Bhagabat Gita Vaishnava Commentaries

Commentators:-  श्रीधरः- मधुसूदन – विश्वनाथः – बलदेव

भगवद्गीता १.१

धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१॥

श्रीधरः

शेषाशेषमुखव्याख्याचातुर्यं त्वेकवक्त्रतः ।
दधानमद्भुतं वन्दे परमानन्दमाधवम् ॥

श्रीमाधवं प्रणम्यो माधवं विश्वेशमादरात् ।
तद्भक्तियन्त्रितः कुर्वे गीताव्याख्यां सुबोधिनीम् ॥

भाष्यकारमतं सम्यक्तद्व्याख्यातृगिरस्तथा ।
यथामति समालोच्य गीताव्याख्यां समारभे ॥

गीता व्याख्यायते यस्याः पाठमात्रप्रयत्नतः ।
सेयं सुबोधिनी टीका सदा ध्येया मनीषिभिः ॥

इह खलु सकललोकहितावतारः परमकारुणिको भगवान् देवकीनन्दनस्तत्त्वाज्ञानविजृम्भितशोकमोहभ्रंशितविवेकतया निजधर्मपरित्यागपूर्वकपरधर्माभिसन्धिनमर्जुनं धर्मज्ञानरहस्योपदेशप्लवेन तस्माच्छोकमोहसागरादुद्दधार । तमेव भगवदुपदिष्टमर्थं कृष्णद्वैपायनः सप्तभिः श्लोकशतैरुपनिबबन्ध । तत्र च प्रायशः श्रीकृष्णमुखाद्विनिःसृतानेव श्लोकानलिखत् । कांश्चित्तत्सङ्गतये स्वयं च व्यरचयत् । यथोक्तं गीतामाहात्म्ये

गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ इति ।

तत्र तावद्धर्मक्षेत्रे इत्यादिना । विषीदन्निदमब्रवीदित्यन्तेन ग्रन्थेन श्रीकृष्णार्जुनसंवादप्रस्तावाय कथा निरूप्यते । ततः परमासमाप्तेस्तयोर्धर्मज्ञानार्थे संवादः । तत्र धर्मक्षेत्र इत्यादिना श्लोकेन धृतराष्ट्रेन हस्तिनापुरस्थितं स्वसारथिं समीपस्थं सञ्जयं प्रति कुरुक्षेत्रवृत्तान्ते पृष्ठे सञ्जयो हस्तिनापुरस्थितोऽपि व्यासप्रसादलब्धदिव्यचक्षुः कुरुक्षेत्रवृत्तान्तं साक्षात्पश्यन्निव धृतराष्ट्राय निवेदयामास । दृष्ट्वा तु पाण्डवानीकमित्यादिना ।

धृतराष्ट्र उवाचेति । धर्मक्षेत्र इति । भोः सञ्जय । धर्मक्षेते धर्मभूमौ कुरुक्षेत्रे । धर्मक्षेत्र इति कुरुक्षेत्रविशेषणम् । एषामादिपुरुषः कश्चित्कुरुनामा बभूव । तस्य कुरोर्धर्मस्थाने मामका मत्पुत्राः पाण्डुपुत्राश्च युयुत्सवो योद्धुमिच्छन्तः समवेताः मिलिताः सन्तः किमकुर्वत किं कृतवन्तः ॥१॥

विश्वनाथः

गौरांशुकः सत्कुमुदप्रमोदी
स्वाभिख्यया गोस्तमसो निहन्ता ।
श्रीकृष्णचैतन्यसुधनिधिर्मे
मनोऽधितिष्ठन् स्वरतिं करोतु ॥

प्राचीनवाचः सुविचार्य सोऽहम्
अज्ञोऽपि गीतामृतलेशलिप्सुः ।
यतेः प्रभोरेव मते तदत्र
सन्तः क्षमध्वं शरणागतस्य ॥

इह खलु सकलशास्त्राभिमतश्रीमच्चरणसरोजभजनः स्वयं भगवान्नराकृतिपरब्रह्मश्रीवसुदेवसूनुः साक्षाच्छ्रीगोपालपुर्यामवतीर्यापारपरमातर्क्यप्रापञ्चिकसकललोचनगोचरीकृतो भवाब्धिनिमज्जमानान् जगज्जनानुधृत्य स्वसौन्दर्यमाधुर्यास्वादनया स्वीयप्रेममहाम्बुधौ निमज्जयामास ।

शिष्टरक्षा दुष्टनिग्रहव्रतनिष्ठामहिष्ठप्रतिष्ठोऽपि भुवो भारदुःखापहारमिषेण दुष्टानामपि स्वद्वेष्टॄणामपि महासंसारग्रासीभूतानामपि मुक्तिदानलक्षणं परमरक्षणमेव कृत्वा स्वान्तर्धानोत्तरकालजनिष्यमाणाननाद्यविद्याबन्धनिबद्न्हनशोकमोहाद्याकुलानपि जीवानुद्धर्तुं शास्त्रकृन्मुनिगणगीयमानयशश्च धर्तुं स्वप्रियसखं तादृशस्वेच्छावशादेव रणमूर्धन्युद्भूतशोकमोहं श्रीमदर्जुनं लक्ष्यीकृत्य काण्डत्रितयात्मकसर्ववेदतात्पर्यपर्यवसितार्थरत्नालङ्कृतं श्रीगीताशास्त्रमष्टादशाध्यायम्
अन्तर्भूताष्टादशविद्यं साक्षाद्विद्यमानीकृतमिव परमपुरुषार्थमाविर्भावयाम्बभूव ।

तत्राध्यायानां षट्केनन् प्रथमेन निष्कामकर्मयोगः । द्वितीयेन भक्तियोगः । तृतीयेन ज्ञानयोगो दर्शितः । तत्रापि भक्तियोगस्यातिरहस्यत्वादुभयसङ्जीवकत्वेनाभ्यर्हितत्वात्सर्वदुर्लभत्वाच्च मध्यवर्तीकृतः । कर्मज्ञानयोर्भक्तिराहित्येन वैयर्थ्यात्ते द्वे भक्तिमिश्रे एव सम्मतीकृते ।

भक्तिस्तु द्विविधा केवला प्रधानीभूता च । तत्राद्या स्वत एव परमप्रबला । ते द्वे कर्मज्ञाने विनैव विशुद्धप्रभावती अकिञ्चना अनन्यादिशब्दवाच्या । द्वितीया तु कर्मज्ञानमिश्रेत्यखिलमग्रे विवृतीभविष्यति ।

अथार्जुनस्य शोकमोहौ कथम्भूतावित्यपेक्षायां महाभारतवक्ता श्रीवैशम्पायनो जनमेजयं प्रति तत्र भीष्मपर्वणि कथामवतारयति धृतराष्ट्र उवाच इति । कुरुक्षेत्रे युयुत्सवो युद्धार्थं सङ्गता मामका दुर्योधनाद्याः पाण्डवाश्च युधिष्ठिरादयः किं कृतवन्तस्तद्ब्रूहि । ननु युयुत्सव इति त्वं ब्रवीष्येवातो युद्धमेव कर्तुमुद्यतास्ते तदपि किमकुर्वतेति केनाभिप्रायेण पृच्छसीत्यत आह धर्मक्षेत्र इति । कुरुक्षेत्रं देवयजनमिति श्रुतेस्तत्क्षेत्रस्य धर्मप्रवर्तकत्वं प्रसिद्धम् ।

अतस्तत्संसर्गमहिम्ना यद्यधर्मिकाणामपि दुर्योधनादीनां क्रोधनिवृत्त्या धर्मे मतिः स्यात् । पाण्डवास्तु स्वभावत एव धार्मिकास्ततो बन्धुहिंसनमनुचितमित्युभयेषामपि विवेके उद्भूते सन्धिरपि सम्भाव्यते । ततश्च ममानन्द एवेति सञ्जयं प्रति ज्ञापयितुमिष्टो भावो बाह्यः । आभ्यन्तरस्तु सन्धौ सति पूर्ववत्सकण्टकमेव राज्यं मदात्मजानामिति मे दुर्वार एव विषादः । तस्मादस्माकीनो भीष्मस्त्वर्जुनेन दुर्जय एवेत्यतो युद्धमेव श्रेयस्तदेव भूयादिति तु तन्मनोरथोपयोगी दुर्लक्ष्यः ।

अत्र धर्मक्षेत्रे इति क्षेत्रपदेन धर्मस्य धर्मावतारस्य सपरिकरयुधिष्ठिरस्य धान्यस्थानीयत्वम् । तत्पालकस्य श्रीकृष्णस्य कृषिबलस्थानीयत्वम् । कृष्णकृतनानाविधसाहाय्यस्य जलसेचनसेतुबन्धनादिस्थानीयत्वम् । श्रीकृष्णसंहार्यदुर्योधनादेर्धान्यद्वेषिधान्याकारतृणविशेषस्थानीयत्वं च बोधितं सरस्वत्या ॥१॥

बलदेवः

सत्यानन्ताचिन्त्यशक्त्येकपक्षे
सर्वाध्यक्षे भक्तरक्षातिदक्षे ।
श्रीगोविन्दे विश्वसर्गादिकण्डे
पूर्णानन्दे नित्यमास्तां मतिर्मे ॥

अज्ञाननीरधिरुपैति यया विशेषं
भक्तिः परापि भजते परिपोषमुच्चैः ।
तत्त्वं परं स्फुरति दुर्गममप्यजस्रं
साद्गुण्यभृत्स्वरचितां प्रणमामि गीताम् ॥

अथ सुखचिद्घनः स्वयं भगवानचिन्त्यशक्तिः पुरुषोत्तमः स्वसङ्कल्पायत्तविचित्रजगदुदयादिविरिञ्च्यादिसञ्चिन्त्यचरणः स्वजन्मादिलीलया स्वतुल्यान् सहाविर्भूतान् पार्षदान् प्रहर्षयंस्तयैव जीवान् बहूनविद्याशार्दूलीवदनाद्विमोच्य स्वान्तर्धानोत्तरभाविनोऽन्यानुद्दिधीर्षुराहवमूर्ध्नि स्वात्मभूतमप्यर्जुनमवितर्क्यस्वशक्त्या समोहमिव कुर्वन् तन्मोहविमार्जनापदेशेन सपरिकरस्वात्मयाथात्म्यैकनिरूपिकां स्वगीतोपनिषदमुपादिशत् ।

तस्यां खल्वीश्वरजीवप्रकृतिकालकर्माणि पञ्चार्था वर्ण्यन्ते । तेषु विभुसंविदीश्वरः । अणुसंविज्जीवः । सत्त्वादिगुणत्रयाश्रयो द्रव्यं प्रकृतिः । त्रैगुण्यशून्यं जडद्रव्यं कालः । पुंप्रयत्ननिष्पाद्यमदृष्टादिशब्दवाच्यं कर्मेति ।

तेषां लक्षणानि । एष्वीश्वरादीनि चत्वारि नित्यानि । जीवादीनि त्वीश्वरवश्यानि । कर्म तु प्रागभाववदनादि विनाशि च । तत्र संवित्स्वरूपोऽपीश्वरो जीवश्च संवेत्तास्मदर्थश्च विज्ञानमानन्दं ब्रह्म, यः सर्वज्ञः सर्ववित्, मन्ता बोद्धा कर्ता विजानात्मा पुरुषः, इत्यादि श्रुतेः । सोऽकामयत बहु स्याम्, सुखमहमस्वाप्सं न किञ्चिदवेदिषमित्यादि श्रुतेश्च । न चोभयत्र महत्तत्त्वजातोऽयमहङ्कारः ।

तदा तस्यानुत्पत्तेर्विलीनत्वाच्च । स च स च कर्ता भोक्ता सिद्धः सर्वज्ञः सर्ववित्कर्ता बोद्धा इति पदेभ्यः । अनुभवितृत्वं कह्लु भोक्तृत्वं सर्वाभ्युपगतम् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इति श्रुतेस्तूभयोस्तत्प्रव्यक्तम् । यद्यपि संवित्स्वरूपात्संवेत्तृत्वादि नान्यत्प्रकाशस्वरूपाद्रवेरिव प्रकाशकत्वादि, तथापि विशेषसामर्थ्यात्तदन्यत्वव्यवहारः । विशेषश्च भेदप्रतिनिधिर्न भेदः । स च भेदाभावेऽपि भेदकार्यस्य धर्मधर्मिभावादिव्यवहारस्य हेतुः ।सत्ता सती भेदो भिन्नः कालः सर्वदास्तीत्यादिषु विद्वद्भिः प्रतीतः । तत्प्रतीत्यन्यथानुपपत्त्या एवं धर्मान् पृथक्पश्यंस्
तानेवानुविधावति इति श्रुत्या च सिद्धः । इह हि ब्रह्मधर्मानभिधाय तद्भेदः प्रतिषिध्यते ।

न खलु भेदप्रतिनिधेस्तस्याप्यभावे धर्मधर्मिभावधर्मबहुत्वे शक्ये वक्तुमित्यनिच्छुभिरपि स्वीकार्याः स्युः त इमेऽर्थाः शास्त्रेऽस्मिन् यथास्थानमनुसन्धेयाः । इह हि जीवात्मपरमात्मतद्धाम तत्प्राप्त्युपायानां स्वरूपाणि यथावन्निरूप्यन्ते । तत्र जीवात्मयाथात्म्यपरमात्मयाथात्म्योपयोगितया परमात्मयाथात्म्यं तु तदुपासनोपयोगितया प्रकृत्यादिकं तु परमात्मनः स्रष्टुरुपकरणतयोपदिश्यते ।

तदुपायाश्च कर्मज्ञानभक्तिभेदात्त्रेध । तत्र श्रुततत्तत्फलनैरपेक्षेण कर्तृत्वाभिनिवेशपरित्यागेन चानुष्ठितस्य स्वविहितस्य कर्मणः हृद्विशुद्धिद्वारा ज्ञानभक्त्योरुपकारित्वात्परम्परया तत्प्राप्तावुपायत्वम् । तच्च श्रुतिविहितकर्म हिंसाशून्यमत्र मुख्यम् । मोक्षधर्मे पितापुत्रादिसंवादाथिंसावत्तु गौणं विप्रकृष्टत्वात्तयोस्तु साक्षादेव तथात्वम् ।

ननु, तथानुष्ठितेन कर्मणा हृद्विशुद्ध्या ज्ञानोदयेन मुक्तौ सत्यां भक्त्या को विशेषः । उच्यते, ज्ञानमेव किञ्चिद्विशेषाद्भक्तिरिति । निर्णिमेषवीक्षणकटाक्षवीक्षणवदनयोरन्तरं चिद्विग्रहतयानुसन्धिर्ज्ञानं तेन तत्सालोक्यादिः । विचित्रलीलारसाश्रयतयानुसन्धिस्तु भक्तिस्तया क्रोडीकृतसालोक्यादितद्वरीवस्यानन्दलाभः पुमर्थः । भक्तेर्ज्ञानत्वं तु “सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति” इति श्रुतेः सिद्धम् ।

तदिदं श्रवणादिभावादिशब्दव्यपदिष्टं दृष्टम् । ज्ञानस्य श्रवणाद्याकारत्वं चित्सुखस्य विष्णोः कुन्तलादिप्रतीकत्ववत्प्रत्येतव्यमिति वक्ष्यामः । षट्त्रिकेऽस्मिन् शास्त्रे प्रथमेन षट्केनेश्वरांशस्य जीवस्यांशीश्वरभक्त्युपयोगिस्वरूपदर्शनम् । तच्चान्तर्गतज्ञाननिष्कामकर्मसाध्यं निरूप्यते । मध्येन परमप्राप्यस्यांशीश्वरस्य प्रापणी भक्तिस्तन्महिमधीपूर्विकाभिधीयते । अन्त्येन तु पूर्वोदितानामेवेश्वरादीनां स्वरूपाणि परिशोध्यन्ते । त्रयाणां षट्कानां कर्मभक्तिज्ञानपूर्वताव्यपदेशस्तु तत्तत्प्राधान्येनैव । चरमे भक्तेः प्रतिपत्तेश्चोक्तिस्तु
रत्नसम्पुटोर्ध्वलिखिततत्सूचकलिपिन्यायेन ।

अस्य शास्त्रस्य श्रद्धालुः सद्धर्मनिष्ठो विजितेन्द्रियोऽधिकारी । स च सनिष्ठपरिनिष्ठितनिरपेक्षभेदात्त्रिविधः । तेषु स्वर्गादिलोकानपि दिदृक्ष्र्निष्ठया स्वधर्मान् हर्यर्चनरूपानाचरन् प्रथमः । लोकसंजिघृक्षया तानाचरन् हरिभक्तिनिरतो द्वितीयः । स च स च साश्रमः । सत्यतपोजपादिभिर्विशुद्धचित्तो हर्येकनिरतस्तृतीयो निराश्रमः । वाच्यवाचकभावः सम्बन्धः । वाच्य उक्तलक्षणः श्रीकृष्णः । वाचकस्तद्गीताशास्त्रं तादृशः सोऽत्र विषयः । अशेषक्लेशनिवृत्तिपूर्वकस्तत्साक्षात्कारस्
तु प्रयोजनमित्यनुबन्धचतुष्टयम् । अत्रेश्वरादिषु त्रिषु ब्रह्मशब्दोऽक्षरशब्दश्च बद्धजीवेषु तद्देहेषु च क्षरशब्दः । ईश्वरजीवदेहे मनसि बुद्धौ धृतौ यत्ने चात्मशब्दः । त्रिगुणायां वासनायां शीले स्वरूपे च प्रकृतिशब्दः । सत्ताभिप्रायस्वभावपदार्थजन्मसु क्रियास्वात्मसु च भावशब्दः । कर्मादिषु त्रिषु चित्तवृत्तिनिरोधे च योगशब्दः पठ्यते । एतच्छास्त्रं खलु स्वयं भगवतः साक्षाद्वचनं सर्वतः श्रेष्ठं
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥ इति पाद्मात् ।

धृतराष्ट्रादिवाक्यं तु तत्सङ्गतिलाभाय द्वैपायनेन विरचितम् । तच्च लवणाकरनिपातन्यायेन तन्मयमित्युपोद्घातः ।

सङ्ग्राममूर्ध्नि संवादो
योऽभूद्गोविन्दपार्थयोः ।
तत्सङ्गत्यै कथां प्राख्याद्
गीतासु प्रथमे मुनिः ॥

इति तावद्भगवदर्जुनसंवादं प्रस्तौतुं कथा निरूप्यते। धर्मक्षेत्रे इत्यादिभिः सप्तविंशत्या । तद्भगवतः पार्थसारथ्यं विद्वान् धृतराष्ट्रः स्वपुत्रविजये सन्दिहानः सञ्जयं पृच्छतीत्याह । जन्मेजयं प्रति वैशम्पायनः धृतराष्ट्र उवाचेति । युयुत्सवो योद्धुमिच्छवो मामका मत्पुत्राः पाण्डवाश्च कुरुक्षेत्रे समवेताः किमकुर्वतेति ।

ननु युयुत्सवः समवेता इति त्वमेवात्थ्य ततो युधेरन्नेव पुनः किमकुर्वतेति कस्ते भाव इति चेत्, तत्राह धर्मक्षेत्र इति । “यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमित्यादिश्रवणाद्धर्मप्ररोहिभूमिभूतं कुरुक्षेत्रं प्रसिद्धम् । तत्प्रभावाद्विनष्टविद्वेषा मत्पुत्राः किं पाण्डवेभ्यस्तद्राज्यं दातुं निश्चिक्युः । किं वा, पाण्डवाः सदैव धर्मशीला धर्मक्षेत्रे तस्मिन् कुलक्षयहेतुकादधर्माद्भीता वनप्रवेशमेव श्रेयो विममृशुरिति । हे सञ्जयेति व्यासप्रसादाद्विनष्टरागद्वेषस्
त्वं तथ्यं वदेत्यर्थः । पाण्डवानां मामकत्वानुक्तिर्धृतराष्ट्रस्य तेषु द्रोहमभिव्यनक्ति । धान्यक्षेत्रात्तद्विरोधिनां धान्याभासानामिव धर्मक्षेत्रात्तद्विरोधिनां धर्माभासानां त्वत्पुत्राणामपगमो भावीति धर्मक्षेत्रशब्देन गीर्देव्या व्यज्यते ॥१॥

__________________________________________________________

भगवद्गीता १.२

संजय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥२॥

श्रीधरः सञ्जय उवाच दृष्ट्वेत्यादि । पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनया अधिष्ठितं दृष्ट्वा द्रोणाचार्यसमीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वचनमुवाच ॥२॥

विश्वनाथः विदिततदभिप्रायस्तदाशांसितं युद्धमेव भवेत् । किन्तु तन्मनोरथप्रतिकुलमिति मनसि कृत्वा उवाच दृष्ट्वेति । व्यूढं व्यूहरचनयावस्थितम् । राजा दुर्योधनः सान्तर्भयमुवाच । पश्यैतामिति नवभिः श्लोकैः ॥२॥

बलदेवः एवं जन्मान्धस्य प्रज्ञाचक्षुषो धृतराष्ट्रस्य धर्मप्रज्ञाविलोपान्मोहान्धस्य मत्पुत्रः कदाचित्पाण्डवेभ्यस्तद्राज्यं दद्यादिति विम्लानचित्तस्य भावं विज्ञाय धर्मिष्ठः सञ्जयस्त्वत्पुत्रः कदाचिदपि तेभ्यो राज्यं नार्पयुष्यतीति तत्सन्तोषमुत्पादयन्नाह दृष्ट्वेति । पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनयावस्थितम् । आचार्यं धनुर्विद्याप्रदं द्रोणमुपसङ्गम्य स्वयमेव तदन्तिकं गत्वा राजा राजनीतिनिपुणः वचनमल्पाक्षरत्वं गम्भीरार्थत्वं सङ्क्रान्तवचनविशेषम्
। अत्र स्वयमाचार्यसन्निधिगमनेन पाण्डवसैन्यप्रभावदर्शनहेतुकं तस्यान्तर्भयं गुरुगौरवेण तदन्तिकं स्वयमागतवानस्मीति भयसङ्गोपनं च व्यज्यते । तदिदं राजनीतिनैपुण्यादिति च राजपदेन ॥२॥

__________________________________________________________

भगवद्गीता १.३

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥

श्रीधर तदेव वचनमाह पश्यैतामित्यादिभिः नवभिः श्लोकैः । पश्येत्यादि हे आचार्य । पाण्डवानां महतीं विततां चमूं सेनां पश्य । तव शिष्येण द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां व्यूहरचनयाधिष्ठिताम् ॥३॥

विश्वनाथ द्रुपदपुत्रेण धृष्टद्युम्नेन तव शिष्येण स्ववधार्थमुत्पन्न इति जानतापि त्वयायमध्यापित इति तव मन्दबुद्धित्वम् । धीमतेति शत्रोरपि त्वत्तः सकाशात्त्वद्वधोपायविद्या गृहीतेत्यस्य महाबुद्धित्वं फल्कालेऽपि पश्येति भावः ॥३॥

बलदेव तत्तादृशं वचनमाह पश्यैतामित्यादिना । प्रियशिष्येषु युधिष्ठिरादिषु स्नेहातिशयादाचार्यो न युध्येदिति विभाव्य तत्कोपोत्पादनाय तस्मिंस्तदवज्ञां व्यञ्जयन्नाह एतामिति । एतामतिसन्निहितां प्रागल्भ्येनाचार्यमतिशूरं च त्वामविगणय्य स्थितां दृष्ट्वा तदवज्ञां प्रतीहीति, व्यूढां व्यूहरचनया स्थापिताम् । द्रुपदपुत्रेणेति त्वद्वैरिणा द्रुपदेन त्वद्वधाय धृष्टद्युम्नः पुत्रो यज्ञाग्निकुण्डादुत्पादितोऽस्तीति । तव शिष्येणेति त्वं स्वशत्रुं जानन्नपि धनुर्विद्यामध्यापितवानसीति तव मन्दधीत्वम् । धीमतेति शत्रोस्त्वत्तस्त्वद्वधोपायो गृहीत इति तस्य सुधीत्वम् । त्वदपेक्ष्यकारितैवास्माकम्
अनर्थहेतुरिति ॥३॥

__________________________________________________________

भगवद्गीता १.४६

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥४॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६॥

श्रीधर अत्रेत्यादि । अत्र अस्यां चम्वाम् । इषवो बाणा अस्यस्ते क्षिप्यन्ते एभिरिति इषासाः धनूंषि । महान्त इष्वासो येषां ते महेष्वासाः । भीमार्जुनौ तावदत्रातिप्रसिद्धौ योद्धारौ । ताभ्यां समाः शूराः शौर्येण क्षात्रधर्मेणोपेताः सन्ति । तानेव नामभिर्निर्दिशति युयुधानः सात्यकिः । किं च धृष्टकेतुरिति । विक्रान्तो युधामन्युर्नामैकः । सौभद्रोऽभिमन्युर्द्रौपदेयाः द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः पुत्राः प्रतिविन्ध्यादयः पञ्च । महारथादीनां लक्षणम्

एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतः ॥
अमितान् योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः ।
चैकेन यो युध्येत्तन्न्यूनोऽर्धरथः स्मृतः ॥ इति ॥४६॥

विश्वनाथ अत्र चम्वाम् । महान्तः शत्रुभिश्छेत्तुमशक्या इष्वासा धनूंषि येषां ते । युयुधानः सात्यकिः । सौभद्रोऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यो जाताः प्रतिविन्ध्यादयः । महारथादीनां लक्षणम्

एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतः ॥
अमितान् योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः ।
चैकेन यो युध्येत्तन्न्यूनोऽर्धरथः स्मृतः ॥ इति ॥४६॥

श्रीधर नन्वेकेन धृष्टद्युम्नेनाधिष्ठिताल्पिका सेनास्मदीयेनैकेनैव सुजेया स्यादतस्त्वं मा त्रासीरिति चेत्तत्राह अत्रेति । अत्र चम्वां महान्तः शत्रुभिश्छेत्तुमशक्या इष्वासाश्चापा येषां ते । युद्धकौशलमाशङ्क्याह भीमेति । युयुधानः सात्यकिः । महारथ इति युयुधानीदानां त्रयाणाम् । नरपुङ्गव इति पुरुजिदादीनां त्रयाणाम् । युद्येति विक्रान्त इति युधामन्योः । वीर्यवानित्युत्तमौजसश्चेति विशेषणम् । सौभद्रोऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यः क्रमाद्द्रौपद्यां जाताः प्रतिविन्ध्यश्रुतसेनश्रुतकीर्तिशतानीकश्रुतकर्माख्याः पञ्चपुत्राः
। चशब्दादन्ये च घटोत्कचादयः । पाण्डवास्त्वतिख्यातत्वात्न गणिताः । ये एते सप्तदश गणिताः, ये चान्ये तत्पक्षीयास्ते सर्वे महारथा एव । अतिरथस्याप्युपलक्षणमेतत् । तल्लक्षणं चोक्तम्

एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महार्थ इति स्मृतः ॥
अमितान् योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः ।
चैकेन यो युध्येत्तन्न्यूनोऽर्धरथः स्मृतः ॥ इति ॥४६॥

__________________________________________________________

भगवद्गीता १.७

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥७॥

श्रीधर अस्माकमिति । निबोध बुध्यस्व । नायका नेतारः । संज्ञार्थं सम्यग्ज्ञानार्थम् ॥७॥

विश्वनाथ निबोध बुध्यस्व । संज्ञार्थं सम्यग्ज्ञानार्थम् ॥७॥

बलदेव तर्हि किं पाण्डवसैन्याद्भीतोऽसीत्याचार्यभावं सम्भाव्यान्तर्जातामपि भीतिमाच्छादयन् धार्ष्ट्येनाह अस्माकमिति । अस्माकं सर्वेषां मध्ये ये विशिष्टाः परमोत्कृष्टा बुध्यादिबलशालिनो नायका नेतारः । तान् संज्ञार्थं सम्यक्ज्ञानार्थं ब्रवीमीति । पाण्डवप्रेम्णा त्वं चेन्नो योत्स्यसे, तदापि भीष्मादिभिर्मद्विजयः सेत्स्यत्येवेति तत्कोपोत्पादनार्थं द्योत्यम् ॥७॥

__________________________________________________________

भगवद्गीता १.८९

भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥८॥
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९॥

श्रीधर तानेषाह भवानिति द्वाभ्याम् । भवान् द्रोणः । समितिं संग्रामं जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः । अन्ये चेति मदर्थे मत्प्रयोजनार्थं जीवितं त्यक्तुमध्यवसिता इत्यर्थः । नाना अनेकानि शस्त्रानि प्रहरणसाधनानि येषां ते । युद्धे विशारदा निपुणा इत्यर्थः ॥८९॥

विश्वनाथ सौमदत्तिर्भूरिश्रवाः । त्यक्तजीविता इति जीवितत्यागेनापि यदि मदुपकारः स्यात्तदा तदपि कर्तुं प्रवृत्ता इत्यर्थः । वस्तुतस्तु मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिनिति भगवदुक्तेर्दुर्योधनसरस्वती सत्यमेवाह स्म ॥ ८९॥

बलदेव भवानिति । भवान् द्रोणः । विकर्णो मद्भ्राता कनिष्ठः । सौमदत्तिर्भूरिश्रवाः । समितिञ्जयः संग्रामविजयीति द्रोणादीनां सप्तानां विशेषणम् । नन्वेतावन्त एव मत्सैन्ये विशिष्टाः किन्त्वसङ्ख्येयाः सन्तीत्याह अन्ये चेति । बहवो जयद्रथकृतवर्मशल्यप्रभृतयः । त्यक्तेत्यादि कर्मणि निष्ठा जीवितानि त्यक्तुं कृतनिश्चया इत्यर्थः । इत्थं च तेषां सर्वेषां मयि स्नेहातिरेकात्शौर्यातिरेकाद्युद्धपाण्डित्याच्च मद्विजयः सिद्ध्येदेवेति द्योत्यते ॥८९॥

__________________________________________________________

भगवद्गीता १.१०

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०॥

श्रीधर ततः किं? अत आह अपर्याप्तमित्यादि । तत्तथाभूतैः वीरैर्युक्तमपि भीष्मेणाभिरक्षितमपि अस्माकं बलं सैन्यं अपर्याप्तं तैः सह योद्धुं असमर्थं भाति । इदमेतेषां पाण्डवानां बलं भीमाभिरक्षितं सत्पर्याप्तं समर्थं भाति । भीष्मस्योभयपक्षपातित्वातस्मद्बलं पाण्डवसैन्य्ं प्रत्यसमर्थम् । भीमस्यिकपक्षपातित्वात्पाण्डवानां बलं समर्थम् ॥१०॥

विश्वनाथ अपर्याप्तमपरिपूर्णम् । पाण्डवैः सह योद्धुं अक्षममित्यर्थः । भीष्मेणातिसूक्ष्मबुद्धिना शस्त्रशास्त्रप्रवीणेनाभितो रक्षितमपि भीष्मस्योभयपक्षपातित्वात् । एतेषां पाण्डवानां तु भीमेन स्थूलबुद्धिना शस्त्रशास्त्रानभिज्ञोऽपि रक्षितं पर्याप्तं परिपूर्णम् । अस्माभिः सह युद्धे प्रवीणमित्यर्थः ॥१०॥

बलदेव नन्वुभयोः सैन्ययोस्तौल्यात्तवैव विजयः कथमित्याशङ्क्य स्वसैन्याधिक्यमाह अपर्याप्तमिति । अपर्याप्तमपरिमितमस्माकं बलम् । तत्रापि भीष्मेण महाबुद्धिमतातिरथेनाभिरक्षितम् । एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितम् । तत्रापि भीमेन तुच्छबुद्धिनार्धरथेनाभिरक्षितम् । अतः सिद्धविजयोऽहम् ॥१०॥

__________________________________________________________

भगवद्गीता १.११

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११॥

विश्वनाथ तस्माद्युष्माभिः सावधानैर्भवितुव्यमित्याह अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्ताः स्वां स्वां रणभूमिमपरित्यज्यैवावस्थिता भवन्तो भीष्ममेवाभितस्तथा रक्षन्तु यथान्यैर्युध्यमानोऽयं पृष्ठतः कैश्चिन्न हन्यते । भीष्मबलेनैवास्माकं जीवितमिति भावः ॥११॥

बलदेव अथैवं मदुक्तिभावं विज्ञायाचार्यश्चेदुदासीत तदा मत्कार्यक्षतिरिति विभाव्य तस्मिन् स्वकार्यभारमर्पयन्नाह अयनेष्विति । अयनेषु सैन्यप्रवेशवर्त्मसु यथाभागं विभक्तां स्वां स्वां युद्धभूमिमपरित्यज्यावस्थिता भवन्तो भवदादयो भीष्ममे एवाभितो रक्षन्तु युद्धाभिनिवेशात् पार्श्वतः पृष्ठतश्चापश्यन्तं तं यथान्यो न विहन्यात्तथा कुर्वन्त्वित्यर्थः । सेनापतौ भीष्मे निर्बोधे मद्विजयसिद्धिरिति भावः ।

अयमाशयः भीष्मोऽस्माकं पित्यामहः । भवांस्तु गुरुः । तौ युवामस्मदेकान्तहितैषिणौ विदितौ । यावक्षसदसि मदन्यायं विदन्तावपि द्रौपद्या न्यायं पृष्टौ नावोचतां मया तु पाण्डवेषु प्रतीतं स्नेहाभासं त्याजयितुं तथा निवेदितमिति ॥११॥

__________________________________________________________
भगवद्गीता १.१२
तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२॥

श्रीधर तदेवं बहुमानयुक्तं राजवाक्यं श्रुत्वा भीष्मः किं कृतवान् । तदाह तस्येत्यादि । तस्य राज्ञो हर्षं कुर्वन् पितामहो भीष्म उच्चैर्महान्तं सिंहनादं विनद्य कृत्वा शङ्खं दध्मौ वादितवान् ॥१२॥

विश्वनाथ ततश्च स्वसंमानश्रवणजनितहर्षस्तस्य दुर्योधनस्य भवविध्वंसनेन हर्षं सञनयितुं कुरुवृद्धो भीष्मः सिंहनादमिति उपमाने कर्मणि चेति णमुल्सिंह इव विनद्येत्यर्थः ॥१२॥

बलदेव एवं दुर्योधनकृतां स्वस्तुतिमवधार्य सहर्षो भीष्मस्तदन्तर्जातां भीतिमुत्सादयितुं शङ्खं दध्मावित्याह । सिंहनादमित्युपमाने कर्मणि चेति पाणिनिसूत्रात्णमुल् । चात्कर्तर्युपमाने इत्यर्थः । सिंह इव विनद्येत्यर्थः । मुखतः किञ्चिदनुक्त्वा शङ्खनादमात्रकरणेन जयपराजयौ खल्वीश्वराधीनौ त्वदर्थे क्षत्रधर्मेण देहं त्यक्ष्यामीति व्यज्यते ॥१२॥

__________________________________________________________

भगवद्गीता १.१३

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलो ऽभवत् ॥१३॥

श्रीधर तदेवं सेनापतेः भीष्मस्य युद्धोत्सवमालोक्य सर्वतो युद्धोत्सवः प्रवृत्त इयाह तत इत्यादिना । पणवा मार्दलाः । आनकाः गोमुखाश्च वाद्यविशेषाः । सहसा तत्क्षणमेवाभ्यहन्यन्त वादिताः । स च शङ्खादिशब्दस्तुमुलो महानभूत् ॥१३॥

विश्वनाथ ततश्चोभयत्रैव युद्धोत्साहः प्रवृत्त इत्याह तत इति । पणवा मार्दलाः । आनकाः पटहाः । गोमुखा वाद्यविशेषाः ॥१३॥

बलदेव तत इति । सेनापतौ भीष्मे प्रवृत्ते तत्सैन्ये सहसा तत्क्षणमेव शङ्खादयोऽभ्यहन्यन्त वादिताः । कर्मकर्तरि प्रयोगः । पणवादयस्त्रयो वादित्रभेदाः । स शब्दस्तुमुल एकाकारतया महानासीत् ॥१३॥

__________________________________________________________

भगवद्गीता १.१४

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४॥

श्रीधर ततः पाण्डवसैन्ये प्रवृत्तं युद्धोत्साहमाह तत इत्यादिभिः पञ्चभिः । ततः कौरवसैन्यवाद्यकोलाहलानन्तरं महति स्यन्दने रथे स्थितौ सन्तौ श्रीकृष्णार्जुनौ दिव्यौ शङ्खौ प्रकर्षेण दध्मतुर्वादयामासतुः । ॥१२॥

विश्वनाथ णोथिन्ग् ॥१४॥

बलदेव अथ पाण्डवसैन्ये प्रवृत्तं युद्धोसवमाह तत इति । अन्येषामपि रथस्थितत्वे सत्यपि कृष्णार्जुनयोः रथस्थितत्वोक्तिस्तद्रथस्याग्निदत्तत्वं त्रैलोक्यविजेतृत्वं महाप्रभवत्वं च व्यज्यते ॥१४॥

__________________________________________________________

भगवद्गीता १.१५१८

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१५॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१७॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक्पृथक् ॥१८॥

श्रीधर तदेव विभागेन दर्शयन्नाह पाञ्चजन्यमिति । पाञ्चजन्यादीनि नामानि श्रीकृष्णादिशङ्खानाम् । भीमः घोरं कर्म यस्य सः । वृकवतुदरं यस्य स वृकोदरो महाशङ्खं पौण्ड्रं दध्माविति । अनन्तेति । नकुलः सुघोषं नाम शङ्खं दध्मौ । सहदेवो मणिपुष्पकं नाम । काश्यश्चेति । काश्यः काशिराजः । कथम्भूतः । परमः श्रेष्ठः इष्वासो धनुर्यस्य सः । द्रुपद इति । हे पृथिवीपते धृतराष्ट्र ॥१५१८॥

विश्वनाथ पाञ्चजन्यादयः शङ्खादीनां नामानि । अपराजितः केनापि पराजेतुमशक्यत्वात् । अथवा चापेन धनुषा राजितः प्रदीप्तः ॥१५१८॥

बलदेव पाञ्चजन्यमित्यादि पाञ्चजन्यादयः कृष्णादिशङ्खानामाह्वयाः । अत्र हृषीकेशशब्देन परमेश्वरसहायित्वम् । पाञ्चजन्यादिशब्दैः प्रसिद्धाह्वयानेकदिव्यशङ्खवत्त्वम् । राजा भीमकर्मा धनञ्जय इत्येभिर्युधिष्ठिरादीनां राजसूययाजित्वहिडिम्बादिनिहन्तृत्वदिग्विजयाहृतानन्तधनत्वानि च व्यज्य पाण्डवसेनासूत्कर्षः सूच्यते । परसेनासु तदभावादपकर्षश्च । काश्य इति । काश्यः काशिराजः । परमेष्वासः महाधुर्धरः । चापराजितो धनुषा दीप्तः । द्रुपद इति । पृथिवीपते हे धृतराष्ट्रेति तव दुर्मन्त्रणोदयः कुलक्षयलक्षणोऽ नर्थः समासत
इति सूच्यते ॥१५१८॥

__________________________________________________________

भगवद्गीता १.१९

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९॥

श्रीधर स च शङ्खानां नादस्त्वदीयानां महाभयं जनयामासेत्याह स घोष इत्यादि । धार्तराष्ट्राणां त्वदीयानां हृण्डयाणि व्यदारयत्विदारितवान् । किं कुर्वन् । नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् प्रतिध्वनिभिरपूर्यन् ॥१९॥

विश्वनाथ णोथिन्ग्.

बलदेव स इति । पाण्डवैः कृतः शङ्खनादो धार्तराष्ट्राणां भीष्मादीनां सर्वेषां हृण्डयाणि व्यदारयत् । तद्विदारणतुल्यां पीडामजनयदित्यर्थः । तुमुलोऽतितीव्रः अभ्यनुनादयन् प्रतिध्वनिभिः पॣर्यन्नित्यर्थः । धार्तराष्ट्रैः कृतस्तु शङ्खादिनादस्तुमुलोऽपि तेषां किञ्चिदपि क्षोभं नाजनयत्तथानुक्तेरिति बोध्यम् ॥१९॥

__________________________________________________________

भगवद्गीता १.२०२३

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥२०॥

श्रीधर एतस्मिन् समये श्रीकृष्णमर्जुनो विज्ञापयामासेत्याह अथ इत्यादिभिः चतुर्भिः श्लोकैः । अथेति अथानन्तरं व्यवस्थितान् युद्धोद्योगेन स्थितान् । कपिध्वजोऽर्जुनः ॥२०॥

विश्वनाथ णोथिन्ग्.

बलदेव एवं धार्तराष्ट्राणां युद्धे भीतिं प्रदर्श्य पाण्डवानां तु तत्रोत्साहमाह अथेति सार्धकेन । अथ रिपुशङ्खनादकृतोत्साहभङ्गानन्तरं व्यवस्थितान् तद्भङ्गविरोधियुयुत्सयावस्थितान् धार्तराष्ट्रान् भीष्मादीन् कपिध्वजोऽर्जुनो येन श्रीदाशरथेरपि महान्ति कार्यानि पुरा साधितानि तेन महावीरेण ध्वजमधितिष्ञ्हिता हनुमतानुगृहीतो भयगन्धशून्य इत्यर्थः । हे महीपते प्रवृत्ते प्रवर्तमाने । हृषीकेशमिति हृषीकेशं सर्वेन्द्रियप्रवर्तकं कृष्णं तदिदं वाक्यमुवाचेति । सर्वेश्वरो हरिर्येषां नियोज्यस्तेषां तदेकान्तभक्तानां पाण्डवानां
विजये सन्देहगन्धोऽपि नेति भावः ॥२०॥

__________________________________________________________

भगवद्गीता १.२१२३

हृषीकेशं तदा वाक्यमिदमाह महीपते ।
सेनयोरुभयोर्मध्ये रथं स्थापय मे ऽच्युत ॥२१॥
यावदेतान्निरीक्षे ऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥२२॥
योत्स्यमानानवेक्षे ऽहं य एते ऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥२३॥

श्रीधर तदेव वाक्यमाह सेनयोरुभयोरित्यादि । यावदेतानिति । ननु त्वं योद्धा न तु युद्धप्रेक्षकस्तत्राह कैर्मयेत्यादि । कैः सह मया योद्धव्यम् । योत्स्यमानानिति धार्तराष्ट्रस्य दुर्योधनस्य प्रियं कर्तुमिच्छन्तो ये इह समागताः तानहं द्रक्ष्यामि यावत् । तावदुभयोः सेनयोर्मध्ये मे रथं स्थापयेत्यन्वयः ॥२१२३॥

विश्वनाथ णोथिन्ग्.

बलदेव अर्जुनवाक्यमाह सेनयोरिति । हे अच्युतेदि स्वभावसिद्धाद्भक्तवात्सल्यात्पारमैश्वर्याच्च न च्यवसे स्मेति तेन तेन च नियन्तिर्तो भक्तस्य मे वाक्यात्तत्र रथं स्थितं कुरु निर्भय तत्र रथस्थापने फलमाह यावदिति । योद्धुकामान्न तु सहास्माभिः सन्धिं चिकीर्षून् । अवस्थितान्न तु भीत्या प्रचलितान् ।

ननु त्वं योद्धा, न तु युद्धप्रेक्षकस्ततस्तद्दर्शनेन किमिति चेत्तत्राह कैरिति । अस्मिन् बन्धूनामेव मिथो रणोद्योगे कैर्बन्धुभिः सह मम युद्धं भावीत्येतज्ज्ञानायैवअ मध्ये रथस्थापनमिति ।

ननु बन्धुत्वादेएत्सन्धिमेव विधात्स्यन्तीति चेत्तत्राह योत्स्यमानानिति न तु सन्धिं विधास्यतः । अवेक्षे प्रत्येमि । दुर्बुद्धेः कुधियः स्वजीवनोपायानभिज्ञस्य युद्धे न तु दुर्बुद्ध्यपनयने । अतो मद्युद्धप्रतियोगिनिरीक्षणं युक्तमिति ॥२१२३॥

__________________________________________________________

भगवद्गीता १.२४२५

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥२५॥

श्रीधर ततः किं वृत्तम् । इत्यपेक्षायां सञ्जय उवाच एवमुक्त इत्यादि । उडाका निद्रा तस्य ईशेन जितनिद्रेण अर्जुनेन एवमुक्तः सन् । हे भारत, हे धृतराष्ट्र सेनयोर्मध्ये रथानामुत्तमं रथं हृषीकेशः स्थापितवान् । भीष्मद्रोण इति महीक्षितां राज्ञां च प्रमुखतः सम्मुखे रथं स्थापयित्वा । हे पार्थ एतान् कुरून् पश्येति श्रीभगवानुवाच ॥२४२५॥

विश्वनाथ हृषीकेशः सर्वेन्द्रियनियन्ताप्येवमुक्तोऽर्जुनेनादिष्टः । अर्जुनवागिन्द्रियमात्रेणापि नियम्योऽभूदित्यहो प्रेअवश्यत्वं भगवत इति भावः । गुडाकेशेन गुडा यथा माधुर्यमात्रप्रकाशकास्तत्तथा स्वीयस्नेहरसास्वादप्रकाशका अकेशा विष्णुब्रह्मशिवा यस्य तेन अकारो विष्णुः को ब्रह्मा ईशो महादेवः । यत्र सर्वावतारिचूडामणीन्द्रः स्वयं भगवान् श्रीकृष्ण एव प्रेमाधीनः सन्नाज्ञानुवर्ती बभूव । तत्र गुणावतारत्वात्तदंशाः विष्णुब्रह्मरुद्राः कथमैश्वर्यं प्रकाशयन्तु । किन्तु स्वकर्तृकं स्नेहरसं प्रकाश्यैव स्वं स्वं
कृतार्थं मन्यन्त इत्यर्थः । यदुक्तं श्रीभगवता परव्योमनाथेनापि द्विजात्ममजा मे युवयोर्दिदृक्षुणा इति ।

यद्वा, गुडाको निद्रा तस्या ईशेन जितनिद्रेनेत्यर्थः । अत्रापि व्याख्यायां साक्षान्मायाया अपि नियन्ता यः श्रीकृष्णः स चापि येन प्रेम्णा विजित्य वशीकृतस्तेनार्जुनेन मायावृत्तिर्निद्रा वराकी जितेति किं चित्रमिति भावः । भीष्मद्रोणयोः प्रमुखतः प्रमुखे सम्मुखे सर्वेषां महीक्षितां राज्ञां च । प्रमुखतः इति समासप्रविष्टेऽपि प्रमुखतःशब्द आकृष्यते ॥२४२५॥

बलदेव ततः किं वृत्तमित्यपेक्षायां सञ्जयः प्राह एवमिति । गुडाका निद्रा तस्या ईशः स्वसखश्रीभगवद्गुणलावण्यस्मृतिनिवेशेन विजितनिद्रस्तत्परमभक्तस्तेनार्जुनेनैवमुक्तः प्रवर्तितो हृषीकेशस्तच्चित्तवृत्त्यभिज्ञो भगवान् सेनयोर्मध्ये भीष्मद्रोणयोः सर्वेषां च महीक्षितां भूभुजां च प्रमुखतः सम्मुखे रथोत्तमं अग्निदत्तं रथं स्थापयित्वोवाच हे पार्थ समवेतानेतान् कुरून् पश्येति । पार्थहृषीकेशशब्दाभ्यामिदं सूच्यते मतिपितृस्वसृपुत्रत्वात्त्वत्सारथ्यमहं करिष्याम्येव त्वं त्वधुनैव युयुत्सां
त्यक्ष्यसीति किं शत्रुसैन्यवीक्षणेनेति सोपहासो भावः ॥२४२५॥

__________________________________________________________

भगवद्गीता १.२६

तत्रापश्यत्स्थितान् पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा ॥
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ॥२६॥

श्रीधर ततः किं प्रवृत्तमित्याह तत्रेत्यादि । पितॄन् पितृव्यानित्यर्थः । पुत्रान् पौत्रानिति दुर्योधनादीनां ये पुत्राः पौत्राश्च तानित्यर्थः । सखीन्मित्राणि । सुहृदः कृतोपकारांश्च अपश्यत् ।

विश्वनाथ दुर्योधनादीनां ये पुत्राः पौत्राश्च तान् ।

बलदेव एवं भगवतोक्तोऽर्जुनः परसेनामपश्यदित्याह तत्रेति सार्धकेन । तत्र परसेनायां पितॄन् पितृव्यान् भूरिश्रवःप्रभृतीन्, पितामहान् भीष्मसोमदत्तादीन्, आचार्यान् द्रोणकृपादीन्, मातुलान् शल्यशकुन्यादीन्, भ्रातॄन् दुर्योधनादीन्, पुत्रान् लक्ष्मणादीन्, पौत्रान्नप्तॄन्, लक्ष्मणादिपुत्रान्, सखीन् वयस्यान् द्रौणिसैन्धवादीन्, सुहृदः कृतवर्मभगदत्तादीन् । एवं स्वसैन्येऽप्युपलक्षणीयम् । उभयोरपि सेनयोरवस्थितान् तान् सर्वान् समीक्ष्येत्यन्वयात् ॥२६॥

__________________________________________________________

भगवद्गीता १.२७

तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् ।
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥२७॥

श्रीधर ततः किं कृतवानित्याह तानिति । सेनयोरुभयोरेवं समीक्ष्य कृपया महत्या आविष्टः विषण्णः सनिदमर्जुनोऽब्रवीत् । इत्युत्तरस्य अर्धश्लोकस्य वाक्यार्थः । आविष्टो व्याप्तः ॥२७॥

विश्वनाथ णोथिन्ग्.

बलदेव अथ सर्वेश्वरो दयालुः कृष्णः सपरिकरात्मोपदेशेन विश्वमुद्दिधीर्षुरर्जुनं शिष्यं कर्तुं तत्स्वधर्मेऽपि युद्धे मा हिंस्यात्सर्वभूतानि इति श्रुत्यर्थाभासेनाधर्मतामाभास्य तं संमोहं कृतवानित्याह तान् समीक्ष्यते कौन्तेय इति स्वीयपितृस्वसृपुत्रत्वोक्त्या तद्धर्मो मोहशोकौ तदा तस्य व्यज्येते । कृपया कर्त्र्या इत्युक्तेः । स्वभावसिद्धस्य कृपेति द्योत्स्यते । अतः परयेति तद्विशेषणम् । अपरयेति वा च्छेदः स्वसैन्ये पूर्वमपि कृपास्ति परसैन्ये त्वपरापि साभूदित्यर्थः । विषीदन्ननुतापः विन्दन् । अत्रोक्तिविषादयोरैककाल्याद्युक्तिकाले
विषादकार्याण्यश्रुकम्पसन्नकण्ठादीनि व्यज्यते ॥२७॥

__________________________________________________________

भगवद्गीता १.२८२९

दृष्ट्वेमान् स्वजनान् कृष्ण युयुत्सुं समुपस्थितम् ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥२८॥
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ।
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ॥२९॥

श्रीधर किमब्रवीदित्यपेक्षायामाह दृष्ट्वेमानित्यादि यावदध्यायसमाप्ति । हे कृष्ण योद्धुमिच्छतः पुरतः समवस्थितान् स्वजनान् बन्धुजनान् दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते । किं च वेपह्तुश्चेत्यादि । वेपथुः कम्पः । रोमहर्षः रोमाञ्चः । स्रंसते निपतति । परिदह्यते सर्वतः सन्तप्यते ॥२८२९॥

विश्वनाथ दृष्ट्वेत्यत्र स्थितस्येत्यध्याहार्यम् ॥२८२९॥

बलदेव कौन्तेयः शोकव्याकुलं यदाह तदनुवदति दृष्ट्वेममिति । स्वजनं स्वबन्धुवर्गं जातावेकवचनं सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः इत्यमरः । दृष्ट्वासव्थितस्य मम गात्राणि करचरणादीनि सीदन्ति शीर्यन्ते परिशुष्यतीति श्रमादिहेतुकाच्छोषादतिशयित्वमस्य शोषस्य व्यज्यते । वेपथुः कम्पः । रोमहर्षः पुलकः । गाण्डीवभ्रंशेनाधैर्यं त्वग्दाह्नेअ हृद्विदाहो दर्शितः ॥२८२९॥

__________________________________________________________

भगवद्गीता १.३०

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ।
निमित्तानि च पश्यामि विपरीतानि केशव ॥३०॥

श्रीधर अपि च न शक्नोमीत्यादि । विपरीतानि निमित्तानि अनिष्टसूचकानि शकुनानि पश्यामि ॥३०॥

विश्वनाथ विपरीतानि निमित्तानि धननिमित्तकोऽयमत्र मे वास इतिवन्निमित्तशब्दोऽयं प्रयोजनवाची । ततश्च युद्धे विजयिनो मम राज्यलाभात्सुखं न भविष्यति, किन्तु तद्विपरीतमनुतापदुःखमेव भावीत्यर्थः ॥३०॥

बलदेव अपि चेति अवस्थातुं स्थिरो भवितुं मनो भ्रम्तीव चेति दौर्बल्यमूर्च्छयोरुदयः । निमित्तानि फलान्यत्र युद्धे विपरीतानि पश्यामि । विजयिनो मे राज्यप्राप्तिरानन्दो न भविष्यति किन्तु तद्विपरीतोऽनुताप एव भावीति । निमित्तशब्दः फलवाची कस्मै निमित्तायात्र वससि इत्यादौ तथा प्रतीतेः ॥३०॥

__________________________________________________________

भगवद्गीता १.३१

न च श्रेयो ऽनुपश्यामि हत्वा स्वजनमाहवे ।
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥३१॥

श्रीधर किं च न चेत्यादि । आहवे युद्धे स्वजनं हत्वा श्रेयः फलं न पश्यामि । विजयादिकं फलं किं न पश्यसीति चेत्तत्राह न काङ्क्ष इति ॥३१॥

विश्वनाथ श्रेयो न पश्यामीति द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखे हतः ॥ इत्यादिना हतस्यैव श्रेयोविधानात् । हन्तुस्तु न किमप्सुकृतम् । नन दृष्टं फलं यशो राज्यं वर्तते युद्धस्येत्यत आह न काङ्क्ष इति ॥३१॥

बलदेव एवं तत्त्वज्ञानप्रतिकूलं शोकमुक्त्वा तत्प्रतिकूलां विपरीतबुद्धिमाह न चेति । आहवे स्वजनं हत्वा श्रेयो नैव पश्यामीति । द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखे हतः ॥ इत्यादिना हतस्य श्रेयःस्मरणाथन्तुर्मे न किञ्चिच्छ्रेयः । अस्वजनमिति वा च्छेदः अस्वजनवधेऽपि श्रेयसोऽभावात्स्वजनवधे पुनः कुतस्तरां तदित्यर्थः ।

ननु यशोराज्यलाभो दृष्टं फलमस्तीति चेत्तत्राह न काङ्क्ष इति । राज्यादिस्पृहाविरहादुपाये विजये मम प्रवृत्तिर्न युक्ता, रन्धने यथा भोजनेछाविरहिणः । तस्मादरण्यनिवसनमेवास्माकं श्लाघ्यजीवनत्वं भावीति ॥३१॥

__________________________________________________________

भगवद्गीता १.३२३५

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥३२॥
त इमे ऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥३३॥
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ।
एतान्न हन्तुमिच्छामि घ्नतो ऽपि मधुसूदन ॥३४॥
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ।
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ॥३५॥।

श्रीधर एतदेव प्रपञ्चयति किं नो राज्येन इत्यादि सार्धद्वयेन । त इमे इति । यदर्थमस्माकं राज्यादिकमपेक्षितं ते एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताः । अतः किमस्माकं राज्यादिभिः कृत्यमित्यर्थः ।

ननु यदि कृपया त्वमेतान्न हंसि तर्हि त्वामेते राज्यलोभेन हनिष्यन्त्येव । अतस्त्वमेवैतान् हत्वा राज्यं भुङ्क्ष्वेति । तत्राह एतानित्यादि सार्धेन । घ्नतोऽपि अस्मान्मारयतोऽपि एतान् । अपीति । त्रैलोक्यराज्यस्यापि हेतोः तत्प्राप्त्यर्थमपि हन्तुं नेच्छामि । किं पुनर्महीमात्रप्राप्तय इत्यर्थः ॥३२३५॥

विश्वनाथ णोथिन्ग्.

बलदेव गोविन्देति । गाः सर्वेन्द्रियवृत्तीः विन्दसीति त्वमेव मे मनोगतं प्रतीहीत्यर्थः । राज्याद्यनाकाङ्क्षायां हेतुमाह येषामिति । प्राणान् प्राणाशां धनानि९ धनाशामिति लक्सणया बोध्यम् । स्वप्राणव्ययेऽपि स्वबन्धुसुखार्था राज्यस्पृहा स्यात्तेषामप्यत्र नाशप्राप्तेरपार्थैव युद्धे प्रवृत्तिरिति भावः ।

ननु त्वं चेत्कारुणिकसेतान्न हन्यास्तर्हि ते स्वराज्यं निष्कण्टकं कर्तुं त्वामेव हन्युरिति चेत्तत्राहेतानिति । मां घ्नतोऽपि हिंसतोऽप्येतान् हन्तुमहं नेच्छामि । त्रैलोक्यराज्यस्य प्राप्तयेऽपि किं पुनर्भूमात्रस्य ।

नन्वन्वयान् हित्वा धृतराष्ट्रपुत्रा एव हन्तव्या, बहुदुःखदातॄणां तेषां घाते सुखसम्भवादिति चेत्तत्राह निहत्येति । धार्तराष्ट्रान् दुर्योधनादीन्निहत्य स्थितानां नः पाण्डावानां का प्रीतिः प्रसन्नता स्यान्न कापीति अचिरसुखाभासस्पृहया चिरतरनरकहेतुभ्राऋहो न योग्य इति भावः । हे जनार्दनेति यद्येते हन्तव्यास्तर्हि भूभारापहारी त्वमेव तान् हहि परेशस्य ते पापगन्धसम्बन्धो न भवेदिति व्यज्यते ॥३२३५॥

__________________________________________________________

भगवद्गीता १.३६

पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ।
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३६॥

श्रीधर ननु च अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥ इति स्मरणादग्निदाहादिभिः षड्भिर्हेतुभिरेते तावदाततायिनः आततायिनां च वधो युक्त एव । आततायिनमायान्तं हन्यादेवाविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ इति वचनात् ।

तत्राह पापमेवेत्यादिसार्धेन । आततायिनमायान्तमित्यादिकमर्थशास्त्रम् । तच्च धर्मशास्त्रात्दुर्बलम् । यथोक्तं याज्ञवल्क्येन स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः । अर्थशास्त्रात्तु बलवान् धर्मशास्त्रमिति स्थितिः ॥ इति । तस्मादाततायिनामप्येतेषामाचार्यादीनां वधेऽस्माकं पापमेव भवेत् । अन्याय्यत्वादधर्मत्वाच्चैतद्वधस्य अमुत्र चेह वा न सुखं स्यादित्याह स्वजनमिति ॥३६॥
विश्वनाथ ननु अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥ इति । आततायिनमायान्तं हन्यादेवाविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ इत्यादिवचनादेषां वध उचित एवेति । तत्राह पापमिति । एतान् हत्वा स्थितानस्मान् । आततायिनमायान्तमित्यादिकमर्थशास्त्रं धर्मशास्त्रात्दुर्बलम् । यदुक्तं याज्ञवल्क्येन अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्मृतम् ॥ इति । तस्मादाचार्यादीनां वधे पापं स्यादेव । न चैहिकं सुखमपि स्यादित्याह स्वजनमिति ॥३६॥

बलदेव ननु अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥ आततायिनमायान्तं हन्यादेवाविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ इत्युक्तेरेषां षड्विध्येनाततायिनां युक्तो वध इति चेत्तत्राह पापमिति । एतान् हत्वा स्थितानस्मान् पापमेव बन्धुक्षयहेतुकमाश्रयेत् । अयं भावः आततायिनमायान्तमित्यादिकमर्थशास्त्रं मा हिंस्यात्सर्वभूतानि इति धर्मशास्त्रात्दुर्बलम् । अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥ इति स्मृतेः । तस्माद्दुर्बलार्थशास्त्रबलेन पूज्यानां द्रोणभीष्मादीनां वधः पापहेतुरेवेति
। न च श्रेयोऽनुपश्यामीत्यारभ्योक्तमुपसंहरति तस्मादिति । पापसम्भवात् । दैहिकसुखस्याप्यभावाच्चेत्यर्थः । न हि गुरुभिर्बन्धुजनैश्च विनास्माकं राज्यभोगः सुखायापि तु अनुतापायैव सम्पत्स्यते । हे माधवेति श्रीपतिस्त्वमश्रीके युद्धे कथं प्रवर्तयसिईति भावः ॥३६॥

__________________________________________________________

भगवद्गीता १.३७

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३७॥
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३८॥

श्रीधर ननु तवैतेषामपि बन्धुवधदोषे समाने सति यथैवैते बन्धुवधदोषमङ्गीकृत्यापि युद्धे प्रवर्तते । तथैव भवानपि प्रवर्ततां किमनेन विषादेनेत्यत आह यद्यपीति द्वाभ्याम् । राज्यलोभेनोपहतं भ्रष्टविवेकं चेतो येषां ते एते दुर्योधनादयो यद्यपि दोषं न पश्यन्ति, तथापि अस्माभिर्दोषं प्रपश्यद्भिरस्मात्पापात्निवर्तितुं कथं न ज्ञेयं निवृत्तावेव बुद्धिः कर्तव्येत्यर्थः ॥३७३८॥

विश्वनाथ नन्वेते तर्हि कथं युद्धे वर्तन्ते । तत्राह यद्यपीति ॥३७३८॥

बलदेव ननु आहूतो न निवर्तेत द्यूतादपि रणादपि विदितं क्षत्रियस्येति क्षत्रधर्मस्मरणात्तैराहूतानां भवतां युद्धे प्रवृत्तिर्युक्तेति चेत्तत्राह यद्यपीहि द्वाभ्याम् । पापे प्रवृत्तौ लोभस्तेषां हेतुरस्माकं तु लोभविरहान्न तत्र प्रवृत्तिरिति । इष्टसावधानताज्ञानं खलु प्रवर्तकम् । इष्टं चानिष्टाननुबन्धिवाच्यम् । यदुक्तम्

फलतोऽपि च यत्कर्म नानार्थेनानुबध्यते ।
केवलप्रीतिहेतुत्वात्तद्धर्मिति कथ्यते ॥ इति ।

तथा च श्येनेनाभिचरन् यजेत इत्यादि शास्त्रोक्तेऽपि श्येनादाविवानिष्टानुबन्धित्वाद्युद्धेऽस्मिन्नः प्रवृत्तिर्न युक्तेति । आहूत इत्यादि शास्त्रं तु कुलक्षयदोषं विना भूतविषयं भावि । हे जनार्दनेति प्राग्वत् ॥३७३८॥

__________________________________________________________

भगवद्गीता १.३९

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मो ऽभिभवत्युत ॥३९॥

श्रीधर तमेव दोषं दर्शयति कुलक्षय इत्यादि । सनातनाः परस्पराप्राप्ताः । उत अपि अवशिष्टं कृत्स्नमपि कुलमधर्मोऽभिभवति व्याप्नोतीत्यर्थः ॥३९॥

विश्वनाथ कुलक्षय इति सनातनाः कुलपरस्पराप्राप्तत्वेन बहुकालतः प्राप्ता इत्यर्थः ॥३९॥

बलदेव दोषमेव प्रपञ्चयति कुलक्षय इति । कुलधर्माः कुलोचिता अग्निहोत्रादयो धर्माः सनातनाः कुलपरस्परप्राप्ताः प्रणश्यन्ति कर्तुर्विनाशात् । उतेत्यप्यर्थे कृत्स्नमित्यनेन सम्बध्यते । धर्मे नष्टे सत्यवशिष्टं बालादिकृत्स्नमपि कुलमधर्मोऽभिभवति सतीत्यर्थः ॥३९॥

__________________________________________________________

भगवद्गीता १.४०

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥४०॥

श्रीधर ततश्च अधर्माभिभवादित्यादि ॥४०॥

विश्वनाथ प्रदुष्यन्तीति । अधर्म एव ता व्यभिचारे प्रवर्तयतीति भावः ॥४०॥

बलदेव ततश्चाधर्माभिभवादिति । अस्मद्भर्तृभिर्धर्ममुल्लङ्घ्य यथ्¨अकुलक्षयलक्षणे पापे वर्तितं, तथास्माभिः पातिव्रत्यमवज्ञाय दुराचारे वर्तितव्यमिति दुर्बुद्धिहताः कुलस्त्रियः प्रदुष्येयुरित्यर्थः ॥४०॥

__________________________________________________________

भगवद्गीता १.४१

संकरो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥४१॥

श्रीधर एवं सति सङ्कर इत्यादि । एषां कुलघ्नानां पितरः पतन्ति । हि यस्मात्लुप्ताः पिण्डोदकक्रिया येषां ते तथा ।

विश्वनाथ णोथिन्ग्.

बलदेव कुलस्य सङ्करः कुलघ्नानां नरकायैवेति योजना । न केवलं कुलघ्ना एव नरके पतन्ति, किन्तु तत्पितरोऽपीत्याह पतन्तीति हिर्हेतौ । पण्डादि दातॄणां पुत्रादीनामभावाद्विलुप्तपिण्डादिक्रिया सन्तस्ते नरकायैव पतन्ति ॥४१॥

__________________________________________________________

भगवद्गीता १.४२

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥४२॥

श्रीधर उक्तदोषमुपसंहरति दोषैरिति द्वाभ्याम् । उत्साद्यन्ते लुप्यन्ते । जातिधर्मा वर्णधर्माः कुलधर्माश्चेति चकारादाश्रमधर्मादयोऽपि गृह्यन्ते ॥४२॥

विश्वनाथ दोषैरिति । उत्साद्यन्ते लुप्यन्ते ॥४२॥

बलदेव उक्तदोषमुपसंहरति दोषैरिति द्वाभ्याम् । उत्साद्यन्ते विलुप्यन्ते । जातिधर्माः क्षत्रियत्वादिनिर्बन्धनाः । कुलधर्मास्त्वसाधारणाः । चशब्दादाश्रमधर्मा ग्राह्याः ॥४२॥

__________________________________________________________

भगवद्गीता १.४३

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥४३॥

श्रीधर उत्सन्नेति । उत्सन्नाः कुलधर्मा येषामिति उत्सन्नजातिधर्मानामप्युपलक्षणम् । अनुशुश्रुम श्रुतवन्तो वयम् । प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपशात्तापिनः कष्टान्निरयान् यान्ति दारुणान् ॥ इत्यादि वचनेभ्यः ॥४३॥

विश्वनाथ णोथिन्ग्.

बलदेव उत्सन्नेति । जातिधर्मादीनां उपलक्षणमेतत् । अनुशुश्रुम श्रुतवन्तो वयं गुरुमुखात् । प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपशात्तापिनः कष्टान्निरयान् यान्ति दारुणान् ॥ इत्यादि वाक्यैः ॥४३॥

__________________________________________________________

भगवद्गीता १.४४

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४४॥

श्रीधर बन्धुवधाध्यवसायेन सन्त्युपमाने आह अहो बतेत्यादि । स्वजनं हन्तुमुद्यता इति यतेतन्महत्पापं कर्तुमध्यवसायं कृतवन्तो वयम् । अहो बत महत्कष्टमित्यर्थः ॥४४॥

विश्वनाथ णोथिन्ग्.

बलदेव बन्धुवधाध्यवसायेनापि पापं सम्भाव्यानुपपन्नाह अहो इति । बतेति सन्देहे ॥४४॥

__________________________________________________________

भगवद्गीता १.४५

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४५॥

श्रीधर एवं सन्तप्तः सन्मृत्युमेवाशंसमान आह यदि मामित्यादि । अप्रतीकारं तुष्णीमुपविष्टं मां यदि हनिष्यन्ति तर्हि तद्धननं मम क्षेमतरमत्यन्तं हितं भवेत्पापानिष्पत्तेः ॥४५॥

विश्वनाथ णोथिन्ग्.

बलदेव ननु त्वयि बन्धुवधाद्विनिवृत्तेऽपि भीष्मादिभिर्युद्धोत्सुकैस्त्ववधः स्यादेव ततः किं विधेयमिति चेत्तत्राह यदि मामित्यादि । अप्रतीकारमकृतमद्वधाध्यवसायपापप्रायश्चित्तम् । क्षेमतरमतिहितं प्राणान्तप्रायश्चित्तेनैवैतत्पापावमर्जनम् । भीष्मादयस्तु न तत्पापफलं प्राप्स्यन्त्येवेति भावः ॥४५॥

__________________________________________________________

भगवद्गीता १.४६

एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४६॥

श्रीधर ततः किं वृत्तमित्यपेक्षायां सञ्जय उवाच एवमुक्त्वेत्यादि । सङ्ख्ये सङ्ग्रामे रथोपस्थे रथस्योपरि उपाविशतुपविवेश । शोकेन संविग्नं प्रकम्पितं मानसं चित्तं यस्य सः ॥४६॥

इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्याम्
अर्जुनविषादो नाम प्रथमोऽध्यायः ॥

विश्वनाथ सङ्ख्ये सङ्ग्रामे । रथोपस्थे रथोपरि ।

इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् ।
गीतासु प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥४६॥

बलदेव ततः किमभूदित्यपेक्षायां सञ्जय उवाच एवमुत्वेति । सङ्ख्ये युद्धे रथोपस्थे रथोपरि उपाविशतुपविवेश । पूर्वं युद्धाय प्रतियोद्धृविलोकनाय चोत्थितः सन् ॥

अहिंस्रस्यात्मजिज्ञासा दयार्द्रस्योपजायते ।
तद्विरुद्धस्य नैवेति प्रथमादुपधारितम् ॥४६॥

**********************************************************

Bहगवद्गित २

भगवद्गीता २.१

संजय उवाच
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥१॥

श्रीधरः द्वितीये शोकसंतप्तमर्जुनं ब्रह्मविद्यया । प्रतिबोध्य हरिश्चक्रे स्थितप्रज्ञस्य लक्षणम् । ततः किं वृत्तमित्यपेक्षायां सञ्जय उवाच तं तथेत्यादि । अश्रुभिः पूर्णे आकुले ईक्षणे यस्य तं तथा, उक्तप्रकारेण विसमर्जुनं प्रति मधुसूदन इदं वाक्यमुवाच ॥१॥

मधुसूदनः अहिंसा परमो धर्मो भिक्षाशनं चेत्येवंलक्षणया बुद्ध्या युद्धवैमुख्यमर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यमप्रचलितमवधार्य स्वस्थहृदयस्य धृतराष्ट्रस्य हर्षनिमित्तां ततः किं वृत्तमित्याकाङ्क्षामपनिनीषुः संजयस्तं प्रत्युक्तवानित्याह वैशम्पायनः ।

कृपा ममैत इति व्यामोहनिमित्तः स्नेहविशेषः । तयाविष्टं स्वभावसिद्ध्या व्याप्तम् । अर्जुनस्य कर्मत्वं कृपायाश्च कर्तृत्वं वदता तस्या आगन्तुकत्वं व्युदस्तम् । अतएव विषीदन्तं स्नेहविषयीभूतस्वजनविच्छेदाशङ्कानिमित्तः शोकापरपर्यायश्चित्तव्याकुलीभावो विषादस्तं प्राप्नुवन्तम् । अत्र विषादस्य कर्मत्वेनार्जुनस्य कर्तृत्वेन च तस्यागन्तुकत्वं सूचितम् ।

अतएव कृपाविषादवशादश्रुभिः पूर्णे आकुले दर्शनाक्षमे चेक्षणे यस्य तम् । एवमश्रुपातव्याकुलीभावाख्यकार्यद्वयजनकतया परिपोषं गताभ्यां कृपाविषादाभ्यामुद्विग्नं तमर्जुनमिदं सोपपत्तिकं वक्ष्यमाणं वाक्यमुवाच न तूपेक्षितवान् । मधुसूदन इति । स्वयं दुष्टनिग्रहकर्तार्जुनं प्रत्यपि तथैव वक्ष्यतीति भावः ॥१॥

विश्वनाथः
आत्मानात्मविवेकेन शोकमोहतमो नुदन् ।
द्वितीये कृष्णचन्द्रोऽत्र प्रोचे मुक्तस्य लक्षणम् ॥१॥

बलदेवः
द्वितीये जीवयाथात्म्यज्ञानं तत्साधनं हरिः ।
निष्कामकर्म च प्रोचे स्थितप्रज्ञस्य लक्षणम् ॥

एवमर्जुनवैराग्यमुपश्रुत्य स्वपुत्रराज्याभ्रंशाशया हृष्यन्तं धृतराष्ट्रमालक्ष्य सञ्जय उवाच तं तथेति । मधुसूदन इति तस्य शोकमपि मधुवन्निहनिष्यतीति भावः ॥१॥

__________________________________________________________

भगवद्गीता २.२

श्रीभगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२॥

श्रीधरः तदेव वाक्यमाह श्रीभगवानुवाच कुत इति । कुतो हेतोस्त्वा त्वां विषमे सङ्कटे इदं कुशलं समुपस्थितमयं मोहः प्राप्तः, यत आर्यैरसेवितम् । अस्वर्ग्यमधर्म्यमयशस्करं च ॥२॥

मधुसूदनः तदेव भगवतो वाक्यमवतारयति कुतस्त्वेति ।

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [विড়् ६.७४]

समगस्येति प्रत्येकं सम्बन्धः । मोक्षस्येति तत्साधनस्य ज्ञानस्य । इङ्गना संज्ञा । एतादृशं समग्रमैश्वर्यादिकं नित्यमप्रतिबन्धेन यत्र वर्तते स भगवान् । नित्ययोगे मतुप् । तथा

उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ [विড়् ६.७८]

अत्र भूतानामिति प्रत्येकं सम्बध्यते । उत्पत्तिविनाशशब्दौ तत्कारणस्याप्युपलक्षकौ । आगतिगती आगमिन्यौ सम्पदापदौ । एतादृशो भगवच्छब्दार्थः श्रीवासुदेव एव पर्यवसित इति तथोच्यते ।

इदं स्वधर्मात्पराङ्मुखत्वं कृपाव्यामोहाश्रुपातादिपुरःसरं कश्मलं शिष्टगर्हितत्वेन मलिनं विषमे सभये स्थाने त्वा त्वां सर्वक्षत्रियप्रवरं कुतो हेतोः समुपस्थितं प्राप्तम् ? किं मोक्षेच्छातः ? किं वा स्वर्गेच्छातः ? इति किंशब्देनाक्षिप्यते । हेतुत्रयमपि निषेधति त्रिभिर्विशेसणैरुत्तरार्धेन । आर्यैर्मुमुक्षुभिर्न जुष्टमसेवितम् । स्वधर्मैराशयशुद्धिद्वारा मोक्सिच्छद्भिरपक्वकषायैर्मुमुक्षुभिः कथं स्वधर्मस्त्याज्य इत्यर्थः । संन्यासाधिकारी
तु पक्वकषायोऽग्रे वक्ष्यते । अस्वर्ग्यं स्वर्गहेतुधर्मविरोधित्वान्न स्वर्गेच्छया सेव्यम् । अकीर्तिकरं कीर्त्यभावकरमपकीर्तिकरं वा न कीर्तीच्छया सेव्यम् । तथा च मोक्षकामैः स्वर्गकामैः कीर्तिकामैश्च वर्जनीयम् । तत्काम एव त्वं सेवस्व इत्यहो अनुचितं चेष्टितं तवेति भावः ॥२॥

विश्वनाथः कश्मलं मोहः । विषमेऽत्र सङ्ग्रामसङ्कटे । कुतो हेतोः । उपस्थितं त्वां प्राप्तमभूत् । अनार्यजुष्टं सुप्रतिष्ठितलोकैरसेवितम् । अस्वर्ग्यमकीर्तिकरमिति पारत्रिकैहिकसुखप्रतिकूलमित्यर्थः ॥२॥

बलदेवः तद्वाक्यमनुवदति श्रीभगवानिति ।

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [विড়् ६.७४]

इति पराशरोक्तैश्वर्यादिभिः षड्भिर्नित्यं विशिष्टः । समग्रस्येत्येतत्षट्सु योज्यम् । हे अर्जुन ! इदं स्वधर्मवैमुख्यं कश्मलं शिष्टनिन्द्यत्वान्मलिनं कुतो हेतोस्त्वां क्षत्रियचूडामणिं समुपस्थितमभूत्? विषमे युद्धसमये । न च मोक्षाय स्वर्गाय कीर्तये वैतद्युद्धवैराग्यमित्याह अनार्येति । आर्यैर्मुमुक्षुभिर्न जुष्टं सेवितम् । आर्याः खलु हृद्विशुद्धये स्वधर्मानाचरन्ति । अस्वर्ग्यं स्वर्गोपलम्भकधर्मविरुद्धम् । अकीर्तिकरं कीर्तिविप्लावकम् ॥२॥

__________________________________________________________

भगवद्गीता २.३

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥३॥

श्रीधरः क्लैब्यं मा स्म गम इति । तस्माथे पार्थ ! क्लैब्यं कातर्यं मा स्म गमः । न प्राप्नुहि । यतस्त्वयि एतन्नोपपद्यते योग्यं न भवति । क्षुद्रं तुच्छं हृदयदौर्बल्यं कातर्यं युद्धाय उत्तिष्ठ, हे परन्तप शत्रुतापन ! ॥३॥

मधुसूदनः ननु बन्धुसेनावेक्षणजातेनाधैर्येण धनुरपि धारयितुमशक्नुवता मया किं कर्तुं शक्यमित्यत आह क्लैब्यमिति । क्लैब्यं क्लीब्भावमधैर्यमोजस्तेजआदिभङ्गरूपं मा स्म गमो मा गा । हे पार्थ पृथातनय! पृथया देवप्रसादलब्धे तत्तनयमात्रे वीर्यातिशयस्य प्रसिद्धत्वात्पृथातनयत्वेन त्वं क्लैब्यायोग्य इत्यर्थः । अर्जुनत्वेनापि तदयोग्यत्वमाह नैतदिति । त्वयि अर्जुने साक्षान्महेश्वरेणापि सह कृताहवे प्रख्यातमहाप्रभावे नोपपद्यते न युज्यत एतत्क्लैब्यमित्यसाधारण्येन तदयोग्यत्वनिर्देशः ।

ननु न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः इति पूर्वमेव मयोक्तमित्याशङ्क्याह क्षुद्रमिति । हृदयदौर्बल्यं मनसो भ्रमणादिरूपमधैर्यं क्षुद्रत्वकारणत्वात्क्षुद्रं सुनिरसनं वा त्यक्त्वा विवेकेनापनीयोत्तिष्ठ युद्धाय सज्जो भव । हे परन्तप ! परं शत्रुं तापयतीति तथा संबोध्यते हेतुगर्भम् ॥३॥

विश्वनाथः क्लैब्यं क्लीब्धर्मं कातर्यम् । हे पार्थेति त्वं पृथापुत्रः सन्नपि गच्छसि । तस्मान्मा स्म गमः, मा प्राप्नुहि, अन्यस्मिन् क्षत्रबन्धौ वरमिदमुपपद्यताम्, त्वयि मत्सखौ तु नोपयुज्यते ।

नन्विदं शौर्याभावलक्षणं क्लैब्यं मा शङ्किष्ठाः । किन्तु भीष्मद्रोणादिगुरुषु धर्मदृष्ट्या विवेकोऽयं धार्तराष्ट्रेषु तु दुर्बलेषु मदस्त्राघातमासाद्य मर्तुमुद्यतेषु दयैवेयमिति तत्राह क्षुद्रमिति । नैते तव विवेकदये, किन्तु शोकमोहावेव । तौ च मनसो दौर्बल्यव्यञ्जकौ । तस्माथृदयदौर्बल्यमिदं त्यक्त्वा उत्तिष्ठ । हे परन्तप ! परान् शत्रून् तापयन् युध्यस्व ॥३॥

बलदेवः ननु बन्धुक्षयाध्यवसायदोषात्प्रकम्पितेन मया किं भाव्यमिति चेत्तत्राह क्लैब्यमिति । हे पार्थ ! देवराजप्रसादात्पृथायामुत्पन्न ! क्लैब्यं कातर्यं मा स्म गमः प्राप्नुहि । त्वयि विश्वविजेतरि मत्सखेऽर्जुने क्षत्रबन्धाविवैतदीदृशं क्लैब्यं नोपयुज्यते ।

ननु न मे शौर्याभावरूपं क्लैब्यं किन्तु भीष्मादिषु पूज्येषु धर्मबुद्ध्या विवेकोऽयं दुर्योधनादिषु भ्रातृषु मच्छस्त्रप्रहारेण मरिष्यत्सु कृपेयमिति चेत्तत्राह क्षुद्रमिति । नैते तव विवेककृपे, किन्तु क्षुद्रं लघिष्ठं हृदयदौर्बल्यमेव । तस्मात्तत्त्यक्त्वा युद्धायोत्तिष्ठ सज्जीभव । हे परन्तप ! शत्रुतापनेति शत्रुहासपात्रतां मा गाः ॥३॥

__________________________________________________________

भगवद्गीता २.४

अर्जुन उवाच
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥४॥

श्रीधरः नाहं कातरत्वेन युद्धातुपरतोऽस्मि, किन्तु युद्धस्य अन्याय्यत्वादधर्म्यत्वाच्चेत्याह अर्जुन उवाच कथमिति । भीष्मद्रोणौ पूजार्हौ पूजायामर्हो योग्यौ तौ प्रति कथमहं योत्स्यामि, तत्रापि इषुभिः यत्र वाचापि योत्स्यामीति वक्तुमनुचितं तत्र बाणैः कथं योत्स्यामीत्यर्थः । हे अरिसूदन शत्रुमर्दन ॥४॥

मधुसूदनः ननु नायं स्वधर्मस्य त्यागः शोकमोहादिवशात्किन्तु धरत्वाभावादधर्मत्वाच्चास्य युद्धस्य त्यागो मया क्रियत इति भगवदभिप्रायमप्रतिपद्यमानस्यार्जुनस्याभिप्रायमवतारयति कथमिति । भीष्मं पितामहं द्रोणां चाचार्यं सङ्ख्ये रण इषुभिः सायकैः प्रतियोत्स्यामि प्रहरिष्यामि कथम् ? न कथंचिदपीत्यर्थः । यतस्तौ पूजार्हौ कुसुमादिभिरर्चनयोग्यौ । पूजार्हाभ्यां सह क्रीडास्थानेऽपि वाचापि हर्षफलमपि लीलायुद्धमनुचितं किं पुनर्युद्धभूमौ शरैः प्राणत्यागफलकं प्रहरणमित्यर्थः ।

मधुसूदनारिसूदनेति सम्बोधनद्वयं शोकव्याकुलत्वेन पूर्वापरपरामर्शवैकल्यात् । अतो न मधुसूदनारिसूदनेत्यस्यार्थस्य पुनरुक्तत्वं दोषः । युद्धमात्रमपि यत्र नोचितं दूरे तत्र वध इति प्रतियोत्स्यामीत्यनेन सूचितम् ।

अथवा पूजार्हौ कथं प्रतियोत्स्यामि । पूजार्हयोरेव विवरणं भीष्मं द्रोणं चेति । द्वौ ब्राह्मणौ भोजय देवदत्तं यज्ञदत्तं चेतिवत्सम्बन्धः । अयं भावः दुर्योधनादयो नापुरस्कृत्य भीष्मद्रोणौ युद्धाय सज्जीभवन्ति । तत्र ताभ्यां सह युद्धं न तावद्धर्मः पूजादिवदविहितत्वात् । न चायमनिषिद्धत्वादधर्मोऽपि न भवतीति वाच्यम् । गुरुं हुङ्कृत्य त्वंकृत्य इत्यादिना शब्दमात्रेणापि गुरुद्रोहो यदानिष्टफलत्वप्रदर्शनेन निषिद्धस्तदा किं वाच्यं ताभ्यां सह सङ्ग्रामस्याधर्मत्वे निषिद्धत्वे चेति ॥४॥

विश्वनाथः ननु प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः इति धर्मशास्त्रम् । अतोऽहं युद्धान्निवर्त इत्याह कथमिति । प्रतियोत्स्यामि प्रतियोत्स्ये । नन्वेतौ युध्येते तर्ह्यनयोः प्रतियोद्धा भवितुं त्वं किं न शक्नोषि ? सत्यं न शक्नोम्येवेत्याह पूजार्हाविति । अनयोश्चरणेषु भक्त्या कुसुमान्येव दातुमर्हामि न तु क्रोधेन तीक्ष्णशरानिति भावः । भो वयस्य कृष्ण त्वमपि शत्रूनेव युद्धे हंसि, न तु सन्दीपनिं स्वगुरुं, नापि बन्धून् यदूनित्याह हे मधुसूदनेति । ननु माधवो यदव एव । तत्राह हे अरिसूदन ! मधुर्नाम दैत्यो यस्तवारिरिति ब्रवीमीति ॥४॥

बलदेवः ननु भीष्मादिषु प्रतियोद्धृषु सत्सु त्वया कथं न योद्धव्यम् । आहूतो न निवर्तेत इति युद्धविधानाच्च क्षत्रियस्येति चेत्तत्राह कथमिति । भीष्मं पितामहं द्रोणं च विद्यागुरुम् । इषुभिः कथं योत्स्ये ? यदिमौ पूजार्हौ पुष्पादिभिरभ्यर्च्यौ, परिहासवाग्भिरपि याभ्यां युद्धं न युक्तम् । ताभ्यां सहेषुभिस्तत्कथं युज्येत ? प्रतिबध्नाति हि श्रेयः पूज्य पूज्यपूजाव्यतिक्रमः इति स्मृतेश्च । मधुसूदनारिसूदनेति सम्बोधनपुनरुक्तिः । शोकाकुलस्य पूर्वोत्तरानुसन्धिविरहात् । तद्भावश्च त्वमपि शत्रूनेव युद्धे निहंसि न तूग्रसेनसान्दीपन्यादीन्
पूज्यानिति ॥४॥

__________________________________________________________

भगवद्गीता २.५

गुरूनहत्वा हि महानुभावाञ्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥५॥

श्रीधरः तर्हि तानहत्वा तव देहयात्रापि न स्यादिति चेत्, तत्राह गुरूनिति । गुरून् द्रोणाचार्यादीनहत्वा परलोकविरुद्धं गुरुवधमकृत्वा इहलोके भैक्ष्यं भिक्षान्नमपि भोक्तुं श्रेय उचितम् । विपक्षे तु न केवलं परत्र दुःखं, किन्तु इहैव च नरकदुःखमनुभवेयमित्याह हत्वेति । गुरून् हत्वा इहैव तु रुधिरेण प्रदिग्धान् प्रकर्षेण लिप्तानर्थकामात्मकान् भोगानहं भुञ्जीय अश्नीयाम् । यद्वा अर्थकामानिति गुरूणां विशेषणम् । अर्थतृष्णाकुलत्वादेते तावद्युद्धान्न निवर्तेरन् तस्मादेतद्वधः प्रसज्येतैवेत्यर्थः । तथा च युधिष्ठिरं प्रति भीष्मेणोक्तं

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ इति [ंBह्६.४१.३६] ॥५॥

मधुसूदनः ननु भीष्मद्रोणयोः पूजार्हत्वं गुरुत्वेनैव, एवमन्येषामपि कृपादीनां, न च तेषां गुरुत्वेन स्वीकारः साम्प्रतमुचितः

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ्५.१७८.२४]

इति स्मृतेः । तस्मादेषां युद्धगर्वेणावलिप्तानामन्यायराज्यग्रहणेन शिष्यद्रोहेण च कार्याकार्यविवेकशून्यानामुत्पथनिष्ठानां वध एव श्रेयानित्याशङ्क्याह गुरूनिति ।

गुरूनहत्वा परलोकस्तावदस्त्येव । अस्मिंस्तु लोके तैर्हृतराज्यानां नो नृपादीनां निषिद्धं भैक्षमपि भोक्तुं श्रेयः प्रशस्यतरमुचितं न तु तद्वधेन राज्यमपि श्रेय इति धर्मेऽपि युद्धे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य व्रते ।

नन्ववलिप्तत्वादिना तेषां गुरुत्वाभाव उक्त इत्याशङ्क्याह महानुभावानिति । महानुभावः श्रुताध्ययनतपआचारादिनिबन्धनः प्रभावो येषां तान् । तथा च कालकामादयोऽपि यैर्वशीकृतास्तेषां पुण्यातिशयशालिनां नावलिप्तत्वादिक्षुद्रपाप्मसंश्लेष इत्यर्थः । हिमहानुभावानित्येकं वा पदम् । हिमं जाड्यमपहन्तीति हिमहा आदित्योऽग्निर्वा तस्यैवानुभावः सामर्थ्यं येषां तान् । तथा चातितेजस्वित्वात्तेषामवलिप्तत्वादिदोषो नास्त्येव ।

धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ [Bह्ড়् १०.३३.३०]

ननु यदार्थलुब्धाः सन्तो युद्धे प्रवृत्तास्तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं माहात्म्यं, तथा चोक्तं भीष्मेण युधिष्ठिरं प्रति

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ [ंBह्६.४१.३६]

इत्याशङ्क्याह हत्वेति । अर्थलुब्धा अपि ते मदपेक्षया गुरवो भवन्त्येवेति पुनर्गुरुग्रहणेनोक्तम् । तुशब्दोऽप्यर्थे ईदृशानपि गुरून् हत्वा भोगानेव भुञ्जीय न तु मोक्षं लभेय । भुज्यन्त इति भोगा विषयाः कर्मणि घञ् । ते च भोगा इहैव न परलोके । इहापि च रुधिरप्रदिग्धा इवापयशोव्याप्तत्वेनात्यन्तजुगुप्सिता इत्यर्थः । यदेहाप्येवं तदा परलोकदुःखं कियद्वर्णनीयमिति भावः ।

अथवा गुरून् हत्वार्थकामात्मकान् भोगानेव भुञ्जीय न तु धर्ममोक्षावित्यर्थकामपदस्य भोगविशेषणतया व्याख्यानान्तरं द्रष्टव्यम् ॥५॥

विश्वनाथः नन्वेवं ते यदि स्वराज्येऽस्मिन्नास्ति जिघृक्षा, तर्हि कया वृत्त्या जीविष्यसीत्यत्राह गुरूनहत्वेति । गुरुवधमकृत्वा भैक्ष्यं क्षत्रियैर्विगीतमपि भिक्षान्नमपि भोक्तुं श्रेयः । ऐहिकदुर्यशोलाभेऽपि पारत्रिकममङ्गलं तु नैव स्यादिति भावः । न चैव गुरवोऽवलिप्ताः कार्याकार्यमजानन्तश्चाधार्मिकदुर्योधनाद्यनुगतास्त्याज्या एव । यदुक्तं

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ्५.१७८.२४] इति वाच्यम् ।

इत्याह महानुभावानिति । कालकामादयोऽपि यैर्वशीकृतास्तेषां भीष्मादीनां कुतस्तद्दोषसम्भव इति भावः । ननु

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ [ंBह्६.४१.३६]

इति युधिष्ठिरं प्रति भीष्मेणैवोक्तमतः साम्प्रतमर्थकामत्वादेतेषां महानुभावत्वं प्राक्तनं विगलितम् ? सत्यम्, तदप्येतान् हतवतो मम दुःखमेव स्यादित्याह अर्थकामानर्थलुब्धानप्येतान् कुरून् हत्वाहं भोगान् भुञ्जीय किन्त्वेतेषां रुधिरेण प्रदिग्धान् प्रलिप्तानेव । अयमर्थः एतेषामर्थलुब्धत्वेऽपि मद्गुरुत्वमस्त्येव, अतएवैतद्वधे सति गुरुद्रोहिणो मम खलु भोगो दुष्कृतिमिश्रः स्यादिति ॥५॥

बलदेवः ननु स्वराज्ये स्पृहा चेत्तव नास्ति तर्हि देहयात्रा वा कथं सेत्स्यतीति चेत्तत्राह गुरूनिति । गुरूनहत्वा गुरुवधमकृत्वा स्थितस्य मे भैक्ष्यान्नं क्षत्रियाणां निन्द्यमपि भोक्तुं श्रेयः प्रशस्ततरम् । ऐहिकदुर्यशोहेतुत्वेऽपि परलोकाविघातित्वात् ।

नन्वेते भीष्मादयो गुरवोऽपि युद्धगर्वावलेपात्छद्मना युष्मद्राज्यापहारं युष्मद्द्रोहं च कुर्वतां दुर्योधनादीनां संसर्गेण कार्याकार्यविवेकविरहाच्च सम्प्रति त्याज्या एव

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ्५.१७८.२४] इति स्मृतेः ।

इति चेत्तत्राह महानुभावानिति । महान् सर्वोत्कृष्टोऽनुभावो वेदाध्ययनब्रह्मचर्यादिहेतुकः प्रभावो येषां तान् । कालकामादयोऽपि यद्वश्यास्तेषां तद्दोषसम्बन्धो नेति भावः ।

ननु
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ [ंBह्६.४१.३६]

इति भीष्मोक्तेरर्थलोभेन विक्रीतात्मनां तेषां कुतो महानुभावता ? ततो युद्धे हन्तव्यास्ते इति चेत्तत्राह हत्वार्थकामानिति । अर्थकामानपि गुरून् हत्वाहमिहैव लोके भोगान् भुञ्जीय, न तु परलोके । तांश्च रुधिरप्रदिग्धान् तद्रुधिरमिश्रानेव, न तु शुद्धान् भुञ्जीय तद्धिंसया तल्लाभात् । तथा च युद्धगर्वावलेपादिमत्त्वेऽपि तेषां मद्गुरुत्वमस्त्येवेति पुनर्गुरुग्रहणेन सूच्यते ॥५॥

__________________________________________________________

भगवद्गीता २.६

न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥६॥

श्रीधरः किं च यद्यप्यधर्ममङ्गीकरिष्यामः तथापि किमस्माकं जयः पराजयो वा गरीयान् भवेदिति न ज्ञायत इत्याह न चेदित्यादि । एतद्द्वयोर्मध्ये नोऽस्माकं कतरत्किं नाम गरीयोऽधिकतरं भविष्यतीति न विद्मः । तदेव द्वयं दर्शयति । यद्वा एतान् वयं जयेम जेष्यामः यदि वा नोऽस्मानेते जयेयुः जेष्यन्तीति । जयोऽपि किं चास्माकं कतरत्जयपराजययोर्मध्ये किं खलु गरीयोऽधिकतरं भविष्यति एतन्न विद्मः । तदेव पक्षद्वयं दर्शयति एतान् वयं जयेम, नोऽस्मान् वा एते जयेयुरिति । किं
च जयोऽप्यस्माकं फलतः पराजय एवेत्याह यानेवेति ॥६॥

मधुसूदनः ननु भिक्षाशनस्य क्षत्रियं प्रति निषिद्धत्वाद्युद्धस्य च विहितत्वात्स्वधर्मत्वेन युद्धमेव तत्र श्रेयस्करमित्याशङ्क्याह न चैतदिति । एतदपि न जानीमो भैक्षयुद्धयोर्मध्ये कतरन्नोऽस्माकं गरीयः श्रेष्ठम् । किं भैक्षं हिंसाशून्यत्वादुत युद्धं स्वधर्मत्वादिति । इदं च न विद्म आरब्धेऽपि युद्धे यद्वा वयं जयेमातिशयीमहि यदि वा नोऽस्मान् जयेयुर्धार्तराष्ट्राः । उभयोः साम्यपक्षोऽप्यर्थाद्बोद्धव्यः ।

किं च जातोऽपि जयो नः फलतः पराजय एव । यतो यान् बन्धून् हत्वा जीवितुमपि वयं नेच्छामः किं पुनर्विषयानुपभोक्तुम् ? त एवावस्थिताः संमुखे धार्तराष्ट्रा धृतराष्ट्रसम्बन्धिनो भीष्मद्रोणादयः सर्वेऽपि । तस्माद्भैक्षाद्युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः ।

तदेवं प्राक्तनेन ग्रन्थेन संसारदोषनिरूपणादधिकारिविशेषणान्युक्तानि । तत्र न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे इत्यत्र रणे हतस्य परिव्राट्समानयोगक्षेमत्वोक्तेः अन्यच्छ्रेयोऽन्यदुतैव प्रेयः [Kअठू २.१] इत्यादिश्रुतिसिद्धं श्रेयो मोक्षाख्यमुपन्यस्तम् । अर्थाच्च तदितरदश्रेय इति नित्यानित्यवस्तुविवेको दर्शितः, न काङ्क्षे विजयं कृष्णेत्य्[ङीता १.३२] अत्रैहिकफलविरागः । अपि त्रैलोक्यराज्यस्य [ङीता १.३५] हेतोरित्यत्र पारलौकिकफलविरागः । नरके नियतं वास [ङीता १.४४] इत्यत्र स्थूलदेहातिरिक्त आत्मा, किं नो राज्येन [ङीता १.३२] इति व्याख्यातवर्त्मना शमः । किं भोगैर्[ङीता १.३२] इति दमः
। यद्यप्येते न पश्यन्ति [ङीता १.३८] इत्यत्र निर्लोभता । तन्मे क्षेमतरं भवेद्[ङीता १.४६] इत्यत्र तितिक्षा । इति प्रथमाध्यायार्थः संन्याससाधनसूचनम् । अस्मिंस्त्वध्याये श्रेयो भोक्तुं भैक्षमपि [ङीता २.५] इत्यत्र भिक्षाचर्योपलक्षितः संन्यासः प्रतिपादितः ॥६॥

विश्वनाथः किं च गुरुद्रोहे प्रवृत्तस्यापि मम जयः पराजयो वा भवेदित्यपि न ज्ञायत इत्याह न चैतदित्यादि । तथापि नोऽस्माकं कतरत्जयपराजययोर्मध्ये किं खलु गरीयोऽधिकतरं भविष्यति एतन्न विद्मः । तदेव पक्षद्वयं दर्शयति एतान् वयं जयेम, नोऽस्मान् वा एते जयेयुरिति । किं च जयोऽप्यस्माकं फलतः पराजय एवेत्याह यानेवेति ॥६॥

बलदेवः ननु भैक्षभोजनं क्षत्रियस्य विगर्हितं, युद्धं च स्वधर्मं विजानन्नपि विभाषसे इति चेत्तत्राह न चैतदिति । एतद्वयं न विद्मः । भैक्ष्ययुद्धयोर्मध्ये नोऽस्माकं कतरद्गरीयः प्रशस्ततरम् । हिंसाविरहाद्भैक्षं गरीयः स्वधर्मत्वाद्युद्धं वेति, एतच्च न विद्मः । समारब्धे युद्धे वयं धार्तराष्ट्रान् जयेम ते वा नोऽस्मान् जयेयुरिति ।

ननु महाविक्रमिणां धर्मिष्ठानां च भवतामेव विजयो भावीति चेत्तत्राह यानेवेति । यान् धार्तराष्ट्रान् भीष्मादीन् सर्वान् । न जिजीविषामो जीवितुमपि नेच्छामः किं पुनर्भोगान् भोक्तुमित्यर्थः । तथा च विजयोऽप्यस्माकं फलतः पराजय एवेति । तस्माद्युद्धस्य भैक्षाद्गरीयस्त्वमप्रसिद्धमिति । एवमेतावता ग्रन्थेन तस्मादेवंविच्छान्तदान्त उपरतस्तितिक्षुः श्रद्धान्वितो भूत्वात्मन्येवात्मानं पश्येतिति श्रुतिप्रसिद्धमर्जुनस्य ज्ञानाधिकारित्वं दर्शितम् । तत्र किं नो राज्येन [ङीता १.३२] इति शमदमौ । अपि त्रैलोक्यराज्यस्य [ङीता १.३५] इत्यैहिकपारत्रिकभोगोपेक्षालक्षणा उपरतिः
। भैक्षं भोक्तुं श्रेय इति द्वन्द्वसहिष्णुत्वलक्षणा तितिक्षा । गुरुवाक्यदृढविश्वासलक्षणा श्रद्धा तूत्तरवाक्ये व्यक्तीभविष्यति, न खलु शमादिशून्यस्य ज्ञानेऽस्त्यधिकारः पङ्गादेरिव कर्मणीति ॥६॥

__________________________________________________________

भगवद्गीता २.७

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥७॥

श्रीधरः उपदेशग्रहणे स्वाधिकारं सूचयति कार्पण्येत्यादि । अर्थात्कार्पण्यदोषोपहतस्वभावः एतान् हत्वा कथं जीविष्याम इति कार्पण्यं दोसश्च स्वकुलक्षयकृतः, ताभ्यामुपहतोऽभिभूतः स्वभावः शौर्यादिलक्षणो यस्य सोऽहं त्वां पृच्छामि, तथा धर्मे संमूढं चेतो यस्य सः । युद्धं त्यक्त्वा भिक्षाटनमपि क्षत्रियस्य धर्मोऽधर्मो वेति सन्दिग्धचित्तः सन्नित्यर्थः । अतो मे यन्निश्चितं श्रेयः युक्तं स्यात्तद्ब्रूहि । किं च तेऽहं शिष्यः शासनार्हः
। अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय ॥७॥

मधुसूदनः गुरूपसदनमिदानीं प्रतिपाद्यते समधिगतसंसारदोषजातस्यातितरां निर्विण्णस्य विधिवद्गुरुमुपसन्नस्यैव विद्याग्रहणेऽधिकारात् । तदेवं भीष्मादिसंकटवशात् । व्युत्थायाथ भिक्षाचर्यं चरन्ति [Bआऊ ३.५.१] इति श्रुतिसिद्धभिक्षाचर्येऽर्जुनस्याभिलाषं प्रदर्श्य विधिवद्गुरूपसत्तिमपि तत्सङ्कटव्याजेनैव दर्शयति कार्पण्येति ।

यः स्वल्पामपि चित्तक्षतिं न क्षमते स कृपण इति लोके प्रसिद्धः । तद्विधत्वादखिलोऽनात्मविदप्राप्तपुरुषार्थतया कृपणो भवति । यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [Bआऊ ३.८.१०] इति श्रुतेः । तस्य भावः कार्पण्यमनात्माध्यासवत्त्वं तन्निमित्तोऽस्मिन् जन्मन्येत एव मदीयास्तेषु हतेषु किं जीवितेनेत्यभिनिवेशरूपो ममतालक्षणो दोषस्तेनोपहतस्तिरस्कृतः स्वभावः क्षात्रो युद्धोद्योगलक्षणो यस्य स तथा । धर्मे विषये निर्णायकप्रमाणआदर्शनात्संमूढं किमेतेषां वधो धर्मः किमेतत्परिपालनं
धर्मः । तथा किं पृथ्वीपरिपालनं धर्मः किं वा यथावस्थितोऽरण्यनिवास एव धर्म इत्यादिसंशयैर्व्याप्तं चेतो यस्य स तथा । न चैतद्विद्मः कतरन्नो गरीय इत्यत्र व्याख्यातमेतत् । एवंविधः सन्नहं त्वा त्वामिदानीं पृच्छामि श्रेय इत्यनुषङ्गः ।

अतो यन्निश्चितमैकान्तिकमात्यन्तिकं च श्रेयः परमपुमर्थभूतं फलं स्यात्तन्मे मह्यं ब्रूहि । साधनानन्तरमवश्यम्भावित्वमैकान्तिकतवं, जातस्याविनाश आत्यन्तिकत्वम् । यथा ह्यौषधे कृते कदाचिद्रोगनिवृत्तिर्न भवेदपि जातापि च रोगनिवृत्तिः पुनरपि रोगोत्पत्त्या विनाश्यते । एवं कृतेऽपि यागे प्रतिबन्धवशात्स्वर्गो न भवेदपि जातोऽपि स्वर्गो दुःखाक्रान्तो नश्यति चेति नैकान्तिकत्वमात्यन्तिकत्वं वा तयोः । तदुक्तम्

दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ ।
दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ (ष.K. १) इति ।
दृष्टवदानुश्रविकः स ह्यवैशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ (ष.K. १) इति ।

ननु त्वं मम सखा न तु शिष्योऽत आह शिष्यस्तेऽहमिति । त्वदनुशासनयोग्यत्वादहं तव शिष्य एव भवामि न सखा न्यूनज्ञानत्वात् । अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया न त्वशिष्यत्वशङ्कयोपेक्षणीयोऽहमित्यर्थः । एतेन तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् [ंुण्डू १.२.११], भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति [टैत्तू ३.१] इत्यादिगुरूपसत्तिप्रतिपादकः श्रुत्यर्थो दर्शितः ॥७॥

विश्वनाथः ननु तर्हि सोपपत्तिकं शास्त्रार्थं त्वमेव ब्रुवाणः क्षत्रियो भूत्वा भिक्षाटनं निश्चिनोषि तर्ह्यलं मदुक्त्येति तत्राह कार्पण्येति । स्वाभाविकस्य शौर्यस्य त्याग एव मे कार्पण्यम् । धर्मस्य सूक्ष्मा गतिरित्यतो धर्मव्यवस्थायामप्यहं मूढबुद्धिरेवास्मि । अतस्त्वमेव निश्चित्य श्रेयो ब्रूहि ।

ननु मद्वाचस्त्वं पण्डतमानित्वेन खण्डयसि चेत्, कथं ब्रूयाम् ? तत्राह शिष्यस्तेऽहमस्मि । नातं परं वृथा खण्डयामीति भावः ॥७॥
बलदेवः अथ तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् [ंुण्डू १.२.११], आचार्यवान् पुरुषो वेद [Cहा ६.१४.२] इत्यादि श्रुतिसिद्धां गुरूपसत्तिं दर्शयति कार्पण्येति । यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [Bआऊ ३.८.१०] इति श्रवणादब्रह्मवित्त्वं कार्पण्यम् । तेन हेतुना यो दोषो यानेव हत्वेति बन्धुवर्गममतालक्षणस्तेनोपहतस्वभावो युद्धस्पृहालक्षणः स्वधर्मो यस्य सः । धर्मे संमूढं क्षत्रियस्य मे युद्धं स्वधर्मस्तद्विहाय भिक्षाटनं वेत्येवं सन्दिहानं चेतो यस्य सः
। ईदृशः सन्नहं त्वामिदानीं पृच्छामि तस्मान्निश्चितं एकान्तिकं आत्यन्तिकं यन्मे श्रेयः स्यात्तत्त्वं ब्रूहि । साधनोत्तरमवश्यंभावित्वं ऐकान्तिकत्वं, भूतस्याविनाशित्वं आत्यन्तिकत्वम् ।

ननु शरणागतस्योपदेशः तद्विज्ञानार्थं स गुरुमेवाभिगच्छेतित्यादिश्रुतेः । सखायं त्वां कथमुपदिशामीति चेत्तत्राह शिष्यस्तेऽहमिति । शाधि शिक्षय ॥७॥

__________________________________________________________

भगवद्गीता २.८

न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥८॥
श्रीधरः त्वमेव विचार्य यद्युक्तं तत्कुर्विति चेत्, तत्राह न हि प्रपश्यामीति । इन्द्रियाणामुच्छोषणमतिशोषणकरं मदीयं शोकं यत्कर्म अपनुद्यातपनयेत्तदहं न प्रपश्यामीति । यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि । तथा सुरेन्द्रत्वमपि यदि प्राप्स्यामि एवमभीष्टं तत्तत्सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यन्वयः ॥८॥

मधुसूदनः ननु स्वयमेव त्वं श्रेयो विचारय श्रुतसम्पन्नोऽसि किं परशिष्यत्वेनेत्यत आह नहीति । यच्छ्रेयः प्राप्तं सत्कर्तृ मम शोकमपनुद्यादपनुदेन्निवारयेत्तन्न पश्यामि हि यस्मात्तस्मान्मां शाधीति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयतु [Cहाऊ ७.१.३] इति श्रुत्यर्थो दर्शितः । शोकानपनोदे को दोष इत्याशङ्क्य तद्विशेषणमाह इन्द्रियाणामुच्छोषणमिति । सर्वदा सन्तापकरमित्यर्थः ।

ननु युद्धे प्रयतमानस्य तव शोकनिवृत्तिर्भविष्यति जेष्यसि चेत्तदा राज्यप्राप्त्या द्वावेतौ पुरुषौ लोके इत्यादिधर्मशास्त्रादित्याशङ्क्याह अवाप्येत्यादिना । शत्रुवर्जितं सस्यादिसम्पन्नं च राज्यं तथा सुराणामाधिपत्यं हिरण्यगर्भत्वपर्यन्तमैश्वर्यमवाप्य स्थितस्यापि मम यच्छोकमपनुद्यात्तन्न पश्यामीत्यन्वयः । तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते [Cहा ८.१.६] इति श्रुतेः । यत्कृतकं तदनित्यमित्यनुमानात्प्रत्यक्षेणाप्यैहिकानां विनाशदर्शनाच्च नैहिक आमुत्रिको वा भोगः शोकनिवर्तकः किन्तु स्वसत्ताकालेऽपि भोगपारतन्त्र्यादिना विनाशकालेऽपि विच्छेदाच्छोकजनक
एवेति न युद्धं शोकनिवृत्तयेऽनुष्ठेयमित्यर्थः । एतेनेहामुत्रभोगविरागोऽधिकारिविशेषणत्वेन दर्शितः ॥८॥

विश्वनाथः ननु मयि तव सख्यभाव एव, न तु गौरवम् । अतस्त्वां कथमहं शिष्यं करोमि ? तस्माद्यत्र तव गौरवं तं कमपि द्वैपायनादिकं प्रपद्यस्व इत्यत आह न हीति । मम शोकमपनुद्यात्दूरीकुर्यादेवं जनं न प्रकर्षेण पश्यामि त्रिजगत्येकं त्वां विना । स्वस्मादधिकबुद्धिमन्तं बृहस्पतिमपि न जानामीत्यतः शोकार्त एव खलु कं प्रपद्येय इति भावः । यद्यतः शोकादिन्द्रियाणामुच्छोषणं महानिदाघात्क्षुद्रसरसामिव उत्कर्षेण शोषो भवति ।

ननु तर्हि साम्प्रतं त्वं शोकार्त एव खलु युध्यस्व । ततश्चैतान् जित्वा राज्यं प्रातवतस्तव राज्यभोगाभिनिवेशेनैव शोकोऽपयास्यतीत्याह अवाप्येति । भूमौ निष्कण्टकं राज्यं स्वर्गे सुराणामाधिपत्यं वा प्राप्यापि स्थितस्य ममेन्द्रियाणामेतदुच्छोषणमेवेत्यर्थः ॥८॥

बलदेवः ननु त्वं शास्त्रज्ञोऽसि स्वहितं विचार्यानुतिष्ठ, सख्युर्मे शिष्यः कथं भवेरिति चेत्तत्राह न हीति । यत्कर्म मम शोकमपनुद्याद्दूरीकुर्यात्तदहं न प्रपश्यामि । शोकं विशिनष्टि इन्द्रियाणामुच्छोषणमिति । तस्माच्छोकविनाशाय त्वां प्रपन्नोऽस्मीति । इत्थं च सोऽहं भगवः शोचामि तं मां भवान् शोकस्य पारं तारयतु इति श्रुत्यर्थो दर्शितः ।

ननु त्वमधुना शोकाकुलः प्रपद्यसे युद्धात्सुखसमृद्धिलाभे विशोको भविष्यसीति चेत्तत्राह अवाप्येति । यदि युद्धे विजयी स्यां तदा भूमावसपत्नं निष्कण्टकं राज्यं प्राप्य यदि च तत्र हतः स्यां तदा स्वर्गे सुराणामाधिपत्यं प्राप्य स्थितस्य मे विशोकत्वं न भवेदित्यर्थः । तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते [Cहाऊ ८.१.६] इति श्रुतेर्नैहिकं पारत्रिकं वा युद्धलब्धं सुखं शोकापहं तस्मात्तादृशमेव श्रेयस्त्वं ब्रूहीति न युद्धं शोकहरम् ॥८॥

__________________________________________________________

भगवद्गीता २.९

संजय उवाच
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९॥

श्रीधरः एवमुक्त्वार्जुनः किं कृतवानित्यपेक्षायां सञ्जय उवाच एवमित्यादि । स्पष्टार्थः ॥९॥

मधुसूदनः तदनन्तरमर्जुनः किं कृतवानिति धृतराष्ट्राकाङ्क्षायां सञ्जय उवाच एवमित्यादि । गुडाकेशो जितालस्यः परन्तपः शत्रुतापनोऽर्जुनो हृषीकेशं सर्वेन्द्रियप्रवर्तकत्वेनान्तर्यामिणं गोविन्दं गां वेदलक्षणां वाणीं विन्दतीति व्युत्पत्त्या सर्ववेदोपादानत्वेन सर्वज्ञमादावेवं कथं भीष्ममहं सङ्ख्य इत्यादिना युद्धस्वरूपायोग्यतामुक्त्वा तदनन्तरं न योत्स्य इति युद्धफलाभावं चोक्त्वा तूष्णीं बभूव बाह्येन्द्रियव्यापारस्य युद्धार्थं पूर्वं कृतस्य निवृत्त्या निर्व्यापारो जात इत्यर्थः
। स्वभावतो जितालस्ये सर्वशत्रुतापने च तस्मिन्नागन्तुकमालस्यमतापकत्वं च नास्पदमाधास्यतीति द्योतयितुं हशब्दः । गोविन्दहृषीकेशपदाभ्यां सर्वज्ञत्वसर्वशक्तित्वसूचकाभ्यां भगवतस्तन्मोहापनोदनमनायाससाध्यमिति सूचितम् ॥९॥

विश्वनाथः णोथिन्ग्.

बलदेवः ततोऽर्जुनः किमकरोदित्यपेक्षायां सञ्जय उवाच एवमुक्त्वेत्यादि । गुडाकेशो हृषीकेशं प्रति एवं न हि प्रपश्यामीत्यादिना युद्धस्य शोकानिवर्तकत्वमुक्त्वा परन्तपोऽपि गोविन्दं सर्ववेदज्ञं प्रति न योत्स्ये इति चोक्त्वेति योज्यम् । तत्र हृषीकेशत्वाद्बुद्धिं युद्धे प्रवर्तयिष्यति । सर्ववेदवित्त्वाद्युद्धे स्वधर्मत्वं ग्राहयिष्यतीति व्यज्य धृतराष्ट्रहृदि संजाता स्वपुत्रराज्याशा निरस्यते ॥९॥

__________________________________________________________

भगवद्गीता २.१०

तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥१०॥

श्रीधरः ततः किं वृत्तमित्यपेक्षायामाह तमुवाचेति । प्रहसन्निव प्रसन्नमुखः सन्नित्यर्थः ॥१०॥

मधुसूदनः एवं युद्धमुपेक्षितवत्यप्यर्जुने भगवान्नोपेक्षितवानिति धृतराष्ट्रदुराशानिरासायाऽह तमुवाचेति । सेनयोरुभयोर्मध्ये युद्धोद्यमेनागत्य तद्विरोधिनं विषादं मोहं प्राप्नुवन्तं तमर्जुनं प्रहसन्निवानुचिताचारणप्रकाशनेन लज्जाम्बुधौ मज्जयन्निव हृषीकेशः सर्वान्तर्यामी भगवानिदं वक्ष्यमाणमशोच्यानित्यादि वचः परमगम्भीरार्थमनुचिताचरणप्रकाशकमुक्तवान्न तॣपेक्षितवानित्यर्थः ।

अनुचिताचरणप्रकाशनेन लज्जोत्पादनं प्रहासः । लज्जा च दुःखात्मिकेति द्वेषविषय एव स मुख्यः । अर्जुनस्य तु भगवत्कृपाविषयत्वादनुचिताचरणप्रकाशनस्य च विवेकोत्पत्तिहेतुत्वादेकदलाभावेन गौण एवायं प्रहास इति कथयितुमिवशब्दः । लज्जामुत्पादयितुमिव विव्कमुत्पादयितुमर्जुनस्यानुचिताचरणं भगवता प्रकाश्यते । लज्जोत्पत्तिस्तु नान्तरीयकतयास्तु मास्तु वेति न विवक्षितेति भावः ।

यदि हि युद्धारम्भात्प्रागेव स्थितो युद्धमुपेक्षेत तदा नानुचितं कुर्यात् । महता संरम्भेण तु युद्धभूमावागत्य तदुपेक्षणमतीवानुचितमिति कथयितुं सेनयोरित्यादिविशेषणम् । एतच्चाशोच्यानित्यादौ स्पष्टं भविष्यति ॥१०॥

विश्वनाथः अहो त्वाप्येतावान् खल्वविवेक इति सख्यभावेन तं प्रहसननौचित्यप्रकाशेन लज्जाम्बुधौ निमज्जयनिवेति तदानीं शिष्यभावं प्राप्ते तस्मिन् हास्यमनुचितमित्यधरोष्ठनिकुञ्चनेन हास्यमावृण्वंश्चेत्यर्थः । हृषीकेश इति पूर्वं प्रेमाइवार्जुनवाङ्नियम्योऽपि साम्प्रतमर्जुनहितकारित्वात्प्रेम्णैवार्जुनमनोनियन्तापि भवतीति भावः । सेनयोरुभयोर्मधे इत्यर्जुनस्य विषादो भगवता प्रबोधश्च उभाभ्यां सेनाभ्यां सामान्यतो दृष्ट एवेति भावः ॥१०॥

बलदेवः व्यङ्गमर्थं प्रकाशयन्नाह तमुवाचेति तं विषीदन्तमर्जुनं प्रति हृषीकेशो भगवानशोच्यानित्यादिकमतिगम्भीरार्थं वचनमुवाच । अहोतवापीदृग्विवेकः इति सख्यभावेन प्रहसन् । अनौचित्यभाषित्वेन त्रपासिन्धौ निमज्जयनित्यर्थः । इवेति तदैव शिष्यतां प्राप्ते तस्मिन् हासानौचित्यादीषदधरोल्लासं कुर्वन्नित्यर्थः । अर्जुनस्य विषादो भगवता तस्योपदेशश्च सर्वसाक्षिक इति बोधयितुं सेनयोरुभयोरित्येतत् ॥१०॥

__________________________________________________________

भगवद्गीता २.११

श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥११॥

श्रीधरः देहात्मनोरविवेकादस्यैवं शोको भवतीति तद्विवेकदर्शनार्थं श्रीभगवानुवाच अशोच्यानित्यादि । शोकस्याविषयीभूतानेव बन्धून् त्वमन्वशोचः अनुशोचितवानसि दृष्ट्वेमान् स्वजनान् कृष्ण इत्यादिना । तत्र कुतस्त्वा कश्मलमिदं विषमे समुपस्थितमित्यादिना मया बोधितोऽपि पुनश्च प्रज्ञावतां पण्डितानां वादान् शब्दान् कथं भीष्ममहं सङ्ख्ये इत्यादीन् केवलं भाषसे, न तु पण्डितोऽसि, यतः गतासून् गतप्राणान् बन्धूनगतासूंश्च जीवतोऽपि, बन्धुहीना एते कथं जीविष्यन्तीति नानुशोचन्ति पण्डिता विवेकिनः ॥११॥

मधुसूदनः ःEऋE

विश्वनाथः भो अर्जुन ! तवायं बन्धवधहेतुकः शोको भ्रममूलक एव, तथा कथं भीष्ममहं सङ्ख्ये इत्यादिको विवेकश्चाप्रज्ञामूलक एवेत्याह अशोच्यानित्यादि । अशोच्यान् शोकानार्हानेव त्वमन्वशोचोऽनुशोचितवानसि । तथा त्वां प्रबोधयन्तं मां प्रति प्रज्ञावादान् प्रज्ञायां सत्यामेव ये वादाः कथं भीष्ममहं सङ्ख्ये इत्यादीनि वाक्यानि तान् भाषसे, न तु तव कापि प्रज्ञा वर्तते इति भावः । यतः पण्डिताः प्रज्ञावन्तो गतासून् गता निःसृता भवन्त्यसवो येभ्यस्तान् स्थूलदेहान्न शोचन्ति, तेषां नश्वरभावत्वादिति भावः । अगतासूननिःसृतप्राणान्
सूक्ष्मदेहानपि न शोचन्ति, ते हि मुक्तेः पूर्वं नश्वरा एव । उभयेषामपि तथा तथा स्वभावस्य दुष्परिहरत्वात् । मूर्खास्तु पिर्त्रादिदेहेभ्यः प्राणेषु निःसृतेष्वेव शोचन्ति, सूक्ष्मदेहांस्तु न, ते प्रायः परिचिन्वन्त्यसतस्तैरलम् । एते हि सर्वे भीष्मादयः स्थूलसूक्ष्मदेहसहिता आत्मान एव । आत्मनां तु इत्यत्वात्तेषु शोकप्रवृत्तिरेव नास्तीत्यतस्त्वया यत्पूर्वमर्थशास्त्रात्धर्मशास्त्रं बलवदित्युक्तं तत्र मया तु धर्मशास्त्रादपि ज्ञानशास्त्रं बलवदित्युच्यत इति भावः ॥११॥

बलदेवः एवं अर्जुने तूष्णीं स्थिते तद्बुद्धिमाक्षिपन् भगवानाह अशोच्यानिति । हे अर्जुन ! अशोच्यान् शोचितुमयोग्यानेव धार्तराष्ट्रांस्त्वं अन्वशोचः शोचितवानसि । तथा मां प्रति प्रज्ञावादान् प्रज्ञावतामिव वचनानि दृष्ट्वेमं स्वजनमित्यादीनि, कथं भीष्ममित्यादीनि च भाषसे, न च ते प्रज्ञालेशोऽप्यस्तीति भावः । ये तु प्रज्ञावन्तस्ते गतासून्निर्गतप्राणान् स्थूलदेहान्, अगतासूंश्चानिर्गतप्राणान् सूक्ष्मदेहांश्च, शब्दादात्मनश्च न शोचन्ति । अयमर्थः शोकः स्थूलदेहानां विनाशित्वात्, नान्त्यः सूक्ष्मदेहानां
मुक्तेः प्रागवैनाशित्वात्तद्वतामात्मनां तु षड्भावविकारवर्जितानां नित्यत्वान्न शोच्यातेति । देहात्मस्वभावविदां न कोऽपि शोकहेतुः । यदर्थशास्त्राद्धर्मशास्त्रस्य बलवत्त्वमुच्यते । तत्किल ततोऽपि बलवता ज्ञानशास्त्रेण प्रत्युच्यते । तस्मादशोच्ये शोच्यभ्रमः पामरसाधारणः पण्डितस्य ते न योग्य इति भावः ॥११॥

__________________________________________________________

भगवद्गीता २.१२

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥१२॥

श्रीधरः अशोच्यत्वे हेतुमाह न त्वेवाहमिति । यथाहं परमेश्वरो जातु कदाचित्लीलाविग्रहस्याविर्भावतिरोभावतो नासमिति तु नैव । अपि त्वासमेव अनादित्वात् । न च त्वं नासीः नाभूः, अपि त्वासीरेव । इमे वा जनाधिपा नृपा नासन्निति न, अपि तु आसन्नेव मदंशत्वात् । तथातः परमित उपर्यपि न भविष्यामो न स्थास्याम इति च नैव, अपि तु स्थास्याम एवेति जन्ममरणशून्यत्वादशोच्या इत्यर्थः ॥१२॥

मधुसूदनः

विश्वनाथः अथवा सखे त्वामहमेवं पृच्छामि । किं च प्रीत्यास्पदस्य मरणे दृष्टे सति शोको जायते, तत्रेह प्रीत्यास्पदमात्मा देहो वा ? सर्वेषामेव भूतानां नृप स्वात्मैव वल्लभः [Bह्ড়् १०.१४.५७] इति शुकोक्तेरात्मैव प्रीत्यास्पदमिति चेत्तर्हि जीवेश्वरभेदेन द्विविधस्यैवात्मनो नित्यत्वादेव मरणाभावादात्मा शोकस्य विषयो नेत्याह न त्वेवाहमिति । अहं परमात्मा जातु कदाचिदपि पूर्वं नासमिति न, अपि त्वासमेव । तथा त्वमपि जीवात्मा आसीरेव । तथेमे जनाधिपा राजानश्च जीवात्मान आसन्नेवेति प्रागभावाभावो दर्शितः । तथा सर्वे वयमहं त्वमिमे जनाधिपाश्चातः परं न भविष्यामो न स्थास्याम इति न, अपि तु स्थास्याम एवेति ध्वंसाभावश्
च दर्शित इति परमात्मनो जीवात्मनां च नित्यत्वादात्मा न शोकविषय इति साधितम् । अत्र श्रुतयः नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् [श्वेतू ६.१३] इत्याद्याः ॥१२॥

बलदेवः एवमस्थानशोचित्वादपाण्डित्यमर्जुनस्यापाद्य तत्त्वजिज्ञासुं नियोजिताञ्जलिं तं प्रति सर्वेश्वरो भगवान्नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् [श्वेतू ६.१३] इति श्रुतिसिद्धं स्वस्माज्जीवानां च पारमर्थिकं भेदमाह न त्वेवाहमिति । हे अर्जुन ! अहं सर्वेश्वरो भगवानितः
पूर्वस्मिन्नादौ काले जातु कदाचिन्नासमिति न, अपि त्वासमेव । तथा त्वमर्जुनो नासीरिति न, किन्त्वासीरेव । इमे जनाधिपा राजानो नासन्निति न, किन्त्वासन्नेव । तथेतः परस्मिन्नन्ते काले सर्वे वयमहं च त्वं च इमे च न भविष्याम इति न, किन्तु भविष्याम एवेति । सर्वेश्वरवज्जीवानां च त्रैकालिकसत्तायोगित्वात्तद्विषयको न शोको युक्त इत्यर्थः । न चाविद्याकृतत्वाद्व्यवहारिकोऽयं भेदः । सर्वज्ञे भगवत्यविद्यायोगात् । इदं ज्ञानमुपाश्रित्य इत्यादिना मोक्षेऽपि तस्याभिदास्यमानत्वाच्च । न चाभेदज्ञस्यापि हरेर्बाधितानुवृत्तिन्यायेनेयमर्जुनादिभेददृष्टिरिति वाच्यम् । तथा सत्युपदेशासिद्धेः । मरुमरीचिकादावुदकबुद्धिर्बाधिताप्यनुवर्तमाना मिथ्यार्थविषयत्वनिश्चयान्
नोदकाहरणादौ प्रवर्तयेदेवमभेदबोधबाधिताप्यनुवर्तमानार्जुनादिभेददृष्टिस्तत्त्वनिश्चयान्नोपदेशादौ प्रवर्तयिष्यतीति यत्किञ्चिदेतत् ।

ननु फलवत्यज्ञातेऽर्थे शास्त्रतात्पर्यवीक्षणात्तादृशोऽभेदस्तात्पर्यविषयो वैफल्याज्ज्ञातत्वाच्च । भेदस्तद्विषयो न स्यात्, किन्तु अद्भ्यो वा एष प्रातरुदेत्यपः सायं प्रविशति इत्यादिश्रुत्यर्थवदनुवाद्य एव स इति चेन्मन्दमेतत् । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति [श्वेतू १.६] इत्यादिना भेद एवामृतत्वफलश्रवणात् । विरुद्धधर्मावच्छिन्नप्रतियोगिकतया लोके तस्याज्ञातत्वाच्च । ते च धर्मा विभुत्वाणुत्वस्वामित्वभृत्यत्वादयः शास्त्रैकगम्या मिथो विरुद्धा बोध्याः । अभेदस्त्वफलस्तत्र फलानङ्गीकारात् । अज्ञातश्च शशशृङ्गवदसत्त्वात् । तस्मात्परमार्थिकस्तद्भेदः सिद्धः ॥१२॥

__________________________________________________________

भगवद्गीता २.१३

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥१३॥

श्रीधरः नन्वीश्वरस्य तव जन्मादिशून्यत्वं सत्यमेव, जीवानां तु जन्ममरणे प्रसिद्धे । तत्राह देहिन इत्यादि । देहिनो देहाभिमानिनो जीवस्य यथास्मिन् स्थूलदेहे कौमाराद्यवस्थास्तद्देहनिबन्धना एव, न तु स्वतः, पूर्वावास्थानाशे ।वस्थान्तरोत्पत्तावपि स एवाहमिति प्रत्यभिज्ञानात् । तथैव एतद्देहनाशे देहान्तरप्राप्तिरपि लिङ्गदेहनिबन्धनैव । न तावदात्मनो नाशः, जातमात्रस्य पूर्वसंस्कारेण स्तन्यपानादौ प्रवृत्तिदर्शनात् । अतो धीरो धीमान् तत्र तयोर्देहनाशोत्पत्त्योर्न मुह्यति । आत्मैव मृतो जातश्चेति न मन्यते ॥१३॥

मधुसूदनः

विश्वनाथः ननु चात्मसम्बन्धेन देहोऽपि प्रीत्यास्पदं स्यात्, देहसम्बन्धेन पुत्रभ्रात्रादयोऽपि, तत्सम्बन्धेन तत्पुत्रादयोऽपि । अतस्तेषां नाशे शोकः स्यादेवेति चेदत आह देहिन इति । देहिनो जीवस्यास्मिन् देहे कौमार कौमारं कौमारप्राप्तिर्भवति, ततः कौमारनाशानन्तरं जराप्राप्तिर्यथा तथैव देहान्तरप्राप्तिरिति । ततस्चात्मसम्बन्धिनां कौमारादीनां प्रीत्यास्पदानां नाशे यथा शोको न क्रियते तथा देहस्यापि आत्मसम्बन्धिनः प्रीत्यास्पदस्य नाशे शोको न कर्तव्यः । यौवनस्य नाशे जराप्राप्तौ शोको जायते इति चेत्कौमारस्य नाशे यौवनप्राप्तौ हर्षोऽपि जायते इत्यतो भीष्मद्रोणादीनां जीर्णदेहनाशे खलु नव्यदेहान्तरप्राप्तौ
तर्हि हर्षः क्रियतामिति भावः । यद्वा, एकस्मिन्नपि देहे कौमारादीनां यथा प्राप्तिस्तथैवैकस्यापि देहिनो जीवस्य नानादेहानां प्राप्तिरिति ॥१३॥

बलदेवः ननु भीष्मादिदेहावच्छिन्नानामात्मनां नित्यत्वेऽपि तद्देहानां तद्भोगायतनानां नाशे युक्तः शोक इति चेत्तत्राह देहिनोऽस्मिन्निति । त्रैकालिका बहवो देहा यस्य सन्ति, तस्य देहिनो जीवस्यास्मिन् वर्तमाने देहे क्रमात्कौमारयौवनजरास्तिस्रोऽवस्था भवन्ति । तासामात्मसम्बन्धिनां तद्भोगोपयुक्तानां पूर्वपूर्वविनाशेन परपरप्राप्तौ यथा न शोकस्तथैव तद्देहविनाशे सति देहान्तरप्राप्तिर्ययातियौवनप्राप्तिन्यायेन हर्षहेतुरेवेति, न तद्देहविनाशहेतुकः शोकस्तवोचित इति भावः । धीरो धीमान् देहस्वभावजीवकर्मविपाकस्वरूपज्ञः । अत्र देहिन इत्येकवचनं जात्यभिप्रायेण बोध्यं पूर्वत्रात्मबहुत्वोक्तेः ।

अत्राहुः एक एव विशुद्धात्मा तस्याविद्ययापरिच्छिन्नस्य तस्यां प्रतिबिम्बितस्य वा नानात्मत्वम् । श्रुतिश्चैवमाह आकाशमेकं हि यथा घटादिषु पृथग्भवेत्, तथात्मैको ह्यनेकस्थो जलाधारेष्विवांशुमानिति । तद्विज्ञानेन तस्य विनाशे तु तन्नानात्वनिवृत्त्या तदैक्यं सिध्यतीत्येकवचनेनैतत्पार्थसारथिराहेति । तन्मन्दं जडया तया चैतन्यराशेश्छेदासम्भवात् । तैरपि तद्विषयत्वानङ्गीकाराच्च । वास्तवे च्छेदे विकारित्वाद्यापत्तिः टङ्कछिन्नपाषाणवत्स्यात् नीरूपस्य विभोः प्रतिबिम्बासम्भवाच्च । अन्यथाकाशादिगादीनां तदापत्तिः । न च प्रतीत्यन्यथानुपपत्तिरेवाकाशस्य प्रतिबिम्बे मानं तद्वर्तिग्रहनक्षत्रप्रभामण्डलं
तस्यिअवाम्भसि भासमानत्वेन प्रतीतेः । आकाशमेकं हि इति श्रुतिस्तु परमात्मविषया तस्याकाशवत्सूर्यवच्च बहुवृत्तिकत्वं वदतीत्यविरुद्धम् । न चात्मैक्यस्योपदेष्टा सम्भवति । स हि तत्त्वविन्न वा ? आद्येऽद्वितीयमात्मानं विजानतस्तस्योपदेश्यापरिस्फूर्तिः । अन्त्ये त्वज्ञत्वादेव नात्मज्ञानोपदेष्टृत्वम् । बाधितानुवृत्त्याश्रयणं तु पूर्वनिरस्तम् ॥१३॥

__________________________________________________________

भगवद्गीता २.१४

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥१४॥

श्रीधरः ननु तानहं न शोचामि, किन्तु तद्वियोगादिदुःखभाजं मामेवेति चेत्तत्राह मात्रास्पर्शा इति । मीयन्ते जायन्ते विषया आभिरिति मात्रा इन्द्रियवृत्तयः, तासां स्पर्शा विषयेषु सम्बद्धाः, ते शीतोष्णादिप्रदा भवन्ति । ते तु आगमापायित्वादनित्या अस्थिराः । अतस्तान् तितिक्षस्व सहस्व । यथा जलातपादिसंसर्गास्तत्तत्कालकृताः स्वभावतः शीतोष्णादि प्रयच्छन्ति एवमिष्टसंयोगवियोगा अपि सुखदुःखानि प्रयच्छन्ति, तेषां चास्थिरत्वात्सहनं तव धीरस्योचितं न तु तन्निमित्तहर्षविषादपारवश्यमित्यर्थः
॥१४॥

मधुसूदनः

विश्वनाथः ननु सत्यमेव तत्त्वम् । तदप्यविवेकिनो मम मन एवानर्थकानि वृतहिव शोकमोहव्याप्तं दुःखयतीति । तत्र न केवलमेकं मन एवापि तु मनसो वृत्तयोऽपि सर्वास्त्वगादीन्द्रियरूपाः स्वविषयाननुभाव्यानर्थकारिण्य इत्याह मात्रा इन्द्रियग्राह्यविषयास्तेषां स्पर्शा अनुभवाः । शीतोष्णेत्यागमापायिन इति यदेव शीतलजलादिकमुष्णकाले सुखदम् । तदेव शीतकाले दुःखदमतोऽनियतत्वादागमापायित्वाच्च तान् विषयानुभवान् तितिक्षस्व सहस्व । तेषां सहनमेव शास्त्रविहितो धर्मः । नहि माघे मासि जलस्य दुःखत्वबुद्ध्यैव शास्त्रे विहितः स्नानरूपो धर्मस्त्यज्यते
। धर्म एव काले सर्वानर्थनिवर्तको भवति । एवमेव ये पुत्रभ्रात्राद्योत्पत्तिकाले धनाद्युपार्जनकाले च सुखदास्त एव मृत्युकाले दुःखदा आगमापायिनोऽनित्यास्तानपि तितिक्षस्व । न तु तदनुरोधेन युद्धरूपः शास्त्रविहितः स्वधर्मस्त्याज्यो विहितधर्मानाचरणं खलु काले महानर्थकृदेवेति भावः ॥१४॥

बलदेवः ननु भीष्मादयो मृताः कथं भविष्यन्तीति तद्दुःखनिमित्तः शोको माभूत् । तद्विच्छेददुःखनिमित्तस्तु मे मनप्रभृतीनि प्रदहन्तीति चेत्तत्राह मात्रेति । मात्रास्त्वगादीन्द्रियवृत्तयः मीयन्ते परिच्छिद्यन्ते विषया अभिरिति व्युत्पत्तेः । स्पर्शास्ताभिर्विषयाणामनुभवान्ते खलु शीतोष्णसुखदुःखदा भवन्ति । यदेव शीतलमुदकं ग्रीष्मे सुखदं तदेव हेमन्ते दुःखदमित्यतोऽनियतत्वादागमापायित्वाच्चानित्यानस्थिरांस्तान् तितिक्षस्व सहस्व । एतदुक्तं भवति माघस्नानं दुःखकरमपि धर्मतया विधानाद्यथा क्रियते तथा
भीष्मादिभिः सह युद्धं दुःखकरमपि तथा विधानात्कार्यमेव । तत्रत्यो दुःखानुभवस्त्वागन्तुको धर्मसिद्धत्वात्सोढव्यः । धर्माज्ज्ञानोदयेन मोक्षलाभे तूत्तरत्र तस्य नानुवृत्तिश्च ज्ञाननिष्ठा परिपाकं विनैव धर्मत्यागस्त्वनर्थहेतुरिति । कौन्तेय भारतेति पदाभ्यामुभयकुलशुद्धस्य ते धर्मभ्रंशो नोचित इति सूच्यते ॥१४॥

__________________________________________________________

भगवद्गीता २.१५

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥१५॥

श्रीधरः तत्प्रतिकारप्रयत्नादपि तत्सहनमेवोचितं महाफलत्वादित्याह यं हीति । एते मात्रास्पर्शा यं पुरुषं न व्यथयन्ति नाभिभवन्ति । समे दुःखसुखे स तम् । स तैरविक्षिप्यमाणो धर्मज्ञानद्वारा अमृतत्वाय मोक्षाय कल्पते योग्यो भवति ॥१५॥

मधुसूदनः

विश्वनाथः एवं विचारेण तत्तत्सहनाभ्यासे सति ते विषयानुभवाः काले किल नापि दुःखयन्ति । यदि च न दुःखयन्ति, तदात्ममुक्तिः स्वप्रत्यासन्नैवेत्याह यमिति । अमृतत्वाय मोक्षाय ॥१५॥

बलदेवः धर्मार्थदुःखसहनाभ्यासस्योत्तरत्र सुखहेतुत्वं दर्शयन्नाह यं हीति । एते मात्रास्पर्शाः प्रियाप्रियविषयानुभावा यं धीरं धियमीरयति धर्मेष्विति व्युत्पत्तेर्धर्मनिष्ठं पुरुषं न व्यथयन्ति सुखदुःखमूर्च्छितं न कुर्वन्ति सोऽमृतत्वाय मुक्तये कल्प्यते । न तु तादृशो दुःखसुखमूर्च्छित इत्यर्थः । उक्तमर्थं स्फुटयन् पुरुषं विशिनष्टि समेति । धर्मानुष्ठानस्य कष्टसाध्यत्वाद्दुःखमनुषङ्गलब्धं सुखं च यस्य समं भवति ताभ्यां
मुखम्लानितोल्लासरहितमित्यर्थः ॥१५॥

__________________________________________________________

भगवद्गीता २.१६

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥१६॥

श्रीधरः ननु तथापि शीतोष्णादिकमतिदुःसहं कथं सोढव्यम् । अत्यन्तं तत्सहने च कदाचिद्देहनाशः स्यादित्याशङ्क्य तत्त्वविचारतः सर्वं सोढुं शक्यमित्याशयेनाह नासतो विद्यत इति । असतोऽनात्मधर्मत्वादविद्यमानस्य शीतोष्णादेरात्मनि भावः सत्ता न विद्यते । तथा सतः सत्स्वभावस्यात्मनोऽभावो नाशो न विद्यते । एवमुभयोः सदसतोरन्तो निर्णयो दृष्टः । कैः ? तत्त्वदर्शिभिः वस्तुयाथार्थ्यवेदिभिः । एवम्भूतविवेकेन सहस्वेत्यर्थः ॥१६॥

मधुसूदनः

विश्वनाथः एतच्च विवेकदशानधिरूढान् प्रति उक्तम् । वस्तुतस्तु असङ्गो ह्ययं पुरुषः इति श्रुतेर्जीवात्मनश्च स्थूलसूक्ष्मदेहाभ्यां तद्धर्मैः शोकमोहादिभिश्च सम्बन्धो नास्त्येव । तत्सम्बन्धस्य अविद्या कल्पितत्वादित्याह नेति । असतोऽनात्मधर्मत्वादात्मनि जीवे अवर्तमानस्य शोकमोहादेस्तदाश्रयस्य देहस्य च भावः सत्ता नास्ति । तथा सतः सत्यरूपस्य जीवात्मनोऽभावो नाशो नास्ति । तस्मादुभयोरेतयोरसत्सतोरन्तो निर्णयोऽयं दृष्टः । तेन भीष्मादिषु त्वदादिषु च जीवात्मसु सत्यत्वादनश्वरेषु देहदैहिकविवेकशोकमोहादयो नैव सन्ति कथं भीष्मादयो नङ्क्षन्ति । कथं
वा तांस्त्वं शोचसीति भावः ॥१६॥

बलदेवः तदेवं भगवता पार्थस्यास्थानाशोचित्वेन तत्पाण्डित्यमाक्षिप्तम् । शोकहरं च स्वोपासनमेव तच्चोपासोपासकभेदघटितमित्युपास्याज्जीवांशिनः स्वस्मादुपासकानां जीवांशानां तात्त्विकं द्वैतमुपदिष्टम् । अथ यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत्[श्वेतू २.१५] इत्यादावंशस्वरूपज्ञानस्यांशिस्वरूपज्ञानोपयोगित्वश्रवणात्तदादौ सनिष्ठादीन् सर्वान् प्रत्यविशेषेणोपदेश्यं तच्च देहात्मनोर्वैधर्म्यधियमन्तरा न स्यादिति तद्वैधर्म्यबोधायारभ्यते नासत इत्यादिभिः । असतः परिणामिनो देहादेर्भावोऽपरिणामित्वं न विद्यते
। सतोऽ परिणामिन आत्मनस्त्वभावः परिणामित्वं न विद्यते । देहात्मानौ परिणामापरिणामस्वभावौ भवतः । एवमुभयोरसत्सच्छब्दितयोर्देहात्मनोरन्तो निर्णयस्तत्त्वदर्शिभिस्तदुभयस्वभाववेदिभिः पुरुषैर्दृष्टोऽनुभूतः । अत्रासच्छब्देन विनश्वरं देहादि जडं सच्छब्देन त्वविनश्वरमात्मचैतन्यमुच्यते । एवमेव श्रीविष्णुपुराणेऽपि निर्णीतं दृष्टं ज्योतींषि विष्णुर्भुवनानि विष्णुर्[विড়् २.१२.३८] इत्युपक्रम्य यदस्ति यन्नास्ति च विप्रवर्य [?] इत्यस्ति । नास्तिशब्दवाच्ययोश्चेतनजडयोस्तथात्वं वस्त्वस्ति किं कुत्रद्चिदित्यादिभिर्निरूपितः । तत्र नास्ति शब्दवाच्यं
जडम् । अस्तिशब्दवात्यं तु चैतन्यमिति स्वयमेव विवृतम् । यत्तु सत्कार्यवादस्थापनायै तत्पद्यमित्याहुस्तन्निरवधानं देहात्मस्वभावानभिज्ञानमोहितं प्रति तन्मोहविनिवृत्तये तत्स्वभावाभिज्ञापनस्य प्रकृतत्वात् ॥१६॥

__________________________________________________________

भगवद्गीता २.१७

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥१७॥

श्रीधरः अत्र सत्स्वभावमविनाशि वस्तु सामान्येनोक्तं ततं तत्साक्षित्वेन व्याप्तं तं तु आत्मस्वरूपमविनाशि विनाशशून्यं विद्धि जानीहि । तत्र हेतुमाह विनाशमिति ॥१७॥

मधुसूदनः

विश्वनाथः नाभावो विद्यते सतः इत्यस्यार्थं स्पष्टयति अविनाशीति । तं जीवात्मस्वरूपं येन सर्वमिदं शरीरं ततं व्याप्तम् । ननु शरीरमात्रव्यापिचैतन्यत्वे जीवात्मनो मध्यमपरिमाणत्वेन अनित्यत्वप्रसक्तिः ? मैवम् । सूक्ष्माणामप्यहं जीवः इति भगवदुक्तेः । एषोणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश इति,

बालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः [श्वेतू ५.९] इति,

आराग्रमात्रो ह्यपरोऽपि दृष्टः इति श्रुतिभ्यश्च तस्य परमाणुपरिमाणत्वमेव । तदपि सम्पूर्णदेहव्यापिशक्तिमत्त्वं जतुजटितस्य महामणेर्महौषधिखण्डस्य वा शिरस्युरसि वा धृतस्य सम्पूर्णदेहपुष्टिकरणशक्तिमत्त्वमिव नासमञ्जसम् । स्वर्गनरकनानायोनिषु गमनं च तस्योपाधिपारवश्यादेव । तदुक्तं प्राणमधिकृत्य दत्तात्रयेण येन संसरते पुमानिति । अतएवास्य सर्वगतत्वमप्यग्रिमश्लोके वक्ष्यमाणं नासमञ्जसम् । अतएवाव्ययस्य नित्यस्य नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् [श्वेतू ६.१३] इति श्रुतेः ।

यद्वा, ननु देहो जीवात्मा परमात्मेत्येतद्वस्तुत्रिकं मनुष्यतिर्यगादिषु सर्वत्र दृश्यते, तत्राद्ययोर्देहजीवयोस्तत्त्वं नासतो विद्यते भावः इत्यनेनोक्तम् । तृतीयस्य परमात्मवस्तुनः किं तत्त्वमित्यत आह अविनाशि त्विति । तु भिन्नोपक्रमे । परमात्मनो मायाजीवाभ्यां स्वरूपतः पार्थक्यादिदं जगत् ॥१७॥

बलदेवः उक्तं जीवात्मदेहयोः स्वभावं विशदयत्यविनाशीति द्वाभ्याम् । तज्जीवात्मतत्त्वमविनाशि नित्यं विद्धि । येन सर्वमिदं शरीरं ततं धर्मभूतेन ज्ञानेन व्याप्तमस्ति । अस्याव्ययस्य पर्माणुत्वेन च विनाशानर्हस्य विनाशं न कश्चित्स्थूलोऽर्थः कर्तुमर्हति प्राणस्येव देहः । इह जीवात्मनो देहपरिमितत्वं न प्रत्येतव्यम् । एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [ंुण्डू ३.१.९] इत्यादिषु तस्य परमाणुत्वश्रवणात् । तादृशस्य निखिलदेहव्याप्तिस्तु धर्मभूतज्ञानेनैव स्यात् । एवमाह भगवान् सूत्रकारः गुणाद्वालोकवद्[Vस्. २.३.२६] इति । इहापि स्वयं वक्ष्यति
यथा प्रकाशयत्येकः [ङीता १३.३३] इत्यादिना ॥१७॥

__________________________________________________________

भगवद्गीता २.१८

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥१८॥

श्रीधरः आगमापायधर्मकं सन्दर्श्यति अन्तवन्त इति । अन्तो विनाशो विद्यते येषां ते अन्तवन्तः । नित्यस्य सर्वदैकरूपस्य शरीरिणः शरीरवतः । अतएवानाशिनो विनाशरहितस्य अप्रमेयस्यपरिच्छिन्नस्यात्मन इमे सुखदुःखादिधर्मकदेहा उक्तास्तत्त्वदर्शिभिः । यस्मादेवमात्मनो न विनाशः, न च सुखदुःखादिसम्बन्धः, तस्मान्मोहजं शोक्तं त्यक्त्वा युध्यस्व । स्वधर्मं मा त्यक्षीरित्यर्थः ॥१८॥

मधुसूदनः ननु स्फुरणरूपस्य सतः कथमविनाशित्वं तस्य देहधर्मत्वाद्देहस्य चानुक्षणविनाशादिति भूतचैतन्यवादिनस्तान्निराकुर्वन्नासतो विद्यते भाव इत्येतद्विवृणोति अन्तवन्त इति । अन्तवन्तो विनाशिन इमेऽपरोक्षा देहा उपचितापचितरूपत्वाच्छरीराणि । बहुवचनात्स्थूलसूक्ष्मकारणरूपा विराट्सूत्राव्याकृताख्याः समष्टिव्यष्ट्यात्मनः सर्वे नित्यस्याविनाशिन एव शरीरिण आध्यासिकसम्बन्धेन शरीरवतएकस्यात्मनः स्वप्रकाशस्फुरणरूपस्य सम्बन्धिनो दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिर्ब्रह्मवादिभिश्च । तथा च तैत्तिरीयकेऽन्नमयाद्यानन्दमयानन्तान् पञ्च कोशान् कल्पयित्वा तदधिष्ठानमकल्पितं ब्रह्म पुच्छं प्रतिष्ठा
[टैत्तू २.५] इति दर्शितम् । तत्र पञ्चीकृतपञ्चमहाभूततत्कार्यात्मको विराण्मूर्तराशिरन्नमयकोशः स्थूलसमष्टिः । तत्कारणीभूतोऽपञ्चीकृतपञ्चमहाभूततत्कार्यात्मको हिरण्यगर्भः सूत्रममूर्तराशिः सूक्ष्मसमष्टिः त्रयं वा इदं नाम रूपं कर्म [Bआऊ १.६.१] इति बृहदारण्यकोक्तत्र्यन्नात्मकः सर्वकर्मात्मकत्वेन क्रियाशक्तिमात्रमादाय प्राणमयकोश उक्तः । नामात्मकत्वेन ज्ञानशक्तिमात्रमादायमनोमयकोश उक्तः । रूपात्मकत्वेन तदुभयाश्रयतया कर्तृत्वमादाय विज्ञानमयकोश उक्तः । ततः प्राणमयमनोमयविज्ञानमयात्मैक एव हिरण्यगर्भाख्यो लिङ्गशरीरकोशः । तत्कारणीभूतस्
तु मायोपहितचैतन्यात्मा सर्वसंस्कारशेषोऽव्याकृताख्य आनन्दमयकोशः । ते च सर्व एकस्यैवात्मनः शरीराणीत्युक्तम् । तस्यैष एव शारीर आत्मा यः पूर्वस्य [टैत्तू २.३.४] इति । तस्य प्राणमयस्यैष एव शरीरे भवः शारीर आत्मा यः सत्यज्ञानादिलक्षणो गुहानिहितत्वेनोक्तः पूर्वस्यान्नमयस्य । एवं प्राणमयमनोमयविज्ञानमयानन्दमयेषु योज्यम् ।

अथवेमे सर्वे देहास्त्रैलोक्यवर्तिसर्वप्राणिसम्बन्धिन एकस्यैवात्मन उक्ता इति योजना । तथा च श्रुतिः

एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेतो केवलो निर्गुणश्च ॥ [श्वेतू ६.११]

इति सर्वशरीरसम्बन्धिनमेकमात्मानं नित्यं विभुं दर्शयति ।

ननु नित्यत्वं यावत्कालस्थायित्वं तथा चाविद्यादिवत्कालेन सह नाशेऽपि तदुपपन्नमित्यत आह अनाशिन इति । देशतः कालतो वस्तुतश्चपरिच्छिनस्याविद्यादेः कल्पितत्वेनानित्यत्वेऽपि यावत्कालस्थायिस्वरूपमौपचारिकं नित्यत्वं व्यवह्रियते यावद्विकारं तु विभागो लोकवत्[Vस्२.३.७] इति न्यायात् । आत्मनस्तु परिच्छेदत्रयशून्यस्याकल्पितस्य विनाशहेत्वभावान्मुख्यमेव कूटस्थनित्यत्वं न तु परिणामिनित्यत्वं यावत्कालस्थायित्वं चेत्यभिप्रायः ।

नन्वेतादृशे देहिनि किंचित्प्रमाणमवश्यं वाच्यमन्यथा निष्प्रमाणस्य तस्यालीकत्वापत्तेः शास्त्रारम्भवैयर्थ्यापत्तेश्च । तथा च वस्तुपरिच्छेदो दुष्परिहरः शास्त्रयोनित्वात्[Vस्१.१.३] इति न्यायाच्च । अत आह अप्रमेयस्येति । एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् [Bआऊ ४.७.२] अप्रमयमप्रमेयम् ।

न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः । [Kअठू ५.१५]

तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति [ंुण्डू २.२.१०]

इति च श्रुतेः स्वप्रकाशचैतन्यरूप एवात्मातस्तस्य सर्वभासकस्य स्वभानार्थं न स्वभास्यापेक्षा, किन्तु कल्पिताज्ञानतत्कार्यनिवृत्त्यर्थं कल्पितवृत्तिविशेषापेक्षा । कल्पितस्यैव कल्पितविरोधित्वात् । यक्षानुरूपो बलिः इति न्यायात् । तथा च सर्वकल्पितनिवर्तकवृत्तिविशेषोत्पत्त्यर्थं शास्त्रारम्भः, तस्य तत्त्वमस्यादिवाक्यमात्राधीनत्वात् । स्वतः सर्वदाभासमानत्वात्सर्वकल्पनाधिष्ठानत्वाद्दृश्यमात्रभासकत्वाच्च न तस्य तुच्छत्वापत्तिः । तथा चैकमेवाद्वितीयं सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिशास्त्रमेव स्वप्रमेयानुरोधेन स्वस्यापि कल्पितत्वमापादयति अन्यथा स्वप्रामाण्यानुपपत्तेः ।

कल्पितस्य चाकल्पितपरिच्छेदकत्वं नास्तीति प्राक्प्रतिपादितम् । आत्मनः स्वप्रकाशत्वं च युक्तितोऽपि भगवत्पूज्यपादैरुपपादितम् । तथा हि यत्र जिज्ञासोः संशयविपर्ययव्यतिरेकप्रमाणानामन्यतममपि नास्ति तत्र तद्विरोधि ज्ञानमिति सर्वत्र दृष्टम् । अन्यथा त्रितयान्यतमापत्तेः । आत्मनि चाहं वा नाहं वेति न कस्यचित्संशयः । नापि नाहमिति विपर्ययो व्यतिरेकः प्रमा वेति तत्स्वरूपप्रमा सर्वदास्तीति वाच्यं तस्य सर्वसंशयविपर्ययधर्मित्वात् । धर्म्यशे सर्वमभ्रान्तं प्रकारे तु विपर्ययः इति न्यायात् । अत एवोक्तम्

प्रमाणमप्रमाणं च प्रमाभासस्तथैव च ।
कुर्वन्त्येव प्रमां यत्र तदसम्भावना कुतः ॥ [Bऋहद्वामनড়् १.४.८७४]

प्रमाभासः संशयः । स्वप्रकाशे सद्रूपे धर्मिणि प्रमाणाप्रमाणयोर्विशेषो नास्तीत्यर्थः । आत्मनोऽभासमानत्वे च घटज्ञानं मयि जातं न वेत्यादिसंशयः स्यात् । न चान्तरपदार्थे विषयस्यैव संशयादिप्रतिबन्धकत्वस्वभावः । बाह्यपदार्थे क्प्तेन विरोधिज्ञानेनैव संशयादिप्रतिबन्धसंभव आन्तरपदार्थे स्वभावभेदकल्पनाया अनौचित्यात् । अन्यथा सर्वविप्लवापत्तेः । आत्ममनोयोगमात्रं चात्मसाक्षात्कारे हेतुः । यस्य च ज्ञानमात्रे हेतुत्वाद्घटादिभानेऽप्यात्मभानं समूहालम्बनन्यायेन तार्किकाणां प्रवरेणापि दुर्निवारम् । न च
चाक्षुषत्वमानसत्त्वादिसङ्करः । लौकिकत्वालौकिकत्ववदंशभेदेनोपपत्तेः । सङ्करस्यादोषत्वाच्चाक्षुषत्वादेर्जातित्वानभ्युपगमाद्वा । व्यवसायमात्र एवात्मभानसामग्र्या विद्यमानत्वादनुव्यवसायोऽप्यपास्तः । न च व्यवसायभानार्थं स तस्य दीपवत्स्वव्यवहारे सजातीयानपेक्षत्वात् । न हि घटतज्ज्ञानयोरिव व्यवसायानुव्यवसाययोरपि विषयत्वविषयित्वव्यवस्थापकं वैजात्यमस्ति व्यक्तिभेदातिरिक्तवैधर्म्यानभ्युपगमात् । विषयत्वावच्छेदकरूपेणैव विषयित्वाभ्युपगमे घटतज्ज्ञानयोरपि तद्भावापत्तिरविशेषात् ।

ननु यथा घटव्यवहारार्थं घटज्ञानमभ्युपेयते तथा घटज्ञानव्यवहारार्थं घटज्ञानविषयं ज्ञानमभ्युपेयं व्यवहारास्य व्यवहर्तव्यज्ञानसाध्यत्वादिति चेत् । कानुपपत्तिरुद्भाविता देवानांप्रियेण स्वप्रकाशवादिनः । नहि व्यवहर्तव्यभिन्नत्वमपि ज्ञानविशेषणं व्यवहारहेतुतावच्छेदकं गौरवात् । तथा चेश्वरज्ञानवद्योगिज्ञानवत्प्रमेयमिति ज्ञानवच्च स्वेनैव स्वव्यवहारोपपत्तौ न ज्ञानान्तरकल्पनावकाशः । अनुव्यवसायस्यापि घटज्ञानव्यवहारहेतुत्वं किं घटज्ञानज्ञानत्वेन किं वा घटज्ञानत्वेनैवेति विवेचनीयम् । उभयस्यापि तत्र सत्त्वात् । तत्र घटव्यवहारे घटज्ञानत्वेनैव हेतुतायाः क्प्तत्वात्तेनैव
रूपेण घतज्ञानव्यवहारे,पि हेतुतोपपत्तौ न घटज्ञानज्ञानत्वं हेतुतावच्छेदकं गौरवान्मानाभावाच्च । तथा च नानुव्यवसायसिद्धिरेकस्यैव व्यवसायस्य वय्वसातरि व्यवसेये व्यवसाये च व्यवहारजनकत्वोपपत्तेरिति त्रिपुटीप्रत्यक्षवादिनः प्राभाकराः ।

औपनिषदास्तु मन्यन्ते स्वप्रकाशज्ञानरूप एवात्मा न स्वप्रकाशज्ञानाश्रयः कर्तृकर्मविरोधेन तद्भानानुपपत्तेः । ज्ञानभिन्नत्वे घटादिवज्जडत्वेन कल्पितत्वापत्तेश्च । स्वप्रकाशज्ञानमात्रस्वरूपोऽप्यात्माविद्योपहितः सन् साक्षीत्युच्यते । वृत्तिमदन्तःकरणोपहितः प्रमातेत्युच्यते । तस्य चक्षुरादीनि करणानि । स चक्षुरादिद्वारान्तःकरणपरिणामेन घटादीन् व्याप्य तदाकारो भवति । ततो घटावच्छिन्नचैतन्यं प्रमात्रभेदात्स्वाज्ञानं नाशयदपरोक्षं भवति । घटं च स्वावच्छेदकं स्वतादात्म्याध्यासाद्भासयति । अन्तःकरणपरिणामश्च वृत्त्याख्योऽतिस्वच्छः स्वावच्छिन्नेनैव चैतन्येन भास्यत
इत्यन्तःकरणतद्वृत्तिघटानामपरोक्षता । तदेतदाकारत्रयमहं जानामि घटमिति । भासकचैतन्यस्यैकरूपत्वेऽपि घटं प्रति वृत्त्यपेक्षत्वात्प्रमातृता । अन्तःकरणतद्वृत्तीः प्रति तु वृत्त्यनपेक्षत्वात्साक्षितेति विवेकः । अद्वैतसिद्धौ सिद्धान्तबिन्दौ च विस्तरः ।

यस्मादेवं प्रागुक्तन्यायेन न्तियो विभुरसंसारी सर्वदैकरूपश्चात्मा तस्मात्तन्नाशशङ्कया स्वधर्मे युद्धे प्राक्प्रवृत्तस्य तव तस्मादुपरतिर्न युक्तेति युद्धाभ्यनुज्ञया भगवानाह तस्माद्युध्यस्व भारतेति । अर्जुनस्य स्वधर्मे युद्धे प्रवृत्तस्य तत उपरतिकारणं शोकमोहौ । तौ च विचारजनितेन विज्ञानेन वाधितावित्यपवादापवाद उत्सर्गस्य स्थितिरिति न्यायेन युध्यस्वेत्यनुवादो न विधिः । यथा कर्तृकर्मणोः कृति [ড়ाण्२.३.६५] इत्युत्सर्गः । उभयप्राप्तौ कर्मणि [ড়ाण्२.३.६६] इत्यपवादः । अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे नेति वक्तव्यमिति तदपवादः । तथा च मुमुक्षोर्ब्रह्मणोर्जिज्ञासेत्यत्रापवादापवादे पुनरुत्सर्गस्थितेः कर्तृकर्मणोः कृतीत्यनेनैव षष्ठी
। तथा च कर्मणि चेति निषेधाप्रसाराद्ब्रह्मजिज्ञासेति कर्मषष्ठीसमासः सिद्धो भवति । कश्चित्त्वेतस्मादेव विधेर्मोक्षे ज्ञानकर्मणोः समुच्चय इति प्रलपति । तच्च युध्यस्वेत्यतो मोक्षस्य ज्ञानकर्मसमुच्चयसाध्यत्वाप्रतीतेः । विस्तरेण चैतदग्रे भगवद्गीतावचनविरोधेनैव निराकरिष्यामः ॥१८॥

विश्वनाथः नासतो विद्यते भावः इत्यस्यार्थं स्पष्टयति अन्तवन्त इति । शरीरिणो जीवस्याप्रमेयस्यातिसूक्ष्मत्वाद्दुर्ज्ञेयस्य । तस्माद्युध्यस्व इति शास्त्रविहितस्य स्वधर्मस्य त्यागोऽनुचित इति भावः ॥१८॥

बलदेवः अन्तवन्तो विनाशिस्वभावाः, शरीरिणो जीवात्मनः । अप्रमेयस्यातिसूक्ष्मत्वाद्विज्ञानविज्ञातृस्वरूपत्वाच्च प्रमातुमशक्यस्येत्यर्थः । तथा चेदृशस्वभावत्वाज्जीवतद्देहौ न शोकस्थानमिति जीवात्मनो देहो धर्मानुष्टानुष्ठानद्वारा तस्य भोगाय मोक्षाय च परेशेन सृज्यते । स च स च धर्मेण भवेत्तस्माद्युध्यस्व भारत ॥१८॥

__________________________________________________________

भगवद्गीता २.१९

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१९॥

श्रीधरः तदेवं भीष्मादिमृत्युनिमित्तः शोको निवारितः, यच्चात्मनो हन्तृत्वनिमित्तं दुःखमुक्तमेतान्न हन्तुमिच्छामि इत्यादिना, तदपि तवदेव निर्निमित्तमित्याह य एनमिति । एनमात्मानम् । आत्मनो हननक्रियायाः कर्मत्वं कर्तृत्वमपि नास्तीत्यर्थः । तत्र हेतुर्नायमिति ॥१९॥

मधुसूदनः नन्वेवमशोच्यानन्वशोचचस्त्वमित्यादिना भीष्मादिबन्धुविच्छेदनिबन्धने शोकेऽपनीतेऽपि तद्वधकर्तृत्वनिबन्धनस्य पापस्य नास्ति प्रतीकारः । नहि यत्र शोको नास्ति तत्र पापं नास्तीति नियमः । द्वेष्यब्राह्मणवधे पापाभावप्रसङ्गात् । अतोऽहं कर्ता त्वं प्रेरक इति द्वयोरपि हिंसानिमित्तपातकापत्तेरयुक्तमिदं वचनं तस्माद्युध्यस्व भारतेत्याशङ्क्य काठकपठितय र्चा परिहरति भगवान् य एनमिति ।

एनं प्रकृतं देहिनमदृश्यत्वादिगुणकं यो हन्तारं हननक्रियायाः कर्तारं वेत्ति अहमस्य हन्तेति विजानाति । यश्चान्य एनं मन्यते हतं हननक्रियायाः कर्मभूतं देहहननेन हतोऽहमिति विजानाति । तावुभौ देहाभिमानित्वादेनमविकारिणमकारकस्वभावमात्मानं न विजानीतो न विवेकेन जानीतः शास्त्रात् । कस्मात्यस्मान्नायं हन्ति न हन्यते कर्ता कर्म च न बह्वतीत्यर्थः ।

अत्र य एनं वेत्ति हन्तारं हतं चेत्येतावति वक्तव्ये पदानामावृत्तिर्वाक्यालङ्कारार्था । अथवा य एनं वेत्ति हन्तारं तार्किकादिरात्मनः कर्तृत्वाभ्युपगमात् । तथा यश्चैनं मन्यते हतं चार्वाकादिरात्मनो विनाशित्वाभ्युपगमात् । तावुभौ न विजानीत इति योज्यम् । वादिभेदख्यापनाय पृथगुपन्यासः । अतिशूरातिकातरविषयतया वा पृथगुपदेशः । हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् [Kअठू १.२.१९] इति पूर्वार्धे श्रौतः पाठः ॥१९॥
विश्वनाथः भो वयस्य अर्जुन ! त्वमात्मा । न हन्तेः कर्ता, नापि हन्तेः कर्म इत्याह य इति । एनं जीवात्मानं हन्तारं वेत्ति भीष्मादीनर्जुनो हन्तीति यो वेत्तीत्यर्थः, हतमिति भीष्मादिभिरर्जुनो हन्यते इति यो वेत्ति, तावुभावप्यज्ञानिनौ । अतोऽर्जुनोऽयं गुरुजनं हन्तीत्यज्ञानिलोकगीताद्दुर्यशः का ते भीतिरिति भावः ॥१९॥

बलदेवः उक्तमविनाशित्वं द्रढयति । एनमुक्तस्वभावमात्मानं जीवं यो हन्तारं खड्गादिना हिंसकं वेत्ति यश्चैनं तेन हतं हिंसितं मन्यते तावुभौ तत्स्वरूपं न विजानीतः । अतिसूक्ष्मस्य चैतन्यस्य तस्य छेदाद्यसम्भवान्नायमात्मा हन्ति न हन्यते । हन्तेः कर्ता कर्म च भवतीत्यर्थः । हन्तेर्देहवियोगार्थत्वान्न तेनात्मनां नाशो मन्तव्यः । श्रुतिश्चैवमाह हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् [Kअठू १.२.१९] इत्यादिना । एतेन मा हिंस्यात्सर्वभूतानि इत्यादिवाक्यं देहवियोगपरं व्याख्यातम् । न चात्रात्मनः कर्तृत्वं
प्रसिद्धमिति वाच्यम् । देहवियोजने तत्तस्य सत्त्वात् ॥१९॥

__________________________________________________________

भगवद्गीता २.२०

न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥२०॥

श्रीधरः न हन्यत इत्येतदेव षड्भावविकारशून्यत्वेन द्रढयति नेति । न जायत इत्यादि । न जायत इति जन्मप्रतिषेधः । न म्रियत इति विनाशप्रतिषेधः । वाशब्दौ चार्थे । न चायं भूत्वा उत्पद्य भविता भवति अस्तित्वं भजते, किन्तु प्राग
ेव स्वतः सद्रूप इति जन्मान्तरास्तित्वलक्षणद्वितीयविकारप्रतिषेधः । तत्र हेतुः यस्मादजः । यो हि न जायते स हि जन्मान्तरमस्तित्वं भजते, न तु यः स्वयमेवास्ति स भूयोऽपि अन्यदस्तित्वं भजते इत्यर्थः । नित्यः सर्व्दैकरूप इति वृद्धिप्रतिषेधः । शाश्वतः शश्वद्भव इति अपक्षयप्रतिषेधः
। पुराण इति विपरिणामप्रतिषेधः । पुरापि नव एव न तु परिणामतः रूपान्तरं प्राप्य नवो भवतीत्यर्थः ।

यद्वा न भवितेत्यस्यानुषङ्गं कृत्वा भूयोऽधिकं यथा भवितेति तथा न भवतीति वृद्धिप्रतिषेधः । अजो नित्य इति चोभयवृद्ध्याद्यभावे हेतुरिति न पौनरुक्त्यम् । तदेवं जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यत्येवं यास्कादिभिर्वेदवादिभिरुक्ताः षड्भावविकारा निरस्ताः । यदर्थमेते विकारा निरस्तास्तं प्रस्तुतं विनाशाभावमुपसंहरति न हन्यते हन्यमाने शरीर इति ॥२०॥

मधुसूदनः कस्मादयमात्मा हननक्रियायाः कर्ता कर्म च न भवति ? अविक्रियत्वादित्याह द्वितीयेन मन्त्रेण । जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीति षड्भावविकारा इति वार्ष्यायणिः इति नैरुक्ताः । तत्राद्यन्तयोर्निषेधः क्रियते न जायते म्रियते वेति । वाशब्दः समुच्चयार्थः । न जायते न म्रियते चेत्यर्थः । कस्मादयमात्मा नोत्पद्यते ? यस्मादयमात्मा कदाचित्कस्मिन्नपि काले न भूत्वाभूत्वा प्राग्भूयः पुनरपि भविता न । यो ह्यभूत्वा भवति स उत्पत्तिलक्षणां विक्रियामनुभवति । अयं तु प्रागपि सत्त्वाद्यतो नोत्पद्यतेऽतोऽजः । तथायमात्मा भूत्वा प्राक्कदाचिद्भूयः पुनर्न भविता । न
वाशब्दाद्वाक्यविपरिवृत्तिः । यो हि प्राग्भूत्वोत्तरकाले न भवति स मृत्लक्षणां विक्रियामनुभवति । अयं तूत्तरकालेऽपि सत्त्वाद्यतो न मिर्यतेऽतो नित्यो विनाशायोग्य इत्यर्थः । अत्र न भूत्वेत्यत्र समासाभावेऽपि नानुपपत्तिर्नानुयोजेष्वतिवत् । भगवता पाणिनिना महाविभाषाधिकारे नञ्समासपाठात् । यत्तु कात्यायनेनोक्तं समासनित्यताभिप्रायेण वावचनानर्थक्यं तु स्वभावसिद्धत्वातिति तद्भगवत्पाणिइनिवचनविरोधादनादेयम् । तदुक्तमाचार्यशवरस्वामिना असद्वादी हि कात्यायनः इति ।

अत्र न जायते म्रियते वेति प्रतिज्ञा । कदाचिन्नायं भूत्वा भविता वा न भूय इति तदुपपादनम् । अजो नित्य इति तदुपसंहार इति विभागः । आद्यन्तयोर्विकारयोर्निषेधेन मध्यवर्तिविकाराणां तद्व्याप्यानां निषेधे जातेऽपि गमनादिविकाराणामनुक्तानामप्युपलक्षणायापक्षयश्च वृद्धिश्च स्वशब्देनैव निराक्रियेते । तत्र कूटस्थनित्यत्वादात्मनो निर्गुणत्वाच्च न स्वरूपतो गुणतो वापक्षयः सम्भवतीत्युक्तं शाश्वत इति । शश्वत्सर्वदा भवति नापक्षीयते नापचीयत इत्यर्थः । यदि नापक्षीयते तर्हि वर्धतामिति नेत्याह पुराण इति । पुरापि नव एकरूपो न त्वधुना नूतनां काञ्चिदवस्थामनुभवति । यो हि नूतनां काञ्चिदुपचयावस्थाम्
अनुभवति स वर्धत इत्युच्यते लोके । अयं तु सर्वदैकरूपत्वान्नापचीयते नोपचीयते चेत्यर्थः । अस्तित्वविपरिणामौ तु जन्मविनाशान्तर्भूतत्वात्पृथङ्न निषिद्धौ । यस्मादेवं सर्वविकारशून्य आत्मा तस्माच्छरीरे हन्यमाने तत्सम्बद्धोऽपि केनाप्युपायेन न हन्यते न हन्तुं शक्यत इत्युपसंहारः ॥२०॥

विश्वनाथः जीवात्मनो नित्यत्वं स्पष्टतया साधयति न जायते मिर्यते इति जन्ममरणयोर्वर्तमानत्वनिषेधः । नायं भूत्वा भविता इति तयोर्भूतत्वभविष्यत्वनिषेधः । अतएव अज इति कालत्रयेऽपि अजस्य जन्माभावान्नास्य प्रागभावः । शाश्वतः शश्वत्सर्वकाल एव वर्तत इति नास्य कालत्रयेऽपि ध्वंसः । अतएवायं नित्यः । तर्हि बहुकालस्थायित्वाज्जराग्रस्तोऽयमिति चेन्न । पुराणः पुरापि नवः प्राचीनोऽप्ययं नवीन इवेति षड्भावविकाराभावादिति भावः । ननु शरीरस्य मरणादौपचारिकं तु मरणमस्यास्तु ? तत्राह नेति । शरीरेण सह सम्बद्धाभावात्न उपचारः
॥२०॥

बलदेवः अथ जायते अस्ति वर्धते विपरणमते अपक्षीयते विनश्यति इति यास्काद्युक्तषड्भावविकारराहित्येन प्रागुक्तनित्यत्वं द्रढयति न जायते इति । चार्थे वाशब्दौ । अयमात्मा जीवः कदाचिदपि काले न जायते न म्रियते चेति जन्मविनाशयोः प्रतिषेधः । न चायमात्मा भूत्वोत्पद्य भविता भविष्यतीति जन्मान्तरस्यास्तित्वस्य प्रतिषेधः । न भूय इति अयमात्मा भूयोऽधिकं यथा स्यात्तथा न भवतीति बुद्धेः प्रतिषेधः । कुतो भूयो न भवतीत्यत्र हेतुरजो नित्य इति । उत्पत्तिविनाशयोगी खलु वृक्षादिरुत्पद्य वृद्धिं गच्छन्नष्टः । आत्मनस्तु तदुभयाभावात्न वृद्धिरित्यर्थः । शाश्वत इत्य्
अपक्षयस्य प्रतिषेधः । शश्वत्सर्वदा भवति नापक्षीयते नापक्षयं भजतीत्यर्थः । पुराण इति विपरिणामस्य प्रतिषेधः । पुराणं पुरापि नवो न तु किंचिन्नूतनं रूपान्तरमधुना न लब्ध इत्यर्थः । तदेवं षड्भावविकारशून्यत्वादात्मा नित्यः । यस्मादीदृशस्तस्माच्छरीरे हन्यमानेऽपि स न हन्यते । तथा चार्जुनोऽयं गुरुहन्तेत्यविज्ञोक्त्या दुष्कीर्तेरबिभ्यता त्वया शास्त्रीयं धर्मयुद्धं विधेयम् ॥२०॥

__________________________________________________________

भगवद्गीता २.२१

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२१॥

श्रीधरः अतएव हन्तृत्वाभावोऽपि पूर्वोक्तः प्रसिद्ध इत्याह वेदाविनाशिनमित्यादि । नित्यं वृद्धिशून्यम् । अव्ययमपक्षयशून्यम् । अजमविनाशिनं च । यो वेद स पुरुषः कं हन्ति । कथं वा हन्ति ? एवंभूतस्य वधे साधनाभावात् । तथा स्वयं प्रयोजको भूत्वान्येन कं घातयति ? कथं वा घातयति ? न किञ्चिदपि । न कथञ्चिदपि इत्यर्थः । अनेन मय्यपि प्रयोजकत्वाद्दोषदृष्टिं मा कार्षीरित्युक्तं भवति ॥२१॥

मधुसूदनः नायं हन्ति न हन्यत इति प्रतिज्ञाय न हन्यत इत्युपपादितमिदानीं न हन्तीत्युपपादयन्नुपसंहरति । न विनष्टुं शीलं यस्य तमविनाशिनमन्त्यविकाररहितम् । तत्र हेतुः अव्ययं न विद्यते व्ययोऽवयवापचयो गुणापचयो वा यस्य तमव्ययम् । अवयवापचयेन गुणापचयेन वा विनाशदर्शनात्तदुभयरहितस्य न विनाशः सम्भवतीत्यर्थः ।

ननु जन्यत्वेन विनाशित्वमनुमास्यामहे नेत्याह अजमिति । न जायते इत्यजमाद्यविकाररहितम् । तत्र हेतुः नित्यं सर्वदा विद्यामानं, प्रागविद्यमानस्य हि जन्म दृष्टं न तु सर्वता सत इत्यभिप्रायः ।

अथवाविनाशिनमबाध्यं सत्यमिति यावत् । नित्यं सर्वव्यापकम् । तत्र हेतुः अजमव्ययम् । जन्मविनाशशून्यं जायमानस्य विनश्यतश्च सर्वव्यापकत्वसत्यत्वयोरयोगात् ।

एवं सर्वविक्रियाशून्यं प्रकृतमेनं देहिनं स्वमात्मानं यो वेद विजानाति शास्त्राचार्योपदेशाभ्यां साक्षात्करोति अहं सर्वविक्रियाशून्यः सर्वभासकः सर्वद्वैतरहितः परमानन्दबोधरूप इति स एवं विद्वान् पुरुषः पूर्णरूपः कं हन्ति ? कथं हन्ति ? किंशब्द आक्षेपे । न कमपि हन्ति न कथमपि हन्तीत्यर्थः । तथा कं घातयति कथं घातयति कमपि न घातयति कथमपि न घातयतीत्यर्थः । नहि सर्वविकारशून्यस्याकर्तुर्हननक्रियायां कर्तृत्वं सम्भवति । तथा च श्रुतिः

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ [Bआऊ ४.४.१२]

इति शुद्धमात्मानं विदुषस्तदज्ञाननिबन्धनाध्यासनिवृत्तौ तन्मूलरागद्वेषाद्यभावात्कर्तृत्वभोक्तृत्वाद्यभावं दर्शयति ।

अयमत्राभिप्रायो भगवतः । वस्तुगत्या कोऽपि नकरोति न कारयति च किंचित्सर्वविक्रियाशून्यस्वभावत्वात्परं तु स्वप्न इवाविद्यया कर्तृत्वादिकमात्मन्यभिमन्यते मूढः । तदुक्तमुभौ तौ न विजानीतः [ङीता २.१९] इति । श्रुतिश्च ध्यायतीव लेलायतीव [Bआऊ ४.३.७] इत्यादिः । अतएव सर्वाणि शास्त्राण्यविद्वदधिकारिकाणि । विद्वांस्तु समूलाध्यासबाधान्नात्मनि कर्तृत्वादिकमभिमन्यते स्थाणुस्वरूपं विद्वानिव चोरत्वम् । अतो विक्रियारहितत्वादद्वितीयत्वाच्च विद्वान्न करोति कारयति चेत्युच्यते । तथा च श्रुतिः विद्वान्न बिभेति कुतश्चन [टैत्तू २.९.१] इति । अर्जुनो हि स्वस्मिन् कर्तृत्वं भगवति च कारयितृत्वमध्यस्य हिंसानिमित्तं दोषमुभयत्राप्याशशङ्के । भगवानपि विदिताभिप्रायो हन्ति
घातयतीति तदुभयमाचिक्षेप । आत्मनि कर्तृत्वं मयि च कारयितृत्वमारोप्य प्रत्यवायशङ्कां मा कार्षीरित्यभिप्रायः ।

अविक्रियत्वप्रदर्शनेनात्मनः कर्तृत्वप्रतिषेधात्सर्वकर्माक्षेपे भगवदभिप्रेते हन्तिरुपलक्षणार्थः पुरःस्फूर्तिकत्वात् । प्रतिषेधहेतोस्तुल्यत्वात्कर्मान्तराभ्यनुज्ञानुपपत्तेः । तथा च वक्ष्यति तस्य कार्यं न विद्यत [ङीता ३.१७] इति । अतोऽत्र हननमात्राक्षेपेण कर्मान्तरं भगवताभ्यनुज्ञायत इति मूढजनजल्पितमपास्तम् । तस्माद्युध्यस्वेत्यत्र हननस्य भगवताभ्यनुज्ञानाद्वास्तवकर्तृत्वाद्यभावस्य कर्ममात्रे समत्वादिति दिक् ॥२१॥

विश्वनाथः अत एवम्भूतज्ञाने सति त्वं युध्यमानोऽपि अहं युद्धे प्रेरयन्नपि दोषभाजौ नैव भवाव इत्याह वेदेति । नित्यमिति क्रियाविशेषणम् । अविनाशिनमिति, अजमिति, अव्ययमित्येतैर्विनाशजन्या अपेक्षया निषिद्धाः । स पुरुषो मल्लक्षणः कं घातयति, कथं वा घातयति, स पुरुषस्त्वल्लक्षणः कं हन्ति ? कथं वा हन्ति ? ॥२१॥

बलदेवः एवं तत्त्वज्ञानवान् यो धर्मबुद्ध्या युद्धे प्रवर्तते यश्च प्रवर्तयति, तस्य तस्य च कोऽपि न दोषगन्ध इत्याह वेदेति । एनं प्रकृतमात्मानमविनाशिनमजमव्ययमपक्षयशून्यं च यो वेद शास्त्रयुक्तिभ्यां जानाति, स पुरुषो युद्धे प्रवृत्तोऽपि कं हन्ति कथं वा हन्ति ? तत्र प्रवर्तयन्नपि कं घातयति कथं वा घातयति ? किमाक्षेपे न कमपि न कथमपीत्यर्थः । न्तियमिति वेदनक्रियाविशेषणम् ॥२१॥

__________________________________________________________

भगवद्गीता २.२२

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही ॥२२॥

श्रीधरः नन्वात्मनोऽविनाशेऽपि तदीयशरीरनाशं पर्यालोच्य शोचामीइति चेत्? तत्राह वासांसीति । कर्मणि बन्धनानां नूतनानां देहानामवश्यम्भावित्वात्न तज्जीर्णदेहनाशे शोकावकाश इत्यर्थः ॥२२॥

मधुसूदनः नन्वेवमात्मनो विनाशित्वाभावेऽपि देहानां विनाशित्वाद्युद्धस्य च तन्नाशकत्वात्कथं भीष्मादिदेहानामनेकसुकृतसाधनानां मया युद्धेन विनाशः कार्य इत्याशङ्काया उत्तरं वासांसीति ।

जीर्णानि विहाय वस्त्राणि नवानि गृह्णाति विक्रियाशून्य एव नरो यथेत्येतावतैव विर्वाहेऽपराणीइत्विशेषणमुत्कर्षातिशयख्यापनार्थम् । तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनो गृह्णातीत्यौचित्यायातम् । तथा जीर्णानि वयसा तपसा च कृशानि भीष्मादिशरीराणि विहायान्यानि देवादिशरीराणि सर्वोत्कृष्टानि चिरोपार्जितधर्मफलभोगाय संयाति सम्यग्गर्भवासादिक्लेशव्यतिरेकेण प्राप्नोति देही प्रकृष्टधर्मानुष्ठातृदेहवान् भीष्मादिरित्यर्थः । अन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गन्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वा इत्यादि श्रुतेः ।

एतदुक्तं भवति भीष्मादयो हि यावज्जीवं धर्मानुष्ठानक्लेशेनैव जर्जरशरीरा वर्तमानशरीरपातमन्तरेण तत्फलभोगायासमर्था यदि धर्मयुद्धेन स्वर्गप्रतिबन्धकानि जर्जराणि शरीराणि पातयित्वा दिव्यदेहसम्पादनेन स्वर्गभोगयोग्याः क्रियन्ते त्वया तदत्यन्तमुपकृत्वा एव ते । दुर्योधनादीनामपि स्वर्गभोगयोग्यदेहसम्पादनान्महानुपकार एव । तथा चात्यन्तमुपकारके युद्धेऽपकारकत्वभ्रमं मा कार्षीरिति । अपराणि अन्यानि संयातीति पदत्रयवशाद्भगवदभिप्राय एवमभ्यूहितः । अनेन दृष्टान्तेनाविकृतप्रतिपादनमात्मनः क्रियत इति तु प्राचां व्याख्यानमतिस्पष्टम् ॥२२॥

विश्वनाथः ननु मदीययुद्धाद्भीष्मसंज्ञकं शरीरं तु जीवात्मा त्यक्ष्यत्येव इत्यतस्त्वं चाहं च तत्र हेतु भवाव एव इत्यत आह वासांसीति । नवीनं वस्त्रं परिधापयितुं जीर्णवस्त्रस्य त्यजने कश्चित्किं दोषो भवतीति भावः । तथा शरीराणीति भीष्मो जीर्णशरीरं परित्यज्य दिव्यं नव्यं अन्यच्छरीरं प्राप्स्यतीति कस्तव वा मम वा दोषो भवतीति भावः ॥२२॥

बलदेवः ननु मा भूदात्मनां विनाशो भीष्मादिसंज्ञानां तच्छरीराणां तत्सुखसाधनानां युद्धेन विनाशे तत्सुखविच्छेदहेतुको दोषः स्यादेव । अन्यथा प्रायश्चित्तशास्त्राणि निर्विषयाणि स्युरिति चेत्तत्राह वासांसीति । स्थूलजीर्णवासस्त्यागेन नवीनवासोधारणमिव वृद्धनृदेहत्यागेन युवदेवदेहधारणं तेषामात्मनामतिसुखकरमेव । तदुभयं च युद्धेनैव क्षिप्रं भवेदित्युपकारकात्तस्मान्मा विरंसीरिति भावः । संयातीति सम्यग्गर्भवासादियातनां विनैव शीघ्रमेव प्राप्नोतीत्यर्थः । प्रायश्चित्तवाक्यानि तु यज्ञयुद्धवधादन्यस्मिन् वधे
नेयानि ॥२२॥

__________________________________________________________

भगवद्गीता २.२३

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२३॥

श्रीधरः कथं हन्तीति अनेन उक्तं वधसाधनाभावं दर्शयन्नविनाशित्वमात्मनः स्फुटीकरोति नैनमित्यादि । आपो क्लेदयन्ति मृदुकरणेन शिथिलं न कुर्वन्ति । मारुतोऽप्येनं न शोषयति ॥२३॥

मधुसूदनः

विश्वनाथः न च युद्धे त्वया प्रयुक्तेभ्यः शस्त्रास्त्रेभ्यः काप्यात्मनो व्यथा सम्भवेदित्याह नैनमिति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रमपि युष्मदादिप्रयुक्तम् । आपः पार्जन्यास्त्रमपि । मारुतो वायव्यास्त्रम् ॥२३॥

बलदेवः ननु शस्त्रपातैः शरीरविनाशे तदन्तःस्थस्यात्मनो विनाशः स्यात्गृहदाहे तन्मध्यस्थस्यैव जन्तोरिति चेत्तत्राह नैनमिति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रम् । आपः पार्जन्यास्त्रमपि । मारुतो वायव्यास्त्रम् । तथा च तत्प्रयुक्तैः शस्त्रास्त्रैर्नात्मनः काचिद्व्यथेति ॥२३॥

__________________________________________________________

भगवद्गीता २.२४

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२४॥

श्रीधरः तत्र हेतुमाह अच्छेद्य इत्यादिना सार्धेन । निरवयवत्वादच्छेद्योऽक्लेद्यश्च । अमूर्तत्वाददाह्यः । द्रवत्वाभावादशोष्य इति भावः । इतश्च छेदादियोग्यो न भवति । यतो नित्योऽविनाशी । सर्वगतः स्थाणुः स्थिरस्वभावो रूपान्तरापत्तिशून्यः । अचलः पूर्वरूपापरित्यागी । सनातनोऽनादिः ॥२४॥

मधुसूदनः शस्त्रादीनां तन्नाशकत्वासामर्थ्ये तस्य तज्जनितनाशानर्हत्वे हेतुमाह अच्छेद्य इति । यतोऽच्छेद्योऽयमतो नैनं छिन्दन्ति शस्त्राणि । अदाह्योऽयं यतोऽतो नैनं दहति पावकः । यतोऽक्लेद्योऽयमतो नैनं क्लेदयन्त्यापः । यतोऽशोष्योऽयमतो नैनं शोषयति मारुत इति क्रमेण योजनीयम् । एवकारः प्रत्येकं सम्बध्यमानोऽच्छेद्यत्वाद्यवधारणार्थः । चः समुच्चये हेतौ वा । छेदाद्यनर्हत्वे हेतुमाहोत्तरार्धेन ।

नित्योऽयं पूर्वापरकोटिरहितोऽतोऽनुत्पाद्यः । असर्वगतत्वे ह्यनित्यत्वं स्यात् । यावद्विकारं तु विभागः इति न्यायात्पराभ्युपगतपरमाण्वादीनामनभ्युपगमात् । अयं तु सर्वगतो विभुरतो नित्य एव । एतेन प्राप्यत्वं पराकृतम् । यदि चायं विकारी स्यात्तदा सर्वगतो न स्यात् । अयं तु स्थाणुरविकारी । अतः सर्वगत एव । एतेन विकार्यत्वमपाकृतम् । यदि चायं चलः क्रियावान् स्यात्तदा विकारी स्याद्घटादिवत् । अयं त्वचलोऽतो न विकारी । एतेन संस्कार्यत्वं निराकृतम् । पूर्वावस्थापरित्यागेनावस्थान्तरापत्तिर्विक्रिया । अवस्थैक्येऽपि चलनमात्रं क्रियेति विशेषः । यस्मादेवं तस्मात्सनातनोऽयं सर्वदैकरूपो
न कस्या अपि क्रियायाः कर्मेत्यर्थः । उत्पत्त्याप्तिविकृतिसंस्कृत्यन्यतरक्रियाफलयोगे हि कर्मत्वं स्यात् । अयं तु नित्यत्वान्नोत्पाद्यः । अनित्यस्यैव घटादेरुत्पाद्यत्वात् । सर्वगतत्वान्न प्राप्यः परिच्छिन्नस्यैव पयआदेः प्राप्यत्वात् । स्थाणुत्वादविकार्यः । विक्रियावतो घृतादेरेव विकार्यत्वात् । अचलत्वादसंस्कार्यः सक्रियस्यैव दर्पणादेः संस्कार्यत्वात् । तथा च श्रुतयः आकाशवत्सर्वगतश्च नित्यः [Cहाऊ ३.१४.३], वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः [श्वेतू ३.९], निष्कलं निष्क्रियं शान्तं [श्वेतू ६.१९], इत्यादयः । यः पृथिव्यां
तिष्ठन् पृथिव्या अन्तरो योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यो वायौ तिष्टन् वायोरन्तरः [Bआऊ ३.७.३ ff] इत्याद्या च श्रुतिः सर्वगतस्य सर्वान्तर्यामितया तदविषयत्वं दर्शयति । यो हि शस्त्रादौ न तिष्ठति तं शस्त्रादयश्छिन्दन्ति । अयं तु शस्त्रादीनां सत्तास्फूर्तिप्रदत्वेन तत्प्रेरकस्तदन्तर्यामी । अतः कथमेनं शस्त्रादीनि स्वव्यापारविषयी कुर्युरित्यभिप्रायः । अत्र येन सूर्यस्तपति तेजसेद्धः [टैत्त्. Bर्. ३.१२.९७] इत्यादि श्रुतयोऽनुसन्धेयाः । सप्तमाध्याये च प्रकटीकरिष्यति श्रीभगवानिति दिक् ॥२४॥

विश्वनाथः तस्मादात्मायमेवमुच्यत इत्याह अच्छेद्य इति । अत्र प्रकरणे जीवात्मनो नित्यत्वस्य शब्दतोऽर्थतश्च पौनरुक्त्यं निर्धारणप्रयोजकं सन्दिग्धधीषु ज्ञेयम् । यथा कलावस्मिन् धर्मोऽस्ति धर्मोऽस्तीति त्रिचतुर्धाप्रयोगाद्धर्मोऽस्त्येवेति निःसंशया प्रतीतिः स्यादिति ज्ञेयम् । सर्वगतः स्वकर्मवशाद्देवमनुष्यतिर्यगादिसर्वदेहगतः । स्थाणुरचल इति पौनरुक्त्यं स्थैर्यनिर्धारणार्थम् । अतिसूक्ष्मत्वादव्यक्तस्तदपि देहव्यापिचैतन्यत्वादचिन्त्योऽतर्क्यः । जन्मादिषड्विकारानर्हत्वादविकार्यः ॥२४२५॥

बलदेवः छेदाद्यभावादेव तत्तन्नामभिरयमाख्यायत इत्याह अच्छेद्योऽयमिति । एवकारः सर्वैः सम्बध्यते । सर्वगतः स्वकर्महेतुकेषु देवमानवादिषु पशुपक्ष्यादिषु च सर्वेषु शरीरेषु पर्यायेण गतः प्राप्तोऽपीत्यर्थः । स्थाणुः स्थिरस्वरूपः । अचलः स्थिरगुणकः । अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा [Bऔ ४.५.१४] इति श्रुतेरित्यर्थः । न चानुच्छित्तिरेव धर्मो यस्येति व्याख्येयं तस्यार्थस्याविनाशीत्यनेनैव लाभात् । तस्मादनुच्छित्तयो नित्या धर्मा यस्य स तथेत्येवार्थः । सनातनः शाश्वतः पौनरुक्तदोषस्त्वग्रे परिहरिष्यते ॥२४॥

__________________________________________________________

भगवद्गीता २.२५

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२५॥

श्रीधरः किं च अव्यक्त इति । अव्यक्तश्चक्षुराद्यविषयः । अचिन्त्यो मनसोऽप्यविषयः । अविकार्यः कर्मेन्द्रियाणामप्यगोचर इत्यर्थः । उच्यत इति नित्यत्वादिभियुक्तोक्तिं प्रमाणयति । उपसंहरति तस्मादेवमित्यादि । तदेवमात्मनो जन्मविनाशाभावान्न शोकः कार्य इत्युक्तम् ॥२५॥

मधुसूदनः छेद्यत्वादिग्राहकप्रमाणभावादपि तदभाव इत्याह अव्यक्तोऽयमित्याद्यर्धेन । यो हीन्द्रियगोचरो भवति स प्रत्यक्षत्वाद्व्यक्त इत्युच्यते । अयं तु रूपादिहीनत्वान्न तथा । अतो न प्रत्यक्षं तत्र च्छेद्यत्वादिग्राहकमित्यर्थः ।

प्रत्यक्षाभावेऽप्यनुमानं स्यादित्यत आह अचिन्त्योऽयं चिन्त्योऽनुमेयस्तद्विलक्षणोऽयम् । क्वचित्प्रत्यक्षो हि वह्न्यादिर्गृहीतव्याप्तिकस्य धूमादेर्दर्शनात्क्वचिदनुमेयो भवति । अप्रत्यक्षे तु व्याप्तिग्रहणासम्भवान्नानुमेयत्वमिति भावः । अप्रत्यक्षस्यापीन्द्रियादेः सामान्यतो दृष्टानुमानविषयत्वं दृष्टमत आह अविकार्योऽयं यद्विक्रियावच्चक्षुरादिकं तत्स्वकार्यान्यथानुपपत्त्या कल्प्यमानमर्थापत्तेः सामान्यतोदृष्टानुमानस्य च विषयो भवति । अयं तु न विकार्यो न विक्रियावानतो नार्थापत्तेः सामान्यतोदृष्टस्य वा विषय इत्यर्थः
। लौकिकशब्दस्यापि प्रत्यक्षादिपूर्वकत्वात्तन्निषेधेनैव निषेधः ।

ननु वेदेनैव तत्र च्चेह्द्यत्वादि ग्रहीष्यत इत्यत आह उच्यते वेदेन सोपकरणेनाच्छेद्याव्यक्तादिरूप एवायमुच्यते तात्पर्येण प्रतिपाद्यते । अतो न वेदस्य तत्प्रतिपादिकस्यापि च्छेद्यत्वादिप्रतिपादकत्वमित्यर्थः ।

अत्र नैनं छिन्दन्ति [ङीता २.२३] इत्यत्र शस्त्रादीनां तन्नाशकसामर्थ्याभाव उक्तः । अच्छेद्योऽयमित्यादौ तस्य च्छेदादिकर्मत्वायोग्यत्वमुक्तम् । अव्यक्तोऽयमित्यत्र तच्छेदादिग्राहकमानाभाव उक्त इत्यपौनरुक्त्यं द्रष्टव्यम् । वेदाविनाशिनमित्यादीनां तु श्लोकानामर्थतः शब्दतश्च पौनरुक्त्यं भाष्यकृद्भिः परिहृतम् । दुर्बोधत्वादात्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणां बुद्धिगोचरतामापन्नं तत्त्वं संसारनिवृत्तये स्यातिति [शङ्करभाष्य २.२४] इति वदद्भिः ।

एवं पूर्वोक्तयुक्तिभिरात्मनो नित्यत्वे निर्विकारत्वे च सिद्धे तव शोको नोपपन्न इत्युपसंहरति तस्मादित्यर्धेन । एतादृशात्मस्वरूपवेदनस्य शोककारणनिवर्तकत्वात्तस्मिन् सति शोको नोचितः कारणभावे कार्याभावस्यावश्यकत्वात् । तेनात्मानमविदित्वा यदन्वशोचस्तद्युक्तमेव । आत्मानं विदित्वा तु नानुशोचितुमर्हसीत्यभिप्रायः ॥२५॥

विश्वनाथः णोने.

बलदेवः अव्यक्तः प्रत्यङ्चक्षुराद्यग्राह्यः । अचिन्त्यस्तर्कागोचरः श्रुतिमात्रगम्यः । ज्ञानस्वरूपो ज्ञातेत्यादिकं श्रुत्यैव प्रतीयते । अविकार्यः षड्भावविकारानर्हः । अत्र अविनाशि तु तद्विद्धि इत्यादिभिरात्मतत्त्वमुपदिशन् हरिः शब्दतोऽर्थतश्च यत्पुनः पुनरवोचत्तस्य दुर्बोधस्य सौबोध्यार्थमेवेत्यदोषः । निर्धारणार्थं वा । अयं धर्मं वेत्तीत्युक्तौ तद्वेदनं निश्चितं यथा स्यात्तद्वत् । एवमेवाग्रे वक्ष्यति आश्चर्यवत्पश्यति कश्चितित्यादिना ॥२५॥

__________________________________________________________

भगवद्गीता २.२६

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२६॥

श्रीधरः इदानीं देहेन सह आत्मनो जन्म तद्विनाशेन च विनाशमङ्गीकृत्यापि शोको न कार्य इत्याह अथ चैनमित्यादि । अथ च यद्यप्येनमात्मानं नित्यजातं नित्यं वा मन्यसे मृतं तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२६॥

मधुसूदनः एवमात्मनो निर्विकारत्वेनाशोच्यत्वमुक्तमिदानीं विकारवत्त्वमभ्युपेत्यापि श्लोकद्वयेनाशोच्यत्वं प्रतिपादयति भगवान् । तत्रात्मा ज्ञानस्वरूपः प्रतिक्षणविनाशीति सौगताः । देह एवात्मा स च स्थिरोऽप्यनुक्षणपरिणामी जायते नश्यति चेति प्रत्यक्षसिद्धमेवैतदिति लोकायतिकाः । देहातिरिक्तोऽपि देहेन सहैव जायते नश्यति चेत्यन्ये । सर्गाद्यकाल एवाकाशवज्जायते देहभेदेऽप्यनुवर्तमान एवाकल्पस्थायी नश्यति प्रलय इत्यपरे । नित्य एवात्मा जायते म्रियते चेति तार्किकाः । तथा हि प्रेत्यभावो जन्म । स चापूर्वदेहेन्द्रियादिसम्बन्धः । एवं मरणमपि पूर्वदेहेन्द्रियादिविच्छेदः । इदं चोभयं धर्माधर्मनिमित्तत्वात्तदाधारस्य नित्यस्यैव
मुख्यम् । अनित्यस्य तु कृतहान्यकृताभ्यागमप्रसङ्गेन धर्माधर्माधारत्वानुपपत्तेर्न जन्ममरणे मुख्ये इति वदन्ति । न्तियस्यामेवेत्यन्ये । तत्रानित्यत्वपक्षेऽपि शोच्यत्वमात्मनो निषेधति अथ चैनमिति ।

अथेति पक्षान्तरे । चोऽप्यर्थे । यदि दुर्बोधत्वादात्मवस्तुनोऽसकृच्छ्रवणेऽप्यवधारणासामर्थ्यान्मदुक्तपक्षानङ्गीकारेण पक्षान्तरमभ्युपैषि । तत्राप्यनित्यत्वपक्षमेवाश्रित्य यद्येनमात्मानं नित्यं जातं नित्यं मृतं वा मन्यसे । वाशब्दश्चार्थे । क्षणिकत्वपक्षे नित्यं प्रतिक्षणं पक्षान्तरे आवश्यकत्वान्नित्यं नियतं जातोऽयं मृतोऽयमिति लौकिकप्रत्ययवशेन यदि कल्पयसि तथापि हे महाबाहो ! पुरुषधौरेयेति सोपहासं कुमताभ्युपगमात् । त्वय्येतादृशी कुदृष्टिर्न सम्भवतीति सानुकम्पं वा । एवं अह बत महत्
पापं कर्तुं व्यवसिता वयम् [ङीता १.४५] इत्यादि यथा शोचसि एवं प्रकारमनुशोकं कर्तुं स्वयमपि त्वं तादृश एव सन्नार्हसि योग्यो न भवसि । क्षणिकत्वपक्षे देहात्मवादपक्षे देहेन सह जन्मविनाशपक्षे च जन्मान्तराभावेन पापभयासम्भवात्पापभयेनैव खलु त्वमनुशोचसि । तच्चैतादृशे दर्शने न सम्भवति बन्धुविनाशदर्शित्वाभावादित्यधिकम् । पक्षान्तरे दृष्टदुःखनिमित्तं शोकमभ्यनुज्ञातुमेवंकारः । दृष्टदुःखनिमित्तशोकसम्भवेऽप्यदृष्टदुःखनिमित्तः शोकः सर्वथा नोचित इत्यर्थः प्रथमश्लोकस्य
॥२६॥

विश्वनाथः तदेवं शास्त्रीयतत्त्वदृष्ट्या त्वामहं प्रबोधयन् । व्यावहारहिकतत्त्वदृष्ट्यापि प्रबोधयामि अवधेहीत्याह अथेति । नित्यजातं देहे जाते सत्येनं नित्यं नियतं जातं मन्यसे । तथा देह एव मृते मृतं नित्यं नियतं मन्यसे । महाबाहो इति पराक्रमवतः क्षत्रियस्य तव तदपि युद्धमवश्यकं स्वधर्मः । यदुक्तं

क्षत्रियाणामयं धर्मः प्रजापतिविनिर्मितः ।
भ्रातापि भ्रातरं हन्याद्येन घोरतरस्ततः ॥ इति भावः ॥२६॥

बलदेवः एवं स्वोक्तस्य जीवात्मनोऽशोच्यत्वमुक्त्वा परोक्तस्यापि तस्य तदुच्यते परमतज्ञानाय । तदभिज्ञः खलु शिष्यस्तदवकरैस्तन्निरस्य विजयी सन् स्वमते स्थैर्यमासीत् । तथा हि मनुष्यत्वादिविशिष्टे भूम्यादिभूतचतुष्टये ताम्बूलरागवत्मदशक्तिवच्च चैतन्यमुत्पद्यते । तादृशस्तच्चतुष्टयभूतो देह एवात्मा । स च स्थिरोऽपि प्रतिक्षणपरिणामादुत्पत्तिविनाशयोगीति लोकप्रत्यक्षसिद्धमिति लोकायतिका मन्यन्ते । देहाद्भिन्नो विज्ञानस्वरूपोऽप्यात्मा प्रतिक्षणविनाशीति वैभाषिकादयो बौद्धा वदन्ति । तदेतदुभयमतेऽप्यात्मनः शोच्यत्वं प्रतिषेधति । अथेति पक्षान्तरे । चोऽप्यर्थे । त्वं चेन्मदुक्तजीवात्मयाथात्म्यावगाहनासमर्थो
लोकायतिकादिपक्षमालम्बसे, तत्र देहात्मपक्षे एनं देहलक्षणमात्मानं नित्यं वा मृतं मन्यसे । वाशब्दश्चार्थे । तथापि त्वमेनं अहो बत महत्पापं इत्यादिवचनैः शोचितुं नार्हसि । परिणामस्वभावस्य तस्य तस्य चात्मनो जन्मविनाशयोरनिवार्यत्वाज्जन्मान्तराभावेन पापभयासम्भवाच्च । हे महाबाहो इति सोपहासं सम्बोधनं क्षत्रियवर्यस्य वैदिकस्य च ते नेदृशं कुमतं धार्यमिति भावः ॥२६।

__________________________________________________________

भगवद्गीता २.२७

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२७॥

श्रीधरः कुत इति ? अत आह जातस्येत्यादि । हि यस्माज्जातस्य स्वारम्भककर्मक्षये मृत्युर्ध्रुवो निश्चितः । मृतस्य च तद्देहकृतेन कर्मणा जन्मापि ध्रुवमेव । तस्मादेवमपरिहार्येऽर्थे अवश्यम्भाविनि जन्ममरणलक्षणेऽर्थे त्वं विद्वान् शोचितुं नार्हसि योग्यो न भवसि ॥२७॥

मधुसूदनः नन्वात्मन आभूतसंप्लवस्थायित्वपक्षे च दृष्टादृष्टदुःखसम्भवात्तद्भयेन शोचामीत्यत आह द्वितीयश्लोकेन जातस्य हीति । हि यस्माज्जातस्य स्वकृतधर्माधर्मादिवशाल्लब्धशरीरेन्द्रियादिसम्बन्धस्य स्थिरस्यात्मनो ध्रुव आवश्यको मृत्युस्तच्छरीरादिविच्छेदस्तदारम्भककर्मक्षयनिमित्तः संयोगस्य वियोगावसानत्वात् । तथा ध्रुवं जन्म मृतस्य च प्राग्देहकृतकर्मफलोपभोगार्थं सानुशयस्यैव प्रस्तुतत्वान्न जीवन्मुक्ते व्यभिचारः । तस्मादेवमपरिहार्ये परिहर्तुमशक्येऽस्मिन् जन्ममरणलक्षणेऽर्थे विषये त्वमेवं विद्वान्न शोचितुमर्हसि । तथा च वक्ष्यति ऋतेऽपि त्वां न भविष्यन्ति
सर्वे [ङीता ११.३२] इति । यदि हि त्वया युद्धेऽनाहन्यमाना एते जीवेयुरेव तदा युद्धाय शोकस्तवोचितः स्यात् । एते तु कर्मक्षयात्स्वयमेव म्रियन्त इति तत्परिहारासमर्थस्य तव दृष्ट्दुःखनिमित्तः शोको नोचित इति भावः ।

एवमदृष्टदुःखनिमित्तेऽपि शोके तस्मादपरिहार्येऽर्थे इत्येवोत्तरम् । युद्धाख्यं हि कर्म क्षत्रियस्य नियतमग्निहोत्रादिवत् । तच्च युध सम्प्रहारे इत्यस्माद्धातोर्निष्पन्नं शत्रुप्राणवियोगानुकूलशस्त्रप्रहाररूपं विहितत्वाग्नीषोमीयादिसिंहावन्न प्रत्यवायजनकम् । तथा च गौतमः स्मरति न दोषो हिंसायामाहवेऽन्यत्र व्यश्वासारथ्यनुयुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः इति । ब्राह्मणग्रहणंचात्रायोद्धृब्राह्मणविषयं गवादिप्रायपाठादिति स्थितम् । एतच्च सर्वं स्वधर्ममपि चावेक्ष्येत्यत्र स्पष्टीकरिष्यति
। तथा च युद्धलक्षणेऽर्थेऽग्निहोत्रादिवद्विहितत्वादपरिहार्ये परिहर्तुमशक्ये तदकरणे प्रत्यवायप्रसङ्गात्त्वमदृष्टदुःखभयेन शोचितुं नारहसीति पूर्ववत् ।

यदि तु युद्धाख्यं कर्म काम्यमेव

य आहवेषु युध्यन्ते भूम्यर्थमपराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ [य़ज्ञ्. १३.३२४]

इति याज्ञवल्क्यवचनात् । हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् [ङीता २.३७] इति भगवद्वचनाच्च । तदापि प्रारब्धस्य काम्यस्यापि अवश्यपरिसमापनीयत्वेन नित्यतुल्यत्वात्त्वया च युद्धस्य प्रारब्धत्वादपरिहार्यत्वं त्युल्यमेव ।

अथवात्मनित्यत्वपक्ष एव श्लोकद्वयमर्जुनस्य परमास्तिकस्य वेदबाह्यमताभ्युपगमासम्भवात् । अक्षरयोजना तु नित्यश्चासौ देहेन्द्रियादिसम्बन्धवशाज्जातश्चेति नित्यजातस्तमेनमात्मानं नित्यमपि सन्तं जातं चेन्मन्यसे तथा नित्यमपि सन्तं मृतं चेन्मन्यसे तथापि त्वं नानुशोचितुमर्हसीति हेतुमाह जातस्य हीत्यादिना । नित्यस्य जातत्वं मृतत्वं च प्राग्व्याख्यातम् । स्पष्टमन्यत् । भाष्यमप्यस्मिन् पक्षे योजनीयम् ॥२७॥

विश्वनाथः हि यस्मात्तस्य स्वारम्भककर्मक्षये मृत्युर्ध्रुवो निश्चितः । मृतस्य च तद्देहकृतेन कर्मणा जन्मापि ध्रुवमेव । अपरिहार्येऽर्थे इति मृत्युर्जन्म च परिहर्तुम]चक्यमेव इत्यर्थः ॥२७॥

बलदेवः अथ शरीरातिरिक्तो नित्य आत्मा । तस्यापूर्वशरीरेन्द्रिययोगो जन्म । पूर्वशरीरेन्द्रियवियोगस्तु मरणं तदुभयं च धर्माधर्महेतुकत्वात्तदाश्रयस्य नित्यस्यात्मनो मुख्यं, तदतिरिक्तस्य शरीरस्य तु गौणम् । तस्यानित्यस्य कृतहान्यकृताभ्यागमप्रसङ्गेन तदाश्रयत्वानुपपत्तेरिति तार्किका मन्यन्ते । तत्पक्षेऽप्यात्मनः शोच्यत्वं परिहरति जातस्येति । हिर्हेतौ । जातस्य स्वकर्मवशात्प्राप्तशरीरादियोगस्य नित्यस्याप्यात्मनस्तदारम्भककर्मक्षयहेतुको मृत्युर्ध्रुवो निश्चितः । मृतस्य तच्छरीरकृतकर्महेतुकं जन्म च ध्रुवं स्यात् । तस्मादेवमपरिहार्ये परिहर्तुमशक्ये जन्ममरणात्मकेऽर्थे त्वं विद्वान् शोचितुं नार्हसि । त्वयि युद्धान्निवृत्तेऽप्येते स्वारम्भके
कर्मणि क्षीणे सति मरिष्यन्त्येव । तव तु स्वधर्माद्विच्युतिर्भाविनीति भावः ॥२७॥

__________________________________________________________

भगवद्गीता २.२८

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२८॥

श्रीधरः किं च देहानां स्वभावं पर्यालोच्य तदुपाधिके आत्मनो जन्ममरणे शोको न कार्य इति । अत आह अव्यक्तादीनीत्यादि । अव्यक्तं प्रधानम् । तदेव आदिरुत्पत्तेः पूर्वरूपं येषां तानि अव्यक्तादीनि । भूतानि शरीराणि । कारणात्मनापि स्थितानामेव उत्पत्तेः । तथा व्यक्तमभिव्यक्तं मध्यं जन्ममरणान्तरालं स्थितिलक्षणं येषां तानि व्यक्तमध्यानि । अव्यक्ते निधनं लयो येषां तानीमान्येवंभूतान्येव । तत्र तेषु का परिदेवना ? कः शोकनिमित्तो विलापः ? प्रतिबुद्धस्य स्वप्नदृष्टवस्तुष्विव शोको न
युज्यत इत्यर्थः ॥२८॥

मधुसूदनः तदेवं सर्वप्रकारेणात्मनोऽशोच्यत्वमुपपादितमथेदानीमात्मनोऽशोच्यत्वेऽपि भूतसङ्घातात्मकानि शरीराण्युद्दिश्य शोचामीत्यर्जुनाशङ्कामपनुदति भगवानव्यक्तादीनीति । आदौ जन्मनः प्रागव्यक्तानि अनुपलब्धानि भूतानि पृथिव्यादिभूतमयानि शरीराणि मध्ये जन्मानन्तरं मरणात्प्राग्व्यक्तानि उपलब्धानि सन्ति । निधने पुनरव्यक्तान्येव भवन्ति । यथा स्वप्नेन्द्रजालादौ प्रतिभासमात्रजीवनानि शुक्तिरूप्यादिवन्न तु ज्ञानात्प्रागूर्ध्वं वा स्थितानि दृष्टिसृष्ट्यभ्युपगमात् । तथा च आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा [ंा. Kआ. २.६] इति न्यायेन मध्येऽपि न सन्त्येवैतानि । नासतो विद्यते भावः [ङीता २.१६] इति प्रागुक्तेश्च ।

एवं सति तत्र तेषु मिथ्याभूतेष्वत्यन्ततुच्छेषु भूतेषु का परिदेवना को वा दुःखप्रलापो न कोऽप्युचित इत्यर्थः । न हि स्वप्ने विविधान् बन्धूनुपलभ्य प्रतिबुद्धस्तद्विच्छेदेन शोचति पृथग्जनोऽपि एतदेवोक्तं पुराणे अदर्शनादापतितः पुनश्चादर्शनं गतः भूतसङ्घ इति शेषः । तथा च शरीराण्यप्युद्दिश्य शोको नोचित इति भावः ।
आकाशादिमहाभूताभिप्रायेण वा श्लोको योज्यः । अव्यक्तमव्याकृतमविद्योपहितचैतन्यमादिः प्रागवस्था येषां तानि तथा व्यक्तं नामरूपाभ्यामेवाविद्यकाभ्यां प्रकटीभूतं न तु स्वेन परमार्थसदात्मना मध्यं स्थित्यवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्तनिधनान्येवाव्यक्ते स्वकारणे मृदिव घटादीनां निधनं प्रलयो येषां तेषु भूतेषु का परिदेवनेति पूर्ववत् । तथा च श्रुतिः तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत [Bआऊ १.४.७] इत्यादिरव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति । लयस्थानत्वं तु तस्यार्थसिद्धं कारण
एव कार्यलयस्य दर्शनात् । ग्रन्थान्तरे तु विस्तरः । तथा चाज्ञानकल्पितत्वेन तुच्छान्याकाशादिभूतान्यप्युद्दिश्य शोको नोचितश्चेत्तत्कार्याण्युद्दिश्य नोचित इति किमु वक्तव्यमिति भावः ।

अथवा सर्वदा तेषामव्यक्तरूपेण विद्यमानत्वाद्विच्छेदाभावेन तन्निमित्तः प्रलापो नोचित इत्यर्थः । भारतेत्यनेन सम्बोधयन् शुद्धवंशोद्भवत्वेन शास्त्रीयमर्थं प्रतिपत्तुमर्होऽसि किमिति न प्रतिपद्यस इति सूचयति ॥२८॥

विश्वनाथः तदेवं न जायते न म्रियते इत्यादिना, देहपक्षे च जातस्य हि ध्रुवो मृत्युः इत्यनेन शोकविषयं निराकृत्य इदानीमुभयपक्षेऽपि निराकरोति अव्यक्तेति । भूतानि देवमनुष्यतिर्यगादीनि । अव्यक्तानि न व्यक्तं व्यक्तिरादौ जन्मपूर्वकाले येषां, किन्तु तदानीमपि लिङ्गदेहः स्थूलदेहश्च स्वारम्भकपृथिव्यादिसत्त्वात्कारणात्मना वर्तमानोऽस्पष्टमासीदेवेत्यर्थः । व्यक्तं व्यक्तिर्मध्ये येषां तानि । न व्यक्ति निधनादनन्तरं येषां तानि । महाप्रलयेऽपि कर्ममात्रादीनां सत्त्वात्सूक्ष्मरूपेण भूतानि सन्त्येव । तस्मात्सर्वभूतानि आद्यन्तरयोर्
अव्यक्तानि मध्ये व्यक्तानीत्यर्थः । यदुक्तं श्रुतिभिः स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजः इति । का परिदेवना कः शोकनिमित्तः विलापः ? तथा चोक्तं नारदेन

यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम् ।
सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ [Bह्ড়् १.१३.४४] इति ॥२८॥

बलदेवः अथ देहात्मपक्षे आत्मातिरिक्तदेहपक्षे च देहविनाशहेतुकशोको न युक्तस्तदारम्भकाणां भूतमात्राणामविनाशादित्याह अव्यक्तादीनीति । अव्यक्तं नामरूपविरहात्सूक्ष्मं प्रधानमादि आदिरूपं येषां तानि अव्यक्तनिधनानि । अव्यक्ते तादृशि प्रधाने निधनं नामरूपविमर्दनलक्षणो नाशो येषां तानि । मृदादिके सद्रूपे द्रव्ये कम्बुग्रीवाद्यवस्थायोगे घटस्योत्पत्तिस्तद्विरोधिकपालाद्यवस्थायोगस्तु तस्य विनाशः कथ्यते । तद्द्रव्यं सर्वदा स्थायीति । एवमेवाह भगवान् पराशरः मही घटत्वं घटतः कपालिका चूर्णरजस्ततोऽणुः [विড়् २.१२.४२] इति । एवं
शरीराण्याद्यन्तयोर्नामरूपायोगादव्यक्तिमन्ति । मध्ये तु तद्योगाद्व्यक्तिमन्ति । तदारम्भकानि भूतानि तु सर्वदा सन्तीति तेषु वस्तुतः सत्सु का परिदेवना कः शोकनिमित्तविलाप इत्यर्थः । देहान्यनित्यात्मपक्षे तु वासांसि इत्यादिकं न विस्मर्तव्यम् । यत्त्वाद्यन्तयोरसत्त्वान्मध्येऽपि भूतान्यसन्त्येवातः स्वाप्निकरथाश्वादिप्रख्यानि मृषाभूतान्येव तेन तद्वियोगहेतुकः शोकः प्रतिबुद्धस्य न दृष्ट इति दृष्टिसृष्टिमभ्युपैत्याहुस्तन्मन्दं तदभ्युपगमे वैदिकासत्कार्यवादापत्तेः । तदेवं मतद्वयेऽपि देहविनाशहेतुकः शोको नास्तीति सिद्धम् ॥२८॥

__________________________________________________________

भगवद्गीता २.२९

आश्चर्यवत्पश्यति कश्चिदेनम्
आश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२९॥

श्रीधरः कुतस्तर्हि विद्वांसोऽपि लोके शोचन्ति ? आत्माज्ञानादेव इत्याशयेनात्मनो दुर्विज्ञेयत्वमाह आश्चर्यवदित्यादि । कश्चिदेनमात्मानं शास्त्राचार्योपदेशाभ्यां पश्यन्नाश्चर्यवत्पश्यति । सर्वगतस्य नित्यज्ञानानदस्वभावस्यात्मनः अलौकिकत्वादैन्द्रजालिकवद्घटमानं पश्यन्निव विस्मयेन पश्यति असम्भावनाभिभूतत्वात् । तथा आश्चर्यवदन्यो वदति च । शृणोति चान्यः । कश्चित्पुनः विपरीतभावनाभिभूतः श्रुत्वापि नैव वेद । चशब्दादुक्त्वापि न दृष्ट्वापि न सम्यग्वेदेति द्रष्टव्यम् ॥२९॥

मधुसूदनः ननु विद्वांसोऽपि बहवः शोचन्ति तत्किं मामेव पुनः पुनरेवमुपालभसे । अन्यच्च वक्तुरेव हि तज्जाड्यं श्रोता यत्र न बुध्यते इति न्यायात्त्वद्वचनार्थापर्तिपत्तिश्च तवाप्यन्येषामिव स्वाशयदोषादिति नोक्तदोषद्वयमित्यभिप्रेत्यात्मनो दुर्विज्ञेयतामाह आश्चर्यवदिति ।

एनं प्रकृतं देहिनमाश्चर्येणाद्भुतेन तुल्यतया वर्तमानमाविद्यकनानाविधविरुद्धधर्मवत्तया सतन्मप्यसन्तमिव स्वप्रकाशचैतन्यरूपमपि जडमिवानन्दघनमपि दुःखितमिव निर्विकारमपि सविकारमिव नित्यमनित्यमिव प्रकाशमानमप्यप्रकाशमानमिव ब्रह्माभिन्नमपि तद्भिन्नमिव मुक्तमपि बद्धमिवाद्वितीयमपि सद्वितीयमिव सम्भावितविचित्रानेकाकारप्रतीतिविषयं पश्यति शास्त्राचार्योपदेशाभ्यामाविद्यकसर्वद्वैतनिषेधेन परमात्मस्वरूपमात्राकारायां वेदान्तमहावाक्यजन्यायां सर्वसुकृतफलभूतायामन्तःकरणवृत्तौ प्रतिफलितं समाधिपरिपाकेन साक्षात्करोति कश्चिच्छमदमादिसाधनसम्पन्नचरमशरीरः कश्चिदेव न तु
सर्वः । तथा कश्चिदेनं यत्पश्यति तदाश्चर्यवदिति क्रियाविशेषणम् । आत्मदर्शनमप्याश्चर्यवदेव यत्स्वरूपतो मिथ्याभूतमपि सत्यस्य व्यञ्जकमाविद्यकमप्यविद्याया विघातकमविद्यामुपघ्नत्तत्कार्यतया स्वात्मानमप्युपहन्तीति । तथा यः कश्चिदेनं पश्यति स आश्चर्यवदिति कर्तृविशेषणम् । यतोऽसौ निवृत्ताविद्यातत्कार्योऽपि प्रारब्धकर्मप्राबल्यात्तद्वानिव व्यहरति सर्वदा समाधिनिष्ठोऽपि व्युत्तिष्ठति व्युत्थितोऽपि पुनः समाधिमनुभवतीति प्रारब्धकर्मवैचित्र्याद्विचित्रचरित्रः प्राप्तदुष्प्रापज्ञानत्वात्सकललोकस्पृहणीयोऽत आश्चर्यवदेव भवति । तदेतत्त्रयमप्याश्चर्यमात्मा तज्ज्ञानं तज्ज्ञाता चेति परमदुर्विज्ञेयमात्मानं त्वं कथम्
अनायासेन जानीया इत्यभिप्रायः ।

ईवमुपदेष्टुरभावादप्यात्मा दुर्विज्ञेयः । यो ह्यात्मानं जानाति स एव तमन्यस्मै ध्रुवं ब्रूयात् । अज्ञस्योपदेष्टृत्वासम्भवात्, जानंस्तु समाहितचित्तः प्रायेण कथं ब्रवीतु । व्युत्थितचित्तोऽपि परेण ज्ञातुमशक्यः । यथा कथंचिज्ज्ञातोऽपि लाभपूजाख्यात्यादिप्रयोजनानपेक्षत्वाच्च ब्रवीत्येव । कथंचित्कारुण्यमात्रेण ब्रुवंस्तु परमेश्वरवदत्यन्तदुर्लभ एवेत्याह आश्चर्यवद्वदति तथैव चान्य इति । यथाजानाति तथैव वदति । एनमित्यनुकर्षणार्थश्चकारः । स चान्यः सर्वाज्ञजनविलक्षणः । न तु यः पश्यति ततोऽन्य इति व्याघातात् । अत्रापि कर्मणि क्रियायां कर्तरि चाश्चर्यवदिति
योज्यम् । तत्र कर्मणः कर्तुश्च प्रागाश्चर्यवत्त्वं व्याख्यातं क्रियायास्तु व्याख्यायते । सर्वशब्दावाच्यस्य शुद्धस्यात्मनो यद्वचनं तदाश्चर्यवत् । तथा च श्रुतिः यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति । केनापि शब्देनावाच्यस्य शुद्धस्यात्मनो विशिष्टशक्तेन पदेन जहदजहत्स्वार्थलक्षणाया कल्पितसम्बन्धेन लक्ष्यतावच्छेदकमन्तरेणैव प्रतिपादनं तदपि निर्विकल्पसाक्षात्काररूपमत्याश्चर्यमित्यर्थः ।

अथवा विना शक्तिं विना लक्षणां विना सम्बन्धान्तरं सुषुप्तोत्थापकवाक्यवत्तत्त्वमस्यादिवाक्येन यदात्मतत्त्वप्रतिपादनं तदाश्चर्यवत् । शब्दशक्तेरचिन्त्यत्वात् । न च विना सम्बन्धं बोधनेन्ऽतिप्रसङ्गः लक्षणापक्षेऽपि तुल्यत्वात् । शक्यसम्बन्धस्यानेकसाधारणत्वात् । तात्पर्यविशेषान्नियम इति चेत्, न । तस्यापि सर्वान् प्रत्यविशेषात् । कश्चिदेव तात्पर्यविशेषमवधारयति न सर्व इति चेत् । हन्त तर्हि पुरुषगत एव कश्चिद्विशेषो निर्दोषत्वरूपो नियामकः । न चास्मिन् पक्षेऽपि न दण्डवारितः । तथा च यादृशस्य शुद्धान्तःकरणस्य तात्पर्यानुसन्धानपुरःसरं
लक्षणया वाक्यार्थबोधो भवद्भिरङ्गी क्रियते तादृशस्यैव केवलः शब्दविशेषोऽखण्डसाक्षात्कारं विनापि सम्बन्धेन जनयतीति किमनुपपन्नम् । एतस्मिन् पक्षे शब्दवृत्त्यविषयत्वाद्यतो वाचो निवर्तन्त इति सुतरामुपपन्नम् । अयं च भगवदभिप्रायो वार्तिककारैः प्रपञ्चितः

दुर्बलत्वादविद्याया आत्मत्वाद्बोधरूपिणः ।
शब्दशक्तेरचित्न्यत्वाद्विद्मस्तं मोहहानतः ॥
अगृहीत्वैव सम्बन्धमभिधानाभिधेययोः ।
हित्वा निद्रां प्रबुध्यन्ते सुषुप्तेर्बोधिताः परैः ॥
जाग्रद्वन्न यतः शब्दं सुषुप्ते वेत्ति कश्चन ।
ध्वस्तेऽतो ज्ञानतोऽज्ञाने ब्रह्मास्मीति भवेत्फलम् ॥
अविद्याघातिनः शब्दाद्याहं ब्रह्मेति धीर्भवेत् ।
नश्यत्यविद्यया सार्धं हत्वा रोगमिवौषधम् ॥ [Bऋहत्.Vआ १.४.८६०८६३]
इत्यादिना ग्रन्थेन ।

तदेवं वचनविषयस्य वक्तुर्वचनक्रियायाश्चात्याश्चर्यरूपत्वादात्मनो दुर्विज्ञानत्वमुक्त्वा श्रोतुर्दुर्मिलत्वादपि तदाह आश्चर्यवच्चैनमन्यः शृणोति श्र्तुवाऽप्येनं वेदेति । अन्यो द्रष्टुर्वक्तुश्च मुक्ताद्विलक्षणो मुमुक्षुर्वक्तारं ब्रह्मविदं विधिवदुपसृत्यैनं शृणोति श्रवणाख्यविचारविषयी करोति वेदान्तवाक्यतात्पर्यनिश्चयेनावधारयतीति यावत् । श्रुत्वा चैनं मनननिदिध्यासनपरिपाकाद्वेदापि साक्षात्करोत्यपि आश्चर्यवत् । तथा चाश्चर्यवत्पश्यति कश्चिदेनमिति व्याख्यातम् । अत्रापि कर्तुराश्चर्यरूपत्वमनेकजन्मानुष्ठितसुकृतक्षालितमनोमलतयातिदुर्लभत्वात् । तथा च वक्ष्यति

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ [ङीता ७.३] इति ।

श्रवणायापि बहुभिर्यो न लभ्यः
शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ [Kअठू १.२.७] इति श्रुतेश्च ।

एवं श्रवणश्रोतव्ययोराश्चर्यत्वं प्राग्वद्व्याख्येयम् ।

ननु यः श्रवणमननादिकं करोति स आत्मानं वेदेति किमाश्चर्यमत आह न चैव कश्चिदिति । चकारः क्रियाकर्मपदयोरनुषङ्गार्थः । कश्चिदेनं नैव वेद श्रवणादिकं कुर्वन्नपि । तदकुर्वंस्तु न वेदेति किमु वक्तव्यम् । ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात्[Vस्. ३.४.५१] इति न्यायात् । उक्तं च वार्तिककारैः

कुतस्तज्ज्ञानमिति चेत्तद्धि बन्धपरिक्षयात् ।
असावपि च भूतौ वा भावी वा वर्ततेऽथवा ॥ [Bऋह्. Vआ. ष. २९४] इति ।

श्रवणादि कुर्वतामपि प्रतिबन्धपरिक्षयादेव ज्ञानं जायते । अन्यथा तु न । स च प्रतिबन्धपरिक्षयः कस्यचिद्भूत एव । यथा हिरण्यगर्भस्य । कस्यचिद्भावी । यथा वासुदेवस्य । कस्यचिद्वर्तते । यथा श्वेतकेतोः । तथा च प्रतिबन्धक्षयस्यातिदुर्लभत्वात् । ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः इति स्मृतेश्च दुर्विज्ञेयोऽयमात्मेति निर्गलितोऽर्थः ।

यदि तु श्रुत्वाप्येनं वेद न चैव कश्चिदित्येव व्याख्यायेत तदा आश्चर्यो ज्ञाता कुशलानुशिष्टः [Kअठू १.२.७] इति श्रुत्यैकवाक्यता न स्यात् । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः [ङीता ७.३] इति भगवद्वचनविरोधश्चेति विद्वद्भिरविनयः क्षन्तव्यः । अथवा न चैव कश्चिदित्यस्य सर्वत्र सम्बन्धः कश्चिदेनं न पश्यति न वदति न शृणोति श्रुत्वापि न वेदेति पञ्च प्रकारा उक्ताः कश्चित्पश्यत्येव न वदति कश्चित्पश्यति न वदति च कश्चित्तद्वचनं शृणोति च तदर्थं जानाति च कश्चिच्छ्रुत्वापि न जानाति न कश्चित्तु सर्वबहिर्भूत इति । अविद्वत्पक्षे तु असम्भावनाविपरीतभावनाभिभूतत्वादाश्चर्यतुल्यत्वं दर्शनवदनश्रवणेष्व्
इति निगदव्याख्यातः श्लोकः । चतुर्थपादे तु दृष्ट्वोक्त्वा श्रुत्वापीति योजना ॥२९॥

विश्वनाथः ननु किमिदमाश्चर्यं ब्रूषे । किं चैतदप्याश्चर्यम् । यदेव प्रबोध्यमानस्याप्यविवेको नापयातीति तत्र सत्यमेवेमेव इत्याह आश्चर्यवदिति । एनमात्मानं देहं च तदुभयरूपं सर्वलोकम् ॥२९॥

बलदेवः ननु सर्वज्ञेन त्वया बहूपदिश्यमानोऽप्यहं शोकनिवारकमात्मयाथात्म्यं न बुध्ये किमेतदिति चेत्तत्राह आश्चर्यवदिति । विज्ञानान्दोभयस्वरूपत्वेऽपि तद्भेदाप्रतियोगिनं विज्ञानस्वरूपत्वेऽपि विज्ञातृतया सन्तं परमाणुत्वेऽपि व्याप्तबृहत्कायं नानाकायसम्बन्धेऽपि तत्तद्विकारैरस्पृष्टमेवमादि बहुविरुद्धधर्मतयाश्चर्यवदद्भुतसादृश्येन स्थितमेनं मदुपदिष्टं जीवं कश्चिदेव स्वधर्मानुष्ठानेन सत्यतपोजपादिना च विमृष्टहृद्गुरुप्रसादलब्धतादृशज्ञानः पश्यति याथात्म्येनानुभवति । आश्चर्यवदिति क्रियाविशेषणं वा कर्तृविशेषणं वेति व्याख्यातारः कश्चिद्
एनं यत्पश्यति तदाश्चर्यवत् । यः कश्चित्पश्यति सोऽप्याश्चर्यवदित्यर्थः । एवमग्रेऽपि । श्रुत्वाप्येनमिति कश्चित्सम्यगमृष्टहृदित्यर्थः । तथा च दुरधिगमं जीवात्मयाथात्म्यम् । श्रुतिरप्येवमाह

श्रवणायापि बहुभिर्यो न लभ्यः
शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्ट ॥ [Kअठू १.२.७] इति ॥२९॥

__________________________________________________________

भगवद्गीता २.३०

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥३०॥

श्रीधरः तदेवमवध्यत्वमात्मनः सङ्क्षेपेनोपदिशनशोच्यत्वमुपसंहरति देहीत्यादि । स्पष्टोऽर्थः ॥३०॥

मधुसूदनः इदानीं सर्वप्राणिसाधारणभ्रमनिवृत्तिसाधनमुक्तमुपसंहरति देहीति । सर्वस्य प्राणिजातस्य देहे वध्यमानेऽप्ययं देही लिङ्गदेहोपाधिरात्मा वध्यो न भवतीति नित्यं नियतं यस्मात्तस्मात्सर्वाणि भूतानि स्थूलानि सूक्ष्माणि च भीष्मादिभावापन्नान्युद्दिश्य त्वं न शोचितुमर्हसि । स्थूलदेहस्याशोच्यत्वमपरिहार्यत्वात् । लिङ्गदेहस्याशोच्यत्वमात्मवदेवावध्यत्वादिति न स्थूलदेहस्य लिङ्गदेहस्यात्मनो वा शोच्यत्वं युक्तमिति भावः ॥३०॥

विश्वनाथः तर्हि निश्चित्य ब्रूहि किमहं कुर्यां किं वा न कुर्यामिति । तत्र शोकं मा कुरु युद्धं तु कुर्वित्याह देहीति द्वाभ्याम् ॥३०॥

बलदेवः तदेवं दुरधिगमं जीवयाथात्म्यं समासेनोपदिशन्नशोच्यत्वमुपसंहरति देहीति । सर्वस्य जीवगणस्य देहे हन्यमानेऽप्ययं देही जीवो नित्यमवध्यो यस्मात्तस्मात्त्वं सर्वाणि भूतानि भीष्मादिभावापन्नानि शोचितुं नार्हसि । आत्मनां नित्यत्वादशोच्यत्वं तद्देहानां त्ववश्यविनाशत्वात्तत्त्वमित्यर्थः ॥३०॥

__________________________________________________________

भगवद्गीता २.३१

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥३१॥

श्रीधरः यच्चोक्तमर्जुनेन वेपथुश्च शरीरे मे इत्यादि तदप्ययुक्तमित्याह स्वधर्ममपीति । आत्मनो नाशाभावादेव एतेसां हननेऽपि विकम्पितुं नार्हसि । किं च स्वधर्ममप्यवेक्ष्य विकम्पितुं नार्हसि इति सम्बन्धः । यच्चोक्तं न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहव इति तत्राह धर्म्यादिति । धर्मादनपेतान्न्यायाद्युद्धादन्यत् ॥३१॥

मधुसूदनः तदेवं स्थूलसूक्ष्मशरीरद्वयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्मधर्मत्वादिप्रतिभासरूपं सर्वप्राणिसाधारणमर्जुनस्य भ्रमं निराकर्तुमुपाधित्रयविवेकेनात्मस्वरूपमभिहितवान् । सम्प्रति युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपमर्जुनस्यैव करुणादिदोषनिबन्धनमसाधारणं भ्रमं निराकर्तुं हिंसादिमत्त्वेऽपि युद्धस्य स्वधर्मत्वेनाधर्मत्वाभावं बोधयति भगवान् स्वधर्ममपीति ।

न केवलं परमार्थतत्त्वमेवावेक्ष्य किं तु स्वधर्ममपि क्षत्रियधर्ममपि युद्धापराङ्मुखत्वरूपमवेक्ष्य शास्त्रतः पर्यालोच्य विकम्पितुं विचलितुं धर्मादधर्मत्वभ्रान्त्या निवर्तितुं नार्हसि । तत्रैवं सति यद्यप्येते न पश्यन्ति इत्यादिना नरके नियतं वासो भवति इत्यन्तेन युद्धस्य पापहेतुत्वं त्वया यदुक्तं कथं भीष्ममहं सङ्ख्ये इत्यादिना च गुरुवधब्रह्मवधाद्यकरणं यदभिहितं तत्सर्वं धर्मशास्त्रपर्यालोचनादेवोक्तम् । कस्मात्? हि यस्माद्धर्म्यादपराङ्मुखत्वधर्मादनपेताद्युद्धादन्यत्क्षत्रियस्य श्रेयः श्रेयःसाधनं
न विद्यते । युद्धमेव हि पृथिवीजयद्वारेण प्रजारक्षणब्राह्मणशुश्रूषादिक्षात्रधर्मनिर्वाहकमिति तदेव क्षत्रियस्य प्रशस्ततरमित्यभिप्रायः । तथा चोक्तं पराशरेण

क्षत्रियो हि प्रजा रक्षन् शस्त्रपाणिः प्रदण्डयन् ।
निर्जित्य परसैन्यादि क्षितिं धर्मेण पालयेत् ॥ [ড়राशरस्मृति १.५८] इति ॥३१॥

मनुनापि

समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः ।
न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन् ॥
संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् ।
शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ [ंनु ७.८८९] इत्यादिना ।

राजशब्दश्च क्षत्रियजातिमात्रवाचीति स्थितमेवेष्ठ्यधिकरणे । तेन भूमिपालस्यैवायं धर्म इति न भ्रमितव्यम् । उदाहृतवचनेऽपि क्षत्रियो हीति क्षात्त्रं धर्ममिति च स्पष्टं लिङ्गम् । तस्मात्क्षत्रियस्य युद्धं प्रशस्तो धर्म इति साधु भगवतोऽभिहितम् । अपशवोऽन्ये गोअश्वेभ्यः पशवो गोअश्वाः इतिवत्प्रशंसालक्षणया युद्धादन्यच्छ्रेयःसाधनं न विद्यत इत्युक्तमिति न दोषः । एतेन युद्धात्प्रशस्ततरं किंचिदनुष्ठातुं ततो निवृत्तिरुचितेति निरस्तम् । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे इत्येतदपि ॥३१॥

विश्वनाथः आत्मनो नाशाभावादेव वधाद्विकम्पितुं भेतुं नार्हसि । स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसीति सम्बन्धः ॥३१॥

बलदेवः एवं परमात्मज्ञानोपयोगित्वादादौ जीवात्मज्ञानं सर्वान् प्रति तौल्येनोपदिश्य सनिष्ठान् प्रति निष्कामतयानुष्ठितानि कर्माणि हृद्विशुद्धिसहकृतामात्मज्ञाननिष्ठां निष्पादयन्तीति वदिष्यन् तस्यां प्रतीतिमुत्पादयितुं सकामतयानुष्ठितानां कर्मणां काम्यफलप्रदत्वमाह द्वाभ्यां स्वधर्ममपीति ।

युद्धं खलु क्षत्रियस्य नित्यतमग्निहोत्रादिवद्विहितम् । तच्च शत्रुप्राणविहंसनरूपमग्निष्टोमादिपशुहिंसनवन्न प्रत्यवायनिमित्तम् । उभयत्र हिंसेयमुपकृतिरूपैव । हीनयोर्देहलोकयोस्त्यागेन दिव्ययोस्तयोर्लोभात् । आह चैवं स्मृतिः

आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ [ंनु ७.९०]
यज्ञेषु पशवो ब्रह्मन् हन्यन्ते सततं द्विजैः ।
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ॥ [?] इत्याद्या ।

एवं निजधर्ममवेक्ष्य विकम्पितुं धर्मात्प्रचलितुं नार्हसि । युक्तं न च श्रेयोऽनुपश्यामीत्यादिना नरके नित्यतं वासो भवतीय्तन्त्येन युद्धस्य पापहेतुत्वं त्वयोक्तम् । तच्चाज्ञानादेवेत्याह धर्म्यादिति । युद्धमेव भूमिजयद्वारा प्रजापालनगुरुविप्रसंसेवनादिक्षात्रधर्मनिर्वाहीति । एवमाह भगवान् पराशरः

क्षत्रियो हि प्रजा रक्षन् शस्त्रपाणिः प्रदण्डयन् ।
निर्जित्य परसैन्यादि क्षितिं धर्मेण पालयेत् ॥ [ড়राशरस्मृति १.५८] इति ॥३१॥

__________________________________________________________

भगवद्गीता २.३२

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥३२॥

श्रीधरः किं च महति श्रेयसि स्वयमेवोपागते सति कुतो विकम्पस इति । अत आह यदृच्छयेति । यदृच्छया अप्रार्थितमेव उपपन्नं प्राप्तमीदृशं युद्धं लभन्ते । यतो निरावरणं स्वर्गद्वारमेवैतत् । यद्वा य एवंविधं युद्धं लभन्ते त एव सुखिन इत्यर्थः । एतेन स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इति यदुक्तं तन्निरस्तं भवति ॥३२॥

मधुसूदनः ननु युद्धस्य कर्तव्यत्वेऽपि न भीष्मद्रोणादिभिर्गुरुभिः सह तत्कर्तुमुचितमतिगर्हितत्वादित्याशङ्क्याह यदृच्छयेति । यदृच्छया स्वप्रयत्नव्यतिरेकेण । चोऽवधारणे । अप्रार्थनयैवोपस्थितमीदृशं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं कीर्तिराज्यलाभदृष्टफलसाधनं युद्धं ये क्षत्रियाः प्रतियोगित्वेन लभन्ते ते सुखिनः सुखभाज एव । जये सत्येनायासेनैव यशसो राज्यस्य च लाभात् । पराजये चातिशीघ्रमेव स्वर्गस्य लाभादित्याह स्वर्गद्वारमपावृतमिति । अप्रतिबद्धं स्वर्गसाधनं युद्धमव्यवधानेनैव स्वर्गजनकं ज्योतिष्ठोमादिकं तु चिरतरेण देहपातस्य प्रतिबन्धाभावस्य
चापेक्षणादित्यर्थः । स्वर्गद्वारमित्यनेन श्येनादिवत्प्रत्यवायशङ्का परिहृता । श्येनादयो हि विहिता अपि फलदोषेण दुष्टाः । तत्फलस्य शत्रुवधस्य न हिंस्यात्सर्वा भूतानि, ब्राह्मणं न हन्यातित्यादिशास्त्रनिषिद्धस्य प्रत्यवायजनकत्वात्फले विध्यभावाच्च न विधिस्पृष्टे निषेधानवकाशः इति न्यायावतारः । युद्धस्य हि फलं स्वर्गः स च न निषिद्धः । तथा च मनुः

आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ [ंनु ७.९०] इति ।

युद्धं तु अग्नीषोमीयाद्यालम्भवधविहितत्वान्न निषेधेन स्प्रष्टुं शक्यते षोडशिग्रहणादिवत् । ग्रहणाग्रहयोस्तुल्यबलतया विकल्पवत्सामान्यशास्त्रस्य विशेषशास्त्रेण सङ्कोचसम्भवात् । तथा च विधिस्पृष्टे निषेधानवकाशः इति न्यायाद्युद्धं न प्रत्यवायजनकं नापि भीष्मद्रोणादिगुरुब्राह्मणादिवधनिमित्तो दोषः । तेषामाततायित्वात् । तदुक्तं मनुना

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन् ॥
आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥
नाततायिवधो दोषो हन्तुर्भवति कश्चन ॥ [ंनु ८.३५०३५१] इत्यादि ।

ननु
स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः ।
अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥ [य़ाज्ञवल्क्य २.२१]

इति याज्ञवल्क्यवचनादाततायिब्राह्मणवधेऽपि प्रत्यवायोऽस्त्येव । ब्राह्मणं न हन्यातिति हि दृष्टप्रयोजनानपेक्षत्वाद्धर्मशास्त्रं, जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेतिति च स्वजीवनार्थत्वादर्थशास्त्रम् ।

अत्रोच्यते ब्रह्मणे ब्राह्मणमालभेत इतिवद्युद्धविधायकमपि धर्मशास्त्रमेव सुखदुःखे समे कृत्वा इत्यत्र दृष्टप्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात् । याज्ञवल्क्यवचनं तु दृष्टप्रयोजनोद्देश्यककूटयुद्धादिकृतवधविषयमित्यदोषः । मिताक्षराकारस्तु धर्मार्थसन्निपातेऽर्थग्राहिण एतदेवेति द्वादशवार्षिकप्रायश्चित्तस्यैतच्छब्दपरामृष्टस्यापस्तम्बेन विधानान्मित्रलब्ध्याद्यर्थशास्त्रानुसारेण चतुष्पाद्व्यवहारे शत्रोरपि जये धर्मशास्त्रातिक्रमो न कर्तव्य इत्येतत्परं वचनमेतदित्याह । भवत्वेवं न नो हानिः । तदेवं युद्धकरणे सुखोक्तेः स्वजनं हि कथं
हत्वा सुखिनः स्याम माधव इत्यर्जुनोक्तमपाकृतम् ॥३२॥

विश्वनाथः किं च, जेतृभ्यः सकाशादपि न्याययुद्धे मृतानामधिकं सुखमतो भीष्मादीन् हत्वा तान् प्रत्युत स्वतोऽपि अधिकसुखिनः कुरु इत्याह यदृच्छयेति । स्वर्गसाधनं कर्मयोगमकृत्वापीत्यर्थः । अपावृतमपगतावरणम् ॥३२॥

बलदेवः किं चायत्नादागतेऽस्मिन्महति श्रेयसि न युक्तस्ते कम्प इत्याह यदृच्छयेति । चोऽवधारणे । यत्नं विनैव चोपपन्नमीदृशं भीष्मादिभिर्महावीरैः सह युद्धं सुखिनः सभाग्याः क्षत्रिया लभन्ते । विजये सत्यश्रमेण कीर्तिराज्ययोर्मृत्यौ सति शीघ्रमेव स्वर्गस्य च प्राप्तेरित्यर्थः । एतद्व्यञ्जयन् विशिनष्टि स्वर्गद्वारमुपावृतमिति । अप्रतिरुद्धस्वर्गसाधनमित्यर्थः । ज्योतिष्टोमादिकं चिरतरेण स्वर्गोपलम्भकमिति ततोऽस्यातिशयः ॥३२॥

__________________________________________________________

भगवद्गीता २.३३

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥३३॥

श्रीधरः विपर्यये दोषमाह अथ चेदिति ॥३३॥

मधुसूदनः ननु नाहं युद्धफलकामः । न काङ्क्षे विजयं कृष्ण, अपि त्रैलोक्यराज्यस्य इत्युक्तत्वात्तत्कथं मया कर्तव्यमित्याशङ्क्याकरणे दोषमाह अथ चेदिति । अथेति पक्षान्तरे । इमं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं धर्म्यं हिंसादिदोषणादुष्टं सतां धर्मादनपेतामिति वा । स च मनुना दर्शितः

न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् ।
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥
न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥
न सुप्तं न विसंनाहं न नग्नं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥
नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ [ंनु ७.९१९४] इति ।

सतां धर्ममुल्लङ्घ्य युध्यमानो हि पापीयान् स्यात् । त्वं तु परैराहूतोऽपि सद्धर्मोपेतमपि सङ्ग्रामं युद्धं न करिष्यसि धर्मतो लोकतो वा भीतः परावृत्तो भविष्यसि चेत्ततो निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत्[ড়राशरस्मृति १.५८] इत्यादिशास्त्रविहितस्य युद्धस्याकरणात्स्वधर्मं हित्वाननुष्ठाय कीर्तिं च महादेवादिसमागमनिमित्तां हित्वा न निवर्तेत सङ्ग्रामातित्यादिशास्त्रनिषिद्धसङ्ग्रामनिवृत्त्या च रणजन्यं पापमेव केवलमवाप्स्यसि न तु धर्मं कीर्तिं चेत्यभिप्रायः ।

अथवाऽनेकजन्मार्जितं धर्मं त्यक्त्वा राजकृतं पापमेवावाप्स्यसीत्यर्थः । यस्मात्त्वां परावृत्तमेते दुष्टा अवश्यं हनिष्यन्ति अतः परावृत्तहतः संश्चिरोपार्जितनिजसुकृतपरित्यागेन परोपार्जितदुष्कृतमात्रभाङ्मा भूरित्यभिप्रायः । तथा च मनुः

यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः ।
भर्तुर्यद्दुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ॥
यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् ।
भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ [ंनु ७.९५९६] इति ।

याज्ञवल्क्योऽपि राजा सुकृतमादत्ते हतानां विपलायिनामिति । तेन यदुक्तम् पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः [ङीता १.३६], एतान्न हन्तुमिच्छामि घन्तोऽपि मधुसूदन [ङीता १.३५] इति तन्निराकृतं भवति ॥३३॥

विश्वनाथः विपक्षे दोषमाह अथेति चतुर्भिः ॥३३॥

बलदेवः विपक्षे दोषान् दर्शयति अथेत्यादिभिः । स्वस्य तव धर्म्यं युद्धलक्षणं कीर्तिं च रुद्रसन्तोषणनिवातकवचादिवधलब्धां हित्वा पापं न निवर्तेत सङ्ग्रामादित्यादि स्मृतिप्रतिषिद्धं स्वधर्मत्यागलक्षणं प्राप्स्यसि ॥३३॥

__________________________________________________________

भगवद्गीता २.३४

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥३४॥

श्रीधरः किं च अकीर्तिमित्यादि । अव्ययां शाश्वतीम् । संभावितस्य बहुमतस्य । अतिरिच्यते अधिकतरा भवति ॥३४॥

मधुसूदनः एवं कीर्तिधर्मयोरिष्टयोरप्राप्तिरनिष्टस्य च पापस्य प्राप्तिर्युद्धपरित्यागे दर्शिता । तत्र पापाख्यमनिष्टं व्यवधानेन दुःखफलदमामुत्रिकत्वात् । शिष्टगर्हालक्षणं त्वनिष्टमासन्नफलदमत्यसह्यमित्याह अकीर्तिमिति । भूतानि देवर्षिमनुष्यादीनि ते तवाव्ययां दीर्घकालमकीर्तिं न धर्मात्मायं न शूरोऽयमित्येवंरूपां कथयिष्यन्त्यन्योन्यं कथाप्रसङ्गे । कीर्तिधर्मनाशसमुच्चयार्थौ निपातौ । न केवलं कीर्तिधर्मौ हित्वा पापं प्राप्स्यसि अपि तु अकीर्तिं च प्राप्स्यसि । न केवलं त्वमेव तां
प्राप्स्यसि अपि तु भूतान्यपि कथयिष्यन्तीति वा निपातयोरर्थः ।

ननु युद्धे स्वमरणसन्देहात्तत्परिहारार्थमकीर्तिरपि सोढव्या आत्मरक्षणस्यात्यन्तापेक्षितत्वात् । तथा चोक्तं शान्तिपर्वणि[*Eण्ड्ण्Oट्E]

साम्ना दानेन भेदेन समस्तैरथ वा पृथक् ।
विजेतुं प्रयतेतारीन्न युद्धेन कदा चन ॥
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ।
पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् ॥
त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे ।
तथा युध्येत संपन्नो विजयेत रिपून् यथा ॥ [ंनुष्७.१९८२००]

एवमेव मनुनाप्युक्तम् ।

तथा च मरणभीतस्य किमकीर्तिदुःखमिति शङ्कामपनुदति सम्भावितस्य धर्मात्मा शूर इत्येवमादिभिरनन्यलभ्यैर्गुणैर्बहुमतस्य जनस्याकीर्तिर्मरणादप्यतिरिच्यतेऽधिका भवति । चो हेतौ । एवं यस्मादतोऽकीर्तेर्मरणमेव वरं न्यूनत्वात् । त्वमप्यतिर्सम्भावितोऽसि महादेवादिसमागमेन । अतो नाकीर्तिदुःखं सोढुं शक्ष्यसीत्यभिप्रायः । उदाहृतवचनं त्वर्थशास्त्रत्वात्न निवर्तेत सङ्ग्रामात्[ंनु ७.८८] इत्यादिधर्मशास्त्राद्दुर्बलमिति भावः ॥३४॥

विश्वनाथः अव्ययामनश्वराम् । संभावितस्यातिप्रतिष्ठितस्य ॥३४॥

बलदेवः न केवलं स्वधर्मस्य कीर्तेश्च क्षतिमात्रम् । युद्धे समारब्धेऽर्जुनः पलायत इत्यव्ययां शाश्वतीमकीर्तिं च तव भूतानि सर्वे लोकाः कथयिष्यन्ति । ननु मरणाद्भीतेन मया अकीर्तिः सोढव्येति चेत्तत्राह सम्भावितस्यातिप्रतिष्ठितस्य । अतिरिच्यते अधिका भवति । तथा च तादृशाकीऋतेर्मरणमेव वरमिति ॥३४॥

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥३५॥

श्रीधरः किं च भयादिति । येषां बहुगुणत्वेन त्वं पूर्वं सम्मतोऽभूस्त एव भयात्संग्रामान्निवृत्तं त्वां मन्येरन् । ततश्च पूर्वं बहुमतो भूत्वा लाघवं लघुतां यास्यसि ॥३५॥

मधुसूदनः

विश्वनाथः येषां त्वं बहुमतोऽस्मच्छत्रुरर्जुनस्तु महाशूर इति बहुसंमानविषयो भूत्वा सम्प्रति युद्धादुपरमे सति लाघवं यास्यसि ते दुर्योधनादयो महारथास्त्वां भयादेव रणादुपरतं मंस्यन्त इत्यन्वयः । क्षत्रियाणां हि भयं विना युद्धोपरतिहेतुर्बन्धुस्नेहादिको नोपपद्यत इति मत्वेति भावः ॥३५॥

बलदेवः ननु कुलक्षयदोषात्कारुण्याच्च विनिवृत्तस्य मम कथमकीर्तिः स्यादिति चेत्तत्राह भयादिति । महारथा दुर्योधनादयस्त्वां कर्णादिभयान्न तु बन्धुकारुण्याद्रणादुपरतं मंस्यन्ते । न हि शूरस्य शत्रुभयं विना बन्धुस्नेहेन युद्धादुपरतिरित्यर्थः । इतः पूर्वं येषां त्वं बहुमतः शूरो वैरीति बहुगुणवत्तया संमतोऽभूरिदानीं युद्धे समुपस्थिते कातरोऽयं विनिवृत्त इत्येवं तत्कृतं लाघवं दुःसहं यास्यसि ॥३५॥

__________________________________________________________

भगवद्गीता २.३६

अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥३६॥

श्रीधरः किं च अवाच्यवादानिति । अवाच्यान् वादान् वचनानर्हान् शब्दान् तव अहिताः त्वच्छत्रवो वदिष्यन्ति ॥३६॥

मधुसूदनः ननु भीष्मादयो महारथा न बहु मन्यन्तां दुर्योधनादयस्तु शत्रवो बहु मंस्यन्ते मां युद्धनिवृत्त्या तदुपकारित्वादित्यत आह अवाच्येति । तवासाधारणं यत्सामर्थ्यं लोकप्रसिद्धं तन्निन्दन्तस्तव शत्रवो दुर्योधनादयोऽवाच्यान् वादान् वचनानर्हान् षण्ढतिलादिरूपानेव शब्दान् बहूननेकप्रकारान् वदिष्यन्ति न तु बहु मंस्यन्त इत्यभिप्रायः । अथवा तव सामर्थ्यं स्तुतियोग्यत्वं तव निन्दन्तोऽहिता अवाच्यवादान् वदिष्यन्तीत्यन्वयः ।

ननु भीष्मद्रोणादिवधप्रयुक्तं कष्टतरं दुःखमसहमानो युद्धान्निवृत्तः शत्रुकृतसामर्थ्यनिन्दनादिदुःखं सोढुं शक्ष्यामीत्यत आह ततस्तस्मान्निन्दाप्राप्तिदुःखात्किं तु दुःखतरं ततोऽधिकं किमपि दुःखं नास्तीत्यर्थः ॥३६॥

विश्वनाथः अवाच्यवादान् । क्लीब इत्यादि कटूक्तीः ॥३६॥

बलदेवः किं चावाच्येति । अहिताः शत्रवो धार्तराष्ट्रास्तव सामर्थ्यं पूर्वसिद्धं पराक्रमं निन्दन्तः बहूनवाच्यवादान् शण्ढतिलादिशब्दान् वदिष्यन्ति । तत एवंविधावाच्यवादश्रवणादतिशायितं किं दुःखमस्ति । इत्थं चैते षड्भिर्युद्धवैराग्यस्यास्वर्गत्वमकीर्तिकरत्वं चोक्तं दर्शितम् ॥३६॥

__________________________________________________________

भगवद्गीता २.३७

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥३७॥

श्रीधरः यदुक्तं न चैतद्विद्मः [ङीता २.६] इति तत्राह हतो वेत्यादि । पक्षद्वयेऽपि तव लाभ एवेत्यर्थः ॥३७॥

मधुसूदनः ननु तर्हि युद्धे गुर्वादिवधवशान्मध्यस्थकृता निन्दा ततो निवृत्तौ तु शत्रुकृता निन्देत्युभयतः पाशा रज्जुरित्याशङ्क्य जये पराजये च लाभध्रौव्याद्युद्धार्थमेवोत्थानमावश्यकमित्याह हतो वेति । स्पष्टं पूर्वार्धम् । यस्मादुभयथापि ते लाभस्तस्माज्जेष्यामि शत्रून्मरिष्यामि वेति कृतनिश्चयः सन् युद्धायोत्तिष्ठ । नयतरफलसन्देहेऽपि युद्धकर्तव्यताया निश्चितत्वात् । एतेन न चैतद्विद्मः कतरन्नो गरीयः [ङीता २.६] इत्यादि परिहृतम् ॥३७॥

विश्वनाथः ननु युद्धे मम जय एव भावीत्यपि नास्ति निश्चयः । ततश्च कथं युद्धे प्रवर्तितव्यमित्यत आह हत इति ॥३७॥

बलदेवः ननु युद्धे विजय एव मे स्यादिति निश्चयाभावात्ततोऽहं निवृत्तोऽस्मीति चेत्तत्राह हतो वेति । पक्षद्वयेऽपि ते लाभ एवेति भावः ॥३७॥

__________________________________________________________

भगवद्गीता २.३८

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥३८॥

श्रीधरः यदप्युक्तं पापमेवाश्रयेदस्मान् [ङीता १.३६] इति तत्राह सुखदुःखे इत्यादि । सुखदुःखे समे कृत्वा । तथा तयोः कारणभूतौ लाभालाभावपि । तयोरपि कारणभूताउ जयाजयावपि समौ कृत्वा । एतेषां समत्वे कारणं हर्षविषादराहित्यम् । युज्यस्व सन्नधो भव । सुखाद्यभिलासं हित्वा स्वधर्मबुद्ध्या युध्यमानः पापं न प्राप्स्यसीत्यर्थः ॥३८॥

मधुसूदनः नन्वेवं स्वर्गमुद्दिश्य युद्धकरणे तस्य नित्यत्वव्याघातः । राज्यमुद्दिश्य युद्धकरणे त्वर्थशास्त्रत्वाद्धर्मशास्त्रापेक्षया दौर्बल्यं स्यात् । ततश्च काम्यस्याकरणे कुतः पापं दृष्टार्थस्य गुरुब्राह्मणादिवधस्य कुतो धर्मत्वं, तथा चाथ चेदिति श्लोकार्थो व्याहत इति चेत्तत्राह सुखदुःखे इति ।

समताकरणं रागद्वेषराहित्यम् । सुखे तत्कारणे लाभे तत्कारणे लाभे तत्कारणे जये च रागमकृत्वा, एवं दुःखे तद्धेतावलाभे तद्धेतावजये च द्वेषमकृत्वा ततो युद्धाय युज्यस्व सन्नधौ भव । एवं सुखकामनां दुःखनिवृत्तिकामनां वा विहाय स्वधर्मबुद्ध्या युध्यमानो गुरुब्राह्मणादिवधनिमित्तं नित्यकर्माकरणनिमित्तं च पापं न प्राप्स्यसि । यस्तु फलकामनया करोति स गुरुब्राह्मणादिवधनिमित्तं पापं प्राप्नोति यो वा न करोति स नित्यकर्माकरणनिमित्तम् । अतः फलकामनामन्तरेण कुर्वन्नुभयविधमपि पापं न प्राप्नोतीति प्रागेव व्याख्यातोऽभिप्रायः । हतो वा प्राप्स्यसि स्वर्गं
जित्वा वा भोक्ष्यसे महीम् [ङीता २.३७] इति स्वानुषङ्गिकफलकथनमिति न दोषः । तथा च आपस्तम्बः स्मरति तद्यथाम्रे फलार्थे निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते नो चेदनूत्पद्यन्ते न धर्महानिर्भवति इति । अतो युद्धशास्त्रस्यार्थशास्त्रत्वाभावात्पापमेवाश्रयेदस्मान् [ङीता १.३६] इत्यादि निराकृतं भवति ॥३८॥

विश्वनाथः तस्मात्तव सर्वथा युद्धमेव धर्मस्तदपि यदिमं पापकारणमाशङ्कसे, तर्हि मत्तः पापानुत्पत्तिप्रकारं शिक्षित्वा युध्यस्वेत्याह सुखदुःखे समे कृत्वा । तद्धेतुर्लाभालाभौ राज्यलाभराजच्यूती अपि । तद्धेतुर्जयाजयावपि समौ कृत्वा विवेकेन तुल्यौ विभावेत्यर्थः । ततश्चैवंभूतसाम्यलक्षणे ज्ञानवतस्तव पापं नैव भवेत् । यद्वक्ष्यते लिप्यते न स पापेन पद्मपत्रमिवाम्भसा [ङीता ५.१०] इति ॥३८॥

बलदेवः ननु अथ चेत्त्वमित्यादिपद्यार्थो व्याहृतः । राज्याद्युद्देशेन कृतस्य युद्धस्य गुरुविप्रादिविनाशहेतुत्वेन पापोत्पादकत्वादिति चेन्मुमुक्षुवर्त्मना युद्धमानस्य तव तद्विनाशहेतुकं पापं न स्यादित्याह सुखेति । साम्यकरणमिह तत्र तत्र निर्विकारत्वं बोध्यम् । सुखे तद्धेतौ जये च रागमकृत्वा दुःखे तद्धेतावलाभे तद्धेतौ पराजये च द्वेषमकृत्वा तत्र तत्र निर्विकारचित्तः सन् ततो युद्धाय युज्यस्व । केवलस्वधर्मधिया योद्धुमुद्युक्तो भवेत्यर्थः । एवं मुमुक्षुरीत्या योद्धा त्वं पापं तद्विनाशहेतुकं नावाप्स्यसि । फलेच्छुः सन् यो युध्यते स तत्पापं विन्दति । विज्ञानार्थी तु पुरातनमनन्तपापम्
अपनुदतीत्यर्थः ।

ननु फलरागं विना दुष्करे युद्धदानादौ कथं प्रवृत्तिरिति चेदनन्तात्मानन्दरागं तत्र प्रवर्तकं गृहाण राज्याद्यनुरागमिव भृगुपाते ॥३८॥

__________________________________________________________

भगवद्गीता २.३९

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥३९॥

श्रीधरः उपदिष्टं ज्ञानयोगमुपसंहरंस्तत्साधनं कर्मयोगं प्रस्तौति एषेत्यादि । सम्यक्ख्यायते प्रकाश्यते वस्तुतत्त्वमनयेति सङ्ख्या सम्यक्ज्ञानम् । तस्यां प्रकाशमानमात्मतत्त्वं साङ्ख्यम् । तस्मिन् करणीया बुद्धिरेषा तवाभिहिता । एवमभिहितायामपि तव चेदात्मतत्त्वमपरोक्षं न भवति तर्ह्यन्तःकरणशुद्धिद्वारा आत्मतत्त्वापरोक्षार्थं कर्मयोग त्विमां बुद्धिं शृणु । यया बुद्ध्या युक्तः परमेश्वरार्पितकर्मयोगेन शुद्धान्तःकरणः सन् तत्प्रसादलब्धापरोक्षज्ञानेन कर्मात्मकं बन्धं प्रकर्षेण
हास्यसि त्यक्ष्यसि ॥३९॥

मधुसूदनः ननु भवतु स्वधर्मबुद्ध्या युध्यमानस्य पापाभावः, तथापि न मां प्रति युद्धकर्तव्यतोपदेशस्तवोचितः । य एनं वेत्ति हन्तारं [ङीता २.१९] इत्यादिना कथं स पुरुषः पार्थ कं घातयति हन्ति कम् [ङीता २.२१] इत्यन्तेन विदुषः सर्वकर्मप्रतिक्षेपात् । न ह्यकर्त्र्भोक्तृशुद्धस्वरूपोऽहमस्मि युद्धं कृत्वा तत्फलं भोक्ष्य इति च ज्ञानं सम्भवति विरोधात् । ज्ञानकर्मणोः समुच्चयासम्भवात्प्रकाशतमसोरिव । अयं चार्जुनाभिप्रायो ज्यायसी चेदित्यत्र व्यक्तो भविष्यति । तस्मादेकमेव मां प्रति ज्ञानस्य कर्मणश्चोपदेशो नोपपद्यत इति चेत्, न । विद्वदविद्वदवस्थाभेदेन
ज्ञानकर्मोपदेशोपपत्तेरित्याह भगवानेषेति ।

एषा न त्वेवाहमित्याद्येकविंशतिश्लोकैस्ते तुभ्यमभिहिता साङ्ख्ये सम्यक्ख्यायते सर्वोपाधिशून्यतया प्रतिपाद्यते परमात्मतत्त्वमनयेति सङ्ख्योपनिषत्तयैव तापर्यपरिसमाप्त्या प्रतिपाद्यते यः स साङ्ख्य औपनिषदः पुरुष इत्यर्थः । तस्मिन् बुद्धिस्तन्मात्रविषयं ज्ञानं सर्वानर्थनिवृत्तिकारणं त्वां प्रति मयोक्तं नैतादृशज्ञानवतः क्वचिदपि कर्मोच्यते । तस्य कार्यं न विद्यत इति वक्ष्यमाणत्वात् ।

यदि पुनरेवं मयोक्तेऽपि तवैषा बुद्धिर्नोदेति चित्तदोषात्, तदा तदपनयेनात्मतत्त्वसाक्षात्काराय कर्मयोग एव त्वयानुष्ठेयः । तस्मिन् योगे कर्मयोगे तु करणीयामिमां सुखदुःखे समे कृत्वा इत्यत्रोक्तां फलाभिसन्धित्यागलक्षणां बुद्धिं विस्तरेण मया वक्ष्यमाणां शृणु । तुशब्दः पूर्वबुद्धेर्योगविषयत्वव्यतिरेकसूचनार्थः । तथा च शुद्धान्तःकरणं प्रति ज्ञानोपदेशोऽशुद्धान्तःकरणं प्रति कर्मोपदेश इति कुतः समुच्चयशङ्कया विरोधावकाश इत्यभिप्रायः ।

योगविषयां बुद्धिं फलकथनेन स्तौति यथा व्यवसायात्मिकया बुद्ध्या कर्मसु युक्तस्त्वं कर्मनिमित्तं बन्धनाशायाशुद्धिलक्षणं ज्ञानप्रतिबन्धं प्रकर्षेण पुनः प्रतिबन्धानुत्पत्तिरूपेण हास्यसि त्यक्ष्यसि । अयं भावः कर्मनिमित्तो ज्ञानप्रतिबन्धः कर्मणैव धर्माख्येनापनेतुं शक्यते धर्मेण पापमपनुदति [ंहाना १३.६] इति श्रुतेः । श्रवणादिलक्षणो विचारस्तु कर्मात्मकप्रतिबन्धरहितस्यासम्भावनादिप्रतिबन्धं दृष्टद्वारेणापनयतीति न कर्मबन्धनिराकरणायोपदेष्टुं शक्यते । अतोऽत्यन्तमलिनान्तःकरणत्वाद्बहिरङ्गसाधनं
कर्मैव त्वयानुष्ठेयं, नाधुना श्रवणादियोग्यतापि तव जाता । दूरे तु ज्ञानयोग्यतेति । तथा च वक्ष्यति कर्मण्येवाधिकारस्ते [ङीता २.४७] इति । एतेन साङ्ख्यबुद्धेरन्तरङ्गसाधनं श्रवणादि विहाय बहिरङ्गसाधनं कर्मैव भगवता किमित्यर्जुनायोपदिश्यत इति निरस्तम् । कर्मबन्धं संसारमीश्वरप्रसादनिमित्तज्ञानप्राप्त्या प्रहास्यसीति प्राचां व्याख्याने त्वध्याहारदोषः कर्मपदवैयर्थ्यं च परिहर्तव्यम् ॥३९॥

विश्वनाथः उपदिष्टं ज्ञानयोगमुपसंहरति एषेति । सम्यक्ख्यायते प्रकाश्यते वस्तुतत्त्वमनेनेति साङ्ख्यं सम्यक्ज्ञानम् । तस्मिन् करणीया बुद्धिरेष कथिता । अधुना योगे भक्तियोगे इमां वक्ष्यमाणां बुद्धिं करणीयां शृणु, यया भक्तिविषयिण्या बुद्ध्या युक्तः सहितः । कर्मबन्धं संसारम् ॥३९॥

बलदेवः उक्तं ज्ञानयोगमुपसंहरन् तदुपायं निष्कामकर्मयोगं वक्तुमारभते एषेति । सङ्ख्योपनिषत्सम्यक्ख्यायते निरूप्यते तत्त्वमनया इति निरुक्तेः । तया प्रतिपाद्यमात्मयाथात्म्यं साङ्ख्यम् । शैषिकान् तस्मिन् कर्तव्यैषा बुद्धिस्तवाभिहिता । ने त्वेवाहं इत्यादिना तस्मात्सर्वाणि भूतानि इत्यन्तेन । सा चेत्तव चित्ततद्दोषान्नाभ्युदेति तर्हि योगे तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन इत्यादि श्रुत्युक्तान्तर्गतज्ञाने निष्कामकर्मयोगे कर्तव्यामिमां वक्ष्यमाणां बुद्धिं शृणु । फलोक्त्या तां स्तौति ययेति । कर्माणि
कुर्वाणस्त्वं भगवदाज्ञया महाप्रयासानि कर्माणि कुर्वंस्तत्तदुद्देशमहिम्ना त्वदन्तरभ्युदितयात्मज्ञाननिष्ठया संसारं तरिष्यसीति । पशुपुत्रराज्यादिफलकं कर्म सकामं ज्ञानफलकं तु तन्निष्काममिति शास्त्रेऽस्मिन् परिभाष्यते ॥३९॥

__________________________________________________________

भगवद्गीता २.४०

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥४०॥

श्रीधरः ननु कृष्यादिवत्कर्मणां कदाचिद्विघ्नबाहुल्येन फले व्यभिचारात्मन्त्राद्यङ्गवैगुण्येन च प्रत्यवायसम्भवआत्कुतः कर्मयोगेन कर्मबन्धप्रहाणम् । तत्राह नेहेत्यादि । इह निष्कामकर्मयोगे अभिक्रमस्य प्रारम्भस्य नाशो निष्फलत्वं नास्ति । प्रत्यवायश्च न विद्यते । ईश्वरोद्देशेनैव विघ्नवैगुण्याद्यसम्भवात् । किं चास्य धर्मस्य ईश्वराराधनार्थकर्मयोगस्य स्वल्पमप्युपक्रममात्रमपि कृतं महतो भयात्संसारलक्षणात्त्रायते रक्षति । न तु काम्यकर्मवत्किञ्चिदङ्गवैक्गुण्यादिना नैष्फल्यमस्येत्यर्थः ॥४०॥

मधुसूदनः ननु तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [Bआऊ ४.४.२२] इति श्रुत्या विविदिषां ज्ञानं चोद्दिश्य संयोगपृथक्त्वन्यायेन सर्वकर्मणां विनियोगात्तत्र चान्तःकरणशुद्धेर्द्वारत्वान्मां प्रति कर्मानुष्ठानं विधीयते । तत्र तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते [Cहा ८.१.६] इति श्रुतिबोधितस्य फलनाशस्य सम्भावाज्ज्ञानं विविदिषां चोद्दिश्य क्रियमाणस्य यज्ञादेः काम्यत्वात्सर्वाङ्गोपसंहारेणानुष्ठेयस्य यत्किंचिदङ्गासम्पत्तावपि वैगुण्यापत्तेर्यज्ञेनेत्यादिवाक्यविहितानां
च सर्वेषां कर्मणामेकेन पुरुषायुषपर्यवसानेऽपि कर्तुमशक्यत्वात्कुतः कर्मबन्धं प्रहास्यसीतिफलं प्रत्याशेत्यत आह भगवान्नेहेति ।

अभिक्रम्यते कर्मणा प्रारभ्यते यत्फलं सोऽभिक्रमस्तस्य नाशस्तद्यथेहेत्यादिना प्रतिपादित इह निष्कामकर्मयोगे नास्ति । एतत्फलस्य शुद्धेः पापक्षयरूपत्वेन लोकशब्दवाच्यभोग्यत्वाभावेन च क्षयासम्भवात् । वेदनपर्यन्ताया एव विविदिषायाः कर्मफलत्वाद्वेदनस्य चाव्यवधानेनाज्ञाननिवृत्तिफलजनकस्य फलमजनयित्वा नाशासम्भवादिह फलनाशो नास्तीति साधूक्तम् । तदुक्तं

तद्यथेहेति या निन्दा सा फले न तु कर्मणि ।
फलेच्छां तु परित्यज्य कृतं कर्म विशुद्धिकृत् ॥ इति ।

तथा प्रत्यवायोऽङ्गवैगुण्यनिबन्धनं वैगुण्यमिह न विद्यते तमिति वाक्येन नित्यानामेवोपात्तदुरितक्षयद्वारेण विविदिषायां विनियोगात् । तत्र च सर्वाङ्गोपसंहारनियमाभावात् । काम्यानामपि संयोगपृथक्त्वन्यायेन विनियोग इति पक्षेऽपि फलाभिसन्धिरहितत्वेन तेषां नित्यतुल्यत्वात् । नहि काम्यनित्याग्निहोत्रयोः स्वतः कश्चिद्विशेषोऽस्ति । फलाभिसन्धितदभाषाभ्यामेव तु काम्यत्वनित्यत्वव्यपदेशः । इदं च पक्षद्वयमुक्तं वार्तिके

वेदानुवचनादीनामैकात्म्यज्ञानजन्मने ।
तमेतमिति वाक्येन नित्यानां वक्ष्यते विधिः ॥
यद्वा विविदिषार्थत्वं काम्यानामपि कर्मणाम् ।
तमेतमिति वाक्येन संयोगस्य पृथक्त्वतः ॥ इति ।

तथा च फलाभिसन्धिना क्रियमाण एव कर्मणि सर्वाङ्गोपसंहारनियमात्तद्विलक्षणे शुद्ध्यर्थे कर्मणि प्रतिनिध्यादिना समाप्तिसम्भवान्नाङ्गवैगुण्यनिमित्तः प्रत्यवायोऽस्तीत्यर्थः । तथास्य शुद्ध्यर्थस्य धर्मस्य तमेतमित्यादिवाक्यविहितस्य मध्ये स्वल्पमपि सङ्ख्ययेतिकर्तव्यतया वा यथाशक्तिभगवदाराधनार्थं किंचिदप्यनुष्ठितं सन्महतः संसारभयात्त्रायते भगवत्प्रसादसम्पादनेनानुष्ठातारं रक्षति ।

सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् ।
भूयस्तपस्वी भवति पङ्किपावनपावनः ॥ इत्यादि स्मृतेः ।

तमेतमिति वाक्ये समुच्चयविधायकाभावाच्चाशुद्धितारतम्यादेवानुष्ठानतारतम्योपपत्तेर्युक्तमुक्तं कर्मबन्धं प्रहास्यसि ॥४०॥

विश्वनाथः अत्र योगो द्विविधः श्रवणकीर्तनादिभक्तिरूपः, श्रीभगवदर्पितनिष्कामकर्मरूपश्च । तत्र कर्मण्येवाधिकारः इत्यतः प्राग्भक्तियोग एव निरूप्यते । निस्त्रैगुण्यो भवार्जुन इत्युक्तेर्भक्तेरेवे त्रिगुणातीतत्वात्तयैव पुरुषो निस्त्रैगुण्यो भवतीत्येकादशस्कन्धे[*Eण्ड्ण्Oट्E] प्रसिद्धेः । ज्ञानकर्मणोस्तु सात्त्विकत्वराजसत्वाभ्यां निस्त्रैगुण्यत्वानुपपत्तेर्भगवदर्पितलक्षणा भक्तिस्तु कर्मणो वैफल्याभावमात्रं प्रतिपादयति, न तु स्वस्य भक्तिव्यपदेशं प्राधान्याभावादेव । यदि च भगवदर्पितं कर्मापि भक्तिरेवेति मतं, तदा कर्म किं स्यात्? यद्भगवदनर्पितकर्म, तदेव कर्मेति चेन्, न ।

नैष्कर्म्यमप्यच्युतभाववर्जितं
न शोभते ज्ञानमलं निरञ्जनम् ।
कुतः पुनः शश्वदभद्रमीश्वरे
न चार्पितं कर्म यदप्यकारणम् ॥ [Bह्ড়् १.५.१२]

इति नारदोक्त्या तस्य वैयर्थ्यप्रतिपादनात् । तस्मादत्र भग्वच्चरणमाधुर्यप्राप्तिसाधनीभूता केवलश्रवणकीर्तनादिलक्षणैव भक्तिर्निरूप्यते, यथा निष्कामकर्मयोगऽपि निरूपयितव्यः । उभावप्येतौ बुद्धियोगशब्दवाच्यौ ज्ञेयौ ददामि बुद्धियोगं तं येन मामुपयान्ति ते [१०.१०], दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय [२.४९] इति चोक्तेः ।

अथ निर्गुणश्रवणकीर्तनादिभक्तियोगस्य माहात्म्यमाह नेहेति । इह भक्तियोगेऽभिक्रमे आरम्भमात्रे कृतेऽप्यस्य भक्तियोगस्य नाशो नास्ति । ततः प्रत्यवायश्च न स्यात् । यथा कर्मयोगे आरम्भं कृत्वा कर्मानुष्ठितवतः कर्मनाशप्रत्यवायौ स्यातामिति भावः ।

ननु तर्हि तस्य भक्त्यनुष्ठातुकामस्य समुचितभक्त्यकरणात्भक्तिफलं तु नैव स्यात् । तत्राह स्वल्पमिति । अस्य धर्मस्य स्वल्पमप्यारम्भसमये या किञ्चिन्मात्री भक्तिरभूत् । सापीत्यर्थः । महतो भयात्संसारात्त्रायत एव । यन्नाम सकृच्छ्रवणात्पुक्कशोऽपि विमुच्यते संसारादित्य्[Bह्ড়् ६.१६.४४] आदिश्रवणात् । अजामिलादौ तथा दर्शनाच्च ।

न ह्यङ्गोपक्रमे ध्वंसो
मद्धर्मस्योद्धवाण्वपि ।
मया व्यवसितः सम्यङ्
निर्गुणत्वादनाशिषः ॥ [Bह्ড়् ११.२९.२०]

इति भगवतो वाक्येन सहास्यवाक्यस्यैकार्थमेव दृश्यते । किन्तु तत्र निर्गुणत्वान्न हि गुणातीतं वस्तु कदाचिद्ध्वस्तं भवतीति हेतुरुपन्यस्तः । स चेहापि द्रष्टव्यः । न च निष्कामकर्मणोऽपि भगवदर्पणमहिम्ना निर्गुणत्वमेवेति वाच्यम् मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत्[Bह्ড়् ११.२५.२३] ॥४०॥

बलदेवः वक्ष्यमाणया बुद्ध्या युक्तं कर्मयोगं स्तौति नेहेति । इह तमेतमित्यादि वाक्योक्तेः निष्कामकर्मयोगेऽभिक्रमस्यारम्भस्य फलोत्पादकत्वनाशो नास्ति । आरम्भस्यासमाप्तस्य वैफल्यं न भवतीत्यर्थः । मन्त्राद्यङ्गवैकल्ये च प्रत्यवायो न विद्यते । आत्मोद्देशमहिम्ना ओं तत्सतिति भगवन्नाम्ना च तस्य विनाशात् । इह भगवदर्पितस्य निषामकर्मलक्षणधर्मस्य किञ्चिदप्यनुष्ठितं सन्महतो भयात्संसारात्त्रायते अनुष्ठातारं रक्षति । वक्ष्यति चैवं पार्थ नैवेह नामुत्र [ङीता ६.४०] इत्यादिना । काम्यकर्माणि सर्वाङ्गोपसंहारेणानुष्ठितान्युक्तफलाय
कल्पन्ते । मन्त्राद्यङ्गवैकल्ये तु प्रत्यवायं जनयन्तीति । निष्कामकर्माणि तु यथाशक्त्यनुष्ठितानि ज्ञाननिष्ठालक्षणं फलं जनयन्त्येवोक्तहेतुतः प्रत्यवायं नोप्तादयन्तीति ॥४०॥

__________________________________________________________

भगवद्गीता २.४१

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥४१॥

श्रीधरः कुत इत्यपेक्षायामुभयोर्वैषम्यमाह व्यवसायात्मिकेति । इह ईश्वराराधनलक्षणे कर्मयोगे व्यवसायात्मिका परमेश्वरभक्त्यैव ध्रुवं तरिष्यामीति निश्चयात्मिका एकैव एकनिष्ठैव बुद्धिर्भवति । अव्यवसायिनां तु ईश्वराराधनबहिर्मुखानां कामिनां कामानामानन्त्यातनन्ताः । तत्रापि हि कर्मफलगुणफलत्वादिप्रकारभेदाद्बहुशाखाश्च बुद्धयो भवन्ति । ईश्वराराधनार्थं हि नित्यं नैमित्तिकं च कर्म किञ्चिदङ्गवैगुण्येऽपि न नश्यति । यथा शक्नुयात्तथा कुर्यादिति हि तद्विधीयते । न च वैगुण्यमपि । ईश्वरोद्देशेनैव वैगुण्योपशमात् । न तु तथा काम्यं कर्म । अतो महद्वैषम्यमिति भावः
॥४१॥

मधुसूदनः एतदुपपादनाय तमेतमिति वाक्यविहितानामेकार्थत्वमाह व्यवसायात्मिकेति । हे कुरुनन्दनेह श्रेयोमार्गे तमेतमिति वाक्ये वा व्यवसायात्मिकात्मतत्त्वनिश्चयात्मिका बुद्धिरेकैव चतुर्णामाश्रमाणां साध्या विवक्षिता वेदानुवचनेन इत्यादौ तृतीयाविभक्त्या प्रत्येकं निरपेक्षसाधनत्वबोधनात् । भिन्नार्थत्वे हि समुच्चयः स्यात् । एकार्थत्वेऽपि दर्शपूर्णमासाभ्यामितिवद्द्वन्द्वसमासेन यदग्नये च प्रजापतये चेतिवच्चशब्देन न तथात्र किंचित्प्रमाणमस्तीत्यर्थः । साङ्ख्यविषया योगविषया च बुद्धिरेकफलत्वादेका व्यवसायात्मिका सर्वविपरीतबुद्धीनां बाधिका निर्दोषवेदवाक्यसमुत्थत्वादितरास्त्वव्यवसायिनां बुद्धयो बाध्या इत्यर्थ इति
भाष्यकृतः । अन्ये तु परमेश्वराराधनेनैव संसारं तरिष्यामीति निश्चयात्मिकैकनिष्ठैव बुद्धिरिह कर्मयोगे भवतीत्यर्थमाहुः । सर्वथापि तु ज्ञानकाण्डानुसारेण स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयातित्युपपन्नम् । कर्मकाण्डे पुनर्बहुशाखा अनेकभेदाः कामानामनेकभेदत्वात् । अनन्ताश्च कर्मफलगुणफलादिप्रकारोपशाखाभेदात्, बुद्धयो भवन्त्यव्यवसायिनां तत्तत्फलकामानाम् । बुद्धीनामानन्त्यप्रसिद्धिद्योतनार्थो हिशब्दः । अतः काम्यकर्मापेक्षया महद्वैलक्षण्यशुद्ध्यर्थकर्मणामित्यभिप्रायः ॥४१॥

विश्वनाथः किं च सर्वाभ्योऽपि बुद्धिभ्यो भक्तियोगविषयिण्येव बुद्धिरुक्तृष्टेत्याह व्यवसायेति । इह भक्तियोगे व्यवसायात्मिका बुद्धिरेकैव । मम श्रीमद्गुरूपदिष्टं भगवत्कीर्तनस्मरणचरणपरिचर्णादिकमेतदेव मम साधनमेतदेव मम साध्यमेतदेव मम जीवातुः साधनसाध्यदशयोस्त्यक्तुमशक्यमेतदेव मे काम्यमेतदेव मे कार्यमेतदन्यन्न मे कार्यं नाप्यभिलषणीयं स्वप्नेऽपीत्यत्र सुखमस्तु दुःखं वास्तु संसारो नश्यतु वा न नश्यतु । तत्र मम कापि न क्षतिरित्येवं निश्चयात्मिका बुद्धिरकैतवभक्तावेव सम्भवेत् । तदुक्तं ततो भजेत मां भक्त्या श्रद्धालुर्दृढनिश्चयः
[Bह्ড়् ११.२०.२८] इति ।

ततोऽन्यत्र नैव बुद्धिरेकेत्याह बह्विति । बहवः शाखा यासां ताः । तथा हि कर्मयोगे कामानामानन्त्याद्बुद्धयोऽनन्ताः । तथैव ज्ञानयोगे प्रथममन्तःकरणशुद्ध्यर्थं निष्कामकर्मणि बुद्धिस्ततस्तस्मिन् शुद्धे सति कर्मसंन्यासे बुद्धिः । तदा ज्ञाने बुद्धिः । ज्ञानवैफल्याभावार्थं भक्तौ बुद्धिः ज्ञानं च मयि संन्यसेतिति भगवदुक्तेर्ज्ञानसंन्यासे च भक्तौ बुद्धिरिति बुद्धयोऽनन्ताः । कर्मज्ञानभक्तीनामवश्यानुष्ठेयत्वात्तत्तच्छाखा अप्यनन्ताः ॥४१॥

बलदेवः काम्यकर्मविषयकबुद्धितो निष्कामकर्मविषयकबुद्धेर्वैशिष्ट्यमाह व्यवसायेति । हे कुरुनन्दन इह वैदिकेषु सर्वेषु कर्मसु व्यवसायात्मिका भगवदर्चनरूपैर्निष्कामकर्मभिर्विशुद्धचित्तो विषोर्णादिवत्तदन्तर्गतेन ज्ञानेनात्मयाथात्म्यमहमनुभविष्यामीति निश्चयरूपा बुद्धिरेका एकव्विषयत्वात् । एकस्मै तदनुभवाय तेषां विहितत्वादिति यावत् । अव्यवसायिनां काम्यकर्मानुष्ठातॄणां तु बुद्धयो ह्यनन्ताः । पश्वन्नपुत्रस्वर्गाद्यनन्तकामविषयत्वात् । तत्रापि बहुशाखाः । एकफलकेऽपि दर्शपौर्णमासादावायुः सुप्रजस्ताद्यवान्तरानेकफलाशंसाश्रवणात्
। अत्र हि देहातिरिक्तात्मज्ञानमात्रमपेक्षते न तूक्तात्मयाथात्म्यं तन्निश्चये काम्यकर्मसु प्रवृत्तेरसम्भवात् ॥४१॥

__________________________________________________________

भगवद्गीता २.४२४४

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥४२॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥४३॥
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥४४॥

श्रीधरः ननु कामिनोऽपि कष्टान् कामान् विहाय व्यवसायात्मिकामेव बुद्धिं किमिति न कुर्वन्ति । तत्राह यामिमामित्यादि । यामिमां पुष्पितां विषलतावदापातरमणीयां प्रकृष्टां परमार्थफलपरामेव वदन्ति वाचं स्वर्गादिफलश्रुतिम् । तेषां तया वाचाऽपहृतचेतसां व्यवसायात्मिका बुद्धिः समाधौ न विधीयते इति तृतीयेनान्वयः । किमिति तथा वदन्ति । यतोऽविपश्चितो मूढाः । तत्र हेतुः वेदवादरता इति । वेदे ये वादा अर्थवादाः । अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति । तथा, अपां सोमममृता अम्भूम इत्याद्याः
। तेष्वेव रताः प्रीताः । अतएवातःपरमन्यदीश्वरतत्त्वं प्राप्यं नास्तीतिवदनशीलाः ॥४२॥

अतएव कामात्मान इति । कामात्मानः कामाकुलितचित्ताः । अतः स्वर्ग एव परः पुरुषार्थो येषां ते । जन्म च तत्र कर्माणि च तत्फलानि च प्रददातीति तथा । तां भोगैश्वर्ययोर्गतिं प्राप्तिं प्रति साधनभूता ये क्रियाविशेषास्ते बहुला यस्यां तां प्रवदन्तीत्यनुषङ्गः ॥४३॥

ततश्च भोगैश्वर्यप्रसक्तानामित्यादि । भोगैश्वर्ययोः प्रसक्तानामभिनिविष्टानां तया पुष्पितया वाचापहृतमाकृष्टं चेतो येषां तेषाम् । समाधिश्चित्तैकाग्र्यम् । परमेश्वराभिमुखत्वमिति यावत् । तस्मिन्निश्चयात्मिका बुद्धिस्तु न विधीयते । कर्मकर्तरि प्रयोगः । सा नोत्पद्यत इति भावः ॥४४॥

मधुसूदनः अव्यवसयिनामपि व्यवसायात्मिका बुद्धिः कुतो न भवति प्रमाणस्य तुल्यत्वादित्याशङ्क्य प्रतिबन्धकसद्भावान्न भवतीत्याह यामिमामिति त्रिभिः । कुत एवमत आह भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलाममृतपानोर्वशीविहारपारिजातपरिमलादिनिबन्धनो यो भोगस्तत्कारणं च यदैश्वर्यं देवादिस्वामित्वं तयोर्गतिं प्राप्तिं प्रति साधनभूता ये क्रियाविशेषा अग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादयस्तैर्बहुलां विस्तृतामतिबाहुल्येन भोगैश्वर्यसाधनक्रियाकलापप्रतिपादिकामिति यावत् । कर्मकाण्डस्य हि ज्ञानकाण्डापेक्षया सर्वत्रातिविस्तृतत्वं प्रसिद्धम् । एतादृशीं कर्मकाण्डलक्षणां
वाचं प्रवदन्ति प्रकृष्टां परमार्थस्वर्गादिफलामभ्युपगच्छन्ति ।

के येऽविपश्चितो विचारजन्यतात्पर्यपरिज्ञानशून्याः । अतएव वेदवादरता वेदे ये सन्ति वादा अर्थवादाः अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति इत्येवमादयस्तेष्वेव रता वेदार्थसत्यत्वेनैवमेवैतदिति मिथ्याविश्वासेन सन्तुष्टाः । हे पार्थ ! अतएव नान्यदस्तीतिवादिनः कर्मकाण्डापेक्षया नास्त्यन्यज्ज्ञानकाण्डं सर्वस्यापि वेदस्य कार्यपरत्वात् । कर्मफलापेक्षया च नास्त्यन्यन्निरतिशयं ज्ञानफलमिति वदनशीला महता प्रबन्धेन ज्ञानकाण्डविरुद्धार्थभाषिण इत्यर्थः । कुतो मोक्षद्वेषिण्यस्ते ? यतः कामात्मानः काम्यमानविषयशताकुलचित्तत्वेन
काममयाः । एवं सति मोक्षमपि कुतो न कामयन्ते ? यतः स्वर्गपराः स्वर्ग एवोर्वश्याद्यपेतत्वेन पर उत्कृष्टो येषां ते तथा । स्वर्गातिरिक्तः पुरुषार्थो नास्तीति भ्राम्यन्तो विवेकवैराग्याभावान्मोक्षकथामपि सोढुमक्षमा इति यावत् ।

तेषां च पूर्वोक्तभोगैश्वर्ययोः प्रसक्तानां क्षयित्वादिदोषादर्शनेन निविष्टान्तःकरणानां तया क्रियाविशेषभुलया वाचापहृतमाच्छादितं चेतो विवेकज्ञानं येषां तथाभूतानामर्थवादाः स्तुत्यर्थास्तात्पर्यविषये प्रमाणान्तराबाधिते वेदस्य प्रामाण्यमिति सुप्रसिद्धमपि ज्ञातुमशक्तानां समाधावन्तःकरणे वयवसायात्मिका बुद्धिर्न विधीयते न भवतीत्यर्थः । समाधिविषया व्यवसायात्मिका बुद्धिस्तेषां न भवतीति वा अधिकरणे विषये वा सपतम्यास्तुल्यत्वात् । विधीयत इति कर्मकर्तरि लकारः । समाधीयतेऽस्मिन् सर्वम्
इति व्युत्पत्त्या समाधिरन्तःकरणं वा परमात्मा वेति नाप्रसिद्धार्थकल्पनम् । अहं ब्रह्मेत्यवस्थानं समाधिस्तन्निमित्तं व्यवसायात्मिका बुद्धिर्नोप्तद्यत इति व्याख्याने तु रूढिरेवादृता ।

अयं भावः यद्यपि काम्यान्यग्निहोत्रादीनि शुद्ध्यर्थेभ्यो न विशिष्यन्ते तथापि फलाभिसन्धिदोषान्नाशयशुद्धिं सम्पादयन्ति । भोगानुगुणा तु शुद्धिर्न ज्ञानोपयोगिनी । एतदेव दर्शयितुं भोगैश्वर्यप्रसक्तानामिति पुनरुपात्तम् । फलाभिसन्धिमन्तरेण तु कृतानि ज्ञानोपयोगिनीं शुद्धिमादधतीति सिद्धं विपश्चिदविपश्चितोः फलवैलक्षण्यम् । विस्तरेण चैतदग्रे प्रतिपादयिष्यते ॥४२४४॥

विश्वनाथः तस्मादव्यवसायिनः सकामकर्मिणस्त्वतिमन्दा इत्याह यामिमामिति । पुष्पितां वाचं पुष्पितां विफलतामिवापाततो रमणीयम् । प्रवदन्ति प्रकर्षेण सर्वतः प्रकृष्टा इयमेव वेदवागिति ये वदन्ति, तेषां तया वाचा अपहृतचेतसां च व्यवसायात्मिका बुद्धिर्न विधीयते इति तृतीयेनान्वयः । तेषु तस्या असम्भवात्सा तेषु नोपदिश्यत इत्यर्थः । किमिति ते तथा वदन्ति, यतोऽविपश्चितो मूर्खाः । तत्र हेतुः वेदेषु येऽर्थवादाः अक्षय्यं वै चातुर्मास्ययाजिनः सुकृतं भवति, अपां सोमममृता अम्भूम इत्याद्याः
। अन्यदीश्वरतत्त्वं नास्तीति प्रजल्पिनस्ते कीदृशीं वाचं प्रवदन्ति । जन्मकर्मफलप्रदायिनीं भोगैश्वर्यगतिं प्रति ये क्रियाविशेषास्तान् बहु यथा स्यात्तथा लाति ददाति प्रतिपादयतीति ताम् ॥४२४३॥

ततश्च भोगैश्वर्ययोः प्रसक्तानां तया पुष्पितया वाचा अपहृतमाकृष्टं चेतो येषां ते । तथा तेषां समाधिश्चित्तैकाग्र्यं परमेश्वरैकोन्मुखत्वं तस्मिन्निश्चयात्मिका बुद्धिर्न विधीयते । कर्मकर्तरि प्रयोगः । सा नोत्पद्यत इति भावः इति स्वामिवचनैः ॥४४॥

बलदेवः नन्वेषां व्यवसायात्मिका बुद्धिर्भवेत्श्रुतेस्तौल्यादिति चेच्चित्तदोषान्न भवेदित्याह यामिति त्रिभिः । अविपश्चितोऽल्पज्ञाः यामिमां ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिकां वाचं प्रवदन्ति इयमेव प्रकृष्टा वेदवागिति कल्पयन्ति । तया वाचापहृतचेतसां तेषां समाधौ मनसि व्यवसायात्मिका बुद्धिर्न विधीयते नाभ्युदेति इत्यनुषङ्गः । कीदृशीं वाचमित्याह पुष्पितामिति ॥ कुसुमितविषलतावदापातमनोज्ञां निष्फलामित्यर्थः । एवं कुतस्ते वदन्ति तत्राह वेदेति । वेदेषु ये वादाः अपां सोमममृता
अम्भूम, अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति इत्यादयोऽर्थवादास्तेष्वेव रताः वेदस्य सत्यभाषित्वादेवमेवैतदिति प्रतीतिमन्तः । अतएव नान्यदिति कर्मफलात्स्वर्गादन्यत्जीवांशिपरमार्थज्ञानं लभ्यं मोक्षलक्षणं निरतिशयं नित्यसुखं नास्ति । तत्प्रतिपादिकानां वेदान्तवाचां कर्माङ्गकर्तृदेवतादेकतया तच्छेषत्वादिति वदनशीला इत्यर्थः ॥४२॥

चित्तदोषमाह कामात्मानः वैषयिकसुखवासनाग्रस्तचित्ताः । एवं चेत्तादृशं मोक्षं कुतो नेच्छन्ति तत्राह स्वर्गेति । स्वर्ग एव सुधा देवाङ्गनाद्युपेतत्वेन परः श्रेष्ठो येषां ते । तादृग्वासनाग्रस्तत्वात्तेषां नान्यद्भाषत इत्यर्थः । जन्म कर्मेति जन्म च देहेन्द्रियसम्बन्धलक्सणं, तत्र कर्म च तत्तद्वर्णाश्रमविहितं, फलं च विनाशिपश्वन्नस्वर्गादि । तानि प्रकर्षेणाविच्छेदेन ददाति तां भोगैश्वर्ययोर्गतिं प्राप्तिं प्रति ये क्रियाविशेषा ज्योतिष्ट्प्मादयस्ते बहुलाः प्रचुरा यत्र तां वाचं
वदन्तीति पूर्वेणान्वयः । भोगः सुधापानदेवाङ्गनादिः, ऐश्वर्यं च देवादिस्वामित्वं तयोर्गतिमित्यर्थः ॥४३॥

बलदेवः भोगेति तेषां पूर्वोक्तयोर्भोगैश्वर्ययोः प्रसक्तानां क्षयित्वदोषास्फूर्त्या तयोरभिनिविष्टानां तया पुष्पितया वाचापहृतं विलुप्तं चेतो विवेकज्ञानं येषां तादृशानां समाधाविति योऽयम् । सम्यगाधीयतेऽस्मिन्नात्मतत्त्वयाथात्म्यमिति निरुक्तेः समाधिर्मनस्तस्मिन्नित्यर्थः ॥४४॥

__________________________________________________________

भगवद्गीता २.४५

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५॥

श्रीधरः ननु स्वर्गादिकं परमं फलं यदि न भवति, तर्हि किमिति वेदस्तत्साधनतया कर्माणि विधीयन्ते । तत्राह त्रैगुण्यविषया इति । त्रिगुणात्मकाः सकामा येऽधिकारिणस्तद्विषयास्तेषां कर्मफलसम्बन्धप्रतिपादका वेदाः । त्वं तु निस्त्रैगुण्यो निष्कामो भव । तत्रोपायमाह निर्द्वन्द्वः । सुखदुःखशीतोष्णादियुगलानि द्वन्द्वानि । तद्रहितो भव । तानि सहस्वेत्यर्थः । कथमिति । अत आह नित्यसत्त्वस्थः सन् । ध्र्यमवलम्ब्येत्यर्थः । तथा निर्योगक्षेमः । अप्राप्तस्वीकारो योगः, प्राप्तपालनं क्षेमः । तद्रहितः
। आत्मवानप्रमत्तः । नहि द्वन्द्वाकुलस्य योगक्षेमव्यापृतस्य च प्रमादिनस्त्रैगुण्यातिक्रमः सम्भवतीति ॥४५॥

मधुसूदनः ननु सकामानां मा भूदाशयदोषाद्व्यवसायात्मिका बुद्धिः । निष्कामानां तु व्यवसायात्मकबुद्ध्या कर्म कुर्वतां कर्मस्वाभाव्यात्स्वर्गादिफलप्राप्तौ ज्ञानप्रतिबन्धः समान इत्याशङ्क्याह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यं काममूलः संसारः । स एव प्रकाशत्वेन विषयो येषां तादृशा वेदाः कर्मकाण्डात्मका यो यत्फलकामस्तस्यैव तत्फलं बोधयन्तीत्यर्थः । न हि सअर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविति विनियोगेऽपि सकृदनुष्ठानात्सर्वफलप्राप्तिर्भवति तत्तत्कामनाविरहात् । यत्फलकामनयानुतिष्ठति
तदेव फलं तस्मिन् प्रयोग इति स्थितं योगसिद्ध्यधिकरणे । यस्मादेवं कामाविरहे फलविरहस्तस्मात्त्वं निस्त्रैगुण्यो निष्कामो भव । हे अर्जुन ! एतेन कर्मस्वाभाव्यात्संसारो निरस्तः ।

ननु शीतोष्णादिद्वन्द्वप्रतीकाराय वस्त्राद्यपेक्षणात्कुतो निष्कामत्वमत आह निर्द्वन्द्वः । सर्वत्र भवेति सम्बध्यते । मात्रास्पर्शास्त्वित्युक्तन्यायेन शीतोष्णादिद्वन्द्वसहिष्णुर्भव । तस्मिंस्तिष्ठतीति तथा । रजस्तमोभ्यामभिभूतसत्त्वो हि शीतोष्णादिपीडया मरिष्यामीति मन्वानो धर्माद्विमुखो भवति । त्वं तु रजस्तमसी अभिभूय सत्त्वमात्रालम्बनो भव ।

ननु शीतोष्णादिसहनेऽपि क्षुत्पिपासादिप्रतीकारार्थं किंचिदनुपात्तमुपादेयमुपात्तं च रक्षणीयमिति तदर्थं यत्ने क्रियमाणे कुतः सत्त्वस्थत्वमित्यत आह निर्योगक्षेमः । अलब्धलाभो योगः, लब्धपरिरक्षणं क्षेमस्, तद्रहितो भव । चित्तविक्षेपकारिपरिग्रहरहितो भवेत्यर्थः । न चैवं चिन्ता कर्तव्या कथमेवं सति जीविष्यामीति । यतः सर्वान्तर्यामी परमेश्वर एव तव योगक्षेमादि निर्वाहयिष्यतीत्याह आत्मवान् । आत्मा परमात्मा ध्येयत्वेन योगक्षेमादिनिर्वाहकत्वेन च वर्तते यस्य स आत्मवान् । सर्वकामनापरित्यागेन परमेश्वरम्
आराधयतो मम स एव देहयात्रामात्रमपेक्षितं सम्पादयिष्यतीति निश्चित्य निश्चिन्तो भवेत्यर्थः । आत्मवानप्रमत्तो भवेति वा ॥४५॥

विश्वनाथः त्वं तु चतुर्वर्गसाधनेभ्यो विरज्य केवलं भक्तियोगमेवाश्रयस्वेत्याह त्रैगुण्येति । त्रैगुण्यास्त्रिगुणात्मिकाः कर्मज्ञानाद्याः प्रकाश्यत्वेन विषया येषां ते त्रैगुण्यविषया वेदाः स्वार्थे ष्यञ्, एतच्च भूम्ना व्यपदेशा भवन्ति इति न्यायेनोक्तम् । किन्तु भक्तिरेवैनं नयति इति । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ इत्यादि श्रुतयः । पञ्चरात्रादिस्मृतयश्च गीतोपनिषद्गोपालतापन्याद्युपनिषदश्च निर्गुणां भक्तिमपि विषयीकुर्वन्त्येव वेदोक्तत्वाभावे भक्तेरप्रामाण्यमेव स्यात् । ततश्च वेदोक्ता ये त्रिगुणमया ज्ञानकर्मविधयस्तेभ्य एव निर्गतो भव तान्न कुरु । ये तु वेदोक्ता भक्तिविधयस्तांस्
तु सर्वथैवानुतिष्ठ । तदनुष्ठाने

श्रुतिस्मृतिपुराणादिपाञ्चरात्रविधिं विना ।
ऐकान्तिकी हरेर्भक्तिरुत्पातायैव कल्प्यते ॥

इति दोषो दुर्वार एव । तेन सगुणानां गुणातीतानामपि, वेदानाविषयास्त्रैगुण्या निस्त्रैगुण्याश्च । तत्र त्वं तु निस्त्रैगुण्यो भव । निर्गुणया मद्भक्त्यैव त्रिगुणात्मकेभ्यस्तेभ्यो निष्क्रान्तो भव । तत एव निर्द्वन्द्वो गुणमयमानापमानादिरहितः । अतएव नित्यैः सत्त्वैः प्राणिभिर्मद्भक्तैरेव सह तिष्ठतीति तथा सः । नित्यं सत्त्वगुणस्थो भवेति व्याख्यायां निस्त्रैगुण्यो भएति व्याख्यायां विरोधः स्यात् । अलब्धलाभो योगः, लब्धस्य रक्षणं क्षेमस्तद्रहितः । मद्भक्तिरसास्वादवशादेव तयोरननुसन्धानात् । योगक्षेमं वहाम्यहमित्भक्तवत्सलेन मयैव तद्भारवहनात्
। आत्मवान्मद्दत्तबुद्धियुक्तः । अत्र निस्त्रैगुण्यत्रैगुण्ययोर्विवेचनम् । यदुक्तमेकादशे

मदर्पणं निष्फलं वा सात्त्विकं निजकर्म यत् ।
राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ [Bह्ড়् ११.२५.२३]

निष्फलं वेति नैमित्तिकं निजकर्मफलाकाङ्क्ष्यारहितमित्यर्थः ।

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् ।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥
वनं तु सात्त्विको वासो ग्रामो राजस उच्यते ।
तामसं द्युतसदनं मन्निकेतं तु निर्गुणम् ॥
सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः ।
तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः ॥
सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।
तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥
पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम् ।
राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि ॥
सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ [Bह्ড়् ११.२५.२४२९] इति ।

इत्यन्तेन ग्रन्थेन त्रैगुण्यवस्तून्यपि भक्त्या स्वस्मिन् कथञ्चित्स्थितस्य त्रैगुण्यस्य निर्जयोऽप्युक्तस्तदनन्तरमेव । यथा

द्रव्यं देशस्तथा कालो ज्ञानं कर्म च कारकः ।
श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्यः सर्व एव हि ॥
सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः ।
दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥
एताः संसृतयः पुंसो गुणकर्मनिबन्धनाः ।
येनेमे निर्जिताः सौम्य गुणाजीवेन चित्तजाः ।
भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते ॥ [Bह्ড়् ११.२५.३०३२]

तस्माद्भक्त्यैव निर्गुणया त्रैगुण्यजयो नान्यथा । अत्राप्यग्रे कथं चैतांस्त्रीन् गुणानतिवर्तते इति प्रश्ने वक्ष्यते

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ [ङीता १४.२६]

श्रीस्वामिचरणानां व्याख्या च चकारोऽत्रावधारणार्थः । मामेव परमेश्वरमव्यभिचारेण भक्तियोगेन यः सेवते इत्येषा ।
निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५॥

बलदेवः ननु फलनैरपेक्ष्येण कर्माणि कुर्वाणानपि तानि स्वफलैर्योजयेयुस्तत्स्वाभाव्यात्ततः कथं तद्बुद्धेः सम्भव इति चेत्तत्राह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यम् । गुणवचनब्राह्मणादिभ्यः कर्मणि च इति सूत्रात्[ড়ाण्५.१.१२४] ष्यञ्सकामत्वमित्यर्थः । तद्विषया वेदाः कर्मकाण्डानि त्वं तु तच्छिरोभूतवेदान्तनिष्ठो निस्त्रैगुण्यो निष्कामो भव ।

अयमर्थः पितृकोटिवत्सलो हि वेदोऽनादिभगवद्विमुखान्मायागुणैर्निबद्धांस्तद्गुणसृष्टसात्त्विकादिसुखसक्तान् प्रति तत्कामाननुरुध्य फलानि प्रकाशयन् स्वस्मिंस्तान् विश्रम्भयति । तद्विश्रम्भेण तत्परिशीलिनस्ते तन्मूर्धभूतोपनिसत्प्रतीतयाथात्म्यनिश्चयेन तां बुद्धिं यान्तीति न चाकामितान्यपि तान्यापतेयुः कामितानामेव तेषां फलत्वश्रवणात् । न च सर्वेषां वेदानां त्रैगुण्यविषयत्वं निस्त्रैगुण्यताया अप्रामाणिकत्वापत्तेः ।

ननु शीतोष्णादिनिवारणाय मात्रास्पर्शास्तु कौन्तेयेत्यादि विमर्शेन द्वन्द्वसहो भव । तत्र हेतुर्नित्येति । नित्यं यत्सत्त्वमपरिणामित्वं जीवनिष्ठं तत्स्थस्तद्विभाव्येत्यर्थः । तत एव निर्योगक्षेमः । अलब्धलाभो योगः लब्धस्य परिरक्षणं क्षेमं तद्रहितो भवेत्यर्थः ।

ननु क्षुत्पिपासे तथापि वाधिके इति चेत्तत्राह आत्मवानिति । आत्मा विश्वम्भरः परमात्मा स यस्य ध्येयतयास्ति तादृशो भवेत्यर्थः । स ते देहयात्रां सम्पादयेदित्यर्थः ॥४५॥

__________________________________________________________

भगवद्गीता २.४६

यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥४६॥

श्रीधरः ननु वेदोक्तनानाफलत्यागेन निषामतयेश्वराराधनविषया व्यवसायात्मिका बुद्धिः कुबुद्धिरेवेत्याशड्क्याह यावानिति । उदकं पीयते यस्मिंस्तदुदपानं वापीकूपतडागादि । तस्मिन् स्वल्पोदक एकत्र कृत्स्नार्थस्यासम्भवात्तत्र तत्र परिभ्रमणेन विभागशो यावान् स्नानपानादिरर्थः प्रयोजनं भवति तावान् सर्वोऽप्यर्थः सर्वतः संप्लुतोदके महाह्रदे एकत्रैव यथा भवति । एवं यावान् सर्वेषु वेदेषु तत्तत्कर्मफलरूपोऽर्थस्तावान् सर्वोऽपि विजानतो व्यवसायात्मिकाबुद्धियुक्तस्य ब्राह्मणस्य ब्रह्मनिष्ठस्य भवत्येव । ब्रह्मानन्दे क्षुदानन्दानामन्तर्भावात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम्
उपजीवन्ति इति श्रुतेः । तस्मादियमेव सुबुद्धिरित्यर्थः ॥४६॥

मधुसूदनः न चैवं शङ्कनीयं सर्वकामनापरित्यागेन कर्म कुर्वन्नहं तैस्तैः कर्मजनितैरानन्दैर्वञ्चितः स्यामिति । यस्मात्यावानिति । उदपाने क्षुद्रजलाशये । जातावेकवचनम् । यावानर्थो यावत्स्नानपानादिप्रयोजनं भवति सर्वतः संप्लुतोदके महति जलाशये तावानर्थो भवत्येव । यथा हि पर्वतनिर्झराः सर्वतः स्रवन्तः क्वचिदुपत्यकायामेकत्र मिलन्ति तत्र प्रत्येकं जायमानमुदकप्रयोजनं समुदिते सुतरां भवति सर्वेषां निर्झराणामेकत्रैव कासारेऽन्तर्भावात् । एवं सर्वेषु वेदेषु वेदोक्तेषु काम्यकर्मसु यावानर्थो हैरण्यगर्भानन्दपर्यन्तस्
तावान् विजानतो ब्रह्मतत्त्वं साक्षात्कृतवतो ब्राह्मणस्य ब्रह्मबुभूषोर्भवत्येव । क्षुदानन्दानां ब्रह्मानन्दांशत्वात्तत्र क्षुद्रानन्दानामन्तर्भावात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः । एकस्याप्यानन्दस्याविद्याकल्पिततत्तदुपाधिपरिच्छेदमादायांशांशिवद्व्यपदेश आकाशस्येव घटाद्यवच्छेदकल्पनया ।

तथा च निष्कामकर्मभिः शुद्धान्तःकरणस्य तवात्मज्ञानोदये परब्रह्मानन्दप्राप्तिः स्यात्तथैव च सर्वानन्दप्राप्तौ न क्षुद्रानन्दप्राप्तिनिबन्धनवैयग्र्यावकाशः । अतः परमानन्दप्रापकाय तत्त्वज्ञानाय निष्कामकर्माणि कुर्वित्यभिप्रायः । अत्र यथा तथा भवतीतिपदत्रयाध्याहारो यावांस्तावानिति पदद्वयानुषङ्गश्च दार्ष्टान्तिके द्रष्टव्यः ॥४६॥

विश्वनाथः हन्त किं वक्तव्यं निष्कामस्य निर्गुणस्य भक्तियोगस्य माहात्म्यं यस्यैवारम्भणमात्रेऽपि नाशप्रत्यवायौ न स्तः । स्वल्पमात्रेणापि कृतार्थतेत्येकादशेऽप्युद्धवायापि वक्ष्यते

न ह्यङ्गोपक्रमे ध्वंसो
मद्धर्मस्योद्धवाण्वपि ।
मया व्यवसितः सम्यङ्
निर्गुणत्वादनाशिषः ॥ इति । [Bह्ড়् ११.२९.२०]

किन्तु सकामो भक्तियोगोऽपि व्यवसायात्मिकबुद्धिशब्देनोच्यते । इति दृष्टान्तेन साधयति यावानिति । उदपान इति जात्यैकवचनमुदपानेषु कूपेषु । यावानर्थ इति कश्चित्कूपः शौचकर्मार्थकः, कश्चिद्दान्तधावनार्थकः, कश्चिद्वस्त्रधावनाद्यर्थकः, कश्चित्केशादिमार्जनार्थकः, कश्चित्स्नानार्थकः, कश्चित्पानार्थक इत्येवं सर्वतः सर्वेषुदपानेषु यावानर्थो यावन्ति प्रयोजनानीत्यर्थः तस्मिनेकस्मिन्नेव शौचादिकर्मसिद्धेः । किं च, तत्तत्कूपेषु पृथक्पृथक्परिभ्रमणश्रमेण, सरोवरे तु तं विनैव । तथा कूपेषु विरसजलेन सरोवरे तु सुरमजलेनैवेत्यपि विशेषो द्रष्टव्यः
। एवं सर्वेषु वेदेषु तत्तद्देवताराधनेन यावन्तोऽर्थास्तावन्त एकस्य भगवदाराधनेन विजानतो विज्ञस्य ब्राह्मणस्येति ब्रह्म वेदं बेत्तीति ब्रह्मणस्तस्य विजानतो वेदज्ञत्वेऽपि वेदतात्पर्यं भक्तिं विशेषतो जानतः । यथा द्वितीयस्कन्धे

ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम् ।
इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतिम् ॥ [Bह्ড়् २.३.२]

दैवीं मायां तु श्रीकामः इत्याद्युक्त्या,

अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ [Bह्ড়् २.३.१०]

इति मेघाद्यमिश्रस्य सौरकिरणस्य तीव्रत्वमिव भक्तियोगस्य ज्ञानकर्माद्यमिश्रत्वं तीव्रत्वं ज्ञेयम् । अत्र बहुभ्यो बहुकामसिद्धिरिति सर्वथा बहुबुद्धित्वमेव । एकस्माद्भगवत एव सर्वकामसिद्धिरित्यंशेनैकबुद्धित्वादेकबुद्धित्वमेव विषयसाद्गुण्याज्ज्ञेयम् ॥४६॥
बलदेवः ममि सर्वान् वेदानधीयानस्य बहुकालव्ययाद्बहुविक्षेपसम्भवाच्च कथं तद्बुद्धेरभुदयस्तत्राह यावानिति । सर्वतः सम्प्लुतोदकेति । विस्तीर्णे उदपाने जलाशये स्नानाद्यर्थिनो यावान् स्नानपानादिरर्थः प्रयोजनं तावानेव स तेन तस्मात्सम्पद्यते । एवं सर्वेषु सोपनिषत्सु वेदेषु ब्राह्मणस्य वेदाध्यायिनो विजानत आत्मयाथात्म्यज्ञानं लब्धुकामस्य यावान् तज्ज्ञानसिद्धिलक्षणोऽर्थः स्यात्तावानेव तेन तेभ्यः सम्पाद्यते इत्यर्थः । तथा च स्वशाखयैव सोपनिषदाचिरेणैव तत्सिद्धौ तद्बुद्धिरभुदियादेवेति । इह दार्ष्टान्तिकेऽपि यावांस्तावानिति पदद्वयमनुषञ्जनीयम्
॥४६॥

__________________________________________________________

भगवद्गीता २.४७

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥४७॥

श्रीधरः तर्हि सर्वाणि कर्मफलानि परमेश्वराराधनादेव भविष्यन्तीत्यभिसन्धाय प्रवर्तेत । किं कर्मणा इत्याशङ्क्य तद्वारयन्नाह कर्मण्येवेति । ते तव तत्त्वज्ञानार्थिनः कर्मण्येवाधिकारः । तत्फलेषु अधिकारः कामो मास्तु । ननु कर्मणि कृति तत्फलं स्यादेव भोजने कृते तृप्तिवत् । इत्याशङ्क्याह मेति । मा कर्मफलहेतुर्भूः । कर्मफलं प्रवृत्तिहेतुर्यस्य स तथाभूतो मा भूः । काम्यमानस्यैव स्वर्गादेर्नियोज्यविशेषणत्वेन फलत्वादकामितं फलं न स्यादिति भावः । अतएव फलं बन्धकं भविष्यतीति भयादकर्मणि कर्माकरणेऽपि तव सङ्गो निष्ठा मास्तु ॥४७॥

मधुसूदनः ननु निष्कामकर्मभिरात्मज्ञानं सम्पाद्य परानन्दप्राप्तिः क्रियते चेदात्मज्ञानमेव तर्हि सम्पाद्यं किं बह्वायासैः कर्मभिर्बहिरङ्गसाधनभूतैरित्याशङ्क्याह कर्मण्येवेति । ते तवाशुद्धान्तःकरणस्य तात्त्विकज्ञानोत्पत्त्ययोग्यस्य कर्मण्येवान्तःकरणशोधकेऽधिकारो मयेदं कर्तव्यमिति बोधोऽस्तु न ज्ञाननिष्ठारूपं वेदान्तवाक्यविचारादौ । कर्म च कुर्वतस्तव तत्फलेषु स्वर्गादिषु कदाचन कस्यांचिदप्यवस्थायां कर्मानुष्ठानात्प्रागूर्ध्वं तत्काले वाधिकारो मयेदं भोक्तव्यमिति बोधो मास्तु ।

ननु मयेदं भोक्तव्यमिति बुद्ध्यभावेऽपि कर्म स्वसामार्थ्यादेव फलं जनयिष्यतीति चेन्नेत्याह मा कर्मफलहेतुर्भूः । फलकामनया हि कर्म कुर्वन् फलस्य हेतेउरुत्पादको भवति । त्वं तु निष्कामः सन् कर्मफलहेतुर्मा भूः । न हि निष्कामेन भगवदर्पणबुद्ध्या कृतं कर्म फलाय कल्पत इत्युक्तम् । फलाभावे किं कर्मणेत्यत आह मा ते सङ्गोऽस्त्वकर्मणि । यदि फलं नेष्यते किं कर्मणा दुःखरूपेणेत्यकरणे तव प्रीतिर्मा भूत् ॥४७॥

विश्वनाथः एवमेकमेवार्जुनं स्वप्रियसखं लक्षीकृत्य ज्ञानभक्तिकर्मयोगानाचिख्यासुर्भगवान् ज्ञानभक्तियोगौ प्रोच्य तयोरर्जुनस्यानधिकारः विमृश्य निष्कामकर्मयोगमाह कर्मणीति । मा फलेष्विति फलाकाङ्क्षिणोऽप्यत्यन्तशुद्धचित्ता भवन्ति । त्वं तु प्रायः शुद्धचित्त इति मया ज्ञात्वैवोच्यस इति भावः ।

ननु कर्मणि कृते फलमवश्यं भविष्यत्येवेति । तत्राह मा कर्मफलहेतुर्भूः फलकामनया हि कर्म कुर्वन् फलस्य हेतुरुत्पादको भवति । त्वं तु तादृशो मा भूरित्याशीर्मया दीयत इत्यर्थः । अकर्मणि स्वधर्माकरणे विकर्मणि पापे वा सङ्गस्तव मास्तु, किन्तु द्वेष एवास्त्विति पुनरप्याशीर्दीयत इति । अत्राग्रिमाध्याये व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे इत्यर्जुनोक्तिदर्शनादत्राध्याये पूर्वोत्तरवाक्यानामवतारिकाभिर्नातीव सङ्गतिर्विधित्सितेति ज्ञेयम् । किन्तु त्वआज्ञायां सारथ्यादौ यथाहं तिष्ठामि, तथा त्वमपि मदाज्ञायां तिष्ठेति कृष्णार्जुनयोर्मनोऽनुलापोऽयमत्र द्रष्टव्यः ॥४७॥

बलदेवः ननु कर्मभिर्ज्ञानसिद्धिरिष्यते चेत्तर्हि तस्य शमादीन्येवान्तरङ्गत्वादनुष्ठेयानि सन्तु किं बहु प्रयासैस्तैरिति चेत्तत्राह कर्मण्येवेति । जातावेकवचनम् । ते तव स्वधर्मेऽपि युद्धेऽधर्मबुद्धेरशुद्धचित्तस्य तावत्कर्मस्वेव युद्धादिष्वधिकारोऽस्तु मयैतानि भोक्तव्यानीति तत्फलेषु बन्धकेषु तवाधिकारो मास्तु मयैतानि भोक्तव्यानीति ।

ननु फलेच्छाविरहेऽपि तानि स्वफऐर्योजयेयुरिति चेत्तत्राह मा कर्मेति । कर्मफलानां हेतुरुत्पादकस्त्वं माभूः कामनया कृतानि तानि स्वफलैर्योजयन्ति कामितानामेव फलानां नियोज्यविशेषणत्वेन फलत्वाम्नातात् । अतएव बन्धकानि फलानि आपतिष्यन्तीति भयादकर्मणि कर्माकरणे तव सङ्गः प्रीतिर्मास्तु किन्तु विद्वेष एवास्त्वित्यर्थः । निष्कामतयानुष्ठितानि कर्माणि यष्टिधान्यवदन्तरेव ज्ञाननिष्ठां निष्पादयिष्यन्ति । शमादीनि तु तत्पृष्ठलग्नान्येव स्युरिति भावः ॥४७॥

__________________________________________________________

भगवद्गीता २.४८

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥४८॥

श्रीधरः किं तर्हि ? योगस्थ इति । योगः परमेश्वरैकपरता । तत्र स्थितः कर्माणि कुरु । तथा सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलमीश्वराश्रयेणैव कुरु । तत्फलस्य ज्ञानस्यापि सिद्ध्यसिद्ध्योः समो भूत्वा केवलमीश्वराश्रयेणैव कुरु । यत एवंभूतं समत्वमेव योग उच्यते सद्भिः चित्तसमाधानरूपत्वात् ॥४८॥

मधुसूदनः पूर्वोक्तमेव विवृणोति योगस्थ इति । हे धनञ्जय त्वं योगस्थः सन् सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा कर्माणि कुरु । अत्र बहुवचनात्कर्मण्येवाधिकारस्त इत्यत्र जातावेकवचनम् । सङ्गत्यागोपायमाह सिद्ध्यसिद्ध्योः समो भूत्वा फलसिद्धौ हर्षं फलासिद्धौ च विषादं त्यक्त्वा केवलमीश्वराराधनबुद्ध्या कर्माणि कुर्विति ।

ननु योगशब्देन प्राक्कर्मोक्तम् । अत्र तु योगस्थः कर्माणि कुर्वित्युच्यते । अतः कथमेतद्बोद्ध्य्ं शक्यमित्यत आह समत्वं योग उच्यते । यदेतत्सिद्ध्यसिद्ध्योः समत्वमिदमेव योगस्थ इत्यत्र योगशब्देनोच्यते न तु कर्मेति न कोऽपि विरोध इत्यर्थः । अत्र पूर्वार्धस्योत्तरार्धेन व्याख्यानं क्रियत इत्यपौनरुक्त्यमिति भाष्यकारीयः पन्थाः । सुखदुःखे समे कृत्वा इत्यत्र जयाजयसाम्येन युद्धमात्रकर्तव्यता प्रकृतत्वादुक्ता । इह तु दृष्टादृष्टसर्वफलपरित्यागेन सर्वकर्मकर्तव्यतेति विशेषः ॥४८॥

विश्वनाथः निष्कामकर्मणः प्रकारं शिक्षयति योगस्थ इति । तेन जयाजययोस्तुल्यबुद्धिः सन् सङ्ग्राममेव स्वधर्मं कुर्विति भावः । अयं निष्कामकर्मयोग एव ज्ञानयोगत्वेन परिणमतीति । ज्ञानयोगोऽप्येवं पूर्वोत्तरग्रन्थार्थतात्पर्यतो ज्ञेयः ॥४८॥

बलदेवः पूर्वोक्तं विशदयति योगस्थ इति । त्वं सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा योगस्थः सन् कर्माणि कुरु युद्धादीनि । आद्येन मायानिमज्जनमेव । द्वितीयेन तु स्वातन्त्र्यलक्षणपरेशधर्मचौर्यम् । तेन तन्मायाव्याकोपः । अतस्तयोः परित्याग इति भावः । योगस्थपदं विवृणोति सिद्ध्यसिद्ध्योरिति । तदनुषङ्गफलानां जयादीनां सिद्धावसिद्धौ च समो भूत्वा रागद्वेषरहितः सन् कुरु । इदमेव समत्वं मया योगस्थ इत्यत्र योगशब्देनोक्तं चित्तसमाधिरूपत्वात् ॥४८॥

__________________________________________________________

भगवद्गीता २.४९

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥४९॥

श्रीधरः काम्यं तु कर्मातिनिकृष्टमित्याह दूरेणेति । बुद्ध्या व्यवसायात्मिकया कृतः कर्मयोगो बुद्धियोगो बुद्धिसाधनभूतो वा, तस्मात्सकाशादन्यत्साधनभूतं काम्यं कर्म दूरेण अवरं अत्यन्तमपकृष्टं हि । यस्मादेवं तस्माद्बुद्धौ ज्ञाने शरणमाश्रयं कर्मयोगमन्विच्छ अनुतिष्ठ । यद्वा बुद्धौ शरणं त्रातारमीश्वरमाश्रयेत्यर्थः । फलहेतुरस्तु सकामा नराः कृपणा दीनाः यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [Bआऊ ३.८.१०] इति श्रुतेः ॥४९॥

मधुसूदनः ननु किं कर्मानुष्ठानमेव पुरुषार्थो येन निष्फलमेव सदा कर्तव्यमित्युच्यते प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति न्यायात् । तद्वरं फलकामनयैव कर्मानुष्ठानमिति चेन्नेत्याह दूरेणेति । बुद्धियोगादात्मबुद्धिसाधनभूतान्निष्कामकर्मयोगाद्दूरेणातिविप्रकर्षेणावरमधमं कर्म फलाभिसन्धिना क्रियमाणं जन्ममरणहेतुभूतम् । अथवा परमात्मबुद्धियोगाद्दूरेणावरं सर्वमपि कर्म यस्माद्, हे धनञ्जय, तस्माद्बुद्धौ परमात्मबुद्धौ सर्वानर्थनिवर्तिकायां शरणं प्रतिबन्धकपापक्षयेण रक्षकं निष्कामकर्मयोगमन्विच्छ कर्तुमिच्छ
। ये तु फलहेतवः फलकामा अवरं कर्म कुर्वन्ति ते कृपणाः सर्वदा जन्ममरणादिघटीयन्त्रभ्रमणेन परवशा अत्यन्तदीना इत्यर्थः । यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपण [Bआऊ ३.८.१०] इति श्रुतेः । तथा च त्वमपि कृपणो मा भूः किन्तु सर्वानर्थनिवर्तकात्मज्ञानोत्पादकं निष्कामकर्मयोगमेवानुतिष्ठेत्यभिप्रायः । यथा हि कृपणा जना अतिदुःखेन धनमर्जयन्तो यत्किंचिद्दृष्टसुखमात्रलोभेन दानादिजनितं महत्सुखमनुभवितुं न शक्नुवन्तीत्यात्मानमेव वञ्चयन्ति तथा महता दुःखेन कर्माणि कुर्वाणाः क्षुद्रफलमात्रलोभेन परमानन्दानुभवेन
वञ्चिता इत्यहो दौर्भाग्यं मौढ्यं च तेषामिति कृपणपदेन ध्वनितम् ॥४९॥

विश्वनाथः सकामकर्म निन्दति दूरेणेति । अवरमतिनिकृष्टं काम्यं कर्म । बुद्धियोगात्परमेश्वरार्पितनिषामकर्मयोगात् । बुद्धौ निष्कामकर्मण्येव बुद्धियोगो निष्कामकर्मयोगः ॥४९॥

बलदेवः अथ काम्यकर्मणो निकृष्टत्वमाह दूरेणेति । बुद्धियोगादवरं कर्म दूरेण, हे धनञ्जय, आत्मयाथात्म्यबुद्धिसाधनभूतान्निष्कामकर्मयोगात्दूरेणातिविप्रकर्षेणावरमत्यपकृष्टं जन्ममरणाद्यनर्थनिमित्तं काम्यं कर्मेत्यर्थः । हि यस्मादेवमतस्त्वं बुद्धौ तद्याथात्म्यज्ञाने शरणमाश्रयं निष्कामकर्मयोगमन्विच्छ कुरु । ये तु फलहेतवः फलकामा अवरकर्मकारिणस्ते कृपणास्तत्फलजन्मकर्मादिप्रवाहपरवशा दीना इत्यर्थः । तथा च त्वं कृपणो माभूरिति इह कृपणाः खलु कष्टोपार्जितवित्तादृष्टसुखलवलुब्धा वित्तानि दातुमसमर्था महता
दानसुखेन वञ्चितास्तथा कष्टानुष्ठितकर्माणस्तुच्छतत्फललुब्धा महतात्मसुखेन वञ्चिता भवन्तीति व्यज्यते ॥४९॥

__________________________________________________________

भगवद्गीता २.५०

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५०॥

श्रीधरः बुद्धियोगयुक्तस्तु श्रेष्ठ इत्याह बुद्धियुक्त इति । सुकृतं स्वर्गादिप्रापकं दुष्कृतं निरयादिप्रापकम् । ते उभे इहैव जन्मनि परमेश्वरप्रसादेन त्यजति । तस्माद्योगाय तदर्थाय कर्मयोगाय युज्यस्व घटस्व । योगो हि कर्मसु कौशलम् । स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिरीश्वरार्पितचेतस्तया तत्कौशलं कुशलभावः । तद्धि कौशलं यद्बन्धस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावान्निवर्तन्ते । तस्मात्समत्वबुद्धियुक्तो भव त्वम् ॥५०॥

मधुसूदनः एवं बुद्धियोगाभावे दोषमुक्त्वा तद्भावे गुणमाह बुद्धीति । इह कर्मसु बुद्धियुक्तः समत्वबुद्ध्या युक्तो जहाति परित्यजति उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण । यस्मादेवं तस्मात्समत्वबुद्धियोगाय त्वं युज्यस्व घटस्वोद्युक्तो भव । यस्मादीदृशः समत्वबुद्धियोग ईश्वरार्पितचेतसः कर्मसु प्रवर्तमानस्य कौशलं कुशलभावो यद्बन्धहेतूनामपि कर्मणां तदभावो मोक्षपर्यवसायित्वं च तन्महत्कौशलम् ।

समत्वबुद्धियुक्तः कर्मयोगः कर्मात्मापि सन् दुष्टकर्मक्षयं करोतीति महाकुशलः । त्वं तु न कुशलो यतश्चेतनोऽपि सन् सजातीयदुष्टक्षयं न करोषीति व्यतिरेकोऽत्र ध्वनितः । अथवा इह समत्वबुद्धियुक्ते कर्मणि कृते सति सत्त्वशुद्धिद्वारेण बुद्धियुक्तः परमात्मसाक्षात्कारवान् सञ्जहात्युभे सुकृतदुष्कृते । तस्मात्समत्वबुद्धियुक्ताय कर्मयोगाय युज्यस्व । यस्मात्कर्मसु मध्ये समत्वबुद्धियुक्तः कर्मयोगः कौशलं कुशलो दुष्टकर्मनिवारणचतुर इत्यर्थः ॥५०॥

विश्वनाथः योगायोक्तलक्षणाय युज्यस्व घटस्व । यतः कर्मसु सकामनिष्कामेषु मध्ये योग एवोदासीनत्वेन कर्मकरणमेव । कौशलं नैपुण्यमित्यर्थः ॥५०॥

बलदेवः उक्तस्य बुद्धियोगस्य प्रभावमाह बुद्धीति । इह कर्मसु यो बुद्धियुक्तः प्रधानफलत्यागविषयानुषङ्गफलसिद्ध्यसिद्धिसमत्वविषयया च बुद्ध्या युक्तस्तानि करोति, स उभे अनादिकालसञ्चिते ज्ञानप्रतिबन्धके सुकृतदुष्कृते जहाति विनाशयतीत्यर्थः । तस्मादुक्ताय बुद्धियोगाय युज्यस्व घटस्व । यस्मात्कर्मयोगस्तादृशबुद्धिसम्बन्धः । कौशलं चातुर्यं बन्धकानामेव बुद्धिसम्पर्काद्विशोधितविषपारदन्यायेन मोचकत्वेन परिणामात् ॥५०॥

__________________________________________________________

भगवद्गीता २.५१

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥५१॥

श्रीधरः कर्मणां मोक्षसाधनत्वप्रकारमाह कर्मजमिति । कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थं कर्म कुर्वाणो मनीषिणो ज्ञानिनो भूत्वा जन्मरूपेण बन्धेन विनिर्मुक्ताः सन्तोऽनामयं सर्वोपद्रवरहितं विष्णोः पदं मोक्षाख्यं गच्छन्ति ॥५१॥

मधुसूदनः ननु दुष्कृतहानमपेक्षितं न तु सुकृतहानं पुरुषार्थभ्रंशापत्तेरित्याशङ्क्य तुच्छफलत्यागेन परमपुरुषार्थप्राप्तिं फलमाह कर्मजमिति । समत्वबुद्धियुक्ता हि यस्मात्कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थं कर्माणि कुर्वाणाः सत्त्वशुद्धिद्वारेण मनीषिणस्तत्त्वमसि इत्यादिवाक्यजन्यात्ममनीषावन्तो भवन्ति । तादृशाश्च सन्तो जन्मात्मकेन बन्धेन विनिर्मुक्ता विशेषेणात्यन्तिकत्वलक्षणेन निरवशेषं मुक्ताः पदं पदनीयमात्मतत्त्वमानन्दरूपं ब्रह्मानामयमविद्यातत्कार्यात्मकरोगरहिताभयं
मोक्षाख्यं पुरुषार्थं गच्छन्त्यभेदेन प्राप्नुवन्तीत्यर्थः ।

यस्मादेवं फलकामनां त्यक्त्वा समत्वबुद्ध्या कर्माण्यनुतिष्ठन्तस्तैः कृतान्तःकरणशुद्धयस्तत्त्वमस्यादिप्रमाणोत्पन्नात्मतत्त्वज्ञानतत्कार्याः सन्तः सकलानर्थनिवृत्तिपरमानन्दप्राप्तिरूपं मोक्षाख्यं विष्णोः परमं पदं गच्छन्ति तस्मात्त्वमपि यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे [ङीता २.७] इत्युक्तेः श्रेयो जिज्ञासुरेवंविधं कर्मयोगमनुतिष्ठेति भगवतोऽभिप्रायः ॥५१॥

विश्वनाथः णोथिन्ग्.

बलदेवः कर्मजमिति । बुद्धियुक्तास्तादृशबुद्धिमन्तः कर्मजं फलं त्यक्त्वा कर्माण्यनुतिष्ठन्तो मनीषिणः कर्मान्तर्गतात्मयाथात्म्यप्रज्ञावन्तो भूत्वा जन्मबन्धेन विनिर्मुक्ताः सन्तोऽनामयं क्लेशशून्यं पदं वैकुण्ठं गच्छन्तीति । तस्मात्त्वमपि श्रेयो जिज्ञासुरेवं विधानि कर्माणि कुर्विति भावः । स्वात्मज्ञानस्य परमात्मज्ञानहेतुत्वात्तस्यापि तत्पदगतिहेतुत्वं युक्तम् ॥५१॥

__________________________________________________________

भगवद्गीता २.५२

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥५२॥

श्रीधरः कदाहं तत्पदं प्राप्स्यामि इत्यपेक्षायामाह यदेति द्वाभ्याम् । मोहो देहादिषु आत्मबुद्धिः । तदेव कलिलं गहनम् । कलिलं गहनं विदुरित्यभिधानकोषस्मृतेः । ततश्चायमर्थः । एवं परमेश्वराराधने क्रियमाणे यदा तत्प्रसादेन तव बुद्धिर्देहाभिमानलक्षणं मोहमयं गहनं दुर्गं विशेषेणातितरिष्यति तदा श्रोतव्यस्य श्रुतस्य चार्थस्य निर्वेदं वैराग्यं गन्तासि प्राप्स्यसि । तयोरनुपादेयत्वेन जिज्ञासां न करिष्यसीत्यर्थः ॥५२॥

मधुसूदनः एवं कर्माण्यनुतिष्ठतः कदा मे सत्त्वशुद्धिः स्यादित्यत आह यदेति । न ह्येतावता कालेन सत्त्वशुद्धिर्भवतीति कालनियमोऽस्ति । किन्तु यदा यस्मिन् काले ते तव बुद्धिरन्तःकरणं मोहकलिलं व्यतितरिष्यति अविवेकात
्मकं कालुषमहमिदं ममेदं इत्याद्यज्ञानविलसितमतिगहनं व्यतिक्रमिष्यति रजस्तमोमलमपहाय शुद्धभावमापत्स्यत इति यावत् । तदा तस्मिन् काले श्रोतव्यस्य श्रुतस्य च कर्मफलस्य निर्वेदं वैतृष्ण्यं गन्तासि प्राप्तासि । परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्[ंुण्डू १.२.१२] इति श्रुतेः । निर्वेदेन फलेनान्तःकरणशुद्धिं ज्ञास्यसीत्य्
अभिप्रायः ॥५२॥

विश्वनाथः एवं परमेश्वरार्पितनिष्कामकर्माभ्यासात्तव योगो भविष्यतीत्याह यदेति । तव बुद्धिरन्तःकरणं मोहकलिलं मोहरूपं गहनं विशेषतोऽतिशयेन तरिष्यति, तदा श्रोतव्यस्य श्रोतव्येष्वर्थेषु श्रुतस्य श्रुतेष्वप्यर्थेषु निर्वेदं प्राप्स्यसि असम्भावनाविपरीतभावनयोर्नष्टत्वात्किं मे शास्त्रोपदेशवाक्यश्रवणेन । साम्प्रतं मे साधनेष्वेव प्रतिक्षणमभ्यासः सर्वथोचित इति मंस्यस इति भावः ॥५२॥

बलदेवः ननु निष्कामाणि कर्माणि कुर्वतो मे कदात्मविषया मनीषाभ्युदियादिति चेत्तत्राह यदेति । यदा ते बुद्धिरन्तःकरणं मोहकलिलं तुच्छफलाभिलाषहेतुमज्ञानगहनं व्यतितरिष्यति परित्यक्ष्यतीत्यर्थः, तदा पूर्वं श्रुतस्यानन्तरं श्रोतव्यस्य च तस्य तुच्छफलस्य सम्बन्धिनं निर्वेदं गन्तासि गमिष्यसि । परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदं आयातिति श्रवणात् । निर्वेदेन फलेन तद्विषयां तां परिचेष्यति इति नास्त्यत्र कालनियम इत्यर्थः ॥५२॥

__________________________________________________________

भगवद्गीता २.५३

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यस्यि ॥५३॥

श्रीधरः ततश्च श्रुतीति । श्रुतिभिर्नानालौकिकवैदिकार्थश्रवणैर्विप्रतिपन्ना । इतः पूर्वं विक्षिप्ता सती तव बुद्धिर्यदा समाधौ स्थास्यति । समाधीयते चित्तमस्मिन्निति समाधिः परमेश्वरः । तस्मिन्निश्चला विषयैरन्तरैरनाकृष्टा । अतएवाचला । अभ्यासपाटवेन तत्रैव स्थिरा च सती योगं योगफलं तत्त्वज्ञानमवाप्स्यसि ॥५३॥

मधुसूदनः अन्तःकरणशुद्ध्यैवं जातनिर्वेदस्य कदा ज्ञानप्राप्तिरित्यपेक्षायामाह श्रुतीति । ते तव बुद्धिः श्रुतिभिर्नानाविधफलश्रवणैरविचारिततात्पर्यैर्विप्रतिपन्नाऽनेकविधसंशयविपर्यासवत्त्वेन विक्षिप्ता प्राक् । यदा यस्मिन् काले शुद्धिजविवेकजनितेन दोषदर्शनेन तं विक्षेपं परित्यज्य समाधौ पर्मात्मनि निश्चला जाग्रत्स्वप्नदर्शनलक्षणविक्षेपरहिताचला सुषुप्तिमूर्च्छास्तब्धीभावादिरूपलयलक्षणचलनरहिता सती स्थास्यति लयविक्षेपलक्षणौ दोषौ परित्यज्य समाहिता भविष्यतीति यावत् । अथवा निश्चलासम्भावनाविपरीतभावनारहिताचला दीर्घकालादरनैरन्तर्यसत्कारसेवनैर्
विजातीयप्रत्ययादूषिता सती निर्वातप्रदीपवदात्मनि स्थास्यतीति योजना । तदा तस्मिन् काले योगं जीवपरमात्मैक्यलक्षणं तत्त्वमसीत्यादिवाक्यजन्यमखण्डसाक्षात्कारं सर्वयोगफलमवाप्स्यसि । तदा पुनः साध्यान्तराभावात्कृतकृत्यः स्थितप्रज्ञो भविष्यसीत्यभिप्रायः ॥५३॥

विश्वनाथः ततश्च श्रुतिषु नानालौकिकवैदिकार्थश्रवणेषु विप्रतिपन्ना असम्मता विरकेतित्यावत् । तत्र हेतुः निश्चला तेषु तेष्वर्थेषु चलितुं विमुखीभूतेत्यर्थः । किन्तु समाधौ षष्ठेऽध्याये वक्ष्यमाणलक्षणेऽचला स्थैर्यवती । तदा योगमपरोक्षानुभवप्राप्त्या, जीवन्मुक्त इत्यर्थः ॥५३॥

बलदेवः ननु कर्मफलनिर्विण्णतया कर्मानुष्ठानेन लब्धहृद्विशुद्धेरभ्युदितात्मज्ञानस्य मे कदात्मसाक्षात्कृतिरिति चेत्तत्राह श्रुतीति । श्रुत्या कर्मणां ज्ञानगर्भतां प्रबोधयन्त्या तमेतमित्यादिकया विप्रतिपन्ना विशेषेण संसिद्धा ते बुद्धिरचला असम्भावनाविपरीतभावनाभ्यां विरहिता यदा समाधौ मनसि निर्वातदीपशिखेव निश्चला स्थास्यति तदा योगमात्मानुभवलक्षणमवाप्स्यसि । अयमर्थः फलाभिलाषशून्यतयानुष्ठितानि कर्माणि स्थितप्रज्ञतारूपां ज्ञाननिष्ठां साधयन्ति । ज्ञाननिष्ठारूपा स्थितप्रज्ञता त्वात्मानुभवमिति ॥५३॥

__________________________________________________________

भगवद्गीता २.५४

अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥५४॥

श्रीधरः पूर्वश्लोकोक्तस्यात्मतत्त्वज्ञस्य लक्षणं जिज्ञासुरर्जुन उवाच स्थितप्रज्ञस्येति । स्वाभाविके समाधौ स्थितस्य, अतएव स्थिता निश्चला प्रज्ञा बुद्धिर्यस्य तस्य भाषा का ? भाष्यतेऽनया इति भाषा लक्षणमिति यावत् । स केन लक्षणेन स्थितप्रज्ञ उच्यते इत्यर्थः । तथा स्थितधीः किं कथं भाषणमासनं व्रजनं च कुर्यादित्यर्थः ॥५४॥

मधुसूदनः एवं लब्धावसरः स्थितप्रज्ञलक्षणं ज्ञातुमर्जुन उवाच । यान्येव हि जीवन्मुक्तानां लक्षणानि तान्येव मुमुक्षूणां मोक्षोपायभूतानीति मन्वानः । स्थिता निश्चला अहंब्रह्मास्मि इति प्रज्ञा यस्य स स्थितप्रज्ञोऽवस्थाद्वयवान् समाधिस्थो व्युत्थितचित्तश्चेति । अतो विशिनष्टि समाधिस्थस्य स्थितप्रज्ञस्य का भाषा ? कर्मणि षष्ठी । भाष्यतेऽनयेति भाषा लक्षणम् । समाधिस्थः स्थितप्रज्ञः केन लक्षणेनान्यैर्व्यवह्रियत इत्यर्थः ।

स च व्युत्थितचित्तः स्थितधीः स्थितप्रज्ञः स्वयं किं प्रभाषेत ? स्तुतिनिन्दादावभिनन्दनद्वेषादिलक्षणं किं कथं प्रभाषेत ? सर्वत्र सम्भावनायां लिङ् । तथा किमासीतेति व्युत्थितचित्तनिग्रहाय कथं बहिरिन्द्रियाणां निग्रहं करोति ? तन्निग्राहाभावकाले किं व्रजेत कथं विषयान् प्राप्नोति ? तत्कर्तृकभाषणासनव्रजनानि मूढजनविलक्षणानि कीदृशानीइत्यर्थः ।

तदेवं चत्वारः प्रश्नाः समाधिस्थे स्थितप्रज्ञ एकः । व्युत्थिते स्थितप्रज्ञे त्रय इति । केशवेति सम्बोधयन् सर्वान्तर्यामितया त्वमेवैतादृशं रहस्यं वक्तुं समर्थोऽसीति सूचयति ॥५४॥

विश्वनाथः समाधावचला बुद्धिरिति श्रुत्वा तत्त्वतो योगिनो लक्षणं पृच्छति स्थितप्रज्ञस्येति । स्थिता स्थिराचला प्रज्ञ बुद्धिर्यस्येति । का भाषा ? भाष्यतेऽनयेति भाषा लक्षणं किं लक्षणमित्यर्थः । कीदृशस्य समाधिस्थस्येति समाधौ स्थास्यतीति । अस्यार्थः एवं च स्थितप्रज्ञ इति । समाधिस्थ इति जीवन्मुक्तस्य संज्ञाद्वयम् । किं प्रभाषेतेति सुखदुःखयोर्मानापमानयोः स्तुतिनिन्दयोः स्नेहद्वेषयोर्वा समुपस्थितयोः किं प्रभाषेत ? स्पष्टं स्वगतं वा किं वदेदित्यर्थः । किम्
आसीत ? तदिन्द्रियाणां बाह्यविषयेषु चलनाभावः कीदृशः ? व्रजेत किम् ? तेषु चलनं वा कीदृशमिति ॥५४॥

बलदेवः एवमुक्तोऽर्जुनः पूर्वपद्योक्तस्य स्थितप्रज्ञस्य लक्षणं ज्ञातुं पृच्छति स्थितेति । स्थितप्रज्ञेऽत्र चत्वारः प्रश्नाः समाधिस्थे एकः, व्युत्थिते तु त्रयः । तथा हि स्थिता स्थिरा प्रज्ञ धीर्यस्य तस्य समाधिस्थस्य का भाषा किं लक्षणम् ? भाष्यतेऽनयेति व्युत्पत्तेः । केन लक्षणेन स्थितप्रज्ञोऽभिधीयत इत्यर्थः । तथा व्युत्थितः स्थितप्रज्ञः कथं भाषणादीनि कुर्यात्? तदीयानि तानि पृथग्जनविलक्षणानि कीदृशानीत्यर्थः । तत्र किं प्रभाषेत ? स्वयोः स्तुतिनिन्दयोः स्नेहद्वेषयोश्च प्राप्तयोर्
मुखतः स्वगतं वा किं ब्रूयात्? किमासीत बाह्यविषयेषु कथमिन्द्रियाणां निग्रहं कुर्यात्? व्रजेत किम् ? किं तन्निग्राहाभावे च कथं विषयानवाप्नुयादित्यर्थः । त्रिषु सम्भावनायाम् ॥५४॥

__________________________________________________________

भगवद्गीता २.५५

श्रीभगवानुवाच
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥५५॥

श्रीधरः अत्र च यानि साधकस्य ज्ञानसाधनानि तान्येव स्वाभाविकानि सिद्धस्य लक्षणानि । अतः सिद्धस्य लक्षणानि कथयन्नेवान्तरङ्गानि ज्ञानसाधनान्याह यावदध्यायसमाप्ति । तत्र प्रथमप्रश्नस्योत्तरमाह प्रजहातीति द्वाभ्याम् । मनसि स्थितान् कामान् यदा प्रकर्षेण जहाति । त्यागे हेतुमाह आत्मनीति । आत्मन्येव स्वस्मिन्नेव परमानन्दरूपे आत्मना स्वयमेव तुष्ट इत्यात्मारामः सन् यदा क्षुद्रविषयाभिलाषांस्त्यजति तदा तेन लक्षणेन मुनिः स्थितप्रज्ञ उच्यते ॥५५॥

मधुसूदनः एतेषां चतूर्णां प्रश्नानां क्रमेणोत्तरं भगवानुवाच प्रजहातीति यावदध्यायसमाप्ति । कामान् कामसङ्कल्पादीन्मनोवृत्तिविशेषान् प्रमाणविपर्ययविकल्पनिद्रास्मृतिभेदेन तन्त्रान्तरे पञ्चधा प्रपञ्चितान् सर्वान्निरवशेषान् प्रकर्षेण कारणबाधेन यदा जहाति परित्यजति सर्ववृत्तिशून्य एव यदा भवति स्थितप्रज्ञस्तदोच्यते समाधिस्थ इति शेषः । कामानामनात्मधर्मत्वेन परित्यागयोग्यतामाह मनोगतानिति । यदि ह्यात्मधर्माः स्युस्तदा न त्यक्तुं शक्येरन् वह्न्यौष्ण्यवत्स्वाभाविकत्वात् । मनसस्तु धर्मा एते । अतस्तत्परित्यागेन परित्यक्तुअं शक्या एवेत्यर्थः ।
ननु स्थितप्रज्ञस्य मुखप्रसादलिङ्गगम्यः सन्तोषविशेषः प्रतीयते स कथं सर्वकामपरित्यागे स्यादित्याह आत्मन्येव परमानन्दरूपे न त्वनात्मनि तुच्छ आत्म्नआ स्वप्रकाशचिद्रूपेण भासमानेन न तु वृत्त्या तुष्टः परितृप्तः परमपुरुषार्थलाभात् । तथा च श्रुतिः

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ [Kअठू २.३.१४] इति ।

तथा च समाधिस्थः स्थितप्रज्ञ एवंविधैर्लक्षणवाचिभिः शब्दैर्भाष्यत इति प्रथमप्रश्नस्योत्तरम् ॥५५॥

विश्वनाथः चतूर्णां प्रश्नानां क्रमेणोत्तरमाह प्रजहातीति यावदध्यायसमाप्तिः । सर्वानिति कस्मिन्नप्यर्थे यस्य किंचिन्मात्रोऽपि नाभिलाष इत्यर्थः । मनोगतानिति कामानामात्मधर्मत्वेन परित्यागे योग्यता दर्शिता । यदि ते ह्यात्मधर्माः स्युस्तदा तांस्त्यक्तुमशक्येरन् वह्नेरौष्ण्यवदिति भावः । तत्र हेतुः आत्मनि प्रत्याहृते मनसि प्राप्तो य आत्मानन्दरूपस्तेन तुष्टः । तथा च श्रुतिः

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ [Kअठू २.३.१४] इति ॥५५॥

बलदेवः एवं पृष्टो भगवान् क्रमेण चतूर्णां उत्तरमाह यावदध्यायपूर्तिः । तत्र प्रथमस्याह प्रजहातीत्येकेन । हे पार्थ ! यदा मनोगतान्मनसि स्थितान् कामान् सर्वान् प्रजहाति संत्यजति तदा स्थितप्रज्ञ उच्यते । कामानां मनोधर्मत्वात्परित्यागो युक्तः । आत्मधर्मत्वे दुःशक्यः स स्याद्वह्न्युष्णतादीनामिवेति भावः ।

ननु शुष्ककाष्ठवत्कथं तिष्ठतीति चेत्तत्राह आत्मन्येवेति । आत्मनि प्रत्याहृते मनसि भासमानेन स्वप्रकाशानन्दरूपेणात्मना स्वरूपेण तुष्टः परितृप्तः क्षुद्रविषयाभिलाषान् संत्यज्यात्मानन्दारामः समाधिस्थः स्थितप्रज्ञ इत्यर्थः ।

आत्मा पुंसि स्वभावेऽपि प्रयन्तमनसोरपि ।
धृतावपि मनीषायां शरीरब्रह्मणोरपि ॥ इति मेदिनीकारः ।

ब्रह्म चात्र जीवेश्वरान्यतरद्ग्राह्यम् ॥५५॥

__________________________________________________________

भगवद्गीता २.५६

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥५६॥

श्रीधरः किं च दुःखेष्विति । दुःखेषु प्राप्तेष्वपि अनुद्विग्नमक्षुभितं मनो यस्य सः । सुखेषु विगता स्पृहा यस्य सः । तत्र हेतुः वीता अपगता रागभयक्रोधा यस्मात् । तत्र रागः प्रीतिः । स मुनिः स्थितधीरुच्यते ॥५६॥

मधुसूदनः इदानीं व्युत्थितस्य स्थितप्रज्ञस्य भाषणोपवेशनगमनानि मूढजनविलक्षणानि व्याख्येयानि । तत्र किं प्रभाषेतेत्यस्योत्तरमाह दुःखेष्विति द्व्याभ्याम् । दुःखानि त्रिविधानि शोकमोहज्वरशिरोरोगादिनिमित्तान्याध्यात्मिकानि व्याघ्रसर्पादिप्रयुक्तान्याधिभौतिकानि अतिवातातिवृष्ट्यादिहेतुकान्याधिदैविकानि तेषु दुःखेषु रजःपरिणामसन्तापात्मकचित्तवृत्तिविशेषेषु प्रारब्धपापकर्मप्रापितेषु नोद्विग्नं दुःखपरिहाराक्षमतया व्याकुलं न भवति मनो यस्य सोऽनुद्विग्नमनाः । अविवेकिनो हि दुःखप्राप्तौ सत्यामहो पापो
ऽहं धिङ्मां दुरात्मानमेतादृशदुःखभागिनं को मे दुःखमीदृशं निराकुर्यादित्यनुतापात्मको भ्रान्तिरूपस्तामसश्चित्तवृत्तिविशेष उद्वेगाख्यो जायते । यद्ययं पापानुष्ठानसमये स्यात्तदा तत्प्रवृत्तिप्रतिबन्धकत्वेन सफलः स्यात् । भोगकाले तु भवन् कारणे सति कार्यस्योच्छेत्तुमशक्यत्वान्निष्प्रयोजनो दुःखकारणे सत्यपि किमिति मम दुःखं जायते इति अविवेकजभ्रमरूपत्वान्न विवेकिनः स्थितप्रज्ञस्य सम्भवति । दुःखमात्रं हि प्रारब्धकर्मणा प्राप्यते न तु तदुत्तरकालीनो भ्रमोऽपि ।

ननु दुःखान्तरकारणत्वात्सोऽपि प्रारब्धकर्मान्तरेण प्राप्यतामिति चेत्, न । स्थितप्रज्ञस्य भ्रमोपादानाज्ञाननाशेन भ्रमासम्भवआत्तज्जन्यदुःखप्रापकप्रारब्धाभावात् । यथाकथंचिद्देहयात्रामात्रनिर्वाहकप्रारब्धकर्मफलस्य भ्रमाभावेऽपि बाधितानुवृत्त्योपपत्तेरिति विस्तरेणाग्रे वक्ष्यते ।

तथा सुखेषु सत्त्वपरिणामरूपप्रीत्यात्मकचित्तवृत्तिविशेषेषु त्रिविधेषु प्रारब्धपुण्यकर्मप्रापितेषु विगतस्पृह आगामितज्जातीयसुखस्पृहारहितः । स्पृहा हि नाम सुखानुभवकाले तज्जातीयसुखस्य कारणं धर्ममननुष्ठाय वृथैव तदाकाङ्क्षारूपा तामसी चित्तवृत्तिर्भ्रान्तिरेव । सा चाविवेकिन एव जायते । न हि कारणाभावे कार्यं भवितुमर्हति । अतो यथा सति कारणे कार्यं मा भूदिति वृथाकाङ्क्षारूप उद्वेगो विवेकिनो न सम्भवति तथैवासति कारणे कार्यं भूयादिति वृथाकाङ्क्षारूपा तृष्णात्मिका स्पृहापि नोपपद्यते प्रारब्धकर्मणः सुखमात्रप्रापकत्वात् ।

हर्षात्मिका वा चित्तवृत्तिः स्पृहाशब्देनोक्ता । सापि भ्रान्तिरेव । अहो धन्योऽहं यस्य ममेदृशं सुखमुपस्थितं को वा मया तुलस्त्रिभुवने केन वोपायेन ममेदृशं सुखं न विच्छिद्येतेत्येवमात्मिकोत्फुल्लतारूपा तामसी चित्तवृत्तिः । अतएवोक्तं भाष्ये नाग्निरिवेन्धनाद्याधाने यः सुखान्यनुविवर्धते स विगतस्पृहः इति । वक्ष्यति च न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् [ङीता ५.२०] इति । सापि न विवेकिनः सम्भवति भ्रान्तित्वात् ।

तथा वीतरागभयक्रोधः । रागः शोभनाध्यासनिबन्धनो विषयेषु रञ्जनात्मकश्चित्तवृत्तिविशेषोऽत्यन्ताभिनिवेशरूपः । रागविषयस्य नाशके समुपस्थिते तन्निवारणासामर्थ्यमात्मनो मन्यमानस्य दैन्यात्मकश्चित्तवृत्तिविशेषो भयम् । एवं रागविषयविनाशके समुपस्थिते तन्निवारणसामर्थ्यमात्मनो मन्यमानस्याभिज्वलनात्मकश्चित्तवृत्तिविशेषः क्रोधः । ते सर्वे विपर्ययरूपत्वाद्विगता यस्मात्स तथा । एतादृशो मुनिर्मननशीलः संन्यासी स्थितप्रज्ञ उच्यते । एवंलक्षणः स्थितधीः स्वानुभवप्रकटनेन शिष्यशिक्षार्थमनुद्वेगनिस्पृहत्वादिवाचः
प्रभाषेत इत्यन्वय उक्तः । एवं चान्योऽपि मुमुक्षुर्दुःखे नोद्विजेत्सुखे न प्रहृष्येत्, रागभयक्रोधरहितश्च भवेदित्यभिप्रायः ॥५६॥

विश्वनाथः किं प्रभाषेतेत्यस्य उत्तरमाह दुःखेषु क्षुत्पिपासज्वरशिरोरोगादिष्वाध्यात्मिकेषु सर्पव्याघ्राद्युत्थितेष्वनुद्विग्नमनाः प्रारब्धं दुःखमिदं मयावश्यं भोक्तव्यमिति स्वगतं केनचित्पृष्टः सन् स्पष्टं च ब्रुवन् । न दुःखेषूद्विजत इत्यर्थः । तस्य तादृशमुखविक्रियाभाव एवानुद्वेगलिङ्गं सुधिया गम्यम् । कृत्रिमानुद्वेगलिङ्गवांस्तु कपटी । सुधिया परिचितो भ्रष्ट एवोच्यत इति भावः । एवं सुखेष्वप्युपस्थितेषु विगतस्पृह इति प्रारब्धम्
इदमवश्यभोग्यमिति स्वगतं स्पष्टं च ब्रुवाणस्य तस्य सुखस्पृहाराहित्यलिङ्गं सुधिया गम्यमेवेति भावः । तत्तल्लिङ्गमेव स्पष्टीकृत्य दर्शयति वीतो विगतो रागोऽनुरागः सुखेषु बन्धुजनेषु यस्य सः । यथैवादिभरतस्य देव्याः पार्श्वं प्रापितस्य स्वच्छेदचिकीर्षोर्वृषलराजान्न भयम् । नापि तत्र क्रोधोऽभूदिति ॥५६॥

बलदेवः अथ व्युत्थितः स्थितप्रज्ञः किं भाषेतेत्यस्योत्तरमाह दुःखेष्विति द्व्याभ्याम् । त्रिविधेष्वध्यात्मिकादिषु दुःखेषु समुत्थितेषु सत्स्वनुद्विग्नमनाः प्रारब्धफलान्यमूनि मयावश्यं भोक्तव्यानीति केनचित्पृष्टः स्वगतं वा ब्रुवन् तेभ्यो नोद्विजत इत्यर्थः । सुखेषु चोत्तमाहारसत्कारादिना समुपस्थितेषु विगतस्पृहस्तृष्णाशून्यः प्रारब्धाकृष्टान्यमूनि मयावश्यभोक्तव्यानीति केनचित्पृष्टं स्वगतं वा ब्रुवन् तैरुपस्थितः प्रहृष्टमुखो न भवतीत्यर्थः
। वीतेति वीतरागः कमनीयेषु प्रीतिशून्यः । वीतभयः विषयापहर्तृषु प्राप्तेषु दुर्लभस्य ममैतानि धर्म्यैर्भवद्भिर्ह्रियन्त इति दैन्यशून्यः । वीतक्रोधः तेष्वेव प्रबलस्य ममैतानि तुच्छैर्भवद्भिः कथमपहर्तव्यानीति क्रोधशून्यश्च । एवंविधो मुनिरात्ममननशीलः स्थितप्रज्ञ इत्यर्थः । इत्थं स्वानुभवं परान् प्रति स्वगतं वा वदन्नौद्वेगो निस्पृहतादिवचः प्रभाषते इत्युत्तरम् ॥५६॥

__________________________________________________________

भगवद्गीता २.५७

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७॥

श्रीधरः कथं भाषेत इत्यस्योत्तरमाह य इति । यः सर्वत्र पुत्रमित्रादिष्वप्यनभिस्नेहः स्नेहवर्जितः । अतएव बाधितानुवृत्त्या तत्तत्शुभमनुकूलं प्राप्य नाभिनन्दति अशुभं प्रतिकूलं प्राप्य न द्वेष्टि न निन्दति । किन्तु केवलमुदासीन एव भाषते । तस्य प्रज्ञा प्रतिष्ठितेत्यर्थः ॥५७॥

मधुसूदनः किं च । सर्वदेहेषु जीवनादिष्वपि यो मुनिरनभिस्नेहः, यस्मिन् सत्यन्यदीये हानिवृद्धी स्वस्मिन्नारोप्येते स तादृशोऽन्यविषयः प्रेमापरपर्यायस्तामसो वृत्तिविशेषः स्नेहः सर्वप्रकारेण तद्रहितोऽनभिस्नेहः । भगवति परमात्मनि तु सर्वथाभिस्नेहवान् भवेदेव । अनात्मन्स्नेहाभावस्य तदर्थत्वादिति द्रष्टव्यम् ।

तत्तत्प्रारब्धकर्मपरिप्रापितं शुभं सुखहेतुं विषयं प्राप्य नाभिनन्दति हर्षविशेषपुरःसरं न प्रशंसति । अशुभं दुःखहेतुं विषयं प्राप्य न द्वेष्टि अन्तरसूयापूर्वकं न निन्दति । अज्ञस्य हि सुखहेतुर्यः स्वकलत्रादिः स शुभो विषयस्तद्गुणकथनादिप्रवर्तिका धीवृत्तिर्भ्रान्तिरूपाभिनन्दः । स च तामसः, तद्गुणकथनादेः परप्ररोचनार्थत्वाभावेन व्यर्थत्वात् । एवमसूयोत्पादनेन दुःखहेतुः परकीयविद्याप्रकर्षादिरेनं प्रत्यशुभो विषयस्तन्निन्दादिप्रवर्तिका
भ्रान्तिरूपा धीवृत्तिविशेषः । सोऽपि तामसः । तन्निन्दाया निवारणार्थत्वाभावेन व्यर्थत्वात् । तावभिनन्दद्वेषौ भ्रान्तिरूपौ तामसौ कथमभ्रान्ते शुद्धसत्त्वे स्थितप्रज्ञे सम्भवताम् । तस्माद्विचालकाभावात्तस्यानभिस्नेहस्य हर्षविषादरहितस्य मुनेः प्रज्ञा परमात्मतत्त्वविषया प्रतिष्ठिता फलपर्यवसायिनी स स्थितप्रज्ञ इत्यर्थः । एवमन्योऽपि मुमुक्षुः सर्वत्रानभिस्नेहो भवेत् । शुभं प्राप्य न प्रशंसेत्, अशुभं प्राप्य न निन्देदित्यभिप्रायः । अत्र च निन्दाप्रशंसादिरूपा वाचो न प्रभाषेतेति व्यतिरेक उक्तः ॥५७॥

विश्वनाथः अनभिस्नेहः सोपाधिस्नेहशून्यो दयालुत्वान्निरुपाधिरीषन्मात्रस्नेहस्तु तिष्ठेदेव । तत्तत्प्रसिद्धं सम्मानभोजनादिभ्यः स्वपरिचरणं शुभं प्राप्याशुभमनादरणं मुष्टिप्रहारादिकं च प्राप्य क्रमेण नाभिनन्दति । न प्रशंसति त्वं धार्मिकः परमहंससेवी सुखी भवेति न ब्रूते । न द्वेष्टि त्वं पापात्मा नरके पतेति नाभिशपति । तस्य प्रज्ञा प्रतिष्ठिता समाधिं प्रति स्थिता सुस्थिरप्रज्ञा उच्यत इत्यर्थः ॥५७॥

बलदेवः य इति सर्वेषु प्राणिषु अनभिस्नेह औपाधिकस्नेहशून्यः । कारुणिकत्वान्निरुपाधिरीषद्स्नेहस्त्वस्त्येव । तत्तत्प्रसिद्धं शुभमुत्तमभोजनस्रक्चन्दनार्पणरूपं प्राप्य नाभिनन्दति तदर्पकं प्रति धर्मिष्ठस्त्वं चिरं जीवेति न वदति । अशुभमपमानं यष्टिप्रहारादिकं च प्राप्य न द्वेष्टि, पापिष्ठस्त्वं मिर्यस्वेति नाभिशपति । तस्य प्रज्ञेति स स्थितप्रज्ञ इत्यर्थः । अत्र स्तुतिनिन्दारूपं वचो न भाषत इति व्यतिरेकेण तल्लक्षणम् ॥५७॥

__________________________________________________________

भगवद्गीता २.५८

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥५८॥

श्रीधरः किं च यदेति । यदा चायं योगी इन्द्रियार्थेभ्यः शब्दादिभ्यः सकाशादिन्द्रियाणि संहरते सर्वत एवं ज्ञाननिष्ठ इन्द्रियाणीनिद्र्यार्थेभ्यः सर्वविषयेभ्यः उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता । इत्युक्तार्थं वाक्यम् ॥५८॥

मधुसूदनः इदानीं किमासीतेति प्रश्नस्योत्तरं वक्तुमारभते भगवान् षड्भिः श्लोकैः । तत्र प्रारब्धकर्मवशाद्व्युत्थानेन विक्षिप्तानीन्द्रियाणि पुनरुपसंहृत्य समाध्यर्थमेव स्थितप्रज्ञस्योपवेशनमिति दर्शयितुमाह यदेति । अयं व्युत्थितः सर्वशः सर्वाणीन्द्रियार्थेभ्यः शब्दादिभ्यः सर्वेभ्यः । चः पुनरर्थे । यदा संहरते पुनरुपसंहरति सङ्कोचयति । तत्र दृष्टान्तः कूर्मोऽङ्गानीव । तदा तस्य प्रज्ञाः प्रतिष्ठितेति स्पष्टम् । पूर्वश्लोकाभ्यां व्युत्थानदशायामपि सकलतामसवृत्त्यभाव उक्तः । अधुना तु पुनः
समाध्यवस्थायां सकलवृत्त्यभाव इति विशेषः ॥५८॥

विश्वनाथः किमासीतेत्यस्योत्तरमाह यदेति । इन्द्रियार्थेभ्यः शब्दादिभ्य इन्द्रियाणि श्रोत्रादीनि संहरते । स्वाधीनानामिन्द्रियाणां बाह्यविषयेषु चलनं निषिध्यान्तरेव निश्चलतया स्थापनं स्थितप्रज्ञस्यासनमित्यर्थः । तत्र दृष्टान्तः । कूर्मोऽङ्गानि मुखनेत्रादीनि यथा स्वान्तरेव स्वेच्छया स्थापयति ॥५८॥

बलदेवः अथ किमासीतेत्यस्योत्तरमाह यदेत्यादिभिः षड्भिर् । अयं योगी यदा चेन्द्रियार्थेभ्यः शब्दादिभ्यः स्वाधीनानीन्द्रियाणि श्रोत्रादीन्यनायासेन संहरति समाकर्षति तदा तस्य प्रज्ञा प्रतिष्ठितेत्यन्वयः । अत्र दृष्टान्तः कूर्मोऽङ्गानीवेति । मुखकरचरणानि यथानायसेन कमठः संहरति तद्वत्विषयेभ्यः समाकृष्टेन्द्रियाणामन्तःस्थापनं स्थितप्रज्ञस्यासनम् ॥५८॥

__________________________________________________________

भगवद्गीता २.५९

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥५९॥

श्रीधरः ननु नेन्द्रियाणां विषयेष्वप्रवृत्तिर्स्थितप्रज्ञस्य लक्षणं भवितुमर्हति । जडानामातुराणामुपवासपराणां च विषयेष्व्प्रवृत्तेरविशेषात् । तत्राह विषया इति । इन्द्रियाइर्विषयाणामाहरणं ग्रहणमाहारः । निराहारस्य इन्द्रियाइर्विषयग्रहणमकुर्वतो देहिनो देहाभिमानिनोऽज्ञस्य रागोऽभिलाषस्तद्वर्जम् । अभिलाषस्य न निवर्तत इत्यर्थः । यद्वा निराहारस्य उपवासपरस्य विषयाः प्रायशो निवर्तन्ते क्षुधासन्तप्तस्य शब्दस्पर्शाद्यपेक्षाभावात्, किन्तु रसवर्जं रसापेक्षा तु न निवर्तत इत्यर्थः
। शेषं समानम् ॥५९॥

मधुसूदनः ननु मूढस्यापि रोगादिवशाद्विषयेभ्य इन्द्रियाणामुपसंहरणं भवति तत्कथं तस्य प्रज्ञा प्रतिष्ठितेत्युक्तम् ? अत आह विषया इति । निराहारस्य इन्द्रियाइरिन्द्रियाइर्विषयाननाहरतो देहिनो देहाभिमानवतो मूढस्यापि रोगिणः काष्ठतपस्विनो वा विषयाः शब्दादयो विनिवर्तन्ते किन्तु रसवर्जं रसतृष्णा तं वर्जयित्वा । अज्ञस्य विषया निवर्तन्ते तद्विषयो रागस्तु न निवर्तत इत्यर्थः । अस्य तु स्थितप्रज्ञस्य परं पुरुषार्थं दृष्ट्वा तदेवाहमस्मीति साक्षात्कृत्य स्थितस्य रसोऽपि क्षुद्रसुखरागोऽपि निवर्तते । अपिशब्दाद्विषयाश्
च । तथा च यावानर्थ इत्यादौ व्याख्यातम् । एवं च सरागविषयनिवृत्तिः स्थितप्रज्ञलक्षणमिति न मूढे व्यभिचार इत्यर्थः । यस्मान्नासति परमात्मसम्यग्दर्शने सरागविषयोच्छेदस्तस्मात्सरागविषयोच्छेदिकायाः सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं महता यत्नेन सम्पादयेदित्यभिप्रायः ॥५९॥

विश्वनाथः मूढस्यापि उपवासतो रोगादिवशाद्वेन्द्रियाणां विषयेष्वचलनं सम्भवेत्तत्राह विषया इति । रसवर्जं रसो रागोऽभिलाषस्तं वर्जयित्वा । अभिलाषस्तु विषयेषु न निवर्तन्त इत्यर्थः । अस्य स्थितप्रज्ञस्य तु परं परमात्मानं दृष्ट्वा विषयेष्वभिलाषो निवर्तत इति न लक्षणव्यभिचारः । आत्मसाक्षात्कारसमर्थस्य तु साधकत्वमेव, न तु सिद्धत्वमिति भावः ॥५९॥

बलदेवः ननु मूढस्यामयग्रस्तस्य विषयेष्विन्द्रियाप्रवृत्तिदृष्टा तत्कथमेतत्स्थितप्रज्ञस्य लक्षणं तत्राह विषया इति । निराहारस्य रोगभयाद्भोजनादीन्यकुर्वतो मूढस्यापि देहिनो जनस्य विषयास्तदनुभवा विनिवर्तन्ते । किन्तु रसो रागतृष्णा तद्वर्जं विषयतृष्णा तु न निवर्तत इत्यर्थः । अस्य स्थितप्रज्ञस्य तु रसोऽपि विषयरागोऽपि विषयेभ्यः परं स्वप्रकाशानन्दमात्मानं दृष्ट्वानुभूय निवर्तते विनश्यतीति सरागविषयनिवृत्तिस्तस्य लक्षणमिति न व्यभिचारः ॥५९॥

__________________________________________________________

भगवद्गीता २.६०

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥६०॥

श्रीधरः इन्द्रियसंयमं विना स्थितप्रज्ञता न सम्भवति । अतः साधकावस्थायां तत्र महान् प्रयत्नः कर्तव्य इत्याह यततो ह्यपीति द्वाभ्याम् । यततो मोक्षार्थं प्रयतमानस्य । विपश्चितो विवेकिनोऽपि । मन इन्द्रियाणि प्रसभं बलाधरन्ति । यतः प्रमाथीनि प्रमथनशीलानि क्षोभकानीत्यर्थः ॥६०॥

मधुसूदनः तत्र प्रज्ञास्थैर्ये बाह्येन्द्रियनिग्रहो मनोनिग्रहश्चासाधारणं कारणं तदुभयाभावे प्रज्ञानाशदर्शनादिति वक्तुं बाह्येन्द्रियनिग्रहाभावे प्रथमं दोषमाह यतत इति । हे कौन्तेय !

यततो भूयो भूयो विषयदोषदर्शनात्मकं यत्नं कुर्वतोऽपि, चक्षिङो ङित्वकरणादनुदात्तेतोऽनावश्यकमात्मनेपदमिति ज्ञापनात्परस्मैपदमविरुद्धम् । विपश्चितोऽत्यन्तविवेकिनोऽपि पुरुषस्य मनः क्षणमात्रं निर्विकारं कृतमपीन्द्रियाणि हरन्ति विकारं प्रापयन्ति ।

ननु विरोधिनी विवेके सति कुतो विकारप्राप्तिस्तत्राह प्रमाथीनि प्रमथनशीलानि अतिबलीयस्त्वाद्विवेकोपमर्दनक्षमाणि । अतः प्रसभं प्रसह्य बलात्कारेण पश्यत्येव विपश्चिति स्वामिनि विवेके च रक्षके सति सर्वप्रमाथीत्वादेवेन्द्रियाणि विवेकजप्रज्ञायां प्रविष्टं मनस्ततः प्रच्याव्य स्वविषयाविष्टत्वेन हरन्तीत्यर्थः । हिशब्दः प्रसिद्धिं द्योतयति । प्रसिद्धो ह्ययमर्थो लोके यथा प्रमाथिनो दस्यवः प्रसभमेव धनिनं धनरक्षकं चाभिभूय तयोः पश्यतोरेव धनं हरन्ति तथेन्द्रियाण्यपि विषयसन्निधाने मनो हरन्तीति ॥६०॥

विश्वनाथः साधकावस्थायां तु यत्न एव महान्, न त्विन्द्रियाणि परावर्तयितुं सर्वथा शक्तिरित्याह यतत इति । प्रमाथीनि प्रमथनशीलानि क्षोभकानीत्यर्थः ॥६०॥

बलदेवः अथास्या ज्ञाननिष्ठया दौर्लभ्यमाह यततो हीति । विपश्चितो विषयात्मस्वरूपविवेकज्ञस्य तत इन्द्रियजये प्रयतमानस्यापि पुरुषस्य इन्द्रियाणि श्रोत्रादीनि कर्तॄणि मनः परसभं बलादिव हरन्ति । हृत्वा विषयप्रवणं कुर्वन्तीत्यर्थः । ननु विरोधिनि विवेकज्ञाने स्थिते कथं हरन्ति तत्राह प्रमाथीनीति अतिबलिष्ठत्वात्तज्ज्ञानोपमर्दनक्षमाणीत्यर्थः । तस्मात्चौरेभ्यो महानिधेरिवेन्द्रियेभ्यो ज्ञाननिष्ठायाः संरक्षणं स्थितप्रज्ञस्यासनमिति ॥६०॥

__________________________________________________________

भगवद्गीता २.६१

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥

श्रीधरः यस्मादेवं तस्मात्तानीति । युक्तो योगी तानि इन्द्रियाणि संयम्य मत्परः सन्नासीत । यस्य वशे वशवर्तिनीन्द्रियाणि । एतेन च कथमासीतेति प्रश्नस्य वशीकृतेन्द्रियः सन्नासीतेति ॥६१॥

मधुसूदनः एवं तर्हि तत्र कः प्रतीकार इत्यत आह तानीति । तानीन्द्रियाणि सर्वाणि ज्ञानकर्मसाधनभूतानि संयम्य वशीकृत्य युक्तः समाहितो निगृहीतमनाः सन्नासीत निर्वापारस्तिष्ठेत् । प्रमाथिनां कथं स्ववशीकरणमिति चेत्तत्राह मत्पर इति । अहं सर्वात्मा वासुदेव एव पर उत्कृष्ट उपादेयो यस्य स मत्पर एकान्तमद्भक्त इत्यर्थः । तथा चोक्तं न वासुदेवभक्तानामशुभं विद्यते क्वचितिति । यथा हि लोके बलवन्तं राजानमाश्रित्य दस्यवो निगृह्यन्ते राजाश्रितोऽयमिति ज्ञात्वा च स्वयमेव तद्वश्या भवन्ति तथैव भगवन्तं सर्वान्तर्यामिनमाश्रित्य तत्प्रभावेणैव दुष्टानीन्द्रियाणि निग्राह्याणि पुनश्च भगवदाश्रितोऽयमिति मत्वा
तानि तद्वश्यान्येव भवन्तीति भावः । यथा च भगवद्भक्तेर्महाप्रभावत्वं तथा विस्तरेणाग्रे व्याख्यास्यामः । इन्द्रियवशीकारे फलमाह वशे हीति । स्पष्टम् । तदेतद्वशीकृतेन्द्रियः सन्नासीतेति किमासीतेति प्रश्नस्योत्तरमुक्तं भवति ॥६१॥

विश्वनाथः मत्परो मद्भक्त इति । मद्भक्तिं विना नैवेन्द्रियजय इत्यग्रिमग्रन्थेऽपि सर्वत्र द्रष्टव्यम् । यदुक्तमुद्धवेन

प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः ।
विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताः ।
अथात आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन् ॥ [Bह्ড়् ११.२९.१२] इति ।

वशे हीति स्थितप्रज्ञस्येन्द्रियाणि वशीभूतानि भवन्तीति साधकाद्विशेष उक्तः ॥६१॥

बलदेवः ननु निर्जितेन्द्रियाणामप्यात्मानुभवो न प्रतीतस्तत्र कोऽभ्युपाय इति चेत्तत्राह तानीति । तानि सर्वाणि संयम्य मत्परो मन्निष्ठः सन् युक्तः कृतामसमाधिरासीत तिष्ठेत । मद्भक्तिप्रभावेन सर्वेन्द्रियविजयपूर्विका स्वात्मदृष्टिः सुलभेति भावः । एवं स्मरन्ति

यथाग्निरुद्धतशिखः कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ [विড়् ६.७.७४] इत्यादि ।

वशे हीति स्पष्टम् । इत्थं च वशीकृतेन्द्रियतयावस्थितिः किमासीतेत्यस्योत्तरमुक्तम् ॥६१॥

__________________________________________________________

भगवद्गीता २.६२६३

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥६२॥
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥६३॥

श्रीधरः बाह्येन्द्रियसंयमाभावे दोषमुक्त्वा मनःसंयमाभावे दोषमाह ध्यायत इति द्वाभ्याम् । गुणबुद्ध्या विषयान् ध्यायतः पुंसः तेषु सङ्ग आसक्तिर्भवति । आसक्त्या च तेषु अधिकः कामो भवति । कामाच्च केनचित्प्रतिहतात्क्रोधो भवति । किं च, क्रोधादिति । क्रोधात्संमोहः कार्याकार्यविवेकाभावः । ततः शास्त्राचार्योपदिष्टस्मृतेर्विभ्रमो विचलनं भ्रंशः । ततो बुद्धेश्चेतनाया नाशः । वृक्षादिष्विवाभिभवः । ततः प्रणश्यति मृततुल्यो भवति ॥६२६३॥

मधुसूदनः निगृहीतबाह्येन्द्रियस्यापि शब्दादीन्विषयान् ध्यायतो मनसा पुनः पुनश्चिन्तयतः पुंसस्तेषु विषयेषु सङ्ग आसङ्गो ममात्यन्तं सुखहेतव एत इत्येवं शोभनाध्यासलक्षणः प्रीतिविशेष उपजायते सङ्गात्सुखहेतुत्वज्ञानलक्षणात्संजायते कामो ममैते भवन्त्विति तृष्णाविशेषः । तस्मात्कामात्कुतश्चित्प्रतिहन्यमानात्तत्प्रतिघातविषयः क्रोधोऽभिज्वलनात्माभिजायते । क्रोधाद्भवति संमोहः कार्याकार्यविवेकाभावरूपः । संमोहात्स्मृतिविभ्रमः स्मृतेः शास्त्राचार्योपदिष्टार्थानुसन्धानस्य
विभ्रमो विचलनं विभ्रंशः । तस्माच्च स्मृतिभ्रंशाद्बुद्धेरैकात्म्याकारमनोवृत्तेर्नाशो विपरीतभावनोपचयदोषेण प्रतिबन्धादनुत्पत्तिरुत्पन्नायाश्च फलायोग्यत्वेन विलयः । बुद्धिनाशात्प्रणश्यति तस्याश्च फलभूताया बुद्धेर्विलोपात्प्रणश्यति सर्वपुरुषार्थायोग्यो भवति । यो हि पुरुषार्थायोग्यो जातः स मृत एवेति लोके व्यवह्रियते । अतः प्रणश्यतीत्युक्तम् । यस्मादेवं मनसो निग्रहाभावे निगृहीतबाह्येन्द्रियस्यापि परमानर्थप्राप्तिस्तरमान्महता प्रयत्नेन मनो निगृह्णीयादित्यभिप्रायः । अतो युक्तमुक्तं तानि सर्वाणि संयम्य युक्त आसीतेति ॥६२६३॥

विश्वनाथः स्थितप्रज्ञस्य मनोवशीकार एव बाह्येन्द्रियवशीकारकारणं सर्वथा मनोवशीकाराभावे तु यत्स्यात्तत्शृण्वित्याह ध्यायत इति । सङ्ग आसक्तिः । आसक्त्या च तेष्वधिकः कामोऽभिलाषः । कामाच्च केनचित्प्रतिहतात्क्रोधः । क्रोधात्संमोहः कार्याकार्यविवेकाभावः । तस्माच्च शास्त्रोपदिष्टस्वार्थस्य स्मृतिनाशः । तस्माच्च बुद्धेः सद्व्यवसायस्य नाशः । ततः प्रणश्यति संसारकूपे पतति ॥६२६३॥

बलदेवः विजितेन्द्रियस्यापि मय्यनिवेशितमनसः पुनरनर्थो दुर्वार इत्याह ध्यायत इति द्व्याभ्याम् । विषयान् शब्दादीन् सुखहेतुत्वबुद्ध्या ध्यायतः पुनः पुनश्चिन्तयतो योगिनस्तेषु सङ्ग आसक्तिर्भवति । सङ्गाद्धेतोस्तेषु कामतृष्णा जायते । कामाच्च केनचित्प्रतिहतात्क्रोधश्चित्तज्वालस्तत्प्रतिघातको भवति । क्रोधात्संमोहः कार्याकार्यविवेकविज्ञानविलोपः । संमोहात्स्मृतेरिन्द्रियविजयादिप्रयत्नानुसन्धेर्विभ्रमो विभ्रंशः । स्मृतिभ्रंशाद्बुद्धेरात्मज्ञानार्थकस्याध्यवसायस्य नाशः । बुद्धिनाशात्प्रणश्यति पुनर्विषयभोगनिमग्नो भवति संसरतीत्यर्थः । मदनाश्रयणाद्दुर्बलं
मनस्तानि स्वविषयैर्योजयन्तीति भावः । तथा च मनोविजिगीषुणा मदुपासनं विधेयम् ॥६२६३॥

__________________________________________________________

भगवद्गीता २.६४

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥६४॥

श्रीधरः नन्विन्द्रियाणां विषयप्रवणस्वभावानां निरोद्धुमशक्यत्वादयं दोषो दुष्परिहर इति स्थितप्रज्ञत्वं कथं स्यात्? इत्याशङ्क्याह रागद्वेष इति द्वाभ्याम् । रागद्वेषरहितैः विगतदर्पैरिन्द्रियैः विषयांश्चरन्नुपभुञ्जानोऽपि प्रसादं शान्तिं प्राप्नोति । रागद्वेषराहित्यमेवाह आत्मेति । आत्मनो मनसः वश्यैरिन्द्रियैः विधेयो वशवर्ती आत्मा मनो यस्येति । अनेनैव कथं व्रजेतेत्यस्य चतुर्थप्रश्नस्य स्वाधीनैरिन्द्रियैर्विषयान् गच्छतीत्युत्तरमुक्तं भवति ॥६४॥

मधुसूदनः मनसि निगृहीते तु बाह्येन्द्रियनिग्रहाभावेऽपि न दोष इति वदन् किं व्रजेतेत्यस्योत्तरमाहाष्टभिः । योऽसमाहितचेताः स बाह्येन्द्रियाणि निगृह्यापि रागद्वेषदुष्टेन मनसा विषयांश्चिन्तयन् पुरुषार्थाद्भ्रष्टो भवति । विधेयात्मा तु तुशब्धः पूर्वस्माद्व्यतिरेकार्थः । वशीकृतान्तःकरणस्तु आत्मवश्यैर्मनोऽधीनैः स्वाधीनैरिति वा रागद्वेषाभ्यां वियुक्तैर्विरहितैरिन्द्रियैः श्रोत्रादिभिर्विषयान् शब्दादीननिषिद्धांश्चरन्नुपलभमानः प्रसादं प्रसन्नातां चित्तस्य स्वच्छतां
परमात्मसाक्षात्कारयोग्यतामधिगच्छति । रागद्वेषप्रयुक्तानीन्द्रियाणि दोषहेतुतां प्रतिपद्यन्ते । मनसि स्ववशे तु न रागद्वेषौ । तयोरभावे च न तदधीनेन्द्रियप्रवृत्तिः । अवर्जनीयतया तु विषयोपलम्भो न दोषमावहतीति न शुद्धिव्याघात इति भावः ।

एतेन विषयाणां स्मरणमपि चेदनर्थकारणं सुतरां तर्हि भोगस्तेन जीवनार्थं विषयान् भुञ्जानः कथमनर्थं न प्रतिपद्येतेति शङ्का निरस्ता । स्वाधीनैरिन्द्रियैर्विषयान् प्राप्नोतीति च किं व्रजेतेति प्रश्नस्योत्तरमुक्तं भवति ॥६४॥

विश्वनाथः मानसविषयग्रहणाभावे सति स्ववश्यैरिन्द्रियैर्विषयग्रहणेऽपि न दोष इति वदन् स्थितप्रज्ञो व्रजेत किमित्यस्योत्तरमाह रागेति । विधेयो वचने स्थ्त आत्मा मनो यस्य सः ।

विधेयो विनयग्राही वचने स्थित आश्रवः ।
वश्यः प्रणयो निभृतविनीतप्रश्रिताः ॥ इत्यमरः ।

प्रसादमधिगच्छतीत्येतादृशस्याधिकारिणो विषयग्रहणमपि न दोष इति किं वक्तव्यम् ? प्रत्युत गुण एवेति । स्थितप्रज्ञस्य विषयत्यागस्वीकारावेव आसनव्रजने ते उभे अपि तस्य भद्रे इति भावः ॥६४॥

बलदेवः मनसि निर्जिते श्रोत्रादिनिर्जयाभावोऽपि न दोष इति ब्रुवन् व्रजेत किमित्यसोत्तरमाह रागेति आदिभिरष्टभिः । विजितबहिरिन्द्रियोऽपि मदनर्पितमनाः परमार्थाद्विच्युत इत्युक्तम् । यो विधेयात्मा स्वाधीनमना मदर्पितमनास्तत एव निदग्धरागादिमनोमलः स त्वात्मवश्यैर्मनोऽधीनैरत एव रागद्वेषाभ्यां वियुक्तैरिन्द्रियैः श्रोत्राद्यैर्विषयान्निषिद्धान् शब्दादींश्चरन् भुञ्जानोऽपि प्रसादं विषयासक्त्यादिमलानागमाद्विमलमनस्तमधिगच्छतीत्य्प्राप्नोतीत्यर्थः ॥६४॥

__________________________________________________________

भगवद्गीता २.६५

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥६५॥

श्रीधरः प्रसादे सति किं स्यादित्यत्राह प्रसाद इति । प्रसादे सति सर्वदुःखनाशः । ततश्च प्रसन्नचेतसो बुद्धिः प्रतिष्ठिता भवतीत्यर्थः ॥६५॥

मधुसूदनः प्रसादमधिगच्छतीत्युक्तं तत्र प्रसादे सति किं स्यादित्युच्यते प्रसाद इति । चित्तस्य प्रसादे स्वच्छत्वरूपे सति सर्वदुःखानामाध्यात्मिकादीनामज्ञानविलसितानां हानिर्विनाशोऽस्य यतेरुपजायते । हि यस्मात्प्रसन्नचेतसो यतेराशु शीघ्रमेव बुद्धिर्ब्रह्मात्मैक्याकारा पर्यवतिष्ठते परि समन्तादवतिष्ठते स्थिरा भवति विपरीतभावनादिप्रतिबन्धाभावात् । ततश्च प्रसादे सति बुद्धिपर्यवस्थानं ततस्तद्विरोध्यज्ञाननिवृत्तिः । ततस्तत्कार्यसकलदुःखहानिरिति क्रमेऽपि प्रसादे यत्राधिक्याय सर्वदुःखहानिकरत्वकथनमिति न विरोधः ॥६५॥

विश्वनाथः बुद्धिः पर्यवतिष्ठते सर्वतोभावेन स्वाभीष्टंप्रति स्थिरीभवतीति विषयग्रहणाभावादपि समुचितविषयग्रहणं तस्य सुखमिति भावः । प्रसन्नचेतसो इति चित्तप्रसादो भक्त्यैवेति ज्ञेयम् । तया विना तु न चित्तप्रसाद इति प्रथमस्कन्ध एव प्रपञ्चितम् । कृतवेदान्तशास्त्रस्यापि व्यासस्याप्रसन्नचित्तस्य श्रीनारदोपदिष्टया भक्त्यैव चित्तप्रसाददृष्टेः ॥६५॥

बलदेवः प्रसादे सति किं स्यादित्याह अस्य योगिनो मनः प्रसादे सति सर्वेषां प्रकृतिसंसर्गकृतानां दुःखानां हानिरुपजायते । प्रसन्नचेतसः स्वात्मयाथात्म्यविषया बुद्धिः पर्यवतिष्ठते स्थिरा भवति ॥६५॥

__________________________________________________________

भगवद्गीता २.६६

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥६६॥

श्रीधरः इन्द्रियनिग्रहस्य स्थितप्रज्ञतासाधनत्वं व्यतिरेकमुखेनोपपादयति नास्तीति । अयुक्तस्य अवशीकृतेन्द्रियस्य नास्ति बुद्धिः । शास्त्राचार्योपदेशाभ्यामात्मविषया बुद्धिः प्रज्ञैव नोत्पद्यते । कुतस्तस्याः प्रतिष्ठावार्ता । कुत इत्यत्राह न चेति । न चायुक्तस्य भावना ध्यानम् । भावनया हि बुद्धेरात्मनि प्रतिष्ठा भवति, सा च अयुक्तस्य यतो नास्ति । न चाभावयतः आत्मध्यानमकुर्वतः शान्तिः आत्मनि चित्तोपरमः । अशान्तस्य कुतः सुखं मोक्षानन्द इत्यर्थः ॥६६॥

मधुसूदनः इममेवार्थं व्यतिरेकमुखेन द्रढयति नास्तीति । अयुक्तस्याजितचित्तस्य बुद्धिरात्मविषया श्रवणमननाख्यवेदान्तविचारजन्या नास्ति नोत्पद्यते । तद्बुद्ध्यभावे न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहरूपा । सर्वत्र नञोऽस्तीत्यनेनान्वयः । न चाभावयत आत्मानं शान्तिः सकार्याविद्यानिवृत्तिरूपा वेदान्तवाक्यजन्या ब्रह्मात्मैक्यसाक्षात्कृतिः । अशान्तस्यात्मसाक्षात्कारशून्यस्य कुतः सुखं मोक्षानन्द इत्यर्थः ॥६६॥

विश्वनाथः उक्तमर्थं व्यतिरेकमुखेन द्रढयति नास्तीति । अयुक्तस्यावशीकृतमनसो बुद्धिरात्मविषयिणी प्रज्ञा नास्ति । अयुक्तस्य तादृशप्रज्ञारहितस्य भावना परमेश्वरध्यानं च । अभावयतोऽकृतध्यानस्य शान्तिर्विषयोपरमो नास्ति । अशान्तस्य सुखमात्मानन्दः ॥६६॥

बलदेवः पूर्वोक्तमर्थं व्यतिरेकमुखेनाह अयुक्तस्यायोगिनो मदनिवेशितमनसो बुद्धिरुक्तलक्षणा नास्ति न भवति । अतएव तस्य भावना तादृगात्मचिन्तापि नास्ति । तादृशमात्मानमभावयतः शान्तिर्विषयतृष्णानिवृत्तिर्नास्ति । अशान्तस्य तत्तृष्णाकुलस्य सुखं स्वप्रकाशानन्दात्मानुभवलक्षणं कुतः स्यात् ॥६६॥

__________________________________________________________

भगवद्गीता २.६७

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥६७॥

श्रीधरः नास्ति बुद्धिरयुक्तस्य [ङीता २.६६] इत्यत्र हेतुमाह इन्द्रियाणामिति । इन्द्रियाणामवशीकृतानां स्वैरं विषयेषु चरतां मध्ये यदैवैकमिन्द्रियं मनोऽनुविधीयते ।वशीकृतं सदिन्द्रियेण सह गच्छति, तदैवैकमिन्द्रियस्य मनसः पुरुषस्य वा प्रज्ञां बुद्धिं हरति विषयविक्षिप्तां करोति । किमुत वक्तव्यं बहूनि प्रज्ञां हरन्तीति । यथा प्रमत्तस्य कर्णधारस्य नावं वायुः सर्वतः परिभ्रमयति तद्वदिति ॥६७॥

मधुसूदनः अयुक्तस्य कुतो नास्ति बुद्धिरित्यत आह इन्द्रियाणामिति । चरतां स्वविषयेषु स्वस्वविषयेषु प्रवर्तमानानामवशीकृतानामिन्द्रियाणां मध्ये यदेकमपीन्द्रियमनुलक्ष्यीकृत्य मनो विधीयते प्रेर्यते प्रवर्तते इति यावत् । कर्मकर्तरि लकारः । ततिन्द्रियमेकमपि मनसानुसृतमस्य साधकस्य मनसो वा प्रज्ञामात्मविषयां शास्त्रीयां हरति अपनयति मनसस्तद्विषयाविष्टत्वात् । यदैकमपीन्द्रियं प्रज्ञां हरति तदा सर्वाणि हरन्तीति किमु वक्तव्यमित्यर्थः ।

दृष्टान्तस्तु स्पष्टः । अभ्यस्येति वायोर्नौकाहरणसामर्थ्यं न भुवीति सूचयितुमम्भसीत्युक्तम् । एवं दार्ष्टान्तिकेऽप्यम्भःस्थानीये मनश्चाञ्चल्ये सत्येव प्रज्ञाहरणसामर्थ्यमिन्द्रियस्य न तु भूस्थानीये मनःस्थैर्य इति सूचितम् ॥६७॥

विश्वनाथः अयुक्तस्य बुद्धिर्नास्तीत्युपपादयति इन्द्रियाणां स्वस्वविषयेषु चरतां मध्ये यन्मम एकमिन्द्रियमनुविधीयते । पुंसां सर्वेन्द्रियानुवर्तिः क्रियते, तदेव मनोऽस्य प्रज्ञां बुद्धिं हरति । यथाम्भसि नीयमानां नावं प्रतिकूलो वायुः ॥६७॥

बलदेवः मन्निवेशितमनस्कतयेइन्द्रियनियमनाभावे दोषमाह इन्द्रियाणामिति । विषयेषु चरतामविजितानामिन्द्रियाणां मध्ये यदेकं श्रोत्रं वा चक्षुर्वानुलक्ष्यीकृत्य मनो विधीयते प्रवर्तते, तदेकमेवेन्द्रियं मनसानुगतमस्य प्रवर्तकस्य प्रज्ञां विविक्तात्मविषयां हरत्यपनयति मनससस्तद्विषयाकृष्टत्वात् । किं पुनः ? सर्वाणि तानीति । प्रतिकूलो वायुर्यथाम्भसि नीयमानां नावं तद्वत् ॥६७॥

__________________________________________________________

भगवद्गीता २.६८

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥६८॥

श्रीधरः इन्द्रियसंयमस्य स्थितप्रज्ञत्वे साधनत्वं चोक्तमुपसंहरति तस्मादिति । साधनत्वोपसंहारे तस्य प्रज्ञा प्रतिष्ठिता ज्ञातव्येत्यर्थः । महाबाहो ! इति सम्बोधयन् वैरिनिग्रहे समर्थस्य तवात्रापि सामर्थ्यं भवेदिति सूचयति ॥६८॥

मधुसूदनः हि यस्मादेवं तस्मादिति । सर्वशः सर्वाणि समनस्कानि । हे महाबाहो इति सम्बोधयन् सर्वशत्रुनिवारणक्षमत्वादिन्द्रियशत्रुनिवारणेऽपि त्वं क्षमोऽसीति सूचयति । स्पष्टमन्यत् । तस्येति सिद्धस्य साधकस्य च परामर्शः । इन्द्रियसंयमस्य स्थितप्रज्ञं प्रति लक्षणत्वस्य मुमुक्षुं प्रति प्रज्ञासाधनत्वस्य चोपसंहरणीयत्वात् ॥६८॥

विश्वनाथः यस्य निगृहीतमनसः । हे महाबाहो ! इति यथा शत्रून्निगृह्णासि, तथा मनोऽपि निगृहाणेति भावः ॥६८॥

बलदेवः तस्मादिति । यस्य मन्निष्ठमनसः प्रतिष्ठितात्मनिष्ठा भवति । हे महाबाहो इति यथा रिपून्निगृह्णासि तथेन्द्रियाणि निगृहाणेत्यर्थः । एभिः श्लोकैर्भगवन्निविष्टतयेन्द्रियविजयः स्थितप्रज्ञस्य सिद्धस्य स्वाभाविकः । साधकस्य तु साधनभूत इति बोध्यम् ॥६८॥

__________________________________________________________

भगवद्गीता २.६९

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९॥

श्रीधरः ननु न कश्चिदपि प्रसुप्त इव दर्शनादिव्यापारशून्यः सर्वात्मना निगृहीतेन्द्रियो लोके दृश्यते । अतोऽसक्तावितमिदं लक्षणमित्याशङ्क्याह या निशेति । सर्वेषां भूतानां या निशा । निशेव निशा आत्मनिष्ठा । अज्ञानध्वान्तावृतमतीनां तस्यां दर्शनादिव्यापाराभावात् । तस्यां आत्मनिष्ठायां संयमी निगृहीतेन्द्रियो जाग्रति प्रबुध्यन्ते । सात्मतत्त्वं पश्यतो मुनेर्निशा । तस्यां दर्शनादिव्यापारस्तस्य नास्ति इत्यर्थः । एतदुक्तं भवति यथा दिवान्धानामुलुकादीनां रात्रावेव दर्शनं न तु दिवसे । एवं ब्रह्मज्ञस्योन्मीलिताक्षस्यापि ब्रह्मण्येव दृष्टिः
। न तु विषयेषु । अतो नासम्भावितमिदं लक्षणमिति ॥६९॥

मधुसूदनः तदेवं मुमुक्षुणा प्रज्ञास्थैर्याय प्रयत्नपूर्वकमिन्द्रियसंयमः कर्तव्य इत्युक्तं स्थितप्रज्ञस्य तु स्वतः सिद्ध एव सर्वेन्द्रियसंयम इत्याह या निशेति । या वेदान्तवाक्यजनितसाक्षात्काररूपाहं ब्रह्मास्मीति प्रज्ञा सर्वभूतानामज्ञानां निशेव निशा तान् प्रत्यप्रकाशरूपत्वात् । तस्यां ब्रह्मविद्यालक्षणायां सर्वभूतनिशायां जागर्ति अज्ञाननिद्रायाः प्रबुद्धः सन् सावधानो वर्तते संयमीन्द्रियसंयमवान् स्थितप्रज्ञ इत्यर्थः । यस्यां तु द्वैतदर्शनलक्षणायामविद्यानिद्रायां प्रसुप्तान्येव भूतानि जाग्रति स्वप्नवद्
व्यवहरन्ति सा निशा न प्रकाशत आत्मतत्त्वं पश्यतोऽपरोक्षतया मुनेः स्थितप्रज्ञस्य । यावद्धि न प्रबुध्यते तावदेव स्वप्नदर्शनं बोध्यपर्यन्तत्वाद्भ्रमस्य तत्त्वज्ञानकाले तु न भ्रमनिमित्तः कश्चिद्व्यवहारः । तदुक्तं वार्तिककारैः

कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यन्ते ।
शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिस्तथा ॥
काकोलूकनिशेवायं संसारोऽज्ञात्मवेदिनोः ।
या निशा सर्वभूतानामित्यवोचत्स्वयं हरिः ॥ इति ।

तथा च यस्य विपरीतदर्शनं तस्य न वस्तुदर्शनं विपरीतदर्शनस्य वस्त्वदर्शनजन्यत्वात् । यस्य च वस्तुदर्शनं तस्य न विपरीतदर्शनं विपरीतदर्शनकारणस्य वस्त्वदर्शनस्य वस्तुदर्शनेन बाधितत्वात् । तथा च श्रुतिः यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत् । यत्र स्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ॥ इति विद्याविद्ययोर्व्यवस्थामाह । यथा काकस्य रात्र्यन्धस्य दिनमुलूकस्य दिवान्धस्य निशा रात्रौ पश्यतश्चोलूकस्य यद्दिनं रात्रिरेव सा काकस्येति महदाश्चर्यमेतत् । अतस्तत्त्वदर्शिभिः कथमाविद्यकक्रियाकारकादिव्यवहारः स्यादिति स्वतः सिद्ध एव तस्येन्द्रियसंयम इत्यर्थः ॥६९॥

विश्वनाथः स्थितप्रज्ञस्य तु स्वतःसिद्ध एव सर्वेन्द्रियनिग्रह इत्याह येति । बुद्धिर्हि द्विविधा भवति आत्मप्रवणा विषयप्रवणा च । तत्र या आत्मप्रवणा बुद्धिः सा सर्वभूतानां निशा । निशायां किं किं स्यादिति तस्यां स्वपन्तो जना यथा न जानन्ति, तथैव आत्मप्रवणबुद्धौ प्राप्यमाणं वस्तु सर्वभूतानि न जानन्ति । किन्तु तस्यां संयमी स्थितप्रज्ञो जागर्ति । न तु स्वपिति । अत आत्मबुद्धिनिष्ठमानन्दं साक्षादनुभवति । यस्यां विषयप्रवणायां बुद्धौ भूतानि जाग्रति, तन्निष्ठं विषयसुखशोकमोहादिकं साक्षादनुभवन्ति न तु तत्र
स्वपन्ति । सा मुनेः स्थितप्रज्ञस्य निशा तन्निष्ठं किमपि नानुभवति इत्यर्थः । किन्तु पश्यतः सांसारिकानां सुखदुःखप्रदान् विषयान् तत्रौदासीन्येनावलोकयतः स्वभोग्यान् विषयानपि यथोचितं निर्लेपमाददानस्येत्यर्थः ॥६९॥

बलदेवः साधकावस्थस्य स्थितप्रज्ञस्येन्द्रियसंयमः प्रयत्नसाध्य इत्युक्तम् । सिद्धावस्थस्य तु तस्य तन्नियमः स्वाभाविक इत्याह या निशेति । विविक्तात्मनिष्ठा विषयनिष्ठा चेति बुद्धिर्द्विविधा । यात्मनिष्ठा बुद्धिः सर्वभूतानां निशारूपकेणोपमात्र व्यज्यते रात्रितुल्या तद्वदप्रकाशिका । रात्राविवात्मनिष्ठायां बुद्धौ स्वपन्तो जनास्तल्लभ्यमात्मानं सर्वे नानुभवन्तीत्यर्थः । संयमी जितेन्द्रियस्तु तस्यां जागर्ति न तु स्वपिति । तया लभ्यमात्मानमनुभवतीत्यर्थः । यस्यां विष्यनिष्ठायां बुद्धौ भूतानिओ जाग्रति विषयभोगाननुभवन्ति न तु
तत्र स्वपन्ति सा मुनेः स्थितप्रज्ञस्य निशा । तस्य विषयभोगाप्रकाशिकेत्यर्थः । कीदृशस्येत्याह पश्यत इति । आत्मानं साक्षादनुभवतः प्रारब्धआकृष्टान् विषयानप्यौदासीन्येन भुञ्जानस्य चेत्यर्थः । नर्तकीमूर्धघटावधानन्यायेनात्मदृष्टेर्न तदन्यरसग्रह इति भावः ।

__________________________________________________________

भगवद्गीता २.७०

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥७०॥

श्रीधरः ननु विषयेषु दृष्ट्यभावे कथमसौ तान् भुङ्क्ते इत्यपेक्षायामाह आपूर्यमाणमिति । नानानदनदीन्भिरापूर्यमाणमपि अचलप्रतिष्ठमनतिक्रान्तमर्यादमेव समुद्रं पुनरपि अन्या आपो यथा प्रविशन्ति तथा कामा विषया यं मुनिमन्तर्दृष्टिं भोगैरविक्रियमाणमेव प्रारब्धकर्मभिराक्षिप्ताः सन्तः प्रविशन्ति स शान्तिं कैवल्यं प्राप्नोति । न तु कामकामी भोगकामनाशीलः ॥७०॥

मधुसूदनः एतादृशस्य स्थितप्रज्ञस्य सर्वविक्षेपशान्तिरप्यर्थसिद्धेति सदृष्टान्तमाह आपूर्यमाणमिति । सर्वाभिर्नदीभिरापूर्यमाणं सन्तं वृष्ट्यादिप्रभवा अपि सर्वा आपः समुद्रं प्रविशन्ति । कीदृशमचलप्रतिष्ठमनतिक्रान्तमर्यादम् । अचलानां मैनाकादीनां प्रतिष्ठा यस्मिन्निति वा गाम्भीर्यातिशय उक्तः । यद्वद्येन प्रकारेण निर्विकारत्वेन तद्वत्तेनैव निर्विकारत्वप्रकारेण यं स्थितप्रज्ञं निर्विकारमेव सन्तं कामा अज्ञैर्लोकैः काम्यमानाः शब्दाद्याः सर्वे विषया अवर्जनीयतया प्रारब्धकर्मवशात्प्रविशन्ति न तु विकर्तुं शक्नुवन्ति स महासमुद्रस्थानीयः
स्थितप्रज्ञः शान्तिं सर्वलौकिकालौकिककर्मविक्षेपनिवृत्तिं बाधितानुवृत्ताविद्याकार्यनिवृत्तिं चाप्नोति ज्ञानबलेन । न कामकामी कामान् विषयान् कामयितुं शीलं यस्य स कामकाम्यज्ञः शान्तिं समाख्यातां नाप्नोति । अपि तु सर्वदा लौकिकालौकिककर्मविक्षेपेण महति क्लेशार्णवे मग्नो भवतीति वाक्यार्थः । एतेन ज्ञानिन एव फलभूतो विद्वत्संन्यासस्तस्यैव च सर्वविक्षेपनिवृत्तिरूपा जीवन्मुक्तिर्दैवाद्ध्नीनविषयभोगेऽपि निर्विकारतेत्यादिकमुक्तं वेदितव्यम् ॥७०॥

विश्वनाथः विषयग्रहणे क्षोभराहित्यमेव निर्लेपेत्याह आपूर्यमाणमिति । यथा वर्षासु इतस्ततः नादेया आपः समुद्रं प्रविशन्ति कीदृशम् । आ ईषदपि आपूर्यमाणं तावतीभिरप्यद्भिः पूरयितुं न शक्यम् । अचलप्रतिष्ठमनतिक्रान्तमर्यादं तद्वदेव कामा विषया यं प्रविशन्ति भोग्यत्वेनायान्ति । यथा अपां प्रवेशे अप्रवेशे वा समुद्रो न कमपि विशेषमापद्यते । एवमेव यः कामानां भोगे अभोगे च क्षोभरहित एव स्यात्स स्थितप्रज्ञः । शान्तिं ज्ञानम् ॥७०॥

बलदेवः उक्तं भावं स्फुटयन्नाह आपूर्येति । स्वरूपेणैवापूर्यमाणं तथाप्यचलप्रतिष्ठमनुल्लङ्घितवेलं समुद्रं यथापोऽन्या वर्षोद्भवा नद्यः प्रविशन्ति, न तु तत्र किञ्चिद्विशेषं शक्नुवन्ति कर्तुं, तद्वत्सर्वे कामाः प्रारब्धाकृष्टा विषया यं प्रविशन्ति न तु विकर्तुं प्रभवन्ति स शान्तिमाप्नोति । शब्दादिषु तदिन्द्रियगोचरेष्वपि सत्स्वात्मानन्दानुभवतृप्तैर्विकारलेशमप्यविन्दन् स्थितप्रज्ञ इत्यर्थः । यः कामकामी विषयलिप्सुः स तूक्तलक्षणां शान्तिं नाप्नोति ॥७०॥

__________________________________________________________

भगवद्गीता २.७१

विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥७१॥

श्रीधरः यस्मादेवं तस्मात्विहायेति । प्राप्तान् कामान् विहाय त्यक्त्वोपेक्ष्य अप्राप्तेषु च निःस्पृहः यतो निरहङ्कारोऽतएव तद्भोगसाधनेषु निर्ममः सन्नन्तर्दृष्टिर्भूत्वा यश्चरति प्रारब्धवशेन भोगान् भुङ्क्ते । यत्र कुत्रापि गच्छति वा । स शान्तिं प्राप्नोति ॥७१॥

मधुसूदनः यस्मादेवं तस्मात्विहायेति । प्राप्तानपि सर्वान् बाह्यान् गृहक्षेत्रादीनान्तरान्मनोराज्यरूपान् वासनामात्ररूपांश्च पथि गच्छंस्तृणस्पर्शरूपान् कामांस्त्रिविधान् विहायोपेक्ष्य शरीरजीवनमात्रेऽपि निस्पृहः सन् । यतो निरहङ्कार शरीरेन्द्रियादावयमहमित्यभिमानशून्यः । विद्यावत्त्वादिनिमित्तात्मसम्भावनारहित इति वा । अतो निर्ममः शरीरयात्रामात्रार्थेऽपि प्रारब्धकर्माक्षिप्ते कौपीनाच्छादनादौ ममेदमित्यभिमानवर्जितः सन् यः पुमांश्चरति प्रारब्धकर्मवशेन भोगान् भुङ्क्ते यादृच्छिकतया यत्र क्वापि गच्छतीति वा । स एवंभूतः स्थितप्रज्ञः शान्तिं
सर्वसंसारदुःखोपरमलक्षणामविद्यातत्कार्यनिवृत्तिमधिगच्छति ज्ञानबलेन प्राप्नोति । तदेतदीदृशं व्रजनं स्थितप्रज्ञस्येति चतुर्थप्रश्नस्योत्तरं परिसमाप्तम् ॥७१॥

विश्वनाथः कश्चित्तु कामेषु अविश्वसन्नैव तान् भुङ्क्ते इत्याह । विहायेति निरहङ्कारो निर्मम इति देहदैहिकेषु अहंताममताशून्यः ॥७१॥

बलदेवः विहायेति । प्राप्तान् कामान् विषयान् सर्वान् विहाय शरीरोपजीवनमात्रेऽपि निर्ममो मम्ताशून्यः निरहङ्कारोऽनात्मनि शरीरे आत्माभिमानशून्यश्चरति तदुपजीवनमात्रं भक्षयति यत्र क्वापि गच्छति वा स शान्तिं लभते इति व्रजेत किमित्यस्योत्तरम् ॥७१॥

__________________________________________________________

भगवद्गीता २.७२

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥७२॥

श्रीधरः उक्तां ज्ञाननिष्ठां स्तुवन्नुपसंहरति एषेति । ब्राह्मी स्थितिर्ब्रह्मज्ञाननिष्ठा । एषैवंविधा । एनां परमेश्वराराधनेन विशुद्धान्तःकरणः पुमान् प्राप्य न विमुह्यति । पुनः संसारमोहं न प्राप्नोति । यतोऽन्तकाले मृत्युसमयेऽप्यस्यां लक्षमात्रमपि स्थित्वा ब्रह्मनिर्वाणं ब्रह्मणि निर्वाणं लयमृच्छति प्राप्नोति । किं पुनर्वक्तव्यं बाल्यमारभ्य स्थित्वा प्राप्नोतीति ॥७२॥

शोकपङ्कनिमग्नं यः साङ्ख्ययोगोपदेशतः ।
उज्जहारार्जुनं भक्तं स कृष्णशरणं मम ॥

इति श्रीश्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां
द्वितीयोऽध्यायः
॥२॥

मधुसूदनः तदेवं चतुर्णां प्रश्नानामुत्तरव्याजेन सर्वाणि स्थितप्रज्ञलक्षणानि मुमुक्षुकर्तव्यतया कथितानि । सम्प्रति कर्मयोगफलभूतां साङ्ख्यनिष्ठां स्तुवन्नुपसंहरति एषेति । एषा स्थितप्रज्ञलक्षणव्याजेन कथिता । एषा तेऽभिहिता साङ्ख्ये बुद्धिरिति च प्रागुक्ता स्थितिर्निष्ठा सर्वकर्मसंन्यासपूर्वकपरमात्मज्ञानलक्षणा ब्राह्मी ब्रह्मविषया । हे पार्थ ! एनां स्थितिं प्राप्य यः कश्चिदपि प्नर्न विमुह्यति । न हि ज्ञानबाधितस्याज्ञानस्य पुनः सम्भवोऽस्ति अनादित्वेनोत्पत्त्यसम्भवात् । अस्यां स्थितावन्तकालेऽपि अन्त्येऽपि वअयसि स्थित्वा ब्रह्मनिर्वाणं
ब्रह्मणि निर्वाणं निर्वृत्तिं ब्रह्मरूपं निर्वाणमिति वा । ऋच्छति गच्छत्यभेदेन । किमु वक्तव्यं यो ब्रमचर्यादेव संन्यस्य यावज्जीवमस्यां ब्राह्म्यां स्थिताववतिष्ठते स ब्रह्मनिर्वाणमृच्छतीत्यपिशब्दार्थः ॥७२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां सर्वगीतार्थसूत्रणं नाम
द्वितीयोऽध्यायः ॥२॥

विश्वनाथः उपसंहरति एषेति । ब्राह्मी ब्रह्मप्रापिका । अन्तकाले मृत्युसमयेऽपि । किं पुनराबाल्यम् ॥७२॥

ज्ञानं कर्म च विस्पष्टमस्पष्टं भक्तिमुक्तवान् ।
अतएवायमध्यायः श्रीगीतासूत्रमुच्यते ॥
इति सारार्थवर्षिण्यां हर्षिण्यां भक्तचेतसाम् ।
श्रीगीतासु द्वितीयोऽयं सङ्गतः सङ्गतः सताम् ॥२॥

बलदेवः स्थितप्रज्ञतां स्तौति एषेति । ब्राह्मी ब्रह्मप्रापिका । अन्तकाले चरमे वयसि । किं पुनराकौमारं ब्रह्म ऋच्छति लभते । निर्वाणममृतरूपं तत्प्रदमित्यर्थः । ननु तस्यां स्थितः कथं ब्रह्म प्राप्नोति । तत्प्राप्तेस्तद्भक्तिहेतुकत्वादिति चेदुच्यते । तस्यास्तद्भक्तिहेतुकत्वात्तद्भक्तिहेतुत्वाच्च तत्प्रापकतेति ॥७२॥
निष्कामकर्मभिर्ज्ञानी हरिमेव स्मरन् भवेत् ।
अन्यथा विघ्न एवेति द्वितीयोऽध्यायनिर्णयः ॥

इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये द्वितीयोऽध्यायः ।
॥२॥

[*Eण्ड्ण्Oट्E] Oन्ल्य्fओउन्दिन् ंनु.
[*Eण्ड्ण्Oट्E] ठिसिस रेfएरेन्चे तो छप्तेर्११.२५. षेए VCट्तो १८.२८.

**********************************************************

Bहगवद्गित ३

भगवद्गीता ३.१

अर्जुन उवाच
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥

श्रीधरः

साङ्ख्ये योगे च वैषम्यं मत्वा मुग्धाय जिष्णवे ।
तयोर्भेदनिरासाय कर्मयोगे उदीर्यते ॥

एवं तावदशोच्यानन्वशोचस्त्वम् [ङीता २.११] इत्यादिना प्रथमं मोक्षसाधनत्वेन देहात्मविवेकबुद्धिरुक्ता । तदनन्तरमेषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु [ङीता २.३९] इत्यादिना कर्म चोक्तम् । न च तयोर्गुणप्रधानभावः स्पष्टं दर्शितः । तत्र बुद्धियुक्तस्य स्थितप्रज्ञस्य निष्कामत्वनियतेन्द्रियत्वनिरहङ्कारत्वाद्यभिधानादेषा ब्राह्मी स्थितिः पार्थ [ङीता २.७२] इति सप्रशंसमुपसंहाराच्च बुद्धिकर्मणोर्मध्ये बुद्धेः श्रेष्ठत्वं भगवतोऽभिप्रेतं मन्वानोऽर्जुन उवाच ज्यायसी चेदिति । कर्मणः सकाशात्मोक्षान्तरङ्गत्वेन बुद्धिर्ज्यायसी अधिकतरा श्रेष्ठा
चेत्तव संमता तर्हि किमर्थं तस्माद्युध्यस्वेति तस्मादुत्तिष्टेति च वारं वारं वदन् घोरे हिंसात्मके कर्मणि मां नियोजयसि प्रवर्तयसि ॥१॥

मधुसूदनः एवं तावत्प्रथमेनाध्यायेनोपोद्घातितो द्वितीयेनाध्यायेन कृत्स्नः शास्त्रार्थः सूत्रितः । तथा हिआदौ निष्कामकर्मनिष्ठा । ततोऽन्तःकरणशुद्धिः । ततः शमदमादिसाधनपुरःसरः सर्वकर्मसंन्यासः । ततो वेदान्तवाक्यविचारसहिता भगवद्भक्तिनिष्ठा । ततस्तत्त्वज्ञाननिष्ठा तस्याः फलं च त्रिगुणात्मकाविद्यानिवृत्त्या जीवन्मुक्तिः प्रारब्धकर्मफलभोगपर्यन्तं तदन्ते च विदेहमुक्तिः । जीवन्मुक्तिदशायां च परमपुरुषार्थालम्बनेन परवैराग्यप्राप्तिर्दैवसम्पदाख्या च शुभवासना तदुपकारिण्यादेया
। आसुरसम्पदस्तु राजसी तामसी चेति हेयोपादेयविभागेन कृत्स्नशास्त्रार्थपरिसमाप्तिः ।

तत्र योगस्थः कुरु कर्माणि [ङीता २.४८] इत्यादिना सूत्रिता सत्त्वशुद्धिसाधनभूता निष्कामकर्मनिष्ठा सामान्यविशेषरूपेण तृतीयचतुर्थाभ्यां प्रपञ्च्यते । ततः शुद्धान्तःकरणस्य शमदमादिसाधनसम्पत्तिपुरःसरा विहाय कामान् यः सर्वान् [ङीता २.७१] इत्यादिना सूत्रिता सर्वकर्मसंन्यासनिष्ठा सङ्क्षेपविस्तररूपेण पञ्चमषष्ठाभ्याम् । एतावता च त्वंपदार्थोऽपि निरूपितः । ततो वेदान्तवाक्यविचारसहिता युक्त आसीत मत्परः [ङीता २.६१] इत्यादिना सूत्रितानेकप्रकारा भगवद्भक्तिनिष्ठाध्यायषट्केन प्रतिपाद्यते । तावता च तत्पदार्थोऽपि निरूपितः । प्रत्यध्यायं
चावान्तरसङ्गतिमवान्तरप्रयोजनभेदं च तत्र तत्र प्रदर्शयिष्यामः । ततस्तत्त्वंपदार्थैक्यज्ञानरूपा वेदाविनाशिनं नित्यं [ङीता २.२१] इत्यादिना सूत्रिता तत्त्वज्ञाननिष्ठा त्रयोदशे प्रकृतिपुरुषविवेकद्वारा प्रपञ्चिता । ज्ञाननिष्ठायां च फलं त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन [ङीता २.४५] इत्यादिना सूत्रिता त्रैगुण्यनिवृत्तिश्चतुर्दशे सैव जीवन्मुक्तिरिति गुणातीतलक्षणकथनेन प्रपञ्चिता । तदा गन्तासि निर्वेदं [ङीता २.५२] इत्यादिना सूत्रिता परवैराग्यनिष्ठा संसारवृक्षच्छेदद्वारेण पञ्चदशे । दुःखेष्वनुद्विग्नमनाः [ङीता २.५६] इत्यादिना स्थितप्रज्ञलक्षणेन
सूत्रिता परवैराग्योपकारिणी दैवी सम्पदादेया यामिमां पुष्पितां वाचं [ङीता २.४२] इत्यादिना सूत्रिता तद्विरोधिन्यासुरी सम्पच्च हेया षोडशे । दैवसम्पदो ऽसाधारणं कारणं च सात्त्विकी श्रद्धा निर्द्वन्द्वो नित्यसत्त्वस्थो [ङीता २.४५] इत्यादिना सूत्रिता तद्विरोधिपरिहारेण सप्तदशे । एवं सफला ज्ञाननिष्ठाध्यायपञ्चकेन प्रतिपादिता । अष्टादशेन च पूर्वोक्तसर्वोपसंहार इति कृत्स्नगीतार्थसङ्गतिः ।

तत्र पूर्वाध्याये साङ्ख्यबुद्धिमाश्रित्य ज्ञाननिष्ठा भगवतोक्ता एषा तेऽभिहिता साङ्ख्ये बुद्धिः [ङीता २.३९] इति । तथा योगबुद्धिमाश्रित्य कर्मनिष्ठोक्ता योगे त्विमां शृणु इत्यारभ्य कर्मण्येवाधिकारस्ते … मा ते सङ्गोऽस्त्वकर्मणि [ङीता २.४७] इत्यन्तेन । न चानयोर्निष्ठयोरधिकारिभेदः स्पष्टमुपदिष्टो भगवता । न चैकाधिकारिकत्वमेवोभयोः समुच्चयस्य विवक्षितत्वादिति वाच्यम् । दूरेण ह्यवरं करं बुद्धियोगाद्धनञ्जय [ङीता २.४९] इति कर्मनिष्ठाया बुद्धिनिष्ठापेक्षया निकृष्टत्वाभिधानात् । यावानर्थ उदपाने [ङीता २.४६] इत्यत्र च ज्ञानफले सर्वकर्मफलान्तर्भावस्य दर्शितत्वात् । स्थितप्रज्ञलक्षणम्
उक्त्वा च एषा ब्राह्मी स्थितिः पार्थ [ङीता २.७२] इति सप्रशंसं ज्ञानफलोपसंहारात् । या निशा सर्वभूतानां [ङीता २.६९] इत्यादौ ज्ञानिनो द्वैतदर्शनाभावेन कर्मानुष्ठानासम्भवस्य चोक्तत्वात् । अविद्यानिवृत्तिलक्षणे मोक्षफले ज्ञानमात्रस्यैव लोकानुसारेण साधनत्वकल्पनात् । तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽनयनाय [श्वेतू ३.८] इति श्रुतेश्च ।

ननु तर्हि तेजस्तिमिरयोरिव विरोधिनोर्ज्ञानकर्मणोः समुच्चयासम्भवाद्भिन्नाधिकारिकत्वमेवास्तु । सत्यम् । नैवं सम्भवति एकमर्जुनं प्रति तूभयोपदेशो न युक्तः । नहि कर्माधिकारिणं प्रति ज्ञाननिष्ठोपदेष्टुमुचिता न वा ज्ञानाधिकारिणं प्रति कर्मनिष्ठा । एकमेव प्रति विकल्पेनोभयोपदेश इति चेत्, न । उत्कृष्टनिकृष्टयोर्विकल्पानुपपत्तेः । अविद्यानिवृत्त्युपलक्षितात्मस्वरूपे मोक्षे तारतम्यासम्भवाच्च । तस्माज्ज्ञानकर्मनिष्ठयोर्भिन्नाधिकारिकत्वे एकं प्रत्युपदेशायोगादेकाधिकारिकत्वे च विरुद्धयोः समुच्चयासम्भवात्कर्मापेक्षया ज्ञानप्रशस्त्यानुपपत्तेश्च विकल्पाभ्युपगमे चोत्कृष्टम्
अनायाससाध्यं ज्ञानं विहाय निकृष्टमनेकायासबहुलं कर्मानुष्ठातुमयोग्यमिति मत्वा पर्याकुलीभूतबुद्धिरर्जुन उवाच ज्यायसी चेदिति ।

हे जनार्दन ! सर्वैर्जनैरर्द्यते याच्यते स्वाभिलषितसिद्धय इति त्वं तथाभूतो मयापि श्रेयोऽनिश्चयार्थं याच्यस इति नैवानुचितमिति सम्बोधनाभिप्रायः । कर्मणो निष्कामादपि बुद्धिरात्मतत्त्वविषया ज्यायसी प्रशस्ततरा चेद्यदि ते तव मता तत्तदा किं कर्मणि घोरे हिंसाद्यनेकायासबहुले मामतिभक्तं नियोजयसि कर्मण्येवाधिकारस्त इत्यादिना विशेषेण प्रेरयसि । हे केशव सर्वेश्वर । सर्वेश्वरस्य सर्वेष्टदायिनस्तव मां भक्तं शिष्यस्तेऽहं शाधि मामित्यादिना त्वदेकशरणतयोपसन्नं प्रति प्रतारणा नोइचितेत्यभिप्रायः ॥१॥

विश्वनाथः

निष्काममर्पितं कर्म तृतीये तु प्रपञ्च्यते ।
कामक्रोधजिगीषायां विवेकोऽपि प्रदर्श्यते ॥

पूर्ववाक्येषु ज्ञानयोगान्निष्कामकर्मयोगाच्च निस्त्रैगुण्यप्रापकस्य गुणातीतभक्तियोगस्य उत्कर्षमाकलय्य तत्रैव स्वौत्सुक्यमभिव्यञ्जन् स्वधर्मे संग्रामे प्रवर्तकं भगवन्तं सख्यभावेनोपालभते । ज्यायसी श्रेष्ठा बुद्धिर्व्यवसायात्मिका गुणातीता भक्तिरित्यर्थः । घोरे युद्धरूपे कर्मणि किं नियोजयसि प्रवर्तयसि । हे जनार्दन जनान् स्वजनान् स्वाज्ञया पीडयसीत्यर्थः । न च तवाज्ञा केनापि अन्यथा कर्तुं शक्यत इत्याह । हे केशव को ब्रह्मा ईशो महादेवः । तावपि वयसे वशीकरोषि ॥१॥

बलदेवः

तृतीये कर्मनिष्कामं विस्तरेणोपवर्णितम् ।
कामादेर्विजयोपायो दुर्जयस्यापि दर्शितः ॥

पूर्वत्र कृपालुः पार्थसारथिरज्ञानकर्दमनिमग्नं जगत्स्वात्मज्ञानोपासनोपदेशेन समुद्दिधीर्षुस्तदङ्गभूतां जीवात्मयाथात्म्यबुद्धिमुपदिश्य तदुपायतया निष्कामकमबुद्धिमुपदिष्टवान् । अयमेवार्थो विनिश्चयाय चतुर्भिरध्यायैर्विधान्तरैर्वर्ण्यते । तत्र कर्मबुद्धिनिष्पाद्यत्वाज्जीवात्मबुद्धेः श्रेष्ठं स्थितम् । तत्रार्जुनः पृच्छति ज्यायसीति । कर्मणा निष्कामादपि चेत्तव तत्साध्यत्वात्जीवात्मबुद्धिर्ज्यायसी श्रेष्ठा मता । तर्हि तत्सिद्धये मां घोरे हिंसाद्यनेकायासे कर्मणि किं नियोजयसि तस्माद्युद्धस्वेत्यादिना कथं प्रेरयसि । आत्मानुभवहेतुभूता खलु सा बुद्धिर्निखिलेन्द्रियव्यापारविरतिसाध्या
तदर्थं तत्स्वजातीयाः शमादय एव युज्येरन्न तु सर्वेन्द्रियव्यापाररूपाणि तद्विजातीयानि कर्माणीति भावः । हे जनार्दन श्रेयोऽर्थिजनयाचनीय, हे केशव विधिरुद्रवशकारिन् ।

क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् ।
आवां तवाङ्गसम्भूतौ तस्मात्केशवनामभाग् ॥

इति हरिवंशे कृष्णं प्रति रुद्रोक्तिः । दुर्लङ्घ्याज्ञस्त्वं श्रेयोऽर्थिना मयाभ्यर्थितो मम श्रेयो निश्चित्य ब्रूहीति भावः ॥१॥

__________________________________________________________

भगवद्गीता ३.२

व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥२॥

श्रीधरः ननु धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यत इत्यादिना कर्मणोऽपि श्रेष्ठत्व्मुक्तमेव इत्याशङ्क्याह व्यामिश्रेणेति । क्वचित्कर्मप्रशंसा क्वचित्ज्ञानप्रशंसा इत्येवं व्यामिश्रं सन्देहोऽपादकमिव यद्वाक्यं तेन मे मम बुद्धिं मतिमुभयत्र दोलायितां कुर्वन्मोहयसीव । अत उभयोर्मध्ये यद्भद्रं तदेकं निश्चित्य वदेति । यद्वा, इदमेव श्रेयःसाधनमिति निश्चित्य येनानुष्ठितेन श्रेयो मोक्षमहमाप्नुयां प्राप्स्यामि तदेवैकं निश्चित्य वदेत्यर्थः ॥२॥

मधुसूदनः ननु नाहं कंचिदपि प्रतारयामि किं पुनस्त्वामतिप्रियम् । त्वं तु किं मे प्रतारणाचिह्नं पश्यसीति चेत्तत्राह व्यामिश्रेणेति । तव वचनं व्यामिश्रं न भवत्येव मम त्वेकाधिकारिकत्वभिन्नाधिकारिकत्वसन्देहाद्व्यामिश्रं सङ्कीर्णार्थमिव ते यद्वाक्यं मां प्रति ज्ञानकर्मनिष्ठाद्वयप्रतिपादकं त्वं मे मम मन्दबुद्धेर्वाक्यतात्पर्यापरिज्ञानाद्बुद्धिमन्तःकरणं मोहयसीव भ्रान्त्या योजयसीव । परमकारुणिकत्वात्त्वं न मोहयस्येव मम तु स्वाशयदोषान्मोहो भवतीतीवशशब्दार्थः । एकाधिकारित्वे विरुद्धयोः समुच्चयानुपपत्तेरेकार्थत्वाभावेन
च विकल्पानुपपत्तेः प्रागुक्तेर्यद्यधिकारिभेदं मन्यसे तदैकं मां प्रति विरुद्धयोर्निष्ठयोरुपदेशआयोगात्तज्ज्ञानं वा कर्म वैकमेवाधिकारं मे निश्चित्य वद । येनाधिकारनिश्चयपुरःसरमुक्तेन त्वया मया चानुष्ठितेन ज्ञानेन कर्मणा वैकेन श्रेयो मोक्षमहमाप्नुयां प्राप्तुं योग्यः स्याम् ।

एवं ज्ञानकर्मनिष्ठयोरेकाधिकारित्वे विकल्पसमुच्चययोरसम्भवादधिकारिभेदज्ञानायार्जुनस्य प्रश्न इति स्थितम् ।

इहेतरेषां कुमतं समस्तं
श्रुतिस्मृतिन्यायबलान्निरस्तम् ।
पुनः पुनर्भाष्यकृतातियत्नाद्
अतो न तत्कर्तुमहं प्रवृत्तः ॥

भाष्यकारमतसारदर्शिना
ग्रन्थमात्रमिह योज्यते मया ।
आशयो भगवतः प्रकाश्यते
केवलं स्ववचसो विशुद्धये ॥२॥

विश्वनाथः भो वयस्य अर्जुन ! सत्यं गुणातीता भक्तिः सर्वोत्कृष्टैव । किन्तु सा यादृच्छिकमदैकान्तैकमहाभक्तकृपैकलभ्यत्वात्पुरुसोद्यमसाध्या न भवति । अतएव निस्त्रैगुण्यो भव गुणातीतया मद्भक्त्या त्वं निस्त्रैगुण्यो भूया इत्याशीर्वाद एव दत्तः । स च यदा फलिष्यति तदा तादृशयादृच्छिकैकान्तिकभक्तकृपया प्राप्तामपि लप्स्यसे । साम्प्रतं तु कर्मण्येवाधिकारस्ते इति मयोक्तं चेत्, सत्यम् । तर्हि कर्मैव निश्चित्य कथं न ब्रूषे । किमिति सन्देहसिन्धौ मां क्षिपसीत्याह व्यामिश्रेणेति । विशेषतः आ सम्यक्तया मिश्रणं नानाविधार्थमिलनं यत्र तेन वाक्येन मे बुद्धिं मोहयसि । तथा हि कर्मण्येवाधिकारस्
ते [ङीता २.४७], सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते [ङीता २.४८],

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ [ङीता २.५०]

इति योगशब्दवाच्यं ज्ञानमपि ब्रवीषि । यदा ते मोहकलिलं [ङीता २.५२] इत्यनेन ज्ञानं केवलमपि ब्रवीषि । किं चात्र इवशब्देन त्वद्वाक्यस्य वस्तुतो नास्ति नानार्थमिश्रितत्वम् । नापि कृपालोस्तव मन्मोहनेच्छा । नापि मम तत्तदर्थानभिज्ञत्वमिति भावः । अयं गूढोऽभिप्रायः राजसात्कर्मणः सकाशात्सात्त्विकं कर्म श्रेष्ठं, तच्च सात्त्विकमेव । निर्गुणभक्तिश्च तस्माद्नतिश्रेष्ठैव । तत्र सा यदि मयि न सम्भवेदिति ब्रूषे, तदा सात्त्विकं ज्ञानमेवैकं मामुपदिश । तत एव दुःखमयात्संसारबन्धनान्मुक्तो भवेयमिति ॥२॥

बलदेवः व्यामिश्रेणेति । साङ्ख्यबुद्धियोगबुद्ध्योरिन्द्रियनिवृत्तिरूपयोः साध्यसाधकत्वावरोधि यद्वाक्यं तद्व्यामिश्रमुच्यते । तेन मे बुद्धिं मोहयसीव । वस्तुतस्तु सर्वेश्वरस्य मत्सखस्य च मे मन्मोहकता नास्त्येव । मद्बुद्धिदोषादेवं प्रयेम्यहमतीवशब्दार्थः । तत्तस्मादेकमव्यामिश्रं वाक्यं वद । न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुर्नास्त्यकृतः कृतेन इति श्रुतिवत् । येनाहमनुष्ठेयं निश्चित्यात्मनः श्रेयः प्राप्नुयाम् ॥२॥

__________________________________________________________

भगवद्गीता ३.३

श्रीभगवानुवाच
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३॥

श्रीधरः अत्रोत्तरं श्रीभगवानुवाच लोकेऽस्मिन्निति । अयमर्थः । यदि मया परस्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरूपं निष्ठाद्वयमुक्तं स्यात्तर्हि द्वयोर्मध्ये यद्भद्रं स्यात्तदेकं वद इति त्वदीयप्रश्नः संगच्छते । न तु मया तथोक्तम् । द्वाभ्यामेकैव ब्रह्मनिष्ठा उक्ता । गुणप्रधानभूतयोस्तयोः स्वातन्त्र्यानुपपत्तेः एकस्या एव तु प्रकारभेदमात्रमधिकारिभेदेनोक्तमिति । अस्मिन् शुद्धाशुद्धान्तः करणतया द्विविधे लोके अधिकारिजने द्वे विधे प्रकारौ यस्याः सा । द्विविधा निष्ठा मोक्षपरता पूर्वाध्याये मया सार्वज्ञेन प्रोक्ता स्पष्टम्
एवोक्ता । प्रकारद्वयमेव निर्दिशति ज्ञानयोगेनेत्यादि । साङ्ख्यानां शुद्धान्तःकरणानां ज्ञानभूमिकामारूढानां ज्ञानपरिपाकार्थं ज्ञानयोगेन ध्यानादिना निष्ठा ब्रह्मपरतोक्ता । तानि सर्वाणि संयम्य युक्त आसीत मत्पर इत्यादिना । साङ्ख्यभूमिकामारुरुक्षूणां त्वन्तःकरणशुद्धिद्वारा तदारोहणार्थं तदुपायभूतकर्मयोगाधिकारिणां योगिनां कर्मयोगेन निष्ठोक्ता धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यत इत्यादिना । अतएव तव चित्तशुद्धिरूपावस्थाभेदेन द्विविधापि निष्ठोक्ता । एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृण्विति ॥३॥

मधुसूदनः एवमधिकारिभेदेऽर्जुनेन पृष्टे तदनुरूपं प्रतिवचनं श्रीभगवानुवाच लोकेऽस्मिन्निति । अस्मिन्नधिकारित्वाभिमते लोके शुद्धाशुद्धान्तःकरणभेदेन द्विविधे जने द्विविधा द्विप्रकारा निष्ठा स्थितर्ज्ञानपरता कर्मपरता च पुरा पूर्वाध्याये मया तवात्यन्तहितकारिणा प्रोक्ता प्रकर्षेण स्पष्टत्वलक्षणेनोक्ता । तथा चाधिकार्यैक्यशङ्कया मा ग्लासीरिति भावः । हेऽनघापापेति सम्बोधयन्नुपदेशयोग्यतामर्जुनस्य सूचयति । एकैव निष्ठा साध्यसाधनावस्थाभेदेन द्विप्रकारा न तु द्वे एव स्वतन्त्रे निष्ठे इति कथयितुं निष्ठेत्येकवचनम् । तथा च वक्ष्यति एकं सांख्यं च योगं
च यः पश्यति स पश्यति [ङीता ५.५] इति ।

तामेव निष्ठां द्वैविध्येन दर्शयति साङ्ख्येति । सङ्ख्या सम्यगात्मबुद्धिस्तां प्राप्तवतां ब्रह्मचर्यादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां ज्ञानभूमिमारूढानां शुद्धान्तःकरणानां साङ्ख्यानां ज्ञानयोगेन ज्ञानमेव युज्यते ब्रह्मणानेनेति व्युत्पत्त्या योगस्तेन निष्ठोक्ता तानि सर्वाणि संयम्य युक्त आसीत मत्परः [ङीता २.६१] इत्यादिना । अशुद्धान्तःकरणानां तु ज्ञानभूमिमनारूढानां योगिनां कर्माधिकारयोगिनां कर्मयोगेन कर्मैव युज्यतेऽन्तःकरणशुद्ध्यानेनेति व्युत्पत्त्या योगस्तेन निष्ठोक्तान्तःकरणशुद्धिद्वारा
ज्ञानभूमिकारोहणार्थं धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते [ङीता २.३१] इत्यादिना ।

अतएव न ज्ञानकर्मणोः समुच्चयो विकल्पो वा । किन्तु निष्कामकर्मणा शुद्धान्तःकरणानां सर्वकर्मसंन्यासेनैव ज्ञानमिति चित्तशुद्ध्यशुद्धिरूपावस्थाभेदेनैकमेव त्वां प्रति द्विविधा निष्ठोक्ता । एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु [ङीता २.३९] इति । अतो भूमिकाभेदेनैकमेव प्रत्युभयोपयोगान्नाधिकारभेदेऽप्युपदेशवैयर्थ्यमित्यभिप्रायः । एतदेव दर्शयितुमशुद्धचित्तस्य चित्तशुद्धिपर्यन्तं कर्मानुष्ठानं न कर्मणामनारम्भात्[ङीता ३.४] इत्यादिभिर्मोघं प्राथ स जीवति [ङीता ३.१६] इत्यन्तैस्त्रयोदशभिर्दर्शयति । शुद्धचित्तस्य तु ज्ञानिनो न किंचिदपि कर्मापेक्षितमिति दर्शयति यस्त्व्
आत्मरतिर्[ङीता ३.१७] इति द्वाभ्याम् । तस्मादसक्तः इत्यारभ्य तु बन्धहेतोरपि कर्मएओ मोक्षहेतुत्वं सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण सम्भवति फलाभिसन्धिराहित्यरूपकौशलेनेति दर्शयिष्यति । ततः परं त्वथ केनेति प्रश्नमुत्थाप्य कामदोषेणैव कार्यकर्मणः शुद्धिहेतुत्वं नास्ति । अतः कामराहित्येनैव कर्माणि कुर्वन्नन्तःकरणशुद्ध्या ज्ञानाधिकारी भविष्यसीति यावदध्यायसमाप्ति वदिष्यति भगवान् ॥३॥

विश्वनाथः अत्रोत्तरम् । यदि मया परस्परनिरपेक्षावेव मोक्षसाधनत्वेन कर्मयोगज्ञानयोगावुक्तौ स्याताम् । तदा तदेकं वद निश्चित्येति त्वत्प्रश्नो घटते । मया तु कर्मानुष्ठाज्ञाननिष्ठावत्त्वेन यद्द्वैविध्यमुक्तम्, तत्खलु पूर्वोत्तरदशाभेदादेव, न तु वस्तुतो मोक्षं प्रत्यधिकारिद्वैधमित्याह लोके इति द्वाभ्याम् । द्विविधा द्विप्रकारा निष्ठा नितरां स्थितिमर्यादेत्यर्थः । पुरा प्रोक्ता पूर्वाध्याये कथिता । तामेवाह साङ्ख्यानां साङ्खं ज्ञानं तद्वताम् । तेषां शुद्धान्तःकरणत्वेन ज्ञानभूमिकामधिरूढानां ज्ञानयोगेनैव निष्ठा तेनैव मर्यादा स्थापिता । अत्र लोके तु ज्ञानित्वेनैव
ख्यापिता इत्यर्थः तानि सर्वाणि संयम्य युक्त आसीत मत्परः [ङीता २.६१] इत्यादिना । तथा शुद्धान्तःकरणत्वाभावेन ज्ञानभूमिकामधिरोढुमसमर्थानां योगिनां तदारोहणार्थमुपायवतां कर्मयोगेन मदर्पितनिष्कामकर्मणा निष्ठा मर्यादा स्थापिता । ते खलु कर्मित्वेनैव ख्यापितेत्यर्थः धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते [ङीता २.३१] इत्यादिना । तेन कर्मिणः ज्ञानिनः इति नाममात्रेणैव द्वैविध्यम् । वस्त्गुतस्तु कर्मिण एव कर्मिभिः शुद्धचित्ता ज्ञानिनो भवन्ति । ज्ञानिन एव भक्त्या मुच्यन्त इति मद्वाक्यसमुदायार्थ इति भावः ॥३॥

विश्वनाथः अत्रोत्तरम् । यदि मया परस्परनिरपेक्षावेव मोक्षसाधनत्वेन कर्मयोगज्ञानयोगावुक्तौ स्याताम् । तदा तदेकं वद निश्चित्येति त्वत्प्रश्नो घटते । मया तु कर्मानुष्ठाज्ञाननिष्ठावत्त्वेन यद्द्वैविध्यमुक्तम्, तत्खलु पूर्वोत्तरदशाभेदादेव, न तु वस्तुतो मोक्षं प्रत्यधिकारिद्वैधमित्याह लोके इति द्वाभ्याम् । द्विविधा द्विप्रकारा निष्ठा नितरां स्थितिमर्यादेत्यर्थः । पुरा प्रोक्ता पूर्वाध्याये कथिता । तामेवाह साङ्ख्यानां साङ्खं ज्ञानं तद्वताम् । तेषां शुद्धान्तःकरणत्वेन ज्ञानभूमिकामधिरूढानां ज्ञानयोगेनैव निष्ठा तेनैव मर्यादा स्थापिता । अत्र लोके तु ज्ञानित्वेनैव
ख्यापिता इत्यर्थः तानि सर्वाणि संयम्य युक्त आसीत मत्परः [ङीता २.६१] इत्यादिना । तथा शुद्धान्तःकरणत्वाभावेन ज्ञानभूमिकामधिरोढुमसमर्थानां योगिनां तदारोहणार्थमुपायवतां कर्मयोगेन मदर्पितनिष्कामकर्मणा निष्ठा मर्यादा स्थापिता । ते खलु कर्मित्वेनैव ख्यापितेत्यर्थः धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते [ङीता २.३१] इत्यादिना । तेन कर्मिणः ज्ञानिनः इति नाममात्रेणैव द्वैविध्यम् । वस्त्गुतस्तु कर्मिण एव कर्मिभिः शुद्धचित्ता ज्ञानिनो भवन्ति । ज्ञानिन एव भक्त्या मुच्यन्त इति मद्वाक्यसमुदायार्थ इति भावः ॥३॥

बलदेवः एवं पृष्टो भगवानुवाच लोकेऽस्मिन्निति । हे अनघ निर्मलबुद्धे पार्थ ज्यायसी चेदिति कर्मबुद्धिसाङ्ख्यबुद्ध्योर्गुणप्रधानभावं जानन्नपि तमस्तेजसोरिव विरुद्धयोस्तयोः कथमेकाधिकारित्वमिति शङ्कया प्रेरितः पृच्छसीति भावः । अस्मिन्मुमुक्षुतयाभिमते शुद्धाशुद्धचित्ततया द्विविधे लोके जने द्विविधा निष्ठा स्थितिर्मया सर्वेश्वरेण पुरा पूर्वाध्याये प्रोक्ता । निष्ठेत्येकवचनेन एकात्मोद्देश्यत्वादेकैव निष्ठा साध्यसाधनदशाद्वयभेदेन द्विप्रकारा न तु द्वे निष्ठे इति सूच्यते । एवमेवाग्रे वक्ष्यति एकं साङ्ख्यं च योगं च [ङीता ५.५] इति । तां निष्ठां द्वैविध्येन
दर्शयति ज्ञानेति । साङ्ख्यज्ञान अर्ह आद्यच् । तद्वतां ज्ञानिनां ज्ञानयोगेन निष्ठास्थितिरुक्ता प्रजहाति यदा कामान् [ङीता २.५५] इत्यादिना । ज्ञानमेव योगो युज्यते आत्मनानेनेतिव्युत्पत्तेः । योगिनां निष्कामकर्मवतां कर्मयोगेन निष्ठा स्थितिरुक्ता कर्मण्येवाधिकारस्ते [ङीता २.४७] इत्यादिना । कर्मैव योगो युज्यते ज्ञानगर्भया चित्तशुद्धयानेनेति व्युत्पत्तेः । एतदुक्तं भवति न खलु मुमुक्षुर्जनस्तदैव शमाद्यङ्गिकां ज्ञाननिष्ठां लभते । किन्तु साचारेण कर्मयोगेन चित्तमालिन्यं निर्धूयैवेत्येतदेव मया प्रागभाणि एषा तेऽभिहिता साङ्ख्ये [ङीता २.३९] इत्यादिना ।

__________________________________________________________

भगवद्गीता ३.४

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥

श्रीधरः अतः सम्यक्चित्तशुद्ध्या ज्ञानोत्पत्तिपर्यन्तं वर्णाश्रमोचितानि कर्माणि कर्तव्यानि । अन्यथा चित्तशुद्ध्यभावेन ज्ञानानुत्पत्तेरित्याह न कर्मणामिति । कर्मणामनारम्भादननुष्ठानान्नैष्कर्म्यं ज्ञानं नाश्नुते न प्राप्नोति । ननु चैतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तीति श्रुत्या संन्यासस्य मोक्षादङ्गत्वश्रुतेः संन्यसनादेव मोक्षो भविष्यति । किं कर्मभिः ? इत्याशङ्क्योक्तं न चेति । चित्तशुद्धिं विना कृतात्संन्यसनादेव ज्ञानशून्यात्सिद्धिं मोक्षं न समधिगच्छति न प्राप्नोति ॥४॥

मधुसूदनः तत्र कारणाभावे कार्यानुपपत्तेराह न कर्मणामिति । कर्मणा तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्यात्मज्ञाने विनियुक्तानामनारम्भादननुष्ठानाच्चित्तशुद्ध्यभावेन ज्ञानायोग्यो बहिर्मुखः पुरुषो नैष्कर्म्यं सर्वकर्मशून्यत्वं ज्ञानयोगेन निष्ठामिति यावत्नाश्नुते न प्राप्नोति ।

ननु एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति इति श्रुतेः सर्वकर्मसंन्यासादेव ज्ञाननिष्ठोपपत्तेः कृतं कर्मभिरित्यत आह न च संन्यसनादेव चित्तशुद्धिं विना कृतात्सिद्धिं ज्ञाननिष्ठालक्षणां सम्यक्फलपर्यवसायित्वेनाधिगच्छति नैव प्राप्नोतीत्यर्थः । कर्मजन्यां चित्तशुद्धिमन्तरेण संन्यास एव न सम्भवति । यथाकथंचिदौत्सुक्यमात्रेण कृतोऽपि न फलपर्यवसायीति भावः ॥४॥

विश्वनाथः चित्तशुद्ध्यभावे ज्ञानानुत्पत्तिमाह नेति । शास्त्रीयकर्मणामनारम्भादननुष्ठानान्नैष्कर्म्यं ज्ञानं न प्राप्नोति न चाशुद्धचित्तः । संन्यसनाच्छास्त्रीयकर्मत्यागात् ॥४॥

बलदेवः अतोऽशुद्धचित्तेन चित्तशुद्धेः स्वविहितानि कर्माण्येवानुष्ठेयानीत्याह न कर्मणामित्यादिभिस्त्रयोदशभिः । कर्मणां तमेतमिति वाक्येन ज्ञानाङ्गतया विहितानामनारम्भादननुष्ठानादविशुद्धचित्तः पुरुषो नैष्कर्म्यं निखिलेन्द्रियव्यापाररूपकर्मविरतिं ज्ञाननिष्ठामिति यावत्नाश्नुते न लभते । न च स तेषां कर्मणां संन्यासात्परित्यागात्सिद्धिं मुक्तिं समधिगच्छति ॥४॥

__________________________________________________________

भगवद्गीता ३.५

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥

श्रीधरः कर्मणां च संन्यासस्तेष्वनासक्तिमात्रम् । न तु स्वरूपेण । अशक्यत्वादिति । आह न हि कश्चिदिति । जातु कस्यांचिदप्यवस्थायां क्षणमात्रमपि कश्चिदपि ज्ञान्यज्ञानो वा अकर्मकृत्कर्माण्यकुर्वाणो न तिष्ठति । अत्र हेतुः प्रकृतिजैर्स्वभावप्रभवै रागद्वेषादिभिर्गुणैः सर्वोऽपि जनः कर्म कार्यते । कर्मणि प्रवर्त्यते । अवशोऽस्वतन्त्रः सन् ॥५॥

मधुसूदनः तत्र कर्मजन्यशुद्ध्यभावे बहिर्मुखः । हि यस्मात्क्षणमपि कालं जातु कदाचित्कश्चिदप्यजितेन्द्रियोऽकर्मकृत्सन्न तिष्ठति । अपि तु लौकिकवैदिककर्मानुष्ठानव्यग्र एव तिष्ठति तस्मादशुद्धचित्तस्य संन्यासो न सम्भवतीत्यर्थः ।

कस्मात्पुनरविद्वान् कर्माण्यकुर्वाणो न तिष्ठति । हि यस्मात् । सर्वः प्राणी चित्तशुद्धिरहितोऽवशोऽस्वतन्त्र एव सन् प्रकृतिजैः प्रकृतितो जातैरभिव्यक्तैः कार्याकारेण सत्त्वरजस्तमोभिः स्वभावप्रभवैर्वा रागद्वेषादिभिर्गुणैः कर्म लौकिकं वैदिकं वा कार्यते । अतः कर्माण्यकुर्वाणो न कश्चिदपि तिष्ठतीत्यर्थः । यतः स्वाभाविका गुणाश्चालका अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्मसंन्यासो न सम्भवतीति न संन्यासनिबन्धना ज्ञाननिष्ठा सम्भवतीत्यर्थः ॥५॥

विश्वनाथः किन्त्वशुद्धचित्तः कृतसंन्यासः शास्त्रीयं कर्म परित्यज्य व्यवहारिके कर्मणि निमज्जतीत्याह न हीति । ननु संन्यास एव तस्य वैदिकलौकिककर्मप्रवृत्तिर्विरोधी ? तत्राह कार्यत इति । अवशोऽस्वतन्त्रः ॥५॥

बलदेवः अविशुद्धचित्तः कृतवैदिककर्मसंन्यासो लौकिकेऽपि कर्मणि निमज्जतीत्याह नहीति । ननु संन्यास एव तस्य सर्वकर्मविरोधीति चेत्तत्राह कार्यत इति । प्रकृतिजैः स्वभावोद्भवैर्गुणै रागद्वेषादिभिः, कार्यते प्रवर्त्यते अवशः पराधीनः स्यात् ॥५॥

__________________________________________________________

भगवद्गीता ३.६

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥६॥

श्रीधरः अतोऽज्ञं कर्मत्यागिनं निन्दति कर्मेन्द्रियाणीति । वाक्पाण्यादीनि कर्मेन्द्रियाणि । संयम्य भगवद्ध्यानच्छलेन इन्द्रियार्थान् विषयान् स्मरन्नास्ते अविशुद्धतया मनसा आत्मनि स्थैर्याभावात्, स मिथ्याचारः कपटाचारो दाम्भिक उच्यत इत्यर्थः ॥६॥

मधुसूदनः यथाकथंचिदौत्सुक्यमात्रेण कृतसंन्यासस्त्वशुद्धचित्तस्तत्फलभाङ्न भवति यतः । यो विमूढात्मा रागद्वेषादिदूषितान्तःकरण औत्सुक्यमात्रेण कर्मेन्द्रियाणि वाक्पाण्यादीनि संयम्य निगृह्य बहिरिन्द्रियैः कर्माण्यकुर्वन्निति यावत् । मनसा रागादिप्रेरितेन्द्रियार्थान् शब्दादीन्न त्वात्मतत्त्वं स्मरन्नास्ते कृतसंन्यासोऽहमित्यभिमानेन कर्मशून्यस्तिष्ठति स मिथ्याचारः सत्त्वशुद्ध्यभावेन फलायोग्यत्वात्पापाचार उच्यते ।

त्वंपदार्थविवेकाय संन्यासः सर्वकर्मणाम् ।
श्रुत्येह विहितो यस्मात्तत्त्यागी पतितो भवेत् ॥

इत्यादिधर्मशास्त्रेण । अत उपपन्नं न च संन्यसनादेवाशुद्धान्तःकरणः सिद्धिं समधिगच्छतीति ॥६॥

विश्वनाथः ननु तादृशोऽपि सन्न्यासी कश्चित् । कश्चिदिन्द्रियव्यापारशून्यो मुद्रिताक्षो दृश्यते ? तत्राह कर्मेन्द्रियाणि, वाक्पाण्यादीनि निगृह्य यो मनसा ध्यानच्छलेन विषयान् स्मरन्नास्ते, स मिथ्याचारो दाम्भिकः ॥६॥

बलदेवः ननु रागदिव्यापारशून्यो मुद्रितश्रोत्रादिः कश्चित्कश्चिद्यदि दृश्यते तत्राह कर्मेन्द्रियाणीति । यो यतिः कर्मेन्द्रियाणि वागादीनि संयम्य मनसा ध्यानछद्मना इन्द्रियार्थान् शब्दस्पर्शादीन् स्मरन्नास्ते स विमूढात्मा मूर्खो मिथ्याचारः कथ्यते । स च निरुद्धरागादेरज्ञस्य निष्कामकर्मानुष्ठानेन मनःशुद्धेरनुदयात्श्रोत्राद्यप्रसारेऽप्यशुद्धत्वान्मनसा तद्विषयाणां स्म रणाज्ज्ञानायोद्यतस्यापि तस्य ज्ञानलाभात्मिथ्याचारो व्यर्थवागादिनियमक्रियो दाम्भिक इत्यर्थः ॥६॥

__________________________________________________________

भगवद्गीता ३.७

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥७॥

श्रीधरः एतद्विपरीतः कर्मकर्ता तु श्रेष्ठ इत्याह यस्त्विन्द्रियाणीति । यस्त्विन्द्रियाणि मनसा नियम्य ईश्वरपराणि कृत्वा कर्मेन्द्रियैः कर्मरूपं योगमुपायमारभतेऽनुतिष्ठति । असक्तः फलाभिलाषरहितः सन् । स विशिष्यते विशिष्टो भवति चित्तशुद्ध्या ज्ञानवान् भवतीत्यर्थः ॥७॥

मधुसूदनः औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निष्कामकर्माण्येव यथाशास्त्रं कुर्यात् । तस्मात्यस्त्विति । तुशब्दोऽशुद्धान्तःकरणसंन्यासिव्यतिरेकार्थः । इन्द्रियाणि ज्ञानेन्द्रियाएइ श्रोत्रादीनि मनसा सह नियम्य पापहेतुशब्दादिविषयासक्तेर्निवर्त्य मनसा विवेकयुक्तेन नियम्येति वा । कर्मेन्द्रियैर्वाक्पाण्यादिभिः कर्मयोगं शुद्धिहेतुतया विहितं कर्मारभते करोत्यसक्तः फलाभिलाषशून्यः सन् यो विवेकी स इतरस्मान्मिथ्याचाराद्विशिष्यते । परिश्रमसाम्येऽपि फलातिशयभाक्त्वेन श्रेष्ठो भवति । हेऽर्जुनाश्चर्यमिदं पश्य यदेकः कर्मेन्द्रियाणि निगृह्णन् ज्ञानेन्द्रियाणि व्यापारयन् पुरुषार्थशून्यो
ऽपरस्तु ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियाणि व्यापारयन् परमपुरुषार्थभाग्भवतीति ॥७॥

विश्वनाथः एतद्विपरीतः शास्त्रीयकर्मकर्ता गृहस्थस्तु श्रेष्ठ इत्याह यस्त्विति । कर्मयोगं शास्त्रविहितम् । असक्तोऽफलाकाङ्क्षी विशिष्यते । असम्भावितप्रसादित्वेन ज्ञाननिष्ठादपि पुरुषाद्विशिष्टः इति श्रीरामानुजाचार्यचरणाः ॥७॥

बलदेवः एतद्वैपरीत्येन स्वविहितकर्मकर्ता गृहस्थोऽपि श्रेष्ठ इत्याह यस्त्विति । आत्मानुभवप्रवृत्तेन मनसेन्द्रियाणि श्रोत्रादीनि नियम्यासक्तः फलाभिलाषशून्यः सन् यः कर्मेन्द्रियैः कर्मरूपं योगमुपायमारभतेऽनुतिष्ठति स विशिष्यते । सम्भाव्यमानज्ञानत्वात्पूर्वतः श्रेष्ठो भवतीत्यर्थः ॥७॥

__________________________________________________________

भगवद्गीता ३.८

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥८॥

श्रीधरः नियतमिति । यस्मादेवं तस्मान्नियतं नित्यं कर्म सन्ध्योपासनादि कुरु । हि यस्मात् । सर्वकर्मणोऽकरणात्सकाशात्कर्मकरणं ज्यायोऽधिकतरम् । अन्यथाकर्मणः सर्वकर्मशून्यस्य तव शरीरयात्रा शरीरनिर्वाहोऽपि न प्रसिध्येन्न भवेत् ॥८॥

मधुसूदनः यस्मादेवं तस्मान्मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियैस्त्वं प्रागननुष्ठितशुद्धिहेतुकर्मा नियतं विध्युद्देशे फलसम्बन्धशून्यतया नियतनिमित्तेन विहितं कर्म श्रौतं स्मार्तं च नित्यमिति प्रसिद्धं कुरु । कुर्विति मध्यमपुरुषप्रयोगेणैव त्वमिति लब्धे त्वमिति पदमर्थान्तरे संक्रमितम् ।

कस्मादशुद्धान्तःकरणेन कर्मैव कर्तव्यं हि यस्मादकर्मणोऽकरणात्कर्मैव ज्यायः प्रशस्यतरम् । न केवलं कर्माभावे तवान्तःकरणशुद्धिरेव न सिध्येत् । किन्तु अकर्मणो युद्धादिकर्मरहितस्य ते तव शरीरयात्रा शरीरस्थितिरपि न प्रकर्षेण क्षात्रवृत्तिकृतत्वलक्षणेन सिध्येत् । तथा च प्रागुक्तम् । अपि चेत्यन्तःकरणशुद्धिसमुच्चयार्थः ॥८॥

विश्वनाथः तस्मात्त्वं नियतं नित्यं सन्ध्योपासनादि॰ अकर्मणः कर्मसन्न्यासात्सकाशाज्ज्यायः श्रेष्ठम् । सन्न्याससर्वकर्मणस्तव शरीरनिर्वाहोऽपि न सिध्येत् ॥८॥

बलदेवः नियतमिति तस्मात्त्वमविशुद्धचित्तो नियतमावश्यककरं कुरु चित्तविशुद्धये निष्कामतया स्वविहितं कर्माचरेत्यर्थः । अकर्मणमौत्सुक्यमात्रेण सर्वकर्मसंन्याससकाशात्कर्मैव ज्यायः प्रशस्ततरं क्रमसोपानन्यायेन ज्ञानोत्पादकत्वात् । औत्सुक्यमात्रेण कर्म त्यजतोर्मलिने हृदि ज्ञानप्रकाशात् । किं चाकर्मणः संन्यस्तसर्वकर्मणस्तव शरीरयात्रा देहनिर्वाहोऽपि न सिध्येत् । यावत्साधनपूर्तिदेहधारणस्यावश्यकत्वात्तदर्थं ज्ञानी भिक्षाटनादिकर्मानुतिष्ठति । तच्च क्षत्रियस्य तवानुचितम् । तस्मात्स्वविहितेन युद्धप्रजापालनादिकर्मणा शुल्कानि वित्तान्युपार्ज्य तैर्निर्व्यूहदेहयात्रः स्वात्मानमनुसन्धेहीति ॥८॥

__________________________________________________________

भगवद्गीता ३.९

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥९॥

श्रीधरः साङ्ख्यास्तु सर्वमपि कर्मबन्धक्तवान्न कार्यमित्याहुः । तन्निराकुर्वन्नाह यज्ञार्थादिति । यज्ञोऽत्र विष्णुः । यज्ञो वै विष्णुरिति श्रुतेः । तदाराधनार्थात्कर्मणो ।न्यत्र तदेकं लोकोऽयं कर्मबन्धनः कर्मभिर्वध्यते । न तु ईश्वराराधनार्थेन कर्मणा । अतस्तदर्थं विष्णुप्रीत्यर्थं मुक्तसङ्गो निष्कामः सन् कर्म सम्यगाचर ॥९॥

मधुसूदनः कर्मणा बध्यते जन्तुः [ंभ्१२.२४१.७] इति स्मृतेः सर्वं कर्म बन्धात्मकत्वान्मुमुक्षुणा न कर्तव्यमिति मत्वा तस्योत्तरमाह
यज्ञार्थादिति । यज्ञः परमेश्वरः यज्ञो वै विष्णुर्[टैत्त्ष्१.७.४] इति श्रुतेः । तदाराधनार्थं यत्क्रियते कर्म तद्यज्ञार्थं तस्मात्कर्मणोऽन्यत्र कर्मणि प्रवृत्तोऽयं लोकः कर्माधिकारी कर्मबन्धनः कर्मणा बध्यते न त्वीश्वराराध्नार्थेन । अतस्तदर्थं यज्ञार्थं कर्म हे कौन्तेय ! त्वं कर्मण्यधिकृतो मुक्तसङ्गः सन् समाचर सम्यक्श्रद्धादिपुरःसरमाचर ॥९॥

विश्वनाथः ननु तर्हि कर्मणा बध्यते जन्तुः इति स्मृतेः । कर्मणि कृते बन्धः स्यादिति चेन्न । परमेश्वरार्पितं कर्म न बन्धकमित्याह यज्ञार्थादिति । विष्ण्वर्पितो निष्कामो धर्म एव यज्ञ उच्यते । यदर्थं यत्कर्म ततोऽन्यत्रैवायं लोकः कर्मबन्धनः कर्मणा बध्यमानो भवति । तस्मात्त्वं तदर्थं तादृशधर्मसिद्ध्यर्थं कर्म समाचर ।

ननु विष्ण्वर्पितोऽपि धर्मः कामनामुद्दिश्य कृतश्चेद्बन्धको भवत्येवेत्याह मुक्तसङ्गः फलाकाङ्क्षारहितः । एवमेवोद्धवं प्रत्यपि श्रीभगवतोक्तम्

स्वधर्मस्थो यजन् यज्ञैर्
अनाशीःकाम उद्धव ।
न याति स्वर्गनरकौ
यद्यन्यन्न समाचरेत् ॥

अस्मिन् लोके वर्तमानः
स्वधर्मस्थोऽनघः शुचिः ।
ज्ञानं विशुद्धमाप्नोति
मद्भक्तिं वा यदृच्छया ॥ [Bह्ড়् ११.२०.१०१] इति ॥९॥

बलदेवः ननु कर्मणि कृते बन्धो भवेत् । कर्मणा बध्यते जन्तुरित्यादिस्मरणाच्चेति तत्राह यज्ञार्थादिति । यज्ञः परमेश्वरः यज्ञो वै विष्णुरिति श्रुतेः । तदर्थात्तत्तोषफलात्कर्मणोऽन्यत्र स्वसुखफलककर्मणि क्रियमाणेऽयं लोकः प्राणी कर्मबन्धनः कर्मणा बध्यते । तस्मात्तदर्थं विष्णुतोषार्थं कर्म समाचर । हे कौन्तेय मुक्तसङ्गस्त्यक्तसुखाभिलाषः सन्न्यायोपार्जितद्रव्यसिद्धेन यज्ञादिना विष्णुराराध्य तच्छेषेण देहयात्रां कुर्वन्न बध्यत इत्यर्थः ॥९॥

__________________________________________________________

भगवद्गीता ३.१०

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥१०॥
श्रीधरः प्रजापतिवचनादपि कर्मकर्तैव श्रेष्ठ इत्याह सहयज्ञा इति । यञेन सह वर्तन्त इति सहयज्ञाः यज्ञाधिकृता ब्राह्मणादिप्रजाः पुरा सर्गादौ सृष्ट्वा इदमुवाच ब्रह्मा अनेन यज्ञेन प्रसविष्यध्वम् । प्रसवो हि वृद्धिः । उत्तरोत्तराभिवृद्धिं लभध्वमित्यर्थः । तत्र हेतुः । एष यज्ञो वो युष्माकमिष्टकामधुक् । इष्टान् दोग्धीति तथा । अभीष्टभोगप्रदोऽस्तु इत्यर्थः । अत्र च यज्ञग्रहणमावश्यककर्मोपलक्षणार्थम् । काम्यकर्मप्रशंसा तु प्रकरणेऽसङ्गतापि सामान्यतोऽकर्मणः कर्म श्रेष्ठमित्येतदर्थमित्यदोषः ॥१०॥

मधुसूदनः प्रजापतिवचनादप्यधिकृतेन कर्म कर्तव्यमित्याह सहयज्ञा इत्यादिचतुर्भिः । सह यज्ञेन विहितकर्मकलापेन वर्तन्त इति सहयज्ञा समाधिकृता इति यावत् । वोपसर्जनस्य [ড়ाण्६.३.८२] इति पक्षे सादेशाभावः । प्रजास्त्रीन् वर्णान् पुरा कल्पादौ सृष्ट्वोवाच प्रजानां पतिः स्रष्टा । किमुवाचेत्याह अनेन यज्ञेन स्वाश्रमोचितधर्मेण प्रसविष्यध्वं प्रसूयध्वम् । प्रसवो वृद्धिः । उत्तरोत्तरामभिवृद्धिं लभध्वमित्यर्थः । कथमनेन वृद्धिः स्यादित्याह एष यज्ञाख्यो धर्मो वो युष्माकमिष्टकामधुक् । इष्टानभिमतान् कामान् काम्यानि फलानि दोग्धि प्रापयतीति तथा । अभीष्टभोगप्रदोऽस्त्वित्य्
अर्थः ।

अत्र यद्यपि यज्ञग्रहणमावश्यककर्मोपलक्षणार्थमकरणे प्रत्यवायस्याग्रे कथनात् । काम्यकर्मणां च प्रकृते प्रस्तावो नास्त्येव मा कर्मफलहेतुर्भूरित्यनेन निराकृतत्वात् । तथाइ नित्यकर्मणामानुषङ्गिकफलसद्भावात् । एष वोऽस्त्विष्टकामधुकित्युपपद्यते । तथा च आपस्तम्बः स्मरति तद्यथाम्रे फलार्थे निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते नो चेदनूत्पद्यन्ते न धर्महानिर्भवति इति । फलसद्भावेऽपि तदभिसन्ध्यनभिसन्धिभ्यां काम्यनित्ययोर्विशेषः । अनभिसंहितस्यापि वस्तुस्वभावादुत्पत्तौ न विशेषः । विस्तरेण चाग्रे प्रतिपादयिष्यते ॥१०॥

विश्वनाथः तदेवाशुद्धचित्तौ निष्कामं कर्मैव कुर्यान्न तु सन्न्यासमित्युक्तम् । इदानीं यदि च निष्कामोऽपि भवितुं न शक्नुयात्तदा सकाममपि धर्मं विष्ण्वर्पितं कुर्यान्न तु कर्मत्यागमित्याह सहेति सप्तभिः । यज्ञेन सहिताः सहयज्ञाः वोपसर्जनस्य इति सहस्यादेशाभावः । पुरा विष्ण्वर्पितधर्मकारिणीः प्रजाः सृष्ट्वा ब्रह्मोवाच अनेन धर्मेण प्रसविष्यध्वं प्रसवो वृद्धिरुत्तरोत्तरमतिवृद्धिं लभध्वमित्यर्थः । तासां सकामत्वमभिलक्ष्याह एष यज्ञो व इष्टकामधुगभीष्टभोगप्रदो
ऽस्त्वित्यर्थः ॥१०॥

बलदेवः अयज्ञेशेषेण देहयात्रां कुर्वतो दोषमाह सहेति । प्रजापतिः सर्वेश्वरो विष्णुः पतिं विश्वस्यात्मेश्वरमित्यादिश्रुतेः । ब्रह्म प्रजानां पतिरच्युतोऽसावित्यादिस्मरणाच्च । पुरा आदिसर्गे सहयज्ञा यज्ञैः सहिता देवमानवादिरूपाः प्रजाः सृष्ट्वा नामरूपविभागशून्याः प्रकृतिशक्तिके स्वस्मिन् विलीनाः पुरुषार्थायोग्यास्तास्तत्सम्पादकनामरूपभाजो विधाय यज्ञं तन्निरूपकं वेदं च प्रकाश्येत्यर्थः । ताः प्रतीदमुवाच कारुणिकः । अनेन वेदोक्तेन मदर्पितेन यज्ञेन यूयं प्रसविष्यध्वम् । प्रसवो वृद्धिः
स्ववृद्धिं भजध्वमित्यर्थः । एष मदर्पितो यज्ञो वो युष्माकमिष्टकामधुखृद्विशुद्ध्यात्मज्ञानदेहयात्रासम्पादनद्वारा वाञ्छितमोक्षप्रदोऽस्तु ॥१०॥

__________________________________________________________

भगवद्गीता ३.११

देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥११॥

श्रीधरः कथमिष्टकामदोग्धा यज्ञो भवेदिति ? तत्राह देवानिति । अनेन यज्ञेन देवान् भावयत । हविर्भागैः संवर्धयत ते च देवा वो युष्मान् संवर्धयन्तु वृष्ट्यादिना अन्नोत्पत्तिद्वारेण । एवमन्योन्यं संवर्धयन्तो देवाश्च यूयं च परस्परं श्रेयोऽभीष्णमर्थमवाप्स्यथ प्राप्स्यथ ॥११॥

मधुसूदनः कथमिष्टकामदोग्धृत्वं यज्ञस्येति तदाह देवानिति । अनेन यज्ञेन यूयं यजमाना देवानिन्द्रादीन् भावयत हविर्भोगैः संवर्धयत तर्पयतेत्यर्थः । ते देवा युष्माभिर्भाविताः सन्तो वो युष्मान् भावयन्तु वृष्ट्यादिनान्नोत्पत्तिद्वारेण संवर्धयन्तु । एवमन्योन्यं संवर्धयन्तो देवाश्च यूयं च वरं श्रेयोऽभिमतमर्थं प्राप्स्यथ देवास्तृप्तिं प्राप्स्यन्ति यूयं च स्वर्गाख्यं परं श्रेयः प्राप्स्यथेत्यर्थः ॥११॥

विश्वनाथः कथमिष्टकामप्रदो यज्ञो भवेत्तत्राह देवानिति । अनेन यज्ञेन देवान् भावयत । भाववतः कुरुत । भावः प्रीतिस्तद्युक्तान् कुरुत प्रीणयनित्यर्थः । ते देवा अपि वः प्रीणयतु ॥११॥

बलदेवः इदं च प्रजाः प्रयुक्ताः अनेन यज्ञेन मदङ्गभूतानिन्दादीन् भावयत तत्तद्धविर्दानेन प्रीतान् यूयं कुरुत । ते देवा वो युष्मांस्तद्वरदानेन भावयन्तु प्रीतान् कुर्वन्तु । इत्थं शुद्धाहारेण मिथो भावतास्ते यूयं परं मोक्षलक्षणं श्रेयः प्राप्स्यथः तत्राहारशुद्धिर्हि ज्ञाननिस्ठाङ्गं, तत्राहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलब्धे सर्वग्रन्थीनां विप्रमोक्षः इति श्रुतेः ॥११॥

__________________________________________________________

भगवद्गीता ३.१२

इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥१२॥

श्रीधरः एतदेव स्पष्टीकुर्वन् कर्माकरणे दोषमाह इष्टानिति । यज्ञैर्भाविताः सन्तो देवा वृष्ट्यादिद्वारेण वो युष्मभ्यं भोगान् दास्यन्ते हि । अतो देवैर्दत्तानन्नादीनेभ्यो देवेभ्यः पञ्चयज्ञादिभिरदत्त्वा यो भुङ्क्ते, स स्तेनश्चौर एव ज्ञेयः ॥१२॥

मधुसूदनः न केवलं पारत्रिकमेव फलं यज्ञात्, किन्त्वैहिकमपीत्याह इष्टानिति । अभिलषितान् भोगान् पश्वन्नहिरण्यादीन् वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति । हि यस्माद्यज्ञैर्भावितास्तोषितास्ते । यस्मात्तैरृणवद्भवद्भ्यो दत्ता भोगास्तस्मात्तैर्देवैर्दत्तान् भोगानेभ्यो देवेभ्योऽप्रदाय यज्ञेषु देवोदेशेनाहुतीरसम्पाद्य यो भुङ्क्ते देहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव स देवस्वापहारी देवार्णपाकरणात् ॥१२॥

विश्वनाथः एतदेव स्पष्टीकुर्वन् कर्माकरणे दोषमाह इष्टानिति । तैर्दत्तान् वृष्ट्यादिद्वारेणान्नादीन्नादीनुत्पादेत्यर्थः । एभ्यो देवेभ्यः पञ्चमहायज्ञादिभिरदत्त्वा यो भुङ्क्ते, स तु चौर एव ॥१२॥

बलदेवः एतदेव विशदयन् कर्मानुष्ठानेन दोषमाह इष्टानिति । पूर्वभावितमदङ्गभूता देवा वो युष्मभ्यमिष्टान्मुमुक्षुकाम्यानुत्तरोत्तरयज्ञापेक्षान् भोगान् दास्यन्ति वृष्ट्यादिद्वारा व्रीह्यादीनुत्पाद्येत्यर्थः । स्वार्चनार्थं तैर्देवैर्दत्तांस्तान् भोगानेभ्यः पञ्चयज्ञादिभिरप्रदाय केवलात्मतृप्तिकरो यो भुङ्क्ते स स्तेनश्चौर एव । देवस्तान्यपहृत्य तैरात्मनः पोषात् । चौरो भूपादिव स यमाद्दण्डमर्हति पुमर्थानर्हः ॥१२॥

__________________________________________________________

भगवद्गीता ३.१३

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥१३॥

श्रीधरः अतश्च यजन्त एव श्रेष्ठाः । नेतर इत्याह यज्ञशिष्टाशिन इति । वैश्वदेवादियज्ञावशिष्टं येऽश्नन्ति ते पञ्चसूनाकृतैः सर्वैः किल्बिषैर्मुच्यन्ते । पञ्चसूनाश्च स्मृतावुक्ताः

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।
पञ्चसूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥ इति ॥

ये आत्मनो भोजनार्थमेव पचन्ति, न तु वैश्वदेवाद्यर्थं ते पापा दुराचारा अघमेव भुञ्जते ॥१३॥

मधुसूदनः ये तु वैश्वदेवादियज्ञावशिष्टममृतं येऽश्नन्ति ते सन्तः शिष्टा वेदोक्तकारित्वेन देवाद्यृणापाकरणात् अतस्ते मुच्यन्ते सर्वैर्विहिताकरणनिमित्तैः पूर्वकृतैश्च पञ्चसूनानिमित्तैः किल्बिषैः । भूतभाविपातकासंसर्गिणस्ते भवन्तीत्यर्थः ।

एवमन्वये भूतभाविपापाभावामुक्त्वा व्यतिरेके दोषमाह भुञ्जते ते वैश्वदेवाद्यकारिणोऽघं पापमेव । तुशब्दोऽवधारणे । ये पापाः पञ्चसूनानिमित्तं प्रमादकृतहिंसानिमित्तं च कृतपापाः सन्त आत्मकारणादेव पचन्ति न तु वैश्वदेवाद्यर्थम् । तथा च पाञ्चसूनादिकृतपापे विद्यमान एव वैश्वदेवादिनित्यकर्माकरणनिमित्तमपरं पापमाप्नुवन्तीति भुञ्जते ते त्वघं पापा इत्युक्तम् । तथा च स्मृतिः

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।
पञ्चसूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥िति ।

पञ्चसूनाकृतं पापं पञ्चयज्ञैर्व्यपोहति इति च । श्रुतिश्च इदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्नमो व्यावर्तते मिश्रं ह्येततिति । मन्त्रवर्णोऽपि

मोघमन्नं विन्दते अग्रचेताः
सत्यं ब्रवीमि वध इत्स तस्य ।
नार्यमाणं पुष्यति नो सखायं
केवलाधो भवति केवलादी ॥िति ।

इदं चोपलक्षणं पञ्चमहायज्ञानां स्मार्तानां श्रौतानां च नित्यकर्मणाम् । अधिकृतेन नित्यानि कर्माण्यवश्यमनुष्ठेयानीति प्रजापतिवचनार्थः ॥१३॥

विश्वनाथः वैश्वदेवादियज्ञावशिष्टमन्नं येऽश्नन्ति ते पञ्चसूनाकृतैः सर्वैः पापैर्मुच्यन्ते । पञ्चसूनाश्च स्मृत्युक्ताः

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।
पञ्चसूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥ इति ॥१३॥

बलदेवः ये इन्द्राद्यङ्गतयावस्थितं यज्ञं सर्वेश्वरं विष्णुमभ्यर्च्य तच्छेषमश्नन्ति तेन तद्देहयात्रां सम्पादयन्ति ते सन्तः सर्वेश्वरस्य यज्ञपुरुषस्य भक्ताः सर्वकिल्बिषैरनादिकालविवृद्धैरात्मानुभवप्रतिबन्धकैर्निखिलैः पापैर्विमुच्यन्ते । ते तु पापाः पापग्रस्ताः अघमेव भुञ्जते । ये तत्तद्देवताङ्गतयावस्थितेन यज्ञपुरुषेण स्वार्चनाय दत्तं व्रीह्याद्यात्मकारणात्पचन्ति तद्विपच्यात्मपोषणं कुर्वन्तीत्यर्थः । पक्वस्य व्रीह्यादेरघरूपेण परिणामादघत्वमुक्तम् ॥१३॥

__________________________________________________________

भगवद्गीता ३.१४

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥१४॥

श्रीधरः जगच्चक्रप्रवृत्तिहेतुत्वादपि कर्म कर्तव्यमित्याह अन्नादिति त्रिभिः । अन्नात्शुक्रशोणितरूपेण परिणताद्भूतान्युत्पद्यन्ते । अन्नस्य च सम्भवः पर्जन्याद्वृष्टेः । स च पर्जन्यो यज्ञाद्भवति । स च यज्ञः कर्मसमुद्भवः । कर्मणा यजमानादिव्यापारेण सम्यक्सम्पद्यत इत्यर्थः ।

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥१४॥

मधुसूदनः न केवलं प्रजापतिवचनादेव कर्म कर्तव्यमपि तु जगच्चक्रप्रवृत्तिहेतुत्वादपीत्याह अन्नादिति त्रिभिः । अन्नाद्भुक्ताद्रेतोलोहितरूपेण परिणताद्भूतानि प्राणिशरीराणि भवन्ति जायन्ते । अन्नस्य सम्भवो जन्मान्नसम्भवः पर्जन्याद्वृष्टेः । प्रत्यक्षसिद्धमेवैतत् । अत्र कर्मोपयोगमाह यज्ञात्कारीर्यादेरग्निहोत्रादेश्चापूर्वाख्याद्धर्माद्भवति पर्जन्यः । यथा चाग्निहोत्राहुतेर्वृष्टिजनकत्वं तथा व्याख्यातमष्टाध्यायीकाण्डे जनकयाज्ञवल्क्यसंवादरूपायां षट्प्रश्न्याम् । मनुना चोक्तम्

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्तिर्वृष्तेरन्नं ततः प्रजाः ॥[ंनु ३.७६] इति ।

स च यज्ञो धर्माख्यः सूक्ष्मः कर्मसमुद्भव ऋत्विग्यजमानव्यापारसाध्यः । यज्ञस्य हि अपूर्वस्य विहितं कर्म कारणम् ॥१४॥

विश्वनाथः जगच्चक्रप्रवृत्तिहेतुत्वादपि यज्ञं कुर्यादेवेत्याह अन्नाद्भूतानि प्राणिनो भवन्तीति भूतानां हेतुरन्नम् । अन्नादेव शुक्रशोणितरूपेण परिणतात्प्राणिशरीरसिद्धेस्तस्यान्नस्य हेतुः पर्जन्यः । वृष्टिभिरेवान्नसिद्धेस्तस्य पर्जन्यस्य हेतुर्यज्ञः । लोकैः कृतेन यज्ञेनैव समुचितवृष्टिप्रदमेघसिद्धेस्तस्य यज्ञस्य हेतुः कर्मऋत्विग्यजमानव्यापारात्मकत्वात्कर्मण एव यज्ञसिद्धेः ॥१४॥

बलदेवः प्रजापतिना परेशेन प्रजाः सृष्ट्वा तदुपजीवनाय तदैव यज्ञः सृष्टस्ततः परेशानुबर्तिनावश्यं सकार्य इत्याह अन्नादिति द्वाभ्याम् । भूतानि प्राणिनोऽन्नाद्व्रीह्यादेर्भवन्ति । शुक्रशोणितरूपेण परिणतास्तस्मात्तद्देहानां सिद्धेः । तस्यान्नस्य सम्भवः पर्जन्याद्वृष्टेर्भवति । पर्जन्यश्च यज्ञाद्भवति सिध्यतीत्यर्थः ।

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ इति मनुस्मृतेः ॥१४॥

__________________________________________________________

भगवद्गीता ३.१५

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५॥

श्रीधरः तथा कर्मेति । तच्च यजमानादिव्यापाररूपं कर्म ब्रह्मोद्भवं विद्धि । ब्रह्म वेदः । तस्मात्प्रवृत्तं जानीहि । अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेअः सामवेदो ।थाङ्गीरसः इति श्रुतेः । यत एवमक्षरादेव यज्ञप्रवृत्तेरत्यन्तमभिप्रेतो यज्ञः, तस्मात्सर्वगतमप्यक्षरं ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितम् । यज्ञेनोपायभूतेन प्राप्यत इति यज्ञे प्रतिष्ठितमुच्यत इति । उद्यमस्था सदा लक्ष्मीरितिवत् । यद्वा, जगच्चक्रस्य मूलं कर्म तस्मात्सर्वगतं मन्त्रार्थवादैः सर्वेषु सिद्धार्थप्रतिपादकेषु भूतार्थाख्यानादिषु
गतं स्थितमपि वेदाख्यं ब्रह्म सर्वदा यज्ञे तात्पर्यरूपेण प्रतिष्ठितम् । अतो यज्ञादि कर्म कर्तव्यमित्यर्थः ॥१५॥

मधुसूदनः तच्चापूर्वोत्पादकम् । ब्रह्मोद्भवं ब्रह्म वेदः स एवोद्भवः प्रमाणं यस्य तत्तथा । वेदविहितमेव कर्मापूर्वसाधनं जानीहि । न त्वन्यत्पाषण्डप्रतिपादितमित्यर्थः । ननु पाषण्डशास्त्रापेक्षया वेदस्य किं वैलक्षण्यं यतो वेदप्रतिपादित एव धर्मो नान्य इत्यत आह ब्रह्म वेदाख्यमक्षरसमुद्भवमक्षरात्परमात्मनो निर्दोषात्पुरुषनिःश्वासन्यायेनाबुद्धिपूर्वं समुद्भव आविर्भावो यस्य तदक्षरसमुद्भवम् । तथा चापौरुषेयत्वेन निरस्तसमस्तदोषाशङ्कं वेदवाक्यं प्रमितिजनकमिति भावः
। तथा च श्रुतिः अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेअः सामवेदोऽथाङ्गीरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याखानानि व्याख्यानान्यस्यैवैतानि निःश्वसितानि [Bआऊ २.४.१०] इति ।

तस्मात्साक्षात्परमात्मसमुद्भवतया सर्वगतं सर्वप्रकाशकं नित्यमविनाशि च ब्रह्म वेदाख्यं यज्ञे धर्माख्येऽतीन्द्रिये प्रतिष्ठितं तात्पर्येण । अतः पाषण्डप्रतिपादितोपधर्मपरित्यागेन वेदबोधित एव धर्मोऽनुष्ठेय इत्यर्थः ॥१५॥

विश्वनाथः तस्य कर्मणो हेतुर्ब्रह्म वेदः । वेदोक्तविधिवाक्यश्रवणादेव यज्ञं प्रति व्यापारोत्पत्तेस्तस्य वेदस्य हेतुरक्षरं ब्रह्म । ब्रह्मत एव वेदोत्पत्तेः । तथा च श्रुतिः अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेअः सामवेदो ।थाङ्गीरसः इति । तस्मात्सर्वगतं ब्रह्म यज्ञे प्रतिष्ठितमिति यज्ञेन ब्रह्मापि प्राप्यत इति भावः । अत्र यद्यपि कार्यकारणभावेनान्नाद्या ब्रह्मपर्यन्ताः पदार्थो उक्तास्तदपि तेषु मध्ये यज्ञ एत विधेयत्वेन शास्त्रेणोच्यत इति । स एव प्रस्तुतः

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ इति स्मृतेः ॥१५॥

बलदेवः तच्च ऋत्विगादिव्यापाररूपकर्मब्रह्मोद्भवं विद्धि । ब्रह्मवेदस्तस्मात्तत्प्रवृत्तिं जानीहीत्यर्थः । तच्च वेदरूपं ब्रह्म अक्षरात्परेशात्समुद्भवं प्रकटं विद्धि । अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेअः सामवेदो ।थाङ्गीरसः इत्यादिश्रवणात् । यस्मात्स्वसृष्टप्रजोपजीवनातिप्रियो यज्ञस्तस्मात्सर्वगतं निखिलव्यापकमपि ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितं तेनैव तत्प्राप्यत इत्यर्थः ॥१५॥

__________________________________________________________

भगवद्गीता ३.१६

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥१६॥

श्रीधरः यस्मादेवं परमेश्वरेणैव भूतानां पुरुषार्थसिद्धये कर्मादिचक्रं प्रवर्तितं तस्मात्तदकुर्वतो वृथैव जीवितमित्याह एवमिति । परमेश्वरवाक्यभूताद्वेदाख्याद्ब्रह्मणः पुरुषाणां कर्मणि प्रवृत्तिः । ततः कर्मनिष्पत्तिः । ततः पर्जन्यः । ततोऽन्नम् । ततो भूतानि । भूतानां पुनस्तथैव कर्मप्रवृत्तिरिति । एवं प्रवर्तितं चक्रं यो नानुवर्तयति नानुतिष्ठति सोऽघायुः । अघं पापरूपमायुर्यस्य सः । यत इन्द्रियैर्विषयेष्वेवारमति, न तु ईश्वराराधनार्थे कर्मणि । अतो मोघं व्यर्थं
स जीवति ॥१६॥

मधुसूदनः भवत्येवं ततः किं फलितमित्याह एवमिति । परमेश्वरात्सर्वावभासकनित्यनिर्दोषवेदाविर्भावः । ततः कर्मपरिज्ञानं ततोऽनुष्ठानाद्धर्मोत्पादः । ततः पर्जन्यस्ततोऽन्नं ततो भूतानि पुनस्तथैव भूतानां कर्मप्रवृत्तिरित्येवं परमेश्वरेण प्रवर्तितं चक्रं सर्वजगन्निर्वाहकं यो नानुवर्तयति नानुतिष्ठति सोऽघायुः पापजीवनो मोघं व्यर्थमेव जीवति हे पार्थ तस्य जीवनान्मरणमेव वरं जन्मान्तरे धर्मानुष्ठानसम्भवादित्यर्थः । तथा च श्रुतिः अथो अयं वा आत्मा सर्वेषां
भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितॄणामथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः [Bआऊ १.४.१६] इति ।

ब्रह्मविदं व्यावर्तयति इन्द्रियाराम इति । यत इन्द्रियैर्विषयेष्वारमति अतः कर्माधिकारी संस्तदकरणात्पापमेवाचिन्वन् व्यर्थमेव जीवतीत्यभिप्रायः ॥१६॥

विश्वनाथः एतदनुष्ठाने प्रत्यवायमाह एवमिति । चक्रं पूर्वपश्चाद्भागेन प्रवर्तितम् । यज्ञान् पर्जन्यः । पर्जन्यादन्नम् । अन्नात्पुरुषः । पुरुषात्पुनर्यज्ञः । यज्ञात्पर्जन्य इत्येवं चक्रं यो नानुवर्तयति यज्ञानुष्ठानेन न परिवर्तयति, स अघायुः पापव्याप्तायुः । को नरके न मङ्क्ष्यतीति भावः ॥१६॥

बलदेवः यज्ञाकरणे दोषमाहैवमिति । परस्माद्ब्रह्मणो वेदाविर्भावस्तस्माद्ब्रह्मप्रतिबोधकात्यज्ञस्ततः पर्जन्यस्ततोऽन्नं ततो भूतानि पुनस्तथैव भूतानां कर्मप्रवृत्तिरित्येवं निखिलजगन्निर्वाहकं परेशेन प्रजापतिना प्रवर्तितं चक्रं यो नानुवर्तयति स जनः परेशविमुखोऽघायुः पापजीवनो मोघं व्यर्थमेव जीवति । हे पार्थ यदसाविन्द्रियैर्विषयेष्वेव रमते न तु परब्रह्माभिमते यज्ञे तच्छेषाशने च ॥१६॥

__________________________________________________________

भगवद्गीता ३.१७

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥

श्रीधरः तदेवं न कर्मणामारम्भादित्यादिना अज्ञस्य अन्तःकरणशुद्ध्यर्थं कर्मयोगमुक्त्वा ज्ञानिनः कर्मानुपयोगमाह यस्त्विति द्वाभ्याम् । आत्मन्येव रतिः प्रीतिर्यस्य सः । ततश्चात्मन्येव तृप्तः स्वानन्दानुभवेन निर्वृतः । अतएव आत्मन्येव सन्तुष्टो भोगापेक्षारहितो यस्तस्य कर्तव्यं कर्म नास्तीति ॥१७॥

ंधुसूदनः यस्त्विन्द्रियारामो न भवति परमार्थदर्शी स एवं जगच्चक्रप्रभृतिहेतुभूतं कर्माननुतिष्ठन्नपि न प्रत्यवैति कृतकृत्यत्वादित्याह द्वाभ्यां यस्त्विति । इन्द्रियारामो हि स्रक्चन्दनवनितादिषु रतिमनुभवति मनोज्ञान्नपानादिषु तृप्तिं पशुपुत्रहिरण्यादिलाभेन रोगाद्यभावेन च तुष्टिम् । उक्तविषयाभावे रागिणामरत्यतृप्त्यतुष्टिदर्शनाद्रतितृप्तितुष्ट्यौ मनोवृत्तिविशेषाः साक्षिसिद्धाः । लब्धपरमात्माननस्तु द्वैतदर्शनाभावादतिफल्गुत्वाच्च विषयसुखं न कामयत इत्युक्तं यावानर्थ उदपाने इत्यत्र । अतोऽनात्मविषयकरतितृप्तितुष्ट्यभावाद्
आत्मानं परमानन्दमद्वयं साक्षात्कुर्वन्नुपचारादेवमुच्यते आत्मरतिरात्मतृप्त आत्मसन्तुष्ट इति । तथा च श्रुतिः आत्मक्रीड आत्मरतिः क्रियावानेव ब्रह्मविदां वरिष्ठः इति । आत्मतृप्तश्चेति चकार एवकारानुकर्षणार्थः । मानव इति यः कश्चिदपि मनुष्य एवम्भूतः स एव कृतकृत्यो न तु ब्राह्मणत्वादिप्रकर्षेणेति कथयितुम् । आत्मन्येव च सन्तुष्ट इत्यत्र चकारः समुच्चयार्थः । य एवम्भूतस्याधिकारहेत्वभावात्किमपि कार्यं वैदिकं लौकिकं वा न विद्यते ॥१७॥

विश्वनाथः तदेवं निष्कामत्वासामर्थ्ये सकामोऽपि कर्म कुर्यादेवेत्युक्तम् । यस्तु शुद्धान्तःकरणत्वात्ज्ञानभूमिकामारूढः स तु नित्यं काम्यं च न करोतीत्याह यस्त्विति द्वाभ्याम् । आत्मरतिरात्मारामो यत आत्मतृप्तः आत्मानन्दानुभवेन निर्वृतः । न स्वात्मनि निर्वृतो बहिर्विषयभोगेऽपि किञ्चिन्निर्वृतो भवतु । अत्र नैवेत्याहआत्मन्येव न तु बहिर्विषयभोगे तस्य कार्यं कर्तव्यत्वेन कर्म नास्ति ॥१७॥

बलदेवः यस्तु मदुक्तेन निष्कामकर्मणा मदुपासनेन च विमृष्टे चित्तदर्पणे सञ्जातेन धर्मभूतज्ञानेनात्मानमदर्शत्तस्य न किञ्चित्कर्म कर्तव्यमित्याह यस्त्विति द्वाभ्याम् । आत्मन्यपहतपाप्मत्वादिगुणाष्टकविशिष्टे स्वस्वरूपे अवलोकिते रतिर्यस्य सः । आत्मना स्वप्रकाशानन्देनावलोकितेन तृप्तो न त्वन्नपानादिना । आत्मन्येव च तादृशे सन्तुष्टो न तु नृत्यगीतादौ । तस्यैवम्भूतस्य तदवलोकानाय किञ्चित्कर्म कर्तव्यं न विद्यते सर्वदावलोकितात्मस्वरूपत्वात् ॥१७॥

__________________________________________________________

भगवद्गीता ३.१८

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥

श्रीधरः तत्र हेतुमाह नैवेति । कृतेन कर्मणा तस्य अर्थः पुण्यं नैवास्ति । न चाकृतेन कश्चन कोऽपि प्रत्यवायोऽस्ति । निरहङ्कारत्वेन विधिनिषेधातीतत्वात् । तथापि तस्मात्तदेषां देवानां न प्रियं यदेतन्मनुषा विदुरिति श्र्तुएर्मोक्षे देवकृतविघ्नसम्भवात्तत्परिहारार्थं कर्मभिर्देवाः सेव्या इत्याशङ्क्योक्तं सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कश्चिदर्थव्यपाश्रयः आश्रय एव व्यपाश्रयः । अर्थो मोक्ष आश्रयणीयोऽस्य नास्तीत्यर्थः । विघ्नाभावस्य श्रुत्यैवोक्तत्वात् । तथा च श्रुतिः तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां स भवति इति श्रवणात्
। हनेत्यव्ययमप्यर्थे । देवा अपि तस्यात्मतत्त्वज्ञस्य अभूत्यै ब्रह्मभावप्रतिबन्धाय नेशते न शक्नुवन्तीति श्रुतेरर्थः । देवकृतास्तु विघ्नाः सम्यग्ज्ञानोत्पत्तेः प्रागेव । यदेतद्ब्रह्म मनुष्या विदुस्तदेषां देवानां न प्रियमिति ब्रह्मज्ञानस्यैव अप्रियत्वोक्त्या तत्रैव विघ्नकर्तृत्वस्य सूचितत्वात् ॥१८॥

मधुसूदनः नन्वात्मविदोऽपि अभ्युदयार्थं निःश्रेयसार्थं प्रत्यवायपरिहारार्थं वा कर्म स्यादित्यत आह नैवेति । तस्यात्मरतेः कृतेन कर्मणाभ्युदयलक्षणो निःश्रेयसलक्षणो वार्थं प्रयोजनं नैवास्ति तस्य स्वर्गाद्यभ्युदयानर्थित्वात् । निःश्रेयसस्य च कर्मासाध्यत्वात् । तथा च श्रुतिः परीक्ष्य लोकान् कर्मचित्तान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन इति । अकृतो नित्यो मोक्षः कृतेन कर्मणा नास्तीत्यर्थः । ज्ञानसाध्यस्यापि व्यावृत्तिरेवकारेण सूचिता । आत्मरूपस्य हि निःश्रेयस्य नित्यप्राप्तस्याज्ञानमात्रमप्राप्तिः । तच्च तत्त्वज्ञानमात्रापनोद्यम् । तस्मिंस्तत्त्वज्ञानेनापनुन्ने
तस्यात्मविदो न किंचित्कर्मसाध्यं ज्ञानसाध्यं वा प्रयोजनमस्तीत्यर्थः ।

एवंभूतेनापि प्रत्यवायपरिहारार्थं कर्माण्यनुष्ठेयान्येवेत्यत आह नाकृतेनेति । भावे निष्ठा । नित्यकर्माकरणेनेह लोके गर्हितत्वरूपः प्रत्यवायप्राप्तिरूपो वा कश्चनार्थो नास्ति । सर्वत्रोपपत्तिम् आहोत्तरार्धेन । चो हेतौ । यस्मादस्यात्मविदः सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कोऽपि अर्थव्यपाश्रयः प्रयोजनसम्बन्धो नास्ति । कंचिद्भूतविशेषमाश्रित्य कोऽपि क्रियासाध्योऽर्थो नास्तीति वाक्यार्थः । अतोऽस्य कृताकृते निष्प्रयोजनं नैव कृताकृते तपतः इति श्रुतेः । तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां न भवति इति श्रुतेर्देवा अपि तस्य मोक्षाभवनाय न समर्था इत्युक्तेर्न विघ्नाभावार्थम्
अपि देवाराधनरूपकर्मानुष्ठानमित्यभिप्रायः ।

एतादृशो ब्रह्मविद्भूमिकासप्तकभेदेन निरूपितो वसिष्ठेन

ज्ञानभूमिः शुभेच्छाख्या प्रथमा परिकीर्तिता ।
विचारणा द्वितीया स्यात्तृतीया तनुमानसा ॥
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनासिका ।
पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता ॥ इति ।

तत्र नित्यानित्यवस्तुविवेकादिपुरःसरा फलपर्यवसायिनी मोक्षेच्छा प्रथमा । ततो गुरुमुपसृत्य वेदान्तवाक्यविचारः श्रवणमननात्मको द्वितीया । ततो निदिध्यासनाभ्यासेन मनस एकाग्रतया सूक्ष्मवस्तुग्रहणयोग्यत्वं तृतीया । एतद्भूमिकात्रयं साधनरूपं जाग्रदवस्थोच्यते योगिभिः । भेदेन जगतो भानात् । तदुक्तम्

भूमिकात्रितयः त्वेतद्राम जाग्रदिति स्थितम् ।
यथावद्भेदबुद्ध्येदं जगज्जाग्रति दृश्यते ॥ इति ।

ततो वेदान्तवाक्यान्निर्विकल्पको ब्रह्मात्मैक्यसाक्षात्कारश्चतुर्थी भूमिका फलरूपा सत्त्वापत्तिः स्वप्नावस्थोच्यते । सर्वस्यापि जगतो मिथ्यात्वेन स्फुरणात् । तदुक्तम्

अद्वैते स्थैर्यमायाते द्वैते प्रशममागते ।
पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकामिताः ॥ इति ।

सोऽयं चतुर्थभूमिं प्राप्तो योगी ब्रह्मविदित्युच्यते । पञ्चमीषष्ठीसप्तम्यस्तु भूमिका जीवन्मुक्तेरेवावान्तरभेदाः । तत्र सविकल्पकसमाध्यभ्यासेन निरुद्धे मनसि या निर्विकल्पकसमाध्यवस्था सासंसक्तिरिति सुषुप्तिरिति चोच्यते । ततः स्वयमेव व्युत्थानात् । सोऽयं योगी ब्रह्मविद्वरः । ततस्तदभ्यासपरिपाकेण चिरकालावस्थायिनी सा पदार्थाभावनीति गाढसुषुप्तिरिति चोच्यते । ततः स्वयमनुस्थितस्य योगिनः परप्रयत्नेनैव व्युत्थानात् । सोऽयं ब्रह्मविद्वरीयान् । उक्तं हि

पञ्चमीं भूमिकामेत्य सुषुप्तिपदनामिकाम् ।
षष्ठीं गाढसुषुप्त्याख्यां क्रमात्पतति भूमिकाम् ॥ इति ।

यस्यास्तु समाध्यवस्थाया न स्वतो न वा परतो व्युत्थितो भवति सर्वथा भेददर्शनाभावात् । किन्तु सर्वदा तन्मय एव स्वप्रयत्नमन्तरेणैव परमेश्वरप्रेरितप्राणवायुवशादन्यैर्निर्वाह्यमाणदैहिकव्यवहारः परिपूर्णपरमानन्दघन एव सर्वतस्तिष्ठति । सा सप्तमी तुरीयावस्था । तां प्राप्तो ब्रह्मविद्वरिष्ठ इत्युच्यते । उक्तं हि

षष्ठ्यां भूमामसौ स्थित्वा सप्तमीं भूमिकामाप्नुयात् ।
किंचिदेवैष सम्पन्नस्त्वथवैष न किंचन ॥
विदेहमुक्तता तूक्ता सप्तमी योगभूमिका ।
अगम्या वचसां शान्ता सा सीमा योगभूमिषु ॥ इति ।

यामधिकृत्य श्रीमद्भागवते स्मर्यते

देहं च नश्वरमवस्थितमुत्थितं वा
सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् ।
दैवादपेतमथ दैववशादुपेतं
वासो यथा परिकृतं मदिरामदान्धः ॥

देहोऽपि दैववशगः खलु कर्म यावत्
स्वारम्भकं प्रतिसमीक्षत एव सासुः ।
तं सप्रपञ्चमधिरूठसमाधियोगः
स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥[Bह्ড়् ११.१३.३६३७]

श्रुतिश्च तद्यथाऽहिनिर्ल्व्ययनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव इति ।

तत्रायं सङ्ग्रहः

चतुर्थी भूमिका ज्ञानं तिस्रः स्युः साधनं पुरा ।
जीवन्मुक्तेरवस्थास्तु परास्तिस्रः प्रकीर्तिताः ॥

अत्र प्रथमभूमित्रयमारूढोऽज्ञोऽपि न कर्माधिकारी किं पुनस्तत्त्वज्ञानी तद्विशिष्टो जीवन्मुक्तो वेत्यभिप्रायः ॥१८॥

विश्वनाथ कृतेनानुष्ठितेन कर्मणा नार्थो न फलम् । अकृतेन कञ्चन प्रतवायोऽपि न, यस्मादस्य सर्वभूतेषु ब्रह्माण्डस्थावरादिषु मध्ये कश्चिदप्यर्थाय स्वप्रयोजनार्थं व्यपाश्रय आश्रयणीयो न भवति । पुराणादिषु व्यपाश्रयशब्देन तथैवोच्यते, यथा

वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् ।
ज्ञानवैराग्यवीर्याणां नेह कश्चिद्व्यपाश्रयः ॥ [Bह्ড়् ६.१७.३१] इति ।

तथायदुपाश्रयाश्रयाः शुद्ध्यन्ति [Bह्ড়् २.७.४६] इति । संस्थाहेतुरुपाश्रयः इत्यादावप्यपेत्युपसर्गस्यानधिकार्थं दृष्टम् ॥१८॥

बलदेवः कृतेन तदवलोकनायानुष्ठितेन कर्मणार्थः फलं नैवास्ति । अकृतेन तदवलोकनासाधनेन कर्मणा कश्चनानर्थश्च तदवलोकनक्षतिलक्षण इह न भवति । स्वाभाविकात्मावलोकनात् । न त्वीदृशोऽपि देवकृताद्विघ्नाद्बिभ्यत्तत्तोषाय तत्पूजात्मकं कर्म कुर्यात् । श्रुतिश्च देवान् ज्ञानद्विषः प्राहतस्मात्तदेषां देवानां न प्रियं यदेतन्मनुषा विदुरिति । तत्राह न चेति । अस्य लब्धात्मावलोकस्य विदुषः सर्वभूतेषु देवेषु मानवेषु च मध्ये कश्चिदप्यर्थायात्मरतिर्नैर्विघ्नाय व्यपाश्रयः कर्मभिः सेव्यो न भवति । ज्ञानोदयात्पूर्वमेव देवकृता
विघ्नाः तेनात्मरतौ सत्यां तु न तत्कृतास्ते तत्प्रभावेण सम्भवन्ति । तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां सम्भवति इति श्रवणात् । हनेत्यप्यर्थे निपातः । देवा अपि तस्यात्मानुभविनो ।भूत्यै आत्मरतिक्षतये नेशते । हि यस्मादेषां स आत्मा तद्वत्प्रेष्ठो भवतीत्यर्थः ॥१८॥

__________________________________________________________

भगवद्गीता ३.१९

तस्मादसक्तः सततं कार्यं कर्म समाचर
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥१९॥

श्रीधरः यस्मादेवम्भूतस्य ज्ञानिन एव कर्मानुपयोगो नान्यस्य तस्मात्त्वं कर्म कुर्वित्याह तस्मादिति । असक्तः फलसङ्गरहितः सन् कार्यमवश्यकर्तव्यतया विहितं नित्यं नैमित्तिकं कर्म सम्यगाचर । हि यस्मादसक्तः कर्माचरन् पुरुषः परं मोक्षं चित्तशुद्धिज्ञानद्वारा प्राप्नोति ॥१९॥

मधुसूदनः यस्मान्न त्वमेवंभूतो ज्ञानी किन्तु कर्माधिकृत एव मुमुक्षुः । असक्तः फलकामनारहितः सततं सर्वदा न तु कदाचित्कार्यमवश्यकर्तव्यं यावज्जीवादिश्रुतिचोदितं तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्या ज्ञाने विनियुक्तं कर्म नित्यनैमित्तिकलक्षणं सम्यगाचर यथाशास्त्रं निर्वर्तय । असक्तो हि यस्मादाचरन्नीश्वरार्थं कर्म कुर्वन् सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण परं मोक्षमाप्नोति पूरुषः पुरुषः स एव सत्पुरुषो नान्य इत्यभिप्रायः ॥१९॥

विश्वनाथः तस्मात्तव ज्ञानभूमिकारोहणे नास्ति योग्यता । काम्यकर्मणि तु सद्विवेकवतस्तव नैवाधिकारः । तस्मात्निष्कामकर्मैव कुर्वित्याह तस्मादिति । कार्यमवश्यकर्तव्यत्वेन विहितं परं मोक्षम् ॥१९॥
बलदेवः यस्माल्लब्धात्मावलोकनस्यैव कर्मानुपयोगस्तस्मादेतादृक्त्वं कार्यं कर्तव्यत्वेन विहितं कर्म समाचर । असक्तः फलेच्छाशून्यः सन् । परं देहादिभिन्नमात्मानमाप्नोत्यवलोकते याथात्म्येन ॥१९॥

__________________________________________________________

भगवद्गीता ३.२०

कर्मणैव हि संसिद्धिमास्थिता जनकादयः
लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥२०॥

श्रीधरः अत्र सदाचारं प्रमाणयति कर्मणैवेति । कर्मणैव शुद्धसत्त्वाः सन्तः संसिद्धिं सम्यग्ज्ञानं प्राप्ता इ
त्यर्थः । यद्यपि त्वं सम्यग्ज्ञानिनमेवात्मानं मन्यसे, तथापि कर्माचरणं भद्रमेवेत्याह लोकसङ्ग्रहमित्यादि । लोकस्य सङ्ग्रहं स्वधर्मे प्रवर्तनम् । मया कर्मणि कृते जनः सर्वोऽपि करिष्यति । अन्यथा ज्ञानिदृष्टान्तेनाज्ञो निजधर्मं नित्यं कर्म त्यजन् पतेत् । इत्येवं लोकरक्षणमपि तावत्प्रयोजनं संपश्यन् कथं कर्तुमेवार्हसि । न त्यक्तुमित्यर्थः ॥२०॥

मधुसूदनः ननु विविदिषोरपि ज्ञाननिष्ठाप्राप्त्यर्थं श्रवणमनननिदिध्यासनानुष्ठानाय सर्वकर्मत्यागलक्षणः संन्यासो विहितः । तथा च न केवलं ज्ञानिन एव कर्मानधिकारः किन्तु ज्ञानार्थिनोऽपि विरक्तस्य । तथा च मयापि विरक्तेन ज्ञानार्थिना कर्माणि हेयान्येवेत्यर्जुनाशङ्कां क्षत्रियस्य संन्यासानधिकारप्रतिपादनेनापनुदति भगवान् कर्मणैवेति ।

जनकादयो जनकाजातशत्रुप्रभृतयः श्रुतिस्मृतिप्रसिद्धाः क्षत्रिया विद्वांसोऽपि कर्मणैव सह न तु कर्मत्यागेन स संसिद्धिं श्रवणादिसाध्यां ज्ञाननिष्ठामास्थिताः प्राप्ताः । हि यस्मादेवं तस्मात्त्वमपि क्षत्रियो विविदिषुर्विद्वान् वा कर्म कर्तुमर्हसीत्यनुषङ्गः । ब्राह्मणः पुत्रैषणायाश्च वित्तषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति इति संन्यासविधायके वाक्ये ब्राह्मणत्वस्य विवक्षितत्वात् । स्वाराज्यकामो राजा राजसूयेन यजेत इत्यत्र क्षत्रियत्वावत् । चत्वार आश्रमा ब्राह्मणस्य त्रयो राजन् यस्य द्वौ वैश्यस्य
इति च स्मृतेः । पुराणेऽपि

मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम् ।
बाहुजातोरुजातानां नायं धर्मः प्रशस्यते ॥

इति क्षत्रियवैश्ययोः संन्यासाभाव उक्तः । तस्माद्युक्तमेवोक्तं भगवता कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।

सर्वे राजाश्रिता धर्मा राजा धर्मस्य धारकः इत्यादि स्मृतेर्वर्णाश्रमप्रवर्तकत्वेनापि क्षत्रियोऽवश्यं कर्म कुर्यादित्याह लोकेति । लोकानां स्वे स्वे धर्मे प्रवर्तनमुन्मार्गान्निवर्तनं च लोकसङ्ग्रहस्तं पश्यन्नपिशब्दाज्जनकादिशिष्टाचारमपि पश्यन् कर्म कर्तुमर्हस्येवेत्यन्वयः । क्षत्रियजन्मप्रापकेण कर्मणारब्धशरीरस्त्वं विद्वानपि जनकादिवत्प्रारब्धकर्मफलेन लोकसङ्ग्रहार्थं कर्म कर्तुं योग्यो भवसि न तु त्यक्तुं ब्राह्मणजन्मालाभादित्यभिप्रायः । एतादृशभगवदभिप्रायविदा भगवता भाष्यकृता ब्राह्मणस्यैव संन्यासो नान्यस्येति निर्णीतम् । वार्तिककृता तु प्रौढिवादमात्रेण क्षत्रियवैश्ययोर्
अपि संन्यासोऽस्तीत्युक्तमिति द्रष्टव्यम् ॥२०॥

विश्वनाथः अत्र सदाचारं प्रमाणयति कर्मणेति । यदि वा त्वमात्मानं ज्ञान्¨धिकारिणं मन्यसे, तदपि लोके शिक्षा ग्रहणार्थं कर्मैव कुर्वित्याह लोकेति ॥२०॥

बलदेवः सदाचारमत्र प्रमाणयति कर्मणैवेति । कर्मणैवोपायेन विशुद्धचित्ताः सन्तः संसिद्धिं स्वात्मावलोकनलक्षणामास्थिताः प्रापुः । कर्मणैवेति विशेषणसम्बन्ध एवकारस्तस्यायोगं व्यवच्छिन्नत्ति शङ्खपाण्डुर एवेतिवत् । तेन श्रवणादेर्न व्युदासः । कर्मणा यज्ञादिना सहैव श्रवणादिनेति केचित् ।

ननु सनिष्ठस्यात्मावलोकने कर्मानुष्ठानं नास्तीत्युक्तम् । मम परिनिष्ठितस्यावलोकितस्वपरात्मनः कर्मोपदेशः कुत इति चेत्तत्राह लोकेति । सत्यं त्वमीदृश एव तथापि लोकसङ्ग्रहाय कर्म कुर्विति अर्जुने मयि कर्म कुर्वाणे सर्वलोकः कर्म करिष्यति । इतरथा मद्दृष्टान्तेनाज्ञोऽपि लोकः कर्म त्यजन् पतिष्यतीति लोकसंरक्षणं तत्फलम् ॥२०॥

__________________________________________________________

भगवद्गीता ३.२१

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥२१॥

श्रीधरः कर्मकरणे लोकसङ्ग्रहो यथा स्यात्तदाह यदिति । इतरः प्राकृतोऽपि जनस्तत्तदेवाचरति । स श्रेष्ठो जनः कर्मशास्त्रं तन्निवृत्तिशास्त्रं वा यत्प्रमाणं मन्यते, तदेव लोकोऽप्यनुसरति ॥२१॥

मधुसूदनः ननु मया कर्मणि क्रियमाणेऽपि लोकः किमिति तत्सङ्गृह्णीयादित्याशङ्क्य श्रेष्ठाचारानुविधायित्वादित्याह यद्यदिति । श्रेष्ठः प्रधानभूतो राजादिर्यद्यत्कर्माचरति शुभमशुभं वा तत्तदेवाचरतीतरः प्राकृतस्तदनुगतो जनः । न त्वन्यत्स्वातन्त्र्येणेत्यर्थः ।

ननु शास्त्रमवलोक्याशास्त्रीयं श्रेष्ठाचारं परित्यज्य शास्त्रीयमेव कुतो नाचरति लोक इत्याशङ्क्याचारवत्प्रतिपत्तावपि श्रेष्ठानुसारितामितरस्य दर्शयति स यदिति । स श्रेष्ठो यल्लौकिकं वैदिकं वा प्रमाणं कुरुते प्रमाणत्वेन मन्यते तदेव लोकोऽप्यनुवर्तते प्रमाणं कुरुते न तु स्वातन्त्र्येण किंचिदित्यर्थः । तथा च प्रधानभूतेन त्वया राज्ञा लोकसंरक्षणार्थं कर्म कर्तव्यमेव प्रधानानुयायिनो जनव्यवहारा भवन्तीति न्यायादित्यभिप्रायः ॥२१॥

विश्वनाथः लोकसङ्ग्रहप्रकारमेवाह यद्यदिति ॥२१॥

बलदेवः लोकसङ्ग्रहप्रकारमेवाह यद्यदिति । श्रेष्ठो महत्तमो यत्कर्म यथाचरति तत्कर्म तथैवेतरः कनिष्ठोऽप्याचरति । स श्रेस्ठस्तस्मिन् कर्मणि यच्छास्त्रं प्रमाणं कुरुते मन्यते लोकः कनिष्ठोऽपि तदनुयायी तदेवानुवर्ततेऽनसरति । शास्त्रोपेतं श्रेष्ठाचरणं कल्याणलिप्सुना कनिष्ठेनानुष्ठेयमित्यर्थः । इत्थं च तेजस्विनः श्रेष्ठस्य च यत्क्वचित्स्वैराचरणं तद्व्यावृतम् । तस्य श्रेष्ठकृतत्वेऽपि शास्त्रोपेतत्वाभावात् ॥२१॥

__________________________________________________________

भगवद्गीता ३.२२

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥२२॥

श्रीधरः अत्र चाहमेव दृष्टान्त इत्याह न म इति त्रिभिः । हे पार्थ ! मे कर्तव्यं नास्ति । यतस्त्रिष्वपि लोकेषु अनवाप्तमप्राप्तं सदावप्तव्यं प्राप्यं नास्ति । तथापि कर्मण्यहं वर्त एव कर्म करोम्येवेत्यर्थः ॥२२॥

मधुसूदनः अत्र चाहमेव दृष्टान्त इत्याह न म इति त्रिभिः । हे पार्थ न मे मम त्रिष्वपि लोकेषु किमपि कर्तव्यं नास्ति । यतोऽनवाप्तं फलं किंचिन्ममावाप्तव्यं नास्ति । तथापि वर्त एव कर्मण्यहं कर्म करोम्येवेत्यर्थः । पार्थेति सम्बोधयन् विशुद्धक्षत्रियवंशोद्भवस्त्वं शूरापत्यापत्यत्वेन चात्यन्तं मत्समोऽहमिव वर्तितुमर्हसीति दर्शयति ॥२२॥

विश्वनाथः अत्राहमेव दृष्टान्त इत्याह त्रिभिः ॥२२॥

बलदेवः श्रेष्ठः कर्मफलनिरपेक्षोऽपि लोकसङ्ग्रहाय शास्त्रोदितानि कर्माण्याचरेदित्यर्थे स्वं दृष्टान्तमाह न मे पार्थेति त्रिभिः । सर्वेशस्य सत्यसङ्कल्पस्य सत्यकामस्य मे कर्तव्यं नास्ति । फलार्थिना खलु कर्मानुष्ठेयम् । न च निखिलफलाश्रयस्य स्वयं परमफलात्मनो मे कर्मापेक्ष्यमित्यर्थः । एतद्दर्शयति त्रिष्विति । यतः सर्वेषु लोकेषु कर्मणा यत्फलमवाप्तव्यं तदनवाप्तमलब्धं मम नास्ति सर्वं तन्मदीयमेवेत्यर्थः । तथापि शास्त्रोक्तं कर्माहं करोम्येवेत्याह वर्त इति ॥२२॥

__________________________________________________________

भगवद्गीता ३.२३

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥२३॥

श्रीधरः अकरणे लोकस्य नाशं दर्शयति यदि ह्यहमिति । जातु कदाचित् । अतन्द्रितोऽनलसः सन् यदि कर्मणि न वर्तेय कर्म नानुतिष्ठेयम्, तर्हि ममैव वर्त्म मार्गं मनुष्या अनुवर्तन्ते अनुवेर्तेरन्नित्यर्थः ॥२३॥

मधुसूदनः लोकसङ्ग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्क्याह यदि ह्यहमिति । यदि पुनरहमतन्द्रितोऽनलसः सन् कर्मणि जातु कदाचिन्न वर्तेय नानुतिष्ठेयं कर्माणि तदा मम श्रेष्ठस्य सतो वर्त्म मार्गं हे पार्थ मनुष्याः कर्माधिकारिणः सन्तोऽनुवर्तन्तेऽनुवर्तेरन् सर्वशः सर्वप्रकारैः ॥२३॥

विश्वनाथः अनुवर्ततेऽनुवर्तेरन्नित्यर्थः ॥२३॥

बलदेवः यदीति । अहं सर्वेश्वरः सिद्धसर्वार्थोऽपि यदुकुलावतीर्णो जातु कदाचित्तत्कुलोचिते शास्त्रोक्ते कर्मणि न वर्तेय तन्न कुर्यामतन्द्रितः सावधानः सन् तर्हि मां दृष्टान्तं कृत्वा मनुष्याः श्रेष्ठस्य मम वर्त्म कुलविहिताचारत्यागरूपमनुवर्तेरन् ततो भ्रंशेरन्नित्यर्थः ॥२३॥

__________________________________________________________

भगवद्गीता ३.२४

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥२४॥

श्रीधरः ततः किं ? अत आह उत्सीदेयुरिति । उत्सीदेयुर्धर्मलोपेन नश्येयुः । ततश्च यो वर्णसङ्करो भवेत्तस्याप्यहमेव कर्ता स्यां भवेयम् । एवमहमेव प्रजा उपहन्यां मलिनीकुर्यामिति ॥२४॥

मधुसूदनः श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामुचितमेव अनुवर्तित्वे को दोष इत्यत आह उत्सीदेयुरिति । अहमीश्वरश्चेद्यदि कर्म न कुर्यां तदा मदनुवर्तिनां मन्वादीनामपि कर्मानुपपत्तेर्लोकस्थितिहेतोः कर्मणो लोपेनेमे सर्वे लोका उत्सीदेयुर्विनश्येयुः । ततश्च वर्णसंकरस्य च कर्ताहमेव स्याम् । तेन चेमाः सर्वाः प्रजा अहमेवोपहन्यां धर्मलोपेन विनाशयेयम् । कथं च प्रजानामनुग्रहार्थं प्रवृत्त ईश्वरोऽहं ताः सर्वा विनाशयेयमित्यभिप्रायः ।

यद्यदाचरतीत्यादेरपरा योजना । न केवलं लोकसंग्रहं सम्पश्यन् कर्तुमर्हस्यपि तु श्रेष्ठाचारत्वादपीत्याह यद्यदिति । तथा च मम श्रेष्ठस्य यादृश एव आचारस्तादृश एव मदनुवर्तिना त्वयानुष्ठेयो न स्वातन्त्र्येणान्य इत्यर्थः । कीदृशस्तवाचारो यो मयानुवर्तनीय इत्याकाङ्क्षायां न मे पार्थेत्यादिभिस्त्रिभिः श्लोकैस्तत्प्रदर्शनमिति ॥२४॥

विश्वनाथः उत्सीदेयुर्मां दृष्टान्तीकृत्य धर्ममकुर्वाणा भ्रंशेयुः । ततश्च वर्णसङ्करो भवेत्तस्याप्यहमेव कर्ता स्यामेवमहमेव प्रजा हन्याम् । मलिनाः कुर्याम् ॥२४॥

बलदेवः ततः किं स्यादित्याह उत्सीदेयुरिति । अहं सर्वश्रेष्ठश्चेत्शास्त्रोक्तं कर्म न कुर्यां तर्हीमे लोका उत्सीदेयुर्विभ्रष्टमर्यादाः स्युः । तद्विभ्रंशे सति यः सङ्करः स्यात्तस्याप्यहमेव कर्ता स्याम् । एवं च प्रजापतिरहमिमाः प्रजाः साङ्कर्यदोषेणोपहन्यां मलिनाः कुर्याम् । तथा च एष सेतुर्विधरण एषां लोकानामसंभेदाय इति श्रुत्या लोकमर्यादाविधारकत्वेन परिगीतस्य मे तन्मर्यादाभेदकत्वं स्यादिति । एवं उपदिशतोऽपि हरेर्यत्किंचित्स्वभक्तसुखेच्छोः स्वैराचरितं
दृष्टं, तत्खलु विधायकेन तद्वचसानुपेतत्वादीश्वरीयत्वाच्चावरैर्नैवाचरणीयम् । यदुक्तं श्रीमता शुकेन

ईश्वराणां वचः सत्यं
तथैवाचरितं क्वचित् ।
तेषां यत्स्ववचोयुक्तं
बुद्धिमांस्तत्समाचरेत् ॥

नैतत्समाचरेज्जातु
मनसापि ह्यनीश्वरः ।
विनश्यत्याचरन्मौढ्याद्
यथारुद्रो ।ब्धिजं विषम् ॥ [Bह्ড়् १०.३३.३१२] इति ॥२४॥

__________________________________________________________

भगवद्गीता ३.२५

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥२५॥

श्रीधरः तस्मादात्मविदापि लोकसङ्ग्रहार्थ तत्कृपया कर्म कार्यमेवेत्युपसंहरति सक्ता इति । कर्मणि सक्ता अभिनिविष्टाः सन्तो यथाज्ञाः कर्माणि कुर्वन्ति, असक्तः सन् विद्वानपि कुर्यात्लोकसंग्रहं कर्तुमिच्छुः ॥२५॥

मधुसूदनः ननु तवेश्वरस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्यापि कर्तृत्वाभिमानाभावान्न कापि क्षतिः । मम तु जीवस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवः स्यादित्यत आह सक्ता इति । सक्ताः कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्मण्यभिनिविष्टा अविद्वांसोऽज्ञा यथा कुर्वन्ति कर्म लोकसंग्रहं कर्तुमिच्छुर्विद्वानात्मविदपि तथैव कुर्यात् । किन्तु असक्तः सन् कर्तृत्वाभिमानं फलाभिसन्धिं चाकुर्वन्नित्यर्थः । भारतेति भरतवंशोद्भवत्वेनभा ज्ञानं तस्यां रतत्वेन वा त्वं यथोक्तशास्त्रार्थबोधयोग्योऽसीति दर्शयति ॥२५॥

विश्वनाथः तस्मात्प्रतिष्ठितेन ज्ञानिनापि कर्म कर्तव्यमित्युपसंहरति सक्ता इति ॥२५॥

बलदेवः तस्मात्प्रतिष्ठितेऽपि त्वं लोकहिताय वेदोक्तं स्वकर्म प्रकुर्वित्याशयेनाह सक्ता इति । अज्ञा यथा कर्मणि सक्ताः फललिप्सयाभिनिविष्टास्तत कुर्वन्त्येवं विद्वानपि कुर्यात् । किन्त्वसक्तः फललिप्साशून्यः सन् । स्फुटमन्यत् ॥२५॥

__________________________________________________________

भगवद्गीता ३.२६

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥२६॥

श्रीधरः ननु कृपया तत्त्वज्ञानमेवोपदेष्टुं युक्तम् । नेत्याह न बुद्धिभेदमिति अज्ञानामतएव कर्मसङ्गिनां कर्मासक्तानामकर्तात्मेओपदेशेन बुद्धेर्भेदमन्यथात्वं न जनयेत् । कर्मणः सकाशाद्बुद्धिविचालनं न कुर्यात् । अपि तु जोषयेत्सेवयेत् । अज्ञान् कर्माणि कारयेदित्यर्थः । कथम् ? युक्तोऽवहितो भूत्वा स्वयमाचरन् सन् । बुद्धिविचालने कृते सति कर्मसु श्रद्धानिवृत्तेर्ज्ञानस्य चानुत्पत्तेस्तेसामुभयभ्रंशः स्यादिति भावः ॥२६॥

मधुसूदनः ननु कर्मानुष्ठानेनैव लोकसंग्रहः कर्तव्यो न तु तत्त्वज्ञानोपदेशेनेति को हेतुरत आह न बुद्धीति । अज्ञानामविवेकिनां कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्मसङ्गिनां कर्मण्यभिनिविष्टानां या बुद्धिरहमेतत्कर्म करिष्य एतत्फलं च भोक्ष्य इति तस्या भेदं विचालनमकर्त्रात्मोपदेशेन न कुर्यात् । किन्तु युक्तोऽवहितः सन् विद्वान् लोकसंग्रहं चिकीर्षुरविद्वदधिकारिकाणि सर्वकर्मणि समाचरंस्तेषां श्रद्धामुत्पाद्य जोषयेत्प्रीत्या सेवयेत् । अनधिकारिणामुपदेशेन बुद्धिविचालने कृते कर्मसु श्रद्धानिवृत्तिर्ज्ञानस्य चानुत्पत्तेरुभयभ्रष्टत्वं
स्यात् । तथा चोक्तं

अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ।
महानिरयजालेषु स तेन विनियोजितः ॥ इति ॥२६॥

विश्वनाथः अलं कर्मजडिम्ना । त्वं कर्मसन्न्यासं कृत्वा ज्ञानाभ्यासेनाहमिव कृतार्थीभवैति बुद्धिभेदं न जनयेत्कर्मसङ्गिनं अशुद्धान्तःकरणत्वेन कर्मस्वेवासक्तिमताम् । किन्तु त्वं कृतार्थीभविष्यन्निष्कामकर्मैव क्रु इति कर्माण्येव योजयेत्कारयेत् । अत्र कर्माणि समाचरन् स्वयमेव दृष्टान्तीभवेत् ।

ननु,
स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ [Bह्ড়् ६.९.५]

इत्यजितवाक्येनैतद्विरुध्यते । सत्यम् । तत्खलु भक्त्युपदेष्टृकविषयमिदं तु ज्ञानोपदेष्टृकविषयमित्यविरोधः । ज्ञानस्यान्तःकरणशुद्ध्यधीनत्वात् । तच्छुद्धेस्तु निष्कामकर्माधीनत्वात्, भक्तेस्तु स्वतः प्राबल्यादन्तःकरणशुद्धिपर्यन्तानपेक्षत्वात् । यदि भक्तौ श्रद्धामुत्पादयितुं शक्नुयात्, तदा कर्मिणां बुद्धिभेदमपि जनयेत्, भक्तौ श्रद्धावतां कर्मानधिकारात्

तावत्कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ [Bह्ড়् ११.२०.९] इति ।

धर्मान् सन्त्यज्य यः सर्वान्मां भजेत्स तु सत्तमः [Bह्ড়् ११.११.३२]इति,

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज [ङीता १८.६६] इति,

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्
भजन्नपक्वो ।थ पतेत्ततो यदि [Bह्ড়् १.५.१७]

इत्यादिवचनेभ्य इति विवेचनीयम् ॥२६॥

बलदेवः किं च लोकहितेच्छुर्ज्ञानी सावहितः स्यादित्याह न बुद्धीति । विद्वान् परिनिष्ठितोऽपि कर्मसङ्गिनां कर्मश्रद्धाजाड्यभाजामज्ञानां बुद्धिभेदं न जनयेत् । किं कर्मभिरहमिव ज्ञानेनैव कृतार्थो भवेति कर्मनिष्ठातस्तद्बुद्धिं नापनयेदित्यर्थः । किन्तु स्वयं कर्मसु युक्तः सावधानस्तानि सम्यक्सर्वाङ्गोपसंहारेणाचरन् सर्वाणि विहितानि कर्माणि योषयेत्प्रीत्या सेवयेतज्ञान् कर्माणि कारयेदित्यर्थः । बुद्धिभेदे सति कर्मसु श्रद्धानिवृत्ते ज्ञानस्य चानुदयादुभयविभ्रष्टास्ते स्युरिति भावः ।

स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ [Bह्ড়् ६.९.५]

इत्यजितोक्तिस्तु कर्मसङ्गीतरपरतया नेया ॥२६॥

__________________________________________________________

भगवद्गीता ३.२७

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥२७॥

श्रीधरः ननु विदुषोऽपि चेत्कर्म कर्तव्यं तर्हि विद्वदविदुषोः को विशेषः ? इत्याशङ्क्योभयोर्विशेषं दर्शयति प्रकृतेरिति द्वाभ्याम् । प्रकृतेर्गुणैः प्रकृतिकार्यैरिन्द्रियैः सर्वप्रकारेण क्रियमाणानि कर्माणि । तान्यहमेव कर्ता करोमीति मन्यते । अत्र हेतुः अहंकारेण इन्द्रियादिष्वात्माध्यासेन विमूढबुद्धिः सन् ॥२७॥

मधुसूदनः विद्वदविदुषोः कर्मानुष्ष्ठानसाम्येऽपि कर्तृत्वाभिमानतदभावाभ्यां विशेषं दर्शयन् सक्ताः कर्मणीतिश्लोकार्थं विवृणोति द्वाभ्यां प्रकृतेरिति । प्रकृतिर्माया सत्त्वरजस्तमोगुणमयी मिथ्याज्ञानात्मिका पारमेश्वरी शक्तिः मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं इति श्रुतेः । तस्याः प्रकृतेर्गुणैर्विकारैः कार्यकारणरूपैः क्रियमाणानि लौकिकानि वैदिकानि च कर्माणि सर्वशः सर्वप्रकारैरहङ्कारेण कार्यकारणसंघातात्मप्रत्ययेन विमूढः स्वरूपविवेकासमर्थ आत्मान्तःकरणं यस्य सो
ऽहङ्कारविमूढात्मानात्मन्यात्माभिमानी तानि कर्माणि कर्ताहमिति करोम्यहमिति मन्यते कर्तृत्वाध्यासेन । कर्ताहमिति तृन्प्रत्ययः । तेन न लोकाव्ययनिष्ठाखलर्थतृणाम् [ড়ाण्२.३.६९] इति षष्ठीप्रतिषेधः ॥२७॥

विश्वनाथः ननु यदि विद्वानपि कर्म कुर्यात्, तर्हि विद्वदविदुषोः को विशेषः ? इत्याशङ्क्य तयोर्विशेषं दर्शयति प्रकृतेरिति द्वाभ्याम् । प्रकृतेर्गुणैः कार्यैरिन्द्रियैः सर्वशः सर्वप्रकारेण क्रियमाणानि यानि कर्माणि तान्यहमेव कर्ता करोमीत्यविद्वान्मन्यते ॥२७॥

बलदेवः कर्मित्वसाम्येऽपि विज्ञाज्ञयोर्विशेषमाह प्रकृतेरिति द्वाभ्याम् । अहंकारविमूढात्मा जनोऽहं कर्माणि कर्तेति मन्यते । न लोकाव्ययनिष्ठा इति सूत्रात्षष्ठीनिषेधः । कर्माणि लौकिकानि वैदिकानि च । तानि कीदृशानीत्याह प्रकृतेरीशमायाया गुणैस्तत्कार्यैर्शरीरेन्द्रियप्राणैरीश्वरप्रवर्तितैः क्रियमाणानीति । इदमेव वेदितव्यम् उपक्रमविनिर्णयात्संविद्वपुर्जीवात्मास्मदर्थः कर्ता चानादिकालविषयभोगवासनाक्रान्तस्तद्भोगार्थिकां स्वसन्निहितां प्रकृतिमाश्लिष्टस्तत्कार्येणाहङ्कारेण विमूढात्मा तादृशस्वविज्ञानशून्यः शरीराद्यहंभाववान् प्राकृतैः शरीरादिभिरीशेन च सिद्धानि
कर्माणि मयैवैकेन कृतानीति मन्यते । कर्तुरात्मनो यत्कर्तृत्वं तत्किल देहादिभिस्त्रिभिः परमात्मना च सर्वप्रवर्तकेन च सिद्ध्यति । न त्वेकेन जीवेनैव । तच्च मयैव सिद्ध्यतीति जीवो यन्मन्यते तदहङ्कारविमौढ्यादेव अधिष्ठानं तथा कर्था [ङीता १८.१४] इत्यादिकाच्चरमाध्यायवाक्यत्रयात् । कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते [ङीता १३.१८] इत्यत्र शरीरेन्द्रियादिकर्तृत्वं प्रकृतेरिति यद्वर्णयिष्यते, तत्रापि केवलायास्तस्यास्तन्न शक्यं मन्तुम् । पुरुषसंसर्गेणैव तत्प्रवृत्तेरङ्गीकारात् । ततश्च पुरुषस्य कर्तृत्वमवर्जनीयमिति व्याख्यास्यते ॥२७॥

__________________________________________________________

भगवद्गीता ३.२८

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥२८॥

श्रीधरः विद्वांस्तु न तथा मन्यते इत्याह तत्त्वविदिति । नाहं गुणात्मक इति गुणेभ्य आत्मनो विभागः । न मे कर्माणीति कर्मभ्योऽप्यात्मनो विभागः । तयोर्गुणकर्मविभागयोर्यस्तत्त्वं वेत्ति स तु न कर्तृत्वाभिनिवेशं न करोति । तत्र हेतुः गुणा इति । गुणा इन्द्रियाणि गुणेषु विषयेषु वर्तन्ते नाहमिति मत्वा ॥२८॥

मधुसूदनः विद्वांस्तु तथा न मन्यत इत्याह तत्त्वविदिति । तत्त्वं याथात्म्यं वेत्तीति तत्त्ववित् । तुशब्देन तस्याज्ञाद्वैशिष्ट्यमाह । कस्य तत्त्वमित्यत आह गुणकर्मविभागयोः । गुणा देहेन्द्रियान्तःकरणान्यहङ्कारास्पदानि कर्माणि च तेषां व्यापारभूतानि ममकारास्पदानीति गुणकर्मेति द्वन्द्वैकवद्भावः । विभज्यते सर्वेषां जडानां विकारिणां भासकत्वेन पृथग्भवतीति विभागः स्वप्रकाशज्ञानरूपोऽसङ्ग आत्मा । गुणकर्म च विभागश्चेति द्वन्द्वः । तयोर्गुणकर्मविभागयोर्भास्यभासकयोर्जडचैतन्ययोर्विकारिनिर्विकारयोस्तत्त्वं याथात्म्यं यो वेत्ति स गुणाः करणात्मका गुणेषु
विषयेषु प्रवर्तन्ते विकारित्वान्न तु निर्विकार आत्मेति मत्वा न सज्जते सक्तिं कर्तृत्वाभिनिवेशमतत्त्वविदिव न करोति । हे महाबाहो ! इति सम्बोधयन् सामुद्रिकोक्तसत्पुरुषलक्षणयोगित्वान्न पृथग्जनसाधारण्येन त्वमविवेकी भवितुमर्हसीति सूचयति ।

गुणविभागस्य कर्मविभागस्य च तत्त्वविदिति वा । अस्मिन् पक्षे गुणकर्मणोरित्येतावतैव निर्वाहे विभागपदस्य प्रयोजनं चिन्त्यम् ॥२८॥

विश्वनाथः गुणकर्मणोर्यौ विभागौ तयोस्तत्त्वं वेत्तीति सः । तत्र गुणविभागः सत्त्वरजस्तमांसि । कर्मविभागः सत्त्वादिकार्यभेदा देवतेन्द्रियविषयाः । तयोस्तत्त्वं स्वरूपम् । तज्ज्ञस्तु तत्त्ववित् । गुणा देवताः प्रयोज्यानीन्द्रियाणि चक्षुरादीनि गुणेषु रूपादिषु विषयेषु वर्तन्ते । अहं तु न गुणः, नापि गुणकार्यः कोऽपि, नापि गुणेषु गुणकार्येषु तेषु मे कोऽपि सम्बन्ध इति मत्वा विद्वांस्तु न सज्जते ॥२८॥

बलदेवः विज्ञस्तु न तथेत्याह तत्त्ववित्त्विति । गुणविभागस्य कर्मविभागस्य च तत्त्ववित् । गुणेभ्य इन्द्रियेभ्यः कर्मभ्यश्च तत्कृतेभ्यो यः स्वयस विभागो भेदस्तस्य तत्त्वं स्वरूपं तत्तद्वैधर्म्यपर्यालोचनया यो नाहं गुणकर्मवपुः इति वेत्तीत्यर्थः । स हि गुणा इन्द्रियाणि गुणेषु शब्दादिषु विषयेषु तत्तद्देवताप्रेरितानि प्रवर्तन्ते तान् प्रकाशयन्ति । अहं त्वसङ्गविज्ञानानन्दत्वात्तद्भिन्नो, न तेषु ताद्रूप्येण वर्ते, न तान् प्रकाशयामीति मत्वा तेषु न सज्जन्ते । किन्त्वात्मन्येव सज्जते । अत्रापि मत्वेत्यनेन कर्तृत्वं जीवस्योक्तं बोध्यम् ॥२८॥

__________________________________________________________

भगवद्गीता ३.२९

प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥२९॥

श्रीधरः न बुद्धिभेदमित्युपसंहरति प्रकृतेरिति । ये प्रकृतेर्गुणैः सत्त्वादिभिः संमूढाः सन्तः गुणेष्विन्द्रियेषु तत्कर्मसु च सज्जन्ते । तानकृत्स्नविदो मन्दान्मन्दमतीन् कृत्स्नवित्सर्वज्ञो न विचालयेत् ॥२९॥

मधुसूदनः तदेवं विद्वदविदुषोः कर्मानुष्ठानसाम्येन विद्वानविदुषो बुद्धिभेदं न कुर्यादित्युक्तमुपसंहरति । प्रकृतेः पूर्वोक्ताया मायाया गुणैः कार्यतया धर्मैर्देहादिभिर्विकारैः सम्यङ्मूढाः स्वरूपास्फुरणेन तानेवात्मत्वेन मन्यमानास्तेषामेव गुणानां देहेन्द्रियान्तःकरणानां कर्मसु व्यापारेषु सज्जन्ते सक्तिं वयं कुर्मस्तत्फलायेति दृढतरामात्मीयबुद्धिं कुर्वन्ति ये तान् कर्मसङ्गिनोऽकृत्स्नविदोऽनात्माभिमानिनो मद्नानशुद्धचित्तत्वेन ज्ञ्¨नाधिकारमप्राप्तान् कृत्स्नवित्परिपूर्णात्मवित्स्वयं न विचालयेत्कर्मश्रद्धातो न प्रच्यावयेद्
इत्यर्थः । ये त्वमन्दाः शुद्धान्तःकरणास्ते स्वयमेव विवेकोदयेन विचलन्ति ज्ञानाधिकारं प्राप्ता इत्यभिप्रायः ।

कृत्स्नाकृत्स्नशब्दावात्मानात्मपरतया श्रुत्यर्थानुसारेण वार्तिककृद्भिर्व्याख्यातौ

सदेवेत्यादिवाक्येभ्यः कृत्स्नं वस्तु यतोऽद्वयम् ।
सम्भवस्तद्विरुद्धस्य कुतोऽकृत्स्नस्य वस्तुनः ॥
यस्मिन् दृष्टेऽप्यदृष्टोऽर्थः स तदन्यश्च शिष्यते ।
तथादृष्टेऽपि दृष्टः स्यादकृत्स्नस्तादृगुच्यते ॥ इति ।

अनात्मनः सावयवत्वादनेकधर्मवत्ताच्च केनचिद्धर्मेण केनचिदवयवेन वा विशिष्टे तस्मिन्नेकस्मिन् घटादौ ज्ञातेऽपि धर्मान्तरेण अवयवान्तरेण वा विशिष्टः स एवाज्ञातोऽवशिष्यते । तदन्यश्च पटादिरज्ञातोऽ वशिष्यत एव । तथा तस्मिन् घटादावज्ञातेऽपि पटादिर्ज्ञातः स्यादिति तज्ज्ञानेऽपि तस्यान्यस्य चाज्ञानात्तदज्ञाने ‘प्यन्यज्ञानाच्च सोऽकृत्स्न उच्यते । कृत्स्नस्त्वद्वय आत्मैव तज्ज्ञाने कस्यचिदवशेषस्याभावादिति श्लोकद्वयार्थः ॥२९॥

विश्वनाथः ननु यदि जीवा गुणेभ्यो गुणकार्येभ्यश्च पृथग्भूतास्तदसम्बन्धास्तर्हि कथं ते विषयेषु सज्जन्तो दृश्यन्ते ? तत्राह प्रकृतेर्गुणसंमूढास्तदावेशात्प्राप्तसंमोहा यथा भूताविष्टो मनुष्य आत्मानं भूतमेव मन्यते, तथैव प्रकृतिगुणाविष्टा जीवाः स्वान् गुणानेव मन्यन्ते । ततो गुणकर्मसु गुणकार्येषु विषयेषु सज्जन्ते । तानकृत्स्नविदो मन्दमतीन् कृत्स्नवित्सर्वज्ञो न विचालयेत् । त्वं गुणेभ्यः पृथग्भूतो जीवो न तु गुणः इति विचारं प्रापयितुं न यतते, किन्तु गुणावेशनिवर्तकं निष्कामकर्मैव कारयेत् । न हि भूताविष्टो मनुष्यः
न त्वं भूतः किन्तु मनुष्य एव इति शतकृत्वेऽप्युपदेशेन न स्वास्थ्यमापद्यते, किन्तु तन्निवर्तकौषुधमणिमन्त्रादिप्रयोगेनैवेति भावः ॥२९॥

बलदेवः न बुद्धिभेदं जनयेदित्येतदुपसंहरति प्रकृतेरिति । प्रकृतेर्गुणेन तत्कार्येणाहङ्कारेण मूढा भूतावेशन्यायेन देहादिकमेवात्मानं मन्यमाना जना गुणानां देहेन्द्रियाणां कर्मसु व्यापारेषु सज्जन्ते । तानकृत्स्नविदोऽल्पज्ञान्मन्दानात्मतत्त्वग्रहणालसान् कृत्स्नवित्पूर्णात्मज्ञानो न विचालयेत्गुणकर्मान्यो विशुद्धचैतन्यानन्दस्त्वमिति तत्त्वं ग्राहयितुं नेच्छेत्, किन्तु तद्रुचिमनुसृत्य वैदिककर्माणि श्रेण्याक्रमादात्मतत्त्वप्रवणं चिकीर्सेदिति भावः ॥२९॥

__________________________________________________________

भगवद्गीता ३.३०

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३०॥

श्रीधरः तदेवं तत्त्वविदोऽपि कर्म कर्तव्यम् । त्वं तु नाद्यापि तत्त्ववित् । अतः कर्मैव कुर्वित्याह मयीति । सर्वाणि कर्माणि मयि संन्यस्य समर्प्य । अध्यात्मचेतसा अन्तर्याम्यधीनोऽहं कर्म करोमीति दृष्ट्या । निराशी निष्कामः । अतएव मत्फलसाधनं मदर्थमिदं कर्मेत्येवं ममताशून्यश्च भूत्वा । विगतज्वरस्त्यक्तशोकश्च भूत्वा ॥३०॥

मधुसूदनः एवं कर्मानुष्ठानसाम्येऽप्यज्ञविज्ञेयोः कर्तृत्वाभिनिवेशतदभावाभ्यां विशेष उक्तः । इदानीमज्ञस्यापि मुमुक्षोरमुमुक्ष्वपेक्षया भगवदर्पणं फलाभिसन्ध्यभावं च विशेषं वदन्नज्ञतयार्जुनस्य कर्माधिकारं द्रढयति मयीति । मयि भगवति वासुदेवे परमेश्वरे सर्वज्ञे सर्वनियन्तरि सर्वात्मनि सर्वाणि कर्माणि लौकिकानि वैदिकानि च सर्वप्रकाराणि अध्यात्मचेतसाहं कर्तान्तर्याम्यधीनस्तस्मा एवेश्वराय राज्ञ इव भृत्यः कर्माणि करोमीत्यनया बुद्ध्या संन्यस्य समर्प्य निराशीर्निष्कामो निर्ममो देहपुत्रभ्रात्रादिषु स्वीयेषु ममताशून्यो
विगतज्वरः । सन्तापहेतुत्वाच्छोक एव ज्वरशब्देनोक्तः । ऐहिकपारत्रिकदुर्यशोनरकपातादिनिमित्तशोकरहितश्च भूत्वा त्वं मुमुक्षुर्युध्यस्व विहितानि कर्माणि कुर्वित्यभिप्रायः । अत्र भगवदर्पणं निष्कामत्वं च सर्वकर्मसाधारणं मुमुक्षोः । निर्ममत्वं त्यक्तशोकत्वं च युद्धमात्रे प्रकृत इति द्रष्टव्यमन्यत्र ममताशोकयोरप्रसक्तत्वात् ॥३०॥

विश्वनाथः तस्मात्त्वं मय्यध्यात्मचेतसात्मनीत्यर्थः । एवमध्यात्ममव्ययीभावसमासात् । ततश्च आत्मनि यच्चेतस्तदध्यात्मचेतस्तेनात्मनिष्ठेनैव चेतसा, न तु विषयनिष्ठेनेत्यर्थः । मयि कर्माणि संन्यस्य समर्प्य निराशीर्निष्कामो निर्ममः सर्वत्र ममताशून्यो युध्यस्व ॥३०॥

बलदेवः मयीति । यस्मादेवं तस्मात्परिनिष्ठितस्त्वमध्यात्मचेतः स्वात्मतत्त्वविषयकज्ञानेन सर्वाणि कर्माणि राज्ञि भृत्य इव मयि परेशे संन्यस्य समर्पयित्वा युध्यस्व । कर्तृत्वाभिनिवेशशून्यः । यथा राजतन्त्रो भृत्यस्तदाज्ञया कर्माणि करोति, तथा मत्तन्त्रस्त्वं मदाज्ञया तानि कुरु लोकान् संजिघृक्षुः । आत्मनि यच्चेतस्तदध्यात्मचेतस्तेन । विभक्त्यर्थेऽव्ययीभावः । निराशीः स्वाम्याज्ञया करोमीति तत्फलेच्छाशून्यः । अतएव मत्फलसाधनानि मदर्थममूनि कर्माणीत्येवं ममत्ववर्ज्जितः । विगतज्वरस्त्यक्तबन्धुवधनिमित्तकसन्तापश्च भूत्वेति । अर्जुनस्य क्षत्रियत्वाद्युध्यस्वेत्युक्तम् । स्वाश्रमविहितानि
कर्माणि मुमुक्षुभिः कार्याणीति वाक्यार्थः ॥३०॥

__________________________________________________________

भगवद्गीता ३.३१
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३१॥

श्रीधरः एवं कर्मानुष्ठाने गुणमाह ये म इति । मद्वाक्ये श्रद्धावन्तो ।नसूयन्तो दुःखात्मके कर्मणि प्रवर्तयतीति दोषदृष्टिमकुर्वन्तश्च मे मदीयमिदं मतमनुतिष्ठन्ति तेऽपि शनैः कर्म कुर्वाणाः सम्यग्ज्ञानिवत्कर्मभिर्मुच्यन्ते ॥३१॥

मधुसूदनः फलाभिसन्धिराहित्येन भगवदर्पणबुद्ध्या भगवदर्पणबुद्ध्या विहितकर्मानुष्ठानं सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण मुक्तिफलमित्याह ये म इति । इदं फलाभिसन्धिराहित्येन विहितकर्माचरणरूपं मम मतं नित्यं नित्यवेदबोधितत्वेनानादिपरम्परागतमावश्यकमिति वा सर्वदेति वा । मानवाः मनुष्या ये केचिन्मनुष्याधिकारित्वात्कर्मणां श्रद्धावन्तः शास्त्राचार्योपदिष्टेऽर्थेऽननुभूतेऽप्येवमेवैतदिति विश्वासः श्रद्धा तद्वन्तः । अनसूयन्तो गुणेषु दोषाविष्करणमसूया । सा च दुःखात्मके कर्मणि मां प्रवर्तयन्नकारुणिकोऽयमित्येवंरूपा प्रकृते प्रसक्ता
तामसूयां मयि गुरौ वासुदेवे सर्वसुहृद्यकुर्वन्तो येऽनुतिष्ठन्ति तेऽपि सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण सम्यग्ज्ञानिवन् त्मुच्यन्ते कर्मभिर्धर्माधर्माख्यैः ॥३१॥

विश्वनाथः स्वकृतोपदेशे प्रवर्तयितुमाह ये म इति ॥३१॥

बलदेवः श्रुतिरहस्ये स्वमतेऽनुवर्तिनां फलं वदन् तस्य श्रैष्ठ्यं व्यञ्जयति ये म इति । नित्यं सर्वदा श्रुतिबोधितत्वेनानादिप्राप्तं वा । श्रद्धावन्तो दृढविश्वस्ताः । अनसूयन्तो मोचकत्वगुणवति तस्मिन् किममुना श्रमबहुलेन निष्फलेन कर्मणेत्येवं दोषारोपशून्याः । तेऽपीत्यपिरवधारणे । यद्वा, ये ममेदं मतमनुतिष्ठन्ति ये चानुष्ठातुमशक्नुवन्तोऽपि तत्र श्रद्धालवः, ये च श्रद्धालवोऽपि तन्नासूयन्ते तेऽपीत्यर्थः । साम्प्रतानुष्ठानाभावेऽपि तस्मिन् श्रद्धयानसूयया च क्षीणदोषास्ते किंचित्प्रान्ते तदनुष्ठाय मुच्यन्ते इति भावः
॥३१॥

__________________________________________________________

भगवद्गीता ३.३२

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥३२॥

श्रीधरः विपक्षे दोषमाह ये त्वेतदिति । ये तु नानुतिष्ठन्ति तानचेतसो विवेकशून्यानतएव सर्वस्मिन् कर्मणि ब्रह्मविषये च यज्ज्ञानं तत्र विमूढान्नष्टान् विद्धि ॥३२॥

मधुसूदनः एवमन्वये गुणमुक्त्वा व्यतिरेके दोषमाह ये त्विति । तुशब्दः श्रद्दावद्वैधर्य्म्यमश्रद्धां सूचयति । तेन ये नास्तिक्यादश्रद्दधाना अभ्यसूयन्तो दोषमुद्भावयन्त एतन्मम मतं नानुवर्तन्ते तानचेतसो दुष्टचित्तानतएव सर्वज्ञानविमूढान् सर्वत्र कर्मणि ब्रह्मणि सगुणे निर्गुणे च यज्ज्ञानं तत्र विविधं प्रमाणतः प्रमेयतः प्रयोजनतश्च मूढान् सर्वप्रकारेणायोग्यान्नष्टान् सर्वपुरुषार्थभ्रष्टान् विद्धि जानीहि ॥३२॥

विश्वनाथः विपक्षे दोषमाह ये त्विति ।

बलदेवः विपक्षे दोषमाह ये त्वेतदिति । ये तु नानुतिष्ठन्ति तानचेतसो विवेकशून्यानतएव सर्वस्मिन् कर्मणि ब्रह्मविषये च यज्ज्ञानं तत्र विमूढान्नष्टान् विद्धि ॥३२॥

__________________________________________________________

भगवद्गीता ३.३३

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३३॥

श्रीधरः ननु तर्हि महाफलत्वादिन्द्रियाणि निगृह्य निष्कामाः सन्तः सर्वेऽपि स्वधर्ममेव किं नानुतिष्ठन्ति ? तत्राह सदृशमिति । प्रकृतिः प्राचीनकर्मसंस्काराधीनः स्वभावः । स्वस्याः स्वकीयायाः प्रकृतेः स्वभावस्य सदृशमनुरूपमेव गुणदोषज्ञानवानपि चेष्टते । किं पुनर्वक्तव्यमज्ञश्चेष्टत इति । यस्माद्भूतानि सर्वेऽपि प्राणिनः प्रकृतिं यान्त्यनुवर्तन्ते । एवं च सति इन्द्रियनिग्रहः किं करिष्यति ? प्रकृतेर्बलीयस्त्वादित्यर्थः ॥३३॥

मधुसूदनः ननु राज्ञ इव तव शासनातिक्रमे भयं पश्यन्तः कथमसूयन्तस्तव मतं नानुवर्तन्ते कथं वा सर्वपुरुषार्थसाधने प्रतिकूला भवन्तीत्यत आह सदृशमिति । प्रकृतिर्नाम प्राग्जन्मकृतधर्माधर्मज्ञानेच्छादिसंस्कारो वर्तमानजन्मन्यभिव्यक्तः सर्वतो बलवान् तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च इति श्रुतिप्रमाणकः । तस्याः स्वकीयायाः प्रकृतेः सदृशमनुरूपमेव सर्वो जन्तुर्ज्ञानवान् ब्रह्मविदपि पश्वादिभिश्चाविशेषातिति न्यायात् । गुणदोषज्ञानवान् वा चेष्टते किं पुनर्मूर्खः । तस्माद्भूतानि सर्वे प्राणिनः प्रकृतिं यान्त्यनुवर्तन्ते
पुरुषार्थभ्रंशहेतुभूतामपि । तत्र मम वा राज्ञो वा निग्रहः किं करिष्यति । रागौत्कट्येन दुरितान्निवर्तयितुं न शक्नोतीत्यर्थः । महानरकसाधनत्वं ज्ञात्वापि दुर्वासनाप्राबल्यात्पापेषु प्रवर्तमाना न मच्छ्वासनातिक्रमदोषाद्बिभ्यतीति भावः ॥३.३३॥

विश्वनाथः ननु राज्ञ इव तव परमेश्वरस्य मतमननुतिष्ठन्तो राजकृतादिव त्वकृतान्निग्रहात्किं न विभाति ? सत्यम् । ये खलु इन्द्रियाणि चारयन्तो वर्तन्ते, ते विव्वेकिनोऽपि राज्ञः परमेश्वरस्य च शासनं मन्तुं न शक्नुवन्ति । तथैव तेषां स्वभावोऽभूदित्याह सदृशमिति । ज्ञानवानपि एवं पापे कृते सत्येवं नरको भविष्यत्येवं राजदण्डो भविष्यति । एवं दुर्यशश्च भविष्यतीति विवेकवानपि स्वस्याः प्रकृतेः चिरन्तनपापाभ्यासोत्थदुःखभारस्य सदृशमनुरूपमेव चेष्टते । तस्मात्प्रकृतिं स्वभावं यान्त्यनुसरन्ति । तत्र निग्रहस्तच्छास्त्रद्वारा मत्कृतो राजकृतो
वा तेनाशुद्धचित्तानुक्तलक्षणो निष्कामकर्मयोगः शुद्धचित्तान् ज्ञानयोगश्च संस्कर्तुं प्रबोधयितुं च शक्नोति, न त्वत्यन्ताशुद्धचित्तान्, किन्तु तानपि पापिष्ठस्वभावान् यादृच्छिकमत्कृपोत्थभक्तियोग एव उद्धर्तुं प्रभवेत् । यदुक्तं स्कान्दे

अहो धन्योऽसि देवर्षे कृपया यस्य ते क्षणात् ।
नीचोऽप्युत्पुलको लेभे लुब्धको रतिमुच्यते ॥३३॥

बलदेवः ननु सर्वेश्वरस्य ते मतमतिक्रमतां दण्डः शास्त्रेणोच्यते तस्मात्ते किमु न बिभ्यति इत्याह सदृशमिति । प्रकृतिरनादिकालप्रवृत्त्या स्वदुर्वासना तस्याः स्वीयायाः सदृशमनुरूपमेव ज्ञानवान् शास्त्रोक्तं दण्डं जानन्नपि जनश्चेष्टते प्रवर्तते किमुताज्ञः । ततो भूतानि सर्वे जनाः प्रकृतिं पुरुषार्थविभ्रंशहेतुभूतामपि तां यान्त्यनुसरन्ति । तत्र निग्रहः शास्त्रज्ञानोऽपि दण्डः सत्प्रसङ्गशून्यस्य किं करिष्यति ? दुर्वासनायाः प्राबल्यतां निवर्तयितुं न शक्ष्यतीत्यर्थः । सत्प्रसङ्गसहितस्य तु तां प्रबलामपि निहन्ति सन्त
एवास्य छिन्दन्ति मनोव्यसनमुक्तिभिः [Bह्ড়् ११.२६.२६] इत्यादि स्मृतिभ्यः ॥३३॥

__________________________________________________________

भगवद्गीता ३.३४

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३४॥

श्रीधरः नन्वेवं प्रकृत्यधीनेव चेत्पुरुषस्य प्रवृत्तिस्तर्हि विधिनिषेधशास्त्रस्य वैयर्थ्यं प्राप्तमित्याशङ्क्याह इन्द्रियस्येति । इन्द्रियस्येन्द्रियस्येतिवीप्सया सर्वेषामिन्द्रियाणां प्रत्येकमित्युक्तम् । अर्थे स्वस्वविषयेऽनुकूले रागः प्रतिकूले द्वेष इत्येवं रागद्वेषौ व्यवस्थिताववश्यं भाविनौ । ततश्च तदनुरूपा प्रवृत्तिरिति भूतानां प्रकृतिः । तथापि तयोर्वशवर्ती न भवेदिति शास्त्रेण नियम्यते । हि यस्माद् । अस्य मुमुक्षोस्तौ परिन्पन्थिनौ प्रतिपक्षौ । अयं भावः विषयस्मरणादिना रागद्वेषआवुत्पाद्यानवहितं पुरुषमनर्थेऽतिगम्भीरे
स्रोतसीव प्रकृतिर्बला प्रवर्तयति । शास्त्रं तु ततः प्रागेव विषयेषु रागद्वेषप्रतिबन्धके परमेश्वरभजनादौ तं प्रवर्तयति । ततश्च गम्भीरस्रोतःपातात्पूर्वमेव नावमाश्रित इव नानर्थं प्राप्नोति । तदेवं स्वाभाविकी पश्वादिसदृशीं प्रवृत्तिं त्यक्त्वा धर्मे प्रवर्तितव्यमित्युक्तम् ॥३४॥

मधुसूदनः ननु सर्वस्य प्राणिवर्गस्य प्रकृतिवशवर्तित्वे लौकिकवैदिकपुरुषकारविषयाभावाद्विधिनिषेधार्थक्यं प्राप्तं, न च प्रकृतिशून्यः कश्चिदस्ति यं प्रति तदर्थवत्त्वं स्यादित्यत आह इन्द्रियस्येन्द्रियस्यार्थे इति । इन्द्रियस्येन्द्रियस्येति वीप्सया सर्वेषामिन्द्रियाणामर्थे विषये शब्दे स्पर्शे रूपे गन्धे च । एवं कर्मेन्द्रियविषयेऽपि वचनादावनुकूले शास्त्रनिषिद्धेऽपि रागः प्रतिकूले शास्त्रविहितेऽपि द्वेष इत्येवं प्रतीन्द्रियार्थं रागद्वेषौ व्यवस्थितावानुकूल्यप्रातिकूल्यव्यवस्थया स्थितौ न त्वनियमेन सर्वत्र तौ भवतः । तत्र पुरुषकारस्य शास्त्रस्य चायं
विषयो यत्तयोर्वशं नागच्छेदिति । कथं या हि पुरुषस्य प्रकृतिः सा बलवदनिष्टानुबन्धित्वज्ञानाभावसहकृतेष्टसाधनत्वज्ञाननिबन्धनं रागं पुरस्कृत्यैव शास्त्रनिषिद्धे कलञ्जभक्षणादौ प्रवर्तयति । तथा बलवदनिष्टानुबन्धित्वज्ञानाभावसहकृतेष्टसाधनत्वज्ञाननिबन्धनं रागं पुरस्कृत्यैव शास्त्रनिषिद्धे कलञ्जभक्षणादौ प्रवर्तयति । तत्र शास्त्रेण प्रतिषिद्धस्य बलवदनिष्टानुबन्धित्वे ज्ञापिते सहकार्यभावात्केवलं दृष्टेष्टसाधनताज्ञानं मधुविषसंपृक्तान्नभोजन इव तत्र न रागं
जनयितुं शक्नोति । एवं विहितस्य शास्त्रेण बलवदिष्टानुबन्धित्वे बोधिते सहकार्यभावात्केवलमनिष्टसाधनत्वज्ञानं भोजनादाविव तत्र न द्वेषं जनयितुं शक्नोति । ततश्चाप्रतिबद्धं शास्त्रं विहिते पुरुषं प्रवर्तयति निषिद्धाच्च निवर्तयतीति शास्त्रीयविवेकविज्ञानप्राबल्येन स्वाभाविकरागद्वेषयोः कारणोपमर्देनोपमर्दान्न प्रकृतिर्विपरीतमार्गे पुरुषं शास्त्रदृष्टिं प्रवर्तयितुं शक्नोतीति न शास्त्रस्य पुरुषकारस्य च वैयर्थ्यपोरसङ्गः ।

तयो रागद्वेषयोर्वशं नागच्छेत्तदधीनो न प्रवर्तेत निवर्तेत वा किन्तु शास्त्रीयतद्विपक्षज्ञानेन तत्कारणविघटनद्वारा तौ नाशयेत् । हि यस्मात्तौ रागद्वेषौ स्वाभाविकदोषप्रयुक्तावस्य पुरुषस्य श्रेयोऽर्ह्तिनः परिपन्थिनौ शत्रू श्रेयोमार्गस्य विघ्नकर्तारौ दस्यू इव पथिकस्य । इदं च द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त इत्यादिश्रुतौ स्वाभाविकरागद्वेषनिमित्तशास्त्रविपरीतप्रवृत्तिमसुरत्वेन शास्त्रीयप्रवृत्तिं च देवत्वेन निरूप्य व्याख्यातमतिविस्तरेणेत्युपरम्यते ॥३४॥

विश्वनाथः यस्माद्दुःस्वभावेषु लोकेषु विधिनिषेधशास्त्रं न प्रभवति, तस्माद्यावत्पापाभ्यासोत्थदुःस्वभावो नाभूत्तावद्यथेष्टमिन्द्रियाणि न चारयेदित्याह इन्द्रियसेन्द्रियस्येति वीप्सा प्रत्येकम् । सर्वेन्द्रियाणामर्थे स्वस्वविषये परस्त्रीमात्रगात्रदर्शनस्पर्शनतत्सम्प्रदानकद्रव्यदानादौ शास्त्रनिषिद्धेऽपि रागस्तथा गुरुविप्रतीर्थातिथिदर्शनस्पर्शनपरिचरणतत्सम्प्रदानकधनवितरणादौ शास्त्रविहितेऽपि द्वेष इत्येतौ विशेषणावस्थितौ वर्तेते । तयोर्वशमधीनत्वं न प्राप्नुयात् । यद्वा, इन्द्रियार्थे स्त्रीदर्शनादौ रागस्तत्प्रतिघाते केनचित्कृते सति द्वेष इत्यस्य पुरुषार्थसाधकस्य क्वचित्तु मनोऽनुकूलेऽर्थे सुरसस्निग्धान्नादौ
रागो मनः प्रतिकूलेऽर्थे विरसरुक्षान्नादौ द्वेषस्तथा स्वपुत्रादिदर्शनश्रवणादौ रागो वैरिपुत्रादिदर्शनश्रवणादौ द्वेषः । तयोर्वशं न गच्छेदित्य्व्याचक्षते ॥३४॥

बलदेवः ननु प्रकृत्यधीना चेत्पुंसां प्रवृत्तिस्तर्हि विधिनिषेधशास्त्रे व्यर्थ इति चेत्तत्र्हा इन्द्रियस्येन्द्रियस्येति । वीप्सया सर्वेषामित्युक्तम् । ततश्च ज्ञानेन्द्रियाणां श्रोत्रादीनामर्थे विषये शब्दादौ, कर्मेन्द्रियाणां च वागादीनामर्थे वचनादौ रागः, प्रतिकूले शास्त्रविहितेऽपि सत्सम्भाषणसत्सेवनसत्तीर्थागमनादौ द्वेष इत्येवं रागद्वेषौ व्यवस्थितौ चानुकूल्यप्रातिकूल्ये व्यवस्थया स्थितौ भवतो न त्वनियमेनेत्यर्थः । यद्यपि तदनुगुणा प्राणिनां प्रवृत्तिस्तथापि श्रेयोलिप्सुर्जनस्तयो रागद्वेषयोर्वशं नागच्छेत् । हि यस्मात्तावस्य परिपन्थिनौ विघ्नकर्तारौ भवतः पान्थस्येव दस्यू । एतदुक्तं भवति
अनादिकालप्रवृत्ता हि वासना निष्ठानुबन्धित्वज्ञानाभावसहकृतेनेष्टसाधनत्वज्ञानेन निषिद्धेऽपि परदारसम्भाषणादौ रागमुत्पाद्य पुंसः प्रवर्तयति । तथेष्टसाधनत्वज्ञानाभावसहकृतेनानिष्टसाधनत्वज्ञानेन विहितेऽपि सत्सम्भाषणादौ द्वेषमुत्पाद्य ततस्तान्निवर्तयति । शास्त्रं किल सत्प्रसङ्गश्रुतमनिष्टानुभन्धित्वबोधनेन निषिद्धान्मनोऽनुकूलादपि निवर्तयति द्वेषमुत्पाद्य । इष्टानुबन्धित्वबोधनेन विहिते मनःप्रतिकूलेऽपि रागमुत्पाद्य प्रवर्तयतीति न विधिनिषेधशास्त्रयोर्वैयर्थ्यमिति ॥३४॥

__________________________________________________________

भगवद्गीता ३.३५

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३५॥

श्रीधरः तर्हि स्वधर्मस्य युद्धादेर्दुःखरूपस्य यथावत्कर्तुमशक्यत्वात्परधर्मस्य चाहिंसादेः सुकरत्वाद्धर्मत्वाविशेषाच्च तत्र प्रवर्तितुमिच्छन्तः प्रत्याह श्रेयानिति । किंचिदङ्गहीनोऽपि स्वधर्मः श्रेयान् प्रशस्यतरः । स्वनुष्ठितात्सकलाङ्गसम्पूर्त्या कृतादपि परधर्मात्सकाशात् । तत्र हेतुः स्वधर्मे युद्धादौ प्रवर्तमानस्य निधनं मरणमपि श्रेष्ठं स्वर्गादिप्रापकत्वात् । परधर्मस्तु भयावहो निषिद्धत्वेन नरकप्रापकत्वात् ॥३५॥

मधुसूदनः ननु स्वाभाविकरागद्वेषप्रयुक्तपश्वादिसाधारणप्रवृत्तिप्रहाणेन शास्त्रीयमेव कर्म कर्तव्यं चेत्तर्हि यत्सुकरं भिक्षाशनादि तदेव क्रियतां किमतिदुःखावहेन युद्धेनेत्यत आह श्रेयानिति । श्रेयान् प्रशस्यतरः स्वधर्मो यं वर्णाश्रमं वा प्रति यो विहितः स तस्य स्वधर्मो विगुणोऽपि सर्वाङ्गोपसंहारमन्तरेण कृतोऽपि परधर्मात्स्वं प्रत्यविहितात्स्वनुष्ठितात्सर्वाङ्गोपसंहारेण सम्पादितादपि । न हि वेदातिरिक्तमानगम्यो धर्मः, येन परधर्मेऽप्यनुष्ठेयो धर्मत्वात्स्वधर्मवदित्यनुमानं तत्र मानं स्यात् । चोदनलक्षणोऽर्थो धर्मः
इति न्यायात् । अतः स्वधर्मे किंचिदङ्गहीनेऽपि स्थितस्य निधनं मरणमपि श्रेयः प्रशस्यतरं परधर्मस्थस्य जीवितादपि । स्वधर्मस्थस्य निधनं हीहलोके कीर्त्यावहं परलोके च स्वर्गादिप्रापकम् । परधर्मस्तु इहाकीर्तिकरत्वेन परत्र नरकप्रदत्वेन च भयावहो यतोऽतो रागद्वेषादिप्रयुक्तस्वाभाविकप्रवृत्तिवत्परधर्मोऽपि हेय एवेत्यर्थः ।

एवं तावद्भगवन्मताङ्गीकारिणां श्रेयःप्राप्तिस्तदनङ्गीकारिणां च श्रेयोमार्गभ्रष्टत्वमुक्तम् । श्रेयोमार्गभ्रंशेन फलाभिसन्धिपूर्वककाम्यकर्माचरणे च केवलपापमात्राचरणे च बहूनि कारणानि कथितानि ये त्वेतदभ्यसूयन्त इत्यादिना । तत्रायं सङ्ग्रहश्लोकः

श्रद्धाहानिस्तथासूया दुष्टचित्तत्वमूढते ।
प्रकृतेर्वशवर्तित्वं रागद्वेषौ च पुष्कलौ ।
परधर्मरुचित्वं चेत्युक्ता दुर्मार्गवाहकाः ॥।३५॥

विश्वनाथः ततश्च युद्धरूपस्य यथावद्रागद्वेषादिराहित्येन कर्तुमशक्यत्वात्परधर्मस्य चाहिंसादेः सुकरत्वाद्धर्मत्वाविशेषाच्च तत्र प्रवर्तितुमिच्छन्तं प्रत्याह श्रेयानिति । विगुणः किंचिद्दोषविशिष्टोऽपि सम्यगनुष्ठातुमशक्योऽपि परधर्मात्स्वनुष्ठितात्साध्वेवानुष्ठातुं शक्यादपि सर्वगुणपूर्णादपि सकाशात्श्रेयान् । तत्र हेतुः स्वधर्म इत्यादि ।

विधर्मः परधर्मश्च
आभास उपमा छलः ।
अधर्मशाखाः पञ्चेमा
धर्मज्ञोऽधर्मवत्त्यजेत् ॥ [Bह्ড়् ७.१५.१२] इति सप्तमोक्तेः ॥३५॥

बलदेवः ननु स्वप्रकृतिनिर्मितां रागद्वेषमयीं पश्वादिसाधारणीं प्रवृत्तिं विहाय शास्त्रोक्तेषु धर्मेषु वर्तितव्यमित्युक्तम् । धर्महृद्विशुद्धौ तादृशप्रवृत्तिर्निवर्तेन, धर्माश्च युद्धादिवदहिंसादयोऽपि शास्त्रेणोक्ताः । तस्माद्रागद्वेषराहित्येन कर्तुमशक्याद्युद्धादेरहिंसाशिलोञ्छवृत्तिलक्षणो धर्म उत्तम इति चेत्तत्राह श्रेयानिति ।

यस्य वर्णस्याश्रमस्य च यो धर्मो वेदेन विहितः, स च विगुणः किंचिदङ्गविकलोऽपि स्वनुष्ठिता सर्वाङ्गोपसंहारेणाचरितादपि परधर्मात्श्रेयान् । यथा ब्राह्मणस्याहिंसादिः स्वधर्मः क्षत्रियस्य च युद्धादिः । न हि धर्मो वेदातिरिक्तेन प्रमाणेन गम्यते । चक्षुर्भिन्नेन्द्रियेणेव रूपम् । यथाह जैमिनिः चोदनालक्षणो धर्मः इति । तत्र हेतुः स्वधर्मे निधनं मरणं श्रेयः प्रत्यवायाभावात्परजन्मनि धर्माचरणसम्भवाच्चेष्टसाधकमित्यर्थः । परधर्मस्तु भयावहोऽनिष्टजनकः । तं प्रत्यविहितत्वेन प्रत्यवायसम्भवात् ।
न च परशुरामे विश्वामित्रे चव्यभिचारः । तयोस्तत्तत्कुलोत्पन्नावपि तत्तच्चोरुमहिम्ना तत्कर्मोदयात् । तथापि विगानं कष्टं च तयोः स्मर्यते । अतएव द्रोणादेः क्षात्रधर्मोऽसकृद्विगीतः ।

ननु दैवरात्यादेः क्षत्रियस्य पारिव्राज्यं श्रूयते ततः कथमहिंसादेः परधर्मत्वमिति चेत्सत्यं, पूर्वपूर्वाश्रमधर्मैः क्षीणवासनया पारिव्राज्याधिकारे सति तं प्रत्यहिंसादेः स्वधर्मत्वेन विहितत्वात् । अतएव स्वधर्मे स्थितस्येति योज्यते ॥३५॥

__________________________________________________________

भगवद्गीता ३.३६

अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३६॥

श्रीधरः तयोर्न वशमागच्छेत्[ङीता ३.३४] इत्युक्तम् । तदेतदशक्यं मन्वानोऽर्जुन उवाच अथेति । वृष्णेर्वंशे अवतीर्णो वार्ष्णेयः । हे वार्ष्णेय ! अनर्थरूपं पापं कर्तुमिच्छन्नपि केन प्रयुक्तः प्रेरितोऽयं पुरुषः पापं चरति ? कामक्रोधौ विवेकबलेन निरुद्धतोऽपि पुरुषस्य पुनः पापे प्रवृत्तिदर्शनात् । अन्योऽपि तयोर्मूलभूतः कश्चित्प्रवर्तको भवेदिति सम्भावनया प्रश्नः ॥३६॥

मधुसूदनः तत्र काम्यप्रतिषिद्धकर्मप्रवृत्तिकारणमपनुद्य भगवन्मतमनुवर्तितुं तत्कारणावधारणाय अर्जुन उवाच अथेति । ध्यायतो विषयान् पुंसः इत्यादिना पूर्वमनर्थमूलमुक्तम् । साम्प्रतं च प्रकृतेर्गुणसंमूढा इत्यादिना बहुविस्तरं कथितम् । तत्र किं सर्वाण्यपि समप्राधान्येन कारणानि । अथवैकमेव मुख्यं कारणमितराणि तु तत्सहकारीणि केवलम् । तत्राद्ये सर्वेषां पृथक्पृथङ्निवारणे महान् प्रयासः स्यात् । अन्त्ये त्वेकस्मिन्नेव निराकृते कृतकृत्यता स्यादित्यतो ब्रूहि मे केन हेतुना प्रयुक्तः प्रेरितोऽयं त्वन्मताननुवर्ती सर्वज्ञानविमूढः पुरुषः पापमनर्थानुबन्धि
सर्वं फलाभिसन्धिपुरःसरं काम्यं चित्रादि शत्रुवधसाधनं च श्यनादि प्रतिषिद्धं च कलञ्जभक्षणादि बहुविधं कर्माचरति स्वयं कर्तुमनिच्छन्नपि न तु निवृत्तिलक्षणं परमपुरुषार्थानुबन्धि त्वदुपदिष्टं कर्मेच्छन्नपि करोति । न च पारतन्त्र्यं विनेत्थं सम्भवति । अतो येन बलादिव नियोजितो राज्ञेव भृत्यस्त्वन्मतविरुद्धं सर्वानर्थानुबन्धित्वं जानन्नपि तादृशं कर्माचरति तमनर्थमार्गप्रवर्तकं मां प्रति ब्रूहि ज्ञात्वा समुच्छेदायेत्यर्थः । हे वार्ष्णेय वृष्णिवंशे मन्मातामहकुले
कृपयावतीर्णेति सम्बोधनेन वार्ष्णेयीसुतोऽहं त्वया निपेक्षणीय इति सूचयति ॥३६॥

विश्वनाथः यदुक्तं रागद्वेषौ व्यवस्थिताव्[ङीता ३.३४] इत्यत्र शास्त्रनिषिद्धे ।पीन्द्रियार्थे परस्त्रीसम्भाषणादौ राग इत्यत्र पृच्छति अथेति । केन प्रयोजककर्त्रानिच्छन्नपि विधिनिषेधशास्त्रार्थज्ञानवत्त्वात्पापे प्रवर्तितुमिच्छारहितोऽपि बलादिवेति प्रयोजकप्रेरणवशात्प्रयोज्यस्यापीच्छा सम्यगुत्पद्यते इति भावः ॥३६॥

बलदेवः इन्द्रियस्य इत्यादौ शास्त्रनिषिद्धेऽपि परदारसम्भाषणादौ रागो व्यवस्थित इति यदुक्तं तत्रार्जुनः पृच्छति अथ केनेति । हे वार्ष्णेय वृष्णिवंशोद्भव ! शुभादिभ्यश्चेति प्रयुक्तः प्रेरितः पापं चरति निषेधशास्त्रार्थज्ञानात्तच्चरितमनिच्छन्नपि बलादिवेति । प्रयोजकेच्छापन्नतया प्रयोज्येऽपीच्छा प्रजायते । स किमीश्वरः, पूर्वसंस्कारो वा ? तत्राद्यः साक्षित्वात्कारुणिकत्वाच्च न पापे प्रेरकः । न च परो जडत्वादिति प्रश्नार्थः ॥३६॥

__________________________________________________________

भगवद्गीता ३.३७

श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३७॥

श्रीधरः अत्रोत्तरं श्रीभगवानुवाच काम एष क्रोध एष इति । यस्त्वया पृष्टो हेतुरेव काम एव । ननु क्रोधोऽपि पूर्वं त्वयोक्तमिन्द्रियस्येन्द्रियस्यार्थ इत्यत्र । सत्यम् । नासौ ततः पृथक् । किन्तु क्रोधोऽप्येषः । काम एव हि केनचित्प्रतिहतः क्रोधात्मना परिणमते । पूर्वं पृथक्त्वेनोक्तोऽपि क्रोधकामज एवेत्यभिप्रायेण एकीकृत्योच्यते । रजोगुणात्समुद्भवतीति तथा । अनेन सत्त्ववृद्ध्या रजसि क्षयं नीते सति कामो न जायत इति सूचितम् । एनं काममिह मोक्षमार्गे वैरिणं विद्धि । अयं च वक्ष्यमाणक्रमेण हन्तव्य एव । यतो नासौ दानेन सन्धातुं शक्य इत्याह महाशनः । महदशनं
यस्य सः । दुष्पूर इत्यर्थः । न च साम्ना सन्धातुं शक्यः । यतो महापाप्माऽत्युग्रः ॥३७॥

मधुसूदनः एवमर्जुनेन पृष्टे अथो खल्वाहुः काममय एवायं पुरुष इति, आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय इत्यादिश्रुतिसिद्धमुत्तरं श्रीभगवानुवाच काम इति । यस्त्वया पृष्टो हेतुर्बलादनर्थमार्गे प्रवर्तकः स एष काम एव महान् शत्रुः । यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनाम् ।

ननु क्रोधोऽप्यभिचारादौ प्रवर्तको दृष्ट इत्यत आह क्रोध एषः । काम एव केनचिद्धेतुना प्रतिहतः क्रोधत्वेन परिणमतेऽतः क्रोधोऽप्येष काम एव । एतस्मिन्नेव महावैरिणि निवारिते सर्वपुरुषार्थप्राप्तिरित्यर्थः । तन्निवारणोपायज्ञानाय तत्कारणमाह रजोगुणसमुद्भवः । दुःखप्रवृत्तिबलात्मको रजोगुण एव समुद्भवः कारणं यस्य । अतः कारणानुविधायित्वात्कार्यस्य सोऽपि तथा । यद्यपि तमोगुणोऽपि तस्य कारणं तथापि दुःखे प्रवृत्तौ च रजस एव प्राधान्यात्तस्यैव निर्देशः । एतेन सात्त्विक्या वृत्त्या रजसि क्षीणे सोऽपि क्षीयत इत्युक्तम् ।

अथवा तस्य कथमनर्थमार्गे प्रवर्तकत्वमित्यत आह रजोगुणस्य प्रवृत्त्यादिलक्षणस्य समुद्भवो यस्मात् । कामो हि विषयाभिलाषात्मकः स्वयमुद्भूतो रजः प्रवर्तयन् पुरुषं दुःखात्मके कर्मणि प्रवर्तयति । तेनायमवश्यं हन्तव्य इत्यभिप्रायः ।

ननु सामदानभेददण्डाश्चत्वार उपायास्तत्र प्रथमत्रिकस्यासम्भवे चतुर्थो दण्डः प्रयोक्तव्यो न तु हठादेवेत्याशङ्क्य त्रयाणामसम्भवं वक्तुं विशिनष्टि महाशनो महापाप्मेति । महदशनमस्येति महाशनः ।

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ इति स्मृतेः ।

अतो न दानेन सन्धातुं शक्यः । नापि सामभेदाभ्यां यतो महापाप्मात्युग्रः । तेन हि बलात्प्रेरितोऽनिष्टफलमपि जानन् पापं करोति । अतो विद्धि जानीहि एनं काममिह संसारे वैरिणम् ।

तदेतत्सर्वं विवृतं वार्तिककारैः आत्मैवेदमग्र आसीतिति श्रुतिव्याख्याने

प्रवृत्तौ च निवृत्तौ च यथोक्तस्याधिकारिणः ।
स्वातन्त्र्ये सति संसारसृतौ कस्मात्प्रवर्तते ॥
न तु निःशेषविध्वस्तसंसारानर्थवर्त्मनि ।
निवृत्तिलक्षणे वाच्यं केनायं प्रेर्यतेऽवशः ॥
अनर्थपरिपाकत्वमपि जानन् प्रवर्तते ।
पारतन्त्र्यमृते दृष्टा प्रवृत्तिर्नेदृशी क्वचित् ॥
तस्माच्छ्रेयोर्थिनः पुंसः प्रेरकोऽनिष्टकर्मणि ।
वक्तव्यस्तन्निरासार्थमित्यर्था स्यात्परा श्रुतिः ॥
अनाप्तपुरुषार्थोऽयं निःशेषानर्थसङ्कुलः ।
इत्यकामयतानाप्तान् पुमर्थान् साधनैर्जडः ॥
जिहासति तथानर्थानविद्वानात्मनि श्रितान् ।
अविद्योद्भूतकामः सन्नथो खल्विति च श्रुतिः ॥
अकामतः क्रियाः काश्चिद्दृश्यन्ते नेह कस्यचित् ।
यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ॥
काम एष क्रोध एष इत्यादिवचनं स्मृतेः ।
प्रवर्तको नापरोऽतः कामादन्यः प्रतीयते ॥ इति ।

अकामत इति मनुवचनम् । अन्यत्स्पष्टम् ॥३७॥

विश्वनाथः एष काम एव विषयाभिलाषात्मकः पुरुषं पापे प्रवर्तयति तेनैव प्रयुक्तः पुरुषः पापं चरतीत्यर्थः । एष काम एव पृथक्त्वेन दृश्यमान एष प्रत्यक्षः क्रोधो भवति । काम एव केनचित्प्रतिहतो भूत्वा क्रोधाकारेण परिणमतीत्यर्थः । कामो रजोगुणसमुद्भव इति राजसात्कामादेव तामसः क्रोधो जायते इत्यर्थः । कामस्य अपेक्षितपूरणेन निवृत्तिः स्यादिति चेन्नेत्याह महाशनो महदशनं यस्य सः ।

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ इति स्मृतेः ।

कामस्यापेक्षितं पूरयितुमशक्यमेव । ननु दानेन सन्धातुमशक्यश्चेत्सामभेदाभ्यां स स्ववशीकर्तव्यः । तत्राह महापाप्मात्युग्रः ॥३७॥

बलदेवः तत्राह भगवान् काम इति । कामः प्राक्तनवासनाहेतुकः शब्दादिविषयकोऽभिलाषः पुरुषं पापे प्रेरयति तदनिच्छुमपि सोऽस्य प्रेरक इत्यर्थः । नन्वभिचारादौ क्रोधोऽपि प्रेरको दृष्टः स चेन्द्रियस्येत्यादौभवतापि पृथगुक्त इति चेत्, सत्यम् । न स तस्मात्पृथक्, किन्त्वेष काम एव केनचिच्चेतनेन प्रतिहतः क्रोधो भवति । दुग्धमिवाम्लेन युक्तं दधि । कामजय एव क्रोधजय इति भावः । कीदृशः काम इत्याह रजोगुणेति । सत्त्ववृद्ध्या रजसि निर्जिते कामो निर्जितः स्यादित्यर्थः । न चापेक्षितप्रदानेन कामस्य निवृत्तिरित्याह महाशन इति ।

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ इति स्मरणात् ।

न च साम्ना भेदेन वा स वशीभवेदित्याह महापाप्मेति । योऽत्युग्रो विवेकज्ञानविलोपेन निषिद्धेऽपि प्रवर्तयति तस्मादिह दानयोगे एनं वैरिणं विद्धि तथा च ज्ञानादिभिस्त्रिभिरुपायैः सन्धातुमशक्यत्वाद्वक्ष्यमाणेन दण्डेन स हन्तव्य इति भावः । ईश्वरः कर्मान्तरितः पर्जन्यवत्सर्वत्र प्रेरकः । कामस्तु स्वयमेव पाप्माग्रे इति तथोक्तम् ॥३७॥

__________________________________________________________

भगवद्गीता ३.३८

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३८॥

श्रीधरः कामस्य वैरित्वं दर्शयति धूमेनेति । धूमेन सहजेन यथा वह्निराव्रियत आच्छाद्यते । यथा चादर्शो मलेनागन्तुकेन । यथा चोल्बेन गर्भवेष्टनचर्मणा गर्भः सर्वतो निरुद्ध आवृतः । तथाप्रकारत्रयेणापि तेन कामेनावृतमिदम् ॥३८॥

मधुसूदनः तस्य महापाप्मत्वेन वैर्त्वमेव दृष्टान्तैः स्पष्टयति धूमेनेति । तत्र शरीरारम्भात्प्रागन्तःकरणस्थालब्धवृत्तिकत्वात्सूक्ष्मः कामः शरीरारम्भकेण कर्मणा स्थूलशरीरावच्छिन्ने लब्धवृत्तिकेऽन्तःकरणे कृताभिव्यक्तिः सन् स्थूलो भवति । स एव विषयस्य चिन्त्यमानतावस्थायां पुनः पुनरुद्रिच्यमानः स्थूलतरो भवति । स एव पुनर्विषयस्य भुज्यमानतावस्थायामत्यन्तोद्रेकं प्राप्तः स्थूलतमो भवति । तत्र प्रथमावस्थायां दृष्टान्तः यथा धूमेन सहजेनाप्रकाशात्मकेन प्रकाशात्मको वह्निराव्रियते । द्वितीयावस्थायां दृष्टान्तः
यथादर्शो मलेनासहजेनादर्शोत्पत्त्यनन्तरमुद्रिक्तेन । चकारोऽवान्तरवैधर्म्यसूचनार्थ आव्रियत इति क्रियानुकर्षणार्थश्च । तृतीयावस्थायां दृष्टान्तः यथोल्बेन जरायुणा गर्भवेष्टनचर्मणातिस्थूलेन सर्वतो निरुध्यावृतस्तथा प्रकारत्रयेणापि तेन कामेनेदमावृतम् ।

अत्र धूमेनावृतोऽपि वह्निर्दाहादिलक्षणं स्वकार्यं करोति । मलेनावृतस्त्वादर्शः प्रतिबिम्बग्रहणलक्षणं स्वकार्यं न करोति । स्वच्छताधर्ममात्रतिरोधानात्स्वरूपतस्तूपलभ्यत एव । उल्बेनावृतस्तु गर्भो न हस्तपादादिप्रसारणरूपं स्वकार्यं करोति न वा स्वरूपत उपलभ्यत इति विशेषः ॥३८॥

विश्वनाथः न च कस्यचिदेवायं वैर्यपि तु सर्वस्यैवेति सदृष्टान्तमाह धूमेनेति । कामस्यागाढत्वे गाढत्वेऽतिगाढत्वे च क्रमेण दृष्टान्ताः । धूमेनावृतोऽपि मलिनो वह्निर्दाहादिलक्षणं स्वकार्यं तु करोति । मलेनावृतो दर्पणं तु स्वच्छताधर्मतिरोधानाद्बिम्बग्रहणं स्वकार्यं न करोति स्वरूपतस्तूपलभ्यते । उल्बेन जरायूणावृतो गर्भस्तु स्वकार्यं करचरणादिप्रसारणं न करोति, न वा स्वरूपत उपलभ्यत इति । एवं कामस्यागाढत्वे परमार्थस्मरणं कर्तुं शक्नोति । गाढत्वे न शक्नोतीति गाढत्वे त्वचेतनमेव स्यादिदं जगदेव ॥३८॥

बलदेवः मृदुमध्यतीव्रभावेन त्रिविधस्य कामस्य धूममलोल्बनेति क्रमेण दृष्टान्तानाह धूमेनेत् । यथा धूमेनावृतोऽनुज्ज्वलोऽपि वह्निरौष्णादिकं किंचित्करोति मलेनावृतो दर्पणः स्वच्छतातिरोधानात्प्रतिबिम्बं न शक्नोति ग्रहीतुमुल्बेन जरागुणावृतो गर्भस्तु पादादिप्रसारर्ं न शक्नोति कर्तुं न चोपलभ्यते । तथा मृदुना कामेनावृतं ज्ञानं कथंचित्तत्त्वार्थं ग्रहीतुं शक्नोति मध्येनावृतं न शक्नोति । तीव्रेणावृतं तु प्रसर्तुमपि न शक्नोति, न च प्रतीयत इत्यर्थः ॥३८॥

__________________________________________________________

भगवद्गीता ३.३९

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३९॥

श्रीधरः इदं शब्दनिर्दिष्टं दर्शयन् वैरित्वं स्फुटयति आवृतमिति । इदं विवेकज्ञानमेतेन आवृतम् । अज्ञस्य खलु भोगसमये कामः सुखहेतुरेव । परिणामे तु वैरित्वं प्रतिपद्यते । ज्ञानिनः पुनस्तत्कालमप्यनर्थानुसन्धानाद्दुःखहेतुरेवेति नित्ग्यवैरिणेत्युक्तम् । किं च विषयैः पूर्यमाणोऽपि यो दुष्पूरः । आपूर्यमाणं तु शोकसन्तापहेतुत्वादनलतुल्यः । अनेन सर्वान् प्रति नित्यवैरित्वमुक्तम् ॥३९॥

मधुसूदनः तथा तेनेदमावृतमिति सङ्ग्रहवाक्यं विवृणोत्यावृतमिति । ज्ञायतेऽनेनेति ज्ञानमन्तःकरणं विवेकविज्ञानं वेदशब्दनिर्दिष्टमेतेन कामेनावृतम् । तथाप्यापाततः सुखहेतुत्वादुपादेयः स्यादित्यत आह ज्ञानिनो नित्यवैरिणा । अज्ञो हि विषयभोगकाले कामं मित्रमिव पश्यंस्तत्कार्ये दुःखे प्राप्ते वैरित्वं जानाति कामेनाहं दुःखित्वमापादित इति । ज्ञानी तु भोगकालेऽपि जानात्यनेनाहमनर्थे प्रवेशित इति । अतो विवेकी दुःखी भवति भोगकाले च तत्परिणामे चानेनेति ज्ञानिनोऽसौ नित्यवैरीति सर्वथा तेन हन्तव्य एवेत्यर्थः ।

तर्हि किं स्वरूओऽसावित्यत आह कामरूपेण । काम इच्छा तृष्णा सैव रूपं यस्य तेन । हे कौन्तेयेति सम्बन्धाविष्कारेण प्रेमाणं सूचयति । ननु विवेकिनो हन्तव्योऽप्यविवेकिन उपादेयः स्यादित्यत आह दुष्पूरेणानलेन च । चकार उपमार्थः । न विद्यतेऽलं पर्याप्तिर्यस्येत्यनलो वह्निः । स यथा हविषा पूरयितुमशक्यस्तथायमपि भोगेनेत्यर्थः । अतो निरन्तरं सन्तापहेतुत्वाद्विवेकिन इवाविवेकिनोऽपि हेय एवासौ । तथा च स्मृतिः

न जातु कामः कामानामुपभोगेन शांयति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ [Bह्ড়् ९.१९.१४] इति ।

अथवेच्छाया विषयसिद्धिनिवर्त्यत्वादिच्छारूपः कामो विषयभोगेन स्वयमेव निवर्तिष्यते किं तत्रातिनिर्बन्धेनेत्यत उक्तं दुष्पूरेणानलेन चेति । विषयसिद्ध्या तत्कालमिच्छातिरोधानेऽपि पुनः प्रादुर्भावान्न विषयसिद्धिरिच्छानिवर्तिका । किन्तु विषयदोषदृष्टिरेवतथेति भावः ॥३९॥

विश्वनाथः काम एव हि जीवस्याविद्येत्याह आवृतमिति । नित्यवैरिण्यतोऽसौ सर्वप्रकारेण हन्तव्य इति भावः । कामरूपेण कामाकारेणाज्ञानेनेत्यर्थः । चकार इवार्थे । अनलो यथा हविषा पूरयितुमचक्यस्तथा कामोऽपि भोगेनेत्यर्थः । यदुक्तम्

न जातु कामः कामानामुपभोगेन शांयति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ [Bह्ড়् ९.१९.१४] इति ॥३९॥

बलदेवः उक्तमर्थं स्फुटयति आवृतमिति । अनेन कामरूपेण नित्यवैरिणा ज्ञानिनो जीवस्य ज्ञानमावृतमिति सम्बन्धः । अज्ञस्य विषयभोगसमये सुखत्वात्सुहृदपि कामस्तत्कार्ये दुःखे सति वैर्ः स्याद्विज्ञस्य तु तत्समयेऽपि दुःखानुसन्धानाद्दुःखहेतुरेवेति नित्यवैरिणेत्युक्तिः । तस्मात्सर्वथा हन्तव्य इति भावः । किं च दुष्पूरेणेति । चशब्द इवार्थः । तत्रानलो यथा हविषा पूरयितुमशक्यस्तथा भोगेन काम इत्यर्थः । स्मृतिश्चैवमाह

न जातु कामः कामानामुपभोगेन शांयति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ [Bह्ড়् ९.१९.१४] इति ।

तस्मात्सर्वेषां स नित्यवैरीति ॥३९॥

__________________________________________________________

भगवद्गीता ३.४०

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥४०॥

श्रीधरः इदानीं तस्याधिष्ठानं कथयन् जयोपायमाह इन्द्रियाणीति द्वाभ्याम् । विषयदर्शनश्रवणादिभिः संकल्पेनाध्यवसायेन च कामस्य आविर्भावादिन्द्रियाणि च मनश्च बुद्धिश्चास्याधिष्ठानमुच्यते । एतैरिन्द्रियादिभिर्दर्शनादिव्यापारवद्भिराश्रयभूतैर्विवेकज्ञानमावृत्य देहिनं विमोहयति ॥४०॥

मधुसूदनः ज्ञाते हि शत्रोरधिष्ठाने सुखेन स जेतुं शक्यत इति तदधिष्ठानमाह इन्द्रियाणीति । इन्द्रियाणि शब्दस्पर्शरूपरसगन्धग्राहकाणि श्रोत्रादीनि वचनादानगमनविसर्गानन्दजनकानि वागादीनि च । मनः सङ्कल्पात्मकं बुद्धिरध्यवसायात्मिका च । अस्य कामस्याधिष्ठानमाश्रय उच्यते । यत एतैरिन्द्रियादिभिः स्वस्वव्यापारवद्भिराश्रयैर्विमोहयति विविधं मोहयति एष कामो ज्ञानं विवेकज्ञानमावृत्याच्छाद्य देहिनं देहाभिमानिनम् ॥४०॥

विश्वनाथः क्वासौ तिष्ठत्यत आह इन्द्रियाणीति । अस्य वैरिणः कामस्याधिष्ठानं महादुर्गराजधान्यः । शब्दादयो विषयास्तु तस्य राज्ञो देशा इति भावः । एतैरिन्द्रियादिभिर्देहिनं जीवम् ॥४०॥

बलदेवः वैरिणः कामस्य दुर्गेषु निर्जितेषु तस्य जयः सुकर इति तान्याह इन्द्रियाणीति । विषयश्रवणादिना सङ्कल्पेनाध्यवसायेन च कामस्याभिव्यक्तेः श्रोत्रादीनि च मनश्च बुद्धिश्च तस्याधिष्ठानं महादुर्गराजधानीरूपं भवति विषयास्तु तस्य तस्य जनपदा बोध्याः । एतैर्विषयसंचारिभिरिन्द्रियादिभिर्देहिनं प्रकृतिसृष्टदेहवन्तं जीवमात्मज्ञानोद्यतमेष कामो विमोहयति आत्मज्ञानविमुखं विषयरसप्रवणं च करोतीत्यर्थः ॥४०॥

__________________________________________________________

भगवद्गीता ३.४१

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् ॥४१॥

श्रीधरः यस्मादेवं तस्मादिति । तस्मादादौ विमोहात्पूर्वमेवेन्द्रियाणि मनो बुद्धिं च नियम्य पाप्मानं पापरूपमेनं कामं हि स्फुटं प्रजहि घातय । यद्वा प्रजहिहि परित्यज । ज्ञानमात्मविषयम् । विज्ञानं निदिध्यासनजम् । तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत इति श्रुतेः ॥४१॥

मधुसूदनः यस्मादेवम् । यस्मादिन्द्रियाधिष्ठानः कामो देहिनं मोहयति तस्मात्त्वमादौ मोहनात्पूर्वं कामनिरोधात्पूर्वमिति वा । इन्द्रियाणि श्रोत्रादीनि नियम्य वशीकृत्य । तेषु हि वशीकृतेषु मनोबुद्ध्योरपि वशीकरणं सिध्यति सङ्कल्पाध्यवसाययोर्बाह्येन्द्रियप्रवृत्तिद्वारैवानर्थहेतुत्वात् । अत इन्द्रियाणि मनो बुद्धिरिति पूर्वं पृथङ्निर्दिश्यापीहेन्द्रियाणीत्येतावदुक्तम् । इन्द्रियत्वेन तयोरपि सङ्ग्रहो वा । हे भरतर्षभ महावंशप्रभूतत्वेन समर्थोऽसि । पाप्मानं सर्वपापमूलभूतमेनं कामं वैरिणं प्रजहिहि परित्यज हि स्फुटं प्रजहि प्रकर्षेण मारयेति वा । जहि शत्रुमित्युपसंहाराच्च
। ज्ञानं शास्त्राचार्योपदेशजं परोक्षं विज्ञानमपरोक्षं तत्फलं तयोर्ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोर्नाशनम् ॥४१॥

विश्वनाथः वैरिणः खल्वाश्रये जिते सति वैरी जीयत इति नीतिरतः कामस्याश्रयेष्विन्द्रियादिषु यथोत्तरं दुर्जयत्वाधिक्यम् । अतः प्रथमप्राप्तानीन्द्रियाणि दुर्जयान्यप्युत्तरापेक्षया सुजयानि । प्रथमं ते जीयन्तामित्याह तस्मादिति । इन्द्रियाणि नियम्येन यद्यपि परस्त्रीपरद्रव्याद्यपहरणे दुर्निवारं मनो गच्छत्येव । तदपि तत्र तत्र नेत्रश्रोत्रकरचरणादीन्द्रियव्यापारस्थगणनादिन्द्रियाणि न गमयेत्यर्थः । पाप्मानमत्युग्रं कामं जहीतीन्द्रियव्यापारस्थगणनमतिकालेन मनोऽपि कामाद्विच्युतं भवतीति भावः ॥४१॥

बलदेवः यस्मादयं कामरूपो वैरी निखिलेन्द्रियव्यापारविरतिरूपायात्मज्ञानायोद्यतस्य विषयरसप्रवणैरिन्द्रियैर्ज्ञानमावृणोति तस्मात्प्रकृतिसृष्टदेहादिमांस्त्वमादावात्मज्ञानोदयायारम्भकाल एवेन्द्रियाणि सर्वाणि तद्व्यापाररूपे निष्कामे कर्मयोगे नियम्य प्रवणानि कृत्वा एनं पाप्मानं कामं शत्रुं प्रजहि विनाशय । हि यस्माज्ज्ञानस्य शास्त्रीयस्य देहादिविविक्तात्मविषयकस्य विज्ञानस्य च तादृगात्मानुभवस्य नाशनमावरकम् ॥४१॥

__________________________________________________________

भगवद्गीता ३.४२

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥४२॥

श्रीधरः यत्र चित्तप्रणिधानेन इन्द्रियाणि नियन्तुं शक्यन्ते, तदात्मस्वरूपं देहादिभ्यो विविच्य दर्शयति इन्द्रियाणीति । इन्द्रियाणि देहादिभ्यो ग्राह्येभ्यः पराणि श्रेष्ठान्याहुः सूक्ष्मत्वात्प्रकाशकत्वाच्च । अतएव तद्व्यतिरिक्तत्वमप्यर्थादुक्तं भवति । इन्द्रियेभ्यश्च सङ्कल्पात्मकं मनः परं तत्प्रवर्तकत्वात् । मनसस्तु निश्चयात्मिका बुद्धिः परा । निश्चयपूर्वकत्वात्सङ्कल्पस्य । यस्तु बुद्धेः परतस्तत्साक्षित्वेनावस्थितः सर्वान्तरः स आत्मा । तं विमोहयति देहिनमिति देहिशब्दोक्त आत्मा स इति परामृश्यते ॥४२॥

मधुसूदनः ननु यथा कथंचिद्बाह्येन्द्रियनियमसम्भवेऽप्यान्तरतृष्णात्यागोऽतिदुष्कर इति चेन्, न । रसोऽप्यस्य परं दृष्ट्वा निवर्तते [ङीता २.५९] इत्यत्र परदर्शनस्य रसाभिधानीयकतृष्णात्यागसाधनस्य प्रागुक्तेः । तर्हि कोऽसौ परो यद्दर्शनात्तृष्णानिवृत्तिरित्याशङ्क्य शुद्धमात्मानं परशब्दवाच्यं देहादिभ्यो विविच्य दर्शयति इन्द्रियाणीति । श्रोत्रादीनि ज्ञानेन्द्रियाणि पञ्च स्थूलं जडं परिच्छिन्नं बाह्यं च देहमपेक्ष्य पराणि सूक्ष्मत्वात्प्रकाशकत्वाद्व्यापकत्वादन्तःस्थत्वाच्च प्रकृष्टान्याहुः पण्डिताः श्रुतयो वा । तथेन्द्रियेभ्यः परं
मनः सङ्कल्पविकल्पात्मकं तत्प्रवर्तकत्वात् । तथा मनसस्तु परा बुद्धिरध्यवसायात्मिका । अध्यवसायो हि निश्चयस्तत्पूर्वक एव सङ्कल्पादिर्मनोधर्मः । यस्तु बुद्धेः परतस्तद्भासकत्वेनावस्थितो यं देहिनमिन्द्रियादिभिराश्रयैर्युक्तः कामो ज्ञानावरणद्वारेण मोहयतीत्युक्तं स बुद्धेर्द्रष्टा पर आत्मा । स एष इह प्रविष्टः इतिवद्द्व्यवहितस्यापि देहिनस्तदा परामर्शः । अत्रार्थे श्रुतिः

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ [Kअठू १.३.१०११] इति ।

अत्रात्मनः परत्वस्यैव वाक्यतात्पर्यविषयत्वादिन्द्रियादिपरत्वस्याविवक्षितत्वादिन्द्रियेभ्यः परा अर्था इति स्थानेऽर्थेभ्यः पराणीन्द्रियाणीति विवक्षाभेदेन भगवदुक्तं न विरुध्यते । बुद्धेरस्मदादिव्यष्टिबुद्धेः सकाशान्महानात्मा समष्टिबुद्धिरूपः परः मनो महान्मतिर्ब्रह्म पूर्बुद्धिः ख्यातिरीश्वरः इति वायुपुराणवचनात् । महतो हैरण्यगर्भ्या बुद्धेः परमव्यक्तमव्याकृतं सर्वजगद्बीजं मायाख्यं मायां तु प्रकृतिं विद्यादिति श्रुतेः । तद्धेदं तर्ह्यव्याकृतमासीतिति च । अव्यक्तात्सकाशात्सकलजडवर्गप्रकाशकः
पुरुषः पूर्ण आत्मा परः । तस्मादपि कश्चिदन्यः परः स्यादित्यत आह पुरुषान्न परं किंचिदिति । कुत एवं यस्मात्सा काष्ठा समाप्तिः सर्वाधिष्ठानत्वात् । सा परा गतिः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदमित्यादिश्रुतिप्रसिद्धा परा गतिरपि सैवेत्यर्थः । तदेतत्सर्वं यो बुद्धेः परतस्तु स इत्यनेनोक्तम् ॥४२॥

विश्वनाथः न च प्रथममेव मनोबुद्धिजये यतनीयमशक्यत्वादित्याह इन्द्रियाणि पराणीति । दशदिग्विजयिभिरपि वीरैर्दुर्जयत्वादतिबलत्वेन श्रेष्ठानीत्यर्थः । इन्द्रियेभ्यः सकाशादपि प्रबलत्वान्मनः परम् । स्वप्ने खल्विन्द्रियेष्वपि नष्टेष्वनश्वरत्वादिति भावः । मनसः सकाशादपि परा प्रबला बुद्धिर्विज्ञानरूपा । सुषुप्तौ मनस्यपि नष्टे तस्याः सामान्याकाराया अनश्वरात्वादिति भावः । तस्य बुद्धेः सकाशादपि परतो बलाधिक्येन यो वर्तते, तwस्यामपि ज्ञानाभ्यासेन नष्टायां सत्यां यो विराजत इत्यर्थः । स तु प्रसिद्धो जीवात्मा कामस्य जेता । तेन वस्तुतः सर्वतो
ऽप्यतिप्रबलेन जीवात्मना इन्द्रियादीन् विजित्य कामो विजेतुं शक्य एवेति नात्रासम्भावना कार्येति भावः ॥४२॥

बलदेवः ननु मुद्रितयन्त्राम्बुन्यायेन निष्कामकर्मप्रवणतयेन्द्रियनियमने कामक्षतिरिति त्वया प्रदर्शितम् । अथ दैहिककर्मकाले मुक्तयन्त्राम्बुन्यायेनेन्द्रियवृत्तिप्रसारे कामस्य पुनरुज्जीवतापत्तिः स्यादिति तत्र रसोऽप्यस्य परं दृष्ट्वा [ङीता २.५९] इति पूर्वोपदिष्टेन विविक्तात्मानुभवेन निःशेषा तस्य क्षतिः स्यादिति दर्शयति इन्द्रियाणीति द्वाभ्याम् ।

पाञ्चभौतिकाद्देहादिन्द्रियाणि पराण्याहुर्पण्डिताः । तच्चालीकत्वात्ततोऽतिसूक्ष्मत्वात्तद्विनाशेऽविनाशाच्च । इन्द्रियेभ्यः मनः परं जागरे तेषां प्रवर्तकत्वात्स्वप्ने तेषु स्वस्मिन् विलीनेषु राज्यकर्तृत्वेन स्थितत्वाच्च । मनसस्तु बुद्धिः परा, निश्चयात्मकबुद्धिवृत्त्यैव सङ्कल्पात्मकमनोवृत्तेः प्रसरात् । यस्तु बुद्धेरपि परतोऽस्ति, स देही जीवात्मा चित्स्वरूपो देहादिबुद्ध्यन्तर्विविक्तयानुभूतः सन्निःशेषकामक्षतिहेतुर्भवतीति । कठाश्चैवं पठन्ति

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ इत्यादि ।

अस्यार्थः इन्द्रियेभ्योऽर्था विषयास्तदाकर्सिक्तत्वात्पराः प्रधानभूताः । विषयेन्द्रियव्यवहारस्य मनोमूलत्वादर्थेभ्यो मनः परं विषयभोगस्य निश्चयपूर्वकत्वात्संशयात्मकान्मनसो मनः परं विषयभोगस्य निश्चयपूर्वकत्वात्संशयात्मकान्मनसो निश्चयात्मिका बुद्धिः परा बुद्धेर्भोगोपकरणत्वात्तस्याः सकाशाद्भोक्तात्मा जीवः परः स चात्मा महान् देहेन्द्रियान्तःकरणस्वामीति दैहिकं कर्म तु पूर्वाभ्यासवशाच्चक्रभ्रमित्वत्सेत्स्यति ॥४२॥

__________________________________________________________

भगवद्गीता ३.४३

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥४३॥

श्रीधरः उपसंहरति एवमिति । बुद्धेरेव विषयेन्द्रियादिजन्याः कामादिविक्रियाः । आत्मा तु निर्विकारस्तत्साक्षीत्येवं बुद्धेः परमात्मानं बुद्ध्वात्मनैवं तृतया निश्चियात्मिकया बुद्ध्यात्मानं मनः संस्तभ्य निश्चलं कृत्वा कामरूपिणं शत्रुं जहि मारय । दुरासदं दुःखेनासादनीयं दुर्विज्ञेयमित्यर्थः ॥४३॥

स्वधर्मेण यमाराध्य भक्त्या मुक्तिमिता बुधाः ।
तत्कृष्णं परमानन्दं तोषयेत्सर्वकर्मभिः ॥

इति श्रीधरस्वामिकृतायां भगवद्गीताटीकायां सुबोधिन्यां
कर्मयोगो नाम तृतीयोऽध्यायः ॥३॥

मधुसूदनः फलितमाह एवमिति । रसोऽप्यस्य परं दृष्ट्वा निवर्तते इत्यत्र यः परशब्देनोक्तस्तमेवम्भूतं पूर्णमात्मानं बुद्धेः परं बुद्ध्वा साक्षात्कृत्य संस्तभ्य स्थिरीत्कृत्यात्मानं मन आत्मनैतादृशनिश्चयात्म्किअया बुद्ध्या जहि मारय शत्रुं सर्वपुरुषार्थशातनं हे महाबाहो महाबाहोर्हि शत्रुमारणं सुकरमिति योग्यं सम्बोधनम् । कामरूपं तृष्णारूपं दुरासदं दुःखेनासादनीयं दुर्विज्ञेयानेकविशेषमिति यत्नाधिक्याय विशेषणम् ॥४३॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां कर्मयोगो नाम
तृतीयोऽध्यायः ॥३॥

विश्वनाथः उपसंहरति एवमिति । बुद्धेः परं जीवात्मानं बुद्ध्वा सर्वोपाधिभ्यः पृथक्भूतं ज्ञात्वा आत्मना स्वेनैवामानं स्वं संस्तभ्य निश्चलं कृत्वा दुरासदं दुर्जयमपि कामं जहि नाशय ॥४३॥

अध्यायेऽस्मिन् साधनस्य निष्कामस्यैव कर्मणः ।
प्राधान्यमूचे तत्साध्यज्ञानस्य गुणतां वदन् ॥
इति सारार्थदर्शिन्यां हर्षिण्यां भक्तचेतसाम् ।
तृतीयः खलु गीतासु सङ्गतः सङ्गतः सताम् ॥

॥३॥

बलदेवः एवमिति । एवं मदुपदेशविधया बुद्धेश्च परं देहादिनिखिलजडवर्गप्रवर्तकत्वाद्विविक्तं सुखचिद्घनं जीवात्मानं बुद्ध्वानुभूयेत्यर्थः । आत्मना ईदृशनिश्चयात्मिकया बुद्ध्यात्मानं मनः संस्तभ्य तादृश्यात्मनि स्थिरं कृत्वा कामरूपं शत्रुं जहि नाशय । दुरासदं दुर्धर्षमपि । महाबाहो इति प्राग्वत् ॥४३॥

निष्कामं कर्म मुख्यं स्याद्गौणं ज्ञानं तदुद्भवम् ।
जीवात्मदृष्टावित्येष तृतीयोऽध्यायनिर्णयः ॥

इति श्रीमद्भगवद्गीतोपनिषद्भाष्ये तृतीयोऽध्यायः
॥३॥

तृतीयोऽध्यायः कर्मयोगः

**********************************************************

Bहगवद्गित ४

भगवद्गीता ४.१

श्रीभगवानुवाच
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥१॥

श्रीधरः
आविर्भावतिरोभावावाविष्कर्तुं स्वयं हरिः ।
तत्त्वं पदविवेकार्थं कर्मयोगं प्रशंसति ॥

एवं तावदध्यायद्वयेन कर्मयोगोपायकज्ञानयोगो मोक्षसाधनत्वेनोक्तः । तदेवं ब्रह्मार्पणादिगुणविधानेन तत्त्वं पदार्थविवेकादिना च प्रपञ्चिष्यन् प्रथमं तावत्परस्पराप्राप्तत्वेन स्तुवन् भगवानुवाच इममिति त्रिभिः । अव्ययफलत्वादव्ययम् । इमं योगं पुराहं विवस्वत आदित्याय कथितवान् । स च स्वपुत्राय मनवे श्राद्धदेवाय । स च मनुः स्वपुत्रायेक्ष्वाकवेऽब्रवीत् ॥१॥

मधुसूदनः यद्यपि पूर्वमुपेयत्वेन ज्ञानयोगस्तदुपायत्वेन च कर्मयोग इति द्वौ योगौ कथितौ तथापि एकं साङ्ख्यं च योगं च पश्यति स पश्यति [ङीता ५.६] इत्यनया दिशा साध्यसाधनयोः फलैक्यादैक्यमुपचर्य साधनभूतं कर्मयोगं साध्यभूतं च ज्ञानयोगमनेकविधगुणविधानाय स्तौति वंशकथनेन भगवान् ।

इममध्यायद्वयेनोक्तं योगं ज्ञाननिष्ठालक्षणं कर्मनिष्ठोपायलभ्यं विवस्वते सर्वक्षत्रियवंशबीजभूतायादित्याय प्रोक्तवान् प्रकर्षेण सर्वसन्देहोच्छेदादिरूपेणोक्तवानहं भगवान् वासुदेवः सर्वजगत्परिपालकः सर्गादिकाले राज्ञां बलाधानेन तदधीनं सर्वं जगत्पालयितुम् । कथमनेन बलाधानमिति विशेषेणेन दर्शयति अव्ययमव्ययवेदमूलत्वादव्ययफलत्वाच्च न व्येति स्वफलादित्यव्ययमव्यभिचारिफलम् । तथा चैतादृशेन बलाधानं शक्यमिति भावः ।

स च मम शिष्यो विवस्वान्मनवे वैवस्वताय स्वपुत्राय प्राह । स च मनुरिक्ष्वाकवे स्वपुत्रायादिराजायाब्रवीत् । यद्यपि प्रति मन्वन्तरं स्वायम्भुवादिसाधारणोऽयं भागवदुप्देशस्तथापि साम्प्रतिकवैवस्वतमन्वन्तराभिप्रायेणादित्यमारभ्य सम्प्रदायो गणितः ॥१॥

विश्वनाथः
तुर्ये स्वाविर्भावहेतोर्नित्यत्वं जन्मकर्मणोः ।
स्वस्योक्तिं ब्रह्मयज्ञादिज्ञानोत्कर्षप्रपञ्चम् ॥

अध्यायद्वयेनोक्तं निष्कामकर्मसाध्यं ज्ञानयोगं स्तौति इममिति ॥१॥

बलदेवः
तुर्ये स्वाभिव्यक्तिहेतुं स्वलीला
नित्यत्वं सत्कर्मसु ज्ञानयोगम् ।
ज्ञानस्यापि प्राय्यन्माहात्म्यमुच्चैः
प्राख्यद्देवो देवकीनन्दनोऽसौ ॥

पूर्वाध्यायाभ्यामुक्तं ज्ञानयोगं कर्मयोगं चैकफलत्वादेकीकृत्य तद्वंशं कीर्तयन् स्तौति इममिति । इमं त्वां सूर्यायाहं प्रोक्तवान् । अव्ययं नित्यं वेदार्तह्त्वान्नवेयेति स्वफलादित्यव्यभिचारिफलत्वाच्च । स च मच्छिष्यो विवस्वान् स्वपुत्राय मनवे वैवस्वताय प्राह । स च मनुरिक्ष्वाकवे स्वपुत्रायाब्रवीत् ॥१॥

__________________________________________________________

भगवद्गीता ४.२

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥२॥

श्रीधरः एवमिति । एवं राजानश्च ते ऋषयश्चेति । अन्येऽपि राजर्षयो निमिप्रमुखाः । स्वपित्रादिभिरिक्ष्वाकुप्रमुखैः प्रोत्कमिमं योगं विदुर्जानन्ति स्म । अद्यतनानामज्ञाने कारणमाह हे परन्तप शत्रुपातन ! स योगः कालवशादिह लोके नष्टो विच्छिन्नः ॥२॥

मधुसूदनः एवमादित्यमारभ्य गुरुशिष्यपरम्परया प्राप्तमिमं योगं राजानश्च त ऋषयश्चेति राजर्षयः प्रभुत्वे सति सूक्ष्मार्थनिरीक्षणक्षमा निमिप्रमुखाः स्वपित्रादिप्रोक्तं विदुः । तस्मादनादिवेदमूलत्वेनानन्तफलत्वेनानादिगुरुशिष्यपरम्पराप्राप्तत्वेन च कृत्रिमत्वशङ्कानास्पदत्वान्महाप्रभावोऽयं योग इति श्रद्धातिशयाय स्तूयते ।

स एवं महाप्रयोजनोऽपि योगः कालेन महता दीर्घेण धर्मह्रासकरेणेहेदानीमावयोर्व्यवहारकाले द्वापरान्ते दुर्बलानजितेन्द्रियाननधिकारिणः प्राप्य कामक्रोधादिभिरभिभूयमानो नष्टो विच्छिन्नसम्प्रदायो जातः । तं विना पुरुषार्थाप्राप्तेरहो दौर्भाग्यं लोकस्येति शोचति भगवान् । हे परन्तप ! परं कामक्रोधादिरूपं शत्रुगणं शौर्येण बलवता विवेकेन तपसा च भानुरिव तापयतीति परन्तपः शत्रुतापनो जितेन्द्रिय इत्यर्थः । उर्वश्युपेक्षणाद्यद्भुतकर्मदर्शनात् । तस्मात्त्वं जितेन्द्रियत्वादत्राधिकारीति सूचयति ॥२॥

विश्वनाथः णोथिन्ग्.

बलदेवः एवं विवस्वन्तमारभ्य गुरुशिष्यपरम्परया प्राप्तमिइमं योगं राजर्षयः स्वपित्रादिभिरिक्ष्वाकुप्रभृतिभिरुपदिष्टं विदुः । इह लोके नष्टो विच्छिन्नसम्प्रदायः ॥२॥

__________________________________________________________

भगवद्गीता ४.३

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥३॥

श्रीधरः स एवायमिति । स एवायं योगोऽद्य विच्छिन्ने सम्प्रदाये सति पुनश्च ते तुभ्यमुक्तः । यतस्त्वं मम भक्तोऽसि सखा च । अन्यस्मै मया नोच्यते । हि यस्मादेतदुत्तमं रहस्यम् ॥३॥

मधुसूदनः य एवं पूर्वमुपदिष्टोऽप्यधिकार्यभावाद्विच्छिन्नसम्प्रदायोऽभूत् । यं विना च पुरुषार्थो न लभ्यते । स एवायं पुरातनोऽनादिगुरुपरम्परागतो योगोऽद्य सम्प्रदायविच्छेदकाले मयातिस्निग्धेन ते तुभ्यं प्रकर्षेणोक्तः । न त्वन्यस्मै कस्मैचित् । कस्मात्? भक्तोऽसि मे सखा चेति । इतिशब्दो हेतौ । यस्मात्त्वं मम भक्तः शरणागतत्वे सत्यत्यन्तप्रीतिमान् सखा च समानवयाः स्निग्धसहायोऽसि सर्वदा भवसि अतस्तुभ्यमुक्त इत्यर्थः अन्यस्मै कुतो नोच्यते तत्राह । हि यस्मादेतज्ज्ञानमुत्तमं रहस्यमतिगोप्यम् ॥३॥

विश्वनाथः त्वां प्रत्येवास्य प्रोक्तत्वे हेतुः भक्तो दासः सखा चेति भावद्वयम् । अन्यस्तु अर्वाचीनं प्रत्येव अवक्तव्यत्वे हेतू रहस्यमिति ॥३॥

बलदेवः स एव तदानुपूर्विकवचनवाच्यो योगो मया त्वत्सखेनातिस्निग्धेन ते तुभ्यं मत्सखायेति स्निग्धाय प्रोक्तस्त्वं मे भक्तः प्रपन्नः सखा चासीति हेतोर्न त्वन्यस्मै कस्मैचित् । तत्र हेतुः रहस्यमिति । हि यस्मादुत्तमं रहस्यमिति गोप्यमेतत् ॥३॥

__________________________________________________________

भगवद्गीता ४.४

अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४॥

श्रीधरः भगवतो विवस्वन्तं प्रति योगोपदेशासम्भवं पश्यन्नर्जुन उवाच अपरमिति । अपरमर्वाचीनं तव जन्म । परं प्राक्कालीनं विवस्वतो जन्म । तस्मात्तवाधुनातनत्वात्चिरन्तनाय विवस्वते त्वमादौ योगं प्रोक्तवानिति एतत्कथमहं जानीयां ज्ञातुं शक्नुयाम् ॥४॥

मधुसूदनः या भगवति वासुदेवे मनुष्यत्वेनासर्वज्ञत्वानित्यत्वाशङ्का मूर्खाणां तामपनेतुमनुवदन्नर्जुन आशङ्कते अपरमिति । अपरमल्पकालीनमिदानन्तनं वसुदेवगृहे भवतो जन्म शरीरग्रहणं विहीनं च मनुष्यत्वात् । परं बहुकालीनं सर्गादिभवमुत्कृष्टं च देवत्वात्, विवस्वतो जन्म । अत्रात्मनो जन्माभावस्य प्राग्व्युत्पादितत्वाद्देहाभिप्रायेणैवार्जुनस्य प्रश्नः । अतः कथमेतद्विजानीयामविरुद्धार्थतया । एतच्छब्दार्थमेव विवृणोति । त्वमादौ योगं प्रोक्तवानिति । त्वमिदानींतनो मनुष्योऽसर्वज्ञः सर्गादौ पूर्वतनाय सर्वज्ञायादित्याय प्रोक्तवानिति विरुद्धार्थमेतदिति भावः ।

अत्रायं निर्गलितोऽर्थः । एतद्देहानवच्छिन्नस्य तव देहान्तरावच्छेदेन वादित्यं प्रत्युपदेष्टृत्वमेतद्देहेन वा । नाद्यः । जन्मान्तरानुभूतस्यासर्वज्ञेन स्मर्तुमशक्यत्वात् । अन्यथा ममापि जन्मान्तरानुभूतस्मरणप्रसङ्गः । तव मम च मनुष्यत्वेनासर्वज्ञत्वाविशेषात् । तदुक्तमभियुक्तैः जन्मान्तरानुभूतं च न स्मर्यते इति । नापि द्वितीयः सर्गादाविदानींतनस्य देहस्यासद्भावात् । तदेवं देहान्तरेण सर्गादौ सद्भावानुपप्पत्तिरित्यसर्वज्ञत्वानित्यत्वाभ्यां द्वावर्जुनस्य पूर्वपक्षौ ॥४॥

विश्वनाथः उक्तमर्थमसम्भवं पृच्छति अपरमिदानीन्तनम् । परं पुरातनमतः कथमेतत्प्रत्येमीति भावः ॥४॥

बलदेवः कृष्णस्य सनातनत्वे सार्वज्ञे च शङ्कमानाननभिज्ञान्निराकर्तुमर्जुन उवाच अपरमिति । अपरमर्वाचीनं परं पराचीनं तस्मादाधुनिकस्त्वं प्राचीनाय विवस्वते योगमुक्तवानित्येतत्कथमहं विजानीयां प्रतीयाम् । अयमर्थः न खलु सर्वेश्वरत्वेन कृष्णमर्जुनो न वेत्ति तस्य नराख्यतदवतारत्वेन ताद्रूप्यात्, परं धाम परं धाम इत्यादि तदुक्तेश्च । न त्वतत्सर्वज्ञविषयामज्ञशङ्कामपाकर्तुमपरमित्यादि पृच्छति । सर्वेश्वरः स यथा स्वतत्त्वं वेत्ति न तथान्यः । ततस्तन्मुखाम्बुजादेव तद्रूपतज्जन्मादि पर्काशनीयं लोकमङ्गलाय । तदर्थं स्वमहिमानं प्रवदन्
विकत्थनतया स नाक्षेप्यः, किन्तु स्तवनीय एव कृपालुतया । तच्च मनुषाकृतिपरब्रह्मणस्तव रूपं जन्मादि च लोकविलक्षणं किंविधं किमर्थकं किंकालमिति विज्ञस्याप्याज्ञवत्प्रश्नोऽयमज्ञशङ्कानिरासकप्रतिवचनार्थः ॥४॥

__________________________________________________________

भगवद्गीता ४.५

श्रीभगवानुवाच
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥५॥

श्रीधरः रूपान्तरेणोपदिष्टवानित्यभिप्रायेणोत्तरं श्रीभगवानुवाच बहूनीति । तान्यहं वेद वेद्मि । अलुप्तविद्याशक्तित्वात् । त्वं तु न वेत्थ न वेत्सि अविद्यावृत्तत्वात् ॥५॥

मधुसूदनः तत्र सर्वज्ञत्वेन प्रथमस्य परिहारमाह बहूनीति । जन्मानि लीलादेहग्रहणानि लोकदृष्ट्यभिप्रायेणादित्यस्योदयवन्मे मम बहूनि व्यतीतानि तव चाज्ञानिनः कर्मार्जितानि देहग्रहणानि । तव चेत्युपलक्षणमितरेषामपि जीवानां, जीवैक्याभिप्रायेण वा । हेऽर्जुन ! श्लोकेनार्जुनवृक्षनाम्ना सम्बोधयन्नावृतज्ञानत्वं सूचयति । तानि जन्मान्यहं सर्वज्ञः सर्वशक्तिरीश्वरो वेद जानामि सर्वाणि मदीयानि त्वदीयान्यन्यदीयानि च । न त्वमज्ञो जीवस्तिरोभूतज्ञानशक्तिर्वेत्थ न जानासि स्वीयान्यपि किं पुनः परकीयाणि । हे परन्तप ! परं शत्रुं भेददृष्ट्या परिकल्प्य हन्तुं प्रवृत्तोऽसीति विपरीतदर्शितत्वाद्भ्रान्तोऽसीति सूचयति
। तदनेन सम्बोधनद्वयेनावरणविक्षेपौ द्वावप्यज्ञानधर्मौ दर्शितौ ॥५॥

विश्वनाथः अवतारान्तरेणोपदिष्टवानित्यभिप्रायेणाह बहूनीति । तव चेति यदा यदैव ममावतारस्तदा मत्पार्षदत्वात्तवाप्याविर्भावोऽभूदेवेत्यर्थः । वेद वेद्मि सर्वेश्वरत्वेन सर्वज्ञत्वात् । त्वं न वेत्थ मयैव स्वलीलासिद्ध्यर्थं त्वज्ज्ञानावरणादिति भावः । अतएव हे परन्तप ! साम्प्रतिककुन्तीपुत्रत्वाभिमानमात्रेणैव परान् शत्रूंस्तापयसि ॥५॥

बलदेवः एक एवाहं एकोऽपि सन् बहुधा योऽवभाति इत्यादि श्रुत्युक्तानि नित्यसिद्धानि बहूनि रूपाणि वैदूर्यवदात्मनि दधानः पुरा रूपान्तरेण तं प्रत्युपदिष्टवानिति भावेनाह भगवान् बहूनीति । तव चेति मत्सखत्वात्तावन्ति जन्मानि तवाप्यभूवन्नित्यर्थः । न त्वं वेत्थेति । इदानीं मयैवाचिन्त्यशक्त्या स्वलीलासिद्धये त्वज्ज्ञानाच्छादनादिति भावः । एतेन सार्वज्ञ्यं स्वस्य दर्शितम् । अत्र भगवज्जन्मनां वास्तवत्वं बोध्यम् । बहूनीत्यादि श्रीमुखोक्तेस्तव चेति दृष्टान्ताच्च । न च जन्माख्यो विकारस्तस्याग्रिमव्याख्यया प्रत्याख्यानात् ॥५॥

__________________________________________________________

भगवद्गीता ४.६

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥६॥

श्रीधरः ननु अनादेस्तव कुतो जन्म ? अविनाशिनश्च कथं पुनर्जन्म येन बहूनि मे व्यतीतानित्युच्यते । ईश्वरस्य तव पुण्यपापविहीनस्य कथं जीववज्जन्मेति ? अत आह अजोऽपीति । सत्यमेवम् । तथापि अजोऽपि जन्मशून्योऽपि सन्नहम् । तथाव्ययात्माप्यनश्वरस्वभावोऽपि सन् । तथा ईश्वरोऽपि कर्मपारतन्त्र्यरहितोऽपि सन् । स्वमायया सम्भवामि सम्यगप्रच्युतज्ञानबलवीर्यादिशक्त्यैव भवामि ।

ननु तथापि षोडशकलातम्कलिङ्गदेहशून्यस्य च तव कुतो जन्मेति ? अत उक्तं स्वां शुद्धसत्त्वात्मिकां प्रकृतिं अधिष्ठाय स्वीकृत्य । विशुद्धोर्जितसत्त्वमूर्त्या स्वेच्छयावतरामीत्यर्थः ॥६॥

मधुसूदनः नन्वतीतानेकजन्मवत्त्वमात्मनः स्मरसि चेत्तर्हि जातिस्मरो जीवस्त्वं परजन्मज्ञानमपि योगिनः सार्वात्म्याभिमानेन शास्त्रदृष्ट्या तूपदेशो वामदेववत्[Vस्१.१.३०] इति न्यायेन सम्भवति । तथा चाह वामदेवो जीवोऽपि अहं मनुरभवं सूर्यश्चाहं कक्षीवानृपिरस्मि विप्रःित्यादि दाशतय्याम् । अतएव न मुख्यः सर्वज्ञस्त्वम् । तथा च कथमादित्यं सर्वज्ञमुपदिष्टवानस्यनीश्वरः सन् । न हि जीवस्य मुख्यं सार्वज्ञ्यं सम्भवति व्यष्ट्युपाधेः परिच्छिन्नत्वेन सर्वसम्बन्धित्वाभावात् । समष्ट्युपाधेरपि विराजः स्थूलभूतोपाधित्वेन
सूक्ष्मभूतपरिणामविषयं मायापरिणामविषयं च ज्ञानं न सम्भवति । एवं सूक्ष्मभूतोपाधेरपि हिरण्यगर्भस्य तत्कारणमायापरिणामाकाशादिसर्गक्रमादिविषयज्ञानाभावः सिद्ध एव । तस्मादीश्वर एव कारणोपादित्वादतीतानागतवर्तमानसर्वार्थविषयज्ञानवान्मुख्यः सर्वज्ञः । अतीतानागतवर्तमानविषयं मायावृत्तित्रयमेकैव वा सर्वविषया मायावृत्तिरित्यन्यत् । तस्य च नित्येश्वरस्य सर्वज्ञस्य धर्माधर्माद्यभावेन जन्मैवानुपपन्नमतीतानेकजन्मवत्त्वं तु दूरोत्सारितमेव । तथा च जीवत्वे सार्वज्ञ्यानुपपत्तिरीश्वरत्वे च देहग्रहणानुपपत्तिरिति शङ्काद्वयं परिहरन्ननित्यत्वपक्षस्यापि
परिहारमाह अजोऽपीति ।

अपूर्वदेहेन्द्रियादिग्रहणं जन्म । पूर्वघीतदेहेन्द्रियादिवियोगो व्ययः । यदुभयं तार्किकैः प्रेत्यभाव इत्युच्यते । तदुक्तं जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च [ङीता २.२७] इति । तदुभयं च धर्माधर्मवशाद्भवति । धर्माधर्मवशत्वं चाज्ञस्य जीवसय देहाभिमानिनः कर्माधिकारित्वाद्भवति । तत्र यदुच्यते सर्वज्ञस्येश्वरस्य सर्वकारणस्येदृग्देहग्रहणं नोपपद्यत इति तत्तथैव । कथम् ? यदि तस्य शरीरं स्थूलभूतकार्यं स्यात्तदा व्यष्टिरूपत्वे जाग्रदवस्थास्मदादितुल्यत्वम् । समष्टिरूपत्वे च विराड्जीवत्वं तस्य तदुपाधित्वात् । अथ सूक्ष्मभूतकार्यं तदा व्यष्टिरूपत्वे स्वप्नावस्थास्मदादितुल्यत्वम्
। समष्टिरूपत्वे च हिरण्यगर्भजीवत्वं तस्य तदुपाधित्वात् । तथा च भौतिकं शरीरं जीवानाविष्टं परमेश्वरस्य न सम्भवत्येवेति सिद्धम् । न च जीवाविष्ट एव तादृशे शरीरे तस्य भूतावेशवत्प्रवेश इति वाच्यम् । तच्छरीरावच्छेदेन तज्जीवस्य भोगाभ्युपगमेऽन्तर्यामिरूपेण सर्वशरीरप्रवेशस्य विद्यमानत्वेन शरीरविशेषाभ्युपगमवैयर्थ्यात् । भोगाभावे च जीवशरीरत्वानुपपत्तेः । अतो न भौतिकं शरीरमीश्वरस्येति पूर्वार्धेनाङ्गीकरोति अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽ