अक्षक्षेत्र न०
अक्षनिमित्तं क्षेत्रम् शा० त० । ज्योतिषोक्तेषु
अक्षसाधनार्थं क्षेत्रतया कल्पितेषु अक्षप्रवेषु अष्टसु क्षेत्रेषु ।
तानि च सिद्धान्तशिरोमणौ गणिताध्याये दर्शितानि यथा ।
“भुजोऽक्षभा कोटिरिनाङ्गुलोना कर्णोऽक्षकर्णः १ खलुमूलमेतत्
क्षेत्राणि यान्यक्षभवानि तेषां विद्येव मानार्थयशःसुखा-
नाम् ॥ लम्बज्यका कोटिरथाक्षजीवा भुजोऽत्र कर्णस्त्रि-
भुजे २ त्रिभज्या । कुज्या भुजः कोटिरपक्रमज्या कर्णो-
ऽग्रका च त्रिभुजं तथेदम्३ ॥ तथैव कोटिः समवृत्तशङ्कु-
रग्रा भुजस्तद्धृतिरत्र कर्णः ४ । भुजोऽपमज्या समना चकर्णः
कुज्योनिता तद्धृतिरत्र कोटिः ५ ॥ अग्रादिखण्डं कथिता च
कोटिरुद्वृत्तना दोः श्रवणोऽपमज्या ६ । उद्वृत्तना कोटि-
रथाग्रकाग्रखण्डं भुजस्तच्छ्रवणः क्षितिज्या ७ ॥ खण्डं
यदूर्द्ध्वं समवृत्तशङ्को र्यत्तद्धूतेस्तावथ कोटिकर्णौ । अग्रादि-
खण्डं भुज ८ एवमष्टौ क्षेत्राण्यमून्यक्षभवानि तावत् ॥”
क्षेत्राणि दर्शयेत्, “तत्र दक्षिणोत्तरमण्डले विषुवद्वृत्तसम्पा-
तादधो यावाँल्लम्बः क्षितिजसमसूत्रपर्य्यन्तः सा तत्र कोटिः,
लम्बनिपातकुमध्ययोरन्तरं साऽक्षज्या तत्र भुजः, भूमध्या-
ल्लम्बाग्रगामिसूत्रं त्रिज्या सा तत्र कर्णः, इदमप्यक्षक्षेत्रम्,
इष्टाहोरात्रवृत्त यत्र क्षितिजे लग्नं तस्य प्राक् स्वस्ति-
कस्य चान्तरमग्रा (चापांशाः) तेषां ज्याऽग्रा तावती च
प्रत्यक्क्षितिजे अग्राग्रयोर्निवद्धं सूत्रमुदयास्तसूत्रम्
अहोरात्रवृत्तोन्मण्डलसम्पातस्य प्राच्यपरसूत्रस्य च यदन्तरं सा
क्रान्तिज्या, सा तत्र कोटिः, अग्रा कर्णः, तदग्रयोरन्तरं
सा कुज्या स भुजः इदमक्षक्षेत्रं, तथाहोरात्रवृत्तसममण्डल-
सम्पातादधोवलम्बः, समवृत्तशङ्कुः सा कोटिः, अग्रा भुजः,
अहोरात्रवृत्ते ज्याखण्डकं तद्धृतिः कर्णः, इदमक्षक्षेत्रं,तथा कृज्योनिता तद्धृतिरहोरात्रवृत्ते ज्यार्द्वं सा कोटिः,
उन्मण्डले क्रान्तिज्या स भुजः, समवृत्तशङ्गुः कर्णः, इदमक्ष-
क्षेत्रम्, तथाहोरात्रोन्मण्डलयोः सम्पातादवलम्ब उन्मण्डल-
शङ्गुः स भुजः, उन्मण्डलवृत्ते क्रान्तिज्या कर्णः, उन्म-
ण्डलशङ्क मूलस्य प्राच्यपरसूत्रस्य च यदन्तरं तदग्रादि-
खण्डं सा तत्र कोटिः, इदमक्षक्षेत्रं, तथोन्मण्डलशङ्कः कोटिः,
शङ्कुमूलोदयास्तसूत्रदोरन्तरमग्राग्रखण्डं स भुझः, कोटि-
भुजाग्रयोरन्तरसूत्रं सा कुज्या स तत्र कर्णः, इदमक्षक्षेत्रं,
तथोन्मण्डलशङ्कना हीनः समशङ्कुस्तत्समशङ्कोरूर्द्ध्वं खण्डं
सा कोटिः, कुज्योना तद्धृतिस्तद्धृतेरूर्द्ध्वखण्डं स कर्णः,
अग्रादिखण्डं स भुजः, इदमक्षक्षेत्रम् एतान्यष्टौ तावत्कथि-
तानि एवमन्यान्यपि भवन्ति ।