधा ॥ २.३३.३५ ॥
अन्ये ज्वलद्भिरङ्गारैर्वेष्टिताः परितो भृशम्
पूर्वकर्मविपाकेन ध्मायन्ते लोहपिण्डवत् ॥ २.३३.३६ ॥
क्षिप्त्वान्ये च धरापृष्ठे कुठारेणावकर्तिताः
क्रन्दमानाश्च दृश्यन्ते पूर्वकर्मविपाकतः ॥ २.३३.३७ ॥
केचिद्गुडमयैः पाकैस्तैलपाकैस्तथा परे
पीड्यन्ते यमदूतैश्च पापिष्ठाः सुभृशं नराः ॥ २.३३.३८ ॥
क्षणाह्नि प्रार्थयन्त्यन्ये देहिदेहीति कोटिशः
यमलोके मया दृष्टा ममस्वं भक्षितं त्वया ॥ २.३३.३९ ॥
इत्येवं बहुशस्तार्क्ष्य नरकाः पापिनां स्मृताः
कर्मभिर्बहुभिः प्रोक्तैः सर्वशास्त्रेषु भाषितैः
दानोपकारं वक्ष्यामि यथा तत्र सुखं भवेत् ॥ २.३३.४० ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रतकल्पे श्रीकृष्णगरुडसंवादे यमलोकविस्तृतिदृवर्णनं नाम त्रयस्त्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३४
श्रीकृष्ण उवाच
शृणु तार्क्ष्य यथान्यायं धर्माधर्म्स्य लक्षणम्
सुकृतं दुष्कृतं नॄणामग्रे धावति धावताम् ॥ २.३४.१ ॥
कृते तपः प्रशंसन्ति त्रेतायां ज्ञानसाधनम्
द्वापरे यज्ञदाने च दानमेकं कलौ युगे ॥ २.३४.२ ॥
गृहस्थानां स्मृतो धर्म उत्तमानां विचक्षणैः
इष्टापूर्ते स्वशक्त्या हि कुर्वतां नास्ति पातकम् ॥ २.३४.३ ॥
वृक्षस्तु रोपितो येन खनिकूपजलाशयाः
यममार्गे सुखं तस्य व्रजतो नितरां भवेत् ॥ २.३४.४ ॥
अग्नितापप्रदातारे यैः शीतपीडिते द्विजे
तप्यमानाः सुखं यान्ति सर्व कामैः प्रपूरिताः ॥ २.३४.५ ॥
सुवर्णमणिमुक्तादि वस्त्राण्याभरणानि च
तेन सर्वमिदं दत्तं येन दत्ता वसुन्धरा ॥ २.३४.६ ॥
यानियानि च भूतानि दत्तानि भुवि मानवैः
यमलोकपथे तानि तिष्ठन्त्येषां समीपतः ॥ २.३४.७ ॥
व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च
ददाति विधिना पुत्र प्रेते तदु पतिष्ठति ॥ २.३४.८ ॥
आत्मा वै पुत्रनामास्ति पुत्रस्त्राता यमालये
तारयेत्पितरं घोरात्तेन पुत्त्रः प्रवक्ष्यते ॥ २.३४.९ ॥
अतो देयञ्च पुत्रेण श्राद्धमाजी वितावधि
अतिवाहस्तदा प्रेतो भोगान् वै लभते हि सः ॥ २.३४.१० ॥
दह्यमानस्य प्रेतस्य स्वजनैर्यो जलाञ्जलिः
दीयते प्रेतरूपोऽसौ प्रीतो याति यमालये ॥ २.३४.११ ॥
अपक्वे मृन्मये पात्रे दुग्धं दत्तं दिनत्रयम्
काष्ठत्रयं गुणैर्बद्ध्वा प्रीत्यै रात्रौ चतुष्पथे ॥ २.३४.१२ ॥
प्रथमेऽह्नि द्वितीये च तृतीये च तथा खग
आकाशस्थं पिबेद्दुग्धं प्रेतो वायुवपुर्धरः ॥ २.३४.१३ ॥
चतुर्थे सञ्चयः कार्यः चतुर्थे?वापि साग्निके
अस्थिसञ्चयनं कार्यं दद्यादापाञ्जलिं ततः ॥ २.३४.१४ ॥
न पूर्वाह्ने न मध्याह्ने नापराह्ने न सन्धिषु
याते प्रथमयामे तु दद्यादापजलाञ्जंलीन् ॥ २.३४.१५ ॥
पुत्त्रेण दत्ते ते सर्वे गोत्रिणो हितबान्धवाः
स्वजात्यैः परजात्यैश्च देयो नद्यां जलाञ्जलिः ॥ २.३४.१६ ॥
गन्तव्यं नैव विप्रेण दातुं शीघ्रं जलाञ्जलिम्
निवृत्ताश्च यदा नार्यो लोकाचारः सदाभवेत् ॥ २.३४.१७ ॥
पञ्चत्वञ्च गते शूद्रे यः काष्ठं नयते चिताम्
अनुव्रजेद्यदा विप्रस्त्रिरात्रमशुचिर्भवेत् ॥ २.३४.१८ ॥
त्रिरात्रे च ततः पूर्णे नदीं गच्छेत्समुद्रगाम्
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ २.३४.१९ ॥
शूद्रो गच्छति सर्वत्र वैश्यस्त्रिषु द्वयोः परः
गच्छति स्वीयवर्णेषु दातुं प्रेते जलाञ्जलिम् ॥ २.३४.२० ॥
दत्ते जलाञ्जलौ पश्चाद्विदध्याद्दन्तधावनम्
त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यप ॥ २.३४.२१ ॥
जलाञ्जलिं तथा दातुं गच्छन्ति द्विजसत्तमाः
यत्र स्थाने मृतो यस्तु अध्वन्यपि गृहेऽपि वा
विश्लेषस्तु ततः स्थानान्न क्वचिद्विहितो बुधैः ॥ २.३४.२२ ॥
स्त्रीजनश्चाग्रतो गच्छेत्पृष्ठतो नवसञ्चयः
आचमनं विधातव्यं पाषाणोपरि संस्थितैः ॥ २.३४.२३ ॥
यवांश्च सर्षपान् दूर्वाः पूर्णपात्रे विलोकयेत्
प्राशयेन्निम्बपत्राणि स्नेहस्नानं समाचरेत् ॥ २.३४.२४ ॥
गोत्रिभिर्न च कर्तव्यं गृहान्नञ्च न भोजयेत्
भुञ्जीत मृन्मये पात्रे उत्तानञ्च विवर्जयेत् ॥ २.३४.२५ ॥
मृतकस्य गुणा ग्राह्या यमगाथां समुद्गिरेत्
शुभाशुभे च ध्यातव्ये पूर्वकर्मोपसञ्चिते ॥ २.३४.२६ ॥
लब्धेनैव च देहेन भुङ्क्ते सुकृतदुष्कृते
वायुरूपो भ्रमत्येव वायुरूर्ध्वं स गच्छति ॥ २.३४.२७ ॥
दशाहकर्मक्रियया कुटी निष्पाद्यते ध्रुवम्
नवकैः षोडशश्राद्धैः प्रयाति हि कुटीं नरः ॥ २.३४.२८ ॥
तिलैर्दर्भैश्च भूम्यां वै कुटी धातुमयी भवेत्
पञ्च रत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥ २.३४.२९ ॥
यदा पुष्पं प्रनष्टं हि तदा गर्भं न धारयेत्
आदराच्च ततो भूमौ तिलदर्भान्विनिः क्षिपेत् ॥ २.३४.३० ॥
पशुत्वे स्थावरत्वे च यत्र क्वापि स जायते
तत्रैव जन्तुरुत्पन्नः श्राद्धं तत्रोपतिष्ठति ॥ २.३४.३१ ॥
धन्विना लक्ष्यमुद्दिश्य मुक्तो बाणस्तदाप्नुयात्
यथा श्राद्धं यमुद्दिश्य कृतं तस्योपतिष्ठति ॥ २.३४.३२ ॥
यावन्नोत्पादितो देहस्तावच्छ्राद्धैर्न प्रीणनम्
क्षुधाविभ्रममापन्नो दशाहेन च तर्पितः ॥ २.३४.३३ ॥
पिण्डदानं न यस्याभूदाकाशे भ्रमते तु सः
दिनत्रयं वसंस्तोये अग्नावपि दिनत्रयम्
आकाशे वसते त्रीणि दिनमेकन्तु वासके ॥ २.३४.३४ ॥
दग्धे देहे च वह्नौ च जलेनैव तु तर्पितः
स्नेहस्नानं जलेनैव पूपकैः कृशरैर्गृहे ॥ २.३४.३५ ॥
प्रथमेऽह्नि तृतीये च पञ्चमे सप्तमेऽपि वा
नवमैकादशे चैव श्राद्धं नवकमुच्यते ॥ २.३४.३६ ॥
गृहद्वारे श्मशाने वा तीर्थे देवालयेऽपि वा
यत्राद्यो दीयते पिण्डस्तत्र सर्वान् समापयेत् ॥ २.३४.३७ ॥
एकादशाहे यच्छ्राद्धं तत्सामान्यमुदाहृतम्
चतुर्णामेकवर्णानां शुद्ध्यर्थं स्नानमुच्यते ॥ २.३४.३८ ॥
कृत्वा चैकादशाहञ्च पुनः स्नात्वा शुचिर्भवेत्
दद्याद्विप्राय यः शय्यां यथोक्तं प्रेतमोक्षदाम् ॥ २.३४.३९ ॥
न भवेत्यदा स गोत्रो परोऽपि विधिमाचरेत्
भार्या वा पुरुषः कश्चित्तुष्टश्च कुरुते स्त्रियः ॥ २.३४.४० ॥
प्रथमेऽहनि यः पिण्डो दीयते विधिपूर्वकम्
अन्नाद्येन च तेनैव सर्वश्राद्धानि कारयेत् ॥ २.३४.४१ ॥
अमन्त्रं कारयेच्छ्राद्धं दशाहं नामगोत्रतः
श्राद्धं कृतन्तु यैर्वस्त्रैस्तानि त्यक्त्वा गृहं विशेत् ॥ २.३४.४२ ॥
असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान्
प्रथमेऽहनि यः कुर्यात्स दशाहं समापयेत् ॥ २.३४.४३ ॥
जीवस्य दशभिः पिण्डैर्देहो निष्पाद्यते ध्रुवम्
वृद्धिश्च दशभिर्मासैर्गर्भस्थस्य यथा भवेत् ॥ २.३४.४४ ॥
आशौचं यावदेतस्य तावत्पिण्डोदकक्रिया
चतुर्णामपि वर्णानामेष एव विधिः स्मृतः ॥ २.३४.४५ ॥
यत्र त्रिरात्रमाशौचं तत्रादौ त्रीन् प्रदापयेत्
चतुरस्तु द्वितीयेऽह्नि तृतीये त्रींश्तथैव च ॥ २.३४.४६ ॥
पृथक्शरावयोर्दद्यादेकाहं क्षीरमम्बु च
एकोद्दिष्टन्तु वै श्राद्धं चतुर्थेऽहनि कारयेत् ॥ २.३४.४७ ॥
प्रथमेऽहनि यः पिण्डस्तेन मूर्धा प्रजायते
चक्षुः श्रोत्रञ्च नासा च द्वितीयेऽह्नि प्रजायते ॥ २.३४.४८ ॥
गण्डौ वक्त्रं तथा ग्रीवा तृतीयेऽहनि जायते
हृदयं कुक्षिरुदरं चतुर्थे तद्वदेव हि ॥ २.३४.४९ ॥
कटिपृष्ठं गुदञ्चापि पञ्चमेऽहनि जायते
षष्ठे ऊरू च विज्ञेये सप्तमे गुल्फसम्भवः ॥ २.३४.५० ॥
अष्टमे दिवसे प्राप्ते जङ्घे च भवतोऽण्डज
पादौ च नवमे ज्ञेयौ दशमे बलवत्क्षुधा ॥ २.३४.५१ ॥
एकादशाहे यः पिण्डस्तं दद्यादामिषेण तु
सिद्धान्नं तस्य दातव्यं कृशराः पूपकाः पयः
प्रक्षाल्य विप्रचरणावर्घ्यं धूपञ्च दीपक्रम् ॥ २.३४.५२ ॥
द्वादश प्रतिमास्यानि श्राद्धान्यैकादशे तथा
त्रिपक्षञ्चापि षण्मासे द्वे श्राद्धानि च षोडश ॥ २.३४.५३ ॥
प्रति मासं प्रदातव्यं मृताहे या तिथिर्भवेत्
स मासः प्रथमो ज्ञेय इति वेदविदो विदुः ॥ २.३४.५४ ॥
शवहस्ते च यच्छ्राद्धं मृतिस्थाने द्विजासने
तदेव प्रथमं श्राद्धं तत्स्यादेकादशेऽहनि ॥ २.३४.५५ ॥
सा तिथिर्मासिके श्राद्धे मृतो यस्मिन् दिने नरः
रिक्तयोश्च त्रिपक्षे च सा तिथिर्नाद्रियेत वै ॥ २.३४.५६ ॥
पौर्णमास्यां मृतो योऽसौ चतुर्थी तस्य चोनका
चतुर्थ्यान्तु मृतो यस्तु नवमी तस्य चोनका ॥ २.३४.५७ ॥
नवम्याञ्च मृतो यश्च रिक्ता तस्य चतुर्दशी
एता रिक्ताश्च विज्ञेया अन्त्येष्टौ कुशलेन च ॥ २.३४.५८ ॥
एकादशाहे यच्छ्राद्धं नवकं तत्प्रकीर्तितम्
चतुष्पथे त्यजेदन्नं पुनः स्नानं समाचरेत् ॥ २.३४.५९ ॥
एकादशाहादारभ्य घटस्यान्नं जलान्वितम्
दिनेदिने च दातव्यमब्दं यावद्द्विजोत्तमे ॥ २.३४.६० ॥
मानुषस्य शरीरे तु विद्यते ह्यस्थिसञ्चयः
तत्संख्यः सर्वदेहेषु षष्ट्यधिकशतत्रयम् ॥ २.३४.६१ ॥
उदकुम्भेन पुष्टानि तान्यस्थीनि भवन्ति हि
एतस्माद्दीयते कुम्भः प्रीतिः प्रेतस्य जायते ॥ २.३४.६२ ॥
यस्मिन् दिने मृतो जन्तुरटव्यां विषमेऽपि वा
यदा तदा भवेद्दाहः सूतकं मृतवासरात् ॥ २.३४.६३ ॥
तिलपात्रं तथान्नाद्यं गन्धधपादिकञ्च यत्
एकादशाहे दातव्यं तेन शूद्धो द्विजो भवेत् ॥ २.३४.६४ ॥
क्षत्त्रियो द्वादशाहे तु वैश्यः पञ्चदशे तथा
शुद्धिः शूद्रस्य मासेन मृतके जातसूतके ॥ २.३४.६५ ॥
मासत्रये त्रिरात्रं स्यात्षण्मासेन तु पक्षिणी
अहः संवत्सरादर्ब्वाक्पूर्णे दत्त्वोदकं शुचिः
अनेनैवा नुसारेण शुद्धिः स्यात्सार्ववर्णिकी ॥ २.३४.६६ ॥
एकादशाहप्रभृति पुरतः प्रतिवत्सरम्
विश्वेदेवांस्तु सम्पूज्य पिण्डमेकञ्च निर्वपेत् ॥ २.३४.६७ ॥
यथा तारागणाः सर्वे च्छाद्यन्ते रविरश्मिभिः
एवं प्रच्छाद्यते सर्वं न प्रेतो भवति क्वचित् ॥ २.३४.६८ ॥
शय्यादानं प्रशंसन्ति सर्वदैव द्विजोत्तमाः
अनित्यं जीवनं य्समात्पश्चात्को नु प्रदास्यति ॥ २.३४.६९ ॥
तावद्वन्धुः पिता तावद्यावज्जीवति मानवः
मृते मृत इति ज्ञात्वा क्षणात्स्नेहो निवर्तते ॥ २.३४.७० ॥
आत्मैव ह्यात्मनो बन्धुरेवं ज्ञात्वा मुहुर्मुहुः
जीवन्नपीति सञ्चिन्त्य स्वीयं हितमनुस्तमरेत् ॥ २.३४.७१ ॥
मृतानां कः सुतो दद्याद्द्विजेशय्यां सतूलिकाम्
एवं जानन्निदं सर्वं स्वहस्तेनैव दापयेत् ॥ २.३४.७२ ॥
तस्माच्छय्यां समासाद्य सारदारुमर्यो दृढाम्
दन्तादिरुचिरां रम्यां हेमपट्टै रलङ्कृताम्
तस्यां संस्थाप्य हैमञ्च हरिं लक्ष्म्या समन्वितम् ॥ २.३४.७३ ॥
घृतपूर्णञ्च कलशं परिकल्पयेत्
विज्ञेयो गरुड प्रीत्यै स निद्राकलशो बुधैः ॥ २.३४.७४ ॥
ताम्बूलकुङ्कुमक्षोदकर्पूरागुरुचन्दनम्
दीपिकोपानहच्छत्रचामरासनभाजनम् ॥ २.३४.७५ ॥
पार्श्वेषु स्थापयेच्छक्त्या सप्तधान्यानि चैवहि
शयनस्थस्य भवति यच्चान्यदुपकारकम् ॥ २.३४.७६ ॥
भृङ्गारकरकादर्शं पञ्चवर्णं वितानकम्
शय्यामेवंविधां कृत्वा ब्राह्मणाय निवेदयेत् ॥ २.३४.७७ ॥
सपत्नीकाय सम्पूज्य स्वर्लोकसुखदायिनीम्
वस्त्रैः सुशोभनैः पूज्य चैलकं परिधापयेत् ॥ २.३४.७८ ॥
कर्णकण्ठाङ्गुलीबाहुभूषणैश्चित्रभूषणैः
गृहोपकरणैर्युक्तं गृहं धेन्वा समन्वितम् ॥ २.३४.७९ ॥
ततोर्ऽघः सम्प्रदातव्यः पञ्चरत्नफलाक्षतैः ॥ २.३४.८० ॥
यथा न कृष्णशयनं शून्यं सागरकन्यया
शय्या ममाप्यशून्यास्तु तथा जन्मनिजन्मनि ॥ २.३४.८१ ॥
दत्त्वैवं तल्पममलं क्षमाप्य च विसर्जयेत्
तथा चैकादशाहे तु विधिरेष प्रकीर्तितः ॥ २.३४.८२ ॥
ददाति यो हि धर्मार्थे बान्धवो बान्धवे मृते
विशेषमत्र पक्षे तु कथ्यमानं मया शृणु ॥ २.३४.८३ ॥
उपयुक्तञ्च तस्यासीत्यत्किञ्चित्स्वगृहे पुरा
तस्य यद्गात्रसं लग्नं वस्त्रं भाजनवाहनम्
यदभीष्टञ्च तस्यासीत्तत्सर्वं परिकल्पयेत् ॥ २.३४.८४ ॥
स्थापयेत्पुरुषं हैमं शय्योपरि शुभं बुधः
पूजयित्वा प्रदातव्या मृतशय्या यथोदिता ॥ २.३४.८५ ॥
पुरन्दरगृहे सर्वं सूर्यपुत्रालये तथा
उपतिष्ठेत्सुखं जन्तोः शय्यादानप्रभावतः ॥ २.३४.८६ ॥
पीडयन्ति न तं याम्याः पुरुषा भीषणाननाः
न घर्मेण न शीतेन बाध्यते स नरः क्वचित् ॥ २.३४.८७ ॥
शय्यादानप्रभावेण प्रेतो मुच्यते बन्धनात्
अपिः पापसमायुक्तः स्वर्गलोकं स गच्छति ॥ २.३४.८८ ॥
विमानवरमारूढः सेव्यमानोऽप्सरोगणैः
आभूतसंप्लवं यावत्तिष्ठेत्पातकवर्जितः ॥ २.३४.८९ ॥
नवकं षोडशश्राद्धं शय्या सांवत्सरं तथा
भर्तुर्या कुरुते नारी तस्याः श्रेयो ह्यनन्तकम् ॥ २.३४.९० ॥
उपकाराय सा भर्तुर्जीवन्ती न मृता तथा
उद्धरेज्जीवमाना सा सती सत्यवती प्रियम् ॥ २.३४.९१ ॥
स्त्रिया दध्यन्नशयने हेमकुङ्कुममञ्जनम्
वस्त्रभूषा तथा शय्या सर्वमेतद्धि दापयेत् ॥ २.३४.९२ ॥
उपकारकरं स्त्रीणां यद्भवोदिह किञ्चन
भूषणं गात्रलग्नञ्च वस्तु भोग्यादिकञ्च यत् ॥ २.३४.९३ ॥
तत्सर्वं मेलयित्वा तु स्वेस्वे स्थाने नियोजयेत्
पूजयेल्लोकपालांश्च ग्रहान् देवीं विनायकम् ॥ २.३४.९४ ॥
ततः शुक्लाम्बरधरो गृहीतकुसुमाञ्जलिः
इममुच्चारयेन्मन्त्रं विप्रस्य पुरतो बुधः ॥ २.३४.९५ ॥
प्रेतस्य प्रतिमा ह्येषा सर्वोपकरणैर्युता
सर्वरत्नसमायुक्ता तव विप्रनिवेदिता ॥ २.३४.९६ ॥
आत्मा शम्भुः शिवा गौरी शक्रः सुरगणैः सह
तस्माच्छय्याप्रदानेन सैष आत्मा प्रसीदतु ॥ २.३४.९७ ॥
आचार्याय प्रदातव्या ब्राह्मणाय कुटुम्बिने
गृहीते ब्राह्मणस्तत्र कोऽदादिति च कीर्तयेत् ॥ २.३४.९८ ॥
ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत्
विधिनानेन वै पक्षिन् दानमेकस्य दापयेत् ॥ २.३४.९९ ॥
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः
विभक्तदक्षिणा ह्येते दातारं पातयन्ति हि ॥ २.३४.१०० ॥
एवं यो वितरेत्तार्क्ष्य शृणु तस्य च यत्फलम्
साग्रं वर्षशतं दिव्यं स्वर्गलोके महीयते ॥ २.३४.१०१ ॥
यत्पुण्यन्तु व्यतीपाते कार्तिक्यामयनद्वये
द्वारकायान्तु यत्पुण्यं चन्द्रसूर्यग्रहे तथा ॥ २.३४.१०२ ॥
प्रयागे नैमिषे यच्च कुरुक्षेत्रे तर्थाबुदे
गङ्गायां यमुनायाञ्च सिन्धुसागरसंगमे ॥ २.३४.१०३ ॥
तेषु यद्दीयते दानं तस्मादप्यधिकन्त्विदम्
एतच्छय्याप्रदानस्य नाप्नोति षोडशीं कलाम् ॥ २.३४.१०४ ॥
यत्रासौ जायते प्राणी भुङ्क्ते तत्रैव तत्फलम्
कर्मक्षये क्षितौ याति मानुषः शुभदर्शनः ॥ २.३४.१०५ ॥
महाधनी च धर्मज्ञः सर्वशास्त्रविशारदः
पुनः स याति वैकुण्ठं मृतोऽसौ नरपुङ्गवः ॥ २.३४.१०६ ॥
दिव्यं विमानमारुह्य अप्सरोभिः समावृतः
अहोऽसौ हव्यकव्येषु पितृभिः सह मोदते ॥ २.३४.१०७ ॥
अष्टकासु कृतं श्राद्धममावास्यादिने तथा
मघासु पितृपर्वाणि यानियानि च तेषु च ॥ २.३४.१०८ ॥
शृणु तार्क्ष्य यथान्यायं प्रेतत्वे पितरो यदि
नोपतिष्ठन्ति श्राद्धानि सपिण्डीकरणं विना ॥ २.३४.१०९ ॥
सपिण्डीकरणं कार्यं पूर्णे वर्षे न संशयः
आद्यन्तु शवशुद्ध्यर्थं कृत्वा चैवाक्ष षोडशीम् ॥ २.३४.११० ॥
पितृपाङ्क्तिविशुर्ध्यं शतार्धेन? तु योजयेत्
वृद्धिं प्राप्याग्रतः कुर्याच्छूद्रस्य स्वच्छयैव हि ॥ २.३४.१११ ॥
साम्प्रतं साग्निके कार्यं द्वादशाहे सपिण्डनम्
न चासौ कुरुते यावत्प्रेत एव स वह्निमान्
द्वादशाहे ततः कार्यं साग्निकेन सपिण्डनम् ॥ २.३४.११२ ॥
अस्थिपोक्षे गयाश्राद्धं श्राद्धञ्चापरपक्षिकम्
अब्दमध्ये न कुर्वीत सपिण्डीकरणं विना ॥ २.३४.११३ ॥
सपत्न्यो यदि बह्व्यः स्युरेका पुत्रवती भवेत्
सर्वास्ताः पुत्रवत्यः स्युस्तेनैकेनात्मजेन हि ॥ २.३४.११४ ॥
नासपिण्डोग्निमान् पुत्रः पितृयज्ञं समाचरेत्
समाचाराद्भवेत्पापी पितृहा चापि जायते ॥ २.३४.११५ ॥
मृते भर्तरि या नारी प्राणांश्चैव परित्यजेत्
भर्त्रैव हि समं तस्याः प्रकुर्वीत सपिण्डनम् ॥ २.३४.११६ ॥
अस्थानिकापि या व्यूढा वैश्या वा क्षत्त्रियापि वा
याः पत्न्यो वै पितुः कश्चित्कुर्यात्पुत्रः सपिण्डनम् ॥ २.३४.११७ ॥
विप्रेणैव यदा शूद्रा परिणीता प्रमादतः
एकोद्दिष्टन्तु तच्छ्राद्ध सा तु तेनैव युज्यते ॥ २.३४.११८ ॥
अन्ये तु दश ये पुत्रा जाता वर्ण चतुष्टये
ते तासुतासु योक्त्वयाः सपिण्डीकरणे सदा ॥ २.३४.११९ ॥
अन्वष्टकासु यच्छ्राद्ध यच्छ्राद्धं वृद्धिहेतुकम्
पितुः पृथक्प्रदाव्यं स्त्रियाः पिण्डं सपिण्डने ॥ २.३४.१२० ॥
पितामह्या समं मातुः पितुः सहपितामहैः
सपिण्डीकरणं कार्यमिति तार्क्ष्य मतं मम ॥ २.३४.१२१ ॥
अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डनम्
मात्रादितिसृभिः सार्धमेवं धर्मेण योजयेत् ॥ २.३४.१२२ ॥
पुत्रो नास्ति न भर्ता च स्त्रीणां तार्क्ष्य सपिण्डनम्
कारयेद्वृद्धिसमये भ्रातृदायाददेवरैः ॥ २.३४.१२३ ॥
पतिपुत्रविहीनानां गोत्री नास्ति न देवरः
एकोद्दिष्टेन दातव्यं परेण सह भ्रातृभिः ॥ २.३४.१२४ ॥
अज्ञानाद्विघ्नतो वापि न कृतञ्चेत्सपिण्डनम्
नवकं षोडशश्राद्धमाब्दिकं कारयेत्ततः ॥ २.३४.१२५ ॥
अदाहे न च कर्तव्यं सदाहे कारयेद्बुधः
दर्भपुत्तलकं कृत्वा वह्निना दाहयेच्छवम् ॥ २.३४.१२६ ॥
पितुः पुत्रेण कर्तव्यं न कुर्ब्वीत पिता सुते
अतिस्नेहान्न कर्तव्यं सपिण्डीकरणं सते ॥ २.३४.१२७ ॥
बहवोऽपि यदा पुत्रा विधिमेकः समाचरेत्
नवश्राद्धं सपिण्डत्वं श्राद्धान्यन्यानि षोडश ॥ २.३४.१२८ ॥
एकेनैव तु कार्यांणि अविभक्तधनेष्वपि
अन्त्येष्टिं कुरुते ह्येको मुनिभैः समुदाहृतम् ॥ २.३४.१२९ ॥
विभक्तैश्च पृथक्कार्या क्रिया सांवत्सरादिका
एकैकेन च कर्तव्या पुत्रेण च स्वयंस्वयम् ॥ २.३४.१३० ॥
यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडश
पिशाचत्वंस्थिरं तस्य कृतैः श्राद्धशतैरपि ॥ २.३४.१३१ ॥
भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा
सपिण्डीकरणं कुर्यात्पुत्रहीने खगेश्वर ॥ २.३४.१३२ ॥
सर्वेषां पुत्रहीनानां पत्री कुर्यात्सपिण्डनम्
ऋत्विजं करायेद्वाथ पुरोहितमथापि वा ॥ २.३४.१३३ ॥
मृते पितर्यब्दमध्ये ह्युपरागो यदा भवेत्
पार्वणं न सुतैः कार्यं श्राद्धं नान्दीमुखं न च ॥ २.३४.१३४ ॥
तीर्थश्राद्धं गयाश्राद्धं श्राद्धमन्यच्च पैतृकम्
अब्दमध्ये न कुर्वीत महागुरुविपत्तिषु ॥ २.३४.१३५ ॥
यमके च गजच्छायामन्वादिषु युगादिषु
पितृपिण्डो न दातव्यः सपिण्डीकरणं विना ॥ २.३४.१३६ ॥
यज्ञपुरुषस्य यद्दानं देवादीनाञ्च यत्तथा
अपूर्णेऽप्यब्दमध्येपि कर्तव्यमिति के च न ॥ २.३४.१३७ ॥
पितृभ्योपि हि यद्दत्तमर्घपिण्डविवर्जितम्
कर्तव्यं तच्च वै सर्वमेष एव विधिः स्मृतः ॥ २.३४.१३८ ॥
देवानां पितरो देवा पितॄणामृषयस्तथा
ऋषीणां पितरो देवाः पिता जयति तेन वै ॥ २.३४.१३९ ॥
पितृदेवमनुष्याणां यज्ञनथो विभुर्भवेत्
यज्ञनाथस्य यद्दत्तं तद्दत्तं सर्वदेहिनाम् ॥ २.३४.१४० ॥
मृते पितर्यब्दमध्ये यः श्राद्धं कारयेत्सुतः
सप्तजन्मकृता धर्माथीयते नात्र संशयः ॥ २.३४.१४१ ॥
प्रेतीभूतास्तु पितरो लुप्तपिण्डोदकक्रियाः
भ्रमन्ति वायुना सर्वे क्षुत्तृड्भ्यां परिपीडिताः ॥ २.३४.१४२ ॥
पितरि प्रेततापन्ने लुप्यते पैतृकी क्रिया
अथ मातुर्विपत्तिः स्यात्पितृकार्यं न लुप्यते ॥ २.३४.१४३ ॥
मृता माता पिता तिष्ठेज्जीवन्ती च पितामही
सपिण्डनन्तु कर्तव्यं पितामह्या सहैव तु ॥ २.३४.१४४ ॥
सत्यंसत्यं पुनः सत्यं श्रूयतां वचनं मम
न पिण्डो मिलितो येषां मृतानान्तु नृणां भुवि ॥ २.३४.१४५ ॥
उपतिष्ठेन्न वे तेषां पुत्रैर्दत्तमनेकधा
हन्तकारस्तदुद्देशे श्राद्धं नैव जलाञ्जलिः ॥ २.३४.१४६ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे और्ध्वदेहिकादिनिरूपणं नाम चतुस्त्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३५
तर्क्ष्य उवाच
अपरं मम सन्देहं कथयस्व जनार्दन
पुरुषस्य च कस्यापि मता पञ्चत्वमागता ॥ २.३५.१ ॥
पितामही जीवति च तथा च प्रपितामही
वृद्धप्रपितामही तद्वन्मातृसक्तः पिता तथा ॥ २.३५.२ ॥
प्रमातामहश्च तथा वृद्धप्रमातामहस्तथा
केन सा मेल्यते माता एतत्कथय मे प्रभो ॥ २.३५.३ ॥
श्रीकृष्ण उवाच
पुनरुक्तं प्रवक्ष्यामि सपिण्डीकरणं खग
उमा लक्ष्मीश्च सावित्रीत्यताभिर्मेलयेद्ध्रुवम् ॥ २.३५.४ ॥
त्रयः पिण्डभुजो ज्ञेयास्त्यजाकाश्च त्रयः स्मृताः
त्रयः पिण्डानुलेपाश्च दशमः पङ्क्तिसंन्निधः ॥ २.३५.५ ॥
इत्येते पुरुषाः ख्याताः पितृमातृकुलेषु च
तारयेद्यजमानस्तु दश पूर्वान् दशावरान् ॥ २.३५.६ ॥
सपिण्डः स भवेदादौ सपिण्डीकरणे कृते
अन्त्यस्तु त्याजको ज्ञेयो यो वृद्धप्रपितामहः ॥ २.३५.७ ॥
अन्तिमस्त्याजको ज्ञेयो लेपकः प्रथमो भवेत्
लेपकस्त्वन्तिमो यस्तु स भवेत्पङ्क्तिसन्निधः ॥ २.३५.८ ॥
यजमानो भवेदेको दश पृर्त्वे दशावरे
इत्येते पितरो ज्ञेया एकविंशति संख्यकाः ॥ २.३५.९ ॥
विधिना कुरुते यस्तु संसारे श्राद्धमुत्तमम्
जायतेऽत्र न सन्देहः शृणु तस्यापि यत्फलम् ॥ २.३५.१० ॥
पिता ददाति पुत्त्रान् वै विच्छिन्नसन्ततिः खग
होमदाता भवेत्सोपि यस्तस्य प्रपितामहः ॥ २.३५.११ ॥
कृते श्राद्धे गुणा ह्येते पितॄणां तपेणे स्मृताः
दद्याद्विपुलमन्नाद्यं वृद्धस्तु प्रपितामहः ॥ २.३५.१२ ॥
यस्य पुंसश्च मर्त्ये वै विच्छिन्ना सन्ततिः खग
स वसेन्नरके घोरे पङ्के मग्नः करी यथा ॥ २.३५.१३ ॥
योन्यन्तरेषु जायते यत्र वृक्षसरीसृपाः
न सन्ततिं विना सोऽत्र मुच्यते नरकाद्ध्रुवम् ॥ २.३५.१४ ॥
आचार्यस्तस्य शिष्यो वा यो दूरेऽपि हि गात्रेजः
नारायणबलिं कुर्यात्तस्याद्देशेन भक्तितः ॥ २.३५.१५ ॥
विशुद्धः सर्वपापेभ्यो मुक्तः स नरकाद्ध्रुवम्
निवसेन्नाकलोके च नात्र कार्या विचारणा ॥ २.३५.१६ ॥
आदौ कृत्वा धनिष्ठाञ्च एतन्नक्षत्रपञ्चकम्
रेवत्यन्तं सदा दूष्यमशुभं सर्वदा भवेत् ॥ २.३५.१७ ॥
दाह (बलि) स्तत्र न कर्तव्यो विप्रदिसर्वजातिषु
दीयते न जलं तत्र अशुभं जायते ध्रुवम्
लोकयात्रा न कर्तव्या दुः खार्तः स्वजनो यदि ॥ २.३५.१८ ॥
पञ्चकानन्तरं तस्य कर्तव्यं सर्वमन्यथा
पुत्राणां गोत्रिणां तस्य सन्तापोऽप्युपजायते ॥ २.३५.१९ ॥
गृहे हानिर्भवेत्तस्य ऋक्षेष्वेषु मृतश्च यः
अथवा ऋक्षमध्येऽपि दाहस्तस्य विधीयते ॥ २.३५.२० ॥
क्रियते मानुषाणान्तु सद्य आहुतिकारणात्
सद्याहुतिकरं पुण्यं तीर्थे तद्दाह उत्तमः ॥ २.३५.२१ ॥
विप्रैर्नियमतः कार्यः समन्त्रो विधिपूर्वकः
शवस्य च समीपे तु क्षिप्यन्ते पुत्तलास्ततः ॥ २.३५.२२ ॥
दर्भमयाश्च चत्वारो विप्रा मन्त्राभिमन्त्रिताः
ततो दाहः प्रकर्तव्यः तैश्च पुत्तलकैः सह ॥ २.३५.२३ ॥
सूतकान्ते ततः पुत्रः कुर्याच्छान्तिकमुत्तमम् ॥ २.३५.२४ ॥
पञ्चकेषु मृतो योऽसौ न गतिं लभते नरः
तिलान् गाश्च सुवर्णं च तमुद्दिश्य घृतं ददेत् ॥ २.३५.२५ ॥
विप्राणां दीयते दानं सर्वोपद्रवनाशनम्
सूतकान्ते च सत्पुत्रैः स प्रेतो लभते गतिम् ॥ २.३५.२६ ॥
भाजनोपानहौ च्छत्रं हेममुद्राच वाससी
दक्षिणा दीयते विप्र सर्वपातकमोचनी ॥ २.३५.२७ ॥
बालवृद्धातुराणाञ्च मृतानां पञ्चकेषु हि
विधानं यो न कुर्वीत विघ्नस्तस्य प्रजायते ॥ २.३५.२८ ॥
अष्टादशैव वस्तूनि प्रेतश्राद्धे विवर्जयेत्
आशिषो द्विगुणान् दर्भान् प्रणवान्नैकपिण्डताम् ॥ २.३५.२९ ॥
अग्नौकरणमुच्छिष्टं श्राद्धं वै वैश्वदैविकम्
विकिरं च स्वधाकारं पितृशब्दं न चोच्चरेत् ॥ २.३५.३० ॥
अनुशब्दं न कुर्वीत नावाहनमथोल्मुकम्
आसीमान्तं न कुर्वीत प्रदक्षिणविसर्जनम् ॥ २.३५.३१ ॥
न कुर्यात्तिलहोमञ्च द्विजः पूर्णाहुतिं तथा
न कुर्याद्वैश्वदेवं चेत्कर्ता गच्छत्यधोगतिम् ॥ २.३५.३२ ॥
मलिनश्राद्धसंज्ञानं पूर्वषोडशकं तथा
स्थाने द्वारे चार्धमार्गे चितायां शवहस्तके ॥ २.३५.३३ ॥
श्मशानवासिभूतेभ्यः पञ्चमं प्रतिवेश्यकम्
षष्ठं सञ्चयने प्रोक्तं दश पिण्डा दशाहिकाः
श्राद्धषोडषकञ्चैतत्प्रथमं परिकीर्तितम् ॥ २.३५.३४ ॥
अन्यच्च षोडशं मध्ये द्वितीयं तार्क्ष्य मे शृणु
कर्तव्यानीह विधिना श्राद्धान्येकादशैव तु ॥ २.३५.३५ ॥
ब्रह्मविष्णुशिवाद्यञ्च तथान्यच्छ्राद्धपञ्चकम्
एवं षोडशकं प्राहुरेतत्तत्त्वविदो जनाः ॥ २.३५.३६ ॥
द्वादश प्रतिमास्यानि श्राद्धमेकादशे तथा
त्रिपक्षसम्भवञ्चैव द्वे रिक्ते खग षोडश ॥ २.३५.३७ ॥
आद्यं शवविशुद्ध्यर्थं कृत्वान्यच्च त्रिषोडशम्
पितृपाङ्क्तिविशुद्ध्यर्थं शताद्धैंन तु योजयेत् ॥ २.३५.३८ ॥
शतार्धेन विहीनो यो मिलितः पङ्क्तिभाङ्न हि
चत्वारिंशत्तथैवाष्टश्राद्धं प्रेतत्वनाशनम् ॥ २.३५.३९ ॥
सकृदूनशतार्धेन सम्भवेत्पङ्क्तिसन्निधः
मेलनीयः शतार्धेन सन्धिः श्राद्धेन तत्त्वतः ॥ २.३५.४० ॥
(अथ शवाविधिः)
शवस्य शिबिकायां करचरणबन्धनं तत्र कर्तव्यम्
एवं चेन्न विधानं विधीयते तत्पिशाचपरिभवनम् ॥ २.३५.४१ ॥
संजायते रजन्याञ्च शवनिर्गमने राष्ट्रं भयशून्यम्
शवं न मुञ्चेत मुच्यते चेत्दुः स्पर्शाद्दुर्गतिर्भवेत् ॥ २.३५.४२ ॥
ग्राममध्ये स्थिते प्रेते श्रुते भुङ्क्ते यदृच्छया
तदन्नं मांसवज्ज्ञेयं तत्तोयं रुधिरोपमम् ॥ २.३५.४३ ॥
ताम्बूलं दन्तकाष्ठञ्च भोजनं ऋतुसेवनम्
ग्राममध्ये स्थिते प्रेते वर्जयेत्पिण्डपातनम् ॥ २.३५.४२ ॥ (३५.४४)
स्नानं दानं जपो होमस्तर्पणं सुरपूजनम्
ग्राममध्ये स्थिते प्रेते शुद्ध्यर्थं ज्ञातिधर्मतः ॥ २.३५.४३ ॥ (३५.४५)
ज्ञातिसम्बन्धिनामेवं व्यवहारः खगेश्वर
विलुप्य ज्ञातिधर्मञ्च प्रेतपापेन लिप्यते ॥ २.३५.४४ ॥ (३५.४६)
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे सपिण्डनशवविध्योर्निरूपणं नाम पञ्चत्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३६
तार्क्ष्यौवाच
कस्मादनशनं पुण्यमक्षय्यगतिदायकम्
स्वगृहन्तु परित्यज्य तीर्थे वै म्रियते यदि ॥ २.३६.१ ॥
अप्राप्य तीर्थं म्रियते गृहे वा मृत्यु मागतः
बूत्वा कुटीचरो यस्तु स कां गतिमवाप्नुयात् ॥ २.३६.२ ॥
संन्यासं कुरुते यस्तु तीर्थे वापि गृहेऽपि वा
कथं तस्य प्रकर्तव्यमप्राप्तनिधनेऽपि वा ॥ २.३६.३ ॥
नियमे चेत्कृते देव चित्तभङ्गो हि जायते
केन तस्य भवेत्सिद्धिः कृतेनाप्यकृतेन वा ॥ २.३६.४ ॥
श्रीकृष्ण उवाच
कृत्वा निरशनं यो वै मृत्युमाप्नोति कोऽपि चेत्
मानुपीं तनुमुत्सृज्य मम तुल्यो विराजते ॥ २.३६.५ ॥
यावन्त्यहानि जीवेत्व्रते निरशने कृते
क्रतुभिस्तानि तुल्यानि समग्रवदक्षिणैः ॥ २.३६.६ ॥
तीर्थे गृहे वा संन्यासं नीत्वा चेन्म्रियते यदि
प्रत्यहं लभते सोऽपि पूर्वोक्तं द्विगुणं फलम् ॥ २.३६.७ ॥
महारोगोपपत्तौ च गृहीतेऽनशने कृते
पुनर्न जायते रोगो देववद्धि विराजते ॥ २.३६.८ ॥
य आतुरः सन् सन्न्यासं गृह्णाति यदि मानवः
पुनर्न जायते भूमौ संसारे दुः खसागरे ॥ २.३६.९ ॥
अहन्यहनि दातव्यं ब्राह्मणानाञ्च भोजनम्
तिलपात्रं यथाशक्ति दीपदानं सुरार्चनम् ॥ २.३६.१० ॥
एवं वृत्तस्य दह्यन्ते पापान्युच्चावचानि च
मृतो मुक्तिमवाप्नोति यथा सर्वे महर्षयः ॥ २.३६.११ ॥
तस्मादनशनं नॄणां वैकुण्ठपददायकम्
तस्मात्स्वस्थे चोत्तरे वा साधयेन्मोक्षलक्षणम् ॥ २.३६.१२ ॥
पुत्त्रद्रव्यादि सन्त्यज्य तीर्थं व्रजति यो नरः
ब्रह्माद्या देवतास्तस्य भवेयुस्तुष्टिपुष्टिदाः ॥ २.३६.१३ ॥
यस्तीर्थसंमुखो भूत्वा व्रते ह्यनशने कृते
चेन्म्रियेतान्तरालेऽपि ऋषीणां मण्डले वसेत् ॥ २.३६.१४ ॥
व्रतं निरशन कृत्वा स्वगृहेऽपि मृतो यदि
स्वकुलानि परित्यज्य एकाकी विचरेद्दिवि ॥ २.३६.१५ ॥
अन्नञ्चैव तथा तोयं परित्यज्य नरो यदि
पीतमत्पादतोयश्च न पुनर्जायते क्षितौ ॥ २.३६.१६ ॥
कृत्त्यासीनन्तत्तीर्थगतं रक्षन्ति वनदेवताः
यमदूता विशेषेण न याम्यास्तस्य पार्श्वगाः ॥ २.३६.१७ ॥
तीर्थसेवी नरो यस्तु सर्वकिल्बिषवर्जितः
तत्र म्रियते दह्येत तत्तीर्थफलभाग्भवेत् ॥ २.३६.१८ ॥
सेवितेऽपि सदा तथि ह्यन्यत्र म्रियते यदि
शुभे देशे कुले धीमान् स भवेद्वेदविद्द्विजः ॥ २.३६.१९ ॥
कृत्वा निरशनं तार्क्ष्य पुनर्जीवति मानवः
ब्राह्मणान् स समाहूय सर्वस्वं यत्परित्यजेत् ॥ २.३६.२० ॥
चान्द्रायणं चरेत्कृत्स्नमनुज्ञातश्च तैर्द्विजैः
अनृतं न वदेत्पश्चाद्धर्ममेव समाचरेत् ॥ २.३६.२१ ॥
तीर्थे गत्वा च यः कोऽपि पुनरायाति वै गृहम्
अनुज्ञातः स वै विप्रैः प्रायश्चित्तमथाचरेत् ॥ २.३६.२२ ॥
दत्त्वा वा स्वर्णदानानि गोमहीगजवाजिनः
तीर्थं यदि लभेद्यस्तु मृत्युकाले स भाग्यवान् ॥ २.३६.२३ ॥
गृहात्प्रचलितस्तीर्थं मरणे समुपस्थिते
पदेपदे तु गोदानं यदि हिंसा न जायते ॥ २.३६.२४ ॥
गृहे तु यत्कृतं पापं तीर्थस्नानेन शुध्यति
कुरुते तत्र पापञ्चेद्वज्रलेपसमं हि तत् ॥ २.३६.२५ ॥
क्लिश्येत्स नात्र सन्देहो यावच्चन्द्रार्कतारकम्
तत्र दत्तानि दानानि जायन्ते चाक्षयाणि वै ॥ २.३६.२६ ॥
आतुरे सति दातव्यं निर्धनैरपि मानवैः
गावस्तिला हिरण्यञ्च सप्तधान्यं विशेषतः ॥ २.३६.२७ ॥
दानवन्तं नरं दृष्ट्वा हृष्टाः सर्वे दिवौकसः
ऋषिभिः सह धर्मण चित्रगुप्तेन सर्वदा ॥ २.३६.२८ ॥
आत्मायत्तं धनं यावत्तावद्विप्रे समर्पयेत्
पराधीनं मृते सर्वं कृपया कः प्रदास्यति ॥ २.३६.२९ ॥
पित्रुद्देशेन यः पुत्त्रैर्धनं विप्रकरेऽर्पितम्
आत्मानं सधनं तेन चक्रे पुत्रप्रपौत्रकैः ॥ २.३६.३० ॥
पितुः शतगुणं दत्तं सहस्रं मातुरुच्यते
भगिन्या शतसाहस्रं सोदर्ये दत्तमक्षयम् ॥ २.३६.३१ ॥
यदि लोभान्न यच्छन्ति प्रमादान्मोहतोऽपि वा
मृताः शोचन्ति ते सर्वे कदर्याः पापिनस्त्विति ॥ २.३६.३२ ॥
अतिक्लेशेन लब्धस्य प्रकृत्या चञ्चलस्य च
गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥ २.३६.३३ ॥
मृत्युः शरीगोप्तारं वसुरक्षं वसुन्धरा
दुश्चारिणीव हसति स्वपतिं पुत्रवत्सलम् ॥ २.३६.३४ ॥
उदासे धार्मिकः सौम्यः प्राप्यापि विपुलं धनम्
तृणवन्मन्यते तार्क्ष्य आत्मानं वित्तमप्यथ ॥ २.३६.३५ ॥
न चैवोपद्रवास्तस्य मोहजालो न चैव हि
मृत्युकाले न च भयं यमदूतसमुद्भवम् ॥ २.३६.३६ ॥
समाः सहस्राणि च सप्त वै जले दशैकमग्नौ पवने च षोडश
महाहवे पष्टिरशीतिर्गोगृहे अनाशके काश्यप चाक्षया गतिः ॥ २.३६.३७ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादेऽनशनमृत गतिनिरूपणं नाम षट्त्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३७
तार्क्ष्य उवाच
उदकुम्भप्रदानं मे कथयस्व यथातथम्
विधिना केन कर्तव्या कृतिरेषा जनार्दन ॥ २.३७.१ ॥
किंलक्षणाः केन पूर्णाः कस्य देया जनार्दन
कस्मिन् काले प्रदातव्या प्रेततृप्तिप्रसाधकाः ॥ २.३७.२ ॥
श्रीकृष्ण उवाच
सत्यं पुनः प्रवक्ष्यामि उदकुम्भप्रदानकम्
प्रेतोद्देशेन दातव्या अन्नपानीयसंयुताः
विशेषेण महापक्षिन् प्रेतमुक्तिप्रदायकाः ॥ २.३७.३ ॥
द्वादशाहे च पण्मासे त्रैपक्षे वापि वत्सरे
उदकुम्भाः प्रदातव्या मार्गे तस्य सुखाय वै ॥ २.३७.४ ॥
अहन्यहनि दातव्या उदकुम्भास्तिलैर्युताः
सुलिप्ते भूमिभागे तु पक्कान्नजलपूरिताः ॥ २.३७.५ ॥
प्रेतस्य तत्र दातव्यं भाजनञ्च यदृच्छया
सुप्रीतस्तेन दत्तेन प्रेतो याम्यैः स गच्छति ॥ २.३७.६ ॥
द्वादशाहे विशेषेण उदकम्भान् प्रदापयेत्
विधिना तत्र सङ्कल्पय घटान् द्वादशसंख्यकान् ॥ २.३७.७ ॥
एकाषि बर्धनी तत्र पक्वान्नफलपूरिता
विष्णुमुद्दिश्य दातव्या संकल्प्य ब्राह्मणे शुभे ॥ २.३७.८ ॥
एको वै धर्मराजाय तेन तुष्टेन मुक्तिभाक्
चित्रगुप्ताय चैकं तु गतस्तत्र सुखी भवेत् ॥ २.३७.९ ॥
षोडशाद्याः प्रदातव्या माषान्नजलपूरिताः ॥ २.३७.१० ॥
उक्त्रान्तिश्राद्धमारभ्य श्राद्धषोडषोडशकस्य तु
षोडशब्राह्मणानान्तु एकैकं विनिवदयेत् ॥ २.३७.११ ॥
एकादशाहात्प्रभृति देयो नित्यं दृढाह्वयः
पक्वान्नजलपूर्णो हि यावत्संवत्सरं दिनम् ॥ २.३७.१२ ॥
जलपात्राणि वृद्धानि दत्तानिघटकानि च
एका वै वर्धनी तत्र तस्यां पात्रन्तु वंशजम् ॥ २.३७.१३ ॥
वस्त्रेणाच्छादयेत्तान्तु पूजयित्वा सुगन्धिभिः
ब्राह्मणेभ्यो विशेषेण जलपूर्णानि दापयेत् ॥ २.३७.१४ ॥
अहन्यहनि सङ्कल्प्य विधिपूर्वं खगेश्वर
ब्राह्मणाय कुलीनाय वेदवृत्तयुताय च ॥ २.३७.१५ ॥
विद्यावृत्तवते देयं मूर्खे तन्न कदाचन
समर्थो वेदवृत्ताढ्यस्तारणे तरणेऽपि च ॥ २.३७.१६ ॥
इति श्रीगारुडे महापुराणे द्वितीयांशे प्रेतकल्पे धर्मकाण्डे सोदकुम्भश्राद्धनिरूपणं नाम सप्तत्रिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३८
तार्क्ष्य उवाच
दानतीर्थार्थितं मोक्षं स्वर्गञ्च वद मे प्रभो
केन मोक्षमवाप्नोति केन स्वर्गे वसेच्चिरम् ॥ २.३८.१ ॥
केन गच्छति तेजस्तु स्वर्लोकात्सत्यलोकतः
मानुष्यं केन लभते नरकेशु निमज्जति ॥ २.३८.२ ॥
एतन्मे वदनिश्चित्य भक्तानां मोक्षदायक
ब्रूहि कस्मिन्मृते स्वर्गे पुनर्जन्म न विद्यते ॥ २.३८.३ ॥
श्रीविष्णुरुवाच [VISHNU SAID]
मानुष्यं भारते वर्षे त्रयोदशसु जातिषु ॥ २.३८.४ ॥
तत्प्राप्य म्रियते क्षेत्रे पुनर्जन्म न विद्यते
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ॥ २.३८.५ ॥
पुरी द्वारवती ज्ञेया सप्तैता मोक्षदायिकाः
सन्न्यस्तमिति यो ब्रुयात्प्राणैः कण्ठगतैरपि ॥ २.३८.६ ॥
मृतो विष्णुपुरं याति न पुनर्जायते क्षितौ
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥ २.३८.७ ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति
कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः ॥ २.३८.८ ॥
जल भित्त्वा यथा पद्मं नरकादुद्धराम्यहम्
शालग्रामजिला यत्र यत्र द्वारवती शिला ॥ २.३८.९ ॥
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः
शालग्रामशिला यत्र पापदोषक्षयावहा ॥ २.३८.१० ॥
तत्सन्निधानमरणान्मुक्तिर्जन्तोः सुनिश्चता
रोपणात्पालनात्सेकाद्ध्यानस्पर्शनकीर्तनात्
तुलसी दहते पापं नृणां जन्मार्जितं खग ॥ २.३८.११ ॥
ज्ञानहृदे सत्यजले रागद्वेषमलापहे
यः स्नातो मानसे तीर्थे न स लिप्येत पातकैः ॥ २.३८.१२ ॥
न काष्ठे विद्यते देवो न शिलायां कदाचन
भावे हि विद्यते देवस्तस्माद्भावं समाचरेत् ॥ २.३८.१३ ॥
प्रातः प्रातः प्रपश्यन्ति नर्मदां मत्स्यघातिनः
न ते शिवपुरीं यान्ति चित्तवृत्तिर्गरीयसी ॥ २.३८.१४ ॥
यादृक्चित्तप्रतीतिः स्यात्तादृक्कर्मफलं नृणाम्
परलोकगतिस्तादृक सूचीसूत्रविचारवत् ॥ २.३८.१५ ॥
ब्राह्मणार्थे गवार्थे च स्त्रीणां बलवधेषु च
प्राणत्यागपरो यस्तु स वै मोक्षमवाप्नुयात् ॥ २.३८.१६ ॥
अनाशके मृतौ यस्तु स वै मोक्षमवाप्नुयात्
अनाशके मृतो यस्तु स मुक्तः सर्वबन्धनैः ॥ २.३८.१७ ॥
दत्त्वा दानानि विप्रेभ्यस्ततो मोक्षमवाप्नुयात्
एते वै मोक्षमार्गाश्च स्वर्गमार्गास्तथैव च ॥ २.३८.१८ ॥
गोग्रहे देशविध्वंसे मरणं रणतीर्थयोः
उत्तमाधममध्यस्य बाध्यमानस्य देहिनः
आत्मानं तत्र सन्त्यज्य स्वर्गवासं लभेच्चिरम् ॥ २.३८.१९ ॥
जीवितं मरणञ्चैव द्वयं शिक्षेत पण्डितः
जीवितं दानभोगाभ्यां मरणं रणतीर्थयोः ॥ २.३८.२० ॥
हरिक्षेत्रे कुरुक्षेत्रे भृगुक्षेत्रे तथैव च
प्रभासे श्रीस्थले चैव अर्बुदे च त्रिपुष्करे ॥ २.३८.२१ ॥
भूतेश्वरे मृतो यस्तु स्वर्गे वसति मानवः
ब्रह्मणो दिवसं यावत्ततः पतति भूतले ॥ २.३८.२२ ॥
वर्षवृत्तिन्तु यो दद्याद्ब्राह्मणे दोषवर्जिते
सर्वं कलं स मुद्धृत्य स्वर्गलोके महीयते ॥ २.३८.२३ ॥
कन्यां विवाहयेद्यस्तु ब्राह्मणं वेदपारगम्
इन्द्रलोके वसेत्सोऽपि स्वकुलैः परिवेष्टितः ॥ २.३८.२४ ॥
महादानानि दत्वा च नरस्तत्फलमामुयात् ॥ २.३८.२५ ॥
वापी कूपतडागानामारामसुरसद्मनाम्
जीर्णोद्धारं प्रकुर्वाणः पूर्वकर्तुः फलं लभेत्
जीर्णोद्धारेण वा तेषां तत्पुण्यं द्विगुणं भवेत् ॥ २.३८.२६ ॥
शीतवा तातपहरमपि पर्णकुटीरकम्
कृत्वा विप्राय विदुषे प्रददाति कुटुम्बिने ॥ २.३८.२७ ॥
तिस्रः कोट्योर्धकोटी च नरः स्वर्गे महीयते ॥ २.३८.२८ ॥
या स्त्री सवर्णा संशुबा मृतं पतिमनुव्रजेत्
सा मृता स्वर्गमाप्नोति वर्षाणां रोमसंख्यता ॥ २.३८.२९ ॥
पुत्रपौत्रादिकं त्यक्त्वा स्वपतिं यानुगच्छति
स्वर्गं लभेतां तौ चोभौ दिव्यस्त्रीभिरलङ्कृतौ ॥ २.३८.३० ॥
कृत्वा पापान्यनेकानि भर्तृद्रोहमतिः सदा
प्रक्षालयति सर्वाणि या स्वं पतिमनुव्रजेत् ॥ २.३८.३१ ॥
महापापसमाचारो भर्ता चेद्दुष्कृती भवेत्
तस्याप्यनुव्रता नारी नारायेत्सर्वकिल्बिषम् ॥ २.३८.३२ ॥
ग्रासमात्रं नियमतो नित्यदानं करोति यः
चतुश्चामरसंयुक्तविमानेनाधिगच्छति ॥ २.३८.३३ ॥
यत्कृतं हि मनुष्येण पापमामरणान्तिकम्
तत्सर्वं नाशमायाति वर्षवृत्तिप्रदानतः ॥ २.३८.३४ ॥
भूतं भव्यं बविष्यञ्च पापं जन्मत्रयार्जितम्
पक्षालयति तत्सर्वं विप्रकन्योपनायनात् ॥ २.३८.३५ ॥
दशकूपसमा वापि दशवापीसमं सरः
सरो भिर्दशभिस्तुल्या या प्रपा निर्जले वने ॥ २.३८.३६ ॥
या वापी निर्जले देशे यद्दानं निर्धने द्विजे
प्राणिनां यो दयां धत्ते स भवेन्नाकनायकः ॥ २.३८.३७ ॥
एवमादिभिरन्यैश्च सुकृतैः स्वर्गभाग्भवेत्
स तत्सर्वं फलं प्राप्य प्रतिष्ठां परमां लभेत् ॥ २.३८.३८ ॥
फल्गु कार्यं परित्यज्य सततं धर्मवान् भवेत्
दानं दमो दया चेति सारमेतत्त्रयं भुवि ॥ २.३८.३९ ॥
दानं साधोर्दरिद्रस्य शून्यलिङ्गस्य पूजनम्
अनाथप्रेतसंस्कारः कोटियज्ञफलप्रदः ॥ २.३८.४० ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे उत्तमलोकगत्यागतिमोक्षमानुष्यहेतुनिरूपणं नामाष्टात्रिंशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३९
तार्क्ष्य उवाच
सूतकानां विधिं ब्रूहि दयां कृत्वा मयिप्रभो
विवेकाय हि चित्तस्य मानवानां हिताय च ॥ २.३९.१ ॥
श्रीकृष्ण उवाच
मृते जन्मनी पक्षीन्द्र सूतकं स्याच्चतुर्विधम्
चतुर्णामपि वर्णानां सामान्यते विवर्जितम् ॥ २.३९.२ ॥
उभयत्र दशाहानि कुलस्यान्नं विवर्जियेत्
दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥ २.३९.३ ॥
देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयाजनम्
उपपत्तिंव्मवस्थाञ्च ज्ञात्वां कर्म समाचरेत् ॥ २.३९.४ ॥
गुहावह्निप्रवेसे च देशान्तरमृतेषु च
स्नानं सचेलं कर्तव्यं सद्यः शौचं विधीयते ॥ २.३९.५ ॥
आमगर्भाश्च ये जीवा ये च गर्भाद्विनिः सृताः
न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥ २.३९.६ ॥
शिल्पिनः कारवो वैद्या दासीदासास्तथैव च
राजानः श्रोतियाश्चैव सद्यः शौचाः प्रकीर्तिताः ॥ २.३९.७ ॥
सत्री च (व्रती) मन्त्रपूतश्च आहिताग्निर्नृपस्तथा
एतेषां सूतकं नास्ति यस्य चेच्छन्ति पार्थिवाः ॥ २.३९.८ ॥
प्रसवे च सपिण्डानां न कुर्यात्सङ्करं द्विजः
दशाहाच्छ्रुध्यते माता अवगाह्य पिता शुचिः ॥ २.३९.९ ॥
विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके
पूर्वसङ्कल्पितं वित्तं भोज्यं तन्मनुरब्रवीत् ॥ २.३९.१० ॥
सर्वेषामेवमाशौचं मातापित्रोस्तु सूतकम्
सूकतं मातुरेवस्यादुपस्पृश्य पिता शुचिः ॥ २.३९.११ ॥
अन्तर्दशाहे स्याताञ्चेत्पुनर्मरणजन्मनी
तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥ २.३९.१२ ॥
उदिते नियमे दाने आर्ते विप्रे निवेदयेत्
तथैव ऋषिभिः प्रोक्तं यथाकालं न दुष्यति ॥ २.३९.१३ ॥
मृन्मयेन तु पात्रेण तिलैर्मिश्रजलैः सह
मृत्तिकया तथान्ते च नरः स्नात्वा शुचिर्भवेत् ॥ २.३९.१४ ॥
दानं परिषदे दद्यात्सुवर्णं गोवृषं द्विजे
क्षत्त्रियो द्विगुणं चैव वैश्यस्तु त्रिगुणं तथा ॥ २.३९.१५ ॥
चतुर्गुणन्तु शूद्रेण दातव्यं ब्राह्मणे धनम्
एव मनुक्रमेणैव चातुर्वर्ण्यं विशुध्यति ॥ २.३९.१६ ॥
सप्ताष्टमान्तरै शीर्णे गृह्यसंस्कारवर्जिते
अहस्तु सूतकं तस्य त्वब्दानां संख्यया स्मृतम् ॥ २.३९.१७ ॥
ब्राह्मणार्थे विपन्ना ये नारीणां गोग्रहेषु च
आहवेषु विपन्नानामेकरात्त्रमशौचकम् ॥ २.३९.१८ ॥
न तेषामशुभं किञ्चिद्विप्राणां शुभकर्मणि
अनाथप्रेतसंस्कारं ये कुर्वन्तु नरोत्तमः ॥ २.३९.१९ ॥
न तेषामशुभङ्किञ्चिद्विप्रेण सहकारिणा
जलावगाहनात्तेषां सद्यः शुद्धिरुदाहृता ॥ २.३९.२० ॥
विनिवृत्ता यदा शूद्रा उदकान्तमुपस्थिताः
तदाविप्रेणद्रष्टव्या इति वेदविदोविदुः ॥ २.३९.२१ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे सूतककालादिनिरूपणं नामै कोनचत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४०
तार्क्ष्य उवाच
भगवन्ब्राह्मणाः केचिदपमृत्युवशं गताः
कथं तेषां भवेन्मार्गः किं स्थानं का गतिर्भवेत् ॥ २.४०.१ ॥
किञ्च युक्तं भवेत्तेषां विधानं वापि कीदृशम्
तदहं श्रोतुमिच्छामि ब्रूहि मे मधुसूदन ॥ २.४०.२ ॥
श्रीकृष्ण उवाच
प्रेतीभूताद्विजातीनां सम्भूते मृत्युवैकृते
तेषां मार्गगतिस्थानं विधानं कथयाम्यहम् ॥ २.४०.३ ॥
शृणु तार्क्ष्य परं गोप्यं जाते दुर्मरणे सति
लङ्घनैर्ये मृता विप्रा दंष्ट्रिभिश्चाभिघातिताः ॥ २.४०.४ ॥
कण्ठग्राह विमग्नानां क्षीणानां तुण्डघातिनाम्
विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः ॥ २.४०.५ ॥
पतनोद्वन्धनजलैर्मृतानां शृणु संस्थितिम्
यान्ति ते नरकेघोरे ये च म्लेच्छादिभिर्हताः ॥ २.४०.६ ॥
श्वशृगालादिसंस्पृष्टा अदग्धाः कृमिसंङ्कुलाः
उल्लङ्घिता मृता ये च महारोगैश्च पीडिताः ॥ २.४०.७ ॥
अभिसस्तास्तथाव्यङ्गा ये च पापान्नपोषिताः
चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युताग्नितः ॥ २.४०.८ ॥
दष्ट्रिभ्यश्च पशुभ्यश्च वृक्षादिपतनान्मृताः
उदक्यामूतकीशूद्रारजकीसङ्गदूषिताः ॥ २.४०.९ ॥
तेन पापेन नरकान्मुक्ताः प्रेतत्वभागिनः
न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम् ॥ २.४०.१० ॥
न विधानं मृताद्यं च न कुर्यादौर्ध्वदैहिकम्
तेषां तार्क्ष्य प्रकुर्वीत नारायणबलिक्रियाम् ॥ २.४०.११ ॥
सर्वलोकहितार्थाय शृणु पापभयापहाम्
षण्मासं ब्राह्मणे दाहस्त्रिमासं क्षत्त्रिये मतः ॥ २.४०.१२ ॥
सार्ध मासं तु वैश्यस्य सद्यः शूद्रे विधीयते
गङ्गायां यमुनायाञ्च नैमिषे पुष्करेऽथ च ॥ २.४०.१३ ॥
तडागे जलूपूर्णे वा ह्रदे वा विमलोदके
वाप्यां कूपे गवां गोष्ठे गृहे वा प्रतिमालये ॥ २.४०.१४ ॥
कृष्णाग्रे कारयेद्विप्र बलिं नारायणाह्वयम्
प्रेताय तर्पणं कार्यं मन्त्रैः पौराणवैदिकैः ॥ २.४०.१५ ॥
सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत्
कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि ॥ २.४०.१६ ॥
दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुरिति स्मरेत्
अनादिनिधनो देवः शङ्खचक्रगदाधरः ॥ २.४०.१७ ॥
अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेत्
तर्पणस्यावसाने च वीतरागो विमत्सरः ॥ २.४०.१८ ॥
जितेन्द्रियमना भूत्वा शुचिप्मान्धर्मतत्परः
दानधर्मरतः शान्तः प्रणम्य वाग्यतः शुचिः ॥ २.४०.१९ ॥
यजमानो भबेत्तत्र शुचिर्वन्धुसमन्वितः
भक्त्या तत्र प्रकुर्वीत श्राद्धत्येकादशैव तु ॥ २.४०.२० ॥
सर्वकर्मविपाकेन एकैकाग्रे समाहितः
तोयव्रीहियवान् षष्ट्या गोधूमांश्च प्रियङ्गुकान् ॥ २.४०.२१ ॥
हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च चलेकम्
दापयेत्सर्वसस्यानि क्षीरक्षौद्रयुतानि च ॥ २.४०.२२ ॥
वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम्
दापयेत्सर्वविप्रेभ्यो न कुर्यात्पङ्क्तिबन्धनम् ॥ २.४०.२३ ॥
भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम्
शङ्खपात्रे तथा ताम्रे तर्पणञ्च पृथक्पृथक् ॥ २.४०.२४ ॥
ध्यानधारणसंयुक्तो जानुभ्यामवनिं गतः
दातव्यं सर्वविप्रेभ्यो वेदशास्त्रविधानतः ॥ २.४०.२५ ॥
ऋचा वै दापयेदर्घ्यमेकोद्दिष्टे पृथक्पृथक्
आपोदेवीर्मधुमतीरादिपीठे प्रकल्पितम् ॥ २.४०.२६ ॥
उपयामगृहीतोऽसि द्वितीयेर्ऽघं निवेदयेत्
येनापावकचक्षुषा तृतीये च कसल्पितम् ॥ २.४०.२७ ॥
ये देवासश्चतुर्थे तु समुद्रं गच्छ पञ्चमे
अग्निर्ज्योति स्तथा षष्ठे हिरण्यगर्भः सप्तमे ॥ २.४०.२८ ॥
यमाय त्वाष्टमे ज्ञेयं यज्जग्रन्नवमे तथा
तशमे याः फलिनीति पिण्डे चैकादशे ततः ॥ २.४०.२९ ॥
भद्रं कर्णेभिरिति च कुर्यात्पिण्डविसर्जनम्
कृत्वैकादशदेवत्यं श्राद्धं कुर्यात्परेऽहनि ॥ २.४०.३० ॥
विप्रानावाहयेत्पञ्च चतुर्वेदविशारदान्
विद्याशीलगुणोपेतान्स्व कीयाञ्छीलसत्तमान्
अब्यङ्गान्सप्रशस्तांश्च न त्वर्ज्यान्कदाचन ॥ २.४०.३१ ॥
विष्णुः स्वर्णमयः कार्यो रुदस्ताम्रमयस्तथा
ब्रह्मा रूप्यमयस्तद्वद्यमो लोहमयो भवेत् ॥ २.४०.३२ ॥
सीसकं तु भवेत्प्रेतं त्वथ वा दर्भकं तथा
शन्नोदेवीति मन्त्रेण गोविन्दं पश्चिमे न्यसेत् ॥ २.४०.३३ ॥
अग्न आयाहीति रुद्रमुत्तरत्रैव विन्यसेत्
अग्निमीळेति मन्त्रेण पूर्वेणैव प्रजापतिम् ॥ २.४०.३४ ॥
इषेत्वोर्जोति मन्त्रेण दक्षिणे स्थापयेद्यमम्
मध्ये मण्डलकं कृत्वा स्थाप्यो दर्भमयो नरः ॥ २.४०.३५ ॥
ब्रह्मा विष्णुस्तथा रुद्रो यमः प्रेतश्च पञ्चमः
पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः ॥ २.४०.३६ ॥
वस्त्रयज्ञोपवीतानि पृथङ्मुद्रापराणि च
जपं कर्यात्पृथक्तत्र ब्रह्मादौ देवतासु च ॥ २.४०.३७ ॥
पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि
जलधारां ततो दद्यत्पीठेपीठे पृथक्पृथक् ॥ २.४०.३८ ॥
शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मयेऽपि वा
तिलोदकं समादाय सर्वौषधिसमन्वितम् ॥ २.४०.३९ ॥
आसनोपानहौ च्छत्रं मुद्रिका च कमण्डलुः
भाजनं भाजनाधारं वस्त्राण्यष्टविधं पदम् ॥ २.४०.४० ॥
ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम्
दद्याद्ब्राह्मणमुख्याय विधियुक्तं खगेश्वर ॥ २.४०.४१ ॥
ऋग्वेदपारगे दद्याज्जातसस्यां वसुन्धराम्
यजुर्वेदमये विप्रे गाञ्च दद्यात्पयस्विनीम् ॥ २.४०.४२ ॥
सामगाय शिवोद्देशात्प्रदद्यात्कलधौतकम्
यमोद्देशात्तिलांल्लोहं ततो दद्याच्च दक्षिणाम् ॥ २.४०.४३ ॥
पश्चात्पुत्तलकं कार्यं सर्वौषधिसमन्वितम्
पलाशस्य च वृन्तानां विभागं शृणु काश्यप ॥ २.४०.४४ ॥
कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम्
शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तोऽस्थिसञ्चयः ॥ २.४०.४५ ॥
विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक्
चत्वारिंशच्छिरोदेशे ग्रीवायां दश विन्यसेत् ॥ २.४०.४६ ॥
विंशत्युरः स्थले दद्याद्विंशतिं जठरेऽपि च
बाहुयुग्मे शतं दद्यात्कटि देशे च विंशतिम् ॥ २.४०.४७ ॥
ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत्
दद्याच्चतुष्टयं शिश्रे षड्दद्याद्वृषणद्वये
दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत् ॥ २.४०.४८ ॥
नारिकेलं शिरः स्थाने तुम्बं दद्याच्च तालुके
पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम् ॥ २.४०.४९ ॥
अन्त्रेषु नालकं दद्याद्बालकं प्राण एव च
वसायीं मेदकं दद्याद्गोमूत्रेण तु मूत्रकम् ॥ २.४०.५० ॥
गन्धकं धातवो देयो हरितालं मनः शिला
रेतः स्थाने पारदञ्च पुरीषे पित्तलं तथा ॥ २.४०.५१ ॥
मनः शिलां तथा गात्रे तिलकल्कञ्च सन्धिषु
यवपिष्टं तथा मांसे मधु वै क्षौद्रमेव च ॥ २.४०.५२ ॥
केशेषु वै वटजटात्वचि दद्यान्मृगत्वचम्
कर्णयोस्तालपत्त्रञ्च स्तनयोश्चैव गुञ्जिकाः ॥ २.४०.५३ ॥
नासायां शतपत्त्रं च कमलं नाभिमण्डले
वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम् ॥ २.४०.५४ ॥
घृतं नाभ्यां प्रदेयं स्यात्कौपीने च त्रपु स्मृतम्
मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेन विलेपनम् ॥ २.४०.५५ ॥
कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः
परिधानं पट्टसूत्रं हृदये रुक्मकं न्यसेत् ॥ २.४०.५६ ॥
ऋद्धिवृद्धी भुजौ द्वौ च चक्षुषोश्च कपर्दकौ
सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकैः ॥ २.४०.५७ ॥
सर्वौषधियुतं प्रेतं कृत्वा पूजा यथोदिता
साग्निके (कैश्चा) चापि विधिना यज्ञपात्रं न्यसेत्क्रमात् ॥ २.४०.५८ ॥
शिरोमे श्रीरिति ऋचा पुनन्तु वरुणेति च
प्रेतस्य पावनं कृत्वा शालिशालशिलोदकैः ॥ २.४०.५९ ॥
विष्णुमुद्दिश्य दातव्या सुशीलागौः पयस्विनी ॥ २.४०.६० ॥
(तिला लोहं हिरण्यं च कार्पासं लवणं तथा
सप्तधान्यं क्षितिर्गाव एकैकं पानं समृतम् ॥ २.४०.६१ ॥
तिलपात्रं ततो दत्त्वा पददानं तथैव च ॥ २.४०.६१*१ ॥
महादानानि देयानि तिलपात्रं तथेति च
ततो वैतरणी देया सर्वाभरणभूषिता ॥ २.४०.६२ ॥
कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थ मात्मवान्
प्रेतंमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्य च ॥ २.४०.६३ ॥
ओं विष्णुरिति संस्मृत्य प्रेतं तन्मृत्युमेव च
अग्निदाहं ततः कुर्यात्सूतकन्तु दिनत्रयम् ॥ २.४०.६४ ॥
दशाहकर्त्रा पिण्डाश्च कर्तव्याः प्रेतभुक्तये
सर्वं वर्षविधिं कुर्यादेवं प्रेतश्च मुक्तिभाक् ॥ २.४०.६५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादेऽपमृत्यौ सुखदुः खलाभालाभनिरूपणं नाम चत्वारिंशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४१
श्रीविष्णुरुवाच [VISHNU SAID]
वृषोत्सर्गं प्रकुर्वीत विधिपूर्वं खगेश्वर
कार्तिकादिषु मासेषु पौर्णमास्यां शुभे दिने ॥ २.४१.१ ॥
विवाहोत्सर्जनं श्राद्धं नान्दीमुखमुपक्रमेत्
कुर्याद्भुवश्च संस्कारानग्निस्थापनमेव च ॥ २.४१.२ ॥
वाप्यां कूपे गवां गोष्ठे स्थाप्याग्निं विधिवत्ततः
विवाहविधिना सर्वं कुर्याद्ब्राह्मणवाचनम् ॥ २.४१.३ ॥
पात्रासादनं श्रपणमुपयमनकुशादिकम्
पुर्युक्षणान्ते होमं च कर्या द्वै ब्राह्मणेन तु ॥ २.४१.४ ॥
आघारावाज्यभागौ च चक्षुषी च प्रदा पयेत्
प्रथमेऽहरिति मन्त्रेण होतव्याश्च षडाहुतीः (तयः) ॥ २.४१.५ ॥
आघारावाज्यभागौ तु पायसेनाङ्गदेवताः
अग्नये रुद्राय शर्वाय पशुपतये उग्राय शिवाय
भवाय महादेवायेशानाय यमाय च ॥ २.४१.६ ॥
पिष्टकेन सकृद्धोमं पूषागा इति मन्त्रतः
उभयोः स्विष्टिकूद्धोमश्चरुणा पायसेन च ॥ २.४१.७ ॥
प्रथमं व्याहृतिहोमः प्रायश्चित्तं प्रजापतिः
संस्त्रवप्राशनं कुर्यात्प्रणीतापरिमोक्षणम् ॥ २.४१.८ ॥
पवित्रप्रतिपत्तिश्च ब्राह्मणे दक्षैणा ततः
षडङ्गरुद्रजाप्येन प्रोतो मोक्षमवाप्नुयात् ॥ २.४१.९ ॥
एकवर्णं वृषञ्चैव सकृद्वत्सतरीं खग
स्नापयित्वा ततः कुर्यात्सर्वालङ्कारभूषितम् ॥ २.४१.१० ॥
प्रतिष्ठाप्य च तद्युग्मं प्रेतो मोक्षमवाप्नुयात्
पुच्छेच तर्पणं कार्यमुच्छ्रिते मन्त्रपूर्वकम्
ब्राह्मणान् भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् ॥ २.४१.११ ॥
ततः श्राद्धं समुद्दिष्टमेकोद्दिष्टं यथाविधि
जलमन्नं तथा देयं प्रेतोद्धरणहेतवे ॥ २.४१.१२ ॥
द्वादशाहे ततः कुर्यान्मासेमासे पृथक्पथक्
एवं विधिः समायुक्तः प्रेतमोक्षे करोति हि ॥ २.४१.१३ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे वृषोत्सर्गनिरूपणं नामै कचत्वारिंशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४२
श्रीविष्णुरुवाच [VISHNU SAID]
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ २.४२.१ ॥
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः
शूलपाणिश्च भगवानभिनन्दति भूमिदम् ॥ २.४२.२ ॥
नास्ति भमिसमं दानं नास्ति भमिसमो निधिः
नास्ति सत्यसमो धर्मो नानृतात्पातकं परम् ॥ २.४२.३ ॥
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः
लोकत्रयं तेन भवेत्प्रदत्तं यः काञ्चनं गां च महीं च दद्यात् ॥ २.४२.४ ॥
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती
नरकादुद्धरन्त्येते जपपूजनहोमतः ॥ २.४२.५ ॥
कृत्वा बहूनि पापानि रौद्राणि विपुलानि च
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥ २.४२.६ ॥
हरन्तमपि लोभेन निरुध्यैनं निवारयेत्
स याति नरके घोरे यस्तं न परिरक्षति ॥ २.४२.७ ॥
अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि
कर्तव्यमेव कर्तव्यमिति धर्मविदो विदुः ॥ २.४२.८ ॥
आकारप्रवर्तने पापं गोसहस्रवधैःसमम्
वृत्तिच्छेदे तथा वृत्तेः करणं लक्षधेनुकम् ॥ २.४२.९ ॥
वरमेकाप्यपहृता न तु दत्तं गवां शतम्
एकां हृत्वा शतं दत्त्वा न तेन समता भवेत् ॥ २.४२.१० ॥
स्वयमेव तु यो दत्त्वा स्वयमेव प्रबाधते
स पापी नरकं याति यावदाभूतसंप्लवम् ॥ २.४२.११ ॥
न चाश्वमेधेन तथा विधिवद्दक्षिणावता
अवृत्तिकर्शिते दीने ब्राह्मणे गक्षिते यथा ॥ २.४२.१२ ॥
न तद्भवति वेदेषु यज्ञे सुबहुदक्षिणे
यत्पुण्यं दुर्बले त्रस्ते ब्राह्मणे परिरक्षिते ॥ २.४२.१३ ॥
ब्रह्मस्वैश्चसुपुष्टानि वाहनानि बलानि च
युद्धकाले विशीर्यन्ते सैकताः सेतवो यथा ॥ २.४२.१४ ॥
स्वदत्तां परदत्तां वा यो हरेच्च वसुन्धराम्
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ २.४२.१५ ॥
ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम्
तदेव चौर्यरूपेण दहत्याचन्द्रतारकम् ॥ २.४२.१६ ॥
लोहचूर्णाश्मचूर्णानि कदाचिज्जरयेत्पुमान्
ब्रह्मस्वन्त्रिषु लोकेषु कः पुमाञ्जरयिष्यति ॥ २.४२.१७ ॥
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २.४२.१८ ॥
ब्राह्मणाति क्रमो नास्ति विप्रे विद्याविवर्जिते
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ २.४२.१९ ॥
संक्रान्तौ यानि दानानि हव्यकव्यानि यानि च
सप्तकल्पक्षयं यावद्ददात्यर्कः पुनः पुनः ॥ २.४२.२० ॥
प्रतिग्रहाध्यापनयाजनेषु प्रतिग्रहं स्वेष्टतमं वदन्ति
प्रतिग्रहाच्छ्रुध्यति जाप्यहोमं न याजनं कर्म पुनन्ति वेदाः ॥ २.४२.२१ ॥
सदा जापी सदा होमी परपाकविवर्जितः
रत्नपूर्णामपि महीं प्रतिगृह्णन्न लिप्यते ॥ २.४२.२२ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे भूदानादिनिरूपणं नाम द्विचत्वारिंशतमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४३
श्रीविष्णुरुवाच [VISHNU SAID]
जलाग्निबन्धनभ्रष्टा प्रव्रज्यानाशकच्युताः
ऐन्दवाभ्यां विशुध्यन्ति दत्त्वा धेनुं तथा वृषम् ॥ २.४३.१ ॥
ऊनद्वादशवर्षस्य चतुर्वर्षाधिकस्य च
प्रायश्चित्तं चरेन्माता पिता वान्योऽपि बान्धवः ॥ २.४३.२ ॥
अतो बालनरस्यापि नापराधो न पातकम्
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥ २.४३.३ ॥
रक्तस्य दर्शने दष्टे आतुरा स्त्री भवेद्यदि
चतुर्थेऽह्नि पदादींश्च त्यक्त्वा स्नात्वा विशुध्यति ॥ २.४३.४ ॥
आतुरे स्नान उत्पन्ने दशकृत्वो ह्यनातुरः
स्नात्वास्नात्वास्पृशेदेनं ततः शुध्येत्स आतुरः ॥ २.४३.५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे शुद्धिनिरूपणं नाम त्रिचत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४४
श्रीविष्णुरुवाच [VISHNU SAID]
स्वेच्छया तार्क्ष्य मरणं शृङ्गिदंष्ट्रिसरीसृपः
चाण्डालाद्यात्मघातैश्च विषाद्यैस्ताडनैस्तथा ॥ २.४४.१ ॥
जलाग्निपातवातैश्च निराहारादिभिस्तथा
येषामेव भवेन्मृत्युः प्रोक्तास्ते पापकर्मिणः ॥ २.४४.२ ॥
पाषड्यनाश्रमाश्चैव महापातकिनस्तथा
स्त्रियश्च व्यभिचारिण्य आरूढपतितास्तथा ॥ २.४४.३ ॥
न तेषां स्यान्नव श्राद्धं न संस्कारः सपिण्डनम्
श्राद्धानि षोडशोक्तानि न भवन्ति च तान्यपि ॥ २.४४.४ ॥
वेतनं यत्क्षिपेदप्सु गृह्याग्निश्च चतुष्पथे
पात्राणिनिर्दहेदग्नौ साग्निके पापकर्मणि ॥ २.४४.५ ॥
पूर्णे संवत्सरे तेषामित्थं कार्यं दयालुभिः
एकादशीं समासाद्य शुक्लपक्षे च काश्यप ॥ २.४४.६ ॥
विष्णुं यमं च सम्पूज्य गन्धपुष्पाक्षतादिभिः
दश पिण्डान् घृताक्तांश्च दर्भेषु मधुसंयुतान् ॥ २.४४.७ ॥
यज्ञोपवीति सतिलान् ध्यायन् विष्णुं यमं तथा
दक्षिणाभिमुखस्तूष्णीमेकैकं निर्वपेत्तुतान् ॥ २.४४.८ ॥
उद्धृत्य मिश्रितान् पश्चात्तीर्थेऽभ्मः सु विनिः क्षिपेत्
क्षिपन् संकीर्तयेन्नाम गोत्रं च मृतकस्य च ॥ २.४४.९ ॥
पुनरप्यर्चयेद्विष्णुं यमं कुसुमचन्दनैः
धूपदीपैः सनैवेद्यैर्भक्ष्यभोज्यसमन्वितैः ॥ २.४४.१० ॥
तस्मिन्नुपवसेदह्नि विप्रांश्चेव निमन्त्रयेत्
कुलविद्यातपोयुक्तान् साधुशीलसमन्वितान् ॥ २.४४.११ ॥
नव सप्ताथवा पञ्च स्वसामर्थ्यानुसारतः
अपरेऽहनि मध्याह्ने यमं विष्णुं तथार्चयेत् ॥ २.४४.१२ ॥
उदङ्मुखांस्तथा विप्रांस्तान् सम्यगुपवेशयेत्
आवाहनार्घदानादौ विष्णुं यमसमन्वितम् ॥ २.४४.१३ ॥
यज्ञोपवीती कुर्वीत प्रेतनाम प्रकीर्तयेत्
प्रेतं यमं च विष्णुं च स्मरन् श्राद्धं समापयेत् ॥ २.४४.१४ ॥
अन्येभ्यश्चापि सर्वेभ्यः पिण्डदानार्थमुद्धरेत्
पृथग्वा दश पिण्डांश्च पञ्च दद्यात्क्रमेण तु ॥ २.४४.१५ ॥
प्रथमं विष्णवे दद्याद्ब्रह्मणे च शिवाय च
सभृत्याय शिवायाथ प्रेतायापि च पञ्चमम् ॥ २.४४.१६ ॥
नाम गोत्रं स्मरेत्तस्य विष्णुशब्दं प्रकीर्तयेत्
नमस्कारशिरस्कन्तु पञ्चमं पिण्डमुद्धरेत् ॥ २.४४.१७ ॥
गोभूमिपिण्डदानाद्यैः शक्त्या प्रेतं स्मरंश्च तम्
तिलैस्तिलांस्तु विप्राणां दर्भयुक्तेषु पाणिषु ॥ २.४४.१८ ॥
दद्यादन्नं द्विजानां च ताम्बूलं दक्षिणां तथा
एवं शिष्टतमं विप्रं हरिण्येन प्रपूजयेत् ॥ २.४४.१९ ॥
नाम गोत्रं स्मरन् दद्याद्विष्णुप्रीतोस्त्विति ब्रुवन्
अनुव्रज्य द्विजान् पश्चात्त्यक्ताम्भो दक्षिणामुखः ॥ २.४४.२० ॥
कीर्तयन्नामगोत्रे तु भुवि प्रीतोस्त्विति क्षिपेत्
मित्रबन्धुजनैः सार्धं शेषं भुञ्जीत वाग्यतः
प्रतिसंवत्सरादि स्यादेकोद्दिष्टविधानतः ॥ २.४४.२१ ॥
एवं कृते गमिष्यन्ति स्वर्लोकं पापकर्मिणः
सपिण्डीकरणादौ तु कृते चैवाप्नुवन्तिते ॥ २.४४.२२ ॥
अथ कश्चित्प्रमादेन म्रियते ह्युदकादिभिः
संसारप्रमुखस्तस्य सर्वं कुर्याद्यथाविधि ॥ २.४४.२३ ॥
प्रमादादिच्छया मर्त्यो न गच्छेत्सर्पसंमुखः
पक्षयोरुभयोर्नागं पञ्चमीषु प्रपूजयेत् ॥ २.४४.२४ ॥
कुर्यात्पिष्टमयीं लेखां नागानामाकृतिं भुवि
अर्चयेत्तां सितैः पुष्पैः सुगन्धैश्चन्दनेनच ॥ २.४४.२५ ॥
प्रदद्याद्धूपदीपन्तु तण्डुलांश्च सितान् क्षिपेत्
आमपिष्टं तथैवान्नं क्षीरञ्च विनिवेदयेत् ॥ २.४४.२६ ॥
उपस्थाय वदेदेवं मुञ्चन्मुद्रांशुकानि च
मधुरं तद्दिनेऽश्रीयाद्देवश्राद्धं समापयेत् ॥ २.४४.२७ ॥
सौवर्णं शक्तितो नागं ततो दद्याद्द्विजोत्तमे
धेनुं दत्त्वा ततो ब्रूयात्प्रीयतां नागराडिति ॥ २.४४.२८ ॥
यथाविभव्यं कुर्वीत कर्माण्यन्यानि पूर्ववत्
स्वशाखोक्तविधानेन इत्थं कुर्याद्यथातथम्
प्रेतत्वान्मोचयेत्तांस्तु स्वर्गमार्गं नयेत्च ॥ २.४४.२९ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दुर्मरणे कार्याकार्यक्रियादिनिरूपणं नाम चतुश्चत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४५
श्रीविष्णुरुवाच [VISHNU SAID]
प्रत्यब्दं श्राद्धमेवं ते कथयामि खगेश्वर
प्रत्यब्दं पार्वणेनैव कुर्यातां क्षेत्रजोरसौ ॥ २.४५.१ ॥
विधिनाचेतरैरेवमेकोद्दिष्टं न पार्वणम् ॥ २.४५.२ ॥
अनग्नेश्च सुतौ स्यातामनग्नी क्षेत्रजोरसौ
एकोद्दिष्टं न कुर्यातां प्रत्यब्दं तौ तु पार्वणम् ॥ २.४५.३ ॥
यदा त्वन्यतरः साग्निः पुत्रो वाप्यथवा पिता
प्रत्यब्दं पार्वणं तत्र कुर्यातां क्षेत्रजौरसौ ॥ २.४५.४ ॥
अनग्नयः साग्नयो वा पुत्रा वा पितरोऽपि वा
एकोद्दिष्टं सुतैः कार्यं क्षयाह इति केचन ॥ २.४५.५ ॥
दर्शकाले क्षयो यस्य प्रेतपक्षेऽथ वा पुनः
प्रत्यब्दं पार्वणं कार्यं तस्य सर्वैः सुतैरपि ॥ २.४५.६ ॥
एकोद्दिष्टमपुत्राणां पुंसां स्याद्योपितामपि
एकोद्दिष्टे कुशा ग्राह्याः समूला यज्ञकर्मणि
बहिर्लूनाः सकृल्लनाः श्राद्धं वृद्धिमृते सदा ॥ २.४५.७ ॥
कर्तव्ये पार्वणे श्राद्धे आशौचं यदि जायते
आशौचावगमे कुर्याच्छ्राद्धं हि तदनन्तरम् ॥ २.४५.८ ॥
एकोद्दिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते
मासेन्यस्मिन् तिथौ तस्यां कुर्याच्छ्राद्धं तदैव हि ॥ २.४५.९ ॥
तूष्णीं श्राद्धान्तु शूद्रस्य भार्यायास्तत्सुतस्य च
कन्यायाश्च द्विजातीनामनुपेतद्विजस्य च ॥ २.४५.१० ॥
एककाले गता सूनां बहूनामथ वा द्वयोः
तन्त्रेण श्रपणं कुर्याच्छ्राद्धं कुर्यात्पृथक्पृथक् ॥ २.४५.११ ॥
दद्यात्पूर्वं मृतस्यादौ द्वितीयस्य ततः पुनः
तृतीयस्य ततः कुर्यात्संनिपाते त्वयं विधिः (क्रमः) ॥ २.४५.१२ ॥
प्रत्यब्दमेवं यः कुर्याद्यथातथमतन्द्रितः
तारयित्वा पितॄन् सर्वान् प्राप्नोति परमां गतिम् ॥ २.४५.१३ ॥
न ज्ञायते मृताहश्चेत्प्रस्थानदिनमेव च
मासश्चेत्स्यात्परिज्ञातस्तद्दर्शे स्यान्मृताहिकम् ॥ २.४५.१४ ॥
यदा मासो न विज्ञातो विज्ञातं दिनमेव च
तदा मार्गशिरे मासि माघे वा तद्दिनं भवेत् ॥ २.४५.१५ ॥
दिनमासावविज्ञातौ मरणस्य यदा पुनः
प्रस्थानदिनमासौ तु ग्राह्यौ श्राद्धे मयोदितौ ॥ २.४५.१६ ॥
प्रस्थानस्यापि न ज्ञातौ दिनमासौ यदा पुनः
मृतवार्ताश्रुतौ ग्राह्यौ पूर्वप्रोक्तक्रमेण तु ॥ २.४५.१७ ॥
प्रवासमन्तरेणापि स्यातां तौ विस्मृतौ यदा
तदानीमपि तौ ग्राह्यौ पूर्ववत्तु मृताहिके ॥ २.४५.१८ ॥
गृहस्थे प्रोषिते यच्च कश्चित्तु म्रियते गृहे
आसौचापगमे यत्र प्रारब्धे श्राद्धकर्मणि ॥ २.४५.१९ ॥
प्रत्यागतश्चेज्जानाति तत्र वृत्तं गृही तथा
आशौचं गृहिणस्तेषां न द्रव्यादेस्तदा भवेत् ॥ २.४५.२० ॥
पुत्रादिना यदारब्धं श्राद्धं तत्त्वेन वाखिलम्
समापनीयं तत्रापि श्राद्धं गृहीतु दूरतः ॥ २.४५.२१ ॥
दात्रा बोक्त्रा च न ज्ञातं सूतकं मृतकं तथा
उभयोरपि तद्दोषं नारोपयति कर्हिचित् ॥ २.४५.२२ ॥
यदा त्वन्यतरज्ञातं सूतकं मृतकं तथा
भोक्तुरेव तदा दोषो नान्यो दाता प्रदुष्यति ॥ २.४५.२३ ॥
इत्युक्तेन प्रकारेण यः कुर्यान्मृतवासरम्
अविज्ञातमृताहस्य सततं तारयत्यसौ ॥ २.४५.२४ ॥
नित्यश्राद्धेऽथ गन्धाद्यैर्द्विजानभ्यर्च्य भक्तितः
सर्वान् पितृगणान् सम्यक्सहैवोद्दिश्य योजयेत् ॥ २.४५.२५ ॥
आवाहनं स्वधाकारो पिण्डाग्नौकरणादिकम्
ब्रह्मचर्यादिनियमा विश्वदेवास्तथैव च ॥ २.४५.२६ ॥
नित्यश्राद्धे त्यजेदेतान् भोज्यमन्नं प्रकल्पयेत्
दत्त्वा तु दक्षिणां शक्त्या नमस्कारैर्विसर्जयेत् ॥ २.४५.२७ ॥
देवानुद्दिश्य विश्वादीन् यद्दद्याद्द्विजभोजनम्
तन्नित्यश्राद्धवत्कार्यं देवश्राद्धं तदुच्यते ॥ २.४५.२८ ॥
मातृश्राद्धन्तु पूर्वेण कर्मादौ पैतृकं तथा
उत्तरेऽहनि वृद्धौ स्यान्मातामहगणस्य तु ॥ २.४५.२९ ॥
श्राद्धत्रयं प्रकुर्र्वीत वैश्वदेवन्तुतान्त्रिकम् ॥ २.४५.३० ॥
मातृभ्यः कल्पयेत्पूर्वं पितृभ्यस्तदनन्तरम्
मातामहेभ्यश्च तथा दद्यादित्थं क्रमेण तु ॥ २.४५.३१ ॥
मातृश्राद्धे तु विप्राणामभावे सुकुलोद्गताः
पतिपुत्रान्विताः साध्व्यो योषितोऽष्टौ च भावयेत् ॥ २.४५.३२ ॥
इष्टापूर्तादिके श्राद्धं कुर्यादाभ्युदयं तथा
उत्पातादिनिमित्तेषु नित्य श्राद्धवदेव तु ॥ २.४५.३३ ॥
नित्यं दैवञ्च वृद्धिञ्च काम्यं नैमित्तिकं तथा
श्राद्धान्युक्तप्रकारेण कुर्वन् सिद्धिमवाप्नुयात्
इति ते कथितं तार्क्ष्य किमन्यत्परिपृच्छसि ॥ २.४५.३४ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रत्याब्दिकादिश्राद्धनिरूपणं नाम पञ्चचत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४६
तार्क्ष्य उवाच
सुकृतस्य प्रभावेण स्वर्गो नानाविधो नणाम्
भोगाः सौख्याति रूपञ्च बलं बुद्धैः पराक्रमः ॥ २.४६.१ ॥
सत्यं पुण्यवतां देव जायतेऽत्र परत्र च
सत्यंसत्यं पुनः सत्यं वेदवाक्यं न चान्यथा ॥ २.४६.२ ॥
धर्मो जयति नाधर्मः सत्यं जयाते नानृतम्
क्षमा जयति न क्रोधो विष्णुर्जयति नासुरः ॥ २.४६.३ ॥
तद्वत्सत्यं मया ज्ञातं सुकृताच्छोभनं भवेत्
यतोत्कृष्टतमं पुण्यं तथोत्कृष्टतरोनरः ॥ २.४६.४ ॥
एवन्तु श्रोतुमिच्छामि जायन्ते पापिनो यथा
येन कर्मविपाकेन यथा नियमभाग्भवेत् ॥ २.४६.५ ॥
यांयां योनिमवाप्नोति यथारूपश्च जायते
तन्मे वद सुरश्रेष्ठ समासेनापि काङ्क्षितम् ॥ २.४६.६ ॥
श्रीकृष्ण उवाच
शुभाशुभफलैस्तार्क्ष्य भुक्तभोगा नरास्त्विह
जायन्ते लक्षणैर्यैस्तुतानि मे शृणु काश्यप ॥ २.४६.७ ॥
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम्
इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ २.४६.८ ॥
प्रायश्चित्तेष्वचीर्णेषु यमलोका ह्यनेकधा
यातनाभिर्विमुक्ता ये यान्ति ते जीवसन्ततीम् ॥ २.४६.९ ॥
गत्वा मानुषभावे तु पापचिह्ना भवन्ति ते
तान्यहं तव चिह्नानि कथयिष्ये खगोत्तम ॥ २.४६.१० ॥
सोढ्वा वै यातनाः सर्वा गत्वा वैवस्वतक्षयम्
निस्तीर्णयातनास्ते तु लोकमायान्ति चिह्निताः ॥ २.४६.११ ॥
गद्गदोऽनतवादी स्यान्मूकश्चैव गवानृते
ब्रह्महा जायते कुष्ठी श्यावदन्तश्च मद्यपः ॥ २.४६.१२ ॥
कुनखी स्वर्णहरणाद्दुश्चर्मा गुरुतल्पगः
संयोगी हीनयोनिः स्याद्दरिद्रोऽदत्तदानतः ॥ २.४६.१३ ॥
अयाज्ययाजको याति ग्राहमसूकरतां द्विजः
खरो वै बहुयाजी स्यात्काको निर्मन्त्रभोजनात् ॥ २.४६.१४ ॥
अपरीक्षितभोक्तारो व्याघ्राः स्युर्निर्जने वने
बहुतर्जको मार्जरः खद्योतः कक्षदाहकः ॥ २.४६.१५ ॥
पात्रे विद्याप्रदाता यो बलीवर्दो भवेत्तसः
अन्नं पर्युषितं विप्रे प्रददत्कुक्करो भवेत् ॥ २.४६.१६ ॥
मात्सर्यादपि जात्यन्धो जन्मान्धः पुस्तकं हरन्
फलान्याहरतोऽपत्यं म्रियते नात्र संशयः ॥ २.४६.१७ ॥
मृतो वानरतां याति तन्मुखो गण्डवान् भवेत्
अदत्त्वा भक्ष्यमश्राति अनपत्यो भवेत्तु सः ॥ २.४६.१८ ॥
हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः
प्रवज्यागमनाद्राजन् भवेन्मरुपिशाचकः ॥ २.४६.१९ ॥
चातको जलहर्ता स्याद्धान्यहर्ता च मूषिकः
अप्राप्तयौवनां सेवन् भवेत्सर्प इति श्रुतिः ॥ २.४६.२० ॥
गुरुदाराभिलाषी च कृकलासो भवेद्ध्रुवम्
जलप्रस्त्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ॥ २.४६.२१ ॥
अविक्रेयक्रयाच्चैव बको गृध्रो भवेन्नरः
अयोनिगो वृको हि स्यादुलूकः क्रयवञ्चनात् ॥ २.४६.२२ ॥
मृतस्यैकादशाहे तु भुञ्जानश्चाभिजायते
प्रतिश्रुत्य द्विजेभ्योर्ऽथमददज्जम्बुको भवेत् ॥ २.४६.२३ ॥
राज्ञरिं गत्वा भवेद्दंष्ट्री तस्करो विङ्वराहकः
शारिवा फलविक्रेता वृषश्च वृषलीपतिः ॥ २.४६.२४ ॥
मार्जरोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक्
उदक्यागमनात्षण्डो दुर्गन्धश्च सुगन्धहृत् ॥ २.४६.२५ ॥
यद्वा तद्वापि पारक्यं स्वल्पं वा हरते बहु
हृत्वा वै योनिमाप्नोति तिरश्चां नात्र संशयः ॥ २.४६.२६ ॥
एवमादीनि चिह्नानि अन्यान्यपि खगेश्वर
स्वकर्मविततान्येव? दृश्यन्ते यैस्तु मानवैः ॥ २.४६.२७ ॥
एवं दुष्कृतकर्मा हि भुक्त्वा च नरकान्क्रमात्
जायते कर्मशेषेण उक्तास्वेतासु योनिषु ॥ २.४६.२८ ॥
ततो जन्मशतं मर्त्ये सर्वजन्तुषु काश्यप
जायते नात्र सन्देहः समीभूते शुभाशुभे ॥ २.४६.२९ ॥
स्त्रीपुंसयो प्रसङ्गेन निरुद्धे शुक्रसोणिते
समुपेतः पञ्चभूतैर्जायते पाञ्चभौतिकः ॥ २.४६.३० ॥
इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः
धारणा प्रेरणं दुः खं मिथ्याहङ्कार एव च ॥ २.४६.३१ ॥
प्रयताकृतिवर्णस्तु रागद्वेषौ भवाभवौ
तस्येदमात्मनः सर्वमनादेरादिमिच्छतः ॥ २.४६.३२ ॥
स्वकर्म बद्धस्य तदा गर्भवृद्धिर्भवेदिति
पुरा यथा मया प्रोक्तं तव जन्तोर्हि लक्षणम् ॥ २.४६.३३ ॥
एवं प्रवर्तितं चक्रं भूतग्रामे चतुर्विधे
समुत्पत्तिर्विनाशश्च जायते तार्क्ष्य देहिनाम् ॥ २.४६.३४ ॥
स्वधर्मेणैवोर्ध्वगतिरधर्मेणाप्यधोगतिः
जायते सर्ववर्णानां स्वधर्मचलनात्खग ॥ २.४६.३५ ॥
देवत्वे मानुषत्वे च दानभोगादिकाः क्रियाः
या दृश्यन्ते वैनतेय तत्सर्वं कर्मजं फलम् ॥ २.४६.३६ ॥
अकर्मविहिते घोरे कामक्रोधार्जितेऽशुभे
पतेद्वै नरके भूयो तस्योत्तारो न विद्यते ॥ २.४६.३७ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे जीवस्य शुभाशुभगतिनिरूपणं नाम षट्चत्वारिंशोध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४७
गरुड उवाच
भगवन्देवदेवेश कृपया परया वद
दानं दानस्य माहात्म्यं वैतरण्याः प्रमाणकम् ॥ २.४७.१ ॥
श्रीकृष्ण उवाच
या सा वैतरणी नाम यममार्गे महासरित्
अगाधा दुस्तरा पापैर्दृष्टमात्रा भयावहा ॥ २.४७.२ ॥
पूयशोणिततोयाढ्या मांसकर्दमसकुंला
पापिनञ्चागतान्दृष्ट्वा नानाभयसमावृता ॥ २.४७.३ ॥
क्वाथ्यते सत्वरं तोयं पात्रमध्ये घृतं यथा
क्रिमिभिः सङ्कुलं पूयं वज्रतुण्डैः समावृतम् ॥ २.४७.४ ॥
शिशुमारैश्च मकरैर्वज्रकर्तरिकायुतैः
अन्यैश्च जलजीवैश्च हिंसकैर्मांसभेदिभिः ॥ २.४७.५ ॥
उद्यान्ति द्वादशादित्याः प्रलयान्ते तथा हि ते
तपन्ति तत्र वै मर्त्याः क्रन्द मानास्तु पापिनः ॥ २.४७.६ ॥
हा भ्रातः पुत्र तातेति प्रलपन्ति मुहुर्मुहुः
विचरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः ॥ २.४७.७ ॥
चतुर्विधैः प्राणिगणैर्दृष्टा व्याप्ता महानदी
तरन्ति गोप्रदानेन त्वन्यथा च पतन्ति ते ॥ २.४७.८ ॥
मां नरा येऽवमन्यन्ते चाचार्यं गुरुमेव च
वृद्धानन्यांश्चापि मूढास्तेषां वासस्तु तत्र वै ॥ २.४७.९ ॥
पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम्
परित्यजन्ति ये मूढास्तेषां वासस्तु सन्ततम् ॥ २.४७.१० ॥
विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम्
स्त्रीबालविकलादीनां वधं कृत्वा पतन्ति हि
पच्यन्ते तत्र मध्ये तु क्रन्दमानास्तु पापिनः ॥ २.४७.११ ॥
शान्तं बुभुक्षितं विप्रंयो विघ्नायोपसर्पति
क्रिमिभिर्भक्ष्यते तत्र यावदाभूतसंप्लवम् ॥ २.४७.१२ ॥
ब्राह्मणाय प्रतीश्रुत्य यमार्थं न ददाति तम्
आहूय नास्ति यो ब्रूयात्तस्य वासस्तु तत्र वै ॥ २.४७.१३ ॥
अग्निदो गरदश्चैव कूटसाक्षी च मद्यपः
यज्ञविध्वंसकश्चैव राज्ञीगामी च पैशुनः ॥ २.४७.१४ ॥
कथाभङ्गकरश्चैव स्वयन्दत्ता पहारकः
क्षेत्रसेतुविभेदी च परदारप्रधर्षकः ॥ २.४७.१५ ॥
ब्राह्मणो रसविक्रेता तथा यो वृषलीपतिः
गोधनस्य तृषार्तस्य वाप्या भेदं करोति यः ॥ २.४७.१६ ॥
कन्याविदूषकश्चैव दानं दत्त्वानुतापकः
शूबद्रस्तु कपिलापायी ब्राह्मणो मांसभोजनः ॥ २.४७.१७ ॥
एते वसन्ति सततं मा विचारं कृथाः क्वचित्
कृपणो नास्तिकः क्षुद्रः स तस्यां निवसेत्खग ॥ २.४७.१८ ॥
सदामर्षो सदा क्रोधी निजवाक्यप्रमाणकृत्
परोक्त्युच्छेदको नित्यं वैतरण्या वसेच्चिरम् ॥ २.४७.१९ ॥
यस्त्वहङ्कारवान्पापी स्वविकत्थनकारकः
कृतघ्नो गर्भसन्तापी वैतरण्यां स मज्जति ॥ २.४७.२० ॥
कदापि भाग्ययोगेन तरणेच्छा भवेद्यदि
सानुकूला भवेद्येन तदाकर्णय काश्यप ॥ २.४७.२१ ॥
अयने विषुवे पुण्ये व्यतीपाते दिनोदये
चन्द्रसूर्योपरागे वा संक्रान्तौ दर्शवासरे ॥ २.४७.२२ ॥
अन्येषु पुण्यकालेषु दीयते दानमुत्तमम्
यदा तदा भवेद्वापि श्राद्धा दानं प्रति ध्रुवम् ॥ २.४७.२३ ॥
तदैब दानकालः स्याद्यतः सम्पत्तिरस्थिरा
अनित्यानि शरीराणि विभवो नैव शाश्वतः ॥ २.४७.२४ ॥
नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंगहः
कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ॥ २.४७.२५ ॥
स्वर्णशृङ्गीं रौप्यखुरां कांस्यपात्रोपदोहनीम्
कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ॥ २.४७.२६ ॥
कार्पासद्रोणशिखरे आसीनं ताम्रभाजने
यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम्
इक्षुदण्डमयं बद्ध्वा प्लवं सुदृढबन्धनैः ॥ २.४७.२७ ॥
उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम्
कृत्वा प्रकल्पयेद्विप्रश्छत्रोपानहसंयुतम् ॥ २.४७.२८ ॥
अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत्
इममुच्चारयेन्मन्त्रं संगृह्य सजलान्कुशान् ॥ २.४७.२९ ॥
यमद्वारे महाघोरे श्रुत्वा वैतरणीं तदीम्
तर्तुकामो ददाम्येनां तुभ्यं वैतरणीं नमः ॥ २.४७.३० ॥
गावो मे अग्रतः सन्तु गावो मे सन्तु पार्श्वतः
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ २.४७.३१ ॥
विष्णुरूप द्विजश्रेष्ठ मामुद्धर महीसुर
सदक्षिणा मया दत्ता तुभ्यं वैतरणीनमः ॥ २.४७.३२ ॥
धर्मराजञ्च सर्वेशं वैतरण्याख्यधेनुकाम्
सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत् ॥ २.४७.३३ ॥
पुच्छं संगृह्य धेन्वाश्च अग्रे कृत्वा तु वै व्दिजम्
धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ॥ २.४७.३४ ॥
उत्तारणाय देवेशि वैतरण्ये नमोऽस्तु ते
अनुव्रजेत्तु गच्छन्तं सर्वं तस्य गृहं नयेत् ॥ २.४७.३५ ॥
एवं कृते वैनतेय सा सरित्सुतरा भवेत्
सर्वान्कामानवाप्नोति यो दद्याद्भुवि मानवः ॥ २.४७.३६ ॥
सुकृतस्य प्रभावेण सुखञ्चेह परत्र च
स्वस्थे सहस्रगुणितमातुरे शतसंमितम् ॥ २.४७.३७ ॥
मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम्
स्वहस्तेन ततो देयं मृते कः कस्य दास्यती ॥ २.४७.३८ ॥
दानधर्मविहीनानां कृपणैर्जीवेतक्षितैः
अस्थिरेण शरीरेण स्थिरं कर्म समाचरेत् ॥ २.४७.३९ ॥
अवश्यमेव यास्यन्ति प्राणाः प्राघुणि (घूर्णि) का इव ॥ २.४७.४० ॥
इतीदमुक्तं तव पक्षिराज विडम्बनं जन्तुगणस्य सर्वम्
प्रेतस्य मोक्षाय तदौद्ध्वन्दैहिकं हिताय लोकस्य चरेच्छुभाय तु ॥ २.४७.४१ ॥
सूत उवाच [SUTA SAID]
एवं विप्राः समाद्दिष्टो विष्णुना प्रभविष्णुना
गरुड प्रेतचरितं श्रुत्वा सन्तुष्टिमागतः ॥ २.४७.४२ ॥
व्रततीर्थादिकं सर्वं पुनः पप्रच्छ केशवम्
ध्यात्वा मनसि सर्वेशं सर्वकारणकारणम् ॥ २.४७.४३ ॥
ऋषयः सर्वमेवैतज्जन्तूनां प्रभवादिकम्
मरणं जन्म च तथा प्रेतत्वञ्चौर्ध्वदैहिकम् ॥ २.४७.४४ ॥
मया प्रोक्तं वै मुक्त्यै निदानं चैव सर्वशः
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ २.४७.४५ ॥
धर्मो जयति नाधर्मः सत्यं जयति नानृतम्
क्षमा जयति न क्रोधो विष्णुर्जयति नासुराः ॥ २.४७.४६ ॥
विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः
येषामेव स्थिरा बुद्धिर्न तेषां दुर्गतिर्भवेत् ॥ २.४७.४७ ॥
मङ्गलं भगवान्विष्णुर्मङ्गलं गरुडध्वजः
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ॥ २.४७.४८ ॥
हरिर्भागीरथी विप्रा विप्रा भागीरथी हरिः
भागीरथी हरिर्विप्राः सारमेतज्जगत्त्रये ॥ २.४७.४९ ॥
इति सूतमुखोद्गीर्णां सर्वशास्त्रार्थमण्डिताम्
वैष्णविं वाक्सुधां पीत्वा ऋषयस्तुष्टिमाययुः ॥ २.४७.५० ॥
प्रशशंसुस्तथान्योन्यं सूतं सर्वार्थदर्शिनम्
प्रहर्षमतुलं प्रापुर्मुनयः शौनकादयः ॥ २.४७.५१ ॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरं शुचिः ॥ २.४७.५२ ॥
इति श्रीगारुडे महापु उत्तरखण्डे द्वितीदृ धर्मकादृप्रेतदृश्रीकृष्णगरुडसंवादे कर्मविपाकादिनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४८
तार्क्ष्य उवाच
ये मर्त्यलोके निवसन्ति मानवास्ते सर्वजातौ निधनं प्रयान्ति
काले स्वकीये निजपुण्यसंख्यया वदन्ति लाक कथस्व तन्मे ॥ २.४८.१ ॥
गच्छन्ति मार्गेण सुदुस्तरेण विधातृनिष्पादितवर्त्मनि स्थिताः
केनैव पुण्येन मुदं प्रयान्ति तिष्ठन्ति केनैव कुलं बलं वयः ॥ २.४८.२ ॥
सूत उवाच [SUTA SAID]
श्रुत्वाथ देवो गरुडं त्ववोचत्स्मृत्वा वपुः कर्मभयञ्च रूपम्
सृष्टा धरा येन चराचरं जगत्स येन शस्ता विहितो यमो विभुः ॥ २.४८.३ ॥
श्रीभगवानुवाच
धर्मार्थकामं चिरमोक्षसञ्चयमन्यं द्वितीयं यममार्गगामिनाम्
प्रविश्यचाङ्गुष्ठसमे स तत्र वै तं प्राप्य देहं स्वमन्दिरम्? ॥ २.४८.४ ॥
गृहीतपाशो रुदते पुनः पुनर्देशे सुपुण्ये द्विज देहसंस्थितः
देवेन्द्रपूजा पितृदेवतृप्तिदं मोहान्न चेष्टं न च पुत्त्रसन्ततिः ॥ २.४८.५ ॥
न मेऽस्ति बन्धुर्यममार्गगामिनो मया न कृत्यं द्विजदेहलिप्सया
सम्प्राप्य विप्रत्वमतीव दुर्लभं नाधीतवान्वेदपुराणसंहिताः
प्राप्तं सुरत्नं करसंस्थितं गतं देहन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २.४८.६ ॥
यः क्षत्त्रियो बाहुबलेन संयुगे ललाटदेशाद्रुधिरं मुखे पपौ
तत्सोमपानं हि कृतं महामखे जीवन्मृतः सोऽपि हि याति मुक्तिक् ॥ २.४८.७ ॥
स्थानान्यनेकानि कृतानि तानि पीतान्यनेकान्यपि गर्हितानि
शस्त्रं गृहीत्वा समरे रिपूणां यः संमुखं याति स मुक्तपापः ॥ २.४८.८ ॥
क्षत्त्रान्वयो वापि विशोन्वयो वा शूद्रान्वयो वापि हि नीचवर्णः
संग्रामदेवद्विजबालघाती स्त्रीवृद्धहा दीनतपस्विहन्ता ॥ २.४८.९ ॥
उपद्रुतेष्वेषु पराङ्मुखो यः स्युस्तस्य देवाः सकलाः पराङ्मुखाः
तिलोदकं नैव पिबन्ति पूर्वे हुतं न गृह्णाति हुताशनोपि तत् ॥ २.४८.१० ॥
द्वेषाद्भयाद्वा समरे समागते शस्त्रं गृहीत्वा परसैन्यसंमुखः
न याति पक्षीन्द्र मृश्च पश्चात्क्षात्त्रं बलं तस्य गतं तथैव
द्विजाय दत्त्वा कनकं महीमिमां भूयः स पश्चाद्भवतीह लोके ॥ २.४८.११ ॥
दानं प्रदत्तं ग्रहणे द्विजेन्द्रे स्नानं कृतं तेन सदा सुतीर्थे
गत्वा गयायां पितृपिण्डदानं कृतं सदा यो
म्रियते तु युद्धे ॥ २.४८.१२ ॥
यः क्षात्त्रदेहन्तु विहाय शोचते रणाङ्गणे स्वामिवधे च गोग्रहे
स्त्रीबालघाते पथि सार्थहेतवे मया स्वकोशं न हतं न पातितम् ॥ २.४८.१३ ॥
वैश्यः स्वकर्माणि विशोचते तदा गृहीतपाशो न मयापि सञ्चितम्
सत्यं न चोक्तं क्रय विक्रयेण मोहाद्विमूढेन कुटुम्बहेतवे ॥ २.४८.१४ ॥
शूद्रं वपुः प्राप्य यशस्करं सदा दानं द्विजेभ्यो न कृतं द्विजार्चनम्
च्दृदद्यत्दद्वड्ढ ढद्धदृथ्र्ददृध्ड्ढथ्र्डड्ढद्ध
जलाशयो नैव कृतो धरातले असंस्कृतो विप्रवरो न संस्कृतः ॥ २.४८.१५ ॥
त्यक्त्वा स्वकर्माणि मदेन सुस्थितं मया सुतीर्थे स्ववपुर्न चोज्झितम्
धर्मोर्जितो नैव न देवपूजनं कृतं मया चैव विमुक्तिहेतवे ॥ २.४८.१६ ॥
देहं समासाद्य तथैव पिण्डजं वर्णांस्तथैवान्त्यजम्लेच्छसंज्ञितान्
मरुन्मयं देहमिमे विशन्ति नैवेहमानाः पथि धर्मसंकुले ॥ २.४८.१७ ॥
परस्परं धर्मकृन्तं स्वकीयं सम्पाद्य लक्ष्यं पथि सञ्चरन्त्स्वम्
पक्षीन्द्र वाक्यानि शृणुष्व तानि मनोरमाणि प्रवदन्ति यानि ॥ २.४८.१८ ॥
सारा हि लोकेषु भवेत्त्रिलोकी द्वीपेषु सर्वेषु च जम्बुकाख्यम्
देशेषु सर्वेष्वपि देवदेशः जीवेषु सर्वेषु मनुष्य एव ॥ २.४८.१९ ॥
वर्णाश्च चत्वार इह प्रशस्ताः वर्णेषु धर्मिष्ठनराः प्रशस्ताः
धर्मेण सौख्यं समुपैति सर्वं ज्ञानं समाप्नोति महापथे स्थितः ॥ २.४८.२० ॥
देहं परित्यज्य यदा गतायुः पक्षिन् स्थितोऽहं कृमिकीटसंस्थितः
सरीसृपोऽहं मशको विनिर्मितश्चतुष्पदोऽहं वनसूकरोऽहम् ॥ २.४८.२१ ॥
सर्वं विजानाति हि गर्भसंस्थितो जातश्च सद्यस्तदिदञ्च विस्मरेत्
यच्चिन्तितं गर्भसमागतेन वै बालो युवा वृद्धवया बभूव ॥ २.४८.२२ ॥
मोहाद्विनाष्टं यदि गर्भचिन्तितं स्मृतं पुनर्मृत्युगते चदेहे
तस्मिन्प्रनष्टे हृदि चिन्तितं गतं स्मृतं पुनर्गर्भगते च देहे ॥ २.४८.२३ ॥
तस्मिन्प्रनष्टे हृदि चिन्तितं पुनर्मया स्वकोशे परवञ्चनं कृतम्
द्यूतैश्छलेनापि च चौर्यवृत्त्या धर्मं व्यतिक्रम्य शरीररक्षणे ॥ २.४८.२४ ॥
कृच्छ्रेण लक्ष्मीः समुपार्जिता स्वयं मया न भुक्तं मनसेप्सितं धनम्
ताम्बूलमन्नं मधुरं सगोरसं दत्त्वाग्निदेवातिथिबन्धुवर्गे ॥ २.४८.२५ ॥
सोमग्रहे सूर्यसमागमेपि वा न सेवितं तीर्थवरिष्ठमुत्तमम्
कोशं स्वकीयं मलमूत्रपूरितं देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २.४८.२६ ॥
मया न दृष्टा न नता न पूजिता त्रैविक्रमी मूर्तिरिह स्थिता भुवि
प्रभासनाथो न च भक्तिसंस्तुतो देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २.४८.२७ ॥
गत्वा वरिष्ठे भुवि तीर्थसन्निधौ धनं न दत्तं विदुषां करे मया
आप्लुत्य देहं विधिना द्विजे गुरौ दिहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २.४८.२८ ॥
न मातृपूजा न च विष्णुशङ्करौ गणेशचणड्यौ न च भास्करोऽपि वा
यञ्चोपचारैर्बलियुक्तचन्दनैर्देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २.४८.२९ ॥
लब्धा मया मानवदेवतोपमा मोहाद्गता सर्वमिदञ्च पार्थिव
गतिं न वीक्षेत स वै विमूढधीर्देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २.४८.३० ॥
एतानि पक्षिन्मनसा विचिन्त्य वाक्यानि धर्मार्थयशस्कराणि
मुक्तिं समायान्ति मनुष्यलोके वसन्ति ये धर्मरताः सुदेशे ॥ २.४८.३१ ॥
इति ब्रुवाणैर्यमधूतवर्गैर्विहन्यते कालमयैश्च मुद्गरैः
हा दैव हा दैव इति स्मरन् वै धनं न दत्तं स्वयमर्जितं यत् ॥ २.४८.३२ ॥
न भूमिदानं न च गोप्रदानं न वारिदानं न च वस्त्रदानम्
फलं सताम्बूलविलेपनं वा त्वया न दत्तं भुवि शोचसे कथम् ॥ २.४८.३३ ॥
पिता मृतस्ते च पितामहः सा यया धृतो वाप्युदरे स्वकीये
मृतोऽप्यसौ बन्धुजनः समस्तो दृष्टं त्वया सर्वमिदं गतायः ॥ २.४८.३४ ॥
कोशं त्वदीयं ज्वलितञ्च वह्निना पुत्त्रैर्गृहीतो धनधान्य सञ्चयः
सुभाषितं धर्मचयं कृतञ्च यत्तदेव गच्छेत्तव पृष्ठसंस्थम् ॥ २.४८.३५ ॥
न दृश्यते कोऽपि मृतः समागतो राजा यतिर्वा द्विजपुङ्गवोऽपि वा
यो वै मृतः साहसिकः स मर्त्यको नाशं योऽपि धरातले स्थितः ॥ २.४८.३६ ॥
एवं गणास्ते ब्रुवते सकिन्नरा धैर्यं समालम्ब्य विपादपूरितः
श्रुत्वा गणानां वचनं महाद्भुतं ब्रवीति पक्षीन्द्र मनुष्यतां गतः ॥ २.४८.३७ ॥
दानप्रभावेण विमानसंस्थितो धर्मः पिता मातृदयानुरूपिणी
वाणी कलत्रं मधुरार्थभाषिणी स्नानं सुतीर्थे च सुबन्धवर्गः ॥ २.४८.३८ ॥
करार्पितं यत्सुकृतं समस्तं स्वर्गस्तदा स्यात्तव किङ्करोपमः
यो धर्मवान् प्राप्स्यति सोऽतिसौख्यं पापी समस्तं विविधञ्च दुःखम् ॥ २.४८.३९ ॥
यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी
स्वदारतुष्टः परदारदूरःस वै नरो नो भुवि वन्दनीयः ॥ २.४८.४० ॥
मिष्टान्नदाता चरिताग्निहोत्रो वेदान्तविच्चन्द्रसहस्रजीवी
मासोपवासी च पतिव्रता चषड्जीवलोके मम वन्दनीयाः ॥ २.४८.४१ ॥
एवं समाचारयुतो नरोऽपि वापीं सकूपां सजलं तडागम्
प्रपाशुभं हृद्गृहदेवमन्दिरं कृतं नरेणैव स धर्मौत्तमः ॥ २.४८.४२ ॥
वर्षाशनं वेदविदे च दत्तं कन्याविवाहस्त्वृणमोचनं द्विजे
भूमिः सुकृष्टापि तृषार्तिहेतोस्तदेवमेतं सुकृतत्समस्तम् ॥ २.४८.४३ ॥
अध्यायमेनं सुकृतस्य सारं शृणोति गायत्यपि भावशुद्ध्या
स वै कुलीनः स च धर्मयुक्तो विश्वालयं याति परं स नूनम् ॥ २.४८.४४ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे मनुष्यस्य सुखदुः खप्रापकधर्माधर्मनिरूपणं नामाष्टचत्वारिंशत्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४९
गरुड उवाच
श्रुता मया दयासिन्धो ह्यज्ञानाज्जीवसंसृतिः
अधुना श्रोतुमिच्छामि मोक्षोपायं सनातनम् ॥ २.४९.१ ॥
भगवन्देवदेवेश शरणागतवत्सल
असारे घोरसंसारे सर्वदुः खमलीमसे ॥ २.४९.२ ॥
नानाविधशरीरस्था अनन्ता जीवराशयः
जायन्ते च म्रियन्ते च तेषामन्तो न विद्यते ॥ २.४९.३ ॥
सदा दुः खातुरा एव न सखी विद्यते क्कचित्
केनोपायेन मोक्षेश मुच्यन्ते वद मे प्रभो ॥ २.४९.४ ॥
श्रीभगवानुबाच
शृणु तार्क्ष्य प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि
यस्य श्रवणमात्रेण संसारान्मुच्यते नरः ॥ २.४९.५ ॥
अस्ति देवः परब्रह्मस्वरूपो निष्कलः शिवः
सर्वज्ञः सर्वकर्ता च सर्वेशो निर्मलोऽद्वयः ॥ २.४९.६ ॥
स्वयञ्ज्योतिरनाद्यन्तो निर्विकारः परात्परः
निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः ॥ २.४९.७ ॥
अनाद्यविद्योपहता यथाग्नौ विस्फुलिङ्गकाः
देहाद्युपाधिसम्भिन्नास्ते कर्मभिरनादिभिः ॥ २.४९.८ ॥
सुखदुः खप्रदैः पुण्यपारूपैर्नियन्त्रिताः
तत्तज्जातियुतं देहमायुर्भोगञ्च कर्मजम् ॥ २.४९.९ ॥
प्रतिजन्म प्रपद्यन्ते तेषामपि परं पुनः
ससूक्ष्मलिङ्गशरीरमामोक्षादक्षरं खग ॥ २.४९.१० ॥
स्थावराः कृमयश्चाजाः पक्षिणः पशवो नगः
धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ २.४९.११ ॥
चतुर्विधशरीराणि धृत्वा मुक्त्वा सहस्रशः
सुकृतान्मा नवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात् ॥ २.४९.१२ ॥
चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम्
न मानुषं विनान्यत्र तत्त्वज्ञानन्तु लभ्यते ॥ २.४९.१३ ॥
अत्र जन्मसहस्राणां सहस्रैरपि कोटिभिः
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ २.४९.१४ ॥
सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम्
यस्तार यति नात्मानं तस्मात्पापतरोऽत्र कः ॥ २.४९.१५ ॥
नरः प्राप्येतरज्जन्म लब्ध्वा चेन्द्रियसौष्ठवम्
न वेत्त्यात्महितं यस्तु स भवेद्ब्रह्मघातकः ॥ २.४९.१६ ॥
विना देहेन कस्यापि पुरुषार्थो न विद्यते
तस्माद्देहं धनं रक्षेत्पुण्यकर्माणि साधयेत् ॥ २.४९.१७ ॥
रक्षेच्चसर्वदात्मानमात्मा सर्ब्वस्य भाजनम्
रक्षणे यत्नमातिष्ठेज्जीवन् भद्राणि पश्यति ॥ २.४९.१८ ॥
पुनर्ग्रामः पुनः क्षेत्र पुनर्वित्तं पुनर्गृहम्
पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥ २.४९.१९ ॥
शरीररक्षणोपायाः क्रि यन्ते सर्वदा बुधैः
नेच्छन्ति च पुनस्त्यागमपि कुष्ठादिरोगिणः ॥ २.४९.२० ॥
तद्गोपितं स्याद्धर्मार्थं धर्मो ज्ञानार्थमेव च
ज्ञानं तु ध्यानयोगार्थमचिरात्प्रविमुच्यते ॥ २.४९.२१ ॥
आत्मैव यदि नात्मानमहीतेभ्यो निवारयेत्
कोऽन्यो हितकरस्तस्मादात्मानं सुखयिष्यति ॥ २.४९.२२ ॥
इहैव नरकव्याधेश्चिकित्सां न करोति यः
गत्वा निरौषधं देशं व्याधिम्थः किं करिष्यति ॥ २.४९.२३ ॥
व्याघ्रीवास्ते जरा चायुर्याति भिन्नघटाम्बुवत्
निघ्नन्ति रिपुवद्रोगास्तस्माच्छ्रेयः समभ्यसेत ॥ २.४९.२४ ॥
यावन्नाश्रयते दुः खं यावन्नायान्ति चापदः
यावन्नेन्द्रियवैकल्यं तावच्छ्रेयः समभ्यसेत् ॥ २.४९.२५ ॥
यावत्तिष्ठति देहोऽयं तावत्तत्त्वं समभ्यसेत्
सन्दीप्तकोशभवने कूपं खनति दुर्मतिः ॥ २.४९.२६ ॥
कालो न ज्ञायते नानाकार्यैः संसारसम्भवैः
सुखं दुःखं जनो हन्त न वेत्ति हितमात्मनः ॥ २.४९.२७ ॥
जातानार्तान्मृतानापद्भष्टान्दृष्ट्वा च दुः खितान्
लोको मोहसुरां पीत्वा न बिभेति कदाचन ॥ २.४९.२८ ॥
सम्पदः स्वप्नसंकाशा यौवनं कुसुमोपमम्
तडिच्चपलमायुष्यं कस्य स्याज्जानतो धृतिः ॥ २.४९.२९ ॥
शतं जीवितमत्यल्पं निद्रालस्यैस्तदर्धकम्
बाल्यरोगजरादुः खैरल्पं तदपि निष्फलम् ॥ २.४९.३० ॥
प्रारब्धव्ये निरुद्योगी जागर्तव्ये प्रसुप्तकः
विश्वस्तश्च भयस्थाने हा नरः को न हन्यते ॥ २.४९.३१ ॥
तोयफेनसमे देहे जीवेनाक्रम्य संस्थिते
अनित्याप्रयसवासे कथ तिष्ठति निर्भयः ॥ २.४९.३२ ॥
अहिते हितसंज्ञः स्यादध्रुवे ध्रुवसंज्ञकः
अनर्थे चार्थविज्ञानः स्वमर्थं यो न वेत्ति सः ॥ २.४९.३३ ॥
पश्यन्नपि प्रस्खलति शृण्वन्नपि न बुध्यति
पठन्नपि न जानाति देवमायाविमोहितः ॥ २.४९.३४ ॥
तन्निमज्जज्जगदिदं गम्भीरे कालसागरे
मृत्युरोगजराग्राहैर्न कश्चिदपि बुध्यते ॥ २.४९.३५ ॥
प्रतिक्षणभयं कालः क्षीयमाणो न लक्ष्यते
आमकुंभ इवांभः स्थो विशीर्णो न विभाव्यते ॥ २.४९.३६ ॥
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम्
ग्रथनञ्च तरङ्गाणामास्था नायुषि युज्यते ॥ २.४९.३७ ॥
पृथिवी दह्यते येन मेरुश्चापि विशीर्यते
शुष्यते सागरजलं शरीरस्य च का कथा ॥ २.४९.३८ ॥
अपत्यं मे कलत्रं मे धनं मे बान्धवाश्च मे
जल्पन्तमिति मर्त्याजं हन्ति कालवृको बलात् ॥ २.४९.३९ ॥
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्
एवमीहासमायुक्तं कृतान्तः कुरुते वशम् ॥ २.४९.४० ॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम्
न हि मृत्युः प्रतीक्षेत कृतं वाप्यथ वाकृतम् ॥ २.४९.४१ ॥
जरादर्शितपन्थानं प्रचण्डव्याधिसैनिकम्
अधिष्ठितो मृत्युशत्रुं त्रातारं किं न पश्यति ॥ २.४९.४२ ॥
तृष्णासूचीविनिर्भिन्नं सिक्तं विषयसर्पिषा
रागद्वेषानले पक्वं मृत्युरश्राति मानवम् ॥ २.४९.४३ ॥
बालांश्च यौवनस्थांश्च वृद्धान गर्भगतानपि
सर्वानाविशते मृत्युरेवम्भूमिदं जगत् ॥ २.४९.४४ ॥
स्वदेहमपि जीवोऽयं मुक्त्वा याति यमालयम्
स्त्रीमातृपितृपुत्त्रादिसम्बन्धः केन हेतुना ॥ २.४९.४५ ॥
दुः खमूलं हि संसारः स यस्यास्ति स दुः खितः
तस्य त्यागः कृतो येन स सुखी नापरः क्वचित् ॥ २.४९.४६ ॥
प्रभवं सर्वदुः खानामालयं सकलापदाम्
आश्रयं सर्वपापानां संसारं वर्जयेत्क्षणात् ॥ २.४९.४७ ॥
लोहदारुमयैः पाशैः पुमान्बद्धो विमुच्यते
पुत्त्रदारमयैः पाशैर्मुच्यते न कदाचन ॥ २.४९.४८ ॥
यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान्
तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ २.४९.४९ ॥
वञ्चिताशेषवित्तैस्तैर्नित्यं लोको विनाशितः
हा हन्त विषयाहारैर्देहस्थोन्द्रियतस्करैः ॥ २.४९.५० ॥
मांसलुब्धो यथा मत्स्यो लोहशङ्कुं न पश्यति
सुखलुब्धस्तथा देही यमवाधां न पश्यति ॥ २.४९.५१ ॥
हिताहितं न जानन्तो नित्यमुन्मार्गगामिनः
कुक्षिपूरणनिष्ठा ये ते नरा नारकाः खग ॥ २.४९.५२ ॥
निद्राभीमैथुनाहाराः सर्वेषां प्राणिनां समाः
ज्ञानवान्मानवः प्रोक्तो ज्ञानहीनः पशुः स्मृतः ॥ २.४९.५३ ॥
प्रभाते मलमूत्त्राभ्यां क्षुत्तृड्भ्यां मध्यगे रवौ
रात्रौ मदननिद्राभ्यां बाध्यन्ते मूढमानवाः ॥ २.४९.५४ ॥
स्वदेहधनदारादिनिरताः सर्वजन्तवः
जायन्ते च म्रियन्ते च हा हन्ताज्ञानमोहिताः ॥ २.४९.५५ ॥
तस्मात्सङ्गः सदा त्याज्यः सचेत्त्यक्तुं न शक्यते
महद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ २.४९.५६ ॥
सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम्
यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः ॥ २.४९.५७ ॥
स्वस्ववर्णाश्रमाचारनिरताः सर्वमानवाः
न जानन्ति परं धर्मं वृथा नश्यन्ति दाम्भिकाः ॥ २.४९.५८ ॥
किमायासपराः केचिद्व्रतचर्यादिसंयुताः
अज्ञानसंवृतात्मानः सञ्चरन्ति प्रचारकाः ॥ २.४९.५९ ॥
नाममात्रेण सन्तुष्टाः कर्मकाण्डरता नराः
मन्त्रोच्चारणहोमाद्यैर्भ्रामिताः क्रतुविस्तरैः ॥ २.४९.६० ॥
एकभुक्तोपवासाद्यैर्नियमैः कायशोषणैः
मूढाः परोक्षमिच्छन्ति मम मायाविमोहिताः ॥ २.४९.६१ ॥
देहदण्डनमात्रेण का मुक्तिरविवेकिनाम्
वल्मीकताडनादेव मृतः किन्नु महोरगः ॥ २.४९.६२ ॥
जटाभाराजिनैर्युक्ता दाम्भिका वेषधारिणः
भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति जनानपि ॥ २.४९.६३ ॥
संसारजसुखासक्तं ब्रह्मज्ञोऽस्मीतिवादिनम्
कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ॥ २.४९.६४ ॥
गृहारण्यसमा लोके गतव्रीडा दिगम्बराः
चरन्ति गर्दभाद्याश्च विरक्तास्ते भवन्ति किम् ॥ २.४९.६५ ॥
मृद्भस्मोद्धूलनादेव मुक्ताः स्युर्यदि मानवाः
मृद्भस्मवासी नित्यं श्वा स किं मुक्तो भविष्यति ॥ २.४९.६६ ॥
तृणपर्णोदकाहाराः सततं वनवासिनः
जम्बूकाखुमृगाद्याश्च तापसास्ते भवन्ति किम् ॥ २.४९.६७ ॥
आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः
मण्डूकमत्स्यप्रमुखा योगिनस्ते भवन्ति किम् ॥ २.४९.६८ ॥
पारावताः शिलाहाराः कदाचिदपि चातकाः
न पिबन्ति महीतोयं व्रतिनस्ते भवन्ति किम् ॥ २.४९.६९ ॥
तस्मान्नित्यादिकं कर्म लोकरञ्जनकारकम्
मोक्षस्य कारणं साक्षातत्त्वज्ञान खगेश्वर ॥ २.४९.७० ॥
षर्ड्शनमहाकूपे पतिताः पशवः खग
परमार्थं न जानन्ति पशुपाशनियन्त्रिताः ॥ २.४९.७१ ॥
वेदशास्त्रार्णवैर्घेरैरुह्यमाना इतस्ततः
षडूर्मिनिग्रहग्रस्तास्तिष्ठन्ति हि कुतार्किकाः ॥ २.४९.७२ ॥
वेदागमपुराणज्ञः परमार्थं न वेत्ति यः
विडम्बकस्य तस्यैव तत्सर्वं काकभाषितम् ॥ २.४९.७३ ॥
इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः
पठन्त्यहर्निशं शास्त्रं परतत्त्वपराङ्मुखाः ॥ २.४९.७४ ॥
वाक्यच्छन्दोनिबन्धेन काव्यालङ्कारशोभिताः
चिन्तया दुःखिता मूढास्तिष्ठन्ति व्याकुलेन्द्रियाः ॥ २.४९.७५ ॥
अन्यथा परमं तत्त्वं जनाः क्लिश्यन्ति चान्यथा
अन्यथा शास्त्रसद्भावो व्याख्यां कुर्वन्ति चान्यथा ॥ २.४९.७६ ॥
कथयन्त्युवन्मनीभावं स्वयं नानुभवन्ति च
अहङ्कारस्ताः केचिदुपदेशादिवार्जिताः ॥ २.४९.७७ ॥
पठन्ति वेदशास्त्राणि बोधयन्ति परस्परम्
न जानन्ति परं तत्त्वं दर्वी पाकरसं यथा ॥ २.४९.७८ ॥
शिरो वहति पुष्पाणि गन्धं जानाति नासिका
पठन्ति वेदशास्त्राणि दुर्लभो भावबोधकः ॥ २.४९.७९ ॥
तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु मुह्यति
गोपः कक्षागते च्छागे कूपं पश्यति दुर्मतिः ॥ २.४९.८० ॥
संसारमोहनाशाय शाब्दबोधो न हि क्षमः
न निवर्तेत तिमिरं कदाचिद्दीपवार्तया ॥ २.४९.८१ ॥
प्रज्ञाहीनस्य पठनं यथान्धस्य च दर्पणम्
अतः प्रज्ञावतां शास्त्रं तत्त्वज्ञानस्य लक्षणम् ॥ २.४९.८२ ॥
इदं ज्ञानमिदं ज्ञेयं सर्वन्तु श्रोतुमिच्छति
दिव्यवर्षसहस्राच्च शास्त्रान्तं नैव गच्छति ॥ २.४९.८३ ॥
अनेकानि च शास्त्राणि स्वल्पायुर्विघ्नकोटयः
तस्मात्सारं विजानीयात्क्षीरं हंस इवाम्भसि ॥ २.४९.८४ ॥
अभ्यस्य वेदशास्त्राणि तत्त्वं ज्ञात्वाथ बुद्भिमान्
पलालमिव धान्यार्थी सर्वशास्त्राणि सन्त्यजेत् ॥ २.४९.८५ ॥
यथामृतेन तृप्तस्य नाहारेण प्रयोजनम्
तत्त्वज्ञस्य तथा तार्क्ष्य न शास्त्रेण प्रयोजनम् ॥ २.४९.८६ ॥
न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि
ज्ञानादेव हि कैवल्यं नान्यथा विनतात्मजः ॥ २.४९.८७ ॥
नाश्रमः कारणं मुक्तेर्दर्शनानि न कारणम्
तथैव सर्वकर्माणि ज्ञानमेव हि कारणम् ॥ २.४९.८८ ॥
मुक्तिदा गुरुवागेका विद्याः सर्वा विडम्बिकाः
शास्त्रभारसहस्रेषु ह्येकं सञ्जीवनं परम् ॥ २.४९.८९ ॥
अद्वैतं हि शिवं प्रोक्तं क्रिययापरिवर्जितम्
गुरुवक्त्रेण लभ्येत नाधीतागमकोटिभिः ॥ २.४९.९० ॥
आगमोक्तं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते
शब्दव्रह्मागममयं परं ब्रह्म विवेकजम् ॥ २.४९.९१ ॥
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे
समं तत्त्वं न जानन्ति द्वैताद्द्वैतविवर्जितम् ॥ २.४९.९२ ॥
द्वे पदे बन्धमोक्षाय नममेति ममेति च
ममेति बध्यते जन्तुर्नममेति प्रमुच्यते ॥ २.४९.९३ ॥
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तिदा
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ २.४९.९४ ॥
यावत्कर्माणि दीप्यन्ते यावत्संसारवासना
यावदिन्द्रियचापल्यं तावत्तत्त्वकथा कुतः ॥ २.४९.९५ ॥
यावद्देहाभिमानश्च ममता यावदेव हि
यावत्प्रयत्नवेगोऽस्ति यावत्संकल्पकल्पना ॥ २.४९.९६ ॥
यावन्नो मनसः स्थैर्यं न यावच्छास्त्रचिन्तनम्
यावन्न गुरुकारुण्यं तावत्तत्त्वकथा कुतः ॥ २.४९.९७ ॥
तावत्तपो व्रतं तीर्थं जपहोमार्चनादिकम्
वेदशास्त्रागमकथा यावत्तत्त्वं न विन्दति ॥ २.४९.९८ ॥
तस्मात्सर्वप्रयत्नेन सर्वावस्थासु सर्वदा
तत्त्वनिष्ठो भवेत्तार्क्ष्य यदीच्छेन्मोक्षमात्मनः ॥ २.४९.९९ ॥
धर्मज्ञानप्रसूनस्य स्वर्गमोक्षफलस्य च
तापत्रयादिसन्तप्तश्छायां मोक्षतरोः श्रयेत् ॥ २.४९.१०० ॥
तस्माज्ज्ञानेनात्मतत्त्वं विज्ञेयं श्रीगुरोर्मुखात्
सुखेन मुच्यते जन्तुर्घोरसंसारबन्धनात् ॥ २.४९.१०१ ॥
तत्त्वज्ञस्यान्तिमं कृत्यं शृणु वक्ष्यामि तेऽधुना
येन मोक्षमवाप्नोति ब्रह्म निर्वाणसंज्ञकम् ॥ २.४९.१०२ ॥
अन्तकाले तु पुरुष आगते गतसाध्वसः
छिन्द्यादसंगशस्त्रेण स्पृहां देहेऽनु या च तम् ॥ २.४९.१०३ ॥
गृहात्प्रव्राजितो धीरः पुण्यतीर्थजलाप्लुतः
शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥ २.४९.१०४ ॥
अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम्
मनो यष्छेज्जितश्वासो ब्रह्म बीजमविस्मरन् ॥ २.४९.१०५ ॥
नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धि सारथिः
मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ २.४९.१०६ ॥
अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम्
एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले ॥ २.४९.१०७ ॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ २.४९.१०८ ॥
न यत्र दाम्भिका यान्ति ज्ञानवैराग्यवर्जिताः
सुधियस्तां गतिं यान्ति तानहं कथयामि ते ॥ २.४९.१०९ ॥
निर्मानमोहा जितसंगदोषा अध्यात्मनित्या विनिवृत्तकामाः
द्वन्द्वैर्विमुक्ताः सुखदुः खसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ २.४९.११० ॥
ज्ञानह्रदे सत्यजले रागद्वेषमलापहे
यः स्नाति मानसे तीर्थे स वै मोक्षमवाप्नुयात् ॥ २.४९.१११ ॥
प्रौढवैराग्यमास्थाय भजते मामनन्यभाक्
पूर्णदृष्टिः प्रसन्नात्मा स वै मोक्षमवाप्नुयात् ॥ २.४९.११२ ॥
त्यक्त्वा गृहं च यस्तीर्थे निवसेन्मरणोत्सुकः
मुक्तिक्षेत्रेषु म्रियते स वै मोक्षमवाप्नुयात् ॥ २.४९.११३ ॥
अयोध्या मथुरा माया काशी काञ्ची अवन्तिक
पुरी द्वारवती ज्ञेयाः सप्तैता मोक्षदायिकाः ॥ २.४९.११४ ॥
इति ते कथितं तार्क्ष्य मोक्षधर्मं सनातनम्
ज्ञानवैराग्यसहितं श्रुत्वा मोक्षमवाप्नुयात् ॥ २.४९.११५ ॥
मोक्षं गच्छन्ति तत्त्वज्ञा धार्मिकाः स्वर्गतिं नराः
पापिनो दुर्गतिं यान्ति संसरन्ति खगादयः ॥ २.४९.११६ ॥
सूत उवाच [SUTA SAID]
स्वप्रश्रोत्तरराद्धान्तमेवं भगवतो मुखात्
श्रुत्वा हृष्टतनुस्तार्क्ष्यो ननाम जगदीश्वरम् ॥ २.४९.११७ ॥
सन्देहो मे महान्नष्टो भवद्वाक्यविरोचनात्
इत्युक्त्वा विष्णुमामन्त्र्य स गतः कश्यपाश्रमम् ॥ २.४९.११८ ॥
सद्यो देहान्तरं याति यथा याति विलम्बतः
अनयोरुभयोश्चैव न विरोधस्तथैव वः ॥ २.४९.११९ ॥
सर्वमाख्यातवांस्तात श्रुतो भगवतो यथा
मारीचोऽपि मुदं लेभे श्रुत्वा वाक्यं रमापतेः ॥ २.४९.१२० ॥
अपाकृतस्तु सन्देहो ब्राह्मणा भवतां मया
उक्तं सुपर्णसंज्ञन्तु पुराणं परमाद्भुतम् ॥ २.४९.१२१ ॥
इदमाप हरेस्तार्क्ष्यस्तार्क्ष्यादाप ततो भृगुः
भृगोर्वसिष्ठः संप्राप वामदेवस्ततः पुनः ॥ २.४९.१२२ ॥
पराशरमुनिः प्राप तस्माद्व्यासस्ततो ह्यहम्
मया तु भवतां प्रोक्तं परं गुह्यं हरेरिदम् ॥ २.४९.१२३ ॥
य इदं शृणुयान्मर्त्यो यो वाप्यभिदधाति च
इहामुत्र च लोके स सर्वत्र सुखमाप्नुयात् ॥ २.४९.१२४ ॥
व्रजतः संयमन्यां यद्दुः खमत्र निरूपितम्
अस्य श्रवणतः पुण्यं तन्मुक्तो जायते ततः ॥ २.४९.१२५ ॥
अत्रोक्तकर्मपाकादिश्रवणाच्च नृणामिह
वैराग्यमावहेद्यस्मात्तस्माच्छ्रोतव्यमेव च ॥ २.४९.१२६ ॥
भजत जितहृषीकाः कृष्णमेनं मुनीशं समजनि बत यस्माद्गीः सुधासारधारा
पृषतमपि यदीयं वर्णरूपं निपीय श्रुतिपुटचुलुकेन प्राप्नुयादात्मनैक्यम् ॥ २.४९.१२७ ॥
व्यास उवाच
इति सूतमुखोद्गीर्णांसर्वशास्त्रार्थमण्डिताम्
वैष्णवीं वाक्सुधां पीत्वा ऋषयस्तुष्टिमाययुः ॥ २.४९.१२८ ॥
प्रशशंसुस्तथान्योन्यं सूतं सर्वार्थदर्शिनम्
प्रहर्षमतुलं प्रापुर्मुनयः शौनकादयः ॥ २.४९.१२९ ॥
इति हरिवचनानि सूतवाचा खगपतिसंशयभेदकानि यानि
स मुनिरपि निशम्य शौनकेन्द्रो बहुतरमानयति स्म चात्मनि स्वम् ॥ २.४९.१३० ॥
अपूजयंस्ते मुनयस्तदानीमुदाखाग्भिर्मुहुरेव सूतम्
धन्योऽसि सूत त्वमिहेत्युदैरयन्व्यसर्जयंस्तं च निवर्तितेऽध्वरे ॥ २.४९.१३१ ॥पुराणं गारुडं पुण्यं पवित्रं पापनाशनम् ॥
शृण्वतां कामनापूरं श्रोतव्यं सर्वदैव हि ॥ २.४९.१३२ ॥
श्रुत्वा दानानि देयानि वाचकायाखिलानि च
पूर्वोक्तशयनादीनि नान्यथा सफलं भवेत् ॥ २.४९.१३३ ॥
पुराणं पूजयेत्पूर्वं वाचकं तदनन्तरम्
वस्त्रालङ्कारगोदानैर्दक्षिणाभिश्च सादरम् ॥ २.४९.१३४ ॥
अन्नदानैर्हेमदानैर्भमिदानैश्च भूरिभिः
पूजयेद्वाचकं भक्त्या बहुपुण्यफलाप्तये ॥ २.४९.१३५ ॥
यश्चेदं शृणुयान्मर्त्यो यथापि परिकीर्तयेत्
विहाय यातनां घोरां धूतपापो दिवं व्रजेत् ॥ २.४९.१३६ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे श्रीकृष्णगरुडसंवादे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे मोक्षोपायनिरूपणं नामैकोनपञ्चाशत्तमोऽध्यायः
इति श्रीगारुडे महापुराणे द्वितीयो धर्मकाण्डः समाप्तः