GARUR PURANAM-गरुड पुराणं
Home » Law Library Updates » Law Library » Sanskrit Documents » GARUR PURANAM-गरुड पुराणं » Page 3
श्रीगरुडमहापुराणम् [GARUR PURANAM]
अथ गारुडे ब्रह्मकाण्डस्तृतीय आरभ्यते
ओं मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनोऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः
मृत्युर्भोजपतेर्विधातृविहित स्तत्त्वं परं योगिनां वृष्णीनां च पतिः सदैव शुशुभे रङ्गेऽच्युतः साग्रजः ॥ ३.१.१ ॥
नमो नारायणायेति तस्मै वै मूलरूपिणे
नमस्कृत्य प्रवक्ष्यामि नारायणकथामिमाम् ॥ ३.१.२ ॥
शौनकाद्या महात्मानो ह्यृषयो ब्रह्मवादिनः
नैमिषाख्ये महापुण्ये तपस्तेपुर्महत्तरम् ॥ ३.१.३ ॥
जितेन्द्रिया जिताहाराः संतः सत्यपरायणाः
यजन्तः परया भक्त्या विष्णुमाद्यं जगद्गुरुम् ॥ ३.१.४ ॥
गृणन्तः परमं ब्रह्म जगच्चक्षुर्महौजसः
सर्वशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिष कानने ॥ ३.१.५ ॥
यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परम्
केचित्परमया भक्त्या नारायणमपूजयन् ॥ ३.१.६ ॥
एकदा तु महात्मानः समाजं चक्रुरुत्तमाः
धर्मार्थकाममोक्षाणामुपायं ज्ञातुमिच्छवः ॥ ३.१.७ ॥
षद्विंशतिसहस्राणि मुनीनामूर्ध्वरेतसाम्
तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शङ्क्यते ॥ ३.१.८ ॥
मुनयो भावितात्मानो मिलितास्ते महोजसः
लोकानुग्रहकर्तारो वीतरागा विमत्सराः ॥ ३.१.९ ॥
कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी
केन सिध्येत्तु सकलं कर्म त्रिविधमात्मनः ॥ ३.१.१० ॥
इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः
सांज लिर्वाक्यमाह स्म विनयावनतः सुधीः ॥ ३.१.११ ॥
शौनक उवाच
आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः
स एतदखिलं वेत्ति व्यासशिष्यो यतीश्वरः ॥ ३.१.१२ ॥
तस्मात्तमेव पृच्छाम इत्येवं शौनको मुनिः
अथ ते ऋषयो जग्मुः पुण्यं सिद्धाश्रमं ततः ॥ ३.१.१३ ॥
पप्रच्छुस्ते सुखासीनं नैमिषारण्यवासिनः
ऋषय ऊचुः
वयं त्वतिथयः प्राप्तास्त्वातिथेयोसि सुव्रत ॥ ३.१.१४ ॥
स्नानदानोपचारेण पूजयित्वा यथाविधि
केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ॥ ३.१.१५ ॥
मुक्तिसाधनभूतं च ब्रूहि तत्त्वविनिर्णयम्
सूत उवाच [SUTA SAID]
शृणुध्वमृष्यः सर्वे हरिं तत्त्वविनिर्णयम् ॥ ३.१.१६ ॥
नत्वा विष्णुं श्रियं वायुं भारतीं शेषसंज्ञकम्
द्वैपायनं गुरुं कृष्णं प्रवक्ष्यामि यथामति ॥ ३.१.१७ ॥
नास्ति नारायणसमं न भूतं न भविष्यति
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥ ३.१.१८ ॥
शौनक उवाच
किमर्थं नमनं विष्णोर्ग्रन्थादौ मुनिसत्तम
कर्तव्यं ब्रूहि मे ब्रह्मन्कृपया मम सुव्रत ॥ ३.१.१९ ॥
ततः श्रियं ततो वायुं भारतीं च ततः परम्
अन्ते व्यासं किमर्थं च त्वं नमस्कृतवानसि
सूतसूत महाभाग ब्रूहि कारणमत्र च ॥ ३.१.२० ॥
सूत उवाच [SUTA SAID]
आदौ वन्द्यः सर्ववेदैकवेद्यो वेदे शास्त्रे सेतिहासे पुराणे
सत्तां प्रायो विष्णुरेवैक एव प्रकाशतेऽतो नम्य एको हरिर्हि ॥ ३.१.२१ ॥
सर्वत्र मुख्यस्त्वधिकोन्यतोपि स एव नम्यो न च शङ्कराद्याः
नमन्ति येऽविनयाच्छङ्करं तु विनायकं चण्डिकां रेणुकां च ॥ ३.१.२२ ॥
तथा सूर्यं भैरवं मातारश्व तथा वाणीं गिरिजां वै श्रियं च
सर्वेपि ते वैष्णवा नैव लोके न तद्भक्ता वेति चार्या वदन्ति ॥ ३.१.२३ ॥
न पार्थिक्यान्नमनं कार्यमेव प्रीणन्ति नैता देवताः पूजनेन
पूजां गृहीत्वा देवताश्चैव सर्वाः किञ्चिद्दत्वा फलदानेन तांश्च ॥ ३.१.२४ ॥
संतर्प्य तुष्टैः स्वमनोनु सारात्तैः कारितां काम्यपूजां तथैव
निवेदयित्वा परदेवतायां विष्णौ हरौ श्रीपुरुषादिवन्द्ये ॥ ३.१.२५ ॥
इहापरत्रापि सुखेतराणि दास्यन्ति पश्चादधरं वै तमश्च
अतो ह्येते नैव पूज्या न नम्या मोक्षेच्छुभिर्ब्राह्मणाद्यैर्द्विजेन्द्र ॥ ३.१.२६ ॥
तथैव सर्वाश्रमिभिश्च नित्यं महाविपत्तावपि विप्रवर्याः
श्रीकाम्य या ये तु भजन्ति नित्यं श्रीब्रह्मरुद्रेद्रयमादिदेवान् ॥ ३.१.२७ ॥
इहेव भुञ्जन्ति महच्च दुः खं महापदः कुष्ठभगन्दरादीन्
नमन्ति येऽवैष्णवान्ब्रह्मरुद्रवायु प्रतीकान्नैव ते विष्णुभक्ताः ॥ ३.१.२८ ॥
अभिप्रायं त्वत्र वक्ष्ये मुनीन्द्राः परं गोप्यं हृदि धार्यं हि तद्धि
वायोः प्रतीकं पूज्यमेवेह विप्रा न ब्रह्मरुद्रादिप्रतीकमेव ॥ ३.१.२९ ॥
पूजाकाले देवदेवस्य विष्णोर्वायोः प्रतीकं योग्यभागे निधाय
अन्तर्गतं तस्य वायोर्हरिं च लक्ष्मीपतिं पूजयित्वा हि सम्यक् ॥ ३.१.३० ॥
पश्चाद्वायोः सुप्रतीकं च सम्यङ्निर्माल्यशेषेण हरेः समर्चयेत्
पृथक्च स्रग्धूपविलेपनादिपूजां प्रकुर्वन्ति च ये विमूढः ॥ ३.१.३१ ॥
तेषां दुः खमिह लोके परत्र भविष्यते नात्र विचार्यमस्ति
प्रायश्चित्तं स्वस्ति विप्राः कथञ्चित्तत्कुर्वन्तु स्मरणं नाम विष्णोः ॥ ३.१.३२ ॥
पाषण्डरुद्रादिकसं प्रतिष्ठितान्हरेर्वायोः शङ्करस्य प्रतीकान्
नमन्ति ये फलबुद्ध्या विभूढास्तेषां फलं शाश्वतं दुः खमेव ॥ ३.१.३३ ॥
वायोः प्रतीकं यदि विप्रवर्यैः प्रतिष्ठितं चेन्नमनं हि कार्यम्
नैवेद्यशेषेण हरेश्च विष्णोः पूजा कृता चेन्न हि दोषलेशः ॥ ३.१.३४ ॥
गुरुर्हि मुख्यो हनुमज्जनिर्महान्रामाङ्घ्रिभक्तो हनुमान्सदैव
एवं विदित्वा परमं हरिं च पुत्रं पुनर्मुख्यदेवस्य वायोः ॥ ३.१.३५ ॥
नमस्कारो नान्यथा विप्रवर्या आधीयतां हृदि सर्वै रहस्यमम्
ये वैष्णवा वैष्ण वदासभृत्याः सर्वेपि ते सर्वदा विष्णुमेव ॥ ३.१.३६
नमन्ति ये वै प्रतिपादयन्ति तथैव पुण्यानि च सात्त्विकानि
नमन्ति ये वासुदेवं हरिं च सम्यक्स्वशक्त्या प्रतिपादयन्ति ॥ ३.१.३७ ॥
प्रवृत्तिमार्गेण न पूजयन्ति ह्यापत्काले परदैवं तदन्यम्
ते वैष्णवा वैष्णवदासभृत्या अन्ये च सर्वेऽवैष्णवमात्रकाः स्मृताः ॥ ३.१.३८ ॥
उपक्रमैरुपसंहारस्य लिङ्गैर्हरिं गुरुं ह्यन्तरेणैव यान्ति
तानेवाहुः सत्पुराणानि विप्राः कलौ युगे नाभ्यसूयन्ति सर्वे ॥ ३.१.३९ ॥
यतो हितान्ये प्रतिपादयन्ति प्रवृत्तिधर्मान्स्वस्ववर्णानुरूपान्
अतो ह्यसूयन्ति सदा विमूढाः कलौ हि विप्राः प्रचुरा हि तेपि ॥ ३.१.४० ॥
न चास्ति विष्णोः सदृशं च दैवतं न चास्ति वायोः सदृशो गुरुश्च
न चास्ति तीर्थं सदृशं विष्णुपद्याः न विष्णुभक्तेन समोस्ति भक्तः ॥ ३.१.४१ ॥
अन्यानि विष्णोः प्रतिपादकानि सर्वाणि ते सात्त्विकानीति चाहुः
श्राव्याणि तान्येव मनुष्यलोके श्राव्याणि नान्यानि च दुः खदानि ॥ ३.१.४२ ॥
कलौ युगे सर्व पुराणमध्ये त्रीण्येव मुख्यानि हरिप्रियाणि
मुख्यं पुराणं हि कलौ नृणां च श्रेयस्करं भागवतं पुराणम् ॥ ३.१.४३ ॥
पूर्वं हि सृष्टिः प्रतिपाद्यते त्र यतो ह्यतो भागवतं परं स्मृतम्
यस्मिन्पुराणे कथयन्ति सृष्टिं ह्यादौ विष्णोर्ब्रह्मरुद्रादिकानाम् ॥ ३.१.४४ ॥
नानार्थमेवं कथयन्ति विप्र नीचोच्चरूपं ज्ञानमाहुर्महान्तः
तेनैव सिद्धं प्रवदन्ति सर्वं ह्यतः परं भागवतं पुराणम् ॥ ३.१.४५ ॥
ततः परं विष्णुपुराणमाहुस्ततः परं गारुडसंज्ञकं च
त्रीण्येव मुख्या नि कलौ नृणां तु तथा विशेषो गारुडे किञ्चिदस्ति ॥ ३.१.४६ ॥
शृणुध्वं वै तं विशेषं च विप्रास्त्र्यंशैर्युक्तं गारुडाख्यं पुराणम्
आद्यांशं वै कर्मकाण्डं वदन्ति द्वितीयांशं धर्मकाण्डं तमाहुः ॥ ३.१.४७ ॥
तृतीयांशं ब्रह्मकाण्डं वदन्ति तेषां मध्ये त्वन्तिमोयं वरिष्ठः
तृतीयांशश्रवणात्पुण्यमाहुस्तुल्यं पुण्यं भागवतस्य विप्राः ॥ ३.१.४८ ॥
तृतीयांशे पठिते वेदतुल्यं फलं भवेन्नात्र विचार्यमस्ति
तृतीयांशश्रवणादेव विप्राः फलं प्रोक्तं पठतोप्यर्थमेवम् ॥ ३.१.४९ ॥
तृतीयांशश्रवणादर्थतश्च पुण्यं चाहुः पठतो वै दशांशम्
ततो वरं मत्स्यपुराणमाहुस्ततो वरं कूर्मपूराणमाहुः ॥ ३.१.५० ॥
तथैव वै वायुपुराणमाहुस्त्रीण्येव चाहुः सात्त्विकानीति लोके
तत्रापि किञ्चिद्वेदितव्यं भवेच्च पुराणषट्के सत्त्वरूपे मुनीन्द्राः ॥ ३.१.५१ ॥
सत्त्वाधमे मात्स्यकौर्मे तथाहुर्वायु चाहुः सात्त्विकं मध्यमं च
विष्णोः पुराणं भागवतं पुराणं सत्त्वोत्तमं गारुडं चाहुरार्याः ॥ ३.१.५२ ॥
स्कान्दं पाद्मं वामनं वै वराहं तथाग्रेयं भविष्यं पर्वसृष्टौ
एतान्याहू राजसानीति विप्रास्तत्रैकदेशः सात्त्विकस्तामसश्च ॥ ३.१.५३ ॥
रजः प्राचुर्याद्राजसानीति च हुः श्राव्याणि नैतानि मुमुक्षुभिः सदा
तेषां मध्ये सात्त्विकांशाश्च संति तेषां श्रुतेर्गारुडीयं फलं च ॥ ३.१.५४ ॥
ब्रह्माण्डलैङ्ग्ये ब्रह्मवैवर्तकं वै मार्कंण्डेयं ब्राह्ममादित्यकं च
एतान्या हुस्तामसानीति विप्रास्तत्रैकदेशः सात्त्विको राजसश्च ॥ ३.१.५५ ॥
श्राव्याणि नैतानि मनुष्यलोके तत्त्वेच्छुभिस्तामसानीत्यतो हि
तेषु स्थिताः सात्त्विकांशा मुनीन्द्रास्तेषां श्रुतिर्गारुडैकाङ्घ्रितुल्या ॥ ३.१.५६ ॥
अल्पान्युपपुराणानि वदन्त्यष्टादशानि च
विष्णुधर्मोतरं चैव तन्त्रं भागवतं तथा ॥ ३.१.५७ ॥
तत्त्वसारं नारसिंहं वायुप्रोक्तं तथैव च
तथा हंसपुराणं च षडेतानि मुनीश्वराः ॥ ३.१.५८ ॥
सात्त्विकान्येव जानीध्वं प्रायशो नात्र संशयः
एतेषां श्रवणादेव गारुडार्धफलं श्रुतम् ॥ ३.१.५९ ॥
भविष्योत्तरनामानं बृहन्नारदमेव च
यमनारदसंवादं लघुनारदमेव च ॥ ३.१.६० ॥
विनायकपुराणं च बृहद्ब्रह्माण्डमेव च
एतानि राजसान्याहुः श्रवणाद्भुक्तरुत्तमा ॥ ३.१.६१ ॥
गारुडात्पादतुल्यं च फलं चाहुर्मनीषिणः
पुराणं भागवतं शैवं नन्दिप्रोक्तं तथैव च ॥ ३.१.६२ ॥
पाशुपत्यं रैणुकं च भैरवं च तथैव च
एतानि तामसान्याहुर्हरितत्त्वार्थवेदिनः ॥ ३.१.६३ ॥
एतेषां श्रवणाद्विप्रागारुडाङ्घ्यर्ध्मेव च
सर्वेष्वपि पुराणेषु श्रेष्ठं भागवतं स्मृतम् ॥ ३.१.६४ ॥
वेदैस्तुल्य सम पाठे श्रवणे च तदर्धकम्
अर्थतः श्रवणे चास्य पुण्यं दशगुणं स्मृतम् ॥ ३.१.६५ ॥
वक्तुः स्याद्द्विगुणं पुण्यं व्याख्यातुश्च तथाधिकम्
अनन्तवेदैःसाम्यमाहुर्महान्तः भारान्महत्त्वाद्भारतस्यापि विप्राः ॥ ३.१.६६ ॥
वेदोभ्योस्य त्वर्थतश्चाधिकत्वं वदन्ति बै विष्णुरहस्यवेदिनः ॥ ३.१.६७ ॥
तत्र श्रेष्ठां गीतिकामाहुरार्यास्तथैव विष्णोर्नामसाहस्रक च
तयोस्तत्र श्रवणाद्भारतस्य दशाधिकं फलमाहुर्महान्तः ॥ ३.१.६८ ॥
दैत्याः सर्व विप्रकुलेषु भूत्वा कृते युगे भारते षट्सहस्र्याम्
निष्कास्य कांश्चिन्नवनिर्मितानां निवेशनं तत्र कुर्वन्ति नित्यम् ॥ ३.१.६९ ॥
मत्वा हरिं भगवान्व्यासरूपी चक्रे तदा भागवतं पुराणम्
तथा समाख्याय च वैष्णवं तत्ततः परं गारुडाख्यं स चक्रे ॥ ३.१.७० ॥
अतो हि गारुडं मुख्यं पुराणं शास्त्रसंमतम्
गारुडेन समं नास्ति विष्णुधर्मप्रदर्शने ॥ ३.१.७१ ॥
यथा सुराणां प्रवरो जनार्दनो यथायुधानां प्रवरः सुदर्शनम्
यथाश्वमेधः प्रवरः क्रतूनां छिन्नेषु भक्तेषु तथैव रुद्रः ॥ ३.१.७२ ॥
नदीषु गङ्गा जलजेषु पद्ममच्छिन्नभक्तेषु तथैव वायुः
तथा पुराणेषु च गारुडं च मुख्यं तदाहुर्हरितत्त्वदर्शने ॥ ३.१.७३ ॥
गारुडाख्यपुराणे तु प्रतिपाद्यो हरिः स्मृतः
अतो हरिर्नमस्कार्यो गम्यो योग्यो हरिः स्मृतः ॥ ३.१.७४ ॥
भाग्यात्मकत्वाच्छ्रीदेव्या नमनं नदनु स्मृतम्
परो नरोत्तमो वा स साधकेशोपि च स्मृतः ॥ ३.१.७५ ॥
अतो नम्यो वायुरपि पुराणादौ द्विजोत्तमाः
भारती वाक्यरूपत्वान्नम्या वायोरनन्तरम् ॥ ३.१.७६ ॥
उपसाधको नरः प्रोक्तो यतोतस्तदनन्तरम्
नम्य इत्यच्यते सद्भिस्तारतम्येन सर्वदा ॥ ३.१.७७ ॥
अतो व्यासं नमस्कुर्याद्ग्रन्थकर्तृत्वहेतुतः
शौनक उवाच
व्यासस्य नमनं ह्यन्ते कथं कार्यं महात्मनः ॥ ३.१.७८ ॥
अन्ते च वन्दने तस्य कारणं ब्रूहि सुव्रत
सूत उवाच [SUTA SAID]
विष्णोरनन्तरं व्यासनमनं मुख्यमेव हि ॥ ३.१.७९ ॥
हरिरेव यतो व्यासो वाच्यचक्रस्वरूपकः
व्यासो नैव समत्वेन प्रोक्तो भगवतो हरेः ॥ ३.१.८० ॥
तत्रापि कारणं वक्ष्ये सादरेण मुनीश्वराः
व्यासस्तु कश्चन ऋषिः पुराणे तामसे स्मृतः ॥ ३.१.८१ ॥
इति ज्ञाना वलंबेन दैत्या दैत्यानुगैः समाः
प्रविशन्ति ह्यन्धतम इति त्वन्ते नमस्कृतः ॥ ३.१.८२ ॥
यदिदं परमं गोप्यं हृदि धार्यं न संशयः
पराणां नम्यमेवोक्तं प्रतिपाद्यं यतोत्र हि ॥ ३.१.८३ ॥
समासव्यासभावाद्धि पराणां तत्प्रतीयते
वास्तवं तं न जानीयुरुपजीव्यो यतो हरिः ॥ ३.१.८४ ॥
हरिर्व्यासस्त्वेक एव व्यासस्तु हरिवत्स्मृतः
उपजीव्यतदीशत्वे तयोरेव न संशयः ॥ ३.१.८५ ॥
ईशकोटिप्रविष्टत्वाच्छ्रियः स्वामित्वमीरितम्
त्रयाणामुपजीव्यत्वात्सेव्यत्वात्स्वामिता स्मृताः ॥ ३.१.८६ ॥
वाय्वादीनां त्रयाणां च सेव्यत्वात्सेव्यता स्मृता
भूभारहरणे विष्णोः प्रधानाङ्गं हि मारुतिः ॥ ३.१.८७ ॥
वाक्यरूपा भारती तु द्वितीयाङ्गं हि सा स्मृता
तृतीयाङ्ग हरेः शेषो न नम्याः साम्यतो हरेः ॥ ३.१.८८ ॥
प्रतिपाद्या मुख्यतया नम्या एव समीरिताः
अवान्तराश्च वाय्वाद्या न नम्यास्तेन ते स्मृताः ॥ ३.१.८९ ॥
भीष्मद्रोणादिनामानि भीमादिष्वेव मुख्यतः
वाचकानि यतो नित्यं तन्नम्यास्ते मुनीश्वराः ॥ ३.१.९० ॥
पराणामेव नम्यत्वं प्रतिपाद्यत्वमेव हि
एतत्सर्वं मयाख्यातं किमन्यच्छ्रोतुमिच्छथ ॥ ३.१.९१ ॥
इति श्रीगारुडे महापुराणे सूतशौनकसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे सात्त्विकादिपुराणविभागनम्यानम्यदेवविभागादिविषयनिरूपणं नाम प्रथमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २
श्रीशौनक उवाच
कथं ससर्ज भगवांस्तत्तत्तत्त्वाभिमानिनः
सृष्टिक्रमं न जानामि देवानां ह्यन्तरं मुने ॥ ३.२.१ ॥
शौनकेनैव मुक्तस्तु सूतो वचनमब्रवीत्
शूत उवाच
सम्यग्व्यवसिता बुद्धिस्तव ब्रह्मर्षिसत्तम ॥ ३.२.२ ॥
एवमेव कृतः प्रश्रो हरौ तु गरुडेन वै
यदुक्तवान्हरिस्तस्मैतद्वक्ष्यामि तवानघ
गरुड उवाच
सृष्टिं व्रूहि महाभाग सच्चिदानन्दविग्रह ॥ ३.२.३ ॥
सृष्टौ ज्ञाते तवोत्कर्षो ज्ञातप्रायो भविष्यति
ब्रह्मादीनां तारतम्यज्ञानं मम भविष्यति ॥ ३.२.४ ॥
मोक्षोपायम्यः स वोक्त मिततरत्तस्य साधनम्
गरुडेनैव मुक्तस्तु कृष्णो वचनमब्रवीत् ॥ ३.२.५ ॥
शृकृष्ण उवाच मूलरूपे ह्यतो ज्ञेयो विष्णुत्वाद्विष्णुरव्ययः ॥ ३.२.६ ॥
अवतारमिदं प्रोक्तं पूर्णत्वादेव सुव्रत
अनेको ह्येकतां प्राप्य संशेते प्रलयाय वै ॥ ३.२.७ ॥
तत्रापि च विशेषोस्ति ज्ञातव्यं तत्वमेव सः ॥ ३.२.८ ॥
भेदेन दर्शनाद्वापि भेदाभेदेन दर्शनात्
विष्णोर्गुणानां रूपाणां तदङ्गानां सुखादिनाम्
तत्रैव दशनाद्वापि क्षिप्रमेव तमो व्रजेत् ॥ ३.२.९ ॥
पुरुषान्तरमारभ्य कल्पिता ये द्विजोत्तम
हरिरूपास्तु ते ज्ञेया एकीभूता हि तेन ते ॥ ३.२.१० ॥
प्रलेय समनुप्राप्ते जीवाः स यान्ति मामकाः
विराजृपे हरेः संति तदा ते च ह्यनेकधा ॥ ३.२.११ ॥
एकीभावं प्राप्नुवन्ति मूलेन प्रलये द्विज
बिंबेन तु स्वयं विष्णुरेकीभावं व्रजेद्यदि ॥ ३.२.१२ ॥
प्रतिबिंबः कथं जीवो भवेन्नारायणस्य च
तदधीनस्तत्सदृशो हरेर्जीवो न संशयः ॥ ३.२.१३ ॥
प्रतिबिंबस्य शब्दार्थो ह्ययमेवमुदाहृतः
तस्माच्च बिंबरूपाणामेकीभावं न चिन्तयेत् ॥ ३.२.१४ ॥
कृष्णरामादिवच्चैव त्वेकी भावो विवक्षितः
बिंबानां मूलरूपस्य भेदो नात्र विवक्षितः ॥ ३.२.१५ ॥
तत्रापि च विशेषोस्ति ज्ञातव्यस्तत्त्वमिच्छुभिः
एकांशेन तु बिंबैस्तु चैकीभावं व्रजन्ति ते ॥ ३.२.१६ ॥
एकांशेन तु जीवत्वे संस्थिता नात्र संशयः
बिंबमूलं न जानन्ति ते जना ह्यसुराः स्मृताः ॥ ३.२.१७ ॥
एक एव हरिः पूर्वं ह्यविद्यावशतः स्वयम्
अनेको भवति ह्यारादादर्शप्रतिर्बिबवत् ॥ ३.२.१८ ॥
एवं वदन्ति ये मूढा स्तेपि यान्त्यधरं तमः
उपाधिर्द्विविधः प्रोक्तः स्वरूपो बाह्य एव च ॥ ३.२.१९ ॥
बाह्योपाधिर्लये याति मुक्तावन्यस्य संश्थितिः
सर्वोपाधिवि नाशे हि प्रतिबिंबः कथं भवेत् ॥ ३.२.२० ॥
चिद्रूपाख्यो ह्युपाधिस्तु मोक्षे येप्यधिकारिणः
दुः खरूपो ह्युपाधिस्तु तमसो येधिकारिणः ॥ ३.२.२१ ॥
मिश्ररूपो ह्युपाधिस्तु नित्यसंसारिणां मतः
बाह्योपाधिर्लिङ्गदेहः सर्वेषां नात्र संशयः ॥ ३.२.२२ ॥
दैत्याः दुः खायते यस्मात्तस्मादुः खी हरिः स्वयम्
तत्तद्दुः खस्वरूपत्वाद्दैत्यानां बिंबरूपकः ॥ ३.२.२३ ॥
दैत्यस्थितानां बिंबानां मूलरूपस्य वै प्रभोः
परस्परं तथा भेदं ह्यन्तरं वा न चिन्तयेत् ॥ ३.२.२४ ॥
श्रीभूदुर्गादिरूपाणां तथा सीतादिरूपिणाम्
अन्योन्यं नाणुमात्रं च भेदो बाह्यान्तरेपि च ॥ ३.२.२५ ॥
चिन्तनीयः कथमपि ज्ञात्वा यान्त्यधरं तमः
प्रतिबिंबस्थितो बिंबः स्त्रीरूपो ह्यस्ति सर्वदा ॥ ३.२.२६ ॥
प्रलये समनुप्राप्ते लक्ष्म्या सह खगोत्तम
एकीभावं नाप्नुवन्ति विंबेन सह संस्थिताः ॥ ३.२.२७ ॥
बिंवस्थितानां रूपाणां लक्ष्म्याश्च विनतासुत
भेदस्तु नाणुमात्रं च शङ्कनीयः कथञ्चन ॥ ३.२.२८ ॥
यदा हि शेते प्रलयार्णवे विभुर्जीवांश्च सर्वानुदरे निवेश्य
मुक्तांश्च ब्रह्मेन्द्रमरुद्गणादीन्प्रात्पव्यमुक्तींश्च सुतौ? च संस्थितान् ॥ ३.२.२९ ॥
प्राप्तान्धकूपादिसमस्तजीवांस्तथैव प्राप्तव्यकलीनथापरान्
तथैव नित्यं सृतिसंस्थिताञ्जनानचेतनानृक्षरूपादिजीवान् ॥ ३.२.३० ॥
एवं जनाञ्जठरे संनिधाय सम्यकूशेते ह्यंभसि वै स कल्पे
लक्ष्मीस्तु सा सर्ववेदात्मिका च भक्त्या हरौ नित्यसंवर्धितापि ॥ ३.२.३१ ॥
अत्यादरं दर्शयतीव सा तु ईडे विष्णुं भक्तिसंवर्धितापि
चेष्टादिरूपेण तदा न किञ्चिदासीद्विना विष्णुमथ श्रियं च ॥ ३.२.३२ ॥
पर्यङ्करूपेण वभूव देवी वासस्वरूपेण रमा विरेजे
सर्वं रमा सैव तदैव चासीत्सैका देवी बहुरूपा बभाषे ॥ ३.२.३३ ॥
त्वमुत्कृष्टः सर्वदेवोत्तमत्वान्न त्वत्समः कश्चिदेवाधिको वा
त्वं ब्रह्म एको न चतुर्मुखश्च नाहं रुद्रो न बृहस्पतिश्च ॥ ३.२.३४ ॥
विष्णावेव ब्रह्मशब्दो हि मुख्यो ह्यन्येष्वमुख्यो ब्रह्मरुद्रादिकेषु
अनन्तगुणपूर्णत्वाद्ब्रह्मेति हरिरुच्यते ॥ ३.२.३५ ॥
गुणादिपूर्णताभावान्नान्ये ब्रह्मेत्युदाहृताः
देशानन्त्यं गुणतः कालतो वा नास्त्यानन्त्यं क्वापि देशे च काले ॥ ३.२.३६ ॥
यदा नन्त्यं किमु वक्तव्यमत्र गुणानन्त्यं नास्ति ब्रह्मादिकेषु
यद्यप्यहं देशतः कालतश्च समस्तदा वासुदेवेन सार्धम् ॥ ३.२.३७ ॥
तथापि मे गुणतो नास्त्यनन्तं ततो धर्मा गुणतोनन्ततश्च
संति श्रुतावविरुद्धाश्च देवे चिन्त्या ह्यचिन्त्या बहुधा ते ह्यनन्ताः ॥ ३.२.३८ ॥
अतो गुणांस्तव देवस्य विष्णो स्तोतुं सदा स्मो न हरेः कदापि
नाहं न केशौ न च गीर्न रुद्रो न दक्षकन्या न च मेनकासुता ॥ ३.२.३९ ॥
न वै बिडौजा न च वा पुलोमजा न चेध्मवाहो न यमो न चान्यः
न नारदो नापि भृगुर्वसिष्ठो न विघ्नपो नापि बल्यादयश्च ॥ ३.२.४० ॥
न वै विराटो नापि भीमः शनिश्च न पुष्करो न कशेरुस्तथैव
न किन्नराः पितरो नैव देवा गन्धर्वमुख्या नापि वा तुष्यसंज्ञाः ॥ ३.२.४१ ॥
न वै क्षितीशा न च मानुषाश्च विष्णोर्न जानन्ति किमत्र चान्ये
मत्तोधमः कोचिगुणेन ब्रह्मा समो हि तस्य ब्रह्मणो मातरिश्व ॥ ३.२.४२ ॥
तौ वै विरागे हरिभक्तिभावे धृतिस्तितिप्राणबलेषुयोगे
बुद्धौ समानौ संसृतौ मोक्षकाले परस्पराधारसमन्वितौ च ॥ ३.२.४३ ॥
अन्नाभिमानं ब्रह्म चाहुर्मुरारिं जीवाभिमानं वायुमाहुर्महान्तः
न शक्तोसौ ब्रह्मदेवो विवस्तुं वायुं विना संसृतावेव नित्यम् ॥ ३.२.४४ ॥
न तं विना मातरिश्वा च वस्तुमन्योन्यमाप्तिः कालतो न्यूनता च
यदा महत्तत्त्वनि यामकोभूद्ब्रह्माण्डान्तस्थूलसृष्टौ महात्मा ॥ ३.२.४५ ॥
तदा वायुर्नाशकद्वै महात्मा बाह्ये सृष्टौ कालभेदेन चास्ति
सरस्वती भारती ब्रह्मणस्तु संवत्सरानन्तरं संबभूव ॥ ३.२.४६ ॥
यदा दशाब्दाः समतीता महात्मा तदा वायुः समभूल्लोकपूज्यः
किञ्चिन्न्यूनत्वं स्थूलसृष्टौ महात्मन्नैतावता वानयोः सौम्यहानिः ॥ ३.२.४७ ॥
सरस्वती वत्सरात्संबभूव ह्यनन्तरं ब्रह्मणो जन्मकालात्
गिरः सकाशात्कालतो न्यूनतास्ति वायोस्तदा ह्यधमत्त्वे क्षतिः का ॥ ३.२.४८ ॥
वायोरनन्तरं वाणी ह्यभूत्संवत्सरात्परम्
यावत्पश्चाज्जनिस्तावत्पूर्वदेहक्षयो भवेत् ॥ ३.२.४९ ॥
शेषस्त्विन्द्रो रुद्र एते त्रयश्च समा ह्येते ज्ञानबलादिकेष्वपि तथापि तेषां कालतो न्यूनतास्ति कालोपि तेषां द्विव्येसहस्रवर्षम् ॥ ३.२.५० ॥
अनन्तरुद्रो ब्रह्मवायू यथा वा तथा ज्ञेयो नैव हानिः स्वरूपे
स्थूलस्य सृष्टौ बाह्यसृष्टौ महात्मन्कालान्न्यूनत्वं स मया नैव चिन्त्यः ॥ ३.२.५१ ॥
तेषां सकाशाद्वारुणी पार्वती च सौपर्णीनाम्नी तिस्त्र एता महात्मन्
दशाब्देभ्योनन्तरं संबभूवुः सरस्वती भारतीवच्च बोध्या ॥ ३.२.५२ ॥
इन्द्रो वरो रुद्रभार्यादिकेभ्य एवं ज्ञानं सर्वदा देह्यमन्दम्
एवं ज्ञानं यस्य भवेच्च लोके स वै ज्ञानी वेदवेद्यः स एव ॥ ३.२.५३ ॥
न वै ज्ञानीत्यन्तरं यो न वेद स वेदवादी न च वेदपाठकः ॥ ३.२.५४ ॥
वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः
तावन्ति हरिनामानि प्रियाणि च हरेःसदा ॥ ३.२.५५ ॥
मम स्वामी हरिर्नित्यं दासोहं सर्वदा हरेः
ब्रह्माद्या देवताः सर्वा गुरवो मे यथाक्रमम् ॥ ३.२.५६ ॥
एतेषां च हरिः स्वामी वेदे सर्वत्र गीयते
एवं जानंस्तु यो वेदान्संपठेत्स द्विजोत्तमः ॥ ३.२.५७ ॥
स वेदपाठको ज्ञेयस्तदन्ये वेदवादिनः
वेदभारभराक्रान्तः स वै ब्राह्मणगर्दभः ॥ ३.२.५८ ॥
ज्ञानाभिमानी वेदमानी उभौ तु परस्परं ह्यूचतुः सर्वदैव
जलं वेदो यत्र वासो मुरारेराचार्याणां संगदोषाद्द्विजानाम् ॥ ३.२.५९ ॥
महापराधाः संति लोके महात्मन्सहस्रशः शतशः कोटिशश्च
हरिश्च तान्क्षमते सर्वदैव नामत्रयस्मरणाद्वै कुपालुः ॥ ३.२.६० ॥
सर्वापराधाद्रहितं दानमानैर्युक्तं सदा तारतम्याच्च हीनम्
दृष्ट्वापराधं तस्य विष्णुर्महात्मा हाहाकारं कुरुते क्रोधबुद्ध्या ॥ ३.२.६१ ॥
उत्तिष्ठ गोविन्द सुवेदवेद्य सोव्यात्कृताख्यो मयि सम्यक्प्रसीद
भो केशवोत्तिष्ठ सुखस्वरूप सृष्टौ व्यये वर्तयितुं समर्थः ॥ ३.२.६२ ॥
सृष्ट्वा ब्रह्माणं प्रेरयेत्पूज्यसृष्टौ सृष्ट्वा रुद्रं प्रेरयेत्संहृतौ च
प्राप्तव्ययोग्यान्ब्रह्मशेषादिदेवान्दृष्ट्वादृष्ट्वा देहि मोक्षं च सम्यक् ॥ ३.२.६३ ॥
हरे मुरारे स्वापहीनाद्य तिष्ठ कल्पा दिकानन्तरज्ञान (रं बुद्धि) (जान) हीनात्
सम्यग्दृष्ट्वा कर्मदृष्ट्या महात्मल्लंब्धं तमो दाहि दुः खस्वरूपम् ॥ ३.२.६४ ॥
दैत्यादिकान्दुः खमतीन्ह यस्मात्तमस्यन्धेसर्वदा चित्स्वरूपी
तस्मादाहुर्दुः स्वरूपी हरिस्त्वं दुः खस्वरूपात्त्वं च दुः खी हरे त्वम् ॥ ३.२.६५ ॥
उत्तिष्ठ नारायण वासुदेव ह्युत्तिष्ठ कृष्णाच्युत माधवेति
उत्तिष्ठ वैकुण्ठ दयार्द्रमूर्ते उत्तिष्ठ लक्ष्मीश नमोनमस्ते ॥ ३.२.६६ ॥
उत्तिष्ठ मध्वेश सरस्वतीश उत्तिष्ठ रुद्रेश तथांबिकेश
उत्तिष्ठ चन्द्रेश तथा शचीश विप्रेश भक्तेश गवेश नित्यम् ॥ ३.२.६७ ॥
शास्त्रप्रियोत्तिष्ठ ऋचि प्रियस्त्वं यजुः प्रियोत्तिष्ठ निदानमूर्ते
सामप्रियस्त्वं च तथा मुरारे अथर्ववेदप्रिय सर्वदा त्वम् ॥ ३.२.६८ ॥
गद्यप्रियस्त्वं च पुराणमूर्ते स्तुतिप्रियोत्तिष्ठ विचित्रमूर्ते
सुगायनप्रीतिकरस्त्वमेव ह्युतिष्ठ शीघ्रं कमला पतिस्त्वम् ॥ ३.२.६९ ॥
एवं स्तुतो विष्णुरजः पुराणो ह्यतित्वरावानुत्थितो नित्यबद्धः ॥ ३.२.७० ॥
इति श्रीगारुडे महापुराणे कृष्णगरुडसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे ब्रह्माविष्णुमहेश्वरादिदेवतातारम्यनिरूपणं नाम द्वितीयोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ३
श्रीकृष्ण उवाच
बभूवेच्छा मम देवस्य विष्णोः स्रष्टुं सृज्यान्मोक्षयोग्यांश्च मोक्तुम्
इच्छाशक्तिः सर्वदैवास्ति विष्णोस्तथापि तद्व्याहरणं च लौकिकम् ॥ ३.३.१ ॥
तदा हरिर्जगृहे लौकिकं च तमः पानं तेन रूपेण चक्रे
तद्रूपमाहुः प्राकृतं वै तदज्ञा ह्यन्धं तमः प्रविशन्त्येव सर्वे ॥ ३.३.२ ॥
अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः
पूर्णं च तत्परं रूपं पूर्णात्पूर्णाः समुद्गताः ॥ ३.३.३ ॥
परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः
न देशकालसामर्थ्यात्पारावर्यं कथञ्चन ॥ ३.३.४ ॥
पूर्वरूपं च पूर्णं च पूर्णं पदवितारगम्?
रूपं तदात्मन्यादाय पूर्णमेवावशिष्यते ॥ ३.३.५ ॥
लौकिकव्यवहारोयं भूभारक्षपणादिकः
तस्य दृर्ष्टि विना नान्यो लयः कृष्णादिना क्वचित् ॥ ३.३.६ ॥
तत्त्वे पीडा न कर्तव्या तया दुः खानि विन्दति
अत्यन्तपीडनात्तस्य रोगस्तस्य न संशयः ॥ ३.३.७ ॥
ज्ञातव्यांशे तु पीडा तु कर्तव्या गुरुणा सह
तमन्तेवासिनं चाहुः स एव चु गुरुः स्मृतः ॥ ३.३.८ ॥
ये कुर्वन्ति हरेस्तत्त्वविचारं तु परस्परम्
तावेव गुरुशिष्यौ तु विनतानन्दसंयुत ॥ ३.३.९ ॥
गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना
हर्षामर्षयुतः शिष्यो गुरुः कौटिल्यसंयुतः ॥ ३.३.१० ॥
उभौ तौ निरयं यातो यावदाचन्द्रतारकम्
साक्षाद्धरिः पुरुषः पिङ्गलाक्षः स्वमायायां गुणमय्यां महात्मा
स्वपौरुषेणैव सुमङ्गलेन अधात्तु वीर्यं भगवान्वीर्यवांश्च ॥ ३.३.११ ॥
गरुड उवाच
वीर्यस्वरूपं ब्रूहि मे वासुदेव वीर्ये त्वदीये संशयो मे विभाति
किं वीर्यमीशस्य स्वरूपभूतं किं वा विभिन्नं वद साधु वेत्सि ॥ ३.३.१२ ॥
श्रीकृष्ण उवाच
यद्वीर्यमाधत्त हरिः स्वयं प्रभुर्मायाभिधायां विनतातनूज
तद्वीर्यमाहुर्नृहरेः स्वरूपं विपश्चितो निश्चिततत्त्वदर्शिनः ॥ ३.३.१३ ॥
भिन्नं तदाहुः प्राकृतमेव चाहुः स्वनाभिपद्मादिकवच्च बोध्यम्
नैतावता ज्ञानरूपस्य विष्णोर्न वीर्यहानिरिति चिन्तनीयम् ॥ ३.३.१४ ॥
वीर्यस्वरूपी भगवान्वा सुदेवः सर्वत्र देशेपि च सर्वकाले
सर्वार्थवान्यदि न स्यात्खगेन्द्र तर्हीश्वरः पुरुषो नैव स स्यात् ॥ ३.३.१५ ॥
अचिन्त्यवीर्यैश्चिन्त्यवीर्यैर्द्विरूपः स्त्रीरूपमेकं पुरुषं तथा परम्
उभे रूपे वीर्यवती खगेन्द्र तयोरभेदश्चिन्तनीयो हि सम्यकू ॥ ३.३.१६ ॥
स्त्रीरूपवान्यदि न स्यात्खर्गेद्रस्त्रीणां कथं प्रतिबिंबत्वमेव ॥ ३.३.१७ ॥
स्त्रीरूपमस्माद्ब्रह्मजं (द्वास्तवं) चिन्तनीयं स्वरूपमेतन्नान्यथा चिन्तनीयम्
स्त्रीरूपवन्नैव विचिन्तनीयं नपुंसकं त्बस्य जन्यं हि विद्धि ॥ ३.३.१८ ॥
नपुंसकं नवैव स्वरूपभूतमतो हरौ नास्ति विचिन्तनीयम्
स्त्रीबिंबभूते हरिरूपे खगेन्द्र श्रीरूपमस्तीति विचिन्तनीयम् ॥ ३.३.१९ ॥
गरुड उवाच
स्त्रिया स्त्रियश्च संयोगं व्यर्थमहुर्मनीषिणः
स्त्रीरूपभूते विंबे तु स्त्रीरूपाः सन्ति सर्वदा ॥ ३.३.२० ॥
स्थितौ तत्र निमित्तं च ब्रूहि कृष्ण मम प्रभो ॥ ३.३.२१ ॥
श्रीकृष्ण उवाच
स्त्रीबिंबभूतस्त्रीरूपे लक्ष्मीर्न स्यात्खगेश्वर
नित्यावियोगिनी देवी कथं स्यात्परमात्मनः ॥ ३.३.२२ ॥
हरेरनन्तरूपाणां स्त्रीरूपाणां खगेश्वर
अनन्तानन्तरूपेण नित्यं शुश्रूषणे रता ॥ ३.३.२३ ॥
अतो लक्ष्म्या वियोगस्तु शङ्कनीयः कथञ्चन
नारायणो नाम हरिः स्वतन्त्रः श्रिया विना नास्ति कदापि तार्क्ष्य
हरेर्मुकुन्दस्य पदारविन्दे शुश्रूषमाणा परमादरेण ॥ ३.३.२४ ॥
हरिं विना श्रीरपि देशकाले नास्तीति मोक्षेच्छुभिरेव वेद्यम्
यस्यामधाद्वीर्यमनुक्षणं च सा मामिका चेन्द्रजाला त्मिकेति ॥ ३.३.२५ ॥
वदन्ति ये असुरा मूढरूपा अधंमतः प्रविशन्त्येव सर्वे
माया नाम प्रकृतिस्त्वेमाहुः सुसूक्ष्मरूपा न तु चेन्द्रजालिका ॥ ३.३.२६ ॥
तस्याभिमानः श्रीरिति वेदितव्यो वीर्याधानं तत्र तेषां च मेलः
कार्योन्मुखं मेलनं चाहुरार्या इतो रूपं नाहुराय्याश्च विष्णोः ॥ ३.३.२७ ॥
सानादि नित्या सत्यरूपा च विष्णोर्मिथ्या रूपा सा कथं स्यात्खगेन्द्र
सत्या तनुः प्रकृतेस्तन्निगूढा सत्यत्वमाहुर्व्यवहारार्थरूपम् ॥ ३.३.२८ ॥
व्यवहाररूपा सत्यता चेत्प्रकृत्यास्तदा कथं स्याद्यदनादिभूता
अनादिनित्या यदि न स्यात्खगेन्द्र सुशूक्ष्मरूपेण न कारणं स्यात् ॥ ३.३.२९ ॥
सूक्ष्मेण रूपेण च कारणं स्यात्तर्हि प्रपञ्चस्य च कारणं वद
अविद्याया वशतो विष्णुरेव नानारूपैर्दृश्यते विष्णुरेव ॥ ३.३.३० ॥
शास्त्रज्ञानान्नाशमेति ह्यविद्या न संशयो हरिणा चैक्यमेति
एवं ब्रूषे यदि वादत्खगेन्द्र वक्ष्येहं ते तत्र युक्तिं शृणु त्वम् ॥ ३.३.३१ ॥
सर्वज्ञरूपस्य हि मे मुरारेः कथं हरेर्घटते ह्यज्ञता च
सूर्ये यथा तमो नास्ति तथा नारायणे हरौ
अज्ञानं नास्ति पक्षीद्र कथं तत्वं ब्रवीष्यहो ॥ ३.३.३२ ॥
अतो नाहं ब्राह्मणस्त्वादिकालादुपाधिसंबन्धवशादज्ञताचेत्
सर्वज्ञोसौ कुत्र पक्षीन्द्र विष्णुरल्पज्ञजीवो ज्ञानशून्यश्च कुत्र ॥ ३.३.३३ ॥
विरुद्धयोश्चानयोः सर्वदैव कथं चैक्यं संवादिष्यन्ति वेदाः
देशे काले सर्वदा द्दुः खहीनो जगत्कर्ता पूर्णशक्तिः सदैव ॥ ३.३.३४ ॥
जीवः सदा स्वल्पकर्तास्ति पूर्णः संसाररूपे दुः खरूपे च नित्यम्
विरुद्धयोश्चानयोरैक्यमाहुरीशस्य मायावशतो मायिनश्च ॥ ३.३.३५ ॥
ये वैष्णवा वैष्णवदासवश्यास्तेषां द्रोहं सर्वदा संचरेद्यः
हरिप्रीतिस्तेन भवेन्न नित्यमानन्दवृद्धिस्तेन भवेन्न मुक्तौ ॥ ३.३.३६ ॥
मायी सदा मायिभृत्यस्तथापि भेदज्ञानान्निन्द्यते कार्यते च
तेनापि तेषां दुः खवृद्धिर्भवेच्च ह्यधं तमः पुनरावृत्तिहीनम् ॥ ३.३.३७ ॥
खगेन्द्रातः प्रकृतिः सूक्ष्मरूपा सा नित्या सा सत्यभूता सदैव
एवं स्वयं कालवाय्वादिकानां परा (रमा)णवः सत्यरूपाश्च सन्ति ॥ ३.३.३८ ॥
परा (माणू)नां लक्षणं वेदितव्यं ज्ञानेच्छुभिर्नान्यथा वेदितव्यम्
पदार्थानां पार्थिवानां खगेन्द्र विशेषाणां चरमाख्यो विशेषः ॥ ३.३.३९ ॥
स एवः स्यात्परमाणुर्द्विजेन्द्र योन्त्योवि (व) शेषोवयवश्च स स्मृतः ॥ ३.३.४० ॥
गरुड उवाच
हे कृष्ण हे माधव सात्त्वतां पते पदार्थानां चरमांशः पराणु ॥ ३.३.४१ ॥
इति प्रोक्तं तत्र मे संशयोस्ति योन्त्यो विशेषः स तु नांशयुक्तः
यो ह्यंशयुक्तो न तु सोंत्यो विशेष एवं ममाभाति वचस्तु तथ्यम् ॥ ३.३.४२ ॥
श्रीकृष्ण उवाच
य एव लोके संस्थिता मानुषास्तु विशेषाणां दर्शने शक्तियुक्ताः
तथापि ते यस्य चांशित्वमेव विशेषं वै नैव द्रष्टुं समर्थाः ॥ ३.३.४३ ॥
तमेवाहुश्चरमांशं विशेषं ये चैवमाहुर्मुनयस्तेन चान्ये
ये काणादा गौतमाद्याः खगेन्द्र निरंशकं परमाणुं वदन्ति ॥ ३.३.४४ ॥
अनन्तांशैः संयुतत्वेपि तांश्च निरंशिनो भ्रान्तिदृष्ट्या वदन्ति
तस्मात्परा (रमा) णोः परमाणुत्वमस्ति तदंशानां विनतागर्भजात ॥ ३.३.४५ ॥
परा (रमा) णूनामेकदेशे खगेन्द्र तन्नो संति प्राणिनां राशयश्च
प्रत्येकश संति रूपा हरेश्च ह्यतश्च तत्परमाणोरणीयः ॥ ३.३.४६ ॥
यो वा त्वणीयान्परमस्य विष्णोः स एव रूपो महतो महीयान्
तेषामन्योन्यं न विशेषोस्ति कश्चिदचिन्त्यरूपे च विचिन्तनीयः ॥ ३.३.४७ ॥
कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः
देशकोटिविहीनत्वं देशानन्त्यं विदुर्बुधाः ॥ ३.३.४८ ॥
गुणानामप्रमेयत्वे गुणानन्त्यं विदुर्बुधाः
आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥ ३.३.४९ ॥
तस्य सर्वस्वरूपेषु चानन्त्यं तु त्रिलक्षणम्
तथापि देशतस्तस्य परिच्छेदोपि युज्यते ॥ ३.३.५० ॥
परिच्छेदस्तथा व्याप्तेरेकरूपेपि युज्यते
तस्याचिन्त्याद्भुतैश्वर्यं व्यवहारार्थमेव च ॥ ३.३.५१ ॥
गुणतः कालतश्चैव परिच्छेदो न कुत्रचित्
व्याप्तत्वं देशतो ह्यस्ति सर्वभूतेषु यद्यापि ॥ ३.३.५२ ॥
न च भेदः क्वचित्तस्य ह्यणुमात्रेपि युज्यते
तथापि विद्यतेणुत्वं तस्मादैश्वर्ययोगतः ॥ ३.३.५३ ॥
तस्माद्विद्ध्यवतारार्थं व्याप्तत्वं चापि भण्यते
यत्तस्य व्यापकं रूपं परं नारायणं विदुः ॥ ३.३.५४ ॥
अतश्च परमाणूनां पार्थिवाऽनन्त्यवादिनाम्
भेदः परस्परं ज्ञेयस्तथेशस्य महात्मनः ॥ ३.३.५५ ॥
जडेशयोर्जडानां च जीवानां च परस्परम्
तथैव जडजीवानां नित्यं भेदो जडेशयोः ॥ ३.३.५६ ॥
पञ्च भेदा इमे नित्यं सर्वावस्थासु सर्वशः
एतादृश्यां तु मायायां वीर्यमाधत्त वीर्यवान् ॥ ३.३.५७ ॥
पुरुषाख्यो हरिस्तस्मात्त्रिगुणानसृजत्प्रभुः ॥ ३.३.५८ ॥
इति श्रीगारुडे महापुराणे तृतीयांशे ब्रह्मकाण्डे भगवद्वीर्यस्वरूपतदाधानद्वारकगुणत्रय सृष्टिजडेशभेदादिनिरूपणं नाम तृतीयोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ४
श्रीकृष्ण उवाच
यथा ससर्ज भगवांस्त्रीन् गुणान्प्रकृतेस्तदा
लक्ष्मीस्त्रिरूपा संभूता श्रीर्भूर्दुर्गोति संज्ञिता ॥ ३.४.१ ॥
सत्त्वाभिमानिनी श्रीस्तु भूर्देवी रजमानिनी
तमोभिमानिनी दुर्गा ह्येवमाहुर्मनीषिणः ॥ ३.४.२ ॥
अन्तरं न विजानीयाद्रूपाणां च परस्परम्
गुणानां चैव संबन्धाद्दुर्गादीनां खगेश्वर ॥ ३.४.३ ॥
अन्तरं ये विजानन्ति ते यान्त्यन्धन्तमः परम्
पुरुषस्तु त्रिरूपोभूद्विष्णुर्ब्रह्मा भवेतिसः ॥ ३.४.४ ॥
सत्त्वेन लोकान्वर्धयितुं विष्णुः साक्षाद्धरिः स्वयम्
सृष्टिं कर्तुं च रजसा ब्रह्मणि प्राविशद्धरिः ॥ ३.४.५ ॥
आद्यो ब्रह्मा स विज्ञेयो न तु साक्षाद्धरिः स्वयम्
तमसापि समान्हन्तुं रुद्रे च प्राविशद्धरिः ॥ ३.४.६ ॥
रुद्रे स्थितो रुद्रसंज्ञो न रुद्रस्तु हरिः स्वयम्
विष्णुरेव हरिः साक्षात्तावुभौन हरी स्मृतौ ॥ ३.४.७ ॥
आविष्टरूपौ विज्ञेयौ ब्रह्मरुद्राभिधायकौ
एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन ॥ ३.४.८ ॥
विष्णुब्रह्मादिरूपाणामैक्यं जानन्ति ये द्विजाः
ते यान्ति नरकं घोरं पुनरावृत्तिवर्जितम् ॥ ३.४.९ ॥
गुणत्रयं प्रविष्टस्तु पुरुषो हरिरव्ययः
कार्योन्मुखं यथा भूयात्क्षोभयामास वै तथा ॥ ३.४.१० ॥
जातक्षोभाद्भगवतो महानासीद्गुणत्रयात्
गुणत्रये विद्यमानाद्भागादेव न संशयः ॥ ३.४.११ ॥
महतो ब्रह्मवायू च जज्ञाते खाभिमानिनौ
तस्य संवत्सरात्पश्चाद्यमलौ संबभूवतुः ॥ ३.४.१२ ॥
रजः प्रधानं यत्तत्वं महत्तत्तवमितीरितम्
सर्गं त्विमं विजानीयाद्गुणवैषम्यनामकम् ॥ ३.४.१३ ॥
गरुड उवाच
महत्तत्तवस्वरूपस्य ज्ञानार्थं देवकीसुत
त्वयोक्ता गुणवैषम्यनामिका सृष्टिरुत्तमा ॥ ३.४.१४ ॥
गुणवैषम्यशब्दार्थं मम ब्रूहि महाप्रभो
श्रीकृष्ण उवाच
गुणवैषम्यशब्दार्थज्ञापनाय खगेश्वर ॥ ३.४.१५ ॥
अपिक्षितं च तत्रादौ गुणसाम्यं न संशयः
सम्यग्ज्ञापयितुं तत्र खादौ तावत्स्वगेश्वर ॥ ३.४.१६ ॥
राशिभूतं गुणानां तु दर्शयिष्ये स्थितिं च वै
राशीभूतस्य तसमः सकाशाद्विनतासुत ॥ ३.४.१७ ॥
राशीभूतं रजो ज्ञेयन्द्विगुणं तत्तु नान्यथा
राशीभूतस्य रजसः सकाशाद्विनतासुत ॥ ३.४.१८ ॥
राशीभूतं तथा सत्त्वं द्विगुणं समुदाहृतम्
मूलप्रकृतिजा ह्येते न मूला प्रकृतिः स्मृता ॥ ३.४.१९ ॥
यतः प्रकृतिरूपाणां परिच्छेदो न विद्यते
अतः प्रकृतिजा ज्ञेया न मूलास्ते खगेश्वर ॥ ३.४.२० ॥
एवं तव गुणानाञ्च परिमाणं खगेश्वर
उक्तं स्वरूपं तेषां तु तव सम्यक्खगेश्वर ॥ ३.४.२१ ॥
तत्र राशित्रये सत्त्वं केवलं समुदाहृतम्
रजस्तमोभ्यां गरुड ह्यविमिश्रं ह्यतस्तु तत् ॥ ३.४.२२ ॥
केवलं सत्त्वमित्युक्तं न तु श्रेष्ठत्वतः प्रभो
सृष्टिकाले केवलं स्यात्प्रलये मिश्रितं भवेत् ॥ ३.४.२३ ॥
सर्वदाप्यविमिश्रं च सत्त्वराशिं खगेश्वर
सर्वदापि विमिश्रं च सत्त्वराशिं द्विजोत्तम ॥ ३.४.२४ ॥
ये विजानन्ति ते सर्वे विशन्ति ह्यधरं तमः
रजस्तमोगुणौ वीन्द्र इतराभ्यां विमिश्रितौ ॥ ३.४.२५ ॥
सृष्टौ प्रलयकालेपि मिश्रावेव खगेश्वर
राशिभूतेपि रजसि रजोभागाच्छताधिकम् ॥ ३.४.२६ ॥
सत्त्वं च मिश्रितं ज्ञेयं नान्यथा पक्षिसत्तम
रजसः शतभागानां मध्ये तु विनतासुत ॥ ३.४.२७ ॥
य एको भाग उद्दिष्टस्तावत्परिमितं तमः
राशिभूतेपि रजसि मिश्रितं परिकीर्तितम् ॥ ३.४.२८ ॥
रजोराशिस्थितिस्त्वेवं तात व्याप्तं तमोगुणैः
राशिभूतेपि तमसि सत्त्वं च विनतासुत ॥ ३.४.२९ ॥
तमः सकाशाद्गरुड दशभागाधिकेन च
मिश्रितं भवतीत्येवं ज्ञातव्यं नात्र संशयः ॥ ३.४.३० ॥
तमसो दशभागानां मध्ये तु विनतासुत
य एको भाग उद्दिष्टस्तावत्परिमितं रजः ॥ ३.४.३१ ॥
राशिभूतेपि तमसि मिश्रितं भवति ध्रुवम्
तमोराशिस्थितिस्त्वेवं ज्ञातव्या पक्षिसत्तम ॥ ३.४.३२ ॥
गरुड उवाच
रशिभूतेपि रजसि राशिभूते तमस्यपि
सत्त्वांशा ह्यधिकाः संतीत्येवमुक्तं मयानघ ॥ ३.४.३३ ॥
तत्र मे संशयो ह्यस्ति शृणु त्वं सात्त्वतां पते
यद्राश्यां यद्रा शिभागा ह्यधिकाः संति यावता ॥ ३.४.३४ ॥
तावता व्यवहारः स्यात्क्षीरनीरमिव प्रभो
श्रुत्वा स गरुडेनोक्तं भगवान्पुरुषोत्तमः ॥ ३.४.३५ ॥
उवाच पर मप्रीत्या संस्तुवन् गरुडं हरिः
श्रीकृष्ण उवाच
रजोराश्या तमोराश्या सत्त्वराश्यधिका सदा ॥ ३.४.३६ ॥
मिश्रितं चापि पक्षीन्द्र न सत्तवमिति कीर्त्यते
रजोराशिस्तमोराशिरित्येवं विबुधा विदुः ॥ ३.४.३७ ॥
विषं तु चरुदुग्धस्थं विषमित्युच्यते यथा
एवं मयोक्ता गरुड गुणानां निजसंस्थितिः ॥ ३.४.३८ ॥
साम्यावस्थां गुणानां च शृण्विदानीं खगेश्वर
राशीकृताच्च रजसः जन्यं यच्च कगेश्वर ॥ ३.४.३९ ॥
महत्तत्त्वे प्रविष्टं च यद्रजः परिकीर्तितम्
प्रलये समनुप्राप्ते महत्तत्त्वे स्थितं रजः ॥ ३.४.४० ॥
द्वादशांशेन तु ह्यद्धा विभक्तं भवतिं प्रभो
राशीभूते हि सत्त्वे तु दशभागेन मिश्रितम् ॥ ३.४.४१ ॥
सम्यक्भवति पक्षीन्द्र तथैकांशेन चाण्डज
तमोराश्या मिश्रितं च भवत्येव न संशयः ॥ ३.४.४२ ॥
अन्येनैकेन भागेन रजोराश्या खगेश्वर
मिश्रितं भवतीत्येवं ज्ञातव्यं नान्यथा क्वचित् ॥ ३.४.४३ ॥
गुणत्रयेपि भगवान्महत्तत्त्वस्य चाण्डज
एवं लयस्तु ज्ञातव्यो हृदि तत्त्वार्थवोदिभिः ॥ ३.४.४४ ॥
एवं गुणत्रयाणां च मिश्रितत्त्वात्खगेश्वर
गुणसाम्यमिति प्राहुरेवं जानीहि वै खग ॥ ३.४.४५ ॥
अन्यथा ये विजानन्ति ते यान्ति ह्यधरं तमः
गरुड उवाच
राशीकृतगुणानां च त्रयाणां परमेश्वर ॥ ३.४.४६ ॥
विशालानां परं ब्रह्मन्प्रलये गुणसाम्यता
कथं ब्रूहि महाभाग एतत्तत्त्वं समासतः ॥ ३.४.४७ ॥
श्रीकृष्ण उवाच
राशीभूतगुणानां तु त्रयणामपि सत्तम
तदा विमिश्रितत्वेन ह्यवस्थानं विदुर्बुधाः ॥ ३.४.४८ ॥
इदानीं गुणवैषम्यं शृणु सम्यङ्मम प्रिय
सृष्टिकाले तु संप्राप्ते यत्पूर्वं प्रलये खग ॥ ३.४.४९ ॥
दशभागैश्च सत्त्वे तु मिश्रितं यद्र जस्तथा
तमस्यप्येकभागेन प्रविष्टं यत्तु तद्रजः ॥ ३.४.५० ॥
रजस्यप्येकभागेन प्रविष्टं यच्च तद्रजः
एवं द्वादशभागैश्च प्रविष्टं सर्वशो रजः ॥ ३.४.५१ ॥
सत्त्वस्तैर्दशभागैश्च तथैकेन रजोंशिना
एवमेकादशैर्भागैस्तमस्थांशेन वै व्दिज ॥ ३.४.५२ ॥
मिश्रितं भवति ह्यद्धा महत्तत्त्वं तदा स्मृतम्
एतदन्यो विशेषश्च मन्तध्यो विनतासुत ॥ ३.४.५३ ॥
एकांशस्तामसो ज्ञेयो महत्तत्त्वे न संशयः
एवं त्रयोदशैर्भागैर्मिश्रितं तच्च सत्तम ॥ ३.४.५४ ॥
एवमेतद्विजानीयान्नान्यथा तु कथञ्चन
गरुड उवाच
चतुर्मुखाच्छ्रुतं पूर्वं भगवन्सात्त्वतां पते ॥ ३.४.५५ ॥
चतुर्भागात्समुत्पन्नं महत्तत्त्वमिति प्रभो
तत्रैकांशस्तमः प्रोक्तः त्रिभागो रज एव च ॥ ३.४.५६ ॥
तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम्
चतुर्भागात्मकं प्रोक्तं महत्तत्त्वं श्रुतं मया ॥ ३.४.५७ ॥
त्रयोदशांशैः संभूतमिति प्रोक्तं त्वयानघ
तदेतत्संशयं छिन्धि कृपालो भक्तवत्सल ॥ ३.४.५८ ॥
श्रीकृष्ण उवाच
ब्रह्मोक्तम्य मयोक्तस्य विवादो नास्ति सर्वथा
मूलसत्त्वे मिश्रितं च दशभागेन यद्रजः ॥ ३.४.५९ ॥
तत्सर्वं च मिलित्वैव त्वेको भागस्तु कीर्तितः
मूले रजसि यच्चोक्तो रजोभागः खगेश्वर ॥ ३.४.६० ॥
भागे द्वितीये विज्ञेयस्तद्रजो नात्र संशयः
मूले तमसि यच्चोक्तो रजोभागस्तथैव च ॥ ३.४.६१ ॥
तृतीयभागो विज्ञेयो नात्र कार्या विचारणा
तथा मूले च तमसि ह्येको भागस्तमः स्मृतः ॥ ३.४.६२ ॥
एवं त्रिभागो रजसः एकांशस्तमसः स्मृतः
तदाहुर्ब्रह्मणो देहं गुणवैषम्यनामकम् ॥ ३.४.६३ ॥
गरुड उवाच
महत्तत्त्वस्य चत्वारो भागास्तेषु रजस्त्रयः
तमसस्त्वेक एवेति त्वयोक्तं गरुडध्वज ॥ ३.४.६४ ॥
रजोभागात्मको देहोः ब्रह्मणः परमेष्ठिनः
इति प्रतीयते ब्रह्मन्वचनात्तव माधव ॥ ३.४.६५ ॥
शुद्धसत्त्वात्मको देहो ब्रह्मणः परमेष्ठिनः
एवं हि श्रूयते कृष्ण संशयो मेत्र बाधते ॥ ३.४.६६ ॥
तमेवं संशयं छिन्धि यद्धि तच्छ्रोतुमर्हति
श्रीकृष्ण उवाच
त्रिभागभूते रजसि तथा द्वादशधापि च ॥ ३.४.६७ ॥
रजसोपेक्षया सत्त्वं दशांशाधिकमेव च
प्रविष्टमस्तीति खग ज्ञातव्यं तच्छणु द्विज ॥ ३.४.६८ ॥
तमसोपेक्षया सत्त्वं दशांशाधिकमेव वै
प्रविष्टमस्तीति खग वक्तव्यं नात्र संशयः ॥ ३.४.६९ ॥
तमसोपेक्षया तत्र तम एकादशं स्मृतम्
एकांशस्तु रजो ज्ञेयमेवमाहुर्मनीषिणः
एवं च मिलितान्भागान्वक्ष्ये शृणु महामते ॥ ३.४.७० ॥
महत्तत्त्वसमुत्पत्ता उपादानं खगेश्वर
त्रयोदशांशा विज्ञेया द्वादशाशं रजः स्मृतम् ॥ ३.४.७१ ॥
एकांशस्तमसो ज्ञेयस्तत्र भागाञ्छृणु द्विजा
आदौ तु द्वादशांशेषु भागान्वक्ष्यामि तच्छृणु ॥ ३.४.७२ ॥
एकांशस्तमसो ज्ञेयस्तद्दशां शाधिकं रजः
तच्छतांशाधिकं सत्त्वमेवमाहुर्मनीषिणः ॥ ३.४.७३ ॥
एकांशतमसि ह्येवं विभागाञ्छृणु सत्तम
एकांशस्तु रजो ज्ञेयस्तमो ह्येका दशाधिकम् ॥ ३.४.७४ ॥
तमोभागास्तु विज्ञेयास्तद्दशांशाधिकः स्मृतः
सत्त्वभाग इति ज्ञेयो महत्तत्त्वे खगेश्वर ॥ ३.४.७५ ॥
सत्त्वांशो बहुलो यस्माच्छुद्धसत्त्वं चतुर्मुखः
उत्पत्तिर्महतश्चोक्ता एवं च विनतासुत ॥ ३.४.७६ ॥
तज्ज्ञानान्मोक्षमाप्नोति नान्यथा तु कथञ्चन ॥ ३.४.७७ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे कृष्ण गरुडसंवादे तृतीयांशे ब्रह्मकाण्डे गुणवैषम्यभेदब्रह्मदेहस्वरूपगुणसाम्यनिरूपणं नाम चतुर्थोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ५
एतादृशे महत्तत्त्वे लक्ष्म्या सह हरिः स्वयम्
प्रविवेश महाभाग क्षोभयामास वै हरिः ॥ ३.५.१ ॥
अहन्तत्त्वमभूत्तस्माज्ज्ञानद्रव्यक्रियात्मकम्
अहङ्कारसमुत्पत्तावेकांशस्तमसि स्मृतः ॥ ३.५.२ ॥
तद्दशांशाधिकरजस्तद्दशांशाधिकं प्रभो
सत्त्वमित्युच्यते सद्भिर्ह्येतदात्मा त्वहं स्मृतम् ॥ ३.५.३ ॥
अहन्तत्त्वाभिमानी तु आदौ शेषो बभूवह
सहस्राब्दाच्च पश्चात्तौ जातौ खगहरौ द्विज ॥ ३.५.४ ॥
अहन्तत्त्वे खग ह्येषु प्रविष्टो हरिरव्ययः
क्षोभयामास भगवाल्लङ्क्ष्म्या सह हरिः स्वयम् ॥ ३.५.५ ॥
वैकारिकस्तामसश्च तैजसश्चेत्यहं त्रिधा
त्रिधा बभूव रुद्रोपि यतस्तेषां नियामकः ॥ ३.५.६ ॥
वैकारिकस्थितो रुद्रो वैकारिक इति स्मृतः
तामसे तु स्थितो रुद्रस्तामसो ह्यभिधीयते ॥ ३.५.७ ॥
तैजसे तु स्थितो रुद्रो लोके वै तैजसः स्मृतः
तैजसे तु ह्यहन्तत्त्वे लक्ष्म्या सह हरिः स्वयम् ॥ ३.५.८ ॥
विशित्वा क्षोभयामास तदासौ दशधा त्वभूत्
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ॥ ३.५.९ ॥
वाक्पाणिपादं पायुश्च उपस्थेति दश स्मृताः
वैकारिके ह्यहन्तत्त्वे प्रविश्य क्षोभयद्धरिः ॥ ३.५.१० ॥
महत्तत्त्वादिमा अदाविन्द्रियाणां च देवताः
एकादशविधा आसन्क्रमेण तु खगेश्वर ॥ ३.५.११ ॥
मनोभिमानि नी ह्यादौ वारुणी त्वभवत्तदा
अनन्तरं च सौपर्णी गौरोजापि तथैव च ॥ ३.५.१२ ॥
शेषादनन्तरास्तासां दशवर्षादनंरम्
उत्पत्तिरिति विज्ञेयं क्रमेण तु खगेश्वर ॥ ३.५.१३ ॥
मनोभिमानिनावन्याविन्द्रकामौ प्रजज्ञतुः
तार्क्ष्य ह्यनन्तरौ ज्ञेयौ मुक्तौ संसार एव च ॥ ३.५.१४ ॥
ततस्त्वगात्मा ह्यभवत्सोहं कारिक ईरितः
ततः पाण्यात्मकाश्चैव जज्ञिरे पक्षिसत्तम ॥ ३.५.१५ ॥
शची रतिश्चानिरुद्धस्तथा स्वायंभुवो मनुः
बृहस्पतिस्तथा दक्ष एते पाण्यात्मकाः स्मृताः ॥ ३.५.१६ ॥
दक्षस्यानन्तरं जज्ञे प्रवाहो नाम चाण्डज
स एवोक्तश्चातिंवाहो यापयत्यात्मचोदितः ॥ ३.५.१७ ॥
हस्तादनन्तरं ज्ञेयो न तु शच्यादिवत्स्मृतः
ततोभवन्महाभाग चक्षुरिद्रियमात्मनः ॥ ३.५.१८ ॥
स्वायंभुवमनोर्भार्या शतरूपा यमस्तथा
चन्द्रसूर्यौ तु चत्त्वारश्चक्षुरिन्द्रियमानिनः ॥ ३.५.१९ ॥
चन्द्रः श्रोत्राभिमानीति तथा ज्ञेयः खगेश्वर
जिह्वेन्द्रियात्मा वरुणः सूर्यस्यानन्तरोभवत् ॥ ३.५.२० ॥
वागिन्द्रियाभिमानिन्यो ह्यभवन्वरुणादनु
दक्षपत्नी प्रसूतिश्च भृगुरग्निस्तर्थव च ॥ ३.५.२१ ॥
तत्र वैते महात्मानो वागिन्द्रियनियामकाः
ये क्रव्यादादयश्चोक्तास्तेनन्तत्त्वनियामकाः ॥ ३.५.२२ ॥
साम्यत्वाच्च तथैवोक्तिर्न तु तत्त्वाभिमानितः
उपस्थमानिनो वीन्द्र बभूवुस्तदनन्तरम् ॥ ३.५.२३ ॥
विश्वामित्रो वसिष्टोत्रिर्मरीचिः पुलहः क्रतुः
पुलस्त्योङ्गिरसश्चैव तथा वैवस्वतो मनुः ॥ ३.५.२४ ॥
मन्वादयोनन्तसंख्या उपस्थात्मान ईरिताः
पायोश्च मानिनो वीन्द्र जज्ञिरे तदनन्तरम् ॥ ३.५.२५ ॥
सूर्येषु द्वादशस्वेको मित्रस्तारा गुरोः प्रिया
कोणाधिपो निरृतिश्च प्रवहप्रिया ॥ ३.५.२६ ॥
चत्त्वार एते पक्षीन्द्र वायुतत्त्वाभिमानिनः
घ्राणाभिमानिनः सर्वे जज्ञिरे द्विजसत्तम ॥ ३.५.२७ ॥
विष्ववसेनो वायुपुत्रौ ह्यश्विनौ गणपस्तथा
वित्तपः सप्त वसव उक्तो ह्याग्निस्तथाष्टमः ॥ ३.५.२८ ॥
सत्यानां शृणु नामानि द्रोणः प्राणो ध्रुवस्तथा
अर्के दोषस्तथा वस्कः सप्तमस्तु विभावसुः ॥ ३.५.२९ ॥
दशरुद्रास्तथा ज्ञेया मूलरुद्रो भवः स्मृतः
दश रुद्रस्य नामानि शृणुष्व द्विजसत्तम ॥ ३.५.३० ॥
रैवन्तेयस्तथा भीमो वामदेवो वृषाकपिः
अजैकपादहिर्वुध्न्यो बहुरूपो महानिति ॥ ३.५.३१ ॥
दश रुद्रा इति प्रोक्ताः षडादित्याञ्छृणु द्विज
उरुक्रमस्तथा शक्रो विवस्वान्वरुणस्तथा ॥ ३.५.३२ ॥
पर्जन्योतिबाहुरेत उक्ताः पूर्वं द्विजोत्तम
पर्जन्यव्यतिरिक्तास्तु पञ्चैवोक्ता न संशयः ॥ ३.५.३३ ॥
गङ्गासमस्तु पर्जन्य इति चोक्तः खगेश्वर
सविता ह्यर्यमा धाता पूषा त्वष्टा तथा भगः ॥ ३.५.३४ ॥
चत्वारिंशत्तथा सप्त महतः परिकीर्तिताः
द्वावुक्ताविति विज्ञेयो प्रवहोतिवहस्तथा ॥ ३.५.३५ ॥
तथा दशविधा ज्ञेया विश्वेदेवाः खगेश्वर
शृणु नामानि तेषां तु पुरूरवार्द्रवसंज्ञकौ ॥ ३.५.३६ ॥
धूरिलोचनसंज्ञौ द्वौ क्रतुदक्षेतिसंज्ञकौ
द्वौ सत्यवसुसंज्ञौ च कामकालकसंज्ञकौ ॥ ३.५.३७ ॥
एवं दशविधा ज्ञेया विश्वेदेवाः प्रकीर्तिताः
तथा ऋभुगणश्चोक्तस्तथा च पितरस्त्रयः ॥ ३.५.३८ ॥
द्यावा पृथिव्यौ विज्ञेयौ एते च षडशीतयः
देवाः प्रजज्ञिरे सर्वे नासिकद्रियमानिनः ॥ ३.५.३९ ॥
आकाशस्याभिमानी तु गणपः सुदाहृतः
उभयत्राभि मानीति ज्ञेयं तत्त्वार्थवेदिभिः ॥ ३.५.४० ॥
विष्वक्सेनं विना सर्वे जयाद्या विष्णुपार्षदाः
अभवन्समहीनाश्च विष्वक्सेनादनन्तरम् ॥ ३.५.४१ ॥
एतेपि नासिकायाश्च अवान्तरनियामकाः
अतस्ते तत्त्वमानिभ्यो ह्यवरास्ते प्रकीर्तिताः ॥ ३.५.४२ ॥
स्पर्शतत्त्वाभिमानी तु अपानश्चेत्युदाहृतः
रूपाभिमानी संजज्ञे व्यानो नाम महान्प्रभो ॥ ३.५.४३ ॥
रसात्मक उदानश्च समानो गन्धनामकः
अपां नाथाश्च चत्वारो मरुतः परिकीर्तिताः ॥ ३.५.४४ ॥
जयाद्यनन्तरान्वक्ष्ये समुत्पन्नान्खगेश्वर
प्रधानाग्रे प्रथमजः पावकः समुदाहृतः ॥ ३.५.४५ ॥
भृगोर्महर्षेः पुत्रश्च च्यवनः समुदाहृतः
बृहस्पतेश्च पुत्रस्तु उतथ्यः परिकीर्तितः ॥ ३.५.४६ ॥
रैवतश्चाक्षुषश्चैव तथा स्वारोचिषः स्मृतः
उत्तमो ब्रह्मसावर्णी रुद्रसावर्णिरेव च ॥ ३.५.४७ ॥
देवसावर्णिसावर्णिरिन्द्रसावर्णिरेवच
तथैव दक्षसावर्णिर्धर्मभावर्णिरेव च ॥ ३.५.४८ ॥
एकादशविधा ह्येवं मनवः परिकीर्तिताः
पितॄणां सप्तकं चैवेत्याद्याः संजज्ञिरे खग ॥ ३.५.४९ ॥
तदनन्तरमुत्पन्नास्तेभ्यो नीचाः शृणु द्विज
वरुणस्य पत्नी गङ्गा पर्जन्याख्यो विभावसुः ॥ ३.५.५० ॥
यमभार्या श्यामला तु ह्यनिरुद्धप्रिया विराट्
ब्रह्माण्डमानिनी सैव ह्युषानाम्ना सुशब्दिता ॥ ३.५.५१ ॥
रोहिणी चन्द्रभार्योक्ता सूर्यभार्या तु संज्ञका
एता गङ्गादिषटूसंख्या जज्ञिरे विनतासुत ॥ ३.५.५२ ॥
गङ्गाद्यनन्तरं जज्ञे स्वाहा वै मन्त्रदेवता
स्वाहानामाग्निभार्योक्ता गङ्गादिभ्योधमा श्रुता ॥ ३.५.५३ ॥
स्वाहानन्तरजो ज्ञेयो ज्ञानात्मा बुधनामकः
बुधस्तु चन्द्रपुत्रो यः स्वाहाया अधमः स्मृतः ॥ ३.५.५४ ॥
उषा नाम तथा जज्ञे बुधस्यानन्तरं खग
उषानामा भिमानी तु ह्यश्विभार्या प्रकीर्तिता ॥ ३.५.५५ ॥
बुधाधमा सा विज्ञेया नात्र कार्या विचारणा
ततः शनैश्चरो जज्ञे पृथिव्यात्मेति विश्रुतः ॥ ३.५.५६ ॥
उषाधमस्तु विज्ञेयस्ततो जज्ञेथ पुष्करः
कर्माभिमानी विज्ञेयः शनैश्चर इतीरितः ॥ ३.५.५७ ॥
तत्त्वाभिमानिनो देवानेवं सृष्ट्वा हरिः स्वयम्
प्रविवेश स देवेशस्तत्त्वेषु रमया सहा ॥ ३.५.५८ ॥
इति श्रीगारुडे महापुराणे तृतीयांशे ब्रह्मकाण्डे तत्त्वाभिमानि देवतोत्पत्तितत्तारतम्यनिरूपणं नाम पञ्चमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ६
श्रीकृष्ण उवाच
तत्रतत्र स्थितास्तत्त्वे तत्तत्तत्त्वाभिमानिनः
स्वेस्वे ह्यायतने स्वाङ्गे तदर्थं च खगेश्वर ॥ ३.६.१ ॥
हरिं नारायणं सम्यक्स्तोतुं समुपचक्रिरे
चिन्त्याचिन्त्यगुणे विष्णौ विरुद्धाः संति सद्गुणाः ॥ ३.६.२ ॥
एकैकशोह्यनन्तास्ते तद्गुणानां स्तुतौ मम
क्व शक्तिरिति बुद्ध्या सा व्रीडयावनताब्रवीत् ॥ ३.६.३ ॥
श्रीरुवाच
नतास्मि ते नाथ पदारविन्दं न वेद चान्यच्चरणादृते तव
त्वयीश्वरे संति गुणाः श्रुतास्तु तथाश्रुताः संति च देवदेव ॥ ३.६.४ ॥
सम्यक्सृष्टं स्वायतनं च दत्वा गोविन्द दामोदर मां च पाहि
स्तुत्या मदीयश्च सुखकपूर्णः प्रियो जनो नास्ति तथा त्वदन्यः ॥ ३.६.५ ॥
ब्रह्मोवाच
लक्ष्मीपते सर्वजगन्निवास त्वं ज्ञानसिंधुः क्व च विश्वमूर्ते
अहं क्व चाज्ञस्तव वै शक्तिरस्ति ह्यज्ञोहं वै ह्यल्पशक्तिर्ममास्ति ॥ ३.६.६ ॥
लक्ष्म्याश्चैव ज्ञानवैराग्यभक्ति ह्यत्यल्पमद्धा मयि सर्वदैव
तव प्रसादादस्ति जगन्निवास तत्र स्वामित्वं नास्ति विष्णो सदैव ॥ ३.६.७ ॥
न देहि त्वं सर्वदा मे मुरारे अहंममत्वं प्राप्यमेतावदेव
गम्यज्ञानं योग्यगुणे रमेश प्रमादो वा नास्तिनास्त्यद्य नित्य ॥ ३.६.८ ॥
तन्मे हृषीकाणि पतन्त्यसत्पथे पदारविन्दे तु पतन्तु सर्वदा
लक्ष्म्या ह्यहं कोटिगुणेन हीनः स्तोतुं सामर्थ्यं नास्ति मे सुप्रसीद ॥ ३.६.९ ॥
इति स्तवं विष्णुगुणान्विधाता तार्क्ष्यस्थितः प्राञ्जलिस्तस्य चाग्रे
तदा वायुर्देवदेवो महात्मा दृष्ट्वा विष्णु भक्तिसंवर्धितात्मा ॥ ३.६.१० ॥
स्नहोत्थरावः स्खलिताक्षरस्तं मुञ्चन्कणान्प्राञ्जलिराबभाषे
वायुरुवाच
एते हि देवास्तव भृत्यभूताः पदारविन्दं परमं सुदुर्लभम् ॥ ३.६.११ ॥
चतुर्विधान्पुरुषार्थान्रमेश संप्रार्थये तच्च सदापि देव
दृष्ट्वा हरेः सैव मायैव तावत्सुकारणं किञ्चिदन्यन्न चास्ति ॥ ३.६.१२ ॥
अतो नाहं प्रदयोपि भूमन् भवत्पदांभोजनिषवणोत्सुकः
लोकस्य कृष्णाद्विमुखस्य कर्मणा अपुण्यशीलस्य सुदुः खितस्य ॥ ३.६.१३ ॥
अनुग्रहार्थं च तवावतारो नान्यश्च किञ्चित्पुरुषार्थस्तवेश
गोभूसुराणां च महीरुहाणां तथा सुराणां प्रवरावतारैः ॥ ३.६.१४ ॥
क्षेमोपकाराणि च वासुदेव क्रीडन्विधत्ते न च किञ्चिदन्यत्
मनो न तृप्यत्यपि शंसतां नः सुकर्ममौलेश्चरितामृतानि ॥ ३.६.१५ ॥
अच्छिन्नभक्तस्य हि मे मुकुन्द सदा भक्तिं देहि पादारविन्दे
सदा तदेवास्तु न किञ्चिदन्यद्यत्र त्वमासीः पुरुषे देवदेव ॥ ३.६.१६ ॥
अहं च तत्रास्मि तव प्रसादाद्यत्रास्म्यहं तत्र भवान्महाप्रभो
व्यंसिर्ममेयं च शरीरमध्ये चतुर्मुखश्चैव न चैततदन्यैः ॥ ३.६.१७ ॥
मदीयनिद्रा तव वन्दनं प्रभो मदीययामाचरणं प्रदक्षिणम्
मदीयव्याख्याहरणं स्तुतिः स्यादेवं विदित्वा च समर्पयामि ॥ ३.६.१८ ॥
मद्ब्रृद्धियोग्यं च पदार्थजातं दृष्ट्वा हरेः प्रतिमा एव तच्च
इत्थं मत्वाहं सर्वदा देवदेव तत्रस्थितान्हरिरूपान् भजिष्ये ॥ ३.६.१९ ॥
यच्चन्दनं यत्तु पुष्पं च धूपं वस्त्रं च यद्भक्ष्यभोज्यादिकं च
एतत्सर्वं विष्णुप्रीत्यर्थमेवेत्येतद्व्रतं सर्वदा वै करिष्ये ॥ ३.६.२० ॥
अवैष्णवान्दूषयिष्ये सदाहं सद्वैष्णवान्पा (ल्लां) लयिष्ये मुरारे
विष्णुद्रुहां छेदयिष्ये च जिह्वां तच्छृण्वतां पूरयिष्ये त्रपूल्काः ॥ ३.६.२१ ॥
एतादृशी शक्तिर्ममास्ति देव तव प्रसादाद्ब्र लिनोपि विष्णो
अथापि नाहं स्तवने समर्थः लक्ष्म्या ह्यहं कोटिगुणैर्विहीनः ॥ ३.६.२२ ॥
एतत्स्तोत्रं ह्यर्थयेच्चैव या नः तत्र प्रीतिर्ह्यक्षया मे सदा स्यात्
स्तोत्रं ह्येतत्पाठयन्तीह लोके ते वैष्णवास्ते च हरिप्रियाश्च ॥ ३.६.२३ ॥
कुर्वन्ति ये पठनं नित्यमेव समर्पयिष्यति सदा हरौ च
तेषां हरिः प्रीयते केशवोलं हरौ प्रसन्ने किमलभ्यमस्ति ॥ ३.६.२४ ॥
एवं स्तुत्वा वलदेवो महात्मा तूष्णीं स्थितः प्राञ्जलिरग्रतो हरेः
सरस्वत्युवाच
को वा रसज्ञो भगवन्मुरारे हरे गुणस्तवनात्कीर्तनाद्वा ॥ ३.६.२५ ॥
अलंबुद्धिं प्राप्नुयाद्देवदेव ब्रह्मादिभिः सर्वदा स्तूयमान
यः कर्णनाडीं पुरुषस्य यातो भवप्रदां देहरतिं छिनत्ति ॥ ३.६.२६ ॥
न केवलं देहरतिं छिनत्त्यसद्गृहक्षेत्रभार्यासुतेषु नित्यम्
पश्वादिरूपेषु धनादिकेषु अनर्घ्यरत्नेषु प्रियं छिनात्ति ॥ ३.६.२७ ॥
अनं तवेदप्रतिपादितोपि लक्ष्मीर्न वै वेद तव स्वरूपम्
चतुर्मुखो नैव वेद न वायुरसौ न वेत्तीति किमत्र चित्रम् ॥ ३.६.२८ ॥
एतादृशस्य स्तवने क्वास्ति शक्तिर्मम प्रभो ब्रह्मवाय्वोः सकाशात्
शतैर्गुणैः सर्वदा न्यूनतास्ति अतो हरे दयया मां च पाहि ॥ ३.६.२९ ॥
एवं स्तुत्वा हरिं सा तु तूष्णीमास खगश्वर
भारती तु तदा स्तोतुं हरिं समुपचक्रमे ॥ ३.६.३० ॥
भारत्युवाच
ब्रह्मेश लक्ष्मीश हरे मुरारे गुणांस्तव श्रद्दधानस्य नित्यम्
तथा स्तुवन्तोस्य विवर्धमानां मतिं च नित्यं विषयेष्वसत्सु ॥ ३.६.३१ ॥
कुर्वन्ति वैराग्यममुत्र लोके ततः परं भक्तिदृढां तथैव
ततः परं चैव हरेः प्रसन्नतां कुर्वन्ति नित्यं तव देवदेव ॥ ३.६.३२ ॥
तेनापरोक्षं च भवेच्च तस्य अतो गुणानां स्तवने च मे रतिः
सा तु प्रजाता पुरुषस्य नित्यं संसारदुः खं तु तदाच्छिनत्ति ॥ ३.६.३३ ॥
विच्छिन्नदुः खस्य तदाधिकारिण आनन्दरूपाख्यफलं ददाति
हरेर्गुणानस्तुवतां च पापं तेषां हि पुण्यं च तथा क्षिणोति ॥ ३.६.३४ ॥
एवं विदित्वा परमो गुरुर्मम वायुर्दयालुर्मम वल्लभश्च
हरेर्गुणान्सर्वगुणप्रसारान्ममैव योग्यान्सुखमुख्यभूतान् ॥ ३.६.३५ ॥
उद्धृत्य पुण्येभ्य इवार्तबन्धुः शिवश्च नो द्रुह्यति पुण्यकीर्तिम्
तव प्रसादाच्च श्रियः प्रसादाद्वायोः प्रसादाच्च ममास्ति नित्यम् ॥ ३.६.३६ ॥
यद्यत्करोत्येव सदैव वायुस्तत्तत्करोत्येव सदैव नित्यम्
वायोर्विरोधं न करोति देवः स तद्विरोधं च करोति नित्यम् ॥ ३.६.३७ ॥
हरेर्विरोधं न करोति वायुर्वायोर्विरोधं न करोति विष्णुः
वायोः प्रसादान्ममनास्ति किञ्चिदतानभावश्च तव प्रसादात् ॥ ३.६.३८ ॥
यथैव मूलं च तथावतारे दुः खादिकं नास्ति समीरणस्य
वायुस्तथान्ये च उभौ मुकुन्दस्तथावतारेषु न दुः खरूपौ ॥ ३.६.३९ ॥
अशक्तवद्दृश्यते वायुदेवः युगानुसारांल्लोकधर्मांस्तु रक्षन्
नरावतारे तत्र देवे मुरारे ह्यशक्तता नेति विचं तनीयम् ॥ ३.६.४० ॥
अवताररूपे यमदुः खादिकं च न चिन्तनीयं ज्ञानिभिर्देवदेव
अहं कदाचित्सुखनाशप्रदेशे दैत्यांस्तथा मारयितुं गतोस्मि ॥ ३.६.४१ ॥
नैतावता मम वायोश्च नित्यं दुः खातनं नैव संचितनीयम्
एतादृशोहं स्तवनेनु कास्ति शक्तिर्गुणानां मधुसूदन प्रभो
वायोः सकाशाच्च गुणेन हीना संसाररूपे मुक्तरूपे च देव ॥ ३.६.४२ ॥
एवं स्तुत्वा भारती तु तूष्णीमास खगेश्वर
तदनन्तरजः शेषः प्राञ्जलिः प्राह केशवम् ॥ ३.६.४३ ॥
शेष उवाच
नाहं च जाने तव पादमूलं रुद्रो न वेत्ति गरुडो न वेद
अहं वाण्याः शतगुणांशहीनो दत्त्वा ह्यायतनं पाहि मां वासुदेव ॥ ३.६.४४ ॥
एवं स्तुत्वा सशेषस्तु तूष्णीमास खगेश्वर
तदनन्तरजो वीशः स्तोतुं समुपचक्रमे ॥ ३.६.४५ ॥
गरुड उवाच
तव पदोः स्तुतिं किं करोम्यहं मम पदांबुजे ह्यर्पितं मनः
कथमहं मुखे पक्षियोनिजः कथमेवङ्गुणा नीडितुं क्षमः ॥ ३.६.४६ ॥
एवं स्तुत्वा तु गरुडस्तूष्णीमास नयान्वितः
तदनन्तरजो रुद्रस्तोतुं समुपचक्रमे ॥ ३.६.४७ ॥
रुद्र उवाच
या वै तवेश भगवन्न विदाम भूमन् भक्तिर्ममास्तु शिवपादसरोजमूले
छन्नापि सा ननु सदा न ममास्ति देव तेनाद्रुहं तव विरुद्धमतः करोमि ॥ ३.६.४८ ॥
सर्वान्न बुद्धिसहितस्य हरे मुरारे का शक्तिरस्ति वचने मम मूढबुद्धेः
वाण्या सदा शतगुणेन विहीनमेनं मां पाहि चेश मम चायतनं च दत्त्वा ॥ ३.६.४९ ॥
एवं स्तुत्वा स रुद्रस्तु तूष्णीमास द्विजोत्तमः
शेषानन्तरजा देवी वारुणी वाक्यमब्रवीत् ॥ ३.६.५० ॥
वारुण्युवाच
लक्ष्मीपते ब्रह्मपते मनोः पतेगिरः पते रुद्रपते नृणां पते
गुणांस्तव स्तोतुमहं समर्था न पार्वती नापि सुपर्णपत्नी ॥ ३.६.५१ ॥
शेषादहं दशगुणैर्विहीना मां पाहि नित्यं जगतामधीश ॥ ३.६.५२ ॥
एवं स्तुत्वा वारुणी तु तूष्णीमास खगेश्वर
तदनन्तरजा ब्राह्मी सौपर्णी ह्युपचक्रमे ॥ ३.६.५३ ॥
सौपर्ण्युवाच
स्तोतुं गुणांस्तव हरे जगदी शवाचा श्रोतुं हरे तव कथां श्रवणे न शक्तिः
यस्तत्त्वनुं स्मरति देव तव स्वरूपं को वै नु वेद भुवि तं भगवत्पदार्थम् ॥ ३.६.५४ ॥
अतो गुणस्तवने नास्ति शक्तिर्वीन्द्राहदं दशगुणैरवरा च नित्यम् ॥ ३.६.५५ ॥
एवं स्तुत्वा तु सौपर्णी तूष्णीमास खगेश्वर
रुद्रानन्तरजा स्तोतुं गिरिजा तूपचक्रमे ॥ ३.६.५६ ॥
पार्वत्युवाच गोविन्द नारायण वासुदेव त्वया हि मे किञ्चिदपि प्रयोजनम्
नास्त्येव स्वामिन्न च नाम वाचा सौभाग्यरूपः सर्वदा एक एव ॥ ३.६.५७ ॥
नारायणेति तव नाम च एकमेव वैराग्यभक्तिविभवे परमं समर्थाम्
असंख्यब्रह्मादिकहत्यनाशाने गुर्वङ्गनाकोटिविनाशने च ॥ ३.६.५८ ॥
नामाधिकारिणी चाहं गुणानां च महाप्रभो
स्तवने नास्ति मे शक्ती रुद्राद्दशगुणैरहम् ॥ ३.६.५९ ॥
अवरा च सदास्म्येव नात्र कार्या विचारणा
एवं स्तुत्वा सा गिरिजा स्तूष्णीमास खगेश्वर ॥ ३.६.६० ॥
इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे उत्तर तृतीयांशे ब्रह्मकाण्डे तत्त्वाभिमानितत्तद्देवताकृतविष्णुस्तुतितत्तद्देवतातारतम्यनिरूपणं नाम षष्ठोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ७
श्रीकृष्ण उवाच
पार्वत्यानन्तरोत्पन्न इन्द्रो वचनमब्रवीत्
इन्द्र उवाच
तव स्वरूपं हृदि संविजानन् समुत्सुकः स्यात्स्तवने यस्तु मूढः
अजानतः स्तवनं देवदेव तदेवाहुर्हेलनं चक्रपाणे ॥ ३.७.१ ॥
तथापि तद्वै तव नाम पूर्वं भवेत्तदा पुण्यकरं भवेदिति
रुद्रादि कानां स्तवने नास्ति शक्तिस्तदा वक्तव्यं मम नास्तीति किं वा ॥ ३.७.२ ॥
गुणांशतो दशभी रुद्रतो वै सदा न्यूनो मत्समः कामदेवः
ज्ञाने बले समता सर्वदास्ति तथाः कामः किं च दूतः सदैव ॥ ३.७.३ ॥
एवं स्तुत्वा देवदेवो हरिं च तूष्णीं स्थितः प्राञ्जलिर्नम्रभूर्धा
तदनन्तरजो ब्रह्मा अहङ्कारिक ऊचिवान् ॥ ३.७.४ ॥
अहङ्कारिक उवाच
नमस्ते गणपूर्णाय नमस्ते ज्ञानमूर्तये
नमोऽज्ञानविदूराय ब्रह्मणेनं तमूर्तये ॥ ३.७.५ ॥
इन्द्रादहं दशगुणैः सर्वदा न्यून उक्तो न जनि त्वां सर्वदा ह्यप्रमेय
तथापि मां पाहि जगद्गुरो त्वं दत्त्वा दिव्यं ह्यायतनं च विष्णो ॥ ३.७.६ ॥
आहङ्कारिक एवं तु स्तुत्वा तूष्णींबभूव ह
तदनन्तरजा स्तोतुं शची वचनमब्रवीत् ॥ ३.७.७ ॥
शच्युवाच
संचिन्तयामि अनिशं तव पादपद्मं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्
वागीश्वरैरपि सदा मनसापि धर्तुं नो शक्यमीश तव पादरजः स्मरामि ॥ ३.७.८ ॥
आहङ्कारिकप्राणाच्च गुणैश्च दशभिः सदा
न्यूनभूतां च मां पाहि कृपालो भक्तवत्सल ॥ ३.७.९ ॥
एवं स्तुत्वा शची देवी तूष्णीं भगवती ह्यभूत्
तदनन्तरजा स्तोतुं रतिः समुपचक्रमे ॥ ३.७.१० ॥
रतिरुवाच
संचिन्तयामि नृहरेर्वदनारविन्दं भृत्यानुकंपितधिया हि गृहीतमूर्तिम्
यच्छ्रीनिकेतमजरुद्ररमादिकैश्च संलालितं कुटिलङ्कुन्तलवृन्दजुष्टम् ॥ ३.७.११ ॥
एतादृशं तव मुखं नुवितुं न शक्तिः शच्या समापि भगवन्परिपाहि नित्यम्
कृत्वा स्तुतिं रतिरियं परमादरेण तूष्णीं स्थिता भगवतश्च समीप एव ॥ ३.७.१२ ॥
रत्यनन्तरजो दक्षः स्तोतुं समुपचक्रमे ॥ ३.७.१३ ॥
दक्ष उवाच
संचिन्तये भगवतश्चरणोदतीर्थं भक्त्या ह्यजेन परिषिक्तमजादिवन्द्यम्
यच्छौचनिः सृतमजप्रवरावतारं गङ्गाख्यतीर्थमभवत्सरितां वरिष्ठम् ॥ ३.७.१४ ॥
रुद्रोपि तेनव विधृतेन जटाकलापपूतेन पादरजसा ह्यशिवः शिवोभूत्
एतादृशं ते चरणं करुणेश विष्णो स्तोतुं शक्तिर्मम नास्ति कृपावतार
रत्या समः श्रुतिगतो न गतोस्मि मोक्षमेतादृशं च परिपाहि निदानमूर्ते ॥ ३.७.१५ ॥
एवं स्तुत्वा स दक्षस्तु तूष्णी मेव बभूव ह
तदनन्तरजः स्तोतुं बृहस्पतिरुपाक्रमीत् ॥ ३.७.१६ ॥
बृहस्पतिरुवाच
संचिन्तयामि सततं तव चाननाब्जं त्वं देहि दुष्टविषयेषु विरक्तिमीश ॥ ३.७.१७ ॥
एतेषु शक्तिर्यदि वै स जीवो कर्ता च भोक्ता च सदा च दाता
योषां च पुत्रसुहृदौ च पशूंश्च सर्वमेवं विनश्यति यतो हि तदाशु छिन्धि ॥ ३.७.१८ ॥
संसारचक्रभ्रमणेनैव देव संसारदुः खमनुभूयेहागतोस्मि
शक्तिर्न चास्ति नवने मम देवदेव सत्या समं च सततं परिपाहि नित्यम् ॥ ३.७.१९ ॥
एवं श्रुत्वा च परमं तूष्णीमेव स्थितो मुनिः
तदनन्तरजस्तोतुं ह्यनिरुद्धोपचक्रमे ॥ ३.७.२० ॥
अनिरुद्ध उवाच
एवं हरेस्तव कथां रसिकां विहाय स्त्रीणां भगे च वदने परिमुह्य नित्यम्
विष्ठान्त्रपूरितबिले रसिको हि नित्यं स्थायी च सूकरवदेव विमूढबुद्धिः ॥ ३.७.२१ ॥
मज्जास्थिपित्तकफरफलादिपूर्णे चर्मान्त्रवेष्टितमुखे पतितं ह पीतम्
आस्वादने मम च पापगतेर्मुरारे मायाबलं तव विभो परमं निमित्तम् ॥ ३.७.२२ ॥
संसारचक्रे भ्रमतश्च नित्यं सुदुः खरूपे सुखलेशवर्जिते
मलं वमन्तं नवभिश्च द्वारैः शरीरमारुह्य सुमूढबुद्धिः ॥ ३.७.२३ ॥
नमामि नित्यं तव तत्कथामृतं विहायदेव श्रुतिमूलनाशनम्
कुटुंबपोषं च सदा च कुर्वन्दानाद्यकुर्वन्निवसन् गृहे च ॥ ३.७.२४ ॥
दूरे च संसारमलं त्विदं कुरु देहि ह्यदो दिव्यकथामृतं सदा
एतादृशोहं तव सद्गुणौघं स्तोतुं समर्थो नास्मि शचीसमश्च ॥ ३.७.२५ ॥
एवं स्तुत्वानिरुद्धस्तु तूष्णीमास खगेश्वर
तदनन्तरजः स्तोत्रं मनः स्वायंभुवोब्रवीत् ॥ ३.७.२६ ॥
स्वायंभुव उवाच
स्तोतुं ह्यनुप्रविशतोपि न गर्भदुः खं तस्मादहं परमपूज्यपदं गतस्ते ॥ ३.७.२७ ॥
मनोर्भार्या मानवी च यमः संयमिनीपतिः
दिशाभिमानी चन्द्रस्तु सूर्यश्चक्षुर्नियामकः
परस्परसमा ह्येते मुक्त्वा संसारमेव च ॥ ३.७.२८ ॥
प्रवाहाद्विगुणोनश्चेत्येवं जानीहि चाण्डज
सूर्यानन्तरजः स्तोतुं वरुणः संप्रचक्रमे ॥ ३.७.२९ ॥
वरुण उवाच
त्वद्विच्छया रचिते देहगेहे पुत्त्रे कलत्रेपि धने द्रव्यजातौ
ममाहमित्यल्पधिया च मूढा संसारदुः खे विनिमज्जन्ति सर्वे ॥ ३.७.३० ॥
अतो हरे तादृशीं मे कुबुद्धिं विनाश्य मे देहि ते पाददास्यम्
अहं मनोः पादपादार्धभूतगुणेन हीनः सर्वदा वै मुरारे ॥ ३.७.३१ ॥
एवं स्तुत्वा तु वरुणः प्राञ्जलिः समुपस्थितः
वरुणानन्तरोत्पन्नो नारदो ह्यस्तुवद्धरिम् ॥ ३.७.३२ ॥
नारद उवाच
यन्नामधेयश्रवणानुकीर्तनात्स्वाद्वन्यतत्त्वं मम नास्ति विष्णो
पुनीह्यतश्चैव परोवरायान्यज्जिह्वाग्रे वर्तते नाम तस्य ॥ ३.७.३३ ॥
यज्जिह्वाग्रे हरिनामैव नास्ति स ब्राह्मणो नैव स एव गोखरः
अहं न जाने च तव स्वरूपं न्यूनो ह्यहं वरुणात्सर्वदैव ॥ ३.७.३४ ॥
एवं स्तुत्वा नारदो वै खगेन्द्रस्तूष्णीमभूद्देवदेवस्य चाग्रे
यो नारदानन्तरं संबभूव भृगुर्महात्मा स्तोतुमुपप्रचक्रमे ॥ ३.७.३५ ॥
भृगुरुवाच
किमासनं ते गरुडासनाय किं भूषणं कौस्तुभभूषणाय
लक्ष्मीकलत्राय किमस्ति देयं वागीश किं ते वचनीयमस्ति
अतो न जाने तव सद्गुणांश्च ह्यहं सदा वरुणा त्पादहीनः ॥ ३.७.३६ ॥
एवं स्तुत्वा हरिं देवं भृगुस्तूष्णीं बभूव ह
तदनन्तरजो ह्यग्निरस्तावीत्पुरुषोत्तमम् ॥ ३.७.३७ ॥
अग्निरुवाच
यत्तेजसाहं सुसमिद्धतेजा हव्यं वहाम्यध्वरे आज्यसिक्तम् ॥ ३.७.३८ ॥
यत्तेजसाहं जठरे संप्रविश्य पचन्नन्नं सर्वदा पूर्णशक्तिः
अतो न जाने तव सद्गुणांश्च भृगोरहं सर्वदैवं समोस्मि ॥ ३.७.३९ ॥
तदनन्तरजा स्तोतुं प्रसूतिरुपचक्रमे ॥ ३.७.४० ॥
प्रसूतिरुवाच
यन्नामार्थविचारणेपिमुनयो मुह्यति वै सर्वदा त्वद्भीता अपि देवता ह्यविरतं स्त्रीभिः सहैव स्थिताः
मान्धातृध्रुवनारदाश्च भृगवो वैवस्वताद्याखिलाः प्रेम्णा वै प्रणमाम्यहं हितकृते तस्मै नमो विष्णवे ॥ ३.७.४१ ॥
अतो न जाने तव सद्गुणान्सदा एवं विधा का मम शक्तिरस्ति
स्तुत्वा ह्येवं प्रसूतिस्तु तूष्णीमासीत्खगेश्वर ॥ ३.७.४२ ॥
अग्निर्वागात्मको ब्रह्मपुत्रो भृगु ऋषिस्तथा
तद्भार्या वै प्रसूतिस्तु त्रय एते समाः स्मृताः ॥ ३.७.४३ ॥
वरुणात्पादहीनाश्च प्रवहाद्विगुणाधमाः
दक्षाच्छतावरा ज्ञेया मित्रात्तु द्विगुणाधिकाः ॥ ३.७.४४ ॥
प्रसूत्यनन्तरं जातो वसिष्ठो ब्रह्मनन्दनः
विनयावनतो भूत्वा स्तोतुं समुपचक्रमे ॥ ३.७.४५ ॥
वसिष्ठ उवाच
नमोस्तु तस्मै पुरुषाय वेधसे नमोनमोऽसद्वृजिनच्छिदे नमः
नमोनमो स्वाङ्गभवाय नित्यं नतोस्मि हेनाथ तवाङ्घ्रिपङ्कजम् ॥ ३.७.४६ ॥
मां पाहि नित्यं भगवन्वासुदेव ह्यग्नेरहं सर्वदा न्यून एव
मित्रादहं सर्वदा किञ्चिदूनः स्तुत्वा देव सोभवत्तत्र तूष्णीम् ॥ ३.७.४७ ॥
यो वसिष्ठानन्तरजो मरीचिर्ब्रह्मनन्दनः
हरिन्तुष्टाव परया भक्त्या नारायणं गुरुम् ॥ ३.७.४८ ॥
मरीचिरुवाच
देवेन चाहं हतधीर्भवनप्रसङ्गात्सर्वाशुभोपगमनाद्विमुखेद्रियश्च
कुर्वे च नित्यं सुखलेशलवादिना त्वद्दरं मनस्त्वशुभकर्म समाचरीष्ये ॥ ३.७.४९ ॥
एतादृशोहं भगवाननन्तः सदा वसिष्ठस्य समान एव ॥ ३.७.५० ॥
एवं स्तुत्वा मरीचिस्तु तूष्णीमास तदा खग
तदतन्तरजोह्यत्रिरस्तावीत्प्राञ्जलिर्हरिम् ॥ ३.७.५१ ॥
आविर्भवज्जगत्प्रभवायावतीर्णं तद्रक्षणार्थमनवद्यञ्च तथाव्ययाय
तत्त्वार्थमूलमविकारि तव स्वरूपं ह्यानन्दसारमत एव विकारशून्यम् ॥ ३.७.५२ ॥
त्रैगुण्यशून्यमखिलेषु च संविभक्तं तत्र प्रविश्य भगवन्न हि पश्यतीव
अतो मरारेस्तव सद्गुणांश्च स्तोतुं न शक्रोमि मरीचेतुल्यः ॥ ३.७.५३ ॥
एवं स्तुत्वा ह्यत्रिरपितूष्णीमास तदा खग
तदनन्तरजः स्तोतुमङ्गिरा वाक्यमब्रवीत् ॥ ३.७.५४ ॥
अङ्गिरा उवाच
द्रष्टुं न शक्रोमि तव स्वरूपं ह्यनन्तबाहूदरमस्तकं च
अनन्तसाहस्रकिरीटजुष्टं महार्हनानाभरणैश्च शोभितम्
एतादृशं रूपमनन्तपारं स्तोतुं ह्यशक्तस्तु समोस्मि चात्रेः ॥ ३.७.५५ ॥
एवं स्तुत्वा ह्यङ्गिराश्च तूष्णीमास खगेश्वर
तदनन्तरजः स्तोतुं पुलस्त्यो वाक्यमव्रवीत् ॥ ३.७.५६ ॥
पुलस्त्य उवाच
यो वा हरिस्तु भगवान्स (स्व) उपासकानां संदर्शयेद्भुवनमङ्गलमङ्गलं च
(लश्च) यस्मै नमो भगवते पुरुपाय तुभ्यं यो वाविता निरयभागगमप्रसङ्गे ॥ ३.७.५७ ॥
एतादृशांस्तव गुणान्नवितुं न शक्तं मां पाहि भगवन्सदृशो ह्यङ्गिरसा च ॥ ३.७.५८ ॥
एवं स्तुत्वा पुलस्त्योपि स्तूष्णीमेव वभूव ह
तदनन्तरजः स्तोतुं पुलहो वाक्यमब्रवीत् ॥ ३.७.५९ ॥
पुलह उवाच
निष्कामरूपरिहितस्य समर्पितं च स्नानावरोत्तमपयः फलपुष्पभोज्यम्
आराधनं भगवतस्तव सत्क्रियाश्च व्यर्थं भवेदिति वदन्ति महानुभावाः ॥ ३.७.६० ॥
तस्मै सदा भगवते प्रणमामि नित्यं निष्कामया तव समर्पणमात्रवुद्ध्या
वैकुण्ठनाथ भगवन्स्तवने न शक्तिः सोहं पुलसत्यसदृशोस्मि न संशयोत्र ॥ ३.७.६१ ॥
एवं स्तुत्वा तु पुलहस्तूष्णीमास तदा खग
तदनन्तरजः स्तोतुं क्रतुः समुपचक्रमे ॥ ३.७.६२ ॥
क्रतुरुवाच
प्राणप्रयाणसमये भगवंस्तवैव नामानि संसृतिजदुः खविनाशकानि
येनैकजन्मशमलं सहसैव हित्वा संयाति मुक्तिममलां तमहं प्रपद्ये ॥ ३.७.६३ ॥
ये भक्त्या विवशा विष्णो नाममात्रैकदजल्पकाः
तेपि मुक्तिं प्रयान्त्याशु किमुत ध्यायिनः सदा ॥ ३.७.६४ ॥
एवं स्तुत्वा क्रतुरपि तूष्णीमास खगेश्वर
तदनन्तरजः स्तोतुं मनुर्वैवस्वतोब्रवीत् ॥ ३.७.६५ ॥
वैवलस्वत उवाच
सोहं हि कर्मकरणे निरतः सदैव स्त्रीणां भोगे च निरतश्च गुदे प्रमत्तः
जिह्वेन्द्रिये च निरतस्तव दर्शने च सम्यग्विरागसहितः परमो दरेण ॥ ३.७.६६ ॥
मांसास्थिमज्जरुधिरैः सहिते च देहे भक्तिं सदैव भगवन्नपि तस्करे च
गुर्वग्निबाडबगवादिषु सत्सु दुः खात्सम्यग्विरक्तिमुपयामि सहस्व नित्यम् ॥ ३.७.६७ ॥
लोकानुवादश्रवणे परमा च शक्तिर्नारायणस्य नमने न च मेस्ति शक्तिः
लोकानुयानकरणे परमा च शक्तिः क्षेत्रादिमार्गगमने परमा ह्यशक्तिः ॥ ३.७.६८ ॥
वैश्यादिकेषु धनिकेषु परा च शक्तिः सद्ब्राह्मणेष्वपि न शक्तिरहो मुरारे ॥ ३.७.६९ ॥
वैवस्वतमनुर्देवं स्तुत्वा तूष्णीं बभूव ह
तदनन्तरजः स्तोतुं विश्वामित्रोपचक्रमे ॥ ३.७.७० ॥
विश्वामित्र उवाच
न ध्याते चरणांबुजे भगवतो संध्यापि नानुष्ठिता ज्ञानद्वारकपाटपाटनपटुर्धर्मोपिनोपार्जितः
अन्तर्व्याफमलाभिघातकरणे पट्वी श्रुता ते कथा नो देव श्रवणेन पाहि भगवन्मामत्रितुल्यं सदा ॥ ३.७.७१ ॥
विश्वामित्रऋषिस्त्वेवं स्तुत्वा तूष्णीं बभूव ह
भृगुनारदक्षांश्च विहाय ब्रह्मपुत्रकाः ॥ ३.७.७२ ॥
सप्तसंख्या वसिष्ठाद्या विश्वामित्रस्तथैव च
वैवस्वतमनुस्त्वेते परस्परसमाः स्मृताः ॥ ३.७.७३ ॥
वह्नेरप्यवरा नित्यं किञ्चिन्मित्राद्गुणाधिकाः
तदनन्तजस्तोत्रं वक्ष्ये शृणु खगेश्वर ॥ ३.७.७४ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे देवादिस्तुतितत्तत्तारतम्यनिरूपणं नाम सप्तमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ८
क्रतोरनन्तरं जातो मित्रो (श्रो) नाम खगेश्वर
नारायणं जगद्योनिं स्तोतुं समुपचक्रमे ॥ ३.८.१ ॥
मित्र उवाच
नतोस्म्यज्ञस्त्वच्चरणारविन्दं भवच्छिदं स्वस्त्ययनं भवच्छिदे
वेद स्वयं भगवान्वासुदेवो नाहं नाग्निर्न त्रिदेवा मुनीन्द्राः ॥ ३.८.२ ॥
अथापरे भागवतप्रधाना यदा न जानीयुरथापरे कुतः
मां पाहि नित्यं परतोप्यधीश विश्वामित्रान्न्यून एवेति नित्यम्
अहं पर्जन्यार्द्विगुण एव नित्यमतो मम स्तवने नास्ति शक्तिः ॥ ३.८.३ ॥
एवं स्तुत्वा हरिं मित्रस्तूष्णीमास तदा खग
तदनन्तरजा तारा स्तोतुं समुपचक्रमे ॥ ३.८.४ ॥
तारोवाच
अनन्येन तु भावेन भक्तिं कुर्वन्ति ये दृढाम्
त्वत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ ३.८.५ ॥
त्वदाश्रयां कथां श्रुत्वा (दृष्ट्वा) शृण्वन्ति कथयन्ति च
तथैते साधवो विष्णो सर्वसंगविवर्जिताः ॥ ३.८.६ ॥
तन्मध्ये पतितां पाहि सदा मित्रसमां प्रभो
तारानन्तरजः प्राह निरृतिश्च खगेश्वर ॥ ३.८.७ ॥
निरृतिरुवाच
योगेन त्वय्यर्पितया च भक्त्या संयान्ति लोकाः परमां गतिं च
आसेवया सर्वगुणाधिकानां ज्ञानेन वैराग्ययुतेनदवे ॥ ३.८.८ ॥
चित्तस्य निग्रहेणैव विष्णोर्यान्ति परं पदम्
अतो मां पाहि दयया सदा तारासमं प्रभो
तदनन्तरजा स्तोतुं प्रावही तं प्रचक्रमे ॥ ३.८.९ ॥
प्रवाह्युवाच
सुताः प्रसंगेन भवन्ति वीर्यात्तव प्रसादात्परमाः सम्पदश्च
या ह्युत्तमश्लोकरसायनाः कथास्तत्सेवनादास्त्वपवर्गवर्त्मनि ॥ ३.८.१० ॥
भक्तिर्भवेत्सर्वदा देवदेव सदाप्यहं निरृतेः साम्यमेव
सहर्भाष्यकोमित्रः त्कयीतारः प्रकीर्तिताः ॥ ३.८.११ ॥
कोणाधिपो निरृतिश्च प्रावही प्रवहप्रिया
चत्वार एते पर्जन्यात्त्रिगुणाः परिकीर्तिताः ॥ ३.८.१२ ॥
तदनन्तरजान्वक्ष्ये ताञ्छृणु त्वं खगेश्वर
प्रवाहभार्यानन्तरजो विष्वक्सेनोथपार्षदः
वायुपुत्रो महाभागः हरिं स्तोतुं प्रचक्रमे ॥ ३.८.१३ ॥
विष्वक्सेन उवाच
भगवान्मोक्षदः कृष्णः पूर्णानन्दो सदायदि
यदि स्यात्परमा भक्तिर्ह्य परोक्षत्वसाधना ॥ ३.८.१४ ॥
तथा स्वगुरुमारभ्य ब्रह्मान्तेषु च साधुषु
तद्योग्यतानुसारेण भक्तिर्निष्कपटा यदि ॥ ३.८.१५ ॥
तुलस्यादिषु जीवेषु यदि स्यात्प्रीतिरण्डज
संस्मृतिश्च तदा नाशी भूयादेव न संशयः ॥ ३.८.१६ ॥
एवं स्तुत्त्वा महाभागो विष्वक्से नो महाप्रभो
तूष्णीं बभूव गरुड प्राञ्जलिर्नम्रकन्धरः
मित्रादहं न्यून एव नात्र कार्या विचारणा ॥ ३.८.१७ ॥
इति श्रीगा म उ तृ ध विष्णुस्तुतिर्देवतारम्यादि अष्टमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ९
श्रीगरुड उवाच
अजानजस्वरूपं च ब्रूहि कृष्ण महामते
तदन्यांश्च क्रमेणेव वक्तुं कृष्ण त्वमर्हसि ॥ ३.९.१ ॥
श्रीकृष्ण उवाच
अजानाख्या देवतास्तु तत्तद्देवकुले भवाः
अजानदेवतास्ता हि तेभ्योग्याः कर्मदेवताः ॥ ३.९.२ ॥
विराधश्चारुदेष्णश्च तथा चित्ररथस्तथा
धृतराष्ट्रः किशोरश्च हूहूर्हाहास्तथैव च ॥ ३.९.३ ॥
विद्याधरश्चोग्रसेनो विश्वावसुपरावसू
चित्रसेनश्च गोपालो बलः पञ्चदश स्मृताः ॥ ३.९.४ ॥
एवमाद्यश्च गन्धर्वाः शतसंख्याः खगेश्वर
अजानजसमा ज्ञेया मुक्तौ संसार एव च ॥ ३.९.५ ॥
अज्ञानजास्तु मे देवाः कर्मजेभ्यः शतावराः
घृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥ ३.९.६ ॥
सुकेतुः शबरी चैव मञ्जुघोषा च पिङ्गला
इत्यादिकं यक्षरत्नं सह संपरिकीर्तितम् ॥ ३.९.७ ॥
अजानजसमा ह्येते कर्मजेभ्यः शतावराः
विश्वामित्रो वसिष्ठश्च नारदश्च्यवनस्तथा ॥ ३.९.८ ॥
उतथ्यश्च मुनिश्चैतान्द्राजपित्वा खगेश्वर
ऋषयश्च महात्मानो ह्यजानजसमाः स्मृताः ॥ ३.९.९ ॥
शतर्चिः कश्यपो ज्ञेयो मध्यमश्च पराशरः
पावमान्यः प्रगाथश्च क्षुद्रसूक्तश्च देवलः ॥ ३.९.१० ॥
गृत्समदो ह्यासुरिश्च भरद्वाजोथ मुद्गलः
उद्दालको ह्यृ शृङ्गः शङ्खः सत्यव्रतस्तथा ॥ ३.९.११ ॥
सुयज्ञश्चैव बाभ्रव्यो माण्डूकश्चैव बाष्कलः
धर्माचार्यस्तथागस्त्यो दाल्भ्यो दार्ढ्यच्युतस्तथा ॥ ३.९.१२ ॥
कवषो हरितः कण्वो विरूपो मुसलस्तथा
विष्णुवृद्धश्च आत्रेयः श्रीवत्सो वत्सलेत्यपि ॥ ३.९.१३ ॥
भार्गवश्चाप्नवानश्च माण्डूकेयस्तथैव
मण्ड्कश्चैव जाबचलिः वीतिहव्यस्तथैव च ॥ ३.९.१४ ॥
गृत्समदः शौनकश्च इत्याद्या ऋषयः स्मृताः
एतेषां श्रवणादेव हरिः प्रीणाति सर्वदा ॥ ३.९.१५ ॥
ब्रुवे द्व्यष्टसहस्रं च शृणु तार्क्ष्य मम स्त्रियः
अग्निपुत्रास्तु यद्द्व्यष्टसहस्रञ्च मम स्त्रियः
अजानजसमा ह्येता (ते) नात्र कार्या विचारणा ॥ ३.९.१६ ॥
त्वष्टुः पुत्री कशेरूश्च तासां मध्ये गुणाधिका
तदनन्तरजान्वक्ष्ये शृणु सम्यक्खगेश्वर ॥ ३.९.१७ ॥
आजानेभ्यस्तु पितरः सप्तभ्योन्ये शतावराः
तथाधिका हि पितर इति वेदविदां मतम् ॥ ३.९.१८ ॥
तदनन्तराजान्वक्ष्ये शृणु त्वं द्विजसत्तम
अष्टाभ्यो देवगन्धर्वा अष्टोत्तरशतं विना ॥ ३.९.१९ ॥
तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः
स्वमुकेनेव देवैश्च आज्ञाप्याः सर्वदा गणाः ॥ ३.९.२० ॥
आख्याता देवगन्धर्वास्तेभ्यस्ते च शतावराः
तेभ्यस्तु क्षितिपा ज्ञेया अवराश्च शतैर्गुणैः ॥ ३.९.२१ ॥
तेभ्यः शतगुणाज्ञेया मानुषेषूत्तमा गणाः
एवं प्रासंगिकानुक्त्वा प्रकृतं ह्यनुसराम्यहम्
एवं ब्रह्मादयो देवा लक्ष्म्याद्या अपि सर्वशः ॥ ३.९.२२ ॥
स्तुत्वा तूष्णीं स्थिताः सर्वे प्राञ्जलीकृत्य भो द्विज ॥ ३.९.२३ ॥
इति स्तुतश्च देवेशो भगवान् हरिरव्ययः
तेषामायतनं दातुं मनसा समचिन्तयत् ॥ ३.९.२४ ॥
इदं पवित्रमारोग्यं पुण्यं पापप्रणाशनम्
हरिप्रसादजनकं स्वरूपसुखसाधनम् ॥ ३.९.२५ ॥
इदं तु स्तवनं विप्रा न पठन्तीह मानवाः
न शृण्वन्ति च ये नित्यं ते सर्वे चैव मायिनः ॥ ३.९.२६ ॥
नस्मरन्तोन्तरं नित्यं ये भुञ्जन्ति नराधमाः
तैर्भुक्ता सततं विष्ठा सदा क्रिमिशतैर्युता ॥ ३.९.२७ ॥
इति श्रीगारुडे महापुराणे तृती उत्त ब्रह्मकाण्डे देवकृतविष्णुस्तुतिदेवतातारतम्यनिरूपणं नाम नवमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १०
गरुड उवाच
देवैरेवं स्तुतो विष्णुर्भगवान्सात्त्वतां पतिः
कीदृशं ह्याश्रयं दत्त्वैषां विवेश महाप्रभुः ॥ ३.१०.१ ॥
एतद्वेदितुमिच्छामि कृष्णकृष्ण महाप्रभो
सम्यग्ब्रूहि दयालो त्वं यदि मच्छ्रोत्रमर्हति ॥ ३.१०.२ ॥
श्रीकृष्ण उवाच
तेषु तत्त्वेषु भगवान्स विवेश महाप्रभुः
क्षोभयामास भगवान् संबन्धविधुरो हरिः ॥ ३.१०.३ ॥
अदौ ससर्ज भगवान् ब्रह्माण्डं कन कात्मकम्
पञ्चाशत्कोटिविस्तीर्णं योजनानां समन्ततः ॥ ३.१०.४ ॥
तदूर्ध्वमण्ववयवस्तावान्कनकरूपकः
वर्तते तत ऊर्ध्वं तु पञ्चाशत्कोटिभूतलम् ॥ ३.१०.५ ॥
एवं कोटिशतं तस्यावयवः परिकीर्तितः
ततश्च सप्तावरणैः समतात्परिधीकृतम् ॥ ३.१०.६ ॥
कबन्धावरणं ह्याद्यं कोट्या दशसहस्रकम्
द्वितीया वरणं ज्ञेयं पावकस्य महात्मनः ॥ ३.१०.७ ॥
अपां दशगुणैर्युक्तं समन्तात्परिधी (खी) कृतम्
तृतीयावरणं ज्ञेयं हरस्यैव महात्मनः ॥ ३.१०.८ ॥
दशाधिकं पावकाच्च समन्तात्परिवारितम्
चतुर्थावरणं ज्ञेयं नभसोपि महाप्रभो ॥ ३.१०.९ ॥
हराद्दशगुणैरेवं समन्तात्परिवारितम्
पञ्चमावरणं ज्ञेयमहङ्काराख्यमेवच ॥ ३.१०.१० ॥
व्योम्नो दशगुणैरेवं समन्तात्परिवारि तम्
षष्ठमावरणं प्रोक्तं महत्तत्त्वं खगेश्वर ॥ ३.१०.११ ॥
अहङ्काराद्दशगुणं समन्तात्परिवारितम्
सप्तमावरणं प्रोक्तं त्रिगुणावरणं प्रभो ॥ ३.१०.१२ ॥
महत्तत्त्वाद्दशगुणैरधिकं परिकीर्तितम्
महत्तत्त्वानन्तरं च तमो ह्यावरणं स्मृतम् ॥ ३.१०.१३ ॥
महत्तत्त्वात्पञ्चगुणैरधिकं परिकीर्तितम्
तस्माच्च द्विगुणं ज्ञेयंरजो ह्यावरणं स्मृतम् ॥ ३.१०.१४ ॥
ततश्च द्विगुणं ज्ञेयं सत्त्वावरणमुत्तमम्
त्रयश्चैवं मिलित्वा तु एकावरणमीरितम् ॥ ३.१०.१५ ॥
अव्याकृताख्यमाकाशं तदनन्तरमीरितम्
मर्यादारहितश्चैवं तत्रास्ते हरिरव्ययः ॥ ३.१०.१६ ॥
अष्टमावरणं व्योम्नोरं तरा विरजा नदी
पञ्चयोजनविस्तीर्णा समन्तात्परीधीकृता ॥ ३.१०.१७ ॥
अस्ति पुण्यतमा ज्ञेया लोकसंसारनाशिनी
एवं चतुर्मुखेनैव तदा हृष्यं ति चाण्डज ॥ ३.१०.१८ ॥
ते सर्वे विरजानद्यां सम्यक्स्नात्वा विसर्ज्य च
लिङ्गदेहं ततः पश्चान्मोक्षं विन्दन्ति ते हरेः ॥ ३.१०.१९ ॥
अपरोक्षदृशामेवं ब्रह्मणा सह गामिनाम्
विरजातरणं विद्धि नान्येषां विनतासुत ॥ ३.१०.२० ॥
अपरोक्षदृशां ब्रह्मन्व्यासादीनां खगेश्वर
विरजातरणं नास्ति भोक्तव्यत्वाच्च कर्मणः ॥ ३.१०.२१ ॥
विरिञ्चेनैव साकं तु कल्पेस्मिन्नधिकारिणाम्
तेषां तु नियमेनैव सर्वप्रारब्धसंक्षयः ॥ ३.१०.२२ ॥
भवत्येवं न संदेहो नान्येषां सर्वसंक्षयः
अतस्तु विरजातरणं तेषामेव भवेत्पटो ॥ ३.१०.२३ ॥
विरजातरणं नास्ति तेषां त (तयोस्त)त्संगिनां तथा
सर्वारब्धक्षयो नास्ति यतस्तेषां खगाधिप ॥ ३.१०.२४ ॥
अतश्च सर्वथा नास्ति विरजातरणं प्रभो
प्रलये विरजानद्या लयो नास्ति खगेश्वर ॥ ३.१०.२५ ॥
लक्ष्म्यात्मिका तु सा ज्ञेया लिङ्गदेहविदारिणी
ब्रह्मत्वयोग्या ऋजवो नाम देवाः प्रकीर्तिताः ॥ ३.१०.२६ ॥
तेपि प्रत्येकशः संति ह्यनन्ताश्च पृथग्गणाः
पृथक्पृथक्च तैः साकं मोक्षयोग्याः खगेश्वर ॥ ३.१०.२७ ॥
जीवाः संति ह्यनेके च प्रतिकल्पे सृजन्ति ते
द्वात्रिंशल्लक्षणैः सम्यग्युक्ता वायुत्वयोग्यकाः ॥ ३.१०.२९ ॥ (१०.२८)
अष्टाविंशल्लक्षणैश्च गिरीशपदयोगिनः
चतुर्विंशतिमारभ्याषोडशाच्च सुराः स्मृताः ॥ ३.१०.२९ ॥
अष्टका ऋषयः प्रोक्तास्तदूनाश्चक्रवर्तिनः
शतजन्म समारभ्य ब्रह्मणः परमेष्ठिनः ॥ ३.१०.३० ॥
अपरोक्षमिति प्रोक्तं तथा ह्यारब्धसंक्षयः
एकेन शतकल्पेन वायुत्वं याति भो द्विज ॥ ३.१०.३१ ॥
शतजन्मनि ब्रह्मत्वं याति पश्चाद्धरेः पदम्
चत्वारिंशद्ब्रह्मकल्पं समारभ्य खगेश्वर ॥ ३.१०.३२ ॥
रुद्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः
एकचत्वारिंशकल्पे शेषत्वं याति सुव्रत ॥ ३.१०.३३ ॥
ब्रह्मणा सह मोक्षं च याति सम्यङ्न चान्यथा
कल्पविंशतिमारभ्य ब्रह्मणः परमेष्ठिनः ॥ ३.१०.३४ ॥
इन्द्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः
ब्रह्मणैव सहायाति हरिं नारायणं परम् ॥ ३.१०.३५ ॥
गरुड उवाच
पञ्चाशीतिब्रह्मकल्पं समारभ्य महाप्रभो
रुद्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः ॥ ३.१०.३६ ॥
इति श्रुतं मया ब्रह्मन्ब्रह्मणोक्तं हरेः प्रियात्
इत्थं त्वयोक्तं श्रीकृष्ण संशयोबाधते मम ॥ ३.१०.३७ ॥
अतो मे संशयं छिन्धि यथा न स्यात्तथा पुनः
इति तद्वचनं श्रुत्वा कृष्णो वचनमब्रवीत् ॥ ३.१०.३८ ॥
श्रीकृष्ण उवाच
ब्रह्मोक्तस्य मयोक्तस्य विवादो नास्ति सर्वथा
संदेहस्त्वज्ञदृष्टीनां ज्ञानिनां नास्ति सर्वथा ॥ ३.१०.३९ ॥
अशीतिह्यष्टका प्रोक्ता अष्टपञ्च खगेश्वर
चत्वारिंशद्ब्रह्मकल्प एवं प्राह चतुर्मुखः ॥ ३.१०.४० ॥
तत्त्वानां बहुगोप्यत्वात्तथोक्तं ब्रह्मणा पुरा
अभिप्रायस्त्वेवमेव ज्ञातव्यो नात्र संशयः ॥ ३.१०.४१ ॥
पञ्चा शीतिब्रह्मकल्पं ये विजानन्ति भो द्विज
तेन्धं तमः प्रविशन्ति सत्यंसत्यं मयोदितम् ॥ ३.१०.४२ ॥
विरजानन्तरं विप्रं तथा व्याकृतमंबरम्
अनन्तपारं तदपि लक्ष्मीस्तस्याभिमानिनी ॥ ३.१०.४३ ॥
संख्यानुगणनं नाम यस्य नास्ति महाप्रभो
न दानं जातिप्रोक्तं सर्वदा नास्ति संशयः ॥ ३.१०.४४ ॥
अण्डाभिमानी ब्रह्मा तु विराडाख्यो ह्यभूत्तदा
एवं मतं स निर्माय भगवान्हरिख्ययः ॥ ३.१०.४५ ॥
विशेषात्तत्र गरुड देवैस्तत्त्वाभिमानिभिः
अधश्चोर्ध्वं तदाक्रम्य हरिस्तिष्ठति सर्वदा ॥ ३.१०.४६ ॥
एवं प्राकृतसर्गोक्तिर्वैकृतं शृणु पक्षिराट् ॥ ३.१०.४७ ॥
गरुड उवाच
सृष्टिरुक्ता त्वया पूर्वं श्रुता सम्यङ्मया हरे ॥ ३.१०.४८ ॥
किं नाम प्राकृतं ज्ञेयं तथा किं वैकृतं प्रभो
एतद्विस्तीर्य मे ब्रूहि श्रोतुं कौतूहलं हि मे ॥ ३.१०.४९ ॥
श्रीकृष्ण उवाच
अव्यक्ताद्याः पृथिव्यन्ता अण्डाच्च बहिरुद्भवाः
ते सर्वे प्राकृताः प्रोक्तास्तेषां ज्ञानाद्विमच्यते ॥ ३.१०.५० ॥
ब्रह्माडं विकृतं ज्ञेयं ब्रह्माण्डान्तः खगेश्वर
या सृष्टिरुच्यते सद्भिः सैवोक्ता विकृतेति च ॥ ३.१०.५१ ॥
सृष्टिश्च प्रलयश्चैव संसारो भक्तिरेव च
देवता ऋषिमुख्याश्च लोका भूरादयस्तथा ॥ ३.१०.५२ ॥
अनाद्यनन्तकालीनाः सर्वदैकप्रकारकाः
जगत्प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन ॥ ३.१०.५३ ॥
यत्त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते
जगत्प्रवाहः सत्योऽयं हरिसेवेतिसाथा ॥ ३.१०.५४ ॥
सत्यं सत्यं पुनः सत्यमुद्धत्य भुजमुत्यते
वेदाच्छास्त्रं परं नास्ति न देवः केशवात्परः ॥ ३.१०.५५ ॥
सर्वोत्कृष्टं केशवं च विहायान्यमुपासते
तेषामन्धं तमो ज्ञेयं पितॄणां गरुणामपि ॥ ३.१०.५६ ॥
इदानीं शृणु पक्षीन्द्र वैकृतं सर्गमुत्तमम्
सम्यग्जानाति यो लोके स याति परमं पदम् ॥ ३.१०.५७ ॥
इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे ब्रह्माण्डादिवैकृतैकदेशप्राकृतसृष्टिनिरूपणं नाम दशमोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] ११
श्रीकृष्ण उवाच
पुरुषाख्यो हरिः साक्षाद्भगवान्पुरुषोत्तमः
शिश्येत्वण्डोदक विष्णुर्नृणां साहस्रवत्सरम्
लक्ष्मीश्चोदकरूपेण शय्यारूपेण भोण्डजा ॥ ३.११.१ ॥
विद्या तरङ्गरूपेण वायुरूपेण भोण्डज ॥ ३.११.२ ॥
तमोरूपेण सैवासी न्नान्यदासीत्कथञ्चन
असीद्गर्भोदके चैव नान्यदासीत्कथञ्चन ॥ ३.११.३ ॥
लक्ष्मीस्तुष्टाव च हरिं गर्भोदे पक्षिसत्तम
लक्ष्मीधराभ्यां रूपाभ्यां प्रकृतिर्हरिणा तथा ॥ ३.११.४ ॥
शेत श्रुतिस्वरूपेण स्तौति गर्भोदके हरिम्
नारायण नमस्तेऽस्तु शृणु विज्ञापनं मम ॥ ३.११.५ ॥
अजां जहि महाभाग योग्यानां मुक्तिमावह
अजा तु प्रकृतिः प्रोक्ता चापरा प्रकृतिः परा ॥ ३.११.६ ॥
शततोवरा तु ब्रह्माणी ब्रह्मपत्नी वरानना
उमा शच्यवरा तस्या अवराः संप्रकीर्तिताः ॥ ३.११.७ ॥
एतासां हननं नैव प्रार्थयामः सदा हरे
अस्ति प्रतिनृषु ब्रह्म प्रकृती द्वे व्यवस्थिते ॥ ३.११.८ ॥
एका तु नित्यसंसारा त्वजशब्दाभिधायिका
द्वितीया तु तमोऽपोह्या अजशब्दाभिधायिका ॥ ३.११.९ ॥
अत एव त्वजे ज्येष्ठे इति लोके प्रकीर्तिते
सुखदुः खप्रदा चैव अपरा दुः खदैव तु ॥ ३.११.१० ॥
मोक्षाधिकारिणामेव ज्ञानैश्वर्यादयो गणाः
तेषामाच्छादिका होका तमोङ्गा सा प्रकीर्तिता ॥ ३.११.११ ॥
जीवं प्रति महाविष्णुं पाह्याच्छादयति प्रभो
सा परा प्रकृतिर्ज्ञेया परमाच्छादिका स्मृता ॥ ३.११.१२ ॥
एवं सा परमा दुष्टा होका तमोङ्गा तु प्रकीर्तिता
जीववर्गेष्वेव खग ब्रह्मादेर्नास्ति सा क्वचित् ॥ ३.११.१३ ॥
पिशाचवत्समुद्दिष्टा जीवस्येत्यधिकारिणः
प्रेरिका तु तयोर्देव्यो स्त्वहमाद्या सुखात्मिका ॥ ३.११.१४ ॥
तत्र विष्णो महाभाग सगुणाच्छादको हितः
परमाच्छादिकां दुष्टां व्यामुच्यैव महाप्रभो ॥ ३.११.१५ ॥
मोक्षं देहि महादेव त्वद्भक्तानां महाप्रभो
परमाच्छादिका ह्यस्मान्नित्य संसारिणो यतः ॥ ३.११.१६ ॥
अत एव च नित्यत्वात्तस्मात्तदपसारणम्
कुरु देव महाभाग इति विज्ञायतां मम ॥ ३.११.१७ ॥
एवं स्तुतो हरिः कृष्णो सुप्रबुद्धोऽपि सर्बदा
उद्वुद्धवन्महा विष्णुरभूदज्ञपरीक्षया ॥ ३.११.१८ ॥
तस्य नाभेरभूत्पद्मं सौवर्णं भुवनाश्रयम्
तत्प्राकृतं च विज्ञेयं भूदेवी त्वभिमानिनी ॥ ३.११.१९ ॥
अनन्तसूर्यवच्चैव प्रकाशकरमीरितम्
चिदानन्दमयो विष्णुस्तस्माद्भिन्नो न संशयः ॥ ३.११.२० ॥
विष्णोः स्वरूपभूतं च ये विजानन्ति ते नराः
ते यान्ति ह्यधरं लोकं तथा तत्संगिसंगिनः ॥ ३.११.२१ ॥
किरीटादिकवच्चैव ज्ञातव्यं च खगेश्वर
किरीटाद्या अपि हरेर्द्विधा संति न संशयः ॥ ३.११.२२ ॥
स्वरूपा ह्यस्वरूपाश्च स्वस्वरूपनि दर्शने
गृहीता इति विज्ञेया न स्वरूपाः खगेश्वर ॥ ३.११.२३ ॥
भ्माण्डं ह्यसृजत्तत्र सर्वलोकविधायकम्
प्रलये मुक्तिहीनश्च सुप्त इत्युच्यते बुधः ॥ ३.११.२४ ॥
तस्य समिवस्त्रिवं च न ज्ञातव्या खगेश्वर
प्रलयोपि महाभाग ब्रह्मवाय्वोर्न चास्ति हि ॥ ३.११.२५ ॥
वृत्तिरूपं परं ज्ञानं पाद्यार्घ्यं नात्र संशयः
इन्द्रियाणामुपरतिः सुप्तिरित्युच्यते बुधैः ॥ ३.११.२६ ॥
ब्रह्मवाय्वोश्च पासग्नि वास्तवं स्यात्खगेश्वर
कथं तर्हि तयोर्वर्ते ह्यविलत्यत्वमुच्यते ॥ ३.११.२७ ॥
तस्मात्तद्वास्तवं नास्ति ब्रह्मवाय्वोः खगेश्वर
स्वप्नावस्थायाः सदृशी ह्यवस्था सुप्तिसंज्ञिका ॥ ३.११.२८ ॥
ब्रह्मण्यमुख्यया वृत्त्या ह्यस्तीत्येवं निबोध मे
अतो न वास्तवमिदमङ्गीकार्यं खगेश्वर ॥ ३.११.२९ ॥
वास्तवं ये विजानन्ति तेषां नित्यं धनं तपः
श्रीगरुड उवाच
सुप्तिस्त्वज्ञानकार्यत्वात्सुप्तिर्नास्तीत्युदीरिता ॥ ३.११.३० ॥
यदा हि कारणं चास्ति तदा कार्यमिति प्रभो
इत्यभिप्रायगर्भेण त्वं समाधास्य ते यदि ॥ ३.११.३१ ॥
तर्हि तस्य महाभाग कथं ब्रूहि भयादिकम्
भयादिकं ह्यस्तु नाम का वास्माकं क्षतिर्भवेत् ॥ ३.११.३२ ॥
एवमुक्तस्तु गोविन्दोब्रवीत्तत्रापि कारणम्
भयं त्वज्ञानकार्यं स्यात्कार्याकारणमत्र हि ॥ ३.११.३३ ॥
प्रीयते मत्वा ब्रह्म तस्मात्सुप्तिश्च तत्र हि
अज्ञादिकं यदि ब्रह्म तस्य न स्यात्कथञ्चन ॥ ३.११.३४ ॥
कथं सुखी प्रदृश्येत न कथञ्चित्करिष्यति
कथं वा मुक्तिपर्यन्तं ज्ञानव्यक्तिर्वदस्व मे ॥ ३.११.३५ ॥
यद्यज्ञानं तस्य सत्यं न स्यात्तर्हि महाप्रभो
अत्यादरात्कथं ब्रह्मञ्छ्रवणं कुरुते वद ॥ ३.११.३६ ॥
इति तस्य वचः श्रुत्वा कृष्णो वचनमब्रवीत्
भयं च वास्तवं तस्य न जानीहि महामते ॥ ३.११.३७ ॥
दृश्यते मद्भयं तस्य हरिप्रीत्यर्थमेव च
भयाकामवतीवानमुवास्तवमीरितम् ॥ ३.११.३८ ॥
प्राप्तप्राब्धलेशस्त तस्य नास्ति खगेश्वर
दुः खाज्ञानादिकं किञ्चित्कथं तस्मिन् भविष्यति ॥ ३.११.३९ ॥
विष्णोराज्ञानुसारेण भयायानुकरोत्यसौ
तेन प्रीणाति च हरिस्तस्य नास्त्यत्र संशयः ॥ ३.११.४० ॥
शृणोति सततं ब्रह्मा न चिन्त्यात्तावताज्ञता
कदाचिद्दृश्यते ब्रह्मा दुः खी न च खगेश्वर ॥ ३.११.४१ ॥
यद्ब्रह्म च न जानीयाद्धरिप्रीत्यर्थमेव च
दुः खिवद्दृश्यते ब्रह्मा आज्ञानां मोहनाय च ॥ ३.११.४२ ॥
योग्यतामनतिक्रम्य यावज्ज्ञानं च तिष्ठति
ब्रह्मणस्तावदेवास्ति नात्र कार्या विचारणा ॥ ३.११.४३ ॥
ज्ञानस्य व्यक्तता नाम विद्यमानस्य चादरात्
ज्ञानस्यासादनं चैव ज्ञानव्यक्तिरिति स्मृता ॥ ३.११.४४ ॥
अतो ज्ञानादिकं नास्ति ब्रह्मणः परमेष्ठिनः
पद्माद्धिरण्म याज्जातो ब्रह्मा तु चतुराननः ॥ ३.११.४५ ॥
सर्वदाऽलोचनायुक्तस्तेन स्वालोचनं कृतम्
अज्ञानां मोहनार्थाय हरिप्रीत्यर्थमेव च ॥ ३.११.४६ ॥
संकल्पोपि तथैवास्ति न ह्यज्ञानात्कृतस्तथा
को वा मां सृष्टवानत्र इति ह्यालोच्य स प्रभुः ॥ ३.११.४७ ॥
तं विचारयितुं ब्रह्मा पद्मनाडीं विवेश ह ॥ ३.११.४८ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे श्रीकृथ्णगरुडसंवादेऽज्ञानहेतुनिरूपणं नामैकादशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १२
श्रीकृष्ण उवाच
नाडीं समाविश्य महानुभावः श्रीविष्णुभक्तो त्वथ पुष्करस्थः
विचारयामास गुरुं स्वमूलं नारायणं निर्गुणमद्वितीयम् ॥ ३.१२.१ ॥
एतावता हरिभक्तस्य तस्याप्यच्छिन्नभक्तस्य चतुर्मुखस्य
विचारकाले च विचिन्तनीयो ह्यज्ञानलेशस्तु खगेश्वरेश्वर ॥ ३.१२.२ ॥
यथास्ति विष्णोर्मनः सङ्कल्प एव तथैव सोपि प्रकरोति नित्यम्
आलोचने तस्य सदास्ति भूमन्स्वयोग्यतामनतिक्रम्य चैव ॥ ३.१२.३ ॥
हरेः स्वरूपे च तथा प्रपञ्चः स्वस्मिन्स्वरूपे च खगस्ति ज्ञानम्
यथापि नित्यं परिचारवारि च अज्ञातवद्दृश्यते विष्णुना च ॥ ३.१२.४ ॥
हरेः प्रीत्यर्थं कुरुते सौ कदाच्चित्तत्रापि कश्चिद्विशेषोऽस्ति वीन्द्र
शृणुष्व सम्यङ्निगृहीतचित्तो यथा प्रोवाच स विजानाति देवः ॥ ३.१२.५ ॥
सदा त्वदोषं प्रविशेषेश्च मुक्तवेदास्तथा वा पविजानन्ति नित्यम्
तस्य स्वरूपं न तथा हरिं च स्वयोग्यतामनतिक्रम्य वेधाः ॥ ३.१२.६ ॥
हरेः स्वरूपं न विजानाति सर्वं स्वयो ग्यरूपं सर्वदा वेत्ति विष्णोः
तत्राज्ञानं नास्ति किञ्चिद्द्विजेन्द्र यावत्स्वरूपं च तथैव लक्ष्म्याः ॥ ३.१२.७ ॥
वेधा न जानाति कुतस्तदन्ये तयोः स्वरूपंन विजानाति सर्वम्
तथापि वेदानेकदेशेन वेद जानाति लक्ष्मीर्हरिरूपं च यावत् ॥ ३.१२.८ ॥
तावन्न जानाति विधिः खगेन्द्र ज्ञाने विधातुश्च स्वयोग्यभूते
अतो विरिञ्चस्य न चिन्तनीयो ह्यज्ञानलेशः क्वापि देशे च काले ॥ ३.१२.९ ॥
नाडीं समाविश्य तदा विरिञ्चो न वेद नारायणमेकवच्च
तदा शृणोत्तं कमलासनं प्रभुस्तपस्तप द्व्यक्षरं सादरेण ॥ ३.१२.१० ॥
अभिप्रायं तस्य सम्यग्विदित्त्वा तपः कुरु त्वं हरितुष्ट्यर्थमेव
तपोऽकरोद्धरिपादैक निष्ठो हरेः प्रीत्यर्थं दिव्यसहस्रवर्षम् ॥ ३.१२.११ ॥
ततो हरिः प्रादुरासीत्खगेन्द्र वरं दातुं भक्तवरस्य दिव्यम्
सदा विष्णुं देवदेवो ददर्श चतुर्भुजं तं जलजायताक्षम् ॥ ३.१२.१२ ॥
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं संपश्यन्तं सुप्रसन्नार्द्रदृष्ट्या
दृष्ट्वा हरिं ब्रह्म नारायणं च पुरः स्थितं भक्तवश्यं दयालुम् ॥ ३.१२.१३ ॥
समर्चयामास महाविभूत्या भक्त्या हरेः पादतीर्थं दधार
अस्तौन्महाभागवतप्रधानो हरिं गुरुं भक्तिविवर्धितात्मा ॥ ३.१२.१४ ॥
ब्रह्मोवाच
रमेश लोकेश जगन्निवास तव स्वरूपं न विजानाति देवी
तव प्रसादात्सुविजानाति देवी गुणान्वेदोक्तान्सर्वदा वीन्द्र सर्वान् ॥ ३.१२.१५ ॥
तथापि सा न विजानाति देवी साकल्येनाशेषितः सद्गुणांश्च
यद्यप्यनुक्तं पञ्चभिर्नास्ति वेदैस्तथापि देवेऽत्र विशेष आस्ते ॥ ३.१२.१६ ॥
तत्त्वेच्छवः प्रविजानन्ति नित्यं वेदे सूक्तान्क्वाप्यनुक्तांश्च सर्वान्
आदौ जानन्त्यत्र वेदा मुरारे ऋगादयः सुष्ठु चत्वार एव ॥ ३.१२.१७ ॥
वेदा ह्येते वेदयन्तीति देव तथा पुराणं भारतं पञ्चरात्रम्
क्रमादितो विचिन्त्य सा विष्णुगुणान्स्वयोग्यान्सदा विजानाति रमापि देवी ॥ ३.१२.१८ ॥
विशेषतो ह्युक्तगुणा नृगादिषु स्वयोग्यभूतान्संविजानाति देवी
सामान्यतः प्रविजानाति देवी हरेर्गुणान्न विशेषाच्च नित्यम् ॥ ३.१२.१९ ॥
अहं विजानामि रमाप्र सादात्तव प्रसादाच्च गुणान्सदैव
स्वयोग्यभूताञ्छ्रुतिपूक्तान् गुणांश्च कांश्चिद्विजानाति हरेर्न कश्चित् ॥ ३.१२.२० ॥
तव प्रसादाच्च मम प्रसादात्कालान्तरे तांश्च जानाति शेषः
दुष्कर्मलेशान्न तिरोहितान् गुणान्यानेव पूर्वं विदितान् स्वयोग्यान् ॥ ३.१२.२१ ॥
तानेव ज्ञात्वा पुनरेव शेषस्तिरो हितांल्लब्धगुणस्ततः स्मृतः
सदा स्वयोग्यांश्च हरेर्गुणांश्च उमापतिश्चापि तव प्रसादात् ॥ ३.१२.२२ ॥
यदा विजानाति हरे मुरारे अप्राप्तलब्धेति तदोच्यते हरः
ममापि लोकं च यदा मुरारे तदा विजानाति तव स्वरूपम् ॥ ३.१२.२३ ॥
गोविन्द नित्याव्यय चित्सुपूर्ण तव प्रसादान्नास्ति शतेषु तन्ममयेये हि देवाश्च शरीरधारिणस्ते ज्ञानहीना विषयेषु निष्ठाः ॥ ३.१२.२४ ॥
येये देवा विषयेषु निष्ठास्तेते देवा बहिरर्थभावाः
येये देवा बहिरर्थभावा मोक्षा दन्ये प्रलपन्तः सदैव ॥ ३.१२.२५ ॥
तव स्वरूपे च जगत्स्वरूपे तवासमानं नास्ति विष्णो सदैव
यतस्तव प्राकृतो नास्ति देहो यतो ज्ञानं नास्ति नास्त्ये व नित्यम् ॥ ३.१२.२६ ॥
पूर्णानन्दज्ञानदेहोऽपि नित्यं सदा शरीरी भाष्यते भक्तिमद्भिः
यतस्तव प्राकृतो नास्ति देहो ह्यतोपि नित्यमशरीरीति च स्मृतः ॥ ३.१२.२७ ॥
नतोऽहं सर्वदास्मिञ्शरीरेऽहंममेत्यभिमानेन शून्यः
अत्तोऽप्यहं त्वशरीरी सदैव तथैव नित्यं बहिरर्थैश्च शून्यः ॥ ३.१२.२८ ॥
स्वभोगभार्यासत्यलोकादिभोगः स्वयोग्यभोगो वस्त्रमाल्यादिभोगः
एते हि सर्वे बहिरर्थसंज्ञकाः नैसर्गकामाः सर्वदा मे हि विष्णो ॥ ३.१२.२९ ॥
तथाप्यहं कामहीनो हि नित्यं रुद्रादयः कामवन्तो यतोतः
शरीरिणस्ते बहिरर्थभावा अज्ञानवन्तोऽपि च संस्मृताः खग ॥ ३.१२.३० ॥
स्वदारभोगे केवलां प्रीतिमेवं हरेरेवं सर्वदाहं करोति
स्तम्बास्त्रादीन्धारियिष्ये सदैव विष्णोः प्रीत्यर्थं नैव गात्रार्थमेव ॥ ३.१२.३१ ॥
नित्यानन्दादन्यकामो न मेस्ति अतः सदा बहिरर्थैश्च शून्यः
ममापि भार्या बहिरर्थशून्या अमूढभावा मूढवतीव दृश्यते ॥ ३.१२.३२ ॥
अमूढभूता ज्ञानिनां सर्वदैव तथाज्ञानां ज्ञानहीनेति भाति
यावज्ज्ञानं चास्ति मे वास्तुदेव तावज्ज्ञानं वासुदेवस्य चास्ति ॥ ३.१२.३३ ॥
यावज्ज्ञानं वासुदेवस्य चास्ति तावज्ज्ञानं ज्ञानवतामृजूनाम्
क्रमेणैवाज्ञानिनां वानृजूनामस्पष्टरूपो ज्ञानगतो विशेषः ॥ ३.१२.३४ ॥
सौरिप्रकाशे च यथैव दर्शनं तथा मम ज्ञानगतो विशेषः
दीपप्रकाशे च यथैव दर्शनं तथा ज्ञानं वासुदेवस्य चास्ति ॥ ३.१२.३५ ॥
अस्पष्टपरूपा न्यूनता ह्यस्ति वायौ तथा ज्ञानं नैव संचिन्तनीयम्
एतादृशी ज्ञानशक्तिर्मुरारेर्वाय्वादीनां मोक्षपर्यन्तमस्ति ॥ ३.१२.३६ ॥
ज्ञानं त्वृजूनां मोक्षकाले पिपञ्चवाय्वादीनां प्रलयेनाद्रादीर्न
वायोर्मम प्रलये सृष्टिकाले तथा गायत्र्या नास्तिनास्त्येव मोहः ॥ ३.१२.३७ ॥
गायत्रीवद्भारत्या देवदेव ज्ञातव्यमेवं हरितत्त्ववेदिभिः
ममाज्ञानं दृश्यते यत्र कुत्र दैत्यादीनां मोहनार्थ सदैव ॥ ३.१२.३८ ॥
तेन प्रीतिर्देवदेवस्य विष्णर्भविष्यतीत्येव विनिश्चितात्मा
प्रश्रादिकं त्वज्ञवत्सर्वदैवं करिष्येहं मोहनायाधमानाम् ॥ ३.१२.३९ ॥
सूर्योदये नास्ति यथा तमश्च तथाज्ञानं नास्तिनास्त्येव देव
करोम्यहं श्रवणं सर्वदैव हरिप्रीत्यर्थं निश्चतार्थं सतां हि ॥ ३.१२.४० ॥
शतजन्मगतानां त्वनृजूनां पूर्वमेव तु
अपरोक्षाभाव एव ह्यज्ञानं समुदीरितम् ॥ ३.१२.४१ ॥
अपरोक्षानन्तरं तु नास्त्यज्ञानं न संशयः
शतजन्मसु देवेश अपरोक्षेण सर्वदा ॥ ३.१२.४२ ॥
पूर्णज्ञानं ममास्त्येव नात्र कार्या विचारणा
शतजन्मसु पूर्वं तु परोक्षेण मम प्रभो ॥ ३.१२.४३ ॥
पूर्णं ज्ञानं सदाप्यस्तीत्येवमाहुर्महर्षयः
संज्ञाजन्मगतायाश्च सरस्वत्या महाप्रभो ॥ ३.१२.४४ ॥
नाज्ञानं चिन्तनीयं हि ब्रह्मय्वोश्च देव हि
अत्र कश्चिद्विशेषोस्ति ज्ञातव्यस्तत्वमिच्छुभिः ॥ ३.१२.४५ ॥
अवतारेषु भारत्याः कदाचिज्ज्ञानपूर्वकम्
सर्वदा ज्ञानरूपा सा सर्वदुः खविवर्जिता ॥ ३.१२.४६ ॥
दैत्यानां मोहनार्थाय अंशे दुः खीव दृश्यते
तस्या दुः खादिकं किञ्चिन्नास्तिनास्त्येव सर्वथा ॥ ३.१२.४७ ॥
अपरोक्षतिरोभाव ईषत्काले प्रदृश्यते
तावन्मात्रेण वाज्ञानं तस्यां नैवाहितं च यत् ॥ ३.१२.४८ ॥
मूलरूपे तु नास्त्येव भारत्या ज्ञानविस्मृतिः
भारत्यास्तु यथा नास्ति सरस्वत्यास्तु किं पुनः ॥ ३.१२.४९ ॥
अंशावतरणं नास्ति सरस्वत्याः कदाचन
अंशावतरणं नास्ति ममापि मधुसूदन ॥ ३.१२.५० ॥
तथैव ज्ञानमस्त्येव हरेर्नारायणस्य च
वायोरंशावतारोस्ति यथा मूले तथैव च ॥ ३.१२.५१ ॥
बलज्ञाना दिकं सर्वं चिन्तनीयं न संशयः
तथापि वायौ दृश्यन्ते बलज्ञानादिव्यक्तयः ॥ ३.१२.५२ ॥
अवतारेषु वायोस्तु सम्यक्शक्त्यात्मनास्ति हि
अपरोक्षतिरोभावौ नांशावतरणेष्वपि ॥ ३.१२.५३ ॥
बलज्ञानादिकं यावन्मूलरूपे प्रदृश्यते
त्रेतायुगस्वरूपे च न दर्शयति तादृशम् ॥ ३.१२.५४ ॥
त्रेतायुगस्वरूपे च यादृक्चादर्शयत्प्रभो
द्वापरस्थे स्वरूपे तत्तद्दर्शयति तादृशम्
त्रेतायुगस्वरूपे च यादृक्चादर्शयत्प्रभो ॥ ३.१२.५५ ॥
द्वापरस्थे वायुरूपे यादृग्वा दर्शयत्प्रभुः
वायुः कलियुगे रूपे तद्दर्शयति तादृशम् ॥ ३.१२.५६ ॥
तथा दर्शयते वायुर्दैत्यानां मोहनाय च
अवतारेषु वायोश्च अन्तरं ये विदुः प्रभो ॥ ३.१२.५७ ॥
तेऽधं तमः प्रविशन्ते ते दैत्या न च ते सुराः
वायावप्यन्तरं नास्ति हरितत्त्वविनिर्णये ॥ ३.१२.५८ ॥
निन्दां कुर्वन्ति ये विष्णोर्जिह्वाछेदं करोम्यहम्
तदर्थमेव वायोश्च अवतारः सदा भुवि ॥ ३.१२.५९ ॥
गुणपूर्णस्य विष्णोस्तु निर्गुणत्वविचिन्तनम्
जातानन्दादिपूर्णाङ्ख्यं सोहमित्यादिचिन्तनम् ॥ ३.१२.६० ॥
चिदानन्दात्मके देहे उत्पत्त्यादिविचिन्तनम्
अच्छेद्याभेद्यगात्रेषु च्छेदभेदादिचिन्तनम् ॥ ३.१२.६१ ॥
देव्या नित्यावियोगिन्या वियोगादिविचिन्तनम्
क्लेशशोकादिशून्यस्य हरेः क्लेशादिचिन्तनम् ॥ ३.१२.६२ ॥
व्यासरामादिरूपेष्वनृषिविप्रत्वचिन्तनम्
कृष्णरामादिरूपेषु अन्तरस्य विचिन्तनम् ॥ ३.१२.६३ ॥
रामकृष्णादिरूपेषु अन्तरस्य विचिन्तनम्
रामकृष्णादिरूपेषु पराजयविचिन्तनम् ॥ ३.१२.६४ ॥
सन्तानार्थं तु कृष्णे न शिवपूजादिचिन्तनम्
रामेण दुः खयुक्तेन लिङ्गस्य स्थापनं कृतम् ॥ ३.१२.६५ ॥
पञ्चधातुमये कृष्णे हरिरूपविचिन्तनम्
स्वयं व्यक्तस्थले चापि चिदा नन्दत्वकल्पनम् ॥ ३.१२.६६ ॥
पितृमातृद्विजातीनां हरिरूपत्वचिन्तनम्
अस्वतन्त्रेण रुद्रेण हरेरैक्यदिचिन्तनम् ॥ ३.१२.६७ ॥
विष्णोः सूर्येण साकं च अभेदा दिविचिन्तनम्
सर्वोत्तमः सूर्य एव विष्ण्वाद्यास्तस्य किङ्कराः ॥ ३.१२.६८ ॥
इत्यादिचिन
्तनं दोषो हरिनिन्देति चोच्यते
अस्वयं व्यक्तिलिङ्गेषु अश्वत्थतुलसीषु च ॥ ३.१२.६९ ॥
शालग्रामं विहायैव नमनं ये प्रकुर्वते
ते सर्वे हरिनिन्दायामविकारिण एव हि ॥ ३.१२.७० ॥
मोक्षाधिकारिणो ये तु अज्ञानात्परमेश्वरम्
पार्थक्यनयनं येषु कुर्वन्ति यर्हि वा प्रभो ॥ ३.१२.७१ ॥
तर्हि तेषां हि कालेषु दुः खं याति न संशयः
अतः प्रार्थक्यनयनं ये कुर्वन्त्येषु सर्वदा ॥ ३.१२.७२ ॥
ते सर्वे त्वबुधा ज्ञेया नात्र कार्या विचारणा
अस्वयंव्यक्तलिङ्गेषु नमनं ये प्रकुर्वते ॥ ३.१२.७३ ॥
ते सर्वे ह्यसुरा ज्ञेया नान्यथा तु कथञ्चन
विहाय शून्यमश्वत्थं नमनं ये प्रकुर्वते ॥ ३.१२.७४ ॥
द्विमासहीनां तुलसीमप्रसूतां च गां नवाम्
ते सर्वे ह्यसुरा ज्ञेया नात्र कार्या विचारणा ॥ ३.१२.७५ ॥
गुल्माद्याश्च मनुष्यान्तास्ते ज्ञेया ब्रह्मबाहवः
अस्मच्छतायुः पर्यन्तमेक एव कलिः स्मृतः ॥ ३.१२.७६ ॥
कलौ संति कल्पमानं कलेरन्ते संति च
तस्मिन्दिने ब्रह्मरूपे गच्छन्ति च तमोन्तिकम् ॥ ३.१२.७७ ॥
तत्र स्थित्वा लोकमार्गं प्रतीक्षन्ते न संशयः
साधकैर्विष्णुकार्याणां वायुदासैः प्रपीडिताः ॥ ३.१२.७८ ॥
शतवर्षानन्तरं च सर्वेषां कलिना सह
वायोर्गदाप्रहारेण लिङ्गभङ्गो भविष्यति ॥ ३.१२.७९ ॥
तमोन्धं प्रविशन्त्येते तारतम्येन सर्वशः
तमस्यन्धेपि संसारे नात्र कार्या विचारणा ॥ ३.१२.८० ॥
सर्वेषामुत्तमोन्ते यः कलिरेव न संशयः
दूषको विष्णुभक्तानां तत्समो नास्ति सर्वदा ॥ ३.१२.८१ ॥
संसारे वान्धतमसि सर्वत्र हरिदूषकः
मिथ्यादाने ज्ञानबुद्धिर्दुः खे च सुखबुद्धिमान् ॥ ३.१२.८२ ॥
तस्मात्कलिसमो लोके शिवभक्तो न कुत्रचित्
दुर्योधनः स एवोक्तो दुः खानन्त्यस्वरूपवान् ॥ ३.१२.८३ ॥
तस्माच्छतगुणांशेन कलिभार्या तु सर्वदा
अलक्ष्मीरिति विख्याता सा लोके मन्थरा स्मृता ॥ ३.१२.८४ ॥
तस्माद्दशगुणांशोनो विप्रचित्तिस्तु सर्वदा
जरासंधः स एवोक्तः कालनेमिस्ततः परम् ॥ ३.१२.८५ ॥
तस्माच्छतगुणांशोनः स तु कंसेति विश्रुतः
तस्मात्पञ्चगुणैर्हीनौ मधुक्रैटभसंज्ञकौ ॥ ३.१२.८६ ॥
तावेव हंसहिडंबकौ ज्ञेयौ तौ च जनार्दन
विप्रचित्तिसमो ज्ञेयो भौमो वै भूतले स्मृतः ॥ ३.१२.८७ ॥
तस्मादष्ट गुणैरुच्यो हरिण्यकशिषुः स्मृतः
तस्माच्च त्रिगुणैर्हीनो हिरण्याक्षो महासुरः ॥ ३.१२.८८ ॥
मणिमांस्तत्समो ज्ञेयः किञ्चिदूनो बकः स्मृतः
तस्माद्विंशद्गुणैर्हीनस्तारकाख्यो महासुरः ॥ ३.१२.८९ ॥
तस्मात्षड्गुणतो हीनः शंबरो लोककण्टकः
शंबरस्य समो ज्ञेयः शाल्वो दैत्येषु चाधमः ॥ ३.१२.९० ॥
शंबरात्तु द्विगुणतो हिडिंबो न्यून उच्यते
बाणस्ततोऽधमो ज्ञेयः स तु कीचकनामतः ॥ ३.१२.९१ ॥
द्वापारख्यो महाहासोबाणासुरसमः स्मृतः
तस्माद्दशगुणैर्हीनो नमुचिदैत्यसत्तमः ॥ ३.१२.९२ ॥
नमुचेस्तुसमौ ज्ञेयौ पाक इल्वल इत्युभौ
तस्माच्चतुर्गुणैर्हीनो वातापिर्दानवाधमः ॥ ३.१२.९३ ॥
तस्मात्सार्धगुणैर्हीनो धेनुको नाम दैत्यराट्
धेनुकादर्धगुणतः केशी दैत्यस्तु चावरः ॥ ३.१२.९४ ॥
केशीदैत्यसमो ज्ञेयस्तृणावर्तो महासुरः
तस्माद्दशगुणैर्हीनो हंसो नामरमापते ॥ ३.१२.९५ ॥
त्रिरिकस्तु समो ज्ञेयस्तत्समः पौरुकस्मृतः
वेतः स एव विज्ञेयः पूर्वजन्मनि सत्तम ॥ ३.१२.९६ ॥
तस्मादेकगुणैर्हीनौ कुंभाण्डककुपर्णकौ
दुः शासनस्तु विज्ञेयो जरासंधसमः प्रभो ॥ ३.१२.९७ ॥
कंसेन तुल्यो विज्ञेयो विकर्णो दैत्यसत्तमः
कुंभकर्णाच्छतगुणैर्हीनौ क्रध्येति विश्रुतः ॥ ३.१२.९८ ॥
तस्माच्छतगुणैर्हीनः शतधन्वा महासुरः
समानस्तस्य विज्ञेयः कर्मारिर्दैत्यसत्तमः ॥ ३.१२.९९ ॥
कालकेयस्तु विज्ञेयः सदा वेनसमो मतः
अधमानां तु दैत्यानामुत्तमैः साम्यमुच्यते ॥ ३.१२.१०० ॥
तत्रावेशाच्च विज्ञेयं देवानां नात्र संशयः
तस्माच्छतगुर्णैहीनश्चित्तमानसुरो महान् ॥ ३.१२.१०१ ॥
तच्छरीराभिमानी तु तस्माच्छतगुणैर्वरः
तस्माच्छतगुणैहींनो हस्तमानसुरो महान् ॥ ३.१२.१०२ ॥
तस्माच्छतगुणैर्हीनः पादमानसुरो महान्
नेत्रेन्द्रियाभिमानी तु तस्माच्छतगुणो वरः ॥ ३.१२.१०३ ॥
चक्षुरिन्द्रियमानी तु तस्माच्छतगुणो वरः
तस्माच्छगुणैर्हीनः स्पर्शमानसुरो महान् ॥ ३.१२.१०४ ॥
तस्माच्छतगुर्णैहीनश्चण्डमानसुरो महान्
तस्माच्छतगुर्णैर्हीनः शिश्रमानसुरो महान् ॥ ३.१२.१०५ ॥
तस्माच्छतगुणैर्हीनः कर्ममानसुरः स्मृतः
कल्पाद्यैः प्रेरिताः सर्वे रुद्राद्या अधिकारिणः ॥ ३.१२.१०६ ॥
कदाचित्सुविरुद्धं च कुर्वन्ति तव सत्तम
कदाप्यहं च वायुश्च विरुद्धं नाचरेव भोः ॥ ३.१२.१०७ ॥
मूलेष्वंशावतारेषु रुद्रादीना महाप्रभो
बुद्धिर्विनश्यते यस्मात्तस्माच्छिन्ना हि तेऽखिलाः ॥ ३.१२.१०८ ॥
महीपते च मद्बुद्धिस्तस्मादच्छिन्नसंज्ञिकः
एतादृशोप्यहं देव न च शक्तिस्तु नस्तवे ॥ ३.१२.१०९ ॥
मह्यमच्छिन्नभक्ताय दयां कुरु महाप्रभो
इति स्तुत्वा हरिं ब्रह्मा स्थितः प्राञ्ज लिरग्रतः ॥ ३.१२.११० ॥
इति श्रीगारुडे महापुराणे द्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे ब्रह्मस्तुतिवर्णनं नाम द्वादशोऽद्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १३
श्रीकृष्ण उवाच
इति स्तुतः स भगवान् स्वपूत्रेण दयानिधिः
मेधगंभीरया वाचा प्रोवाच मधुसूदनः ॥ ३.१३.१ ॥
सृज ब्रह्मन्निमान्देवान्मत्प्रसादात्क्रमेण च
यथा वै प्राक्क्षणेतद्वत्सृज सर्वं महाप्रभो ॥ ३.१३.२ ॥
नास्ति प्रयोजनं तेन तव मत्प्रीतये सृज
एवमुक्तस्तु हारिणा ब्रह्मा स्तुत्वा हरिं परम् ॥ ३.१३.३ ॥
सृष्टिं कर्तुं मनो दध्रे प्रीणयन्नेव माधवम्
महत्तत्वात्मको ब्रह्मा वायुं जीवभिमानिनम् ॥ ३.१३.४ ॥
आदौ ससर्ज गरुड पुरुषात्मा स एव च
ततो दक्षिणहस्तात्तु ब्रह्माणीं भारन्ती तथा ॥ ३.१३.६ ॥ (१३.५)
असृजत्ते महाभागे अव्यक्तस्य नियामिके
वामहस्तात्सत्यपुत्रो महत्तत्वात्मकोऽनलः ॥ ३.१३.६ ॥
ब्रह्मणो दक्षिणाद्धस्तादहङ्कारात्मको हरः
आदौ शेषस्ततो जज्ञे गरुडतदनन्तरम् ॥ ३.१३.७ ॥
तदनन्तरजो रुद्रः स एवं सृष्टवान्प्रभुः
स्वोत्पत्त्यनन्तरं ब्रह्मा दशवर्षान्महाप्रभुः ॥ ३.१३.८ ॥
वायुमुत्त्पाद्रयामास वत्सरानन्तरे प्रभुः
गायत्रीं जनयामास वायोरुत्पत्त्यनन्तरम् ॥ ३.१३.९ ॥
संवत्सरानन्तरे तु भारतीमसृजत्प्रभुः
भारत्यनन्तरं शें दिव्यसाहस्रवत्सरात् ॥ ३.१३.१० ॥
अनन्तरं संबभूव गरुडस्तु ततः परम्
दिव्यसाहस्रवर्षात्तु तथा रुद्रञ्च सृष्टवान् ॥ ३.१३.११ ॥
शेषस्यानन्तरं देवीं वारुणीं च महाप्रभुः
दशवर्षानन्तरं तु ह्यसृजत्कमलासनः ॥ ३.१३.१२ ॥
गरुडानन्तरं देवीं सौपर्णीमसृजत्प्रभुः
दशवर्षानन्तरं च पार्वतीं च तथैव सः ॥ ३.१३.१३ ॥
पार्वत्यनन्तरं चन्द्रं मनस्तत्त्वनियामकम्
दशवर्षानन्तरं तु वासवं ह्यसृजत्ततः ॥ ३.१३.१४ ॥
अभिमानी दक्षिणस्य बाहोश्च परमेष्ठिनः
दशवर्षानन्तरं तु शची तामसृजत्प्रभुः ॥ ३.१३.१५ ॥
इन्द्रस्यानन्तरं कामं त्रिंशद्वर्षादनन्तरम्
असृजद्वामबाहोश्चमनस्तत्वाभिमानिनम् ॥ ३.१३.१६ ॥
तदनन्तरजां देवीं दशवर्षादनन्तरम्
रतिं स जनयामास कामभार्यां महाप्रभुः ॥ ३.१३.१७ ॥
कामस्याप्यभिमानी तु स एव परिकीर्तितः
ब्रह्माहङ्कारिकं प्राणं कार्योत्पत्तेरनन्तरम् ॥ ३.१३.१८ ॥
दशवर्षानन्तरं तु निर्ममे नासिक ततः
तस्य भार्यां नासिकस्यः पञ्चवर्षादनन्तरम् ॥ ३.१३.१९ ॥
निर्ममे नासिकां वामां ब्रह्मा लोकपितामहः
अहङ्कारादनु ब्रह्मा सज्ञानं च बृहस्पतिम् ॥ ३.१३.२० ॥
निर्ममे च वर्षयुग्मपञ्चवर्षादनन्तरम्
पञ्चवर्षानन्तरं तु तारां भार्यां विनिर्ममे ॥ ३.१३.२१ ॥
गुरोरनन्तरं ब्रह्मा पञ्चविंशादनन्तरम्
स्वायंभुवं मनुं चैव निर्ममे मनसा विभुः ॥ ३.१३.२२ ॥
पञ्चवर्षानन्तरं तु शतरूपां विनिर्ममे
शतरूपानन्तरं तु विंशद्वर्षदिनान्तरम् ॥ ३.१३.२३ ॥
दक्षः शिष्यात्मको जज्ञे दक्षिणाङ्गुष्ठतः प्रभोः
पञ्चवर्षानन्तरं तु वामाङ्गुष्ठाच्चतुर्मुखः ॥ ३.१३.२४ ॥
प्रसूतिमसृजद्ब्रह्मा सृष्ट्यर्थं परमादरात्
दक्षस्यानन्तरं ब्रह्मा पञ्चविंशादनन्तरम् ॥ ३.१३.२५ ॥
निर्ममे ह्यनिरुद्धं च मध्यमाङ्गुलिपर्वतः
पञ्चवर्षानन्तरं तु ससर्ज भगवानजः ॥ ३.१३.२६ ॥
विराजसंज्ञकां भार्यां मध्यमाङ्गुलिपर्वतः
अनिरुद्धानन्तर तु शतवर्षादनन्तरम् ॥ ३.१३.२७ ॥
निर्ममे प्रवहं वायुं कनिष्ठाङ्गुलिपर्वतः
दशवर्षानन्तरं तु प्रवाहीं निर्ममे प्रभुः ॥ ३.१३.२८ ॥
कनिष्ठाङ्गुलिपर्वाच्च वामदेवं न संशयः
प्रवहानन्तरं तब्रह्मा शतवर्षादनन्तरम् ॥ ३.१३.२९ ॥
यमं विनिर्ममे पृष्ठादष्टवर्षादनन्तरम्
तद्भार्यां शामलां देवीं तस्मादेव महाप्रभुः ॥ ३.१३.३० ॥
यमस्यानन्तरं चन्द्रं त्रिंशद्वर्षादनन्तरम्
असृजद्दक्षिणाच्छोत्राच्छोत्रतत्त्वनियामकम् ॥ ३.१३.३१ ॥
नववर्षानन्तरं तु रोहिणीसमृजत्प्रभुः
वामश्रोत्राच्च गरुडं वामश्रोत्राभिमानिनम् ॥ ३.१३.३२ ॥
चन्द्रस्यानन्तरं सूर्यं विंशद्वर्षादनन्तरम्
सम्यग्विनिर्ममे ब्रह्मा दक्षिणाक्ष्णश्च देवताम् ॥ ३.१३.३३ ॥
वामाक्ष्णो निर्ममे संज्ञां षड्वर्षानन्तरं प्रभुः
सूर्यस्यानन्तरं ब्रह्मा शतवर्षादनन्तरम् ॥ ३.१३.३४ ॥
रसनेन्द्रियाच्च वरुणं निर्ममे तस्य मानिनम्
विंशद्वर्षानन्तरं तु तस्मादेवेद्रियात्प्रभुः ॥ ३.१३.३५ ॥
गङ्गां विनिर्ममे ब्रह्मा रसनेन्द्रियदेवताम्
वरुणस्यानन्तरं तु दशवर्षादनन्तरम् ॥ ३.१३.३६ ॥
उत्संगान्निर्ममे ब्रह्मा नारदं भगवत्प्रियम्
नारदस्यानन्तरं तु षष्टिवर्षादनन्तरम् ॥ ३.१३.३७ ॥
अग्निं विनिर्ममे ब्रह्मात्वगिन्द्रियतः प्रभुः
अतो वागभिमानी सं पञ्चवर्षादनन्तरम् ॥ ३.१३.३८ ॥
स्वाहां विनिर्ममे ब्रह्मा तामाहुर्मन्त्रदेवताम्
अग्नेरनन्तरं वीन्द्र भृगुं ब्रह्मर्षिसत्तमम् ॥ ३.१३.३९ ॥
दशवर्षानन्तरं तु भ्रुवोर्मध्याद्विनिर्ममे
संवत्सरानन्तरं तु भृगुभार्यां विनिर्ममे ॥ ३.१३.४० ॥
भृगोरनन्तरं ब्रह्मा शतवर्षादनन्तरम्
कश्यपञ्जनयामास मनसा च स्वयं प्रभुः ॥ ३.१३.४१ ॥
संवत्सरानन्तरं तु अदितिं निर्ममे प्रभुः
कश्यपानन्तरं चात्रिं दशवर्षादनन्तरम् ॥ ३.१३.४२ ॥
अत्रेरनन्तरं ब्रह्मा दशवर्षादनन्तरम्
अजीजनद्भरद्वाजं वसिष्ठ तदनतरम् ॥ ३.१३.४३ ॥
दशवर्षानन्तरं तु तेषां भार्याः क्रमेण तु
संवत्सरानन्तरेण असृजत्कमलासनः ॥ ३.१३.४४ ॥
वसिष्ठस्यानन्तरं तु गौतमं ह्यसृजत्प्रभुः
दशवर्षानन्तरेण जमदग्निं ततोऽसृजत् ॥ ३.१३.४५ ॥
दशवर्षानन्तरेण मनुर्वैवस्वतोऽभवत्
मनोरनन्तरं जज्ञे शतवर्षादनन्तरम् ॥ ३.१३.४६ ॥
विष्वक्सेनो महाभागो वायुपुत्रो महाबलः
तस्माच्चतुर्दशे वर्षे गणपो ह्यभवद्विभोः ॥ ३.१३.४७ ॥
तदनन्तरजो वीन्द्र अष्टवर्षादनन्तरम्
धनपो ह्यभवत्तत्र तद्भार्या वत्सरे परे ॥ ३.१३.४८ ॥
विष्वक्सेनानन्तरं तु दशवर्षादनन्तरम्
जयादीन्भ गवद्भक्तान्सृष्टवान् कमलासनः ॥ ३.१३.४९ ॥
जयाद्यानन्तरं ब्रह्मा वल्लाद्याः कर्मदेवताः
शतवर्षानन्तरं तु सृष्टवाञ्छिववाहनम् ॥ ३.१३.५० ॥
कर्मदेवानन्तरं तु त्रिंशद्वर्षादनन्तरम्
पर्जन्यमसृज्ब्रह्मा मन्त्रयन्त्राभिमानिनम् ॥ ३.१३.५१ ॥
पर्जन्यानन्तरं ब्रह्मा दशवर्षादनन्तरम्
पुष्करं जनयामास कर्मतत्त्वाभिमानिनम् ॥ ३.१३.५२ ॥
एवं विनिर्ममे ब्रह्मा मत्प्रसादात्खगेश्वर
एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन ॥ ३.१३.५३ ॥
इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे देवोत्पत्तिनिरूपणं नाम त्रयोदशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १४
श्रीगरुड उवाच
अवतारान्हरे ब्रूहि तथा लक्ष्म्या दिवौकसाम्
गुणानामन्तर ब्रूहि शिष्यस्य मम सव्रत ॥ ३.१४.१ ॥
श्रीकृष्ण उवाच
यो मूलरूपी भगवाननन्तो ब्रह्मादिभिः पुर्णगुणः स्वतन्त्रः
पुरातनः पूर्णतनुर्मदात्मा न तादृशाः संति कदापि वीद्र ॥ ३.१४.२ ॥
पादश्च पूर्णः पादतलं च पूर्णं नखाश्च पूर्णाः कटिकण्ठौ च पूर्णौ
ऊरू च पूर्णे उदरं च पूर्णं लब्ध्वापि पूर्णाञ्जगृहे तथाप्युरः ॥ ३.१४.३ ॥
स्कन्धः सुपूर्णाः सकलाश्च बाहवः पूर्णाः केशाः श्मश्रुदन्ताश्च पूर्णाः
लोमानि पूर्णानि तथैव रोमकूपाश्च पूर्णास्तु तथैव शिश्रः ॥ ३.१४.४ ॥
अण्डश्च पूर्णो ह्यण्डरोमाणि कक्षाश्चक्षुश्च श्रोत्रे सर्व एते च पूर्णाः
किं वर्णये मूलरूपं हरेश्च यावद्वलं पूर्णं समग्रदेहे ॥ ३.१४.५ ॥
तावद्ब्रलं ह्येकरोमादिकेषु संतित्विमे हि यतः स एव पूर्णः
स एव तु सर्वस्य कर्ता स एव हर्था स तु सारांशभोक्ता ॥ ३.१४.६ ॥
असारांशं नैव भोक्ता हरिस्तु सारान्वक्ष्ये शृणु पक्षीन्द्र सम्यक्
द्राक्षेक्षुसारं नारिकेलस्य सारं चूतस्य सारं पनसस्यापि सारम् ॥ ३.१४.७ ॥
नारङ्गसारं क्रमुकस्यापि सारं खर्जूरसारं कदलीफलस्य
नारायणो बीजरूपस्य सारं गृह्णाति नित्यं भक्तवर्यो दयालुः ॥ ३.१४.८ ॥
ताम्बूलसारं खदिरस्य सारं पुष्पस्य सारं चन्दनस्यापि सारम्
गोधूमसारं यवानां च सारं माषस्य सारं हरेणोश्च सारम् ॥ ३.१४.९ ॥
शुद्धं तथा व्रीहिनीवारसारं श्यामाकसारं शुद्धधान्यस्य सारम् ॥ ३.१४.१० ॥
निषिद्धान्सर्वशाकस्य सारांस्तथा निपिद्धाल्लांवणस्वापि सारान्
गृह्णाति विष्णुः परमादरेण अन्नस्य सारं भक्ष्यभोज्यस्य सारम् ॥ ३.१४.११ ॥
सूपस्य सारं परमान्नस्य सारं दुग्धस्य सारं दधितक्रस्य सारम्
घृतस्य सारं रामठस्यापि सारं गृह्णाति विष्णुः सर्षपस्यापि सारम् ॥ ३.१४.१२ ॥
मरीचसारं जीरकस्यापि सारं तथा हविर्घृतपक्वस्य सारम्
तैलेषु पक्वस्य च भर्जितस्य गुडस्य सारं नवनीतस्य सारम् ॥ ३.१४.१३ ॥
लवङ्गसारं शर्करायाश्च सारमित्यादिसारान् वासुदेवस्तु भुक्ते
लक्ष्मीपतिः सर्वजगन्निवा सस्तस्याज्ञया वासुदेवोपि नित्यम् ॥ ३.१४.१४ ॥
तच्छेषसारानपि चावनीशो महात्मनोंशाञ्छृणु शिष्यवर्य
एवं विमूढा वासुदेवस्य भक्ताः किं वक्तव्यं विष्णुभक्ता हि लोके ॥ ३.१४.१५ ॥
कल्याणास्ते सारभोक्तार एव नैषां भवेत्तेन दुः खाभिवृद्धिः
भुञ्जन्ति ये वैश्वदेवं विहाय दुष्टांस्तान्वै भुक्तिचिन्त्तांश्च विद्धि ॥ ३.१४.१६ ॥
वक्ष्ये विशेषं वैश्वदेवे खगेन्द्र गोप्यं नो वदान्यत्र विद्वान्
सूर्यादीनां ये च दाने च दद्युर्विना वायोरन्तरस्थं हरिं च ॥ ३.१४.१७ ॥
ते वै सदा सारभोक्तार एव ज्ञेयास्त्वतो विष्णुरेको महात्मा
सारांशभोक्ता न तु सर्वस्य भोक्ता भुनक्ति सर्वं त्वविरुद्धशक्तिः ॥ ३.१४.१८ ॥
वक्ष्ये ह सारान्पुनरन्यान्खगेन्द्र शृणुष्व गुह्यं परमादरेण
द्राक्षादयः सर्व एव त्वसाराः कालादिदुष्टा भावदुष्टाः पदार्थाः ॥ ३.१४.१९ ॥
अतिपक्वानन्तरं तु तथा दिनचतुष्टये
असाराः कलुषा ज्ञेयास्तथा जंबूफलं स्मृतम् ॥ ३.१४.२० ॥
मासस्यानन्तरं वीन्द्र त्वसारं पनसं स्मृतम्
षण्मासानन्तरं वीन्द्र खर्जूरं तिक्तवत्स्मृतम् ॥ ३.१४.२१ ॥
आर्द्रं पूतं नारिकेलं स्फोटनानन्तरं प्रभो
अहोरात्रानन्तरं तु असारं परिकीर्तितम् ॥ ३.१४.२२ ॥
शुष्कभूतं नारिकेलं खजूरं तु यथा तथा
पक्षस्यानन्तरं चूतमसारं परिकीर्तितम् ॥ ३.१४.२३ ॥
वर्षस्यानन्तरं वीन्द्र पूगीफलमुदाहृतम्
घटिकानन्तरं वीन्द्र तांबूलं परिकीर्तितम् ॥ ३.१४.२४ ॥
यामस्यानन्तरं चान्नं सूपान्नं पायसं तथा
भक्ष्यं च क्वथितं वीन्द्र असारं परिकीर्तितम् ॥ ३.१४.२५ ॥
त्रिपक्षानन्तरं वीन्द्र तैलपक्वं तथा स्मृतम्
चतुर्यामानन्तरं च त्वसारं घृतपक्वकम् ॥ ३.१४.२६ ॥
त्रियामानन्तरं शाका निः साराः परिकीर्तिताः
जंबीरं शृङ्गबेरे धात्री कर्पूरं च चूतकम् ॥ ३.१४.२७ ॥
वत्सरानन्तरं वीन्द्र निः सारं परिकीर्तितम्
पर्पटः पक्षमात्रेण निः सारः परिकीर्तितः ॥ ३.१४.२८ ॥
तुलसी सर्वदा सारा एकादश्यामपि द्विज
आर्द्रा वाप्यथवा शुष्का सार्द्रा सारवती स्मृता ॥ ३.१४.२९ ॥
एकादश्यां तु तुलसी सारा ग्राह्या मनीषिभिः
त्वचा नासेंद्रियेणापि न तु जिह्वेन्द्रियेण च ॥ ३.१४.३० ॥
एकादश्यां हरेरन्नं निः सारं परिकीर्तितम्
एकादश्यां हरेस्तीर्थं मनुष्याणां खगेश्वर ॥ ३.१४.३१ ॥
एकवारे च सारं स्याद्द्विवारे च ततोधिकम्
एकादश्यां महाभाग तीर्थं गन्धादिमिश्रितम् ॥ ३.१४.३२ ॥
असारमिति संप्रोक्तं तथा स्वादूदमिश्रितम्
एकादश्यां हरेः सारं क्षीरं सर्पिर्मधूदकम् ॥ ३.१४.३३ ॥
निः सारं मनुजेन्द्राणामिति वेदविदां मतम्
आषाढमासे गरुड शाको निः सार उच्यते ॥ ३.१४.३४ ॥
मासि भाद्रपदे वीन्द्र ह्यसारं दधि चोच्यते
क्षीरं तु ह्याश्विने मासे निः सारं परिकीर्तितम् ॥ ३.१४.३५ ॥
ऊर्ध्वपुण्ड्रगदाहीना नार्यसारेति गीयते
हरिभक्तिविहीना ये ह्यसुराः परिकीर्तिताः ॥ ३.१४.३६ ॥
हरिनामविहीनं तु मुखं निः सारमुच्यते
हरिनैवेद्यहीनस्तु पाको निः सार उच्यते ॥ ३.१४.३७ ॥
त्रिदिनैश्चातसीपुष्पं निः सारं परिकीर्तितम्
प्रहरं मल्लिका सारं जाती तु प्रहरार्धकम् ॥ ३.१४.३८ ॥
त्रियामं शतपत्रं स्यात्करवीरमहर्निशम्
घटिकावधि सारं स्यात्पारिजातं खगेश्वर ॥ ३.१४.३९ ॥
त्रिवर्षं केसरं फल्ग सारमित्युच्यते बुधैः
कस्तूरी दशवर्षं तु कर्पूरं वर्षमात्रकम् ॥ ३.१४.४० ॥
ससारमिति संप्रोक्तं चन्दनं सर्वदा स्मृतम्
शुद्धन्निः सारभूतांश्च वक्ष्ये शृणु खगेश्वर ॥ ३.१४.४१ ॥
तुषा मेध्या आरनालं पुण्यकं भिः सटा तथा
उपोद्व्रजी अलाबूश्च बृहत्कोशातकी तथा ॥ ३.१४.४२ ॥
वृन्ताकं चुक्रशाकश्च बिल्वमौदुंवरं तथा
पलाञ्जुर्लशुनं वृन्तं कलञ्जं च तथा द्विजा ॥ ३.१४.४३ ॥
एतत्सर्वत्र काले च निः सारमिति कीर्तितम्
एकादश्यां वैश्वदेवं श्राद्धं तर्पणमेव च ॥ ३.१४.४४ ॥
मन्त्रेण प्रेतदहनमसारं परिकीर्तितम्
हविर्नारायणो देवो एतांश्च ह्यशुभान्र सान् ॥ ३.१४.४५ ॥
न गृह्णाति न गृह्णाति न गृह्णाति हरिः स्वयम्
तथापि सर्वं जानाति जीवानां पापकर्मणाम् ॥ ३.१४.४६ ॥
आस्वादनं कारयति स्वयं नास्वादते हरिः
असारभोजनं चैव जीवानां कर्मजं फलम् ॥ ३.१४.४७ ॥
अमुख्यभोजिनो जीवाः कुन्त्याद्या मुख्यभोजिनः
शुभानि च पिबेद्विष्णुरशुभं नो पिबेद्विभुः ॥ ३.१४.४८ ॥
को वदेत्तस्य चेष्टां तु पूर्णानन्दो हरिः स्वयम्
न तेन सदृशः कोपि देशे काले च विद्यते
तस्यावतारान्वक्ष्यहं शृणु पक्षीन्द्रसत्तम ॥ ३.१४.४९ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे वैश्वदेवार्थकसारासारवस्तुविवेको नाम चतुर्दशोध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १५
श्रीकृष्ण उवाच
अथावता रान्पुरुषाख्यो हरिश्च गतो ध्यानं कर्तुमीशो महात्मा
प्रादुर्बभूवाखिलसद्गुणार्णवः स एव विष्णुः स च बीजभूतः ॥ ३.१५.१ ॥
यो बीजभूतः पुरुषाख्य विष्णुः स एवाभूद्वासुदेवो महात्मा
सृष्टिं कर्तुं पुरुषाख्यस्य वायोर्मायाख्यायां मूलरूपो यथाऽस ॥ ३.१५.२ ॥
यो वासुदेवस्तु स एव जातः संकर्षणाख्यो खिलसद्गुणात्मा
सृष्टिं कर्तुं सूत्रभूतस्य वायोर्जयाख्यायं पूर्णसंवित्परात्मा ॥ ३.१५.३ ॥
स एवं संकर्षणनामधेयः प्रद्युम्ननामा च स एव विश्रुतः
सरस्वतीभारतीसर्जनार्थं स एव देव्या मूलरूपो बभूव ॥ ३.१५.४ ॥
सृष्ट्वा युक्तं षोडशभिः कलाभिर्महत्तत्त्वं सूक्ष्मरूपं स एव
साहङ्कारं क्रीडयामास देवः शृणु त्वं वै षोडशाख्याः कलाश्च ॥ ३.१५.५ ॥
भूतानि कर्मेन्द्रियपञ्चकानि ज्ञानेन्द्रियाणीह तथा मनश्च
ततो बभूव ह्यनिरुद्धसंज्ञको जीवांश्च संगृह्य सुपूर्णशक्तिः ॥ ३.१५.६ ॥
सोयं विरिञ्च्यादिसमस्तदेवान् स्थूलेन देहेन ससर्ज नाथः
तथा स विष्णुः पुरुषाभिधस्तु सनत्कुमारत्वमवाप वीन्द्र ॥ ३.१५.७ ॥
अनन्यसाध्यं ब्रह्मचर्यं च कर्तुं दशेन्द्रियाणां शोषणार्थं सदैव
सनन्दनादौ पठितः कुमारस्तस्मान्नान्यो नात्र विचार्यमस्ति ॥ ३.१५.८ ॥
स एव विष्णुः सूकरत्वं ह्यवाप क्षोपणीमुद्धर्तुं दैत्यवपुर्निहन्तुम्
हिरण्याक्षं सज्जनानां खगेन्द्र तथा भूमेः स्थापनार्थं च देवः ॥ ३.१५.९ ॥
ततो हरिर्मद्विदासत्वमापानृषेर्भार्यायां यामिन्यां यो महात्मा
तत्रावतारे पञ्चरात्रं समग्रमुपादेष्टुं नाप दानं स्वतन्त्रः ॥ ३.१५.१० ॥
स एव विष्णुः समभूद्ब्रदर्यां नारायणाख्यः शमलापहश्च
तपस्तप्तुं शिक्षयितुं त्वृषीणां तिरस्कर्तुं ह्यप्सरसां सहस्रम् ॥ ३.१५.११ ॥
ततो हरिः कपिलत्वं ह्यवाप्य तिरोहितान्कालबलेन तत्त्वान्
चतुर्विशतिं संशयं चोद्धरिष्यन्नुपादिशच्चासुरये महात्मा ॥ ३.१५.१२ ॥
स एव दतः समभूद्रमेशोनसूयायामत्रिरूपः परात्मा
आन्वीक्षिकिं नाम सुतर्कविद्यामलर्कनाम्ने प्रददात्तां महात्मा ॥ ३.१५.१३ ॥
स एव वंशेप्यभवद्रवेश्च आकूत्यां यः सच्चिदानन्दरूपः
स्वायंभुवं यत्तु मन्वन्तरं च देवैः साकं पालयामास वीन्द्र ॥ ३.१५.१४ ॥
स एव विष्णुः स उरुक्रमोभूदाग्नीध्रपुत्र्यां मेरुदेव्यां च नाभेः
विद्यारतानां मानिनां सर्वदैवमत्याश्चर्यं दर्शयितुं च वीन्द्र ॥ ३.१५.१५ ॥
ततो हरिर्जगृहे कूर्मरूपं सुरासुराणामुदधिं विमथ्नताम्
पृष्ठे धर्तुं मन्दरं पर्वतं च ब्रह्माण्डं वा धर्तुमीशो महात्मा ॥ ३.१५.१६ ॥
ततो हरिः प्रादुरभून्महात्मा धन्वन्तरिर्नाम हरिन्मणिद्युतिः
अपथ्यदोषान्परिहर्तुमेव हस्ते गृहीत्वा पूर्णकुभं सुधाभिः ॥ ३.१५.१७ ॥
ततो हरिर्जगृहे श्रीवपुश्च यन्मोहिनीति प्रवदन्ति लोके
उद्वृत्तानां दितिजानां महात्मा सम्यक्तेषां वञ्चयितुं हरिर्बलम् ॥ ३.१५.१८ ॥
ततो हरिः प्रादुरभून्महात्मा नृसिंहनामा भगवाननन्तः
दैत्यो हिरण्यकशिपुश्च तथोरुदेशे संस्थापितः करजैर्दारितश्च ॥ ३.१५.१९ ॥
ततो हरिर्भगवान्वामनोभूददित्यां वै कश्यपाद्दवदेवः
इन्द्रायेदं दातुकामः खगेन्द्र तदर्थं वै पावितुं सोवितुं च ॥ ३.१५.२० ॥
ततो हरिर्जमदग्नेः सुतोभूल्लोके सर्वे पर्शुरामं वदन्ति
ब्रह्मद्विषां क्षत्रियाणां च वीन्द्र भूमिं निः क्षत्रां कर्तुकामो महेशः ॥ ३.१५.२१ ॥
ततोभवद्व्यासरूपी स विष्णुश्चतुर्वारं राघवास्यापि पूर्णः
पराशरात्सत्यवत्यां बभूव पैलादिभिर्वेदभागांश्च कर्तुम् ॥ ३.१५.२२ ॥
ततो हरी रघुवंशेवतीर्णः कौसल्यायां राघवः सूर्यवंशे
समुद्रादोर्विग्रहं कर्तुमीशो हं तुं भूम्यां रावणादींश्च वीन्द्र ॥ ३.१५.२३ ॥
ततो हरिर्व्यासरूपी बभूव अष्टाविंशे द्वपरे ज्ञानरूपी
पराशरात्सत्यवत्यां महात्मा स्वयं वेदान् संविभक्तुं च देवः ॥ ३.१५.२४ ॥
ततो हरिः कृष्णरूपी बभूव देवक्यां वै वसुदेवात्स विष्णुः
कंसादीन्वै नितरां हन्तुकामः सम्यक्पातुं पाण्डवांश्चापि वीन्द्र ॥ ३.१५.२५ ॥
ततः कलौ संप्रवृत्ते हरिस्तु संमोहनार्थं चासुराणां खगेन्द्र
नाम्ना बुद्धो कीकटेषु प्रजातो वेदप्रमाणं निराकर्तुमेव ॥ ३.१५.२६ ॥
ततो हरिः कल्किसंज्ञश्च वीन्द्र उत्पत्स्यते युगयोर्मध्यसंधौ
दस्युप्रायान्भूमिपान्वै निहन्तुं नाम्ना हरिर्विष्णुगुप्तस्य गेहे ॥ ३.१५.२७ ॥
केशवाद्याश्चतुर्विंशतिर्वै संकर्षणादयः
विश्वादय सहस्रं च पराद्या अमिताः स्मृताः ॥ ३.१५.२८ ॥
अवतारा ह्यसंख्याता विष्णोर्नारायणस्य च
स्वयं नारायणास्ते ते नाणुमात्रं विभिद्यते ॥ ३.१५.२९ ॥
बलतोरूपतश्चापि गुणतश्च कथञ्चन
अनन्तोनन्तगुणतः पूर्णो विष्णुर्न चान्यथा ॥ ३.१५.३० ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे विष्णोरवतारनिरूपणं नाम पञ्चदशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १६
श्रीकृष्ण उवाच
महालक्ष्म्याः स्वरूपं च अवतारान्खगेश्वर
शृणु सम्यङ्महाभाग तज्ज्ञानस्य विनिर्णयम् ॥ ३.१६.१ ॥
ईशादन्यस्य जगतो ह्यात्मो लोचन एव तु
विषयीकुरुते तत्स्याज्ज्ञानं लक्ष्म्याः प्रकीर्तितम् ॥ ३.१६.२ ॥
नित्यावियोगिनी देवी हरिपादैकसंश्रया
नित्यमुक्ता नित्यबुद्धा महालक्ष्मीः प्रकीर्तिता ॥ ३.१६.३ ॥
मूलस्य च हरेर्भार्या लक्ष्मीः संप्रकीर्तिता
पुंसो हिभार्या प्रकृतिः प्रकृतेश्चा भिमानिनी ॥ ३.१६.४ ॥
सृष्टिं कर्तुं गुणान्वीन्द्र पुरुषेण सह प्रभो
तमः पानं तथा कर्तुं प्रकृत्याख्या तदाभवत् ॥ ३.१६.५ ॥
वासुदेवस्य भार्या तु माया नाम्नी प्रकीर्तिता
संकर्षणस्य भार्या तु जयेति परिकीर्तिता ॥ ३.१६.६ ॥
अनिरुद्धस्य भार्या तु शान्ता नाम्नीति कीर्तिता
कृतिः प्रद्युम्नभार्यापिं सृष्टिं कर्तुं बभूवह ॥ ३.१६.७ ॥
विष्णुपत्नी कीर्तिता च श्रीदेवी सत्त्वमानिनी
तमोभिमानिनी दुर्गा कन्यकेति प्रकीर्तिता ॥ ३.१६.८ ॥
कृष्णावतारे कन्येव नन्दपुत्रानुजा हि सा
रजोभिमानिभूदेवी भार्या सा सूकरस्य च ॥ ३.१६.९ ॥
वेदाभिमानिनी वीन्द्र अन्नपूर्णा प्रकीर्तिता
नारायणस्य भार्या तु लक्ष्मीरूपा त्वजा स्मृता ॥ ३.१६.१० ॥
यज्ञाख्यस्य हरेर्भार्या दक्षिणा संप्रकीर्तिता ॥ ३.१६.११ ॥
जयन्ती वृषभस्यैव पत्नी संपरिकीर्तिता
विदेहपुत्री सीता तु रामभार्या प्रकीर्तिता ॥ ३.१६.१२ ॥
रुक्मिणीसत्यभामा च भार्ये कृष्णस्य कीर्तिते
इत्यादिका ह्यनन्ताश्चाप्यावताराः पृथग्विधाः ॥ ३.१६.१३ ॥
रमायाः संति विप्रेन्द्र भेदहीनाः परस्परम्
अनन्तानन्तगुणकाद्विष्णोर्न्यूनाः प्रकीर्तिताः ॥ ३.१६.१४ ॥
अथ ब्रह्मा च वायुश्च श्रियः कोटिगुणाधमौ
वक्ष्ये च ब्रह्मणो रूपं शृणु पक्षीन्द्रसत्तम ॥ ३.१६.१५ ॥
वासुदेवात्समुत्पन्नो मायायां च खगेश्वर
स एव पुरुषोनाम विरिञ्च इति कीर्तितः ॥ ३.१६.१६ ॥
अनिरुद्धात्तु शान्तायां महत्तत्त्वतनुस्त्वभूत्
तदा महान्विरिञ्चेति संज्ञामाप खगेश्वर ॥ ३.१६.१७ ॥
रजसात्र समुत्पन्नो मायायां वासुदेवतः
विधिसंज्ञो विरिञ्चः स ज्ञातव्यः पक्षिसत्तम ॥ ३.१६.१८ ॥
ब्रह्माण्डान्तः पद्मनाभो यो जातः कमलासनः
स चर्तुमुखसंज्ञां चाप्यवाप खगसत्तम ॥ ३.१६.१९ ॥
एवं चत्वारिरूपाणि ब्रह्मणः कीर्तितानि च
वायोर्नामानि वक्ष्येहं शृणु पक्षीन्द्रसत्तम ॥ ३.१६.२० ॥
संकर्षणाच्च गरुड जयायां यो वभूव ह
स वायुः प्रथमो ज्ञेयो प्रधान इति कीर्तितः ॥ ३.१६.२१ ॥
लोकचेष्टाप्रदत्वात्स सूत्रनाम्नापि कीर्तितः
बदरीस्थस्य विष्णोश्च धैर्येण स्तवनाय सः ॥ ३.१६.२२ ॥
धृतिरूपं ययौ वायुस्तस्माद्धृतिरिति स्मृतः
योग्यानां हरिभक्तानां धृतिरूपेण संस्थितः ॥ ३.१६.२३ ॥
यतो हृदि स्थितो वायुस्ततो वै धृतिसंज्ञकः
सर्वेषां च दृदि स्थित्वा स्मरते सर्वदा हरिम् ॥ ३.१६.२४ ॥
अतो वायुःस्थितिर्नाम बभूव खगसत्तम
अथवा वायुरेवैकः श्वेतद्वीपगतं हरिम् ॥ ३.१६.२५ ॥
सदा स्मरति वै वीन्द्र अतोसौ स्मृतिसंज्ञकः
सर्वेषां च हृदिस्थित्वा ज्ञातो विष्णोरुदीरणात् ॥ ३.१६.२६ ॥
अतो मे मुक्तिनामाभूद्वायुरेव न संशयः
ज्ञानद्वारेण भक्तानां मुक्तिदो मदनुज्ञया ॥ ३.१६.२७ ॥
यतो सौ वायुरेवैको मुक्तिनामा भूवह
विष्णौ भक्तिं वर्ध्यति भक्तानां हृदि संस्थितः ॥ ३.१६.२८ ॥
अतोसौ विष्णुभक्तश्च कीर्तितो नात्र संशयः
एषोसौ सर्वजीवानां चित्तसंज्ञानमेव च ॥ ३.१६.२९ ॥
चित्तरूपो यतो वायुरतश्चित्तमिति स्मृतः
प्रभुः प्रभूणां गरुड सोदराणां च सर्वशः ॥ ३.१६.३० ॥
अतस्तु वायुरेवैको महाप्रभुरिति स्मृतः
सर्वेषां च हृहि स्थित्वा बलं पश्यति सत्तम ॥ ३.१६.३१ ॥
अतो बलमिति ह्याख्यामवाप विनतासुत
सर्वेषां च हृदि स्थित्वा पुत्रपौत्रादिकैर्जनैः ॥ ३.१६.३२ ॥
याजनं कुरुते नित्यमतोसौ यष्टृसंज्ञकः
अनन्तकल्पमारभ्य वायुपर्यन्तमेव च ॥ ३.१६.३३ ॥
वक्रत्वं नास्ति योगस्य ऋजुर्योग्य इति स्मृतः
योगस्य वक्रता नाम काम्यता हरिपूजने
ईशरुद्रादिकानां च काम्येन हरिपूजनम् ॥ ३.१६.३४ ॥
कस्यचित्त्वथ पक्षीन्द्र ह्यतस्त्वनृजवः स्मृताः ॥ ३.१६.३५ ॥
ऋष्यादीनां च मध्येपि काम्येन हरिपूजनम्
अतो न ऋजवो ज्ञेया मनुष्याणां च का कथा ॥ ३.१६.३६ ॥
यावत्काम्यसपर्यां वै न जहाति नरोत्तमः
तथा ऋष्यादयश्चैव मोक्षस्य परिपन्थिनीम् ॥ ३.१६.३७ ॥
अनादिकालमारभ्य कर्मजन्या च वासना
मोक्षाधिकारिणः सर्वे कुर्वते कस्य पूजनम् ॥ ३.१६.३८ ॥
नष्टप्रायं च तत्सर्वं गुरोः संज्ञानबोधकात्
प्राप्ययोगं समाचर्य अन्ते मोक्षमवाप्नुयात् ॥ ३.१६.३९ ॥
काम्येन पूजनं विष्णोरैश्वर्यं प्रददाति च
ज्ञानं च विपरीतं स्यात्तेन यात्यधरं तमः ॥ ३.१६.४० ॥
तदेव विपरीतं चेज्ज्ञानाय परिकीर्तितम्
शिलायां विष्णुबुद्धिस्तु विष्णुबुद्धिर्द्विजे तथा ॥ ३.१६.४१ ॥
सलिले तीर्थबुद्धिस्तु रोणुकायां तथैव च
शिवे सूर्ये पण्मुखे च विष्णुबुद्धिः खगेश्वर ॥ ३.१६.४२ ॥
इत्याद्यमखिलं ज्ञानं विपरीतमिति स्मृतम्
शिलाद्येषु च सर्वेषु ऐक्येनव विचिन्तनम् ॥ ३.१६.४३ ॥
विष्णुबुद्धिरिति प्रोक्तं न तु तत्रस्थवेदनम्
अनाद्यनन्तकालेपि काम्येन हरिपूजनम् ॥ ३.१६.४४ ॥
यतो नास्ति ततो वायुरृजुर्योग्यः प्रकीर्तितः
अन्येषां सर्वदा नास्ति अतो न ऋजवः स्मृताः ॥ ३.१६.४५ ॥
हरिं दर्शयते वापि अपरोक्षेण सर्वदा
मोक्षाधिकारिणां काले अतः प्रज्ञेति कथ्यते ॥ ३.१६.४६ ॥
परोक्षेणापि सर्वेषां हरिं दर्शयते सदा
अतो वायुः सदा वीन्द्र ज्ञानमित्येव कीर्तितः ॥ ३.१६.४७ ॥
हिताहितोपदेष्टृत्वाद्भक्तानां हृदये स्थितः
ततश्च गुरुसंज्ञां चाप्यवाप स च मारुतः ॥ ३.१६.४८ ॥
योगिनां हृदये स्थित्वा सध्यायति हरिं परम्
पार्थक्येनापि तं ध्यायन्महाध्यातेति स स्मृतः ॥ ३.१६.४९ ॥
यद्योग्यतानुसारेण विजानाति परं हरिम्
रुद्रादौ विद्यमानांश्च गुणाञ्जानाति सर्वदा ॥ ३.१६.५० ॥
अतो वै विज्ञनामासौ प्रोक्तो हि खगसत्तम
काम्यानां कर्मणां त्यागाद्विराग इति स स्मृतः ॥ ३.१६.५१ ॥
अथवायोगिनां नित्यं हृदि स्थित्वा स मारुतः
वैराग्यं संजनयति विराग इति स स्मृतः ॥ ३.१६.५२ ॥
देवानां पुण्यपापाभ्यां सुखमेवोत्तरोत्तरम्
तत्सुखं तूत्तरेषां च वायुपर्यन्तमेव च ॥ ३.१६.५३ ॥
देवानां च ऋषीणां च उत्तमानां नृणां तथा
सुखांशं जनयेद्वायुर्यतोतः सुखसंज्ञकः ॥ ३.१६.५४ ॥
भुनक्ति सर्वदा वीद्रं तत्र मुख्यस्तु मारुतः
दुः खशोकादिकं किञ्चिद्देवानां भवति प्रभो ॥ ३.१६.५५ ॥
तच्चासुरावेशवशादित्यवेहि न संशयः
तज्जीवस्य भवेत्किञ्चिद्दैत्यानां क्रमशो भवेत् ॥ ३.१६.५६ ॥
यतः कलिश्चाधिकः स्यादतो दुः खीति स स्मृतः
दैत्यानां पुण्यपापाभ्यां दुः ख मेवोत्तरोत्तरम् ॥ ३.१६.५७ ॥
तद्दुः खमुत्तरेषां च कलिपर्यन्तमेव च
भुनक्ति सर्वदा वीन्द्र ततः कलिरिति स्मृतः ॥ ३.१६.५८ ॥
सुखहर्षादिकं किं चिद्दैत्यानां भवति प्रभो
देवावेशो भवेत्तस्य नात्र कार्या विचारणा ॥ ३.१६.५९ ॥
देवानां निरयो नास्ति दैत्यानां विनतासुत
सुखस्वरूपं तन्नास्ति विषयोत्थमपि द्विज ॥ ३.१६.६० ॥
विषयोत्थं किञ्चिदपि देवावेशादुदीरितम्
तमो नास्त्येव देवानां दुः खं नास्ति स्वरूपतः ॥ ३.१६.६१ ॥
विषयोत्थं महादुः खं देवानां नास्ति सर्वदा
दुः खशोकादिकं किं चिदसुरावेशतो भवेत् ॥ ३.१६.६२ ॥
अतः कलिः सदा दुः खी सुखी वायुस्तु सर्वदा
मनुष्याणा मृषीणां च सुखं दुः खं खगेश्वर ॥ ३.१६.६३ ॥
भवेत्तत्पुण्यिपापाभ्यां पुण्यभोगी च मारुतः
कष्टभङ्गः कलिलयो नात्र कार्या विचारणा ॥ ३.१६.६४ ॥
प्राणादिसुखपर्यन्ता अंशा एकोनविंशतिः
प्रविष्टाः संति लोकेषु पृथक्संति खगेश्वर ॥ ३.१६.६५ ॥
मारुतरेवतारांश्च शृणु पक्षीन्द्रसत्तम
चतुर्दशसु चन्द्रेषु द्वितीयौयो विरोचनः ॥ ३.१६.६६ ॥
स वायुरिति संप्रोक्त इन्द्रादीनां खगेश्वर
हरितत्त्वेषु सर्वेषु स विष्वग्याव्यतेक्षणः ॥ ३.१६.६७ ॥
अतो रोचननामासौ मरुदंशः प्रकीर्तितः रामावतारे हनुमान्रामकार्यार्थसाधकः
स एव भीमसेनस्तु जातो भूम्यां महाबलः ॥ ३.१६.६८ ॥
कृष्णावतारे विज्ञेयो मरुदंशः प्रकीर्तितः ॥ ३.१६.६९ ॥
मणिमान्नाम दैत्यस्तु संराख्यो भविष्यति
सर्वेषां संकरं यस्तु करिष्यति न संशयः ॥ ३.१६.७० ॥
तेन संकरनामासौ भविष्यति खगेश्वर
धर्मान्भागवतान्सर्वान्विनाशयति सर्वथा ॥ ३.१६.७१ ॥
तदा भूमौ वासुदेवो भविष्यति न संशयः
यज्ञार्थैः सदृशो यस्य नास्ति लोके चतुर्दशे ॥ ३.१६.७२ ॥
अतः स प्रज्ञया पूर्णो भविष्यति न संशयः
अवतारास्त्रयो वायोर्मतं भागवताभिधम् ॥ ३.१६.७३ ॥
स्थापनं दुष्टदमनं द्वयमेव प्रयोजनम्
नान्यत्प्रयोजनं वायोस्तथा वैरोचनात्मके ॥ ३.१६.७४ ॥
अवतारत्रये वीन्द्र दुः खं गर्भादिसंभवम्
नास्ति नास्त्येव वायोस्तु तथा वैरोचनादिके ॥ ३.१६.७५ ॥
शुक्रशोणितसंबन्धो ह्यवतारचतुष्टये
नास्ति नास्त्येव पक्षीन्द्र यतो नास्त्यशुभं ततः ॥ ३.१६.७६ ॥
पूर्वं गर्भं समाशोष्य समये प्रभवस्य च
प्रादुर्भवति देवेशी ह्यवतारचतुष्टये ॥ ३.१६.७७ ॥
त्रयोविंशतिरूपाणां वायोश्चैव खगेश्वर
रूपैरृजुस्वरूपैश्च ब्रह्मणः परमेष्ठिनः ॥ ३.१६.७८ ॥
सत्यमेव न संदेहो नित्यानन्दसुखादिषु
एवमेव विजानीयान्नान्यथा तु कथञ्चन ॥ ३.१६.७९ ॥
एतस्य श्रवणादेव मोक्षं यान्ति न संशयः
तदनन्तरजान्वक्ष्ये शृणु पक्षीन्द्रसत्तम ॥ ३.१६.८० ॥
कृतौ प्रद्युम्नतश्चैव समुत्पन्ने खगेश्वर
स्त्रियौ द्वे यमले चैव तयोर्मध्ये तु यद्यिका ॥ ३.१६.८१ ॥
वाणीतिसंज्ञकां वीन्द्र ब्रह्माणीसंज्ञकां विदुः
पुरुषाख्यविरिञ्चस्य भार्या सावित्रिका मता
चतुर्मुखस्य भार्या तु कीर्तिता सा सरस्वती ॥ ३.१६.८२ ॥
एवं त्रिरूपं विज्ञेयं वाण्याश्च खगसत्तम
वक्ष्येऽवतारान् भारत्याः समाहितमनाः शृणु ॥ ३.१६.८३ ॥
सर्ववेदाभिमानित्वात्सर्ववेदात्मिका स्मृता
महाध्यातुश्च वायोस्तु भार्यासा परिकीर्तिता ॥ ३.१६.८४ ॥
ज्ञानरूपस्य वायोस्तु भार्या सा परिकीर्तिता
सदा सुखस्वरूपत्वाद्भारती तु सुखात्मिका ॥ ३.१६.८५ ॥
सुखस्वरूप वायोस्तु भार्या सा परिकीर्तिता
गुरुस्तु वायुरेवोक्तस्तस्मिन् भक्तियुता सती ॥ ३.१६.८६ ॥
ततस्तु भारती नित्या गुरुभक्तिरिति स्मृता
महागुरोर्हि वायोश्च भार्या वै परिकीर्तिता ॥ ३.१६.८७ ॥
हरौ स्नेहयुतत्वाच्च हरिप्रीतिरिति स्मृता
धृतिरूपस्य वायोश्च भार्या सा परिकीर्तिता ॥ ३.१६.८८ ॥
सर्वमन्त्राभिमानित्वात्सर्वमन्त्रात्मिका स्मृता
महाप्रभोश्च वायोश्च भार्या वै सा प्रकीर्तिता ॥ ३.१६.८९ ॥
भुज्यन्ते सर्वभोगास्तु विष्णुप्रीत्यर्थमेवच
अतस्तु भारती ज्ञेया भुजिनाम्ना प्रकीर्तिता ॥ ३.१६.९० ॥
चित्ररूपस्य वायोस्तु भार्या सा परिकीर्तिता
रोचनेन्द्रस्य भार्या च श्रद्धाख्या परिकीर्तिता ॥ ३.१६.९१ ॥
हनुमांश्च तदा जज्ञे त्रेतायां पक्षिसत्तम
तदा शिवाख्यविप्राच्च जज्ञे सा भारती स्मृता ॥ ३.१६.९२ ॥
न केवलं भारती साशच्याद्यैश्चैव संयुता
तस्मिन्संजनिताः सर्वाः प्रापुर्योगं स्वभर्तृभिः ॥ ३.१६.९३ ॥
अन्यगेति च विज्ञेया कन्या तन्मतिसंज्ञिका
त्रेतान्ते सैव पक्षीन्द्र शच्याद्यैश्चैव संयुता ॥ ३.१६.९४ ॥
दमयन्त्यनलाज्जाता इन्द्रसेनेति चोच्यते
नलं नन्दयते यस्मात्तस्माच्च नलनन्दिनी ॥ ३.१६.९५ ॥
तत्र स्वभर्तृसंयोगं नैव चाप खगेश्वर
तत्रान्यगात्वं विज्ञेयं पुरुषस्थेन वायुना ॥ ३.१६.९६ ॥
किञ्चित्कालं तथा स्थित्वा कन्यैव मृति माप सा
शच्यादिसंयुता सैव द्रुपदस्य महात्मनः ॥ ३.१६.९७ ॥
वेदिमध्यात्समुद्भूता भीमसेनार्थमेव च
तत्रान्यगात्वं नास्त्येव योगश्च सह भर्तृभिः ॥ ३.१६.९८ ॥
केवला भारती ज्ञेया काशिराजस्य कन्यका
काली नाम्ना तु सा ज्ञेया भीमसेनप्रिया सदा ॥ ३.१६.९९ ॥
वाच्यादिभिः संयुतैवद्रौपदी द्रुपदात्मजा
देहं त्यक्त्वाविशिष्टैव कारटीग्रामसंज्ञकै ॥ ३.१६.१०० ॥
संकरस्य गृहे वीन्द्र भविष्यति कलौ युगे
वायोस्तृतीयरूपार्थं सा कन्यैव मृतिं गता ॥ ३.१६.१०१ ॥
इत्याद्या वायुभार्याश्च ब्रह्मभार्याश्च सतम
स्वभर्तृभ्यां च पक्षीन्द्र गुणैश्चैव शताधमाः ॥ ३.१६.१०२ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे महालक्ष्म्यवतारादिनिरूपणं नाम षोडशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १७
गरुड उवाच
चतुर्जन्मसु वै कृष्ण शच्याद्यैः सह भारती
एकदेह विशिष्टैव भुवि जातेति चोक्तवान् ॥ ३.१७.१ ॥
कारणं ब्रूहि मे ब्रह्मन् शिष्याय तव सुव्रत
गरुडेनैवमुक्तस्तमुवाच मधुसूदनः ॥ ३.१७.२ ॥
श्रीकृष्ण उवाच
विशिष्टदेहसं प्राप्तौ भारत्याः पक्षिसत्तम
वक्ष्यामि कारणं वीन्द्र सावधानमनाः शृणु ॥ ३.१७.३ ॥
पुरा कृतयुगे वीन्द्र रुद्रभार्या च पार्वती
इन्द्रभार्या शची देवी यम भार्याच शामला ॥ ३.१७.४ ॥
अश्विभार्या उषा देवी भर्तृभिः सहिता खग
ब्रह्मलोकं ययुस्तत्र ब्रह्माणं ददृशुस्तदा ॥ ३.१७.५ ॥
हावं भावं विलासं च दर्शयामासुरञ्जसा
दृष्ट्वा ता उद्धता ब्रह्मा शशाप खगसत्तम ॥ ३.१७.६ ॥
उद्धताश्च यतो यूयं मानुषीं योनिमाप्स्यथ
तत्र स्वभर्तृसंयोगमवाप्स्यथ खगेश्वर ॥ ३.१७.७ ॥
एवं शप्तास्तु ताः सर्वा आजग्मुर्मेरुपर्वतम्
तत्रोपविष्टं ब्रह्माणं वञ्चयामासुरञ्जसा ॥ ३.१७.८ ॥
तूष्णीमेव स्थिते वीन्द्र वञ्चयन्त्यः स्थिताः पुनः
ततस्तूष्णीं स्थितं वीन्द्र वञ्चयामासुरञ्जसा ॥ ३.१७.९ ॥
त्रिवारानन्तरं ब्रह्मा शप्तवांस्ता महाप्रभुः
त्रिवारं वञ्चनं यस्मादेकवारं च दर्शनम् ॥ ३.१७.१० ॥
किं चाश्रुत्वातः पश्चाच्चतुर्जन्मसु भूतले
एकदेहान्मानुषत्वं भविष्यति न संशयः ॥ ३.१७.११ ॥
द्वितीये जन्मनि तथा अन्यगात्वमवाप्स्यथ
तृतीये जन्मनि तथा भर्तृसंयोग माप्स्यथ ॥ ३.१७.१२ ॥
जन्मन्याद्ये चतुर्थे च नान्यगात्वमवाप्स्यथ
तथा स्वभर्तृसंयोगं नावाप्स्यथ च सर्वशः ॥ ३.१७.१३ ॥
एवं शप्तास्तु ताः सर्वा ब्रह्मणा पक्षिसत्तम
तदा विचारयामासुर्मिलित्वा मेरुमूर्धनि ॥ ३.१७.१४ ॥
ब्रह्मशापस्त्वनिर्वाय उपायैः शतशोपि च
नीचैः समागमो निन्द्यस्तथैव च विपत्तिदः ॥ ३.१७.१५ ॥
उत्तमेन च संगेन दैवेनाप्यर्थदो भवेत्
देवानामुत्तमो वायुस्तदर्थं संगमाचरेत् ॥ ३.१७.१६ ॥
विचार्यैवमुमाद्या भारत्याः सेवां तु चक्रिरे
सहस्रवत्सरान्ते सा भारती तोषिताब्रवीत् ॥ ३.१७.१७ ॥
मत्सेवां च किमर्थं वै ह्याचरिष्यन्ति सुव्रताः
तस्यां रक्ताश्च ता देव्यस्त्वब्रुवन्स्वचिकीर्षितम् ॥ ३.१७.१८ ॥
पुरा वयं तु शप्ताः स्म ब्रह्मणा क्रोधरूपिणा
एकदेहान्मानुषत्वमवाप्स्यथ वराङ्गनाः ॥ ३.१७.१९ ॥
चतुर्थजन्मन्यप्येवं द्वितीये जन्मनि प्रभो
समाप्स्यथान्यगात्वं चेत्येवं शप्ता ह भामिनि ॥ ३.१७.२० ॥
अस्माकं वायुना देवेनान्यगात्वं न दोषभाक्
अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ॥ ३.१७.२१ ॥
हत्युक्ता ताभिरथ च तथैत्युक्त्वा द्विजोत्तम
सा पार्वत्यादिभिर्युक्ता भारतीत्यभवद्भुवि ॥ ३.१७.२२ ॥
शिवनाम्नो द्विजस्यैव गृहे सा तु कुमारिका
कर्मैक्यार्थं तपश्चक्रेः विष्णोश्च शिवसंज्ञिनः ॥ ३.१७.२३ ॥
तपसा तोषिता विष्णुः शिव संज्ञो महाप्रभुः
वरं प्रादात्तृतीयेस्मिन्कृष्णजन्मनि भो स्त्रियः ॥ ३.१७.२४ ॥
सम्यक्त्वभर्तृसंयोगो भविष्यति विना भवम्
यतोनया च पार्वत्या प्रेरिता एव सर्वशः ॥ ३.१७.२५ ॥
विलासं दर्शयामास ब्रह्मणः परमेष्ठिनः
अतः सा पार्वाती श्रेष्ठा ब्रह्मदेहे न संशयः ॥ ३.१७.२६ ॥
कृष्णदेहेपि तस्यास्तु न भविष्यति संगमः
अन्यगात्वं द्वितीयेस्मिन्भविष्यति न संशयः ॥ ३.१७.२७ ॥
रुद्रान्तः स्थो हरिश्चैव वहं दत्त्वा स्त्रियां प्रभुः
अन्तर्धानं ययौ श्रीमान्स्वलोकं गतवानभूत् ॥ ३.१७.२८ ॥
विसृज्य ताश्च तं देहं बभूवुर्नलकन्यकाः
इन्द्रसेनेति संज्ञां च लब्ध्वा ताश्च तपोवनम् ॥ ३.१७.२९ ॥
ययुस्तत्र चरन्त्यस्ता ददृशुर्मुद्गलं त्वृषिम्
तस्य दर्शनमात्रेण बभूवुः काममोहिताः ॥ ३.१७.३० ॥
मुद्गलस्याभिमानं हि नाशयित्वा च मारुतः
रमयामास तत्रस्था भारत्यादिवराङ्गनाः ॥ ३.१७.३१ ॥
तद्देहेन विसृष्टा सा बभूव द्रौपदीति च
यस्मात्सा द्रुपदाज्जाता तस्मात्सा द्रौपदी स्मृता ॥ ३.१७.३२ ॥
वेदिमध्यात्समुद्भूता तस्मात्सायोनिजा स्मृता
कृष्णवर्णा यतस्तस्मात्सा कृष्णा भूतले स्मृता ॥ ३.१७.३३ ॥
कृष्णादेहपि भारत्या अभिमानः सदा स्मृतः
शच्यादेरभिमानस्तु तस्मिन्देहे कदाचन ॥ ३.१७.३४ ॥
यस्याः स्वभर्तृसंयोगकाले च खगसत्तम
अभिमानस्तदैव स्यात्तस्या एव न चान्यथा ॥ ३.१७.३५ ॥
एतासां रमणे काले उमायाः पक्षिसत्तम
अभिमानश्च नास्त्येव स्वाप एव रताः सदा ॥ ३.१७.३६ ॥
पार्थस्य रमणे काले द्रौपद्याश्च कलेवरे
भारत्याश्च तथा शच्या अभिमानद्वयं स्मृतम् ॥ ३.१७.३७ ॥
उमादेः श्याम लादेश्च अभिमानक्षतिस्तदा
सर्वासां स्वाप एव स्यान्नात्र कार्या विचारणा ॥ ३.१७.३८ ॥
अर्जुनं वीररूपेण प्रविष्टो वायुरेव च
भारतीं रमते नित्यं शामलां च युधिष्ठिरः ॥ ३.१७.३९ ॥
सुंदरेण च रूपेण प्रविष्टो नकुले मरुत्
रमते भारतीं नित्यं नकुलश्चाप्युषां खग ॥ ३.१७.४० ॥
नीतिरूपेण चाविष्टो सहदेवे च मारुतः
द्रौपदीं रमते नित्यं सहदेवोत्पयुषां खग ॥ ३.१७.४१ ॥
शच्याद्या द्रौपदीदेहे नापुः संगं च मारुतः
तासामतोन्यगामित्वं कृष्णादेहे न चिन्तयेत् ॥ ३.१७.४२ ॥
धर्मादिदेहसंगं च भारत्या नैव चिन्तयेत्
मनुजस्य च देहस्य तासां संगं चिन्तयेत् ॥ ३.१७.४३ ॥
अपरोक्षवतीनां तु तासां लेपो न सर्वथा
अथवा मुद्गलस्येव रतिकाले खगेश्वर ॥ ३.१७.४४ ॥
रमणं चक्रुरेवं ता अतो दोषो न विद्यते
एकस्मिन्दिवसे वीन्द्र धर्मो वायुश्च तावुभौ ॥ ३.१७.४५ ॥
रमणं चक्रतुः सम्यक्कृष्णादेहेऽपि मानद
तथाप्यनन्यागामित्वं चिन्तनीयं न संशयः ॥ ३.१७.४६ ॥
सुराणां सुरभोग्याश्च भोगं जानन्ति देवताः
न जानन्त्येव मर्त्यांस्तु तेषु देहेषु ते पुनः ॥ ३.१७.४७ ॥
नीरक्षीरविविकं च हंसो वेत्ति न चापरः
अतः स्वभर्तृसंयोगं कृष्णादेहेन चिन्तयेत्कृष्णादेहेन्यगामित्वं नैव चिन्त्यं खगेश्वर ॥ ३.१७.४८ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भारत्या विशिष्टदेह संप्राप्त्यै कारणनिरूपणं नाम सप्तदशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १८
श्रीकृष्ण उवाच
अथानन्तरजान्वक्ष्ये शृणु पक्षीन्द्रसत्तम
शृणु तान्सावधानेन श्रुत्वा तानवधारय ॥ ३.१८.१ ॥
पुरुषाख्यविरिञ्चानुजातः शेषो महाबलः
हरे रमायाश्च यस्य स्वस्मिन्निद्रां प्रकुर्वतः ॥ ३.१८.२ ॥
शयनार्थमभूदेष तेन कृत्यं हरेर्न तु
सर्वदा हरिदासोहं सर्वदा हरिपूजकः ॥ ३.१८.३ ॥
हरे सदा नमामि त्वां बहु जन्मनि जन्मनि
एवं बुद्धा तु गरुडो ह्यभूच्च शयनं हरेः ॥ ३.१८.४ ॥
सूत्रनाम्नस्तथा वायोः सदायं विनतासुत
कालनामा च गरुडो वाहनार्थं हरेरभूत् ॥ ३.१८.५ ॥
ततो महत्तत्त्वतनोर्विरिञ्चात्तु खगेश्वर
अहं कारात्मको रुद्रः समभूत्सोवितुं हरिम् ॥ ३.१८.६ ॥
त्रय एते महाभाग परस्परसमाः स्मृताः
गायत्रीभारतीभ्यां ते त्रयः शतगुणा वराः ॥ ३.१८.७ ॥
शेषः स एव विज्ञेयो भक्तो नारायणस्य च
विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्युतः सदा ॥ ३.१८.८ ॥
सुमित्रांशो दशरथाज्जातो यो लक्ष्मणः खग
सोपि शेषस्तु विज्ञेयो वाय्वनन्तांशसंयुतः ॥ ३.१८.९ ॥
रामस्य सेवां कर्तुं सा सीता भूम्यां खगाधिप
बलभद्रस्तु रोहिण्यां वसुदेवादभूत्खग ॥ ३.१८.१० ॥
सोयमेप तु विज्ञेयस्त्वंशद्वयसमन्वितः
आविष्टः शुक्लकृष्णे हरिणा रोहिणीसुतः ॥ ३.१८.११ ॥
त्रय एते माहाभागावताराः फणिनः स्मृताः
न वीन्द्रास्यावतारोस्ति भूम्यां चाज्ञा तथा हरेः ॥ ३.१८.१२ ॥
रुद्रावतारान्वक्ष्येहं ताञ्छृणु त्वं समाहितः
योहङ्कारात्मको रुद्रः स एवाभूत्खगेश्वर ॥ ३.१८.१३ ॥
सदाशिव इति त्वाख्यामवाप स विनाशकः
तमोभिमानी स ज्ञेयस्त्वशिवत्वात्सदाशिवः ॥ ३.१८.१४ ॥
कपालमालामशिवां सदा धारयते यतः
अतः सदाशैवो ज्ञेयो न च भागवतः शिवः ॥ ३.१८.१५ ॥
गजाजिनं चापवित्रं यतो धारयते हरः
लोकानमङ्गलान्सर्वान्हरते च सदा हरः ॥ ३.१८.१६ ॥
हर्याज्ञया सदा लोकान्विपयासक्तचेतसः
विमुखान्कुरुते यस्माद्विष्णोस्तस्मात्सदाशिवः ॥ ३.१८.१७ ॥
कदाचिदसुरावेशाद्विरुद्धं कुरुते हरः
अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥ ३.१८.१८ ॥
सोयं श्मशानवसतिं कर्तुमैच्छद्यतो हरः
अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥ ३.१८.१९ ॥
दशवर्षं तपः कर्तुं विवेश लवणांभसि
अतो रुद्रस्तपः संज्ञामवाप च खगोत्तम ॥ ३.१८.२० ॥
व्यासपुत्रः शुकः प्रोक्तो वायोरावेशसंयुतः
रुद्रावतारो विज्ञेयो ज्ञानार्थमभवद्भुवि ॥ ३.१८.२१ ॥
अत्रिपत्न्यनुसूयायां जज्ञे रुद्रो महातपाः
दुर्वासास्तु स विज्ञेयो मानभङ्गाय भूभृताम् ॥ ३.१८.२२ ॥
द्रोणाज्जातो द्रौणिसंज्ञो रुद्र एव प्रकीर्तितः
प्रारब्धं भोक्तुकामोसौ परपक्षप्रकाशकः ॥ ३.१८.२३ ॥
ईशानकोणे संस्थितो यस्तु रुद्रो ह्यवाप वै वामदेवेति संज्ञाम्
स्ववामभागे संस्थितं चैव वायुस्तं योग्यभक्तं सेवते सर्वदैव ॥ ३.१८.२४ ॥
अतो रुद्रो वामदेवेति संज्ञा मवाप शिष्टत्वमथोत्तमत्वम्
कालात्मकत्वं च बलात्मकत्वमवाप रुद्रो न तु सुंदरत्वतः ॥ ३.१८.२५ ॥
सदा रुद्रो त्रिपुरस्थांश्च दैत्यान्विष्णुदुहो हन्तु कामो महात्मा
अघोररूपं धृपवान्रुद्र एव ततस्त्वघोरेति स आप संज्ञाम् ॥ ३.१८.२६ ॥
सेवां कर्तुं त्विच्छतो दैत्यसंघान्किञ्चित्कालं तपसा क्लिश्यमानान्
वरान्दातुं सद्य एवाभिजातः सद्योजातेत्येव संज्ञामवाप ॥ ३.१८.२७ ॥
उरोः पुत्रस्तु और्वश्च रुद्र एव प्रकीर्तितः
इत्यकृष्टवाचित्वाद्रुस्तुरोदनवाचकः ॥ ३.१८.२८ ॥
उरू रुद्रो ह्यतः प्रोक्तस्तत्पुत्रश्चौर्वसंज्ञकः
रुद्रमुर्वरितं कर्तुमौर्वोभूद्रुद्र एव सः ॥ ३.१८.२९ ॥
गरुड उवाच
रोदनं कुरुते कस्मादुरुसंज्ञो हरे हरः
रुदमुर्वरितं कस्मात्कुरुते और्वाकारकः ॥ ३.१८.३० ॥
एतद्विस्तार्य मेब्रूहि पौत्राय तव सुव्रत
इत्युक्तस्तेन स हरिरुवाच करुणानिधिः ॥ ३.१८.३१ ॥
श्रीकृष्ण उवाच
दृष्ट्वा स्वबिंबं सुगुणैस्तु पूर्णं संकर्षणाख्यं नतपादपद्म्
श्रीब्रह्मशेषैर्जिष्णुकामैस्तथान्यैर्भारत्या वै स्वस्ति पैश्चापि नित्यम् ॥ ३.१८.३२ ॥
दृष्ट्वा हरिं पुलकाङ्गस्तु रुद्रः सभाष्पचक्षू रुद्धकण्ठश्च हृष्टः
अनाद्यनन्तब्रह्मकल्पेषु नैव कृतं यया स्मरणं सर्वदैव ॥ ३.१८.३३ ॥
पादारविन्दे सुनखैर्विभूषिते दृष्टे मया केन पुण्येन देव
दृष्ट्वादृष्ट्वा पादपद्मं मुरारेः पुनः पुना रुद्धकण्ठो बभूव ॥ ३.१८.३४ ॥
रुरोद रुद्रो भयकंपिताङ्गः कथं पुनर्दर्शनं मे प्रभोः स्यात्
मुकुन्द नारायण विश्वमूर्ते वागिन्द्रियेण स्तवनं मे कथं स्यात् ॥ ३.१८.३५ ॥
मद्दर्शनं सर्वदा पापुयुक्तं तथा मद्वाक्सर्वदा पापयुक्ता
मद्दर्शनं सर्वदा स्त्रीषु सक्तमभूच्च ते दर्शनं मे ह्यसक्तम् ॥ ३.१८.३६ ॥
आसक्तता पुत्रदारादिकानां सम्यक्शक्तिस्तवने नास्ति विष्णोः
विष्णुस्तुतौ नावकाशोस्ति वाचो दृष्टोहं त्वं केन पुण्येन देव ॥ ३.१८.३७ ॥
अनन्तकर्णेश सुचन्द्रसंज्ञ श्रोत्रेण नित्यं न कथा श्रुता ते
श्रुता मया बहुधा लोकवार्ता दृष्टो मया त्वं केन पुण्येन देव ॥ ३.१८.३८ ॥
दृष्ट्वादृष्ट्वा पादपीठं हरेश्च पुनः पुना रुद्धङ्कठो बभूव
रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः श्रवणं स्यात्कथायाः ॥ ३.१८.३९ ॥
त्वमीश वैकुण्ठ सुवायुसंज्ञस्त्वदर्पितं गन्धपुष्पादिकं च
सदा न लिप्तं च भुजैर्विलिप्तं तन्मूत्रविष्ठादिमकर्दमाम्बुभिः ॥ ३.१८.४० ॥
स्त्रीणां कुचोदैश्च कचोदकैश्चकक्षोदकैर्गात्रजलैर्मुकुन्द
अनर्पितैर्वस्त्रगन्धादिकैश्च दृष्टो मया केन पुण्येन देव ॥ ३.१८.४१ ॥
स्पृष्ट्वास्पृष्ट्वा हरिनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव
रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः स्पर्शनं स्यात्सदा मे ॥ ३.१८.४२ ॥
नृसिंह नासास्थित नासिकेश मन्नासया क्वापि सुपद्मसौरभम्
नाघ्रातमित्थं पुनराघ्रातमेव ह्यनर्पितं गन्धपुष्पादिकं च ॥ ३.१८.४३ ॥
सुनासिकं सुष्ठुदन्तं मुरारे दृष्टं मुखं केन पुण्येन देव
घ्रात्वा घ्रात्वा विष्णुनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव ॥ ३.१८.४४ ॥
रुरोद रुद्रो भयकंपिताङ्गो जिघ्रामि निर्माल्यमिदं कथं ते
जिह्वास्थितो जिह्व संज्ञो मुरारे जिह्वेन्द्रियेणापि तथार्पितं च ॥ ३.१८.४५ ॥
नैवेद्यशेषं तुलसीविमिश्रितं विशेषतः पादजलेन सिक्तम्
यो स्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥ ३.१८.४६ ॥
एतादृशं तव नैवेद्यशेषं न भुक्तं वै सर्वदादित्यरूपम्
अनर्पितं तव देवस्य विष्णोर्भुक्तं मया बहुवारं मुकुन्द ॥ ३.१८.४७ ॥
पादारविन्दे नार्पितं भक्ष्यभोज्यं दृष्टो मया केन पुण्येन देव
भुक्त्वाभुक्त्वा हरिनैरवेद्यजातं सुखं त्वदीयं रमया लालितं च ॥ ३.१८.४८ ॥
द्युभ्वाश्रयं तव मूर्धानमाहुः किरीटयुक्तं कुटिलैः कुन्तलैश्च
अनेकजन्मार्जितपुण्यसंचयैर्दृष्टं मया सज्जनसंगमाच्च ॥ ३.१८.४९ ॥
अनेकजन्मार्जितपापसंचयैरदर्शनं यास्यति देवदेव
एवं सुभक्त्या च रुरोद रुद्रो दृष्ट्वा हरिं सुर्वगुणैः संपूर्णम् ॥ ३.१८.५० ॥
पादारविन्दं तव विश्वमूर्ते योगीश्वरैर्हृदये संगृहीतम्
दृष्टं मया दयया वासुदेव द्रक्ष्ये कथं पुनरित्थं रुरोद ॥ ३.१८.५१ ॥
दृष्टं मया त्वरिवले भविनाशिशङ्खचक्रादिकैस्त्रिजगतापि च देव पूर्णम्
एतादृशं त्वदुदरं च कथं रमेश द्रक्ष्ये पुनः पुनरहं त्विति संरुरोद ॥ ३.१८.५२ ॥
आनन्दपूर्ण नखपूर्ण सुकेशपूर्ण लोमादिपूर्ण गुणपूर्ण सुघोणपूर्ण
वक्षः स्थलं तव विभोस्तु विशालभूतं सद्भूषणं विमलकौस्तुभशोभि लक्ष्म्या ॥ ३.१८.५३ ॥
सुकोमलं श्रीतुलस्यास्तथैव सुपुष्पितं चन्द नैश्चर्चितं च
एतादृशं तव वक्षः स्थलं च दृष्टं मया तव कारुण्यदृष्ट्या ॥ ३.१८.५४ ॥
पुनः पुनर्दर्शनं मे कथं स्यादेवं रुद्रः स च भक्त्या रुरोद
अतस्तूरुर्नाम संप्राप्य रुद्रस्तत्पुत्रोभूद्दौर्वसंज्ञः स एव ॥ ३.१८.५५ ॥
यस्माद्रुदं चोर्वरितं वै चकार तस्मात्स रुद्रस्त्वौर्वसंज्ञो बभूव
और्वस्तु लोकान्मोक्षयोग्यांश्च दृष्ट्वा ह्यत्यन्तं वै विषयेष्वेव निष्ठान् ॥ ३.१८.५६ ॥
स्तूद्दैव चौर्वो विष्णुपादारविदं स्मृत्वास्मृत्वा रुद्धकण्ठो बभूव
ते पापिष्ठाः पापरूपान्भजन्तो दिनेदिने दुर्विषयान्कदिन्द्रियैः ॥ ३.१८.५७ ॥
कदा चैतान्हेयबुद्ध्या विमुञ्चे न जानेहं चेति सम्यग्रुरोद
एते हि मूर्खा विषयानर्थलब्ध्यै कुर्वन्ति यत्नं परमादरेण ॥ ३.१८.५८ ॥
कदिन्द्रियार्थं हि धनादिकं च त्यजन्ति च सर्वे विषयेषु निष्ठाः
त्वन्मायया मोहितान्नष्टबुद्धीन्कदा चैतान्मुञ्चसे विश्वमूर्ते ॥ ३.१८.५९ ॥
स्मृत्वास्मृत्वा वासुदेवस्य मायां रुरोद चौर्वो भयकंपिताङ्गः
अतीव कष्टेन च लोकवृत्त्या श्रिता दैन्यं स्वीयकार्यं विहाय ॥ ३.१८.६० ॥
अतीव दैन्येन धनादिकं च संपाद्य सर्वेऽपि सुपापशीलाः
कष्टार्जितं द्रव्यधनादिकं च त्यजन्ति सर्वे पशवो व्यर्थमेव ॥ ३.१८.६१ ॥
सत्पात्रभूते विष्णुबुद्ध्या कदापि त्यजन्ति नैते मायया वै मुरारेः
एषामायुर्व्यर्थमाहुर्महान्तः कथं नष्टा इति सम्यग्रुरोद ॥ ३.१८.६२ ॥
एषामायुर्व्यर्थमेवं गतं च एषां दृष्ट्वा यौवनं तु ध्रुवं च
स्कन्धस्थमृत्युर्हसते कृष्ण विष्णो तं वै न जानन्ति विमूढचेतसः ॥ ३.१८.६३ ॥
गृहं मदीयं शतवर्षं च जीवेत्पुत्रा मदीया शवतवर्षं तथैव
अहं च जीवे शतवर्षं सुखेन मदीयभार्यापि सुलक्षणाऽस्ते ॥ ३.१८.६४ ॥
गावश्च मे संति सदुग्धपूर्णा मित्राणि मे संति मुदा हि युक्ताः
दास्ये सुतं वारणार्थं तु वध्वै पुत्रीं विवाहार्थमहं ददामि ॥ ३.१८.६५ ॥
दास्ये चाहं सत्सु पुत्रीं धनं वा दास्ये चाहं धनिकेष्वेव नित्यम्
अदृष्टशून्यान् भगवान्वासुदेवो दृष्ट्वादृष्ट्वा हसते सर्वदैव ॥ ३.१८.६६ ॥
नाहं करिष्ये श्रवणं कथाया मद्भाग्यना शश्च भविष्यतीति
नाहं हरिं पूजयिष्ये सदैव पुत्रादिनाशश्च भविष्यतीति ॥ ३.१८.६७ ॥
कालेकाले दिष्टनामा हरिस्तु फलप्रदो वासुदेवोऽखिलस्य
एतादृशान्मूर्खजनांश्च दृष्ट्वा रुरोद चौर्वो वासुदेवैकनिष्ठः ॥ ३.१८.६८ ॥
अतस्त्वौर्वो रुद्ररूपी खगेन्द्र जानीहि नित्यं कृष्णसुशिक्षितार्थः
यदा सती दक्षपुत्री खगेन्द्र दक्षाध्वरे स्वशरीरं विसृज्य ॥ ३.१८.६९ ॥
जज्ञे पुनर्मेनकायां हिमाद्रेस्तदा रुद्रस्त्वौर्वसंज्ञा मवाप
ऊर्ध्वरेता भवेत्युक्त्वा ऊर्ध्वरेता बभूव ह ॥ ३.१८.७० ॥
पाणिग्राहं रुद्रदेवो महात्मा यदा हिमाद्रेः कन्यकायाश्चकार
तस्यां परं लंपटः संबभूव अतो रुद्रः परसंज्ञामवाप ॥ ३.१८.७१ ॥
सदाशिवाद्या दश रुद्रभ्रातरः सौमित्रेयो हौहिणेयस्त्रयश्च
समा एते मोक्षकाले सृतौ च शतैर्गुणैर्न्यूनभूताश्च ताभ्याम् ॥ ३.१८.७२ ॥
गरुड उवाच
आनन्दनिर्णयं ब्रूहि कृष्ण पूर्णदयानिघे
निर्णेतुं ज्ञानिनां यद्वज्ज्ञापनार्थं तथा मम ॥ ३.१८.७३ ॥
ब्रूहि शिष्याय दयया उद्धर्तुं मां च सर्वदा
पूर्णकामस्य ते कृष्ण का स्पृहा विद्यते प्रभो ॥ ३.१८.७४ ॥
एवमुक्तो हृषीकेशः पक्षीशेन महात्मना
उवाच कृपया कृष्णः प्रसन्नः कमलेक्षणः ॥ ३.१८.७५ ॥
श्रीकृष्ण उवाच
गायत्र्याश्च शतानन्द एकानन्दस्तु वेधसः एतादृशः शतानन्दो ब्रह्मणः परिकीर्तितः ॥ ३.१८.७६ ॥
शेषादेश्च शतानन्दः सरस्वत्याः खगोत्तम
एकानन्दस्तु विज्ञेयो भारत्या विनतासुत ॥ ३.१८.७७ ॥
एवं तु निर्णयो ज्ञेय आनन्दस्य सदा खग
एवमुक्तं मया सर्वं किमन्यच्छ्रोतुमिच्छसि ॥ ३.१८.७८ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे रुद्ररोदनहेत्वाननन्तानन्दतारतम्यनिरूपणं नामाष्टादशोध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] १९
गरुड उवाच
त्वयोक्तं कृष्ण गोविन्द रुद्राच्छतगुणादपि
ब्रह्माणी भारती चोभे अधिके देवसत्तम ॥ ३.१९.१ ॥
मया श्रुतं विरिञ्चेन उमापर्यन्तमेव च
अनन्तांशैर्विहीनत्वं विरिञ्चोक्तं सुराधिप ॥ ३.१९.२ ॥
सहस्रांशैर्विहीनत्वं त्वयोक्तं कृष्ण माधव
सर्वेषां चैव पूर्वेषामवेक्ष्यैव हरे विभो ॥ ३.१९.३ ॥
ज्ञानानन्दबलादीनां वायुपर्यन्तमेव च
सहस्रांशैर्विहीनत्वं ज्ञानादीनां महेश्वर ॥ ३.१९.४ ॥
निर्णयं ब्रृहि गोविन्द सर्वज्ञोसि न संशयः
गरुडेनैवमुक्तस्तु वासुदेवोब्रवीद्ध्रुवम् ॥ ३.१९.५ ॥
श्रीकृष्ण उवाच
आनन्दांशैर्विहीनत्वमपेक्ष्यैव खगाधिप
उत्तरेषामुत्तरेषां योगादेवमिति स्फुटम् ॥ ३.१९.६ ॥
परिमाणे शतगुणे आनन्दे स्फुटतावशात्
अनन्तगुणवत्त्वं च ब्रह्मणा समुदीरितम् ॥ ३.१९.७ ॥
सहस्रगुणितत्वं च वायुना समुदीरितम्
यथानन्दे तथा ज्ञाने विष्णौ भक्तौ बलाधिके ॥ ३.१९.८ ॥
सर्वे गुणैः शतगुणाः क्रमेणोक्ता नु तेऽखिलाः
भारत्याश्च शतं ज्ञानं सुखं भक्तिबलाधिके ॥ ३.१९.९ ॥
एवं ज्ञानं सुविज्ञेयं मारुतेस्तु बलादिकम्
एवं ज्ञानं शतं ज्ञेयं मारुते नात्र संशयः ॥ ३.१९.१० ॥
भारत्याश्च शतं ज्ञानं बलं च समुदाहृतम्
एवमेव च वायोश्च ज्ञानं चैवमिति स्फुटम् ॥ ३.१९.११ ॥
यथा दीपाच्छतगुणा अग्निज्वाला न दीपवत्
स्फुटीभवेद्यथैवाग्निर्बहुलोपि न सूर्यवत् ॥ ३.१९.१२ ॥
यथैव सूर्याद्द्विगुणश्चन्द्रो नैव स्फुटीभवेत्
आनन्दतारतम्यं च यथोक्तं तु मया तव ॥ ३.१९.१३ ॥
तथैव जानीहि खग नान्यथा तु कथञ्चन
अहं विजानामि मयि स्थितान् गुणान्सर्वैर्विशेषैश्च खगेन्द्र संयुतान् ॥ ३.१९.१४ ॥
सुसूक्ष्मरूपांश्च सदा खगेन्द्र मयाप्यदृष्टो नास्ति नास्त्येव कश्चित् ॥ ३.१९.१५ ॥
सर्वावतारेष्वपि विद्यमानं हरिं विजानाति रमापि देवी ॥ ३.१९.१६ ॥
हरेर्गुणान्सर्वविशेषसंयुतानखण्डरूपान्सा विजानाति देवी
सुसूक्ष्मरूपान्सा विजानाति देवी ब्रह्मादिभ्यो मत्प्रसादाधिकं च ॥ ३.१९.१७ ॥
स्वात्मस्वरूपं प्रविजानाति देवी सुसूक्ष्मरूपं सुविशेषैश्च युक्तम्
स्वान्यं प्रपञ्चं प्रविजानाति लक्ष्मीस्तथाप्यशेषैः सुविशेषैश्च युक्तम् ॥ ३.१९.१८ ॥
ब्रह्मापि पश्येत्सर्वगं वासुदेवं वाय्वादिभ्यो ह्यधिकान्सद्गुणांश्च
श्रोत्रं न जानाति हरेर्गुणांश्च सुसूक्ष्मरूपांश्च विशेषसंयुतान् ॥ ३.१९.१९ ॥
स्पष्टस्वरूपेण यथा विदुः सुरा मुक्त्वा ब्रह्माणं न तथा तेप्यमुक्ताः
स्वात्मानमन्यच्च सदा विशेषर्युक्तं विजानाति विधिश्च मारुतः ॥ ३.१९.२० ॥
वाणी विजानाति हरेर्गुणांश्च स्वयंभुवो नैव तावद्विशेषान्
त्रैगुण्यरूपात्परतः सदैव पश्येद्विष्णुं कृष्णरूपं खगेन्द्र ॥ ३.१९.२१ ॥
शेषो रुद्रो वीन्द्र एतैश्च सर्वे तमो मात्रे प्रविजानन्ति संस्थम्
वाणीदृष्टान्सविशेषान् गुणांस्ते जानन्ति नो सत्यमेवोक्तमङ्ग ॥ ३.१९.२२ ॥
उमा सुपर्णा वारुणी चेति तिस्रः सहैव तः प्रविजानन्ति सुस्थम्
हरेर्विशेषानरुद्र दृष्टान्खगेन्द्र जानन्ति नैताः क्वापि देशे च काले ॥ ३.१९.२३ ॥
इन्द्रादयः प्रविजानन्ति वीन्द्र अहङ्कारे व्याप्तरूपं हरिं च
दक्षाद्या वै बुद्धितत्त्वे स्थितं तं जानन्ति ते सोमसूर्यादयश्च ॥ ३.१९.२४ ॥
विष्णुं हरिं भूततत्त्वे स्थितं च ये चान्ये च प्रविजानन्ति नित्यम्
अन्ये च पश्यन्ति यथा स्वयोग्यमण्डान्तरस्थं हरिरूपं खगेन्द्र ॥ ३.१९.२५ ॥
केचित्प्रपश्यन्ति हरेश्च रूपं त्वदीयहृत्स्थं हृदि केचित्सदैव
एवंप्रकारं प्रविजानीहि वीन्द्र ह्यथो शृणु त्वंमम भार्याः षडेताः ॥ ३.१९.२६ ॥
रुक्मिण्याद्याः षण्महिष्यो ममश्रीर्नीला च या मम भार्या खगेन्द्र
सर्गे पूर्वस्मिन्हव्यवाहस्य पुत्री तास्ता भजे सद्य एवा विशेषात् ॥ ३.१९.२७ ॥
कन्यैव सा कृष्णपत्नी च कामांस्तांस्तान् भजेन्मनसा चिन्तितांश्च
अतीव यत्नं कव्यवाहं खगेन्द्र पितृष्वेकः सर्वदा वै चकार ॥ ३.१९.२८ ॥
तथैव सा नैव भर्तारमाप यतस्तु सा कृष्णनिष्ठैकचित्ता ॥ ३.१९.२९ ॥
तदाब्रवीत्कव्यवाहश्च पुत्ररिं पतिं किमर्थं नेच्छसि मूढबुद्धे
तदाब्रवीत्कव्यवाहं च पुत्त्री हरिं विना सर्वगुणोपपन्ने
जन्मन्यस्मिन् भर्तृता नास्ति देव यतो भर्ता हरिरवैक एव ॥ ३.१९.३० ॥
यतो लोके सुस्त्रियः सर्व एव संदा ज्ञेया विधवास्ते हि नित्यम्
अनादि नित्यं भुवनैकसारं सुसुंदरं मोक्षदं कामदं च ॥ ३.१९.३१ ॥
एतादृशं न विजानन्ति यास्तु सर्वास्ता वै विधवाः सर्वदैव
निमित्तभूतं भर्तृरूपं च जीवं दैवोपेतं हरिभक्त्या विहीनम् ॥ ३.१९.३२ ॥
सुकश्मलं नवरन्ध्रैः स्त्रवन्तं दुर्गन्धयुक्तं सर्वदा कुत्सितं च
एताः दृशे भर्तृजीवे नु तात प्रयोजनं नास्ति कृष्णं विहाय ॥ ३.१९.३३ ॥
देवस्त्रियो निजभर्तॄन्विहायु तत्र स्थितं प्रीणयन्त्येव नित्यम्
अतश्च ताः सधवाः सर्वदैव लोकैर्वन्द्या नात्र विचार्यमस्ति ॥ ३.१९.३४ ॥
भर्तास्ते हरिभक्ता यदि स्युरासां स्त्रीणां जन्मसाफल्यमेव
अनेकजन्मार्जितपुण्यसंचयैस्तद्भर्तारो हरिभक्ता भवेयुः ॥ ३.१९.३५ ॥
यद्भर्तारो हरिभक्ता न संति ताभिस्त्याज्यं स्वीयगात्रं भृशं हि
स्वभर्तृतं कृष्णरूपं हरिं च स्मृत्वा सम्यग्यदि गात्रं त्यजेयुः ॥ ३.१९.३६ ॥
तदा नैव ह्यात्महत्यादिदोषाः स्त्रीणामेवं निर्णयोयं हि शास्त्रे
यद्भर्तारो न विजानन्ति विष्णुं तासां संगो नैव कार्यः कदापि ॥ ३.१९.३७ ॥
अनेक जन्मार्जितपुण्यसंचयात्तद्भर्तारो विष्णुभक्ता भवेयुः
कलौ युगे दुर्लभा विष्णुभक्ता हरेभक्तिर्दुर्लभा सर्वदैव ॥ ३.१९.३८ ॥
हरेः कथा दुर्लभा मर्त्यलोके हरेर्दीक्षा दुर्लभा दुर्लभा च
हरेस्तत्त्वे निर्णयो दुर्लभो हि हरेर्दासैः संगमो दुर्लभश्च ॥ ३.१९.३९ ॥
प्रदक्षिणं दुर्लभं वै मुरारेर्नमस्कारो दुर्लभो वै कलौ च
तद्भक्तानां पालनं दुर्लभं च सद्वैष्णवानां दुर्लभं ह्यन्नदानम् ॥ ३.१९.४० ॥
तन्त्रोक्तपूजा दुर्लभा वै मुरारेर्नामग्रहो दुर्लभश्चव विष्णोः
सुवैष्णवानां पुजनं दुर्लभं हि सद्वैष्णवानां भाषणं दुर्लभं च ॥ ३.१९.४१ ॥
शालग्रामस्पर्शनं दुर्लभं च सद्वैष्णवानां दर्शनं दुर्लभं हि
गोस्पर्शनं दुर्लभं मर्त्यलोके सद्गायनं दुर्लभं सद्गुरुञ्च ॥ ३.१९.४२ ॥
सद्भार्याः सत्पुत्रका दुर्लभा हि शेषाचलस्थस्य हरेश्च दर्शनम्
सुदुर्लभं रङ्गनाथस्य तीरे कावेर्या वै दर्शनं विष्णुपद्याः ॥ ३.१९.४३ ॥
काञ्चीक्षेत्रे वरदराजस्य सेवा सुदुर्लभा दर्शनं चैव लोके
सुदुर्लभं दर्शनं रामसेतोः सुदुर्लभा मध्वशास्त्रे च शक्तिः ॥ ३.१९.४४ ॥
भीमातीरे संस्थितस्यापि विष्णोः सुदुर्लभं दर्शनं चाहुरार्याः
रेवातीरे संस्थितस्यापि विष्णोर्गयाक्षेत्रे विष्णुपादस्य चैव ॥ ३.१९.४५ ॥
तथा बद्रौ संस्थित स्यापि विष्णोः सुदुर्लभं मर्त्यलोके स्थितानाम्
शेषाचले श्रीनिवासाश्रमे च तपस्विनो दुर्लभा मर्त्यलोके ॥ ३.१९.४६ ॥
प्रयागाख्ये माधवस्यापि नित्यं सुदर्शनं दुर्लभं वै नृणां हि ॥ ३.१९.४७ ॥
अतो नेच्छामि भर्तारं कृष्णादन्यं कदाचन
एवमुक्त्वा सा पितरं ययौ शेषाचलं प्रति ॥ ३.१९.४८ ॥
कपिलाख्यमहातीर्थे आरुरोह महागिरिम्
तत्रस्थं श्रीनिवासं च दृष्ट्वा नत्वा महासती ॥ ३.१९.४९ ॥
त्रिदिनं समुपोष्याथ गत्वा पापविनाशनम्
तत्रस्नात्वा विवाहार्थमेकान्तं प्रययावथ ॥ ३.१९.५० ॥
तस्या उत्तरदिग्भागे क्रोशयुग्मे महातले
गर्तभूते च एकान्ते चचार तप उत्तमम् ॥ ३.१९.५१ ॥
ध्यात्वा नारायणं देवं तत्रासीच्च कुमारिका
दिव्यवर्षसहस्रान्ते स्तोतुं समुपचक्रमे ॥ ३.१९.५२ ॥
कुमार्युवाच
त्वमेव माता च पिता त्वमेव भर्ता च सखात्वमेव
त्वमेव पुत्रश्च गुरुर्गरीयान्मित्रं स्वसा त्वं मम वल्लभश्च ॥ ३.१९.५३ ॥
अनाद्यनन्तेष्वपि जन्मसु प्रभो विचार्यमाणा न विजानेप्यहं च
एतै हि सर्वे च निमित्तमात्रतः पित्रादयस्त्वं ह्यनिमित्तमात्रतः ॥ ३.१९.५४ ॥
अतो मुरारेश्च तवैव भार्या भूयासमित्येव तदा व्रतं मे
दुः संगमात्रादिसमागमं न संसिद्धिरित्येव वदान्यमूर्ते ॥ ३.१९.५५ ॥
त्वद्दूषकाणां तव दासवर्य विदूषकाणां दर्शनं छिन्धि देव
गुरुद्रुहां दर्शनं छिन्धि विष्णो भक्तद्रुहां मित्रतां छिन्धि कृष्ण ॥ ३.१९.५६ ॥
तव ध्रुग्भिर्भाषणं छिन्धि देव त्वं संगमं देहि पदारविन्दे
श्रीशैलवासाय नमोनमस्ते नमोनमः श्रीनिवासाय तुभ्यम् ॥ ३.१९.५७ ॥
स्वामिन् परावर रमेश निदानमूर्ते कालो महानपि गतश्च निदर्शनन्ते
अनन्तजन्मार्जितसाधनैश्च त्वद्दर्शनं स्याच्च चतुर्भुजस्य ॥ ३.१९.५८ ॥
कथं मम स्यात्तव दर्शनं प्रभो सर्वैश्च दोषैश्च सुसंगतायाः
दास्यास्पदायास्तव दासदास्याः प्रसीद देवेश जगन्निवास ॥ ३.१९.५९ ॥
एवं स्तुतस्तथा विष्णुः श्रीनिवासो दयानिधिः
प्रादुरासीद्वरदराट्भक्त्या तस्या जनार्दनः ॥ ३.१९.६० ॥
वरं वरय भद्रं ते वरदोहमिहागतः
हरिणोदीरितं वाक्यं श्रुत्वा प्राह स्मितानना ॥ ३.१९.६१ ॥
उवाच परया भक्त्या श्रीनिवासं जगत्प्रभुम्
अहं हि भार्या भूयासं तव माधव सुंदर ॥ ३.१९.६२ ॥
इति तस्या वचः श्रुत्वा श्रीनिवासोऽब्रवीद्वचः
श्रीभगवानुवाच
अहं कुमारि सुभगे कृष्णजन्मनि भूतले ॥ ३.१९.६३ ॥
भवामि तव भर्ताहं नात्र कार्या विचारणा
एवमुक्ता सुता कन्या पुरण्यराशिं हरिं परम् ॥ ३.१९.६४ ॥
उवाच परमप्रीता हर्षगद्गदया गिरा
कन्योवाच
कृष्णजन्मन्यहं पत्नी भूयासं प्रथमेहनि ॥ ३.१९.६५ ॥
संस्कारात्प्रथमं चाहमं गनाभ्यः समावृणे
ओमित्युक्तः पुनर्वाक्यमुवाच मधुसूदनः ॥ ३.१९.६६ ॥
श्रीभगवानुवाच
कुमार्या विधृतत्वाच्च मत्प्रदानाच्च भामिनि
तेषां मनोभीष्टसिद्धिर्भविष्यति न संशयः ॥ ३.१९.६७ ॥
इति तस्यै वरं दत्त्वा तत्रैवान्तरधीयत
देहं तत्रैव संत्यज्य कुमारी चैव पुत्रिका ॥ ३.१९.६८ ॥
कुम्भ कस्य गृहे जाता नीला नाम्ना तु सा स्मृता
कुंभकस्तु महाभाग नन्दशोभस्य शालकः ॥ ३.१९.६९ ॥
कल्पवाहः स विज्ञेयः पितॄणां प्रथमः स्मृतः
तस्य गत्वा गृहमहं वृषभाचलवासिनः
शिवस्य वरतश्चैव त्वजेयः खगसत्तम ॥ ३.१९.७० ॥
दितिजान्विनिहत्यैव नीला प्राप्ता खगेश्वर
ततो नाग्निजितो राज्ञो गृहे जाता कुमारिका ॥ ३.१९.७१ ॥
नाग्निजित्कव्यवाहोभूत्कन्या नीलाह्वयाभवत्
तस्याः स्वयंवरे चाहं गोवृषान्सप्तसंख्यकान् ॥ ३.१९.७२ ॥
शिवस्य वरतश्चैवाप्यवध्यान्देवमानुषैः
बद्ध्वा वृषान्नृपाञ्जित्वा प्राप्ता नीला महाखग ॥ ३.१९.७३ ॥
कुंभकस्य सुता नीला देहस्थाः प्राविशन् भृशम्
एकावयवतो यस्मात्तस्मात्तत्रैव साविशत् ॥ ३.१९.७४ ॥
भूमौ द्विधा संप्रजाता कुमार्येव न संशयः
भद्राजन्म प्रवक्ष्यामि शृणु पक्षीन्द्रसत्तम ॥ ३.१९.७५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे नीलाविवाहनिर्णयो नामैकोनविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २०
श्रीकृष्ण उवाच
या पूर्वसर्गे नलसंज्ञस्य वीन्द्र पुत्री भूत्वा विष्णुपत्नी सकामा
प्रदक्षिणं भ्रमणं वै चकार गुणेन भद्रा भद्रसंज्ञा बभूव ॥ ३.२०.१ ॥
कन्याभावे संस्थितां भद्रसंज्ञां पिता नलस्त्वब्रवीत्तां स पश्यन्
भद्रे किमर्थं गात्रपीडां करोषि फलं हि तन्नन्दिनि मे वदस्व ॥ ३.२०.२ ॥
भद्रोवाच
शृणुत्वं मे तात नमस्क्रियादेः फलं वक्तुं का समर्था भवेच्च ॥ ३.२०.३ ॥
तथाप्यहं तव वक्ष्यामि तात यथाशक्त्या शृणु सम्यग्घिताय
सदा हरिमर्म नाथो दयालुरहं हरेस्तव दासानुदासी
मां पाहि विष्णोस्तव वन्दे पदे इत्युक्त्वा प्रणामं चाकरोद्दण्डरूपम् ॥ ३.२०.४ ॥
हरेः प्रणामं त्विति कर्तव्यशून्यं व्यर्थं तमाहुर्ज्ञानिनस्तच्छृणु त्वम्
रमेश मध्वेश सरस्वतीशेत्येवं वदन्प्रणमेद्विष्णुदेवम् ॥ ३.२०.५ ॥
यथा प्रसन्नो वन्दनाद्देवद्देव स्तथा न तुष्टः पूजनात्कर्मतश्च
यथा नामस्मरणाद्वन्दनाद्वा पापान्नियच्छेतु तथा न चान्यैः ॥ ३.२०.६ ॥
देहं तु ये पोषयन्त्येव तात हरेः प्रणामैः शून्यभूतं च पुष्टम्
तदेवमाहुर्व्यर्थमेवेति तात तत्पोषकाणां नरके दुः खमाहुः ॥ ३.२०.७ ॥
यमोऽपि तं तत्र उलूखले तु निधाय पिष्टं सुखलैः करोति
यो वा परं न करोत्येव तात प्रदक्षिणं देवदेवस्य विष्णोः ॥ ३.२०.८ ॥
तस्यैव पादौ तलयन्त्रे निधाय यमश्च नित्यं प्रकरोति पिष्टम्
एषां जिह्वा हरिकृष्णेति नाम न वक्ति नित्यं व्यर्थभूतां वदन्ति ॥ ३.२०.९ ॥
तेषां जिह्वा यमलोके यमस्तु निष्कास्य पिष्टं प्रकरोति नित्यम्
काशीनिवासेन च किं प्रयोजनं किं वा प्रयागे मरणेन तात ॥ ३.२०.१० ॥
किं वारणाग्रे मरणेन सौख्यं किं वा मखादेः समनुष्ठितेन
समस्ततीर्थेष्वटनेन किं किमधीतशास्त्रेण सुतीक्ष्णबुद्ध्या ॥ ३.२०.११ ॥
येषां जिह्वाग्रे हरिनामैव नास्ति येषां गात्रैर्नमनं नापि विष्णोः
येषां पद्भ्यां नास्ति हरेः प्रदक्षिणं तेषां सर्वं व्यर्थमाहुर्महान्तः ॥ ३.२०.१२ ॥
हर्यर्पणाद्रिहितं नाम कस्मात्प्रदक्षिणं नमनं चाहुरर्घ्यम्
अतो विष्णोर्नमनं कार्यमेव हरेर्नामस्मरणं तात कार्यम् ॥ ३.२०.१३ ॥
जन्म ह्येतद्दुर्लभं नश्वरं तु यथा जलस्थं तत्तथैव
नो विस्वासं कुरु गात्रे त्वदीये जीवेष्वपि स्वः परश्चेति तात ॥ ३.२०.१४ ॥
सद्यः कृतं नमनं न त्वदीयं सद्यः कृतं स्मरणं न त्वदीयम्
कदा प्राप्स्ये मरणं तन्न जाने न विश्वासं कुरु गात्रे महात्मन् ॥ ३.२०.१५ ॥
एतच्छ्रुत्वा नलो वीन्द्र पुत्रीवाक्यं सुनिर्मलम्
नमस्कारं च कृतवान्यथाशक्त्या प्रदक्षिणम् ॥ ३.२०.१६ ॥
सापि प्रदक्षिणं चक्रे नमस्कारं सदा हरेः
एवं बहुदिनं कृत्वा ध्यात्वा नारायणं परम् ॥ ३.२०.१७ ॥
कलेवरं च तत्याज मरणे हरिचिन्तया
मत्पितुर्वसुदेवस्य भगिन्या उदरे खग ॥ ३.२०.१८ ॥
कैकेयीति च नाम्ना सा त्वभवद्भद्रसंज्ञका
यस्माद्भद्रगुणैर्युक्ता भद्रा सा भद्रनामिका ॥ ३.२०.१९ ॥
तस्यात्मजैश्च कैकेयैः पञ्चभिः खगसत्तम
प्रत्याहृतामिमां भद्रां प्राप्तवान् खगसत्तम ॥ ३.२०.२० ॥
वक्ष्येहं मित्रविन्दायाः पाणिग्रहणकारणम्
सावधानमना भूत्वा शृणु पक्षीन्द्र सत्तम ॥ ३.२०.२१ ॥
मित्रविन्दोवाच
यान्पूर्वसर्गेप्यवृणोन्निकामतो ह्यग्नीषोमान्नामिका मित्रविन्दा
मित्रं हरिं प्राप्तुकामा सदैक तत्रोपायं चिन्तयामासदेवी ॥ ३.२०.२२ ॥
हरिप्राप्तौ साधनाः संति तेषु मुख्यं कचिच्चिन्तयामास देवी
तेषां मध्ये श्रवणं श्रेष्ठमाहुः पुराणानां सात्त्विकानां सदापि ॥ ३.२०.२३ ॥
विष्णोरुत्कर्षो वर्तते यत्र वायोस्तथोत्कर्षः सज्जनानां पुराणे
श्राद्धं सदा विष्णुबुद्ध्या सदैव नान्यच्छ्राव्यं साधनं तत्र चैव ॥ ३.२०.२४ ॥
यस्मिन्दिने श्रवणं नास्ति विष्णोस्तेषां जन्म व्यर्थमाहुः कथायाम्
स्नान जपः पञ्चयज्ञं व्रतं च इष्टापूर्ते कृच्छ्रचान्द्रो च दत्तम् ॥ ३.२०.२५ ॥
सर्वं व्यर्थं वैष्णवानां च दीक्षा कथां विना सम्यगनुष्ठितां वै
यैर्न श्रुतं भागवतं पुराणं ससंप्रदायैर्गुरुभिः संयुतैश्च ॥ ३.२०.२६ ॥
यैर्न श्रुतं भागवतं पुराणं यैर्न श्रुतं ब्रह्मकाण्डं पुराणम्
तेषां जन्म व्यर्थमाहुर्ममहान्तस्तस्माच्छ्राव्या हरिवार्ता सदैव ॥ ३.२०.२७ ॥
न यत्र गोविन्दकथामहानदी न यत्र नारायणपादसंश्रयः
न यत्र विष्णोः सततं वचोस्ति न संवसेत्तत्क्षणमात्रं कथञ्चित् ॥ ३.२०.२८ ॥
यस्मिन् ग्रामे भागवतं न शास्त्रं न वर्तते भागवता रसज्ञाः
यस्मिन् गृहे नास्ति गीतार्थसारः यस्मिन् ग्रामे नाम सहस्रकं वा ॥ ३.२०.२९ ॥
तयो रसज्ञा यत्र न सन्ति तत्र न संवसेत्क्षणमात्रं कथञ्चित्
यस्मिन् दिने दिव्यकथा च विष्णोर्न वास्ति जन्तोस्तस्य चायुर्वृथैव ॥ ३.२०.३० ॥
गर्भे गते नात्र विचार्यमस्ति तन्मन्यते दुर्लभं मर्त्यलोके
कर्णं कल्पैर्भूषितं सुंदरं च न सुंदरं चाहुरार्या रसज्ञाः ॥ ३.२०.३१ ॥
विष्णोः कथाख्याभरणैश्च युक्तं तदेव कर्णं सुंदरं चाहुरार्याः
तस्मात्सदा भागवतार्थसारं शृण्वन्ति ये सततं वाचयन्ति ॥ ३.२०.३२ ॥
तेषां जन्म स्वस्थमाहुर्महान्तो महत्फलं चास्ति तथैव तेषाम्
सोष्णीषकञ्चुकयुताश्च हरेः कथां वै शृण्वन्ति येपि च पठन्ति सदैव मर्त्याः ॥ ३.२०.३३ ॥
सर्वेपि ते पूजनीया हि लोके न वै शिश्रे चोदरे चैव सक्ताः
ये दाक्षिण्यादर्थलोभाद्वदन्ति सदा पुराणं भगवत्तत्त्वसारम् ॥ ३.२०.३४ ॥
प्रच्छादयन्ते तत्त्वगोप्यानि ये तु तेषां गतिः सूर्यसूनुः सदैव
ये धर्मकाण्डे कर्मकाण्डे सदैव उत्पादयन्ते सुरुचिं तत्र नित्यम् ॥ ३.२०.३५ ॥
मौल्येन ये कथयेयुः पुराणं तेषां गतिः सूर्य सुनः सदैव
मौल्येन ये भागवतं पुराणं शृण्वन्ति वै हरिशास्त्रार्थतत्त्वम् ॥ ३.२०.३६ ॥
मौल्येन वेदाध्ययनं प्रकुर्वते तेषां गतिः सूर्यसूनुः सदैव
यदृच्छया प्राप्तधनेन ये तु संतुष्टास्ते ह्यत्र योग्याः सदैव ॥ ३.२०.३७ ॥
धनार्जने ये त्वतितृष्णाभियुक्तास्तेषां न वै भागवतेधिकारः
मत्वा लोके हरिरेवति नित्यमन्तर्यामी नास्ति तदन्य ईशः ॥ ३.२०.३८ ॥
एवं सदा ये प्रविचिन्तयन्ति योगक्षेमं बिभृयाद्विष्णुरेषाम्
सद्वैष्णवानामशुभं नास्ति नास्ति प्रदृश्यते संशयज्ञानरूपात् ॥ ३.२०.३९ ॥
कर्मानुसारेण हरिर्ददाति फलं शुभानामशुभस्य चैव
अतस्तदर्थं नैव यत्नं च कुर्याद्धनार्थं वै हरितत्त्वे च कुर्यात् ॥ ३.२०.४० ॥
अतः स्नात्वा दिव्यमन्त्रं जपित्वा विसर्जयित्वा विष्णुनिर्माल्यगन्धम्
शुचिर्भूत्वा भागवतं पुराणं संश्रावयेत्सर्ववेत्तापि नित्यम् ॥ ३.२०.४१ ॥
कर्मानुसारेण धनार्जनं च वेदार्जनं शास्त्रसमार्जनं च
भविष्यति श्रवणं चापि विष्णोरत्यादराच्छ्रवणं दुर्घटं च ॥ ३.२०.४२ ॥
अत्यादराद्भागवतस्य सारमास्वादयेद्दुर्घटं मर्त्यलोके
आस्वाद्य तद्भागवतं पुराणमानन्दबाष्पैर्युक्तता दुर्घटा च ॥ ३.२०.४३ ॥
श्रुत्वा तत्त्वा नां निर्णयं धारणं च सुदुर्घटं चाहुरार्याः समस्तम्
श्रुत्वा तत्त्वानां धारणानन्तरं च कामक्रुधोर्जारणं दुर्घटं च ॥ ३.२०.४४ ॥
श्रुत्वा तत्त्वानां धारणानं तरं त तथा योगे दुर्घटं संगतं च ॥ ३.२०.४५ ॥
श्रुत्वा तत्त्वानां धारणानन्तरं च कामक्रुधोर्जारणं दुर्घटं च
एते दोषा ज्ञानपूतानपीह कुर्वन्ति संदेहयुतान्सदैव ॥ ३.२०.४६ ॥
अतो ह्यहं श्रवणं सत्कथायाः सदा करिष्ये नात्र विचार्यमस्ति
तेनाप्यहं हरिनामाभिवाञ्छा निश्चित्य चित्तं श्रवणे वै चकार
आदेहमेवं श्रवणं च कृत्वा त्यक्त्वा देहं भूतले संप्रजाता ॥ ३.२०.४७ ॥
निवस्तुं वसुदेवस्य भगिन्या उदरे खग
सुमित्रा संज्ञकायां च जाता वै मित्रविन्दिका ॥ ३.२०.४८ ॥
श्रवणेन हरिं मित्रं प्राप्ता सा मित्रविन्दिका
अतः सा मित्रविन्देति संज्ञया संबभूव ह ॥ ३.२०.४९ ॥
स्वयंवरे मित्रविन्दा राज्ञां मध्ये तु भामिनी
ममांसे व्यसृजन्मालां तां गृहीत्वा खगेश्वर
विधूय नृपतीन्सर्वान्पुरीं प्राप्ताः खगेश्वर ॥ ३.२०.५० ॥ ॥ ५१ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भद्राकृतभगवत्पतित्वप्रापकतपश्चर्यादिनिरूपणं नाम विंशोध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २१
श्रीकृष्ण उवाच
कालिन्द्या अपि चोत्पत्तिं प्रवक्ष्यामि खगेश्वर
विवस्वान्नाम सूर्योभत्तस्य पुत्री व्यजायत ॥ ३.२१.१ ॥
कालिन्दीसंज्ञका वीन्द्र यमुना यानुजा स्मृता
कृष्णपत्नीत्वकामेन चचार तप उत्तमम् ॥ ३.२१.२ ॥
तप आलोचनं प्रोक्तं तत्त्वानां च विनिर्णयः
पूर्वार्जितानां पापानामनुतापस्तपः स्मृतम् ॥ ३.२१.३ ॥
प्रायो नाम तपः प्रोक्तं चित्तनिग्रह उच्यते
प्रायश्चित्तमिति प्रोक्तं न तु क्षौरं खगेश्वर ॥ ३.२१.४ ॥
अनुतापयुतं भूतं तच्छणु त्वं खगेश्वर
पूर्वं न जप्तं दिव्यमन्त्रं मुकुन्द तप्तं सदा क्लेशदावानलेन ॥ ३.२१.५ ॥
न वै स्मृतं हरिनामामृतं च सदा स्मृतं हरिदोषादिकं च
न तु स्मृतं हरितत्त्वामृतं च सम्यक्श्रुतं लोलवार्तादिकं च ॥ ३.२१.६ ॥
न पूजितं हरिपादारविन्दं सुपूजिताः पुत्रमित्रादिकाश्च
न वन्दितं हरिपादारविन्दं सुवन्दितो मित्रपादः सुघोरः ॥ ३.२१.७ ॥
न दृष्टं वै धूपधूम्रैरुपेतं हरेर्वक्रं कुन्तलैः संवृतं च
पुत्रादिकं लालितं वै मुकुन्द न लालितं तव वक्रं मुरारे ॥ ३.२१.८ ॥
सुलालितं भूषणैः पुत्रमित्रं न लालितं सर्वपापापहारि
न भुक्तं वै हरिनैरवेद्यशेषं मित्रालये षड्रसान्नं च भुक्तम् ॥ ३.२१.९ ॥
सुपुष्पगन्धा नार्पिता ते मुरारे समर्पिताः पुत्रमित्रादिकेभ्यः
सन्तप्तोहं पुत्रमित्रादिकेषु कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ॥ ३.२१.१० ॥
अवैष्णवान्नैः शिग्रुशाकादिकैश्च ह्यनर्पितान्नैश्च तथाप्यसंस्कृतैः
तथाप्यभक्ष्यै रसना च दग्धा कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ॥ ३.२१.११ ॥
अष्टाक्षरीपूजया दिव्यतीर्थैर्विष्णोः पुरा भ्रामितैः शङ्खतीर्थैः
न पावितं मच्छरीरं मुरारे कदा द्रक्ष्ये तव व क्त्रं मुकुन्द ॥ ३.२१.१२ ॥
अनर्पितैर्गन्धपुष्पादिकैश्च अनर्पितैर्भूषणैर्वस्त्रजातैः
अवैष्णवानां दिग्धगन्धादिदोषैर्गात्रं दग्धं कदा ह्युद्धरिष्ये मुकुन्द ॥ ३.२१.१३ ॥
दग्धौ च पादौ मम वासुदेव न गच्छन्तौ क्षेत्रपथं हरेश्च
नेत्रे च दग्धे मम सर्वदापि नालोकितं तव देव प्रतीकम् ॥ ३.२१.१४ ॥
दग्धौ च हस्तौ मम वासुदेव न पूजितं तव विष्णोः प्रतीकम्
मया कृतं पापजातं मुरारे कदा द्रक्ष्ये तव वक्रं मुकुन्द ॥ ३.२१.१५ ॥
मदीयदोषान्गणयन्न पूर्ण दयां कुरु त्वं सुद्धदास्यान्मुकुन्द
यावन्ति लोमानि मदीयगात्रे संति प्रभो सर्वदोर्षर्विदूर ॥ ३.२१.१६ ॥
तावन्ति पापानि मदीयगात्रे कदा द्रक्ष्ये तव वक्त्रं मुकुन्द
अनन्तदेहे पतिपुत्रैर्गृहैश्च मित्रैर्धनैः पशुभृत्यादिकैश्च ॥ ३.२१.१७ ॥
सुखं नाप्तं ह्यपुमात्रं मुकुन्द सेवा मुक्ता तव देवस्य विष्णोः
इतः परं पुत्रमित्रादिकं च यास्ये नाहं तव दासी भवामि ॥ ३.२१.१८ ॥
येये ब्रूयुः पुत्रमित्रादिकैश्च सम्यक्सुखं जायते मर्त्यलोके
तेषामास्ये मूत्रविष्ठादिकं च सम्यक्सदा पतितं चेति जाने ॥ ३.२१.१९ ॥
मित्रादीनां यत्कृतं द्रव्यजातं वृथा गतं मलरूपं च जातम्
सद्वैष्णवानां यत्कृतं द्रव्यजातं हरिप्राप्तेः कारणं स्यात्सदैव ॥ ३.२१.२० ॥
एतादृशं तत्तु जातं मुकुन्द अलं ह्यलं तेन दुःखं च भुक्तम्
संगं दत्तात्सज्जनानां सदा त्वं विना च त्वं दुर्जनानां च संगात् ॥ ३.२१.२१ ॥
संगैः सदा दुर्जनानां मुरारे गात्रं दग्धं न विरागेण युक्तम्
एतादृशाहं कां गातिं वा मुकुन्द यास्ये न जाने दयया मां च पाहि ॥ ३.२१.२२ ॥
एतादृशो ह्यनुतापः खगेन्द्र प्रायश्चित्तं न च क्षौरादिकं च
भानोः कन्या ह्यनुतापं च कृत्वा विचारयामास हरेः सुतत्त्वम् ॥ ३.२१.२३ ॥
सर्वोत्तमो हरिरेकः सदैव यतः पूर्णः सर्वगुणैस्ततश्च
सृष्टौ यस्माज्जयते विश्वजातमतो हरिः सर्वगुणैश्च पूर्णः ॥ ३.२१.२४ ॥
यो देवानामाद्य अकार एव यतो ब्रह्माद्या नैव पूर्णाः समस्ताः
लक्ष्मीप्रसादाच्चिरपुण्येन जातो यथायोग्यं पूर्णगुणो विरिञ्चः ॥ ३.२१.२५ ॥
न लक्ष्मीवद्गुणपूर्णो विरिञ्चो न विष्णुवद्गुणपूर्णा रमापि
न वायुवद्भारती चापि पूर्णा न शेषवद्वारुणी चापि पूर्णा ॥ ३.२१.२६ ॥
न वै रुद्रवत्पार्वती पूर्णरूपा ह्यन्येप्येवं नैव पूर्णाः सदैव
आलोचनामेवमेषा हि कृत्वा तपश्चक्रे यमुनायाश्च तीरे ॥ ३.२१.२७ ॥
तदाचाहं यमुनायाश्च तीरं पार्थेन साकं मृगयां गतः खग
दृष्ट्वा च तां तत्र तपश्चरन्तीं तदाब्रुवं मत्सखायं च पार्थम् ॥ ३.२१.२८ ॥
हे पार्थ शीघ्रं व्रज कन्यासमीपं त्वं पृच्छ कस्मादत्र तपः करोषि
एवं प्रोक्तस्तत्समीपं स गत्वा पृष्ट्वा चैतत्कारणं शीघ्रमेव ॥ ३.२१.२९ ॥
आगत्य मामवदत्फाल्गुनोयं सर्वं वृत्तांन्तं त्वसौ मत्समीपे
ततस्त्वहं सुमुहूर्ते च तस्याः पाणिग्रहं कृतवांस्तत्र सम्यक् ॥ ३.२१.३० ॥
तस्याश्च तापात्संततं मद्विचारात्प्रसन्नोहं सततं सुप्रसन्नः
पूर्णानन्दे रममाणास्य नित्यं तया च मे किं सुखंस्यात्खगेन्द्र ॥ ३.२१.३१ ॥
मया विवाहोनुग्रहार्थं हि तस्या अङ्गीकृतो न तु सौख्याय वीन्द्र
तथा वक्ष्ये लक्ष्मणायाश्च रूपं पाणिग्राहे कारणं चापि वीन्द्रा ॥ ३.२१.३२ ॥
शृणुष्व तत्तव वक्ष्यामि गोप्यं सच्छिष्यके नास्ति गोप्यं गुरोश्च ॥ ३.२१.३३ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भगवतः कालिन्द्या विवाहे हेतुनिरूपणं नामैकविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २२
श्रीकृष्ण उवाच
या लक्ष्मणा पूर्वसर्गे खगेन्द्र पुत्री ह्यभूद्वह्निवेदस्य वेत्तुः
सुलक्षणैः संयुतत्वाद्यतः सा सुलक्ष्मणेति प्रथिता खगेन्द्र ॥ ३.२२.१ ॥
यथा लक्ष्मीर्लक्षणैः सा सुपूर्णा यथा हरिर्लक्षणैर्वै सुपूर्णः
यथा वायुर्लक्षणैः पूर्ण एव यथा गायत्री लक्षणैः सा सुपूर्णा ॥ ३.२२.२ ॥
यथा रुद्राद्या लक्षणैर्वै प्रपूर्णा रुद्रादिल्लक्ष्मणा चैव पूर्णा
गुणेनैवं धर्मतः किञ्चिदेव तथानुसंधानाद्व्रियते नाम चापि ॥ ३.२२.३ ॥
तस्मा दाहुर्लक्ष्मणेत्येव सर्वे तल्लक्षणं शृणु चादौ खगेन्द्र
नारायणे पूर्णगुणे रमेशे द्वात्रिंशत्संख्यानि सुलक्षणानि ॥ ३.२२.४ ॥
संत्येव पक्षीन्द्र वदाम्यनु क्रमान्मत्तः श्रुत्वा मोक्षमाप्नोति नित्यम्
यः सप्तपादः षण्णवत्यङ्गुलोङ्गश्चतुर्हस्तः पुरुषस्तीक्ष्णदन्तः ॥ ३.२२.५ ॥
य एतत्सर्वं मिलितं चैकमेव हरेर्विष्णोर्लक्षणं चाहुरार्याः
मुखं स्त्रिग्धं वर्तुलं पुष्टिरूपं द्वितीयं तल्लक्षणं चाहुरार्याः ॥ ३.२२.६ ॥
हनुर्यस्यानुन्नतं चास्ति वीन्द्र तल्लक्षणं प्राहुरार्यास्तृतीयम्
यद्दन्ता वै तीक्ष्णसूक्ष्माश्च संति तल्लक्षणं चाहुरार्याश्चतुर्थम् ॥ ३.२२.७ ॥
यस्याधरे रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं पञ्चमं चाहुरार्याः
यस्य हस्ता अतिरक्ताः खगेन्द्र तल्लक्षणं प्राहुरार्याश्च पष्ठम् ॥ ३.२२.८ ॥
यस्मिन्नखाः संति रक्ताः सुशोभास्तल्लक्षणं सप्तमं चाहुरार्याः
यस्मिन्कपोले रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं ह्यष्टमं प्राहुरार्या ॥ ३.२२.९ ॥
यस्मिन्करे शङ्खचक्रादिरेखा वर्तन्ते तन्नवमं प्राहुरार्याः
यस्यो दरं तन्तुरूपं सुपुष्टं वलित्रयैरङ्कितं सुंदरं च ॥ ३.२२.१० ॥
तल्लक्षणं दशमं प्राहुरार्या एकादशं निम्ननाभिं तदाहुः
ऊरुद्वयं यस्य च मांसलं वै तल्लक्षणं द्वादशं प्राहुरार्याः ॥ ३.२२.११ ॥
कटिर्हि दीर्घा पृथुलास्ति यस्य त्रयोदशं लक्ष्म तदाहुरार्याः
यस्यास्ति मुष्को सुपरिष्ठितो वै चतुर्दशं लक्ष्म तदाहुरार्याः ॥ ३.२२.१२ ॥
समुन्नतं शिश्रमथो हि लक्ष्म यस्यास्ति तत्पञ्चदशं वदन्ति
सुताम्रकं पादतलं खगेन्द्र तल्लक्षणं षोडशं प्राहुरार्याः ॥ ३.२२.१३ ॥
निम्नौ च गुल्फौ सप्तदशं तदाहुर्ग्री वारूपं प्राहुरष्टादशं च
एकोनविंशं त्वक्षिपद्मं सुरक्तं प्राहुर्बाहुं जानु विंशं तथैव ॥ ३.२२.१४ ॥
विस्तीर्णोरश्चैकविंशं तदाहुः सिंहास्कन्धं द्व्युत्तरं विंशमाहुः
त्रयोविंशं सूक्ष्ममास्यं तदाहुश्चतुर्विशं सुप्रसन्ने च दृष्टी ॥ ३.२२.१५ ॥
ह्रस्वं लिङ्गं मार्दवं चापि वीन्द्र तल्लक्षणं पञ्चविंशं वदन्ति
समौ च पादौ कटिजानु चोरू षड्विंशमाहुश्च समे च जङ्घे ॥ ३.२२.१६ ॥
समानहस्तौ समकर्णौ मिलित्वा द्वात्रिंशत्कं लक्षणं प्राहुरार्याः
द्वात्रिंशत्कं लक्षणं वै मुकुन्दे द्वात्रिंशत्कं लक्षणं वै रमायाम् ॥ ३.२२.१७ ॥
द्वात्रिंशत्कं लक्षणं ब्रह्मणोपि तद्भारत्याः प्रवदन्त्येव सत्यम्
तथा च शङ्का सममेव चक्रिणेत्येवं सदामा कुरु निर्णयं ब्रुवे ॥ ३.२२.१८ ॥
एकस्य वै लक्षणस्यापि विष्णोर्लक्ष्मीरन्तं नैव सम्यक्प्रपेदे
अतोनन्तैर्लक्षणैः संयुतं च हरिं चाहुर्लक्षणज्ञाः सदैव ॥ ३.२२.१९ ॥
जानाति लक्ष्मीर्लक्षणं वायुरूपे स्वापेक्षया ह्यतिरिक्तं खगेन्द्र
स्वलक्षणापेक्षया भारती तु शतैर्गुणैरधिका वेधसोपि ॥ ३.२२.२० ॥
खगेन्द्र तस्माल्लक्षणे साम्यचित्तं विश्वादीनां सर्वदा मा कुरुष्व
अष्टाविंशतिं प्राहू रुद्रादिकानां भ्रूनेत्रयोर्लक्षणेनैव हीनाः ॥ ३.२२.२१ ॥
अलक्षणं मन्यते यद्धि तस्य दुर्लक्षणं नैव तच्चिन्तनीयम्
अष्टाविंशतिं लक्षणं वै हरस्य न भारतीवच्चिन्तनीयं खगेन्द्र ॥ ३.२२.२२ ॥
अतो हरः क्रोधरूपी सदैव तयोरभावात्सत्यमुक्तं तथैतत्
अतो द्वयं नास्ति रुद्रे खगेन्द्र शिश्रोदरे किञ्चिदाधिक्यमस्ति ॥ ३.२२.२३ ॥
सप्ताधिकैर्विशतिलक्षणैस्तु समायुताः स्वस्त्रियो लक्ष्मणाद्याः
षड्वविंशत्या लक्षणैश्चापि युक्ता वारुण्याद्या पञ्चविंशैश्च चन्द्रः ॥ ३.२२.२४ ॥
अर्थश्चतुर्विंशतिभिश्चैव युक्तो नासावायोर्द्व्यधिका विंशतिश्च लक्षणैश्चैकविंशत्या शची युक्ता न संशयः ॥ ३.२२.२५ ॥
प्रवाहा विंशकैर्युक्ता यम एकोनविंशकैः
पाश्यष्टादशभिर्युक्तो दशसप्तयुतोऽनलः ॥ ३.२२.२६ ॥
वैवस्वतः षोडशभिमित्रः पञ्चदशैर्युतः
चत्रुर्विंशैस्तु धनपः पावकस्तु त्रयोदशैः ॥ ३.२२.२७ ॥
गङ्गा द्वादशभिर्युक्ता बुध एकादशैर्युतः
शनिस्तु दशसंख्याकैः पुष्करो नवभिर्युतः ॥ ३.२२.२८ ॥
अथ षोडशसाहस्रं भार्यारतु मम वल्लभाः
अष्टभिश्चैव संयुक्ताः सप्तभिः पितरस्तथा ॥ ३.२२.२९ ॥
षड्भिश्च देवगन्धर्वाः पञ्चभिस्तदनन्तराः
चतुर्भैः क्षितिपाः प्रोक्तास्त्रिभिरन्ये च संयुताः ॥ ३.२२.३० ॥
उदरे किञ्चिदाधिक्ये ह्रस्वे पादे च कर्णयोः
शिखाधिक्यं विना विप्र भार्यायां च शिवस्य च ॥ ३.२२.३१ ॥
लक्ष्मणायां पञ्च दोषाः शिरोगुल्फादिकं विना
नाभ्याधिक्ये सहैवाष्टौ दोषाः संत्यतिवाहिके ॥ ३.२२.३२ ॥
जङ्घाधिक्ये सहैवाष्टौ दोषाः शच्याः सदा स्मृताः
एवमेव हि दोषाश्चाप्यूहनीयाः खगेश्वर ॥ ३.२२.३३ ॥
दुर्लक्षणैः सदा वीन्द्र संश्रुतैस्तत्त्वविद्भवेत्
महोदरो लंबनाभिरीषामात्रोग्रदंष्ट्रकः ॥ ३.२२.३४ ॥
अन्धकूपगभीराक्षो लंबकर्णौष्ठनासिकः
लंबगुल्फो वक्रपादः कुनखी श्यावदन्तकः ॥ ३.२२.३५ ॥
दीर्घजङ्घो दीर्घशिश्रस्त्वेकाण्डश्चैकनासिकः
रक्तश्मश्रू रक्तरोमा वक्रास्यः संप्रकीर्तितः ॥ ३.२२.३६ ॥
दग्धपर्व तसंकाशो रक्तपृष्ठः कलिः स्मृतः
अलोमांसोऽलोमशिरा रक्तगण्डकपोलकः ॥ ३.२२.३७ ॥
ललाटे पाण्डुता नित्यं वामस्कन्धे करे खग
क्रूरदृष्टिर्दृष्टिपादस्तथा वै घर्घरस्वरः ॥ ३.२२.३८ ॥
अत्याशी चातिपानश्च स्तनौ शुष्कफलोपमौ
ऊरौ नवाञ्जिकारोमः तथा पृष्ठे च मस्तके ॥ ३.२२.३९ ॥
ललाटे त्रीणि दीर्घे तु समे द्वौ संप्रकीर्तितौ
सर्पाकारस्तु यो मत्स्यस्तस्य शिश्रे प्रकीर्तितः ॥ ३.२२.४० ॥
पादत्राणोपमो मत्स्यो रसनाग्रे प्रकीर्तितः
शिश्राकारश्च यो मत्स्यो गुदे तस्य प्रशस्यते ॥ ३.२२.४१ ॥
वृश्चिकाकारमत्स्यस्तु पदोस्तस्य प्रशस्यते
श्वाकारश्चापि मत्स्यो वै मुखे तस्य प्रकीर्तितः ॥ ३.२२.४२ ॥
हस्ते तु बहुरेखाः स्युर्लोम नासापुटे स्मृतम्
अतिदीर्घं तु चाङ्गुष्ठं कनिष्ठं चातिदीर्घकम् ॥ ३.२२.४३ ॥
दुर्लक्षणं त्वे वमादि कलावस्ति ह्यनेकशः
सुलक्षणान्यनेकानि मयि संति खगेश्वर ॥ ३.२२.४४ ॥
द्वात्रिंशल्लक्षणं विष्णोर्ब्रह्माद्यापेक्षयैव तत्
सहाभिप्राय गर्भेण ब्रह्मणोक्तं तव प्रभो ॥ ३.२२.४५ ॥
ब्रह्मोक्तस्य मयोक्तस्य विरोधो नास्ति सत्तम
मयोक्तस्यैव स व्यासः कंबुग्रीवः प्रदर्श्यते ॥ ३.२२.४६ ॥
रक्ताधरं रक्त तालु चैकीकृत्य मयोदितम्
अतो विरोधो नास्त्येव तथा ज्ञानात्प्रतीयते ॥ ३.२२.४७ ॥
सप्ताधिकैर्विंशतिलक्षणैस्तु समायुता याः स्त्रियो लक्ष्मणाद्याः ॥ ३.२२.४८ ॥
भगे नेत्रे च हस्ते च स्तने कुक्षौ तथैव च
भारत्यपेक्षया पञ्चभिर्न्यूना त्वस्ति लक्षणैः ॥ ३.२२.४९ ॥
न रुद्रवन्न चान्यानि लक्षणानि खगेश्वर
षड्विंशत्या लक्षणैश्चापि युक्ता वारुण्याः षड्लक्षणैश्चैव हीना ॥ ३.२२.५० ॥
कर्णे कुक्षौ नासिकाकेशपाशे गुल्फे भगे किञ्चिदाधिक्यमस्ति
इन्द्रो युक्तः पञ्चविंशत्या खगेन्द्र सदा हीनो लक्षणैः सप्तसंख्यैः ॥ ३.२२.५१ ॥
हस्ते पादे उदरे कर्णयोश्च शिश्रे गुल्फे त्वधरोष्ठेधिकं च
चतुर्विंशत्या लक्षणैश्चापि युक्तो नास्तिक्यवायुस्तद्वदेवाष्टभिश्च ॥ ३.२२.५२ ॥
नाभ्यां गुल्फे हनुरर्ङ्घ्योश्च स्कन्धे द्विजे नेत्रे त्वधरोष्ठेधिकं च
त्रयोविंशत्या लक्षणैश्चापि युक्ता शची तथा नवदोषैश्च युक्ता ॥ ३.२२.५३ ॥
भगे केशे ह्यधरोष्ठे च कर्णे जङ्घे गण्डे वक्षसि गुल्फयोश्च
तथोत्तरोष्ठे किञ्चिदाधिक्यमस्ति एवं विजानीहि खगेन्द्रसत्तम ॥ ३.२२.५४ ॥
द्वाविंशत्या लक्षणैः संयुतस्तु दशभिर्देषैः प्रवहो नाम वायुः
तथाङ्गुष्ठे किञ्चिदाधिक्यमस्ति विंशत्येकादशभिर्देषतोर्कः ॥ ३.२२.५५ ॥
तद्विंशत्या लक्षणैः संयुतस्तु तदा दोषेर्द्वादशभिश्च युक्तः
एकोनविंशत्या लक्षणैश्चापि युक्तस्त्रयोदशभिस्तदभावैर्युतोग्निः ॥ ३.२२.५६ ॥
अष्टादशभिर्लक्षणैः संयुतस्तु वैवस्वतस्तदभावैश्चतुर्दशभिः
मित्रस्तु सप्तदशभिर्लक्षणैः संयुतः खग ॥ ३.२२.५७ ॥
सदोषैः पञ्चदशभिः संयुक्तो नात्र संशयः
तैश्च षोडशभिर्युक्तो धनपो नात्र संशयः ॥ ३.२२.५८ ॥
तदभावैः षोडशभिः संयुक्तः संप्रकीर्तितः
तैः पञ्चदशभिश्चैव युक्तोग्रेज्यष्ठपुत्रकः ॥ ३.२२.५९ ॥
तैः सप्तदशभिर्देषैः संयुक्तो नात्र संशयः
तैश्चतुर्दशभिश्चैव गङ्गा संपरिकीर्तिता ॥ ३.२२.६० ॥
तथाष्टादशभिर्देषैः संयुता नात्र संशयः
तैस्त्रयोदशभिश्चैव संयुतो बुध एव तु ॥ ३.२२.६१ ॥
दोषैरेकोनविंशत्या संयुतो नात्र संशयः
शनिर्विंशतिदोषेण युतो द्वादशलक्षणैः ॥ ३.२२.६२ ॥
लक्षणैश्चैकादशभिः पुष्करः परिकीर्तितः
एकविंशतिसंख्याकैरसद्भावैः प्रकीर्तितः ॥ ३.२२.६३ ॥
दशभिर्लक्षणैर्युक्ताः पितरो ये चिराः खग
त्रयोविंशतिदोषैश्च संयुता नात्र संशयः ॥ ३.२२.६४ ॥
अष्टभिर्लक्षणैर्युक्ता देवगन्धर्वसत्तमाः
दोषैश्चतुर्विंशतिभिः संयुक्ताः परिकीर्तिताः ॥ ३.२२.६५ ॥
सप्तलक्षणसंयुक्ता गन्धर्वा मानुषातमकाः
यैस्तु पञ्चविंशतिभिर्देषैः संयुक्ताः प्रकीर्तिताः ॥ ३.२२.६६ ॥
षद्गुणैः क्षितिपा युक्ता षड्विंशत्या च दोषतः
तदन्ये पञ्चभिर्युक्ताश्चतुर्भिः केचिदेव च ॥ ३.२२.६७ ॥
त्रिभिः केच्चित्ततो हीना न संति खगसत्तम
यस्मिन्नरे क्षितिपे वा खगेन्द्र आधिक्यं यद्दृश्यते लक्षणस्य ॥ ३.२२.६८ ॥
न ते नरा नैव ते वै क्षितीशाः सर्वे नैव ह्युत्तमाः सर्वदैव
ये देवा ये च दैत्याश्च सर्वेप्येवं खगाधिप ॥ ३.२२.६९ ॥
लक्षणालक्षणैश्चैव क्रमेणोक्ता न संशयः
लक्षणैः सप्तविंशत्यालक्षणैः संयुताः खग ॥ ३.२२.७० ॥
अतः सलक्षणा ज्ञेया द्वात्रिंशल्लक्षणैर्न हि
पितुर्गृहे वर्धमाना सदापि स्वकुटुंबं श्रेष्ठयितुं खगेन्द्र ॥ ३.२२.७१ ॥
उवाच सा पितरं दीयमानमन्नादिकं त्रमित्रादिकेषु
सदापि ये त्वनुसंधानेन युक्ता अन्तर्गते तत्रतत्र स्थिते च ॥ ३.२२.७२ ॥
अज्ञातत्वे चान्नपानादिकं च दत्तं संतो व्यर्थमेवं वदन्ति
हरिं वक्ष्ये तत्रतत्र स्थितं चं तं वै शृणु त्वादरेणाद्य नित्यम् ॥ ३.२२.७३ ॥
बालो हरिर्बालरूपेण कृष्णः क्षीरादिकं नवनीतं घृतं च
गृह्णाति नित्यं भूषणं वस्त्रजातमेवं दद्यात्सर्वदा विष्णुतुष्ट्यै ॥ ३.२२.७४ ॥
मित्रैर्हरिः केशवाख्यो मुकुन्दो भुङ्क्ते दत्तं त्वन्नप्रानादिकं च
पूर्वं दद्यात्सर्वदा वै गृहस्थो धन्यो भवेदन्यथा व्यर्थमेव ॥ ३.२२.७५ ॥
गृह्णाति नित्यं माधवाख्यो हरिश्चेत्येवं ज्ञात्वा देयमन्नादिकं च
एवं ज्ञात्वा दीयमानेन नित्यं प्रीणाति विष्णुर्नान्यथा व्यर्थमेव ॥ ३.२२.७६ ॥
गृहे नित्यं वासुदेवो हरिस्तु प्रीणाति नित्यं तत्र तिष्ठन्सुपर्ण
एवं ज्ञात्वा स्वगृहं सर्वदैव अलङ्कुर्याद्धातुरूपैः सदैव ॥ ३.२२.७७ ॥
गोविन्दाख्यस्तिष्ठति वष्णवानां पुत्रैर्युतस्तिष्ठति वासुदेवः
मित्रे मुकुन्दः शालके चानिरूद्धो नारायणो द्विजवर्ये सदास्ति ॥ ३.२२.७८ ॥
गोष्ठे च नित्यं विष्णुरूपी हरिस्तु अश्वे सदा तिष्ठति वामनाख्यः
संकर्षणः शूद्रवर्णे सदास्ति वैश्ये प्रद्युम्नस्तिष्ठति सर्वदैव ॥ ३.२२.७९ ॥
जनार्दनः क्षत्त्रजातौ सदास्ति दाशेषु नित्यं महिदासो हरिस्तु
मह्यां नित्यं तिष्ठति सर्वदैव ह्युपेन्द्राख्यो हरिरेकः सुपर्ण ॥ ३.२२.८० ॥
गजे सदा तिष्ठति चक्रपाणिः सदान्तरे तिष्ठति विश्वरूपः
नित्यं शुनि तिष्ठति भूतभावनः पिपीलकायामपि सर्वदैव ॥ ३.२२.८१ ॥
त्रिविक्रमो हरिरूप्यन्तरिक्षे सर्वजातावनन्तरूपी हरिश्च
हरेर्न वर्णोस्ति न गोत्रमस्ति न जातिरीशे सर्वरूपे विचित्रे ॥ ३.२२.८२ ॥
एवं ज्ञात्वा सर्वदा लक्ष्मणा तु हरिं सदा प्रीणयामास देवी
सपर्यया वै क्रियमाणया हरिः पतिर्ममस्य दिति चिन्तयाना ॥ ३.२२.८३ ॥
तत्याज देहं विष्णुपतित्वकामा मद्रेषु वै वीन्द्र पुत्री प्रजाता
स्वयंवरे लक्ष्मणाया अहं च भित्त्वा लक्ष्यं भूपतीन्द्रावयित्वा ॥ ३.२२.८४ ॥
पाणिग्रहं लक्ष्मणायाश्च कृत्वा गत्वा पुरीं रमयामास देवी
तथैवाहं जांबवत्या विवाहं मत्पत्नीत्वे कारणं त्वां ब्रवीमि ॥ ३.२२.८५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे लक्ष्मणाविवाहहेतुनिरूपणं नाम द्वाविंशोध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २३
श्रीकृष्ण उवाच
सोमस्य पुत्री पूर्वसर्गे बभूव भार्या मदीया जाम्बवती मम प्रिया
तासां मध्ये ह्यधिका वीन्द्र किञ्चिद्रुद्रादिभ्यः पञ्चगुणैर्विहीना ॥ ३.२३.१ ॥
यदावेशो बलवान्स्याद्रमायां तदानामस प्रियते केशवोलम्
यदावेशाद्ध्रासमुपैति काले तदा तासां साम्यमाहुर्महान्तः ॥ ३.२३.२ ॥
लक्ष्म्यावेशः किञ्चिदस्त्येव नित्यमतस्ताभ्यः किञ्चिदाधिक्यमस्ति ॥ ३.२३.३ ॥
गरुड उवाच
तासां मध्ये जाम्बवन्ती तु कृष्ण आराधनं कीदृशं सा चकार
तन्मे ब्रूहि कृपया विश्वमूर्ते आधिक्ये वै कारणं ताभ्य एव ॥ ३.२३.४ ॥
गरुडेनैवमुक्तस्तु भगवान् देवकीसुतः
मेघगंभीरया वाचा उवाच विनतासुतम् ॥ ३.२३.५ ॥
श्रीकृष्ण उवाच
या पूर्वसर्गे सोमपुत्री बभूव पितुर्गृहे वर्तमानापि साध्वी
जन्म स्वकीयं सार्थकं वै चकार पित्रा साकं विष्णुशुश्रूषणे न च ॥ ३.२३.६ ॥
शुश्राव नित्यं सत्पुराणानि चैवं चक्रे सदा विष्णुपादप्रणामम्
चक्रे सदा तारकस्यापि विष्णोः प्रदक्षिणं स्मरणं कुर्वती सा ॥ ३.२३.७ ॥
पित्रा साकं सा तु कन्या खगेन्द्र वैराग्ययुक्ता श्रवणात्संबभूव
केशं च मित्रं द्विरदादिकं च अनर्घ्यरत्नानि गृहादिकं च ॥ ३.२३.८ ॥
सर्वं ह्येतन्नश्वरं चैव मेने ममाधीनं हरिणा वै कृतं च
येनैव दत्तं पुत्रमित्रादिकं च तेना हृतं वेदनां नैव चक्रे ॥ ३.२३.९ ॥
अद्यैव विष्णुः परमो दयालुः दयां मयि कृतवांस्ते न सुष्ठु
पित्रा साकं कन्यका सा तु वीन्द्र सदात्मनि ह्यमले वासुदेवे ॥ ३.२३.१० ॥
एकान्तत्वं सुष्ठु भक्त्या गता सा यदृच्छया सोपपन्नेन देवी
अकल्पयन्त्यात्मनो वीन्द्र वृत्तिं चकार यत्सावधिराधं प्रथैव ॥ ३.२३.११ ॥
सा वै वित्तं विष्णुपादारविन्दे दुः खार्णवात्तराके संचकार
वागीन्द्रिद्रियं खग सम्यक्चकार हरेर्गुणानां वर्णने वा सदैव ॥ ३.२३.१२ ॥
हस्तौ च विष्णोर्गृहसंमार्जनादौ चकार देवी गात्रमलापहारम्
श्रोत्रं च चक्रे हरिसत्कथोदये मोक्षादिमार्गे ह्यमृतोपमे च ॥ ३.२३.१३ ॥
नेत्रं च चक्रे प्रतिमादिदर्शने अनादिकालीनमलापहरिणी
सद्वैष्णवानां स्पर्शने चैव संगे निर्माल्यगन्धानुविलेपने त्वक् ॥ ३.२३.१४ ॥
घ्रार्णेद्रियं सा हरिपादसारे चकार संसारविमुक्तिदे च
जिह्वेन्द्रियं हरिनैवेद्यशेषे श्रीमत्तुलस्यादिविमिश्रिते च ॥ ३.२३.१५ ॥
पादौ हरेः क्षेत्रपथानुसर्पणे शिरो हृषीकेशपदाभिवन्दने
कामं हृदास्ये तु हरिदास्यकाम्या तथोत्तमश्लोकजनाश्चरन्ति ॥ ३.२३.१६ ॥
निष्कामरूपे च मतिं चकार वागिन्द्रियं स्तवनं स्वीचकार
एवं सदा कार्यसमूहमात्मना समर्पयित्वा परमेशपादयोः ॥ ३.२३.१७ ॥
तीर्थाटनार्थं तु जगाम पित्रा साकं हरेः प्रीणनाद्यर्थमेव
आराधयित्वा ब्राह्मणान्विष्णुभक्तानादौ गृहे वस्त्रसंभूषणाद्यैः ॥ ३.२३.१८ ॥
पश्चात्कल्पं कारयामास देवी विष्णोरग्रे तीर्थयात्रार्थमेव
यावत्कालं तीर्थयात्रा मुकुन्द तावत्कालं तूर्ध्वरेता भवामि ॥ ३.२३.१९ ॥
यावत्कालं तीर्थयात्रां करिष्ये तावद्दत्ताद्वैष्णवानां च संगम्
हरेः कथाश्रवणं स्यान्मुकुन्द नावैष्णवानां संगिनामङ्गसंगम् ॥ ३.२३.२० ॥
सुहृज्जनैः पुत्रमित्रादिकैश्च दीर्थाटनं नैव कुर्यां मुकुन्द
कुर्वन्ति ये काम्यया तीर्थयात्रां तेषां संगं कुरु दूरे मुकुन्द ॥ ३.२३.२१ ॥
शालग्रामं ये विहायैव यात्रां कुर्वन्ति तेषां किं फलं प्राहुरार्याः
यदा तीर्थानां दर्शनं स्यात्तदैव शालग्रामं पुरतः स्थापयित्वा ॥ ३.२३.२२ ॥
तीर्थाटनं पादचैरैः कृतं चेत्पूर्णं फलं प्राहुरार्याः खगेन्द्र
पादत्राणं पादरक्षां च कृत्वा तीर्थाटनं पादहीनं तदाहुः ॥ ३.२३.२३ ॥
यो वाहने तुरगे चोपविष्टस्तीर्थाटनं कुरुते चार्धहीनम्
वृषादीनां वाहने पादमाहुः परान्नानां भोजने व्यर्थमाहुः ॥ ३.२३.२४ ॥
महात्मनां वेदविदां यतीनां परान्नानां भोजने नैव दोषः
संकल्पयित्वा परमादरेण जगाम सा तीर्थयात्रार्थमेव ॥ ३.२३.२५ ॥
आदौ स्नात्वा हरिनिर्मात्यगन्धं विसर्जयित्वा श्रवणं वै चकार
पित्रा साकं भोजनं चापि कृत्वा अग्रे दिने क्रोशमेकं जगाम ॥ ३.२३.२६ ॥
तत्र द्विजान्पूजयित्वान्नपान रात्रौ तत्त्वं श्रावयामास देवी
एवं यात्रां ये प्रकुर्वन्ति नित्यं तेषां यात्रां सफलां प्राहुरार्याः ॥ ३.२३.२७ ॥
विना दयां तीर्थयात्रा खगेन्द्रव्यर्थेत्येवं वीन्द्र चाहुर्महान्तः
दिवा रात्रौ ये न शृण्वन्ति दिव्यां हरेः कथां तीर्थमार्गे खगेन्द्र ॥ ३.२३.२८ ॥
व्यर्थंव्यर्थं तस्य चाहुर्गतं वै अश्वादीनां वाहनानां च विद्धि
अश्वादीनामपराधं वदस्व गङ्गादीनां दर्शनात्पापनाशः ॥ ३.२३.२९ ॥
क्षेत्रस्थविष्णोर्दर्शनात्पापनाशो मार्जारस्याप्यपराधं वदस्व
क्षेत्रस्थविष्णोः पूजनात्पापनाशः पूजावतामपराधं वदस्व ॥ ३.२३.३० ॥
जपादीनां कुर्वतां पापनाशो विष्णोर्ध्यानात्सद्य एवाधनाशः
अनुसंधानाद्रहितं सर्वमेव कृतं व्यर्थमेवेति चाहुः ॥ ३.२३.३१ ॥
अतो हरेः पापविनाशिनीं कथां श्रुत्वा विष्णोर्भक्तिमान्स्यात्वगन्द्र
दृष्ट्वादृष्ट्वा हरिपादाङ्कितं च स्मृत्वास्मृत्वा भक्तिमान्स्यात्खगेन्द्र ॥ ३.२३.३२ ॥
पित्रा साकं कन्यका सापि वीन्द्र शेषाचलस्थं श्रीनिवासं च द्रष्टुम्
जगाम सा मार्गमध्ये हरिं च सा चिन्तयामास रमापतिं च ॥ ३.२३.३३ ॥
कदा द्रक्ष्ये श्रीनिवासस्य वक्षः श्रीवत्सरत्नैर्भूषितं विस्तृतं च
कदा द्रक्ष्ये श्रीनिवासस्य तुन्दं वलित्रयेणाङ्कितं सुंदरं च ॥ ३.२३.३४ ॥
कदा द्रक्ष्ये श्रीनिवासस्य कण्ठं महर्लोकस्याश्रयं कंबुतुल्यम्
कदा द्रक्ष्ये श्रीनिवासस्य नाभिं सदान्तरिक्षस्याश्रयं वै सुपूर्णम् ॥ ३.२३.३५ ॥
कदा द्रक्ष्ये वदनं वै मुरारेर्जनलोकस्याश्रयं सर्वदैव ॥ ३.२३.३६ ॥
शिरः कदा श्रीनिवासस्य द्रक्ष्ये सत्यस्य लोकस्याश्रयं सर्वदैव
कटिं कदा श्रीनिवासस्य द्रक्ष्ये भूर्लोकस्याश्रयं सर्वदैव ॥ ३.२३.३७ ॥
कदा द्रक्ष्ये श्रीनिवासस्य चोरु तलातलस्याश्रयं सर्वदैव
कदा द्रक्ष्ये श्रीनिवासस्य जानु सुकोमलं सुतलस्याश्रयं च ॥ ३.२३.३८ ॥
कदा द्रक्ष्ये श्रीनिवासस्य जङ्घे रसातलस्याश्रयेः सर्वदैव
कदा द्रक्ष्ये पादतलं हरेश्च पाताललोकस्याश्रयं सर्वदैव ॥ ३.२३.३९ ॥
इत्थं मार्गे चिन्तयन्ती च देवी शेषाचले शेषदेवं ददर्श
फणैः सहस्रैः सुविराजमानं नानाद्रुमैर्वानरैर्वानरीभिः ॥ ३.२३.४० ॥
अनन्त जन्मार्जितपुण्यसंचयान्मयाद्य दृष्टः परमाचलो हि
तद्दर्शनाद्वाष्पकलाकुलेक्षणा सद्यः समुत्थाय ननाम मूर्ध्ना ॥ ३.२३.४१ ॥
मुखं च दृष्ट्वा नमनं च कार्यं पृष्ठादिभागे नमनं न कार्यम्
सापि द्विषट्कं नमनं च चक्रे शालग्रामं स्थापयित्वा पुरोऽस्य ॥ ३.२३.४२ ॥
इत्थं कार्यं वैष्णवैः पर्वतस्य त्वं वैष्णवैर्विपरीतं च कार्यम्
मध्वान्तःस्थः पर्वताग्रेस्ति नित्यं रमाब्रह्माद्यैः पूजितः श्रीनिवासः ॥ ३.२३.४३ ॥
सुसत्तमं परमं श्रीनिवासं द्रक्ष्येऽथाहं ह्यारुरुक्षेऽचलञ्च
इत्येवमुक्त्वा कपिलाख्यतीर्थे स्थानं चक्रे सा स्वपित्रा सहैव ॥ ३.२३.४४ ॥
अत्रैवास्ते श्रीनिवासो हरिस्तु द्रव्येण रूपेण न चान्यथेति
आदौस्नात्वा मुण्डनं तत्र कृत्वा तीर्थश्राद्धं कारयित्वा सुतीर्थे ॥ ३.२३.४५ ॥
गोभूहिरण्यादिसमस्तदानं दत्त्वा शैलं चारुरोहाथ साध्वी
शालग्रामं स्थापयित्वा स चाग्रे पुनः प्रणामं सापि चक्रे सुभक्त्या ॥ ३.२३.४६ ॥
सोपानानां शतपर्यन्तमेवमारुह्य सा ह्युपविष्टा तु तत्र
शुश्राव सा भागवतं पुराणं शुश्राव वैवेङ्कटाद्रेः प्रशंसाम् ॥ ३.२३.४७ ॥
जैगीषव्याद्गुरुपादात्सुभक्त्या सुश्राव तत्त्वं वेङ्कटाद्रेश्च सर्वम् ॥ ३.२३.४८ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे वेङ्कटेशगिरियात्राक्रमनिरूपणं नाम त्रयोविंशोध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २४
जैगीषव्य उवाच
कन्ये शृणु त्वं वेङ्कटाख्याचलस्य स्मेराननां पुण्यमांरोहणेऽस्य
श्रीगीतायाः पठनं चैव कुर्वन्नारोहणं कुरुते सर्वलोकः ॥ ३.२४.१ ॥
पदेपदे श्रीनिवासश्च देवस्त्वलं ह्यलं प्रीयते भक्तवर्गः
तं प्रीणयन्मोक्षमायान्ति सर्वे हरौ तुष्टे किमलभ्यं च कन्ये ॥ ३.२४.२ ॥
सोपानदेशे यः पुराणं शृणोति तदा कृता सर्वतीर्थादियात्रा
तदा दिवा प्रस्तुवन्तीह मार्गे सदा हरिं श्रीनिवासं गुरुं च ॥ ३.२४.३ ॥
सोपानानां महिमानं च श्रुत्वा शालग्रामं स्थापयित्वा च तत्र
नमस्कृत्वा पुनरेवापि सा तु सोपानानि त्वारुरोहाथ साध्वी ॥ ३.२४.४ ॥
सोपानानां वीन्द्र चारोहणेन त्ववैष्णवानां हरितोषो न चैव
तेनैव तेषां साधनं भूय एव तमस्यन्धे पातयितुं खगेन्द्र ॥ ३.२४.५ ॥
स्थलेस्थले एवमेवापि कार्यं जैगीषव्यं पुनरेवाह देवी
कन्योवाच
जैगीषव्यः श्रीनिवासो हरिस्तु ब्रह्मादीनां दृश्यते श्रीनिवासः ॥ ३.२४.६ ॥
जैगीषव्य कृपया त्वं वदस्व जैगीषव्यो ह्येवमुक्तो हरिं तु
उवाच कन्यां सोमपुत्रीं सतीं च ब्रह्मादीनां दृश्यते श्रीनिवासः ॥ ३.२४.७ ॥
अनन्तरूपोधिककान्तकान्तिमान्रूद्रादीनां दृश्यते वेङ्कटेशः
ससूर्यलक्षाधिककान्तकान्तितो रुद्रादीनां दृश्यते श्रीनिवासः ॥ ३.२४.८ ॥
सहस्रसूर्याधिककान्तिकान्तः सविद्युत्त्वान्मानुषाणां रमेशः
ऋष्यादीनां दृश्यते चन्द्रवच्च सन्मानुषाणामपरोक्षो हरिस्तु ॥ ३.२४.९ ॥
नक्षत्रवद्दृश्यते श्रीनिवासः सदा ऋषीणामपरोक्षो हरिस्तु
स सूर्यवद्दृश्यते श्रीनिवासः संसारिणां वेङ्कटेशः खगेन्द्र ॥ ३.२४.१० ॥
संदोहवद्दृश्यते वै प्रकाशो मिथ्यावतां दृश्यते श्रीनिवासः
पाषाणवन्नैल्यरूपप्रकाशः शिलामात्रे दृष्यते वै कलौ च ॥ ३.२४.११ ॥
नृणां सर्वेषां श्रीनिवासो हरिस्तु कलौ स्वरूपं श्रीनिवासस्य देवी
न मानुषाः प्रविजानन्ति सर्वे यतः कलौ तामसा राजसास्तु ॥ ३.२४.१२ ॥
तत्संगिनः सात्त्विकाः केचिदेव ह्यतो भक्ता दुर्लभा वै कलौ च
ये दृश्यन्ते भक्तवत्ते न भक्ताः शिश्रोदरयोर्भरणे चैव सक्ताः ॥ ३.२४.१३ ॥
कुर्वन्ति यात्रां च तदर्थमेव भक्तिज्ञानं दुर्लभं वै कलौ च
भक्ता ये वै न विरक्ताः सदैव तेषां हरेर्दर्शनं दुर्लभं च ॥ ३.२४.१४ ॥
भक्तस्वरूपं तव वक्ष्ये खगेन्द्र यो ज्ञानपूर्णः परमे स्निग्ध एव
न च द्वेषैर्बन्धुरो भक्तियुक्तस्तव द्वेषाञ्छृणु वक्ष्ये च सम्यक् ॥ ३.२४.१५ ॥
जीवाभिदा हरिणाप्राकृतेन स्वतन्त्रेण ह्यस्वतन्त्रस्य नित्यम्
ज्ञानानन्दैः परिपूर्णे हरौ च गुणैरपूर्णो हरिरित्येव चिन्ता ॥ ३.२४.१६ ॥
श्रीब्रह्मरुद्रादिदिवौकसां सदा तथा द्विजानां संमानायाश्च चिन्ता
विष्णोः सकाशाद्ब्रह्मरुद्रादिकानां सदाधिक्यालोचनं द्वेष एव ॥ ३.२४.१७ ॥
विष्णोर्भद्रे हस्तपादादिकानां भेदज्ञानं द्वेषमाहुर्महान्तः
अवताराणा छेदभेदादिकं च तथोच्यते मरणस्यापि चिन्ता ॥ ३.२४.१८ ॥
तद्भक्तानां द्वेषणं चाहुरार्यास्तद्वाक्यानां दूषणं द्वेष एव
नच द्वेषैः संयुता ये च लोके कन्ये दृश्यन्ते न तु भक्ताः कदाचित् ॥ ३.२४.१९ ॥
कन्योवाच
जैगीषव्य ब्रूहि मे के च भक्ता भक्तिं कथं दर्शयामासुरेते
तेषां हरिः श्रीनिवासो महात्मा त्राता सदा भक्तवर्गे दयालुः ॥ ३.२४.२० ॥
जैगीषव्यस्त्वेवमुक्तो महात्मा उवाच कन्यां संस्मरन् भक्तवर्यः
जैगीषव्य उवाच
प्रहादाद्या श्रीनिवासस्य भक्ताः कृत्वा नृसिंहे चोत्तमां भक्तिमेव ॥ ३.२४.२१ ॥
अवाप साम्राज्यमनुत्तमं च ज्ञानं नृसिंहात्समवाप पश्चात्
पराशरः श्रीनिबासस्य भक्तो भक्तिं कृत्वा व्यासरूपं हरिं च ॥ ३.२४.२२ ॥
स्तुत्वा तेन ज्ञानतत्त्वं ह्यवाप्य जगाम मोक्षं भक्तिसंवर्धितात्मा
यो नारदः श्रीनिवासस्य भक्तो भक्तिं कृत्वा गर्भवासे हरौ च ॥ ३.२४.२३ ॥
तया भक्त्या ब्रह्मपुत्रत्वमाप ज्ञानप्राप्त्या तेन मुक्तिं जगाम
यो ह्यंबरीषः श्रीनिवासस्य भक्तः कृत्वा भक्तिं परदेव हरौ च ॥ ३.२४.२४ ॥
जप्त्वा ज्ञानं प्राप्य दुर्वासकश्चाप्यवाप मोक्षं तेन संवर्धितात्मा
मुचुकुन्दो वै श्रीनिवासस्य भक्तो वैराग्यतो भक्तिदार्ढ्यं च कृत्वा ॥ ३.२४.२५ ॥
तत्त्वज्ञानं प्राप्य विष्णोर्महात्मा ह्यवाप मोक्षं तेन संवर्धितात्मा
स पुण्डरीकः श्रीनिवासस्य भक्तः पित्रादिष्टो विष्णुभक्तिं च कृत्वा ॥ ३.२४.२६ ॥
हरिप्रासादाज्ज्ञानमनुत्तमं चाप्यवाप मोक्षं भक्तिसंवर्धितात्मा
ब्रह्मा च वायुश्च सरस्वती च ज्ञातव्याः सर्वे ऋजुयोगिनश्च ॥ ३.२४.२७ ॥
अच्छिन्नभक्ताश्च सदा मुरारेर्न काम्यरक्ताः शुद्धरूपा हि ते च
गिरीशनागेशखगेशसंज्ञा देवाः शुक्रारौ गुरुचन्द्रेन्दुसूर्याः ॥ ३.२४.२८ ॥
जलेशोग्निर्मनुधर्मौ कुबेरः विघ्नेशनासत्यमरुद्गणाश्च
पर्जन्यमित्रादय एव सर्वे सदा ह्येते श्रीनिवासस्य भक्ताः ॥ ३.२४.२९ ॥
विश्वामित्रो भृगुरौर्वश्च कुत्सो मरीचिरत्रिः पुलहः क्रतुश्च
शक्तिर्वसिष्ठो सौतमीयो पुलस्त्यो भारद्वाजः श्रीनिवासस्य भक्ताः ॥ ३.२४.३० ॥
मान्धाता नहुषोंबरीषसगरौ राजा पृथुर्हैहयो इक्ष्वाकुर्भरतो ययातिसुतलौ धर्मो विकुक्षिस्तथा
उत्तानश्च बिभीषणो दशरथो ह्येते महाज्ञानिनः श्रीमद्वेङ्कटनायकस्य च गुरोर्भक्ताः सदा संस्मृताः ॥ ३.२४.३१ ॥
भागीरथी समुद्रश्च यमुना च सरस्वती
गोदावरी नर्मदा च कृष्णा भीमरथी तथा ॥ ३.२४.३२ ॥
सरयूफल्गुकावेरीगण्डकी कपिला स्तथा
इत्येताश्च हरेर्भक्ताः संति चात्रैव भामिनि ॥ ३.२४.३३ ॥
अभिप्रायं तत्र वक्ष्ये शृणु कन्ये मया सति
यत्र प्रवर्तते मार्गे कथा विष्णोर्महात्मनः ॥ ३.२४.३४ ॥
वर्तन्ते वैष्णवा यत्र हरितत्त्वार्थबोधकाः
तत्रैव भक्ताः सर्वेपि संति विष्णोस्तथैव च ॥ ३.२४.३५ ॥
ये देवयात्रां परमात्मचिन्तया कुर्वन्ति ते हरिभक्ताश्च नान्ये
यतो हरौ परमे वैष्णवानां सर्वं निष्ठामेति कृत्यं खगेन्द्र ॥ ३.२४.३६ ॥
शेषाचलं समासाद्य ह्यन्नवस्त्रादिभूषणम्
यो न दद्यादभक्तः स ततः को नु परः पशुः ॥ ३.२४.३७ ॥
भक्ता हरेः श्रीनिवासाचले च गङ्गादिरूपेण च तत्रतत्र
तिष्ठन्ति सेवार्थमुरुक्रमस्य तेषां पूजा नैव कार्या च देवि ॥ ३.२४.३८ ॥
अभिप्रायं तत्र वक्ष्ये शृणु त्वं तत्र स्थले वस्त्रगन्धादिधूपैः
पुराणोक्ता अपि भेदेन पूज्या दृष्ट्वा च तान्वन्दयेत्प्राज्ञ एव ॥ ३.२४.३९ ॥
सद्ब्राह्मणान्वन्दयेत्पादमूले हस्तौ च द्वौ संपुटीकृत्य देवि
साष्टाङ्गरुपं वन्दनं चैव विष्णोः कुर्यात्तथा गुरवे विष्णुबुद्ध्या ॥ ३.२४.४० ॥
गङ्गादीनां वन्दनं कार्यमेव साष्टाङ्गं वै तुलसीनां तथैव
अश्वत्थानां नमनं कार्यमेव गवादीनां नमनं मानसेन ॥ ३.२४.४१ ॥
पूजा सदा देवदेवस्य विष्णोः कार्या भक्त्या वैष्णवैरेव नान्यैः
ये नामका ज्ञानवन्तः सुभक्ताः सदैव कार्या विष्णुपूजा च कन्ये ॥ ३.२४.४२ ॥
ये नामका ज्ञानवन्तः सुभक्ताः सदैवं कार्या विष्णुपूजा च कन्ये
येनामका विष्णुभक्ताः सदैव पूजा विष्णोर्नैव कार्यात्र देवि ॥ ३.२४.४३ ॥
मोहाद्यो वै पूजयेद्देवदेवं महाधर्माद्याति चान्धं तमो वै
ब्रह्मादिनामानि हरेर्हि देवीं विष्णोः स्वनामानि ददौ दिवौकसाम् ॥ ३.२४.४४ ॥
नादाद्धीरः केशवादीनि कन्ये स्वकं पुरं प्रविहायैव राजा
एवं मयोक्तं कन्यके सर्वमेतदेतत्परं सम्यगारोहणीयम् ॥ ३.२४.४५ ॥
गोविन्द नारायण माधवेति यूयं मया सर्वमाराधितव्यम्
सर्वे मिलित्वा पुनरेवं खगेन्द्र समारुहन्वैङ्कटाद्रिं गृणन्तः ॥ ३.२४.४६ ॥
हरेर्नामान्यत्र पूर्वं गृणन्तस्त्वास्वादयन्तः श्रीनिवासस्य नाम
द्रष्टुं सर्वे श्रीनिवासं तथैव कुर्वन्तस्ते तलशब्दं नदन्तः ॥ ३.२४.४७ ॥
इति कृष्णवचः श्रुत्वा तार्क्ष्यः कृष्णमुवाचह कथमास्वादनं चक्रुरेतद्विस्तीर्यमे वद
श्रीकृष्ण उवाच
भो श्रीनिवास तव नामैव चैतन्नाम स्वामी ननु नामैव स्वामी
यां ब्रह्माद्या आश्रयन्तीत्ति यस्मात्तस्माद्रमा श्रीरिति नाम चाप ॥ ३.२४.४८ ॥
रमाश्रयत्वान्नितरां सर्वदा चेत्यतो हरिः श्रीनिवासाभिधानः
भो श्रीनिवासेति तु नर्तयन्तो रोमाञ्चमात्रास्तलशब्दकारिणः ॥ ३.२४.४९ ॥
अद्यैव पश्याम हरेस्तवास्यं कदा वयं कृत कृत्या भवामः
भोः केशवाद्यैव पदारविन्दं संदर्शयित्वा सुदयां कुरुष्व ॥ ३.२४.५० ॥
ब्रह्माणमाहुश्च पुराणमाहुः कशब्दवाच्यं सर्वलोकेशमाहुः
ईशं चार्हं रुद्रमित्येव चाहुस्तत्प्रेरकं सृष्टिसंहारकार्ये ॥ ३.२४.५१ ॥
अतो हरिः केशवनामधेयो भोः केशवेति च नर्तयन्तः
आनन्दवापीं संस्त्रवन्तोभि जग्मुर्नारायणेति प्रवदन्तो हि जग्मुः ॥ ३.२४.५२ ॥
अतो दोषास्तद्विरुद्धा गुणाश्च नाराश्च तेषामाश्रयत्वान्मुरारिः
नारायणेति प्रवदन्तीह लोके नारानुबन्धात्सर्वमुक्ताः खगेन्द्र ॥ ३.२४.५३ ॥
नाराः प्रोक्ता आश्रयत्वाच्च तेषामतोपि नारायण एव वीन्द्र
मुक्ताश्च ये तु प्रपदंनु जग्मुरण्डोदकं यस्य कटाक्षमात्रात् ॥ ३.२४.५४ ॥
यदुत्पन्नं तेन नाराः खगेन्द्र तेषां सदाप्याश्रयत्वाच्च वीन्द्र
नारायणेति प्रवदन्तीह लोके ह्यनन्तब्रह्माण्डविसर्जकत्वात् ॥ ३.२४.५५ ॥
एवं ननृतुः परिशंसयन्तो गोविन्द नान्यो हि न चैव दर्शनम्
गोशब्दवाच्यास्तु समस्तवाचो गोभिश्च सर्वैः प्रतिपाद्यते यतः ॥ ३.२४.५६ ॥
अतो हि गोविन्द इति स्मृतः सदा भो वेदवेद्येति तथा न ननृतुः
आनन्दबाष्पैश्च समन्विता हि हरे मुरारे तव दर्शनं हि ॥ ३.२४.५७ ॥
देहि प्रभो वै तवदासदासाश्चतुर्दशे भुवने सर्वदापि
यतस्त्वमेवं वसतीति वासुश्चात्रैव नित्यं क्रीडते सर्वदैव ॥ ३.२४.५८ ॥
यतो देवेत्येवमाहुर्महान्तस्त्वतो हरिं वासुदेवेति चाहुः
भो वासुदेवेति ननृतुः सर्वदैव भो माधवेति ननृतुश्चैव सर्वे ॥ ३.२४.५९ ॥
लक्ष्मीपते चेति वदन्ति सर्वे धनीति शब्दः स्वाभिवाची यतो हि
अतोप्यार्या माधवेति ब्रुवन्ति लक्ष्मीपते पाहि तथैव भक्तान् ॥ ३.२४.६० ॥
ते वै ब्रुवन्तो ननृतुश्च जग्मुर्विष्णो सदास्मान्परिपाहि नित्यम्
सर्वत्र यस्माद्विततोसि तस्मादित्यादिनामानि गृणन्त एव
जग्मुश्च सर्वे ददृशुश्च तीर्थं भक्त्योपेताः श्रीनिवासं स्मरन्तः ॥ ३.२४.६१ ॥
कन्योवाच
किं नामकं तीर्थमिदं मुनीन्द्र किं कार्यमत्र प्रवदास्मान्कृतीश
कस्मै प्रसन्नो भगवाञ्छ्रीनिवासस्त्वस्मिन्सुतीर्थं वद विस्तरेण ॥ ३.२४.६२ ॥
जैगीषव्य उवाच
कन्ये शृणु त्वं ह्यभवत्सुबुद्धिमान्प्रह्रादसंज्ञो हरिभक्तवर्यः
निष्कामबुद्ध्या तु यदा जगाम शेषाचलस्थं श्रीनिवासं च द्रष्टुम् ॥ ३.२४.६३ ॥
अस्मिंस्थले दैत्यकुमारकान्प्रति हरेश्च तत्त्वं परिपृष्टवान्प्रभुः
नृसिंहरूपं श्रीनिवासं भजस्व सुदुर्लभं मानुषं जन्म कन्ये ॥ ३.२४.६४ ॥
तत्रापि विष्णोर्नृहरे सुतत्त्वं सुदुर्लभं सुष्ठु यात्रा तथैव
यस्यां यात्रायां यत्र कुत्रापि देशे हरेः कथा वर्तते दैत्यवर्याः ॥ ३.२४.६५ ॥
तत्र स्थले हरिरास्ते सदैव यतो व्याप्तः सर्वतो वै नृसिंहः
एतच्छ्रुत्वा दैत्यकुमारकास्ते प्रह्लादमूचुर्भक्तवर्यं हरेश्च ॥ ३.२४.६६ ॥
व्याप्तो हरिश्चेत्कथमत्र वै सखे न दृश्यते जलरूपी नृसिंहः
स एवमुक्तो दानवानां सुतैश्च तुष्टाव विष्णुं परमादरेण ॥ ३.२४.६७ ॥
तव स्वरूपं मम दर्शयस्व स्वयोग्यरूपं दानवानां सुतानाम्
इति स्तुतः श्रीनिवासो हरिस्तु तस्मिन्नन्तर्जलरूपं समायात् ॥ ३.२४.६८ ॥
अस्मिन्स्नानं ये प्रकुर्वन्ति तीर्थे तेषां ज्ञानं परमं दृढं स्यात्
अत्र स्नाने मानुषाणां च तात बुद्धिर्न हि स्यात्कलिकाले विशेषात् ॥ ३.२४.६९ ॥
दत्त्वां वरं दैत्यवराय विष्णुरन्तर्दधे जलपूर्णे सुकुण्डे
अद्याप्यास्ते जलमध्ये नृसिंहः प्रह्लादोपि दैत्यकुमारकैः सह ॥ ३.२४.७० ॥
तस्मिन् सुतीर्थे परितस्तत्रतत्र जयेति शब्दः श्रूयते चापराह्ने
इदं तीर्थं नारसिंहाभिधं च कन्येस्नानं ह्यत्र कार्यं मनुष्यैः ॥ ३.२४.७१ ॥
स्नानं कृत्वा तत्र तीर्थे च सम्यग्दीपं दत्त्वा द्विजवर्याय मुख्यम्
द्रष्टुं पुनः श्रीनिवासं प्रजग्मुर्गोविन्दगोविन्द इति ब्रुवन्तः ॥ ३.२४.७२ ॥
मुख्यप्राणाधिष्ठितं स्थानमाप्य अपाविशत्तत्र देवी ह्युवाच
जैगीषव्यः श्रीनिवासस्य विष्णोः कथं कार्यं दर्शनं तद्वदस्व ॥ ३.२४.७३ ॥
जैगीषव्यः प्राह संहृष्टचित्तो ब्रवीमि तन्त्रं शृणु कन्यके त्वम्
श्रुत्वा मत्तः कुरु सर्वं मयोक्तमाद्यं द्वारं श्रीनिवासस्य दृष्ट्वा ॥ ३.२४.७४ ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया
तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम ॥ ३.२४.७५ ॥
मानसान्वाचिकान्दोषान्कायि कानपि सर्वशः
वैष्णवद्वेषहेतून्मे भस्मसात्कुरु माधव ॥ ३.२४.७६ ॥
आद्यद्वारं श्रीनिवासस्य देवि सम्यक्स्मरेद्विजयं वै जयं च
दक्षाध्वरे श्रीनिवासस्य देवि चण्डं प्रचण्डं संस्मरेत्सम्यगेव ॥ ३.२४.७७ ॥
पाश्चात्यभागे श्रीनिवासस्य देवि नन्दं सुनन्दं संस्मरेदेव भक्त्या
सव्यद्वारे श्रीनिवासस्य कन्ये स्मरेत्कुमुदाक्षं कुमुदन्तमेव ॥ ३.२४.७८ ॥
यश्चैव देहं प्रविशेद्भक्तिपूर्वं कदा द्रक्ष्ये सादरेणैव देवि
प्रदक्षिणद्वादशकं च कृत्वा पदे पदे संस्मरेच्छ्रीनिवासम् ॥ ३.२४.७९ ॥
श्रीस्वामितीर्थे सम्यगाचम्य नत्वा स्नात्वा नत्वा भूवराहं च देवि
अयुद्वारं प्रिवशेद्भक्तिपृर्वं गोविन्दगोविन्द इतिब्रुवन्वै ॥ ३.२४.८० ॥
पश्चाद्धरेर्नमनं कार्यमेव साष्टाङ्गरूपं प्रविशेद्देवगेहम्
पुनर्विशेद्वारतः संस्थितः स पीठस्थदेवान्मानसा चिन्तयीत ॥ ३.२४.८१ ॥
मध्ये पीठं श्रीनिवासं च देवी नारायणं प्रणमेत्पूर्णमेव
देवस्य सव्ये पीठभागाद्वहिश्च नमस्कार्यं गुरुदेवाय चैव ॥ ३.२४.८२ ॥
पीठस्याग्राच्चाप्यधस्तात्प्रदेशे आग्नेयकोणे प्रणमेद्वै खगेन्द्र
नैरृत्यभागे व्यासदेवाय देवि नमस्कार्यो वैष्णवः सर्वदापि ॥ ३.२४.८३ ॥
वायव्यकोणे भक्तिपूर्वं सुदुर्गां नमस्कुर्याद्भक्तिसंवर्धितात्मा
पीठस्योर्ध्वं ह्यग्निकोणेषु देवी धर्माधिभूताय नमो यमाय ॥ ३.२४.८४ ॥
पीठस्योर्ध्वं नैरृतस्योर्ध्वकोणे ज्ञानाधिपं प्रणमेद्वायुदेवम्
पीठस्योर्ध्वं वायुकोणे च सुभ्रूर्वैराग्यानामधिपं चैव रुद्रम् ॥ ३.२४.८५ ॥
पीठस्योर्ध्वं त्वीशकोणे च देवि ऐश्वर्याणामधिपं चेन्द्रदेवम्
पीठस्य पूर्वे प्रणमेन्नैरृतिं च अर्याम्णानामधिपं चात्र देवि ॥ ३.२४.८६ ॥
देवस्य पीठस्य च दक्षिणे च दुर्गां नमेदुग्ररूपाभिधां च
पीठस्य कन्ये प्रणमेत्पश्चिमे वै आरोग्याणा मधिपं कामदेवम् ॥ ३.२४.८७ ॥
देवस्य पीठस्योत्तरे रुद्रदेवमनैश्वर्याणामधिपं संस्मरेच्च
पीठस्य मध्ये प्रणमेद्वै वराहं सदा कन्ये परमं पूरुषाख्यम् ॥ ३.२४.८८ ॥
तस्योपरिष्टाच्छक्तिसंज्ञां च लक्ष्मीमाधाररूपां प्रणमेच्चैव नित्यम्
तस्योपरिष्टाद्वायुकूर्मौ नमेच्च तस्योपरिष्टाच्छेषकूर्मौ नमेच्च ॥ ३.२४.८९ ॥
तस्योपरिष्टादभिमानिनीं भुवो भूदेवतां प्रणमेच्चैव सुभ्रूः
तस्योपरिष्टाद्वरुणं संस्मरेच्च क्षीरोदधेरधिपं चैव देवम् ॥ ३.२४.९० ॥
तस्योपरिष्टात्प्रणमेच्चैव लक्ष्मीं श्वेतद्वीपाख्यं कन्यके पूजयेच्च
तस्योपरिष्टात्प्रणमेच्चैव लक्ष्मीं महादिव्यां मण्डपसंज्ञकां च ॥ ३.२४.९१ ॥
पीठस्य मध्ये यमसंज्ञां च लक्ष्मीं समर्चयेद्यममध्ये च देवीम्
यमस्य देवस्य च दक्षिणे च सूर्यं नमेद्दीपरूपं च भद्रे ॥ ३.२४.९२ ॥
यमस्य देवस्य च वामभागे श्रियं नमेद्दीपरूपां च देवीम्
यमस्य देवस्य तु चाग्रभागे हुताशनं दीपरूपं नमेच्च ॥ ३.२४.९३ ॥
देवस्याग्रे भूमिनाम्नीं नमेच्च तत्त्वाभिमानां संस्मरेच्चैव नित्यम्
पर्यङ्करूपं श्रीनिवासस्य विष्णोस्तमोभिमानां सन्नमेच्चैव दुर्गाम् ॥ ३.२४.९४ ॥
पूर्वादिगं पीठसोपानरूपमात्मानमेकं प्रणमेच्च देवि
दक्षस्थदिक्पीठसोपानरूपं ज्ञानात्मकं प्रणमेच्चैव कन्ये ॥ ३.२४.९५ ॥
पद्मस्य पूर्वस्थदले च देवि स्त्रीरूपाख्यं विमलाख्यामिमां च
ब्रह्मादिदेवान्प्रणमेच्च देवि आग्नेयकोणस्थदले शृणुत्वम् ॥ ३.२४.९६ ॥
उत्कर्षनाम्नीं परमां च देवीं नमेद्रमां ब्रह्मवायू च शेषम्
दक्षस्थपद्मस्य दलाष्टके च नारायणाकारशेषादिकानाम् ॥ ३.२४.९७ ॥
स्त्रीरूपेभ्यो नमनं कार्यमेव कन्ये मया पश्चिमस्थे दले च
गोपाख्यनारायणब्रह्मवायुविप्रादिकानां शेषरूद्रादिकानाम् ॥ ३.२४.९८ ॥
स्त्रीरूपेभ्यो नमनं कार्यमेव ईशान कोणस्थदलेषु चैव
ईशाननारायणमाविरिञ्चवायुर्वियच्छेषसुरादिकानाम् ॥ ३.२४.९९ ॥
स्त्रीरूपेभ्यो नमनं कार्यमेव तथैव पद्मस्य च मध्यभागे
अनुग्रहाख्या विष्णुलक्ष्मीश्च देवी वायुर्वियच्छेषरुद्रादिकानाम् ॥ ३.२४.१०० ॥
स्त्रीरूपाणां नमनं कार्यमेव सुयोगपीठस्य स्वरूप भूतम्
सदा नमेच्छ्रीमदनन्तसंज्ञमेवं न मेच्छ्रीनिवासं च देवम् ॥ ३.२४.१०१ ॥
श्रीनिवासस्य वामे तु लक्ष्मीं च प्रणमेद्वुधः
श्रीनिवासस्य सव्ये तु धरायै प्रणमेच्छुभे ॥ ३.२४.१०२ ॥
पीठाद्वहिः पूर्वभागे कृपोल्कं प्रणमेच्छुभम्
महोल्कं दक्षिणे चैव वीरोल्कं पश्चिमे नमेत् ॥ ३.२४.१०३ ॥
उत्तरे च नमः कुर्याद्युल्काय च महात्मने
चतुर्ष्वपि च कोणेषु सहस्रोल्कं नमेत्सुधीः ॥ ३.२४.१०४ ॥
पूर्वे तु वासुदेवाय नमस्कुर्याच्च दक्षिणे
संकर्षणाय देवाय प्रद्युम्नाय च पश्चिमे ॥ ३.२४.१०५ ॥
उत्तरे ह्यनिरुद्ध्या नमस्कुर्यादतन्द्रितः
आग्नेये च नमस्कुर्यात्कन्ये मायां सदा शुभे ॥ ३.२४.१०६ ॥
जयायै च नमस्कुर्यान्नैरृत्ये चापि वायवे
कृत्ये चैव नमस्कुर्यादीशान्ये शान्तिसंज्ञकाम् ॥ ३.२४.१०७ ॥
केशवाय नमः पूर्वे तथा नारायणाय च
माधवाय नमस्कुर्यान्नैरृत्ये चापि वायवे ॥ ३.२४.१०८ ॥
आग्नेये कन्यके नित्यं भक्त्या तु प्रयतः शुभे
गोविन्दाय नमस्कुर्याद्दक्षिणे विष्णवे तथा ॥ ३.२४.१०९ ॥
मधुसूदनाय भोः कन्ये नमस्कुर्यात्तु नैरृतौ
पश्चिमे त्रिविक्रमाय वामनाय तथैव च ॥ ३.२४.११० ॥
विष्णवे श्रीधरायाथ नमस्कुर्याच्च भामिति
उत्तरे तु महाकन्ये हृषीकेशाय वै नमः ॥ ३.२४.१११ ॥
तथा वै पद्मनाभाय नमस्कुर्यादतन्द्रितः
दामोदराय चैशान्ये नमस्कुर्याच्च भामिनि ॥ ३.२४.११२ ॥
चतुर्थावरणे पूर्वे महाकूर्माय वै नमः
वराहाय नमस्कुर्यादाग्नेये कन्यके शुभे ॥ ३.२४.११३ ॥
दक्षिणे नारसिंहाय वामनाय नमोनमः
भार्गवाय नमस्कुर्यान्नैरृत्ये शुद्धचेतसा ॥ ३.२४.११४ ॥
पश्चिमे माधवायाथ तथा कृष्णाय वै नमः
बुद्धाय च नमस्कुर्याद्वायव्ये कन्यके शुभे ॥ ३.२४.११५ ॥
उत्तरे ह्युल्करूपाय अनन्ताय नमोस्तु ते
ईशान्ये विश्वरूपाय नमस्कुर्यादतन्द्रितः ॥ ३.२४.११६ ॥
आग्नेये वारुणीं चैव गायत्रीं चैव नैरृते
वायव्ये भारतीं चैव ईशान्ये गिरिजां नमेत् ॥ ३.२४.११७ ॥
गिरिजां वामभागे तु सौपर्णै चैव संनमेत्
प्रागिन्द्राय नमस्कुर्यात्सायुधाय तथैव च ॥ ३.२४.११८ ॥
स परिग्रहाय श्रीविष्णोः पार्षदाय नमोनमः
आग्नेयेत्यग्नये तुभ्यं सायुधायेति पूर्ववत् ॥ ३.२४.११९ ॥
दक्षिणे तु यमायैव नैरृत्यां निरृतिं यजेत्
पश्चिमे वरुणायैव वायव्ये वायवे नमः ॥ ३.२४.१२० ॥
उत्तरे च कुबेराय ईशान्ये च शिवाय च
ईशानशक्रयोर्मध्ये ब्रह्मणे सायुधाय च ॥ ३.२४.१२१ ॥
निरृत्यप्यतिमध्ये तु शेषाय च नमोनमः
एवं कृत्वा नमस्कारं प्रणमेच्च पुनः पुनः ॥ ३.२४.१२२ ॥
इत्येतत्सर्वमाख्यातं विधिपूर्वं तु दर्शनम्
इतः परन्तु गन्तव्यं दर्शनार्थं रमापते ॥ ३.२४.१२३ ॥
एवमुक्त्वा तु सा देवी तैः सार्धं तु ययौ मुदा
यदुक्तः श्रीनिवासस्य दर्शनस्य विधिः खग
कस्यचिन्नैव वक्तव्यो गोप्यत्वाच्च कदाचन ॥ ३.२४.१२४ ॥
समागमो दुर्घट एव वीन्द्र सतां च सत्तत्त्वविबोधकानाम्
अनेकजन्मार्जितपुण्यसंचयादभूद्गुरोः संगम एव तस्य ॥ ३.२४.१२५ ॥
पयो विकारं च निजं जहाति शेषस्य शेषं नलिनस्य षङ्कजम्
भावं चलं पङ्कजनाभयोगात्सत्संगयोगादशुभानि न स्युः ॥ ३.२४.१२६ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे श्रीवेङ्कटेशगिर्यारोहणक्रमतद्भक्ततत्पर्वतनामादिनिरूपणं नाम चतुर्विशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २५
सा द्वारदेशे श्रीनिवासस्य देवी स्वामिपुष्करिणीं ददृशे कैश्च सार्धम्
स्वामिन्हरे श्रीनिवासेति सा तं ब्रह्मादीनां तारकं सम्प्रदध्यौ ॥ ३.२५.१ ॥
देवैः सार्धं पालनार्थं च विष्णुरस्त्येव नित्यं पुष्करिण्यां जलेषु
अतः स्वामिपुष्करिणीति चाहुस्तत्र स्नानं कन्यकान्याश्च चक्रुः ॥ ३.२५.२ ॥
शुचिर्भूत्वा श्रीनिवासं च देवास्तुप्तुं विविशुः शुद्धभक्त्या खगेन्द्र
यथोपदिष्टं गुरुणा तथैव चक्रे कन्याश्च सर्वं खगेन्द्र ॥ ३.२५.३ ॥
तदा हरिं दर्शयामास तस्यै स्वकं रूपं सुप्रतीके सुपूर्णम्
सा कन्यका श्रीनिवासस्य रूपं ददर्श भक्त्या स्वमनोभिरामम् ॥ ३.२५.४ ॥
सुवर्णचित्रं वसनं वसानं सोष्णीषकं कञ्चुकं संदधानम् ॥ ३.२५.५ ॥
मृगोत्थमदगन्धेन सुरभीकृतदिङ्मुखम्
पुण्डरीकविशालाक्षं कंबुग्रीवं महाभुजम् ॥ ३.२५.६ ॥
हेमयज्ञोपवीताङ्गं साक्षात्कन्दर्पसन्निभम्
जगन्मोहनसैन्दर्यं कोमलाङ्गं मनोहरम् ॥ ३.२५.७ ॥
दृष्ट्वा च कन्या मुमुदे रोमाञ्चितसुगात्रका ॥ ३.२५.८ ॥
तद्दर्शनाह्लादपरिप्लुताशया प्रेम्णाथ रोमाश्रुकुलाकुलेक्षणा
ननर्त देवी पुरतस्तस्य विष्णोः सा ध्वस्तदोषा परमादरेण
आनन्द मां पाहि सुखं च दत्त्वा मुकुन्दा मां पाहि विमुक्तिदानात् ॥ ३.२५.९ ॥
मां पाहि नित्यं ह्यरविन्दनेत्र प्रसन्नदृष्ट्या करुणासुधार्द्र
गोविन्द गोविन्द सुदुः खितां मां ज्ञानादिदानेन हि पाहि नित्यम् ॥ ३.२५.१० ॥
जनार्दन त्वं हि सुदुष्टसंगान्कामादिरूपान्सततं वर्जयित्वा
हरे हरे मां सततं पाहि दैत्यान्समाहृत्य प्रबलान्विघ्नरूपान् ॥ ३.२५.११ ॥
रमेश मां पाहि चतुर्मुखेश विश्वेश मां पाहि सरस्वतीश
रमेश मां पाहि निदानमूर्ते वृन्दारवृन्दैर्वन्दितपादपद्म ॥ ३.२५.१२ ॥
एवं तु नत्वा परमादरेण तुष्टाव विष्णुं परमं पुराणम्
लक्ष्म्या सदा येऽविदिता गुणाश्च असंख्याताः संति विष्णौ च वीश ॥ ३.२५.१३ ॥
तेषां सकाशादतिबाहुल्यसंख्या गुणा हरौ तेऽविदिता वै रमायाः
अतो हरे स्तवने क्वास्ति शक्तिस्तथापि यत्नं स्तवने ते करिष्ये ॥ ३.२५.१४ ॥
तव प्रसादाच्च रमाप्रसादाद्विधिप्रसादात्भारतीशप्रसादात्
रुद्रप्रसादात्स्तवनं ते करिष्ये तथापि विष्णो मयि शान्तिं कुरुष्व ॥ ३.२५.१५ ॥
यदि प्रसन्नोसि मयि त्वमीश त्वत्पादमूले देहि भक्तिं सदैव
त्वद्दर्शनाद्देव शुभाशुभं च नष्टं मदीयं ह्यशुभं च नित्यम् ॥ ३.२५.१६ ॥
त्वन्मायया नष्टमिमं च लोकं मदेन मत्तं बधिरं चान्धभूतम्
ऐश्वर्ययोगेन च यो हि मूको जातः सदा दीन
ागुर्वादिकेषु ॥ ३.२५.१७ ॥
मा देहि ऐश्वर्यमनुत्तमं त्वत्पादारविन्दस्य विरुद्धभूतम्
त्वं देव मे देहि सतां च संगं तव स्वरूपप्रतिपादकानाम् ॥ ३.२५.१८ ॥
पुत्रादीनामैहिकं वासुदेव दग्ध्वा च मे देहि पादारविन्दे
सद्वष्णवे क्रियमाणं च कोपं दग्ध्वा च मे देहि पादरविन्दे ॥ ३.२५.१९ ॥
द्रव्यादिके क्रियमाणं च लोभं दग्ध्वा वै मे देहि पादाब्जमूले
पुत्रादिके क्रियमाणं च मोहं दग्ध्वा च मे देहि पादाब्जमूले ॥ ३.२५.२० ॥
विद्यां पुत्रं द्रव्यजातं मदं च दग्ध्वा च मे देहि पादाब्जमूले
सद्वैष्णवासहमानस्वरूपं दग्ध्वा मात्सर्यं पाहि मां वेङ्कटेश ॥ ३.२५.२१ ॥
मन्त्रं च मे देहि निदानमूर्ते येनैव मे स्यात्तव संगश्च भूयः
नान्यं वृणे तव पादाब्जसंगात्तदेव मे देहि मम प्रसन्नः ॥ ३.२५.२२ ॥
इतीरितः श्रीनिवासः प्रसन्न उवाच देवो ह्यमृतस्त्रवं च
अत्रैव कन्ये प्रजपस्व मन्त्रं सुगोप्यरूपं परमादरेण ॥ ३.२५.२३ ॥
वक्ष्यामि मन्त्रं परमादरेण शृण्वद्य भक्त्या परमादरेण
अन्तः स्थमन्त्यं ह्याद्यसंयुक्तमेव सबिन्दु तद्वत्स्पर्शकाद्येन युक्तम् ॥ ३.२५.२४ ॥
एकारयुक्तं प्रथमान्तः स्थयुक्तं समत्रिकोणे चोष्मणा संयुतं च
तकारसक्तं स्वर्शमन्तः स्थयुक्तमाद्यन्त ओंकारसमन्वितं च ॥ ३.२५.२५ ॥
अनेन मन्त्रेण तवेप्सितं च भवेद्धि कन्ये नान्त्र विचार्यमस्ति
एवं स उक्त्वा श्रीनिवासो हरिस्तु प्रतीकवद्दर्शयामास रूपम् ॥ ३.२५.२६ ॥
नत्वा तु सा श्रीनिवासं च देवी उवास ह स्वामिसरः समीपे
तस्मिन्दिने ब्राह्मणादींश्च सर्वान्संतर्पयामास च षड्रसान्नैः ॥ ३.२५.२७ ॥
सायङ्काले श्रीनिवासस्य दृष्ट्वा उत्साहरूपैः श्रीनिवासप्रतीकैः
साकं भक्त्या संप्रणम्याथ देवी प्रदक्षिणं श्रीनिवासस्य सुष्ठु ॥ ३.२५.२८ ॥
ननर्त देवी सुप्रतीकस्य चाग्रे लज्जां त्यक्त्वा जय देवेति चोक्त्वा
आनृत्तकाले च हरेश्च वक्त्रं दृष्ट्वा च दृष्ट्या तु परं ननर्त ॥ ३.२५.२९ ॥
ममाद्य गात्रं पावितं श्रीनिवास ममाद्य नेत्रं सफलं संबभूव
ममाद्य पादौ सार्थकौ चैव जातौ प्रदक्षिणं श्रीनिवासेश कृत्वा ॥ ३.२५.३० ॥
हस्तौ च मे सार्थकावद्य जातौ अग्रे कृत्वा हस्तशब्दं मुरारेः
एवं वदन्ती प्रीणयन्ती च देवं जगामसा स्तोत्रवचः कदम्बैः ॥ ३.२५.३१ ॥
देवास्तदा दुन्दुंभयो विनेदिरे तन्मस्तके पुष्पवृष्टिं च चक्रुः
तस्मिन्काले उभयोः पार्श्वयोश्च नृत्यं चक्रुर्देवतावारनार्यः ॥ ३.२५.३२ ॥
तथैव तास्तलशब्दं च कृत्वा तदा सर्वा नमनं चापि चक्रुः
आनन्दशैले सर्वदा त्वित्थमेव सा सर्वदा नर्तयन्ती च वीन्द्र ॥ ३.२५.३३ ॥
आनन्दमग्ना सापि देवी जगाम स्वमाश्रमं जैगिषव्येण सार्धम्
यात्रामेवं ये न कुर्वन्ति वीन्द्र तेषां च सर्वं निष्फलं चाहुरार्याः ॥ ३.२५.३४ ॥
गत्वाश्रमं जैगिषव्येण सार्धं गुरुं त्वपृच्छद्वेङ्कटेशस्य मन्त्रम्
मन्त्रस्यार्थं ब्रूहि मे जैगिषव्य मन्त्रावृत्तिं कुर्वतां वै फलाय ॥ ३.२५.३५ ॥
जैगीष्व्य उवाच
शृणुष्व भद्रे वेङ्कटे शस्य नाम्नस्त्वर्थं श्रुत्वा हृदये संनिधत्स्व ॥ ३.२५.३६ ॥
विति ह्युत्तमवाची स्याद्येति ज्ञानमुदाहृतम्
ककारः सुखवाची स्याट्टेति चित्तमुदाहृतम् ॥ ३.२५.३७ ॥
ईशत्वमात्मवाचि स्यादेवं ज्ञेयं तु कन्यके
पूर्णज्ञानं सुखं वित्तं व्याप्तत्वाद्व्यङ्कटाभिधः ॥ ३.२५.३८ ॥
व्य (वे) मिन्द्रियादिकं प्रोक्तं व्यङ्गभूतं हरौ यतः
कटश्च समुदायार्थो व्यं (वें) कटश्चेन्द्रियौघकः ॥ ३.२५.३९ ॥
स्वस्मिन्प्रेरयते यस्मात्तस्माद्व्यङ्कटनामकः
विषये प्रेषयेन्नित्यमतो व्यङ्कटनामकः ॥ ३.२५.४० ॥
विशिष्टज्ञानरूपत्वाद्व्येति मुक्ताः सदा स्मृताः
मुक्तानां च समूहस्तु व्यङ्कटेति प्रकीर्तितः ॥ ३.२५.४१ ॥
सदा मुक्तसमूहानामीशत्वाद्व्यङ्कटाभिधः
लिङ्गदेहमतो जीवो व्यङ्कटेति समाहृतः ॥ ३.२५.४२ ॥
लिङ्गानां चैव स्वामित्वाद्व्यङ्कटेशेति संज्ञितः
दैत्यानां च समूहास्तु ज्ञानादिविधुरा यतः
अतो दैत्यसमूहस्तु व्यङ्कटेति प्रकीर्तितः ॥ ३.२५.४३ ॥
तेषां संहरणे ईशस्त्वतो व्यङ्कटनामकः
आनन्दस्य विरुद्धत्वात्कामक्रोधादयो गुणाः ॥ ३.२५.४४ ॥
व्यङ्कटा इति संप्रोक्तास्तेषां नाशयिता प्रभुः
अतस्तु व्यङ्कटेशाख्य एवं ज्ञात्वा जपं कुरु ॥ ३.२५.४५ ॥
एवं व्यङ्कटामाहात्म्यं श्रुत्वा देवी खगेश्वर
निद्रां चकार तत्रैव रात्रौ पित्रा सहैव च
ब्राह्मे मुहूर्ते चोत्थयि हृदि सस्मार कन्यका ॥ ३.२५.४६ ॥
(व्यङ्कटेशस्य प्रातः स्तुतिः)
श्रीव्यङ्कटेशश्च नृसिंहमूर्तिः श्रीवरदराजश्च वराहमूर्तिः
श्रीरङ्गशायी च अनन्तशायी कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ३.२५.४७ ॥
श्रीकृष्णमूर्तिश्च गदाधरश्च श्रीविष्णुपादस्तु प्रयागवासः
नारायणः श्रीबदरीनिवासः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ३.२५.४८ ॥
दामोदरो वै त्रिजगन्निवासः श्रीपाण्डुरङ्गश्च नृसिंहदेवः
श्रीरामदेवश्च अमोघवासः कुदृ ॥ ३.२५.४९ ॥
श्रीधर्मपुत्रश्च नृसिंहमूर्तिः श्रीपिप्पलस्थश्च मुहल्लवासः
कोलानृसिंहः शूर्पकारस्थ सिंहः कुर्वन्तुदृ ॥ ३.२५.५० ॥
चतुर्मुखश्चारुसरस्वती च स्वभारती शर्वसुपर्णशेषाः
अमामहेद्रश्च शचीमुखास्ताः कुर्वन्तु दृ ॥ ३.२५.५१ ॥
द्वारावती काशिकावन्तिका च प्रयागकाञ्च्यौ मथुरापुरी च
मायावती हस्तिमती पुरी च कुर्वन्तु स दृ ॥ ३.२५.५२ ॥
भागीरथी चैव सरस्वती च गोदावरी सिंधुकृष्ण च वेणी
कलिन्दकन्या यमुना च नर्मदा कुर्व दृ ॥ ३.२५.५३ ॥
वितस्तिकावेरिसतुङ्गभद्राः सुवञ्जरा भीमरथी विपाशा
सुताम्रपर्णी च पिनाकिनी च कु दृ ॥ ३.२५.५४ ॥
स्वामिपुष्करिणी चैव सुवर्णमुखरी तथा
श्रीपाण्डवी तौबरुश्च कपिला पापनाशनी ॥ ३.२५.५५ ॥
गुरुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः
रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ३.२५.५६ ॥
सप्तार्णवाः सप्त कुलाचलाश्च द्वीपाश्च सप्तोपवनानि सप्त
भूरादिकानि भुवनानि सप्त कुर्वन्तु स दृ ॥ ३.२५.५७ ॥
मान्धात्रा नहुषोंबरीषसगरौ राजा नलो धर्मराट्प्रह्लादः क्रतुराड्विभीषणगयौ व्यासो हनूमानपि
अश्वत्थाम कृपावुमा द्रुपदजा श्रीजानकी तारका मन्दोदर्यखिलाः प्रभातसुमहं कुर्वन्तु नित्यं हरे ॥ ३.२५.५८ ॥
अश्वत्थस्य वनानि किं च तुलसीधात्रीवनानि प्रभो पुन्नागस्य वनानि चंपकवनान्यन्यानि पुष्पाणि च
मन्दारस्य वनानि यानि च हरेः सौगन्धिकान्यप्यहो नित्यं तानि दिशन्तु मत्प्रमुदितं श्रीवेङ्कटेश प्रभो ॥ ३.२५.५९ ॥
एवं स्मृत्वा श्रीनिवासस्य देवी कृत्वा शौचं जैगिषव्येण साकम्
स्नातुं ययौ पुष्करिणीं हरेश्च स्नानं सम्यक्तत्र चकार देशे
सम्यग्जप्त्वा व्यङ्कटेशस्य मन्त्रमुवाच सा जैगिषव्यं गुरुं च ॥ ३.२५.६० ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे देवी कृतवेङ्कटेशदर्शनतत्स्तुत्यादिवर्णनं नाम पञ्चविंशोध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २६
कन्योवाच
श्रीनिवासः किमर्थं वै आगतोत्र वदस्व मे
शेषाचलोपि कुत्रा भूत्कदायातश्च पापहा
स्वामिपुष्करिणी चात्र किमर्थं ह्यगता वद ॥ ३.२६.१ ॥
जैगीषव्य उवाच शृणु भद्रे महाभागे व्यङ्कटेशस्य चागमम्
आवयोर्देवि पापानि विषमं यान्ति भामिनि ॥ ३.२६.२ ॥
आसीत्पुरा हिरण्याक्षः काश्यपो दितिनन्दनः
सनकादेश्च वाग्दण्डाद्द्वितीयद्वारपालकः ॥ ३.२६.३ ॥
बभूव दैत्ययोनौ च देवानां कण्टको बली
संजीवो विजयः प्रोक्तो हरिभक्तो महाप्रभुः ॥ ३.२६.४ ॥
हरिण्याक्षः स्वयं दैत्यो हरिभक्तविदूषकः
एतादृशो हिरण्याक्षस्तपस्तप्तुं समुद्यतः ॥ ३.२६.५ ॥
तदा माता दितिर्देवी हिरण्याक्षमुवाच सा
दितिरुवाच
वत्सलस्त्वं महाभागमा तपस्वाष्टहायनः ॥ ३.२६.६ ॥
त्वं मा ददस्व दुः खं मे पालयिष्यति कोविदः
क्षणमात्रं न जीवामि त्वां विना जीवनं न हि ॥ ३.२६.७ ॥
मा तप त्वं महाभाग मम जीवनहेतवे
एवमुक्तस्तु मात्रा स विजयोवशतोब्रवीत् ॥ ३.२६.८ ॥
हिरण्याक्षो मातरं प्राह जालं हित्वा विष्णोर्भजनेऽलं कुरुष्व
मयिस्नेहं पुत्रहेतोर्विरूढं सुखदुः खे चेह लोके परत्र ॥ ३.२६.९ ॥
यावत्स्नेहं मयि मातः करोषि तावत्क्लेशं शाश्वतं यास्यसि त्वम्
मातश्च ते मयि पुत्रत्वबुद्धिस्त्वय्यप्येषा मातृबुद्धिर्ममापि ॥ ३.२६.१० ॥
ताते पूज्ये पितृबुद्धिर्ममास्ति तस्मिंस्तुते भर्तृबुद्धिर्हि मिथ्या
निर्माति यस्माद्धरिरेव सर्वं सम्यक्पाता नियतोऽसौ मुरारिः ॥ ३.२६.११ ॥
अतो हि माता हरिरेव सर्वदा त्वन्यासां वै मातृता चोपचारात्
निर्मातृत्वं यदि मुख्यं त्वयि स्याद्द्रोणादीनां जननी का वदस्व ॥ ३.२६.१२ ॥
मातृत्वं वै यदि मुख्यं त्वयि स्याद्धात्रादीनां जननी का वदस्व
यतः सदा याति जगत्तत्तो हरिः सदा पिता विष्णुरजः पुराणः ॥ ३.२६.१३ ॥
सदा पिता मुख्यपिता यदि स्याद्गर्भस्थबाले पालकः को वदस्व
मातापित्रोः पालकत्वं यदि स्यात्कूर्मादीनां पालकौ कौ वदस्व ॥ ३.२६.१४ ॥
मातापित्रोः पालकत्वं यदि स्यात्कृपादीनां रक्षकौ कौ वदस्व
पुन्नामकान्नारकाद्देह भजान्तस्मात्त्रातापुत्रविष्णुः पुराणः ॥ ३.२६.१५ ॥
न तारकोहं नरकाच्च सुभ्रूर्न वै भर्ता नापि पित्रादयश्च
न वै माता नानुजादिश्च सर्वः सर्वत्राता विष्णुरतो न चान्यः ॥ ३.२६.१६ ॥
मायां मदीयां ज्ञानशस्त्रेण च्छित्वा भक्त्या हरेः स्मरणं त्वं कुरुष्व
यद्भक्तिरूपूर्वं स्मरणं नाम विष्णोस्तत्सर्वथा पापहरं च मातः ॥ ३.२६.१७ ॥
यो वा भक्त्या स्मरणं नाम विष्णोः करोत्यसौ पापहरो भविष्यति
अयं देहो दुर्ल्लभः कर्मभूमौ तत्रापि मध्ये भजनं विष्णुमूर्तेः ॥ ३.२६.१८ ॥
आयुर्गतं व्यर्थमेव त्वदीयं शीघ्रं भजेः श्रीनिवासस्य पादम्
उपदिश्यैवं मातरं पुत्रवर्यो दैत्यावेशात्सोभवद्वै तपस्वी ॥ ३.२६.१९ ॥
चतुर्मुखं प्रीणयित्वैव भक्त्या ह्यवध्यत्वं प्राप तस्मान्महात्मा
ततो भूमिं करवद्वेष्टयित्वा निन्ये तदा दैत्यवर्यो महात्मा ॥ ३.२६.२० ॥
श्रीमुष्टदेशे प्रादुरासीद्धरिस्तु वाराहविष्णुस्त्वजनः पुराणः
भित्त्वाचाब्धिं विविशे तं महात्मा रसातले संस्थितं भूतलं च ॥ ३.२६.२१ ॥
स्वदंष्ट्राग्रे स्थापयित्वाऽजगाम तदागमादागतो दैत्यवर्यः
तं कर्णमूले ताडयित्वा जघान प्रसादयामास च पूर्ववद्भुवम् ॥ ३.२६.२२ ॥
सुदिग्गजान्स्थापयित्वा च विष्णुः श्रीमुष्टे वै संस्थितः श्रीवराहः
तदा हरिश्चिन्तयामास विष्णुर्भक्त्या मदीयं मानुषं देहमद्य ॥ ३.२६.२३ ॥
आराधयिष्यन्ति च मां क्व एते तेषां दयां कुत्र वाहं करिष्ये
एवं हरिश्चिन्तयित्वा सुकन्ये वैकुण्ठलोकादचलं शेष संज्ञम्
वीन्द्रस्कन्धे स्थापयित्वा स्वयं च समागतोभूद्भूतलं भूतलेशः ॥ ३.२६.२४ ॥
सुवर्णमुखरीतीरमारभ्य गरुडध्वजः
श्रीकृष्णवेणीपर्यन्तं स्थापया मास तं गिरिम् ॥ ३.२६.२५ ॥
गिरेः पुच्छे तु श्रीशैलं मध्यमेऽहोबलं स्मृतम्
मुखं च श्रीनिवासस्य क्षेत्रं च समुदाहृतम् ॥ ३.२६.२६ ॥
अल्पेन तपसाभीष्टं सिध्यत्यस्मिन्नहोबले
गङ्गादिसर्वतीर्थानि पुण्यानि ह्यत्र संति वै ॥ ३.२६.२७ ॥
य एनं सेवते नित्यं श्रद्धाभक्तिसमन्वितः
ज्ञानार्थी ज्ञानमाप्नोति द्रव्यार्थी द्रव्यमाप्रुयात् ॥ ३.२६.२८ ॥
पुत्रार्थी पुत्रमाप्नोति नृपो राज्यं च विन्दति
यंयं कामयते मर्त्यस्तन्तमाप्नोति सर्वथा ॥ ३.२६.२९ ॥
चिन्तितं साध्यते यस्मात्तस्माच्चिन्तामणिं विदुः
पुष्करिण्याश्च बाहुल्याद्गिरावस्मिन्सरः सु च
पुष्कराद्रिरिति प्राहुरेवं तत्त्वार्थवेदिनः ॥ ३.२६.३० ॥
शातकुंभस्वरूपत्वात्कनकाद्रिं च तं विदुः
वैकुण्ठादागतेनैव वैकुण्ठाद्रिरिति स्मृतः ॥ ३.२६.३१ ॥
अमृतैश्वर्यसंयुक्तो व्यङ्कटाद्रिरिति स्मृतः
व्यङ्कटेशस्य शैलस्य माहात्म्यं यावदस्ति हि ॥ ३.२६.३२ ॥
तावद्वक्तुं समग्रेण न समर्थश्चतुर्मुखः
व्यङ्कटाद्रौ परां भक्तिं ये कुर्वन्ति दिनेदिने
पङ्गर्जङ्घाल एव स्यादचक्षुः पद्मलोचनः ॥ ३.२६.३३ ॥
मूको वाग्मी भवेदेव बधिरः श्रावको भवेत्
वन्ध्या स्याद्बहुपुत्रा च निर्धनः सधनो भवेत् ॥ ३.२६.३४ ॥
एतत्सर्वं गिरौ भक्तिमात्रेणैव भवेद्ध्रुवम्
तत्त्वतो व्यङ्कटाद्रेस्तु स्वरूपं वेत्ति को भुवि ॥ ३.२६.३५ ॥
यस्मादस्य गिरेः पुण्यं माहात्म्यं वेत्ति यः पुमान्
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्
स्वामिपुष्करिणीतीरे रमया सहमोदते ॥ ३.२६.३६ ॥
कल्याणाद्भुतगात्राय कामितार्थप्दायिने
श्रीमद्व्यङ्कटनाथाय श्रीनिवासाय ते नमः ॥ ३.२६.३७ ॥
श्रीस्वामिपुष्करिण्याश्च माहात्म्यं शृणु कन्यके
स्वामिपुष्करिणीमध्ये श्रीनिवासोस्ति सर्वदा ॥ ३.२६.३८ ॥
स्नानं कुर्वन्ति ये तत्र तेषां मुक्तिः करे स्थिता
तिस्रः कोट्योर्धकोटिश्च तीर्थानि भुवनत्रये
तानि सर्वाणि तत्रैव संति तीर्थे हरेः सदा ॥ ३.२६.३९ ॥
तत्तीर्थं श्रीनिवासाख्यं सर्वदेवनमस्कृतम्
तदेव श्रीनिवासस्य मन्दिरं परिकीर्तितम् ॥ ३.२६.४० ॥
तद्दर्शनादेव कन्ये यान्ति पापानि भस्मसात्
एकैकस्नानमात्रेण सत्संगो भवति ध्रुवम् ॥ ३.२६.४१ ॥
सत्संगाज्ज्ञानमासाद्य ज्ञानान्मोक्षं च विन्दति
अधिकारिणां भवेदेवं विपरीतमयोगिनाम् ॥ ३.२६.४२ ॥
तीर्थानां स्नानमात्रेण मोक्षं यान्तीति ये विदुः
ते सर्वे असुरा ज्ञेयास्ते यान्ति ह्यधमां गतिम् ॥ ३.२६.४३ ॥
श्रीनिवासस्य तीर्थेस्मिन्वायुकोणे च कन्यके
आस्ते वायुः सदा विष्णोः पूजां कर्तुमनुत्तमाम् ॥ ३.२६.४४ ॥
वायुतीर्थं च तत्प्रोक्तं हस्तद्वादशकान्तरम्
हस्तषट्कप्रमाणं च पश्चिमे समुदाहृतम्
उत्तरे हस्तषट्कं तु वायुतीर्थमुदाहृतम् ॥ ३.२६.४५ ॥
ये वेष्णवा वैष्णवदासवर्याः स्नानं सुर्युस्तत्र पूर्वं सुकन्ये
मध्वान्तस्थाः श्रीनिवासस्तु नित्यमत्र स्नानात्प्रीयतां मे दयालुः ॥ ३.२६.४६ ॥
ये मध्वतीर्थे स्नातुमिच्छन्ति देवि रुद्रादयो वायुभक्ता महान्तः
सदा स्नानं तत्र कुर्वन्ति देवि प्रातः काले चोदयात्पूर्वमेव ॥ ३.२६.४७ ॥
ये वायुतीर्थे विसृजन्ति देहजं मलं मूत्रं वमनं श्लेष्मकं च
येऽपानशुद्धिं लिङ्गशुद्धिं च कन्ये कुर्वन्ति ते ह्यसुरा राक्षसाश्च ॥ ३.२६.४८ ॥
शृण्वन्ति ये भागवतं पुराणं किं वर्णये तस्य पुण्यं तु देवि
ये कृष्णमन्त्रं तु जपन्ति देवि ह्यष्टा क्षरं मन्त्रवरं सुगोप्यम् ॥ ३.२६.४९ ॥
तेषां हरिः प्रीयते केशवोलं मध्वान्तस्थो नात्र विचार्यमस्ति
एवं दानं तत्र कुर्वन्ति ये वै द्विजाग्र्याणां वैष्णवानां विदां च ॥ ३.२६.५० ॥
तेषां पुण्यं नैव जानन्ति देवा जानात्येवं श्रीनिवासो हरिस्तु
शालग्रामं वायुतीर्थे ददन्ते तेषां पुण्यं वेत्ति स व्यङ्कटेशः ॥ ३.२६.५१ ॥
सुदुर्लभो वायुतीर्थेऽभिषेको निष्कामबुद्ध्या वैष्णवानां च देवि
तत्रापि तीर्थे लभ्यते भाग्ययोगाद्भागवतस्य श्रवणं विष्णुदासैः ॥ ३.२६.५२ ॥
तथैव तीर्थे दुर्लभं तत्र देवि शालग्रामस्य द्विजवर्ये च दानम्
जंबूफलाकारसुनीलवर्णं मुखद्वयं चक्रचतुष्टयान्वितम् ॥ ३.२६.५३ ॥
सुकेसरैः संयुतं स्वर्णचिह्नध्वजां कुशैर्वज्रचिह्नैर्यवैश्च
जानार्दनीं मूर्तिमाहुर्महान्तो दानं तस्या दुर्लभं तत्र तीर्थे ॥ ३.२६.५४ ॥
अत्युत्तमं मूर्तिदानं तु भद्रे सुदुर्ल्लभं परमं नात्र लोभः
सुदुर्लभं बहुदोग्ध्याश्च गृष्टेर्दानं तथा वस्त्ररत्नादिकानाम् ॥ ३.२६.५५ ॥
अत्युत्तमं द्रव्यदानं च देवि स्वापेक्षितं दानमाहुर्महान्तः
स्वस्यानपेक्षं फलदानं च वस्त्रादानं तस्य व्यर्थमाहुर्महान्तः ॥ ३.२६.५६ ॥
अत्युत्तमं गृष्टिदानं च पुण्यं नैवाप्यते दुग्धदोहाश्च गावः
अत्युत्तमे वस्त्रदाने सुबुद्धिः सुदुर्घटा परमा वै जनानाम् ॥ ३.२६.५७ ॥
अत्युत्तमं भागवतस्य पुस्तकं सुदुर्घटं वायुतीर्थं च कन्ये
अत्युत्तमं द्रव्यदानं च देवि सुदुर्घटं वायुतीर्थं नृणां हि
सुदुर्लभो वैष्णवैस्तत्त्वविद्भिर्हरेर्विचारो वायुतीर्थे च कन्ये ॥ ३.२६.५८ ॥
श्रीनिवासस्य तीर्थस्य उत्तरस्यां दिशि स्थितम्
चन्द्रतीर्थ मिति प्रोक्तं तत्रास्ते चन्द्रमाः सदा ॥ ३.२६.५९ ॥
श्रीनिवासस्य पूजां च तत्र स्थित्वा करोत्ययम्
तत्र स्नानं प्रकुर्वन्ति पुण्यदेशे च कन्यके ॥ ३.२६.६० ॥
गुरुतल्पादिपापेभ्यो मुच्यन्ते नात्र संशयः
तत्र स्नात्वा पूर्वभागे शालग्रामं ददाति यः ॥ ३.२६.६१ ॥
ज्ञानद्वारा मोक्षमेति नात्र कार्या विचारणा
दधिवामनमूर्तेश्च दानं तत्र सुदुर्लभम् ॥ ३.२६.६२ ॥
बदरीफलमात्रं तु वतुलं नीलवर्णकम्
प्रसन्नवदनं सूक्ष्मं सुस्निग्धं कन्यके शुभे ॥ ३.२६.६३ ॥
चक्रद्वयसमायुक्तं गौपूरैः पञ्चभिर्युतम्
चापबाणसमायुक्तमनतं कुण्डलाकृतिम् ॥ ३.२६.६४ ॥
वनमाल सुखयुतं मूर्ध्नसाहस्रसंयुतम्
रौप्यबिन्दुसमायुक्तं सव्ये भद्रार्धमात्रकम् ॥ ३.२६.६५ ॥
चन्द्रेण सहितं देवि दधिवामनमुच्यते
एतादृशं कलौ नॄणां दुर्लभं बहुभाग्यदम्
लक्ष्मीनारायणसमां तां मूर्तिं विद्धि भामिनि ॥ ३.२६.६६ ॥
सुदुर्लभं तस्य मूर्तेश्च दानं तच्चन्द्रतीर्थे श्रवणं दुर्घटं च
सम्यक्स्वरूपं दधिवामनस्य सुदुर्घटं श्रवणं वैष्णवाच्च ॥ ३.२६.६७ ॥
तत्र स्नात्वा वामनस्य स्वरूपश्रवणाद्विदुर्दानफलं समं च
दशहस्तप्रमाणं तु चन्द्रतीर्थमुदाहृतम् ॥ ३.२६.६८ ॥
मध्याह्ने दुर्लभं स्नानं नृणां तत्र सुमङ्गले
तत्र स्थित्वा धन्यनरः सदा भजति वै हरिम् ॥ ३.२६.६९ ॥
वराहमूर्तिदानं तु शालग्रामस्य दुर्लभम्
जंबूफलप्रमाणं तु एतद्वै कुक्कुटाण्डवत् ॥ ३.२६.७० ॥
वदनं वलयाकारं प्रमाणं चणकादिवत्
देवस्य वामभागे च मध्यदेशं विहाय च ॥ ३.२६.७१ ॥
चक्रद्वयसमायुक्तंमूर्धदेशे च भामिनि
सुवर्णबिन्दुना युक्तं भूवराहाख्यमुच्यते ॥ ३.२६.७२ ॥
पूजां कृत्वा भूवराहस्य मर्तेर्दानं दत्त्वा श्रवणं चापि कृत्वा
तत्र स्थितं भूवराहं च दृष्ट्वा स वै नरः कृतकृत्यो हि लोके ॥ ३.२६.७३ ॥
तत्र स्नात्वा भूवराहस्य मर्तेः शृणोति यो लक्षणं सम्यगेव
स तेन पुण्यं समुपैति देवि स मुक्तिभाङ्नात्र विचार्यमस्ति ॥ ३.२६.७४ ॥
ईशानकोणे श्रीनिवासस्य देवि रौद्रं तीर्थं परमं पावनं च
तत्र स्थित्वा रुद्रदेवो महात्मा पूजां करोति श्रीनिवासस्य नित्यम् ॥ ३.२६.७५ ॥
हस्ताष्टकं तत्प्रमाणं वदन्ति तत्र स्नानं वैष्णवैः कार्यमेव
तत्र स्नात्वा प्रयतो वै मुरारेः कथां दिव्यां शृणुयादादरेण
स्नानं पानं तत्र दानं च कुर्याल्लक्ष्मीनृसिंहप्रीयते देवि नित्यम्३.२६.७६ ॥
बदरीफलमात्रं च वर्तुलं बिन्दुसंयुतम् ॥ ३.२६.७७ ॥
देवस्य वामभागे तु चक्रद्वयसमन्वितम्
सुवर्णरेखासंयुक्तं किञ्चिद्रक्तसमन्वितम् ॥ ३.२६.७८ ॥
वैश्यवर्णं सवदनं पद्मरेखादिचिह्नितम्
लक्ष्मीनृसिंहं तं विद्धि भुक्तिमुक्तिप्रदायकम् ॥ ३.२६.७९ ॥
एता दृशं गण्डिकायाः शिलाया मूर्तेर्दानं दुर्घटं विद्धि वीन्द्र
तत्र स्नात्वा श्रीनृसिंहस्वरूपं लक्ष्मीपतेः शृणुयाद्भक्तियुक्तः ॥ ३.२६.८० ॥
मूर्तेर्दानात्फलमाप्नोति देवि सत्यंसत्यं नात्र विचार्यमस्ति ॥ ३.२६.८१ ॥
ईशानशक्रयोर्मध्ये ब्रह्मतीर्थमुदाहृतम्
दुर्लभं मानुषाणां तु स्नानं सर्वार्थसाधकम् ॥ ३.२६.८२ ॥
शालग्रामस्य दानं तु दुर्लभं तत्र वै नृणाम्
लक्ष्मीनारायणस्यैव मूर्तेर्दानं सुदुर्लभम् ॥ ३.२६.८३ ॥
स्थलमौदुंबरसमं तत्प्रमाणमुदाहृतम्
छत्त्राकारं वर्तुलं च प्रसन्नवदनं शुभम् ॥ ३.२६.८४ ॥
चणकप्रदेशमात्रं च वदनं समुदाहृतम्
सव्ये दक्षिणपार्श्वे च समयोः पुष्कलान्वितम् ॥ ३.२६.८५ ॥
गोयूथवत्सवर्णं च चतुश्चक्रसमन्वितम्
गोखुरैश्च समायुक्तं सुवर्णकिणसंयुतम् ॥ ३.२६.८६ ॥
वनमालाभिसंयुक्तं वज्रपुङ्खैश्च संयुतम्
एतादृशीं दरेर्मूर्ति लक्ष्मीनारायणं विदुः ॥ ३.२६.८७ ॥
कलौ नृणां तस्य लाभो दुर्लभः संस्मृतो भुवि
दानं च सुतरां देवि दर्लभं किं वदामि ते ॥ ३.२६.८८ ॥
ब्रह्मतीर्थे च संस्नाय श्रोतव्या वै हरेः कथा
गण्डिकायाः शिलायाश्च लक्ष्मीनारायणस्य तु ॥ ३.२६.८९ ॥
लक्षणं यो विजानाति तदा तत्सदृशं फलम्
प्राप्नोत्येव न संदेहो नात्र कार्या विचारणा ॥ ३.२६.९० ॥
श्रीनिवासस्य तीर्थस्य पूर्वे स्यादिन्द्रतीर्थकम्
श्रीनिवासस्य पूजां तु कर्तुमास्ते शचीपतिः ॥ ३.२६.९१ ॥
शालग्रामशिलादानं कर्तव्यं श्रोत्रियायवै
शालग्रामशिलादानं हत्याकोटिविनाशनम् ॥ ३.२६.९२ ॥
तस्मिंस्तीर्थे तु यो देवि सीतारामशिलाभिधाम्
ददाति भूतले भद्रे भूपतेः सदृशो भवेत् ॥ ३.२६.९३ ॥
सीतारामशिला देवि द्विविधा संप्रकीर्तिता
पञ्चचक्रयुता काचित्षट्रचक्रेण च संयुता ॥ ३.२६.९४ ॥
तत्रापि षट्रचक्रयुता ह्युत्तमा संप्रकीर्तिता
पञ्चचक्रयुतायाश्च फलं द्विगुणमीरितम् ॥ ३.२६.९५ ॥
कुक्कुटाण्डप्रमाणं च सुसिग्धं नीलवर्णकम्
वदनत्रयसंयुक्तं सट्चक्रैः केसरैर्युतम् ॥ ३.२६.९६ ॥
स्वर्णरेखासमायुक्तं ध्वजवज्राङ्कुशैर्युतम्
एतादृशं तु वै भद्रे सीतारामाभिधं स्मृतम् ॥ ३.२६.९७ ॥
वदनेवन्दने देवि सीतारामस्य कोशकम्
दुर्लभं तु कलौ नॄणां स्वसाम्राज्यप्रदं शुभम् ॥ ३.२६.९८ ॥
इन्द्रतीर्थे महादेवि सीताराम भिधाशिला
या तद्दानं दुर्लभं तन्नाल्पस्य तपसः फलम् ॥ ३.२६.९९ ॥
दानस्य शक्त्यभावे तु श्रोतव्यं लक्षणं हरेः
शालग्राम शिलादानाद्यत्फलं तत्फलं लभेत् ॥ ३.२६.१०० ॥
आग्नेयकोणे श्रीनिवासस्य देवि तीर्थं त्वास्ते वह्निसंज्ञं सुशस्तम्
स वह्निदेवः श्रीनिवासस्य पूजां कर्तुं ह्यास्ते सर्वदा तीर्थमध्ये ॥ ३.२६.१०१ ॥
यो वा तीर्थे वह्निसंज्ञे च देवि भक्त्या स्नानं कुरुतेऽजं स्मरन्हि
ज्ञानद्वारा मोक्षमाप्नोति देवि तत्र स्नानं दुर्ल्लभं वै नृणां च ॥ ३.२६.१०२ ॥
ज्ञात्वा स्नानं दुष्करं तीर्थराजे भक्तिस्तस्मिन्दुर्ल्लभा चैव देवि
शालग्रामे तच्छिलायाश्च दानं सुदुर्लभं वासुदेवाभिधायाः ॥ ३.२६.१०३ ॥
ह्रस्वं तथा वर्तुलं नीलवर्णं सूक्ष्मं मुखं मुखचक्रं सुशुद्धम्
सुवेणुयुक्तं वासुदेवाभिधेयं दानं कलौ दुर्लभं तस्य भद्रे ॥ ३.२६.१०४ ॥
दाने तस्याः शक्त्य भावे च देवि स्नात्वा तीर्थे वासुदेवाभिधस्य
सम्यक्श्राव्यं लक्षणं वै शिलायास्तयोस्तुल्यं फलमाहुर्महान्तः ॥ ३.२६.१०५ ॥
दक्षिणे श्रीनिवासस्य यमतीर्थं च संस्मृतम्
तत्रास्ते यमराजस्तु पूजां कर्तुं हरेः सदा ॥ ३.२६.१०६ ॥
तत्र स्नानं च दानं चाप्यक्षयं परमं स्मृतम्
शालग्रामशिलादानं कार्यं तत्र महामुने ॥ ३.२६.१०७ ॥
पट्टाभिरामसंज्ञायाः शिलाया दानमिष्यते
तच्चूतफलवत्स्थूलं वदनत्रयसंयुतम् ॥ ३.२६.१०८ ॥
शिरश्चक्रेण रहितं सप्तचक्रैः समन्वितम्
नीलवर्णं स्वर्णरेखं गोशुराद्यैः समन्वितम् ॥ ३.२६.१०९ ॥
पट्टवर्धनरामं तु दुर्लभं बहुभाग्यदम्
पट्टवर्धनरामं तु यो ददाति च तत्र वै
पट्टाभिषिक्तो भवति नात्र कार्या विचारणा ॥ ३.२६.११० ॥
श्रीनिवासस्य नैरृत्ये नैरृतं तीर्थमुत्तमम्
आस्ते हि निरृतिस्तत्र पूजां कुर्तुं च सर्वदा ॥ ३.२६.१११ ॥
तत्र स्नानं प्रकर्तव्यं पुनर्जन्म न विद्यते
शालग्रामशिलायाश्चः पुरुषोत्तमसंज्ञिकाम् ॥ ३.२६.११२ ॥
मूर्तिं ददाति यो मर्त्यः स याति परमां गतिम्
औदुंबरफलाकारं प्रसन्नवदनं शुभम् ॥ ३.२६.११३ ॥
चक्रद्व्यसमायुक्तं शिरश्चक्रसमन्वितम्
सुवर्णबिन्दुसंयुक्तं वज्राङ्कुशसमान्वतम् ॥ ३.२६.११४ ॥
तन्मूर्तिदानं दुर्लभं तत्र देवः प्रीणाति यस्माच्छ्रीनिवासो महात्मा
यदा दानं दुर्घटं स्याच्च देवि तदा श्रोतव्यं लक्षणं तस्य मूर्तेः ॥ ३.२६.११५ ॥
पाशिनैरृतयोर्मध्ये शेषतीर्थं परं स्मृतम्
तत्र स्नात्वा शेषमूर्तिं प्रददाति द्विजातये ॥ ३.२६.११६ ॥
स याति परमं लोकं पुनरावृत्तिवर्जितम्
औदुंबरफलाकारं कुण्डलाकृतिमेव च ॥ ३.२६.११७ ॥
शेषवद्वदनं तस्य तस्मिंश्चक्रद्वयं स्मृतम्
फलं तमेकचक्रेण संयुतं वल्मिकान्वितम् ॥ ३.२६.११८ ॥
किञ्चिद्वर्णसमायुक्तं शेषमूर्ति मतिस्फुटम्
सुप्ता प्रबुद्धा द्विविधा शेषमूर्तिरुदाहृता ॥ ३.२६.११९ ॥
फणोन्नता प्रबुद्धा स्यात्सप्तलक्षफणान्विता
तत्रापि दुर्लभा सुप्ता महाभाग्यकरीस्मृता ॥ ३.२६.१२० ॥
इह लोके परत्रापि मोक्षदा नात्र संशयः
नवचक्रादुपक्रम्य विंशत्यन्तं च यत्र सः ॥ ३.२६.१२१ ॥
अनन्त इति विज्ञेयो ह्यनन्तफलदायकः
विश्वंभरः स विज्ञेयो विंशत्यूर्ध्वं वरानने ॥ ३.२६.१२२ ॥
तत्रापि केसरैश्चैक्रर्लक्षणैश्च समन्वितम्
कलौ तु दुर्लभं नणां तद्दानं चातिदुर्लभम् ॥ ३.२६.१२३ ॥
स्नानं कृत्वा शेषतीर्थे विशुद्धेनैव चेतसा
एतेषां लक्षणं श्रुत्वा प्रयाति परमां गतिम् ॥ ३.२६.१२४ ॥
ततः परं महाभागे वारुणं तीर्थमुत्तमम्
तत्रास्ते वरुणो देवः पूजां कर्तुं हरेः सदा ॥ ३.२६.१२५ ॥
तत्र स्नानं प्रकर्तव्यं दातव्यं दानमुत्तमम्
शिशुमारं च मत्स्यं च त्रिविक्रममथापि वा
दातव्यं भूतिकामेन तीर्थेस्मिन्विरवर्णिनि ॥ ३.२६.१२६ ॥
जंबूफलसमाकारा पुच्छे सूक्ष्मा सबिन्दुका
चक्रत्रया च वदने पुच्छोपरि सचक्रका ॥ ३.२६.१२७ ॥
श्रीवत्सबिन्दुमालाढ्या मत्स्यमूर्तिरुदाहृता
पुच्छादधश्चक्रयुतं शिशुमारमुदाहृतम् ॥ ३.२६.१२८ ॥
वक्रचक्रयुतश्चेत्स्यात्त्रिविक्रम उदाहृतः
एतेषां लक्षणं श्रुत्वा वारुणे तीर्थ उत्तमे ॥ ३.२६.१२९ ॥
एतद्दानफलं प्राप्य मोदते विष्णुमन्दिरे
पूर्वौक्ता मूर्तयो यस्मिन् गृहे तिष्ठन्ति भामिनि
भागीरथी तीर्थवरा संनिधत्ते न संशयः ॥ ३.२६.१३० ॥
स्वामि पुष्करिणीस्नानं दुर्घटं तु कलौ नृणाम्
तत्र स्थितानां तीर्थानां स्नानं चाप्यतिदुर्घटम् ॥ ३.२६.१३१ ॥
शालग्रामशिलादानं दुर्घटं च तथा स्मृताम्
स्वामिपुष्करिणीतीरे कन्यादानं सुदुर्घटम् ॥ ३.२६.१३२ ॥
दुर्घटं कपिलादानं भक्ष्यदानं सुदुर्घटम्
स्वामिपुष्करिणीतीर्थे तीर्थेष्वन्येषु भामिनि ॥ ३.२६.१३३ ॥
स्नानं कुरु यथान्या यं शय्यादानं तथा कुरु
जैगीषव्येन मुनिना त्वेवमुक्ता च कन्यका ॥ ३.२६.१३४ ॥
स्वामिपुष्करिणीस्नानं सा चकार धृतव्रता
तीर्थेष्वेतेषु सुस्नाता दानं चक्रे सुभामिनी ॥ ३.२६.१३५ ॥
उवास तत्र सा दवी त्रिः सप्तकन्दिनानि च
स्वामिपुष्करणीतीरमहिमानं शृणोति यः
स याति परमां भक्तिं श्रीनिवासे जगन्मये ॥ ३.२६.१३६ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे व्यङ्कटगिरिमाहात्म्ये स्वामिपुष्करिण्यादितीर्थतत्रत्यदेवतदीयशालग्रामलक्षण तद्दानादिवर्णनं नाम षड्विंशोध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २७
श्रीकृष्ण उवाच
सा गता स्नातुकामाथ नन्दां पापनिवारिणीम्
पप्रच्छ तं गुरुं विप्रं विनयावनता सुधीः ॥ ३.२७.१ ॥
किन्नामेयं नदी विप्र किं कार्यं चात्र मे वद
जैगीषव्यस्त्वेवमुक्तो वाक्यमेतदुवाच ह ॥ ३.२७.२ ॥
जैगीषव्य उवाच
शृणु भद्रे प्रवक्ष्यामि माहात्म्यं पापनाशनम्
इयं नदी महाभागे सदा पापविनाशिनी ॥ ३.२७.३ ॥
ब्रह्महत्यादिपापौघो यत्र स्नानेन नश्यति
प्रत्यक्षं दृश्यते ह्यत्र स्नानं कर्तुं समुद्यतैः ॥ ३.२७.४ ॥
जलं चाशुभ्ररूपेण पापैश्च परिदृश्यते
यावच्छुभ्रोदकं देवि तावत्सनानं च कारयेत् ॥ ३.२७.५ ॥
यावच्छुभ्रोदकं नैव तावत्पापं न नश्यति
शुद्धोदके समायाते पापं नष्टमिति ध्रुवम् ॥ ३.२७.६ ॥
कलावित्थं विशालाक्षि महिमा दृश्यते भुवि
अत्र स्नानं प्रकर्तव्यं दातव्यं दान मुत्तमम्
ततश्च ज्ञानमासाद्य विविष्णुलोकं स गच्छति ॥ ३.२७.७ ॥
गुरुस्त्रीगमनाच्चन्द्र अहल्यायां गतो हरिः
सुरापानाच्च शुक्रस्तु सुवर्णहरणाद्बलिः ॥ ३.२७.८ ॥
ब्रह्महत्यायाश्च रुद्रो नागो दत्तापहारकः
सूतस्य हननाद्रामो निर्मुक्तो ह्यत्र भामिनि ॥ ३.२७.९ ॥
नानेन सदृशं तीर्थं न भूतं न भविष्यति
स्नानं कुरु महाभागे तेन सिद्धिं ह्यवाप्स्यसि ॥ ३.२७.१० ॥
जैगीषव्येण मुनिना पित्रा सह च कन्यका
स्नानं चकार विधिवदुदतिष्ठच्च भामिनि ॥ ३.२७.११ ॥
यावच्च पौरुषं सूक्तं तावत्कालं हि तिष्ठति
पश्चाज्जप्त्वा महामन्त्रं वेङ्कटेशाभिधं परम् ॥ ३.२७.१२ ॥
द्विजातीन्प्रीणयित्वा सा वस्त्रद्रव्यादिभूषणैः
तस्माच्च प्रययौ देवी कमारीतीर्थमुत्तमम् ॥ ३.२७.१३ ॥
कुमारीमहिमानं च श्रुत्वा स्नानं चकार सा
पुनरावृत्य सा देवी ह्यन्तरा विरजानदीम् ॥ ३.२७.१४ ॥
दृष्ट्वा पप्रच्छ सा देवी जैगीषव्यं गुरुं प्रभुम्
किं संज्ञिकेयं विप्रेन्द्र किं कार्यं ह्यत्र मे वद ॥ ३.२७.१५ ॥
जैगीषव्यः पृष्ट एव मुवाच करुणानिधिः
इयं भागीरथी कन्ये आयाति ह्यन्तरेण तु ॥ ३.२७.१६ ॥
अतः सा प्रोच्यते ह्यन्तर्गङ्गेति परमर्षिभिः
कन्ये त्वस्यास्तु सलिलं श्रीनिनिवासप्रियं सदा ॥ ३.२७.१७ ॥
अत्र स्नानं यः करोति स याति परमां गतिम्
स्नानं चकार सा कन्या जले परमपावने ॥ ३.२७.१८ ॥
दानादिकं तथा ज्ञात्वा जजाप परमं मनुम्
श्रीनिवाससमीपं तु पुनरागत्य भामिनी ॥ ३.२७.१९ ॥
अङ्गप्रदक्षिणं चक्रे भक्त्या वेङ्कटनायकम्
ब्राह्मणादीन्प्रीणयित्वा वस्त्रगन्धादिभूषणैः ॥ ३.२७.२० ॥
पुनः परदिने प्रातः स्वामिपुष्करिणीजले
स्नानं कृत्वा महाभागा ययौ तुंबुरुसंज्ञिकाम् ॥ ३.२७.२१ ॥
पप्रच्छ तं गुरुं देवी नाथं किन्नामिका त्वयम्
जैगीषव्य उवाच
इयं तुंबरुकाभिज्ञा नारी वै वरवर्णिनी ॥ ३.२७.२२ ॥
पुरा तुं बुरुणा साकं नारदस्तपसि स्थितः
अत्र प्रादुरभूद्विष्णुर्नारदस्य हिताय च ॥ ३.२७.२३ ॥
स्नानं यः कुरुते ह्यत्र स याति परमां गतिम्
अत्र स्नानं मनुष्याणां सर्वेषां दुर्लभं कलौ ॥ ३.२७.२४ ॥
अत्र स्नानं मनुष्याणां नाल्पस्य तपसः फलम्
तत्र स्नात्वा च पीत्वा च दत्त्वा दानान्यकेशः ॥ ३.२७.२५ ॥
पुनरागत्य सा देवी श्रीनिवासं ननाम ह
तस्मिमन्दिने ब्राह्मणांश्च तर्पयामास भमिनि ॥ ३.२७.२६ ॥
स्वामिपुष्करिणीं प्राप्य दीपान्प्राज्वालयत्सती
सोपानेषु महाभागा दीपावलिभिरञ्जसा
प्रीणयामास देवेशं श्रीनिवासं जगद्गुरुम् ॥ ३.२७.२७ ॥
पुनः परदिने प्राप्ते शक्रतीर्थमनुत्तमम्
कपिलाख्योर्ध्वदेशे तु तत्तीर्थं पावनं स्मृतम् ॥ ३.२७.२८ ॥
तत्र स्नात्वा महाभागा तदूर्ध्वं स्नापयेत्स्वयम्
विष्वसेनसरस्तत्र सर्वपापविनाशनम् ॥ ३.२७.२९ ॥
तत ऊर्ध्वं महाभागा ययौ तत्र ददर्श सा
पञ्चायुधानां तीर्थानि तेषु स्नानं चकार सा ॥ ३.२७.३० ॥
तदूर्ध्वं चाग्निकुण्डं स्याद्दुरारोहं ततोग्रतः
तस्योपरि ब्रह्मतीर्थं ब्रह्महत्याविमोचनम् ॥ ३.२७.३१ ॥
सप्तर्षीणां तदूर्ध्वं तु पुण्यतीर्थं च सत्फलम्
दशाधिकफलं तेषा तीर्थानामुत्तरोत्तरम् ॥ ३.२७.३२ ॥
एतेषां चैव माहात्म्यं को वा वक्तुमिहार्हति
ऋषितीर्थेषु सा कन्या चचार तप उत्तमम् ॥ ३.२७.३३ ॥
ममावतारपर्यन्तं चरित्वा तप उत्तमम्
योगधारण या देहं त्यक्त्वा जांबवतो गृहे ॥ ३.२७.३४ ॥
जाता जांबवती नाम ववृधे तस्य वेश्मनि
तस्याः पिता जांबवान्स समादात्कन्यकां तदा
रुक्म्या अनं तरा सैषा मम भार्या खगेश्वर ॥ ३.२७.३५ ॥
इदं हि परमाख्यानं वेङ्कटाद्रेर्महागिरेः
को वा वर्णयितुं शक्तो मदन्यः पुरुषो भुवि ॥ ३.२७.३६ ॥
वेङ्कटेशस्य नैवेद्यं सदा लक्ष्मीः करोति वै
ब्रह्मा पूजयते नित्यमेवं शास्त्रस्य निर्णयः ॥ ३.२७.३७ ॥
नैवेद्यभक्षिणां पुंसामुपहासं न कारयेत्
स्वस्य प्राशस्त्यभावे तु नैवेद्यादि गुडादिकम्
ग्राह्यमेव न संदेहो अन्यथा नारकी भवेत् ॥ ३.२७.३८ ॥
श्रीनिवासात्परो देवो न भूतो न भविष्यति
स्वयं च पाचयित्वात्वं घृतपक्वादिकं तथा
श्रीनिवासस्य नैवेद्यं दत्त्वा भोजनमाचरेत् ॥ ३.२७.३९ ॥
इदं तु परमं गोप्यं तवोक्तं च खगेश्वर
न कस्यापि च वक्तव्यं गोप्यत्वात्खगसत्तम
इतः परं प्रवक्ष्यामि तारतम्यं शृणु प्रभो ॥ ३.२७.४० ॥
इति श्रीगारुडे महापुराणे उत्त दृ तृ दृ ब्रह्म दृ कन्याकृतनानातीर्थयात्रादिनिरूपणं नाम सप्तविंशोऽध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २८
या पूर्वसर्गे दक्षपुत्री सती तु रुद्रस्य पत्नी दक्षयज्ञे स्वदेहम्
विसृज्य सा मेनकायां च जज्ञे धराधराद्धेमवतो वै सकाशात् ॥ ३.२८.१ ॥
सा पार्वता रुद्रपत्नी खगेन्द्र या शेषपत्नी वारुणी नाम पूर्वा
सैवागता बलभद्रेण रन्तुं द्विरूपमास्थाय महापतिव्रता ॥ ३.२८.२ ॥
श्रीरित्याख्या इन्दिरावेशयुक्ता तस्या द्वितीया प्रतिमा मेघरूपा
शेषण रूपेण यदा हि वीन्द्र तपश्चचार विष्णुना सार्धमेव ॥ ३.२८.३ ॥
तदैव देवी वारुणी शेषपत्नी तपश्च क्रे इन्दिराप्रीतये च
तदा प्रीता इन्दिरा सुप्रसन्ना उवाच तां वारुणीं शेषपत्नीम् ॥ ३.२८.४ ॥
यदा रामो वैष्णवांशेन युक्तः संपत्स्यते भूतले रौहिणेयः
मय्यावेशात्संयुता त्वं तु भद्रे श्रीरित्याख्या वलभद्रस्य रन्तुम् ॥ ३.२८.५ ॥
संपत्स्यसे नात्र विचार्यमस्तीत्युक्त्वा सा वै प्रययौ विष्णुलोके
श्रीलक्ष्म्यंशाच्छ्रीरितीड्यां समाख्यां लब्ध्वा लोके शेषपत्नी बभूव ॥ ३.२८.६ ॥
यदाहीशो विपुलामुद्धरेच्च तदा रामः श्रीभिदासंगमे च
करोति तोषत्सर्वदा वै रमायास्तस्याप्यावेशो व्यंस्त्रितमोनसंगम् ॥ ३.२८.७ ॥
या रेवती रैवतस्यैव पुत्री सा वारुणी बलभद्रस्य पत्नी
सौपर्णनाम्नी बलपत्नी खगेन्द्र यास्तास्तिस्रः षड्विष्णोश्च स्त्रीभ्यः
द्विगुणाधमा रुद्रशेषादिकेभ्यो दशाधमा त्वं विजानीहि पौत्र ॥ ३.२८.८ ॥
गरुड उवाच
रामेण रन्तुं सर्वदा वारुणी तु पुत्रीत्वमापे रेवतस्यैव सुभ्रूः
एवं त्रिरूपा वारुणी शेषपत्नी द्विरूपभूता पार्वती रुद्रपत्नी ॥ ३.२८.९ ॥
नीचाया जांबवत्याश्च शेषसाम्यं च कुत्रचित्
श्रूयते च मया कृष्ण निमित्तं ब्रूहि मे प्रभो ॥ ३.२८.१० ॥
उमायाश्च तथा रुद्रः सदा बहुगुणाधिकः
एवं त्वयोक्तं भगवन्निश्चयार्थं मम प्रभो ॥ ३.२८.११ ॥
रेवती श्रीयुता श्रीश्च शेषरूपा च वारुणी
सौपर्णि पार्वती चैव तिस्रः शेषाशतो वराः ॥ ३.२८.१२ ॥
इत्यपि श्रूयते कृष्ण कुत्रचिन्मधुसूदन
निमित्तं ब्रूहि मे कृष्ण तवशिष्याय सुव्रत ॥ ३.२८.१३ ॥
श्रीकृष्ण उवाच
विज्ञाय जांबवत्याश्च तदन्येषां खगाधिप
उत्तमानां च साम्यं तु उत्तमावेशतो भवेत् ॥ ३.२८.१४ ॥
अवराणां गुणस्यापि ह्युत्तमानामधीनता
अस्तीति द्योतनायैव शतांशाधिकमुच्यते ॥ ३.२८.१५ ॥
यथा मयोच्यते वीन्द्र तथा जानीहि नान्यथा
तदनन्तरजान्वक्ष्ये शृणु काश्यपजोत्तम ॥ ३.२८.१६ ॥
चतुर्दशसु चेन्द्रेषु सप्तमो यः पुरन्दरः
वृत्रादीनां शरीरं तु पुरमित्युच्यते बुधैः ॥ ३.२८.१७ ॥
तं दारयति वज्रेण यस्मात्तस्मात्पुरन्दरः
चतुर्दशसु चेन्द्रेषु मन्त्रद्युम्नस्तु षष्ठकः ॥ ३.२८.१८ ॥
मन्त्रानष्ट महावीन्द्र देवो द्योतयते यतः
मन्त्रद्युम्नस्ततो लोके उभावप्येक एव तु ॥ ३.२८.१९ ॥
मन्त्रद्युम्नावतारोभूत्कुन्तीपुत्रोर्जुनो भुवि
विष्णोर्वायोरनन्तस्य चेन्द्रस्य खगसत्तम ॥ ३.२८.२० ॥
पार्थश्चतुर्भिः संयुक्त इन्द्र एव प्रकीर्तितः
चतुर्थेपि च वायोश्च विशेषोस्ति सदार्जुन ॥ ३.२८.२१ ॥
वालिर्नामा वानरस्तु पुरन्दर इति स्मृतः
चन्द्रवंशे समुत्पन्नो गाधिराजो विचक्षणः ॥ ३.२८.२२ ॥
मन्त्रद्युम्नावतारः स विश्वामित्रपिता स्मृतः
वेदोक्तमन्त्रा गाः प्रोक्ता धिया संधारयेद्यतः ॥ ३.२८.२३ ॥
अतो गाधिरिति प्रोक्तस्तदर्थं भूतले ह्यभूत्
इक्ष्वाकुपुत्रो वीन्द्र विकुक्षिरिति विश्रुतः ॥ ३.२८.२४ ॥
स एवेन्द्रावतारोभूद्धरिसेवार्थमेव च
विशेषेण हरिं कुक्षौ विज्ञानाच्च हरिः सदा ॥ ३.२८.२५ ॥
अतो विकुक्षिनामासौ भूलोके विश्रुतः सदा
रामपुत्रः कुशः प्रोक्त इन्द्र एव प्रकीर्तितः ॥ ३.२८.२६ ॥
वाल्मीकिऋषिणा यस्मात्कुशेनैव विनिर्मितः
अतः कुश इति प्रोक्तो जानकीनन्दनः प्रभुः ॥ ३.२८.२७ ॥
इन्द्रद्युम्नः पुरेद्रस्तु गाधी वाली तथार्जुनः
विकुक्षिः कुश एवैते सप्त चेन्द्राः प्रकीर्तिताः ॥ ३.२८.२८ ॥
यः कृष्णपुत्त्रः प्रद्युम्नः काम एव प्रकीर्तितः
प्रकृष्टप्रकाशरूपत्वात्प्रद्युम्न इति नामवान् ॥ ३.२८.२९ ॥
या रामभ्राता भरतः काम एवाभवद्भुवि
रामाज्ञां भरते यस्मात्तस्माद्भरतनामकः ॥ ३.२८.३० ॥
चक्राभिमानि कामस्तु सुदर्शन इति स्मृतः
ब्रह्मैव कृष्णपुत्रस्तु सांबो जाम्बवतीसुतः ॥ ३.२८.३१ ॥
कामावतारो विज्ञेयः संदेहो नात्र विद्यते
यो रुद्रपुत्रः स्कन्दस्तु काम एव प्रकीर्तितः ॥ ३.२८.३२ ॥
रिपूनास्कं दते नित्यमतः स्कन्द इति स्मृतः
यो वा सनत्कुमारस्तु ब्रह्मपुत्रः खगाधिप
कामावतारो विज्ञेयो नात्र कार्या विचारणा ॥ ३.२८.३३ ॥
सुदर्शनश्च परमः प्रद्युम्नः सांब एव च
सनत्कुमारः सांबश्चषडेते कामरूपकाः ॥ ३.२८.३४ ॥
ततश्च इन्द्रकामावप्युमादिभ्यो दशावरौ
तयोर्मध्ये तु गरुड काम इन्द्राधमः स्मृतः ॥ ३.२८.३५ ॥
प्राणस्त्वहङ्कार एव अहङ्कारकसंज्ञकः
गरुत्मदंशो विज्ञेयः कामेन्द्राभ्यां दशाधमः ॥ ३.२८.३६ ॥
तदनन्तरजान्वक्ष्ये शृणु वीन्द्र समाहितः
श्रवणान्मोक्षमाप्नोति महापापाद्विमुच्यते ॥ ३.२८.३७ ॥
कामपुत्रोनिरुद्धोऽपि हरेरन्यः प्रकीर्तितः
स एवाभूद्धरेः सेवां कर्तुं रामानुजो भुवि ॥ ३.२८.३८ ॥
शत्रुघ्न इति विख्यातः शत्रून्सूदयते यतः
अनिरुद्धः कृष्णपुत्रो प्रद्युम्नाद्योऽजनिष्ट ह ॥ ३.२८.३९ ॥
संकर्षणादिरूपैस्तु त्रिभिराविष्ट एव सः
एवं द्विरूपो विज्ञेयो ह्यनिरुद्धो महामतिः ॥ ३.२८.४० ॥
कामभार्या रतिर्या तु द्विरूपा संप्रकीर्तिता
रुग्मपुत्री रुग्मवती कामभार्या प्रकीर्तिता ॥ ३.२८.४१ ॥
अतिप्रकाशयुक्तत्वात्तस्माद्रुग्मवती स्मृता
दुर्योधनस्य या पुत्री लक्षणा सा रतिः स्मृता ॥ ३.२८.४२ ॥
काष्ठा सांबस्य भार्या सा लक्षणं संयुनक्त्यतः
लक्षणाभिधयाभूमौ दुष्ट वीर्योद्भवा ह्यपि ॥ ३.२८.४३ ॥
एवं द्विरूपा विज्ञेया कामभार्या रतिः स्मृता
स्वायंभुवो ब्रह्मपुत्रो मनुस्त्वाद्यो गुरौ समः
राजधर्मेण विष्णोश्च जातः प्रीणयितुं हरेः ॥ ३.२८.४४ ॥
बृहस्पतिर्देवागुरुर्महात्मा तस्यावतारास्त्रय आसन् खगेन्द्र
रामावतारे भरताख्यो बभूव ह्यंभोजजावेशयुतो बृहस्पतिः ॥ ३.२८.४५ ॥
देवावतारान्वानरांस्तारयित्वा श्रीरामदिव्याऽचरितान्यवादीत्
अतो ह्यसौ नारनामा बभूव ह्यङ्गत्वमाप्तुं रामदेवस्य भूम्याम् ॥ ३.२८.४६ ॥
कृष्णावतारे द्रोणनामा बभूव अंभोजजावेशयुतो बृहस्यपतिः
यस्माद्दोणात्संभभूव गुरुश्च तस्मादसौ द्रोणसंज्ञो बभूव ॥ ३.२८.४७ ॥
भूभारभूताद्युद्धृतौ ह्यङ्गभूतो विष्णोः सेवां कर्तुमेवास भूमौ
बृहस्पतिः पवनावेशपुक्ता स उद्धवश्चेत्यमिधानमाप ॥ ३.२८.४८ ॥
यस्मादुत्कृष्टो हरिरत्र सम्यगतो ह्यसौ बुधवन्नाम चाप
सखा ह्यभूत्कृष्णदेवस्य नित्यं महामतिः सर्वलोकेषु पुज्वः ॥ ३.२८.४९ ॥
दक्षिणाङ्गुष्ठजो दक्षो ब्रह्मपुत्रो महामतिः
कन्यां सृष्ट्वा हरेः प्रीणन्नास भूमा प्रजापतिः
पुत्रानुदपादयद्दक्षस्त्वतो दक्ष इति स्मृतः ॥ ३.२८.५० ॥
शचीं भर्यां देवराजस्य विद्धि तस्या ह्यवतारं शृणु सम्यक्खगेन्द्र
रामावतारे नाम तारा बभूव सा वालिपत्नी शचीसजका च ॥ ३.२८.५१ ॥
रामान्मृते वालिसंज्ञे पतौ हि सुग्रीवसंगं सा चकाराथ तारा
अतो नागात्स्वर्गलोकं च तारा क्व वा यायादन्तरिक्षे न पापा ॥ ३.२८.५२ ॥
कृष्णावतारे सैव तारा च वीन्द्र बभूव भूमौ विजयस्य पत्नी
पिशङ्गदेति ह्यभिधा स्याच्च तस्याः सामीप्यमस्यास्त्वजुंनवेव चासीत् ॥ ३.२८.५३ ॥
उत्पादयित्वा बभ्रुवाहं च पुत्रं तस्यां त्यक्त्वा ह्यर्जुनो वै महात्मा
अतश्चोभे वारचित्राङ्गदे च शचीरूपे नात्र विवार्यमस्ति ॥ ३.२८.५४ ॥
पुलोमजा मन्त्रद्युम्नस्य भार्या या काशिका गाधिराजस्य भार्या
विकुक्षिभार्या सुमतिश्चेति संज्ञा कुशस्य पत्नी कान्तिमतीति संज्ञा ॥ ३.२८.५५ ॥
एता हि सप्त ह्यवराश्च शच्या जानीहि वै नास्ति विचारणात्र
शची रतिश्चानिरुद्धो मनुर्दक्षो बृहस्पतिः
षडन्योन्यसमाः प्रोक्ता अहङ्काराद्दशाधमाः ॥ ३.२८.५६ ॥
अथ यः प्रवहो वायुर्मुख्यवायोः सुतो बली
स वायुषु महानद्य स वै कोणाधिपस्तथा ॥ ३.२८.५७ ॥
नासिकासु स एवोक्तो भौतिकस्तुल्य एव च
अतिवाहः स एवोक्तः यतो गम्यो मुमुक्षुभिः ॥ ३.२८.५८ ॥
दक्षादिभ्यः पञ्चगुणादधमः संप्रकीर्तितः
गरुड उवाच
प्रवहश्चेति संज्ञां स किमर्थं प्राप तद्वद ॥ ३.२८.५९ ॥
अर्थः कश्चास्ति तन्नाम्नः प्रतीतस्तं वदस्व मे
गरुडेनैवमुक्तस्तु भगवान्देवकीसुतः
उवाच परमप्रीतः संस्तूय गरुडं हरिः ॥ ३.२८.६० ॥
कृष्ण उवाच
प्रहर्षेण हरेस्तुल्यान्सर्वदा वहते यतः
अतः प्रवहनामासौ कीर्तितः पक्षिसत्तम ॥ ३.२८.६१ ॥
सर्वोत्तमो विष्णुरेवास्ति नाम्ना ब्रह्मादयस्तदधीनाः सदापि
मयोक्तमेतत्तु सत्यं न मिथ्या गृह्णामि हस्तेनोरगं कोपयुक्तम् ॥ ३.२८.६२ ॥
सर्वं नु सत्यं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतुह्यहीन्द्रः
एवं ब्रुवन्नुरगं कोपयुक्तं समग्रहीन्नादशत्सोप्युरङ्गः ॥ ३.२८.६३ ॥
एतस्य संधारणादेव वीन्द्र स वायुपुत्रः प्रवहेत्याप संज्ञाम्
यो वा लोके विष्णुमूर्तिं विहाय दैत्यस्वरूपा रेणुकाद्याः कुदेवाः ॥ ३.२८.६४ ॥
तेषां तथा मत्पितॄणां च पूजा व्यर्था सत्यं सत्यमेतद्ब्रवीमि
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ ३.२८.६५ ॥
पित्र्यं नयामि प्रविहायैव ये तु पित्रुद्देशात्केवलं यः करोति
स पापात्मा नरकान्वै प्रयातीत्येतद्वाक्यं सत्यमेतद्ब्रवीमि ॥ ३.२८.६६ ॥
न श्रीः स्वतन्त्रा नापि विधिः स्वतन्त्रो न वायुदेवो नापि शिवः स्वतन्त्रः
तदन्ये नो गौरिपुलोम जाद्याः किं वक्तव्यं नात्र लोके स्वतन्त्रः ॥ ३.२८.६७ ॥
ब्रवीमि सत्यं पुरुषो विष्णुरेव सत्यं सत्य भुजमुद्धृत्य सत्यम्
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्र ॥ ३.२८.६८ ॥
जीवश्च सत्यः परमात्मा च सत्यस्तयोर्भेदः सत्ये ए तत्सदापि
जडश्चसत्यो जीवजडयोश्च भेदो भेदः सत्यः किं च जडैशयोर्भिदा ॥ ३.२८.६९ ॥
भेदः सत्यः सर्वजीवेषु नित्यं सत्या जडानां च भेदा सदापि
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ दशतु मां ह्यहीन्द्रः ॥ ३.२८.७० ॥
एवं ब्रुवन्नुरगं कोपयुक्तं समग्रहीन्नादशत्सोप्युरङ्गः
एतस्य संधारणादेववीद्रे सा वायुपुत्रः प्रवहेत्याप संज्ञाम् ॥ ३.२८.७१ ॥
द्वयं स्वरूपं प्रविदित्वैव पूर्वं त्वं स्वीकुरुष्व द्वयमेव नित्यम्
स्नानादिकं च प्रकरोति नित्यं पापी स आत्मा नैव मोक्षं प्रयाति ॥ ३.२८.७२ ॥
तस्माद्द्वयं प्रविचार्यैव नित्यं सुखी भवेन्नात्र विचार्यमस्ति
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ ३.२८.७३ ॥
गरुड उवाच
किं तद्द्वयं देवदेवेश किं वा तत्कारणं कीदृशं मे वदस्व
द्वयोस्त्यागं कीदृशं मे वदस्व त्यागात्सुखं कीदृशं मे वदस्व ॥ ३.२८.७४ ॥
श्रीकृष्ण उवाच
द्वयं चाहुस्त्विन्द्रिये द्वे बलिष्ठे देहे ह्यस्मिञ्श्रोत्रनेत्रे सुसृष्टे
अवान्तरे श्रोत्रनेत्रे खगेन्द्र द्वयं चाहुस्तत्स्वरूपं च वक्ष्ये ॥ ३.२८.७५ ॥
श्रोत्रस्वभावो लोक वार्ताश्रुतौ च ह्यतीव मोदस्त्वादरास्वादनेन
हरेर्वार्ताश्रवणे दुः खजालं श्रोत्रस्वभावो जडता दमश्च ॥ ३.२८.७६ ॥
नेत्रस्वभावो दर्शने स्त्रीनराणां ह्यत्यादरान्नास्ति निद्रादिकं च
हरेर्भक्तानां दर्शने दुः खरूपो विष्णोः पूजादर्शने दुः खजालम् ॥ ३.२८.७७ ॥
तयोः स्वरूपं प्रविदित्वैव पूर्वं पुनः पुनः स्वीकरोत्येव मूढः
शिश्रं मौर्ख्याच्चैव कुत्रापि योनौ प्रवेशयेत्सर्वदा ह्यादरेण ॥ ३.२८.७८ ॥
भयं च लज्जा नैव चास्ते वधूनां तथा नृणां वनितानां यतीनाम्
स्वसारं ते ह्यविदित्वा दिनेपि सुवाम यज्ञेन स्वाभावश्च वीन्द्र ॥ ३.२८.७९ ॥
रसास्वभावो भक्षणे सर्वदापि ह्यनर्पितस्यान्नभक्ष्यस्य विष्णोः
तथो पहारस्य च तत्स्वभावः अभक्ष्याणां भक्षणे तत्स्वभावः ॥ ३.२८.८० ॥
अलेह्यलेहस्य च तत्स्वभावः पातुं त्वपेयस्य च तत्स्वभावः
द्वयोः स्वरूपं च विहाय मूढः पुनः पुनः स्वीकरोत्येव नित्यम् ॥ ३.२८.८१ ॥
तस्य स्नानं व्यर्थमाहुश्च यस्मात्तस्मात्त्याज्यं न द्वयोः कार्यमेव
अभिप्रायं ह्येतमेवं खगेन्द्र जानीहि त्वं प्रहस्यैव नित्यम् ॥ ३.२८.८२ ॥
भार्याद्वयं ह्यविदित्वा स्वरूपं स्वीकृत्य चैकां प्रविहायैव चैकाम्
स्नानादिकं कुरुते मूढबूद्धिः व्यर्थं चाहुर्मोक्षभोगौ च नैव
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ ३.२८.८३ ॥
गरुड उवाच
भार्याद्वयं किं वद त्वं ममापि तयोः स्वरूपं किं वद त्वं मुरारे
तयोर्मध्ये ग्राह्यभार्यां वद त्वमग्राह्यभार्यां चापि सम्यग्वद त्वम् ॥ ३.२८.८४ ॥
श्रीकृष्ण उवाच
बुद्धिः पत्नी सा द्विरूपा खगेन्द्र दुष्टा चैका त्वपरा सुष्ठुरूपा
तयोर्मध्ये दुष्टरूपा कनिष्ठा ज्येष्ठा तु या सुष्ठुबुद्धिस्वरूपा ॥ ३.२८.८५ ॥
कनिष्ठया नष्टतां याति जीवः सुतिष्ठन्त्या याति योग्यां प्रतिष्ठाम्
कनिष्ठायाः शृणु वक्ष्ये स्वरूपं श्रुत्वा तस्यास्त्यागबुद्धिं कुरुष्व ॥ ३.२८.८६ ॥
जीवं यं वै प्रेरयन्ती कनिष्ठा काम्यं धर्मं कुरुते सर्वदापि
क्व ब्राह्मणाः क्व च विष्णुर्महात्मा क्व वै कथा क्व च यज्ञाः क्वगावः ॥ ३.२८.८७ ॥
क्व चाश्वत्थः क्व च स्नानं क्व शौचमेतत्सर्वं नाम नाशं करोति
मूढं पतिं रेणुकां पूजयस्व मायादेव्या दीपदानं कुरुष्व ॥ ३.२८.८८ ॥
सुभैरवादीन् भज मूढ त्वमन्ध हारिद्रचूर्णन्धारयेः सर्वदापि
ज्येष्ठाष्टम्यां ज्येष्ठदेवीं भजस्व भक्त्या सूत्रं गलबन्धं कुरुष्व ॥ ३.२८.८९ ॥
मरिगन्धाष्टम्यां मरिगन्धं भजस्व तथा सूत्रं स्वगले धारयस्व
दीपस्तंभं सुदिने पूजयस्व तत्सूत्रमेव स्वगले धारयस्व ॥ ३.२८.९० ॥
महालक्ष्मीं चाद्यलक्ष्मीं च सम्यक्पूजां कुरु त्वं हि भक्त्याथ जीव
लक्ष्मीसूत्रं स्वागले धारयस्व महालक्ष्मीवान् भवसीत्युत्तरत्र ॥ ३.२८.९१ ॥
विहाय मौञ्जीदिवसे भाग्यकामः सुगुग्गुलान्धारयस्वातिभक्त्या
सुवासिनीः पूजयस्वाशु भक्त्या गन्धैः पुष्पैर्धूपदीपैः प्रतोष्य ॥ ३.२८.९२ ॥
वरार्तिक्यं कांस्यपात्रे निधाय कुर्वार्तिक्यं देवतादेवतानाम्
पिचुमन्दपत्राणि वितत्य भूमौ नमस्व त्वं क्षम्यतां चेति चोक्त्वा ॥ ३.२८.९३ ॥
महादेवीं पूजयस्वाद्य भक्त्या सद्वैष्णवानां मा ददस्वाप्यथान्नम्
सद्वैष्णवानां यदि वान्नं ददासि भाग्यं च ते पश्यतो नाशमेति ॥ ३.२८.९४ ॥
स्ववामहस्ते वेणुपात्रे निधाय दीपं धृत्वा सव्यहस्ते पते त्वम्
उत्तिष्ठ भोः पञ्चगृहेषु भिक्षां कुरुष्व सम्यक्प्रविहायैव लज्जाम् ॥ ३.२८.९५ ॥
आदौ गृहे षड्रसान्नं च कुत्वा जगद्गोप्यं भोजनं त्वं कुरुष्व
तच्छेषान्नं भोजयित्वा पते त्वं तासां च रे शरणं त्वं कुरुष्व ॥ ३.२८.९६ ॥
तासं हस्तं पुस्तके स्तापयित्वा त्राहित्येवं तन्मुखैर्वाचयस्व
त्वं खड्गदेवं पूजयस्वाद्यभर्तस्तत्सेवकान्पूजयस्वाद्य सम्यक् ॥ ३.२८.९७ ॥
तैः सार्धं त्वं श्वानशब्दं कुरुष्व हरिद्राचूर्णंसर्वदा त्वं दधस्व
कुरुष्व त्वं भीमसेनस्य पूजां पञ्चामृतैः षोडशभिश्चोपचारैः ॥ ३.२८.९८ ॥
तत्कौपीनं रौप्यजं कारयित्वा समर्पयित्वा दीपमालां कुरुष्व
तद्दासवर्यान् भोजयस्वाद्य भक्त्या गर्जस्व त्वं भीमभीमेति सुष्ठु ॥ ३.२८.९९ ॥
तद्दासवर्यान्मोदयस्व स्ववस्त्रैर्मद्यैर्मांसद्रव्यजालेन नित्यम्
महादेवं पूजयस्वाद्य सम्यग्महारुद्रैरतिरुद्रैश्च सम्यक् ॥ ३.२८.१०० ॥
हरेत्युक्त्वा जङ्गमान्पूजयस्वशैवागमे निपुणाञ्छूद्रजातान्
शाकंभरीं विविसः सर्वशाकान्सुपाचयित्वा च गृहे गृहे च ॥ ३.२८.१०१ ॥
ददस्व भक्त्या परमादरेण स्वलङ्कृत्य प्रास्तुवंस्तद्गुणांश्च
कुलादेवं पूजयस्वाद्य भक्त्या त्वं दृग्भ्यां वै तद्दिने शंभुबुद्ध्या ॥ ३.२८.१०२ ॥
तद्भक्तवर्यान्पूजयस्वाद्य सम्यक्तत्पादमूले वन्दनं त्वं कुरुष्व
सुपञ्चम्यां मृन्मयीं शेषमूर्तिं पूजां कुरुष्व क्षीरलाजादिकैश्च ॥ ३.२८.१०३ ॥
सुनागपाशं हि गले च बद्ध्वा तच्छेषान्नं भोजयेर्भोः पुनस्त्वम्
दिने चतुर्थे भोज यस्वाद्य भक्त्या नैवेद्यान्नं भोजयस्वाद्य सुष्ठु ॥ ३.२८.१०४ ॥
इत्यादिकं प्रेरयित्वा पतिं सा जीवेन नष्टं प्रिकरोत्येव नित्यम्
तस्याः संगाज्जीवरूपः पतिस्त्वां सम्यग्दष्टामिहलोके परत्र ॥ ३.२८.१०५ ॥
तस्याः संगं सुविदूरं विसृज्यचेष्ट्वा समग्रं कुरु सर्वदा त्वम्
सुबुद्धिरूपा त्वीरयन्ती जगाद भजस्व विष्णुं परमादरेण ॥ ३.२८.१०६ ॥
हरिं विनान्यं न भजस्व नित्यं सा रेणुका त्वां तु न पालयिष्यति
अदृष्टनामा हरिरिवे हि नित्यं फलप्रदो यदि न स्यात्खगेन्द्र ॥ ३.२८.१०७ ॥
जुगुप्सितां श्रुत्यनुक्तां च देवीं पतिद्रुहां सर्वदा सेवयित्वा
तस्याः प्रसादात्कुष्ठभगन्दराद्यैर्भुक्त्वा दुः खं संयमिनीं प्रयाहि ॥ ३.२८.१०८ ॥
तदा कुदवी कुत्र गता वदस्वमे ह्यतः पते त्वं न भजस्व देवीम्
पते भज त्वं ब्राह्मणान्वैष्णवांश्च संसारदुः खात्तारन्सुष्ठुरूपान् ॥ ३.२८.१०९ ॥
सेवादिकं प्रवीहायैव स्वच्छं मायादेव्या भजनात्किं वदस्व
ज्येष्ठाष्टम्यां ज्येष्ठदेवीं ह्यलक्ष्मीं लक्ष्मीति बुद्ध्या पूजयित्वा च सम्यक् ॥ ३.२८.११० ॥
तस्याः सूत्रं गलबद्धं च कृत्वा नानादुः खं ह्यनुभूयाः पते त्वम्
यदा पते यमादूतैश्च पाशैर्बद्ध्वा च सम्यक्ताड्यमानैः कशाभिः ॥ ३.२८.१११ ॥
तदा ह्यलक्ष्मीः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व
पते भज त्वं सर्वदा वायुतत्त्वं न चाश्रयेस्त्वं सूक्ष्मस्कन्दं च मूढ ॥ ३.२८.११२ ॥
तद्वत्तं त्वं नवनीतं च भक्त्या तदुच्छिष्टं भक्षयित्वा पते हि
तस्याश्च सूत्रं गलबद्धं च कृत्वा इहैव दुः खान्यनुभूयाः पते त्वम् ॥ ३.२८.११३ ॥
यदा पते यमदूतैश्च पाशैर्बद्ध्वा च सम्यक्ताड्यमानः कशाभिः
तदा स्कन्दः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व ॥ ३.२८.११४ ॥
दीपस्तंभं दापयित्वा पते त्वं सूत्रं च बद्ध्वा स्वगले च भक्त्या
तदा बद्ध्वा यमदूतैश्च पाशैर्दीपस्तंभैस्ताड्यमानस्तु सम्यक् ॥ ३.२८.११५ ॥
दीपस्तंभः कुत्र पलायितोभूदतो मूलं विष्णुपादं भजस्व
लक्ष्मीदिने पूजयित्वा च लक्ष्मीं सूत्रं तस्याः स्वगले धारय त्वम् ॥ ३.२८.११६ ॥
यदा पते यमदूतैश्च पाशैर्बध्वा सम्यक्ताड्यमानः कशाभिः
तदा लक्ष्मीः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व ॥ ३.२८.११७ ॥
विवाहमैञ्जीदिवसे मूढबुद्धे जुगुसितान्धारयित्वा सुभक्त्या
वरारार्तिकं कांस्यपात्रे निधाय कृत्वार्तिक्यं उदौदैति शब्दम् ॥ ३.२८.११८ ॥
तथैव दष्ट्वा पिचुमन्दस्य पत्रं सुनर्तयित्वा परमादरेण
यदा तदा यमदूतैश्च पाशैर्बद्ध्वाबद्ध्वा ताड्यमानश्च सम्यक् ॥ ३.२८.११९ ॥
तव स्वामिन्कुलदेवो महात्मन्पलायितः कुत्र मे तद्वदस्व
स्वदेहानां पूजयित्वा च सम्यक्कण्ठाभरणैर्विधुराणां च केशैः ॥ ३.२८.१२० ॥
संतिष्ठमाने यमदूता बलिष्ठा संताड्यमाने मुसलैर्भिन्दिपालैः
यदा तदा कुत्र पलायिता सा केशैर्विहीना लंबकर्णं च कृत्वा ॥ ३.२८.१२१ ॥
स्ववामहस्ते वेणुपात्रं निधाय दीपं धृत्वा सव्यहस्ते च मूढः
गृहेगृहे भैक्षचर्यां च कृत्वा संतिष्ठमाने स्वगृहं चैव देवी ॥ ३.२८.१२२ ॥
यदा तदा यमदूतैश्च मूढ दीपैः सहस्रैर्दह्यमानश्च सम्यक्
निर्नासिका रेणुका मूढबुद्धे पलायिता कुत्र सा मे वदस्व ॥ ३.२८.१२३ ॥
सदा मूढं खड्गदेवं च भक्त्या तं भक्तवत्पूजयित्वा च सम्यक्
तैः सार्धं त्वं श्वानवद्गर्जयित्वा संतिष्ठमाने स्वगृहे चैव नित्यम् ॥ ३.२८.१२४ ॥
यदा तदा यमदूतैश्च सम्यक्संताड्यमानस्तत्र शब्दं प्रकुर्वन्
संतिष्ठमाने भक्तवर्यं विहाय तदा देवः कुत्र पलायितोभूत् ॥ ३.२८.१२५ ॥
स पार्थक्याद्भीमसेनप्रतीकं पञ्चामृतैः पूजयित्वा च सम्यक्
सुव्यञ्जने चान्नकौपीनमेव दत्त्वा मूढस्तिष्ठमाने स्वगेहे ॥ ३.२८.१२६ ॥
यदा तदा यमदूतैश्च सम्यक्संताड्यमाने यममार्गे च मूढः
भीमः स वै कुत्र पलायितोभूतो मूलं विष्णुपादं भजस्व ॥ ३.२८.१२७ ॥
महादेवं पूजयित्वा च सम्यखरेत्युक्त्वा स्वगृहे विद्यमाने
यदा गृहं दह्यते वह्निना तु तदा हरः कुत्र पलायितोभूत् ॥ ३.२८.१२८ ॥
शाकं भरीदिवसे सर्वमेव शाकंभरी सा च देवी महात्मन्
पलायिता कुत्र मे त्वं वदस्व कुलालदेवं पूजयित्वा च भक्त्या ॥ ३.२८.१२९ ॥
कार्पासं वै तेन दत्तं गृहीत्वा संतिष्ठमाने यमदूतैश्च सम्यक्
संहन्यमानस्तीक्षणधारैः कुठारैः कुलालदेवं च सुदंष्ट्रनेत्रम्
विहाय वै कुत्र पलायितोभून्न ज्ञायतेऽन्वेषणाच्चापि केन ॥ ३.२८.११३० ॥
यदा पञ्चम्यां मृन्मयीं शेषमूर्तिं संपूज्य भक्त्या विद्यमाने स्वगेहे
तदा बद्ध्वा यमदूताश्च सम्यक्संनह्यमाने नागपाशैश्चबद्ध्वा ॥ ३.२८.१३१ ॥
स्वभक्तवर्यं प्रविहाय नागः पलायितः कुत्र वै संवद त्वम्
दूर्वाङ्कुरैर्मोदकैः पूजयित्वा विनायकं पञ्चखाद्यैस्तथैव ॥ ३.२८.१३२ ॥
संतिष्ठंमाने यमदूतैश्च सम्यक्संताड्यमाने तप्तदण्डैश्च मूढ
दन्तं विहायैव च विघ्नराजः पलायितः कुत्र मे तं वदत्वम् ॥ ३.२८.१३३ ॥
विवाहकाले पिष्टदेवीं सुभक्त्या संपूजयित्वा विद्यमानो गृहे स्वे
यदा तदा यमदूतैश्च बद्ध्वा संपीड्यमानो यममार्गे स मूढः ॥ ३.२८.१३४ ॥
विष्ठादेवी पीड्यमानं च भक्तं विहाय सा कुत्र पलायिताभूत्
विवाहकाले रजकस्य गेहं गत्वा सम्यक्प्रार्थयित्वा च मूढः ॥ ३.२८.१३५ ॥
यस्तंभसूत्रं कलशे परीत्य पूजां कृत्वा विद्यमानो गृहे स्वे
यदा तदा यमदूतश्च सम्यक्तं स्तंभसूत्रं तस्य मुखे निधाय ॥ ३.२८.१३६ ॥
संताड्यमाने संतभसूत्रस्थदेवी पलायिता कुत्र मे संवदस्व
विवाहकाले पूजयित्वा च सम्यक्चण्डालदेवीं भक्तवश्यां च तस्याः ॥ ३.२८.१३७ ॥
तद्भक्तवर्यैः शूर्पमध्ये च तीरे संसेवयित्वा विद्यमानो गृहेस्वे
यदा तदा यमदूतैश्च बद्ध्वा संताड्यमानो यममार्गे महद्भिः ॥ ३.२८.१३८ ॥
चूलेदवी क्व पलायिताभूत्सुमूढबुद्धे विष्णुपादं भजस्व
ज्वरादिभिः पीड्यमाने स्वपुत्रे गृहे स्थितं ब्रह्मदेवं च सम्यक् ॥ ३.२८.१३९ ॥
धूर्पैर्दीपैर्भक्ष्यभोज्यैश्च पुष्पैः पूजां कृत्वा विद्यमानश्च गेहे
यदा तदा यमदूतैश्च बद्ध्वा संताड्यमाने वेणुपाशादिभिश्च ॥ ३.२८.१४० ॥
स ब्रह्मदेवः क्व पलायितोभूत्सुमूढबुद्धे विष्णुपादं भजस्व
सन्तानार्थं बृहतीं पूजयित्वा गलेन बद्ध्वा बृहतीं वै फलं च ॥ ३.२८.१४१ ॥
संतिष्ठमाने यमदूतैश्च बद्ध्वा संताड्यमाने बृहतीकण्टकैश्च
तदा देवी बृहती मूढबुद्धे पलायिता कुत्र मे तद्वद त्वम् ॥ ३.२८.१४२ ॥
भजस्व मूढ परदैवतं च नारायणं तारकं सर्वदुः खात्
सुक्षुद्रदेवेषु मतिं च मा कुरु न च शृणु त्वं फल्गुवाक्यं तथैव ॥ ३.२८.१४३ ॥
सुक्षुद्रदेवान् भिन्दिपाले निधाय विसर्जयित्वा दूरदेशे महात्मन्
संधार्य त्वं स्वकुलाचारधर्मं संपातने नरकं हेतुभूतम् ॥ ३.२८.१४४ ॥
पुनीहि गात्रं सर्वदा मूढबुद्धे मन्त्राष्टकैर्जन्मतीर्थे पवित्रे
हृदि स्थितांमारैर्व्यमुद्रां विहाय कृत्वाभूषां विष्णुमुद्राभिरग्र्याम् ॥ ३.२८.१४५ ॥
सदा मूढो हरिवार्तां भजस्व ह्यायुर्गतं व्यर्थमेवं कुबुद्ध्या
सद्वैष्णवानां संगमो दुर्लभश्च क्षुब्धं ज्ञानं तारतम्यस्वरूपम् ॥ ३.२८.१४६ ॥
हरिं गुरुं ह्यनुसृत्यैव सत्यं गतिं स्वकीयां तेन जानीहि मूढ
दग्ध्वा दुष्टां बुद्धिमेवं च मूढ सुबुद्धिरूपं मा भजस्वैव नित्यम् ॥ ३.२८.१४७ ॥
मया सार्धं सद्गुरुं प्राप्य सम्यग्वैराग्यपूर्वं तत्त्वमात्रं विदित्वा
तेनैव मोक्षं प्राप्नुमो नार्जवैर्यत्तार्या विष्णोः संप्रसादाच्च लक्ष्म्याः ॥ ३.२८.१४८ ॥
इत्याशयं मनसा सन्निधाय तथा चोक्तं भक्तवर्यो मदीयः
अतो भक्तः प्रवहेत्येव संज्ञामवाप वीन्द्र प्रकृतं तं शृणु त्वम् ॥ ३.२८.१४९ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे तारतम्यनिरूपणद्वारा विष्णोरेवोपास्यत्वमित्यर्थनिरूपणं नामाष्टाविंशतमोध्यायः
श्रीगरुडमहापुराणम् [GARUR PURANAM] २९
प्रवहानन्तरान्वक्ष्ये शृणु पक्षीन्द्रसत्तम
यो धर्मो ब्रह्मणः पुत्रो ह्यादिसृष्टौ त्वगुद्भवः ॥ ३.२९.१ ॥
सज्जनान्सौम्यरूपेण धारणाद्धर्मनामकः
स एव सूर्यपुत्रोभूद्यमसंज्ञामवाप सः
पापिनां शिक्षकत्त्वात्स यम इत्युच्यते बुधैः ॥ ३.२९.२ ॥
श्रीकृष्ण उवाच
प्रह्लादानन्तरं गङ्गा भार्या वै वरुणस्य च
प्रह्लादादधमा ज्ञेया महिम्ना वरुणाधिका ॥ ३.२९.३ ॥
स्वरूपादधमा ज्ञेया नात्र कार्या विचारणा
ज्ञानस्वरूपदं विष्णुं यमो जानाति सर्वदा ॥ ३.२९.४ ॥
अतो गङ्गेति सा ज्ञेया सर्वदा लोकपावनी
भक्त्या विष्णुपदीत्येव कीर्तिता नात्र संशयः ॥ ३.२९.५ ॥
या पूर्वकाले यज्ञलिङ्गस्य विष्णोः साक्षाद्धरेर्विक्रमतः खगेन्द्र
वामस्य पादस्य नखाग्रतश्च निर्भिद्य चोर्ध्वाण्डकटाहखण्डम् ॥ ३.२९.६ ॥
तदुदरमतिवेगात्सम्प्रविश्यावहन्तीं जगदघततिहन्तुः पादकिञ्जल्कशुद्धाम्
निखिलमलनिहन्त्रीं दर्शनात्स्पर्शनाच्च सकृदवगहनाद्वा भक्तिदां विष्णुपादे
शशिकरवरगौरां मीननेत्रां सुपूज्यां स्मरति हरिपदोत्थां मोक्षमेति क्रमेण ॥ ३.२९.७ ॥
इन्द्रोपि वायुकरमर्दितवायुकूटबिन्दुं च प्राश्य शिरसि ह्यसहिष्णुमानः
भागीरथी हरिपदाङ्कमिति स्म नित्यं जानन्महापरमभागवतप्रधानः
भक्त्या च खिन्नहृदयः परमादरेण धृत्वा स्वमूर्ध्नि परमो ह्यशिवः शिवोऽभूत् ॥ ३.२९.८ ॥
भागीरथ्याश्च चत्वारि रूपाण्यासन्खगेश्वर
महाभिषग्जनेन्द्रस्य भार्या तु ह्यभिषेचनी ॥ ३.२९.९ ॥
द्वितीयेनैव रूपेण गङ्गा भार्या च शन्तनोः
सुषेणा वै सुषेणस्य भार्या सा वानरी स्मृता ॥ ३.२९.१० ॥
मण्डूकभार्या गङ्गा तु सैव मण्डूकिनी स्मृता
एवं चत्वारी रूपाणि गङ्गाया इति किर्तितमम् ॥ ३.२९.११ ॥
आदित्याच्चैव गङ्गातः पर्जन्यः समुदाहृतः
प्रवर्षति सुवैराग्यं ह्यतः पर्जन्यनामकम् ॥ ३.२९.१२ ॥
शरंवराय पञ्चजन्याच्च पञ्च हित्वा जग्ध्वा गर्वकं षट्क्रमेण
स्वबाणस्य स्वहृदि संस्थितस्य भजेत्सदा नैव भक्तिं विषं च ॥ ३.२९.१३ ॥
लिङ्गं पुष्टं नैव कार्यं सदैव लिङ्गं पुष्टं कार्यमेवं सदापि
योनौ सक्तिर्नैव कार्या सदापि योनौ मुक्तेऽसंगतो याति मुक्तिम् ॥ ३.२९.१४ ॥
वैराग्यमेवं प्रकारोत्येव नित्यमतः पर्जन्यस्त्वन्तकः पक्षिवर्य
एतावता शरभाख्यो महात्मा स चान्तरो स तु पर्जन्य एव ॥ ३.२९.१५ ॥
शश्वत्केशा यस्य गात्रे खगेन्द्र प्रभास्यन्ते शरभाख्यो पयोतः
यमस्य भार्या श्यामला या खगेन्द्र यस्मात्सदा कलिभार्यापिया च ॥ ३.२९.१६ ॥
मत्वा सम्यक्मानसं या करोति ह्यतश्च सा श्यामलासंज्ञकाभूत्
मलं वक्ष्ये हरिभक्तेर्विरोधी सुलोहपात्रे सन्निधानं च तस्य ॥ ३.२९.१७ ॥
तद्वैष्णवैस्त्याज्यमेवं सदैव वस्त्रं दग्धं सन्धिजं चैव जन्यम् ॥ ३.२९.१८ ॥
चिकित्सितं परदुः खं खगेन्द्र दरेर्भक्तैस्त्याज्यमेवं सदैव ॥ ३.२९.१८ ॥
नोच्चाश्च ते हरिभक्तेर्विहीनास्तेषां संगो नैव कार्यः सदापि
पुराणसंपर्कविसर्जिनं च पुराणतालं च पुराणवस्त्रम् ॥ ३.२९.१९ ॥
सुजीर्णकन्थाजिनमेखलं च यज्ञोपवीतं च कलिप्रियं च
प्रियं गृहं चोर्णविता नकं च समित्कुशैः पूरितं कुत्सितं च ॥ ३.२९.२० ॥
सर्वं चेत्कलिभार्याप्रियं च नैव प्रियं शार्ङ्गपाणेः कदाचित्
कांस्ये सुपक्वं यावनालस्य चान्नं तुषः पिण्याकं तुम्बबिल्वे पलाण्डुः ॥ ३.२९.२१ ॥
दीर्घं तक्रं स्वादुहीनं कडूष्टणमेते सर्वे कलिभार्याप्रियाश्च
सुदुर्मुखं निन्दनं चार्यजानां सतोवमत्यात्मजानां प्रसह्य ॥ ३.२९.२२ ॥
सुपीडनं सर्वदा भर्तृवर्गे गृहस्थितव्रीहिवस्त्रादिचौर्यात्
प्रकीर्णभूतान्मूर्धजान्संदधानं करैर्युतं देवकलिप्रियं च ॥ ३.२९.२३ ॥
इत्यादि सर्वं कलिभार्याप्रियञ्च सुनिर्मलं प्रिकरोत्येव सर्वम्
अतश्च सा श्यामलेति स्वसंज्ञामवाप सा देवकी संबभूव ॥ ३.२९.२४ ॥
युधिष्ठिरस्यैव बभूव पत्नीसंभाविता तत्र च देवकी सा
चन्द्रस्य भार्या रोहिणी वै तदेयमश्विन्यादिभ्योऽह्यधिका सर्वदैव ॥ ३.२९.२५ ॥
रोणीं धृत्वा रोहति योग्यस्थानं तस्माच्च सा रोहिणीति प्रसिद्धा
आदित्यभार्या नाम संज्ञा खगेन्द्र ज्ञेया सा नारायणस्य स्वरूपा ॥ ३.२९.२६ ॥
संजानातीत्येव संज्ञामवाप संज्ञेति लोके सूर्य भार्या खगेन्द्र
ब्रह्मण्डस्य ह्यभिमानी तु देवो विराडिति ह्यभिधामाप तेन ॥ ३.२९.२७ ॥
गङ्गादिषट्कं सममेव नित्यं परस्परं नोत्तमं नाधमं च
प्रधानाग्नेः पाविकान्यैव गङ्गा सदा शुभा नात्र विचार्यमस्ति ॥ ३.२९.२८ ॥
आसां ज्ञानत्पुण्यमाप्नोति नित्यं सदा हरिः प्रीयते केशवोलम्
गङ्गादिभ्यो ह्यवराह्यग्निजाया स्वाहासंज्ञाधिगुणा नैव हीना ॥ ३.२९.२९ ॥
स्वाहाकारो मन्त्ररूपाभिमानी स्वाहेति संज्ञामाप सदैव वीन्द्र
अग्नेर्भार्यातो बुद्धिमान् संबभूव ब्रह्माभिमानी चन्द्रपुत्रो बुधश्च ॥ ३.२९.३० ॥
बुद्ध्याहरद्वै राष्ट्रजातं च सर्वं धृतं त्वतो बुधसंज्ञामवाप
एवं चाभूदभिमन्युर्महात्मा सुभद्राया जठरे ह्यर्जुनाच्च ॥ ३.२९.३१ ॥
कृष्णस्य चन्द्रस्य यमस्य चांशैः स संयुतस्त्वश्विनोर्वै हरस्य
स्वाहाधमश्चन्द्रपुत्रो बुधस्तु पादारविन्दे विष्णुदेवस्य भक्तः ॥ ३.२९.३२ ॥
नामात्मिका त्वश्विभार्या उषा नाम प्रकीर्तिता
बुधाधमा सा विज्ञेया स्वाहा दशगुणाधमा ॥ ३.२९.३३ ॥
नकुलस्य भार्या मागधस्यैव पुत्री शल्यात्मजा सहदेवस्य भार्या
उभे ह्येते अश्विभार्या ह्युषापि उपासते षड्गुणं विष्णुमाद्यम्
अतोऽप्युषासंज्ञका सा खगेन्द्र अनन्तराञ्छृणु वक्ष्ये महात्मन् ॥ ३.२९.३४ ॥
ततः शक्तिः पृथिव्यात्मा शनैश्चरति सर्वदा
अतः शनैश्चरो नाम उषायाश्च दशाधमाः ॥ ३.२९.३५ ॥
कर्मात्मा पुष्करो ज्ञेयः शनरथ यमो मतः
नयाभिमानी पुरुषः किञ्चिन्नम्नो दशावरः ॥ ३.२९.३६ ॥
हरिप्रीतिकरो नित्यं पुष्करे क्रीडते यतः
अतस्तु पुष्कलो नाम लोके स परिकीर्तितः ॥ ३.२९.३७ ॥
हरि प्रीतिकरान्धर्मान्वक्ष्ये शृणु खगाधिप
प्रातः काले समुत्थाय स्मरेन्नारायणं हरिम् ॥ ३.२९.३८ ॥
तुलसीवन्दनं कुर्याच्छ्रीविष्णुं संस्मरेत्खग
विण्मूत्रोत्सर्गकाले च ह्यपानात्मककेशवम् ॥ ३.२९.३९ ॥
त्रिविक्रमं शौचकाले गङ्गापानकरं हरिम्
दन्तधावनकाले तु चन्द्रान्तर्यामिणं हरिम् ॥ ३.२९.४० ॥
मुखप्रक्षालने काले माधवं संस्मरेत्खग
गवां कण्डूयने चैव स्मरेद्गोवर्धनं हरिम् ॥ ३.२९.४१ ॥
सदा गोदोहने काले स्मरेद्गोपालवल्लभम्
अनन्तपुण्यार्जितजन्मकर्मणां सुपक्वकाले च खगेन्द्रसत्तम ॥ ३.२९.४२ ॥
स्पर्शे गवां चैव सदा नृणां वै भवत्यतो नात्र विचार्यमस्ति
यस्मिन् गृहे नास्ति सदोत्तमा च गौर्यङ्गणे श्रीतुलसी च नास्ति ॥ ३.२९.४३ ॥
यस्मिन् गृहे देवमहोत्सवश्च यस्मिन् गृहे श्रवणं नास्ति विष्णोः
तत्संसर्गाद्याति दुः खादिकं च तस्य स्पर्शो नैव कार्यः कदापि ॥ ३.२९.४४ ॥
गोस्पर्शनविहीनस्य गोदोहनमजानतः
गोपोषणविहीनस्य प्राहुर्जन्म निरर्थकम् ॥ ३.२९.४५ ॥
गोग्रासमप्रदातुश्च गोपुष्टिं चाप्यकुर्वतः
गतिर्नास्त्येव नास्त्येव ग्रामचाण्डालवत्स्मृतः ॥ ३.२९.४६ ॥
वत्स्यस्य स्तनपाने च बालकृष्णं तु संस्मरेत्
दधिनिर्मन्थने चैव मन्थाधारं स्मरेद्धरिम् ॥ ३.२९.४७ ॥
मृत्तिकास्नान काले तु वराहं संस्मरेद्धरिम्
पुण्ड्राणां धारणे चैव केशवादींश्च द्वादश ॥ ३.२९.४८ ॥
मुद्राणां धारणे चैव शङ्खचक्रगदाधरम्
पद्मं नारायणीं मुद्रां क्रुद्धोल्कादींश्च संस्मरेत् ॥ ३.२९.४९ ॥
श्रीरामसंस्मृतिं चैव संध्याकाले खगोत्तम
अच्युतानन्तगोविन्दाञ्छ्राद्धकाले च संस्मरेत् ॥ ३.२९.५० ॥
प्राणादिकपञ्चहोमेचानिरूद्धादींश्च संस्मरेत्
अन्नाद्यर्पणकाले तु वासुदेवं च संस्मरेत् ॥ ३.२९.५१ ॥
अपोशनस्य काले तु वायोरन्तर्गतं हरिम्
बस्त्रधारणकाकाले तु उपेन्द्रं संस्मरेद्धरिम् ॥ ३.२९.५२ ॥
यज्ञोपवीतस्य च धारणे तु नारायणं वामनाख्यं स्मरेत्तु
आर्तिक्यकाले च तथैव विष्णोः सम्यक्स्मरेत्पर्शुरामाख्यविष्णुम् ॥ ३.२९.५३ ॥
अपोशनेवैश्वदेवस्य काले तदन्यहोमादिषु भस्मधारणे
स्मरेत्तु भक्त्या परमादरेण नारायणं जामदग्न्याख्यरामम् ॥ ३.२९.५४ ॥
त्रिवारतीर्थग्रहणस्य काले कृष्णं रामं व्यासदेवं क्रमेण
शङ्खोदकस्योद्धरणे चैव काले मुकुन्दरूपं संस्मरेत्सर्वदैव ॥ ३.२९.५५ ॥
ग्रासेग्रासे स्मरणं चैव कार्यं गोविन्दसंज्ञस्य विशुद्धमन्नम्
एकैकभक्ष्यग्रहणस्य काले सम्यक्स्मरेदच्युतं वै खगेन्द्र ॥ ३.२९.५६ ॥
शाकादीनां भक्षणे चैव काले धन्वन्तरिं स्मरेच्चैव नित्यम्
तथा परान्नस्य च भोगकाले स्मरेच्च सम्यक्पाण्डुरङ्गं च विष्णुम् ॥ ३.२९.५७ ॥
हैयङ्गवीनस्य च भक्षणे वै सम्यक्स्मरेत्ताण्डवाख्यं च कृष्णम्
दध्यन्नभक्षे परमं पुराणं गोपालकृष्णं संस्मरेच्चैव नित्यम् ॥ ३.२९.५८ ॥
दुग्धान्नभोगे च तथैव काले सम्यक्स्मरेच्छ्रीनिवासं हरिं च
सुतैलसर्पिः षु विपक्वभक्षसंभोजने संस्मरेद्व्यङ्कटेशम् ॥ ३.२९.५९ ॥
द्राक्षासुजम्बूकदलीरसालनारिङ्गदाडिम्बफलानि चारु
स्मरेत्तु रम्भोत्तमनारिकेलधात्रीसुभोगे खलु बालकृष्णम् ॥ ३.२९.६० ॥
सुपानकस्यैव च पानकाले सम्यक्स्मरेन्नारसिंहाख्यविष्णुम्
गङ्गामृतस्यैव च पानकाले गङ्गातातं संस्मरेद्विष्णुमेव ॥ ३.२९.६१ ॥
प्रयाणकाले संस्मरेत्तार्क्ष्यवाहं नारायणं निर्गुणं विश्वमूर्तिम्
पुत्रादीनां चुंबने चैव काले सुवेणुहस्तं संस्मरेत्कृष्णमेव ॥ ३.२९.६२ ॥
सुखङ्गकाले स्वस्त्रियश्चैव नित्यं गोपि कुचद्वन्द्वविलासिनं हरिम्
तांबूलकाले संस्मरैच्चैव नित्यं प्रद्युम्नाख्यं वासुदेवं हरिं च ॥ ३.२९.६३ ॥
शय्याकाले संस्मरेच्चैव नित्यं संकर्षणाख्यं विष्णुरूपं हरिं च
निद्राकाले संस्मरेत्पद्मनामं कथाकाले व्यासरूपं हरिं च ॥ ३.२९.६४ ॥
सुगानकाले संस्मरेद्वेणुगीतं हरिं हरिं प्रवदेत्सर्वदैव
श्रीमत्तुलस्याश्छेदने चैव काले श्रीरामरामेति च संस्मरेत्तु ॥ ३.२९.६५ ॥
पुष्पादीनां छेदने चैव काले सम्यक स्मरेदेत्कपिलाख्यं हरिं च
प्रदक्षिणेगारुडान्तर्गतं च हरिं स्मरेत्सर्वदा वै खगेन्द्र ॥ ३.२९.६६ ॥
प्रणमकाले देवदेवस्य विष्णोः शेषान्तस्थं संस्मरेच्चैव विष्णुम्
सुनीतिकाले संस्मरेन्नारसिंहं नारायणं संसंमरेत्सर्वदापि ॥ ३.२९.६७ ॥
पूर्तिर्यदा क्रियते कर्मणां च सम्यक्स्मरेद्वासुदेवं हरिं च
एवं कृतानि कर्माणि हरिप्रीतिकराणि च ॥ ३.२९.६८ ॥
सम्यक्प्रकुर्वन्नेतानि पुष्करो हरिवल्लभः ॥ ३.२९.६९ ॥
एतस्मादेव पक्षीश कर्म यत्समुदाहृतं पुष्कराख्यानमतुलं शृणोति श्रद्धयान्वितः
हरिप्रीतिकरे धर्मे प्रीतियुक्तो भवेत्सदा ॥ ३.२९.७० ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे तत्त्वरहस्यं नामैकोनत्रिंशोध्यायः
समाप्तमिदं गरुडमहापुराणम्
इति श्रीगरुडमहापुराणं समाप्तम्